भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

पादने शास्त्रशब्दवाच्यत्वबाधः१ ।

५९० मीमांसादर्शनम् [ सू० वाक्यशेषाणाञ्च शास्त्रगतानामर्थतत्त्वप्रतिपादनपरत्वं न लभ्यते । नापि तत्प्रति- पादने शास्त्रशब्दवाच्यत्वबाधः१ । अथापि विधिप्रतिषेधात्मकेनैव शास्त्रेण भवितव्यमिति काचित्परिभाषा । तथाऽप्येवंविधाः साधुशब्दाः प्रत्येतव्या इतीदृशो विधिः संभवत्येव । यो२ वाक्यान्तरावगतादृष्टफलार्थी यद्यविनष्टैः शब्दैर्भाषितुमिच्छेत्, स चैतानेवंरूपाने- तत्क्रममात्रांश्च वर्णानुपाददीत, नाधिकान्न न्यूनांश्चेति यावद्रूपं विधिप्रतिषेधौ शक्यौ दर्शयितुमिति, शास्त्रविषयत्वसिद्धिः । निःसन्दिग्धवृद्धबालप्रयुक्तदेवदत्त- तत्तादिशब्दोपमयाऽपि च सर्वशब्दानां विनष्टाविनष्टरूपैरवश्यं भवितव्यमिति शक्यं विज्ञातुम् । एवं व्याकरणानुगतवैदिकशब्दाविनाशसादृश्यादपि तद्विध- लौकिकाविनष्टत्वोपमानं दर्शयितव्यम् । अर्थपत्त्याऽपि साधुत्वसमर्थम् तथा लौकिकार्थप्रत्ययोत्थापितवाचकत्वार्थापत्तिलभ्यस्तावदेकः साधुत्व- निश्चयः । ततः संभवत्प्रमादालस्यकरणवैगुण्यनिमित्तापभ्रष्टरूपवर्जितकेवलसाध्व- न्वाख्यानस्यान्थानुपपद्यमानत्वादपरयाऽप्यर्थापत्त्या सिद्धमेव साधुत्वज्ञानम् । अपभ्रंशेषु साधुत्वं तुल्यार्थत्वादुच्यते । लक्षणाभावमार्गेण तस्याभावोऽपि निश्चितः ॥ इति ॥ ८७४ षण्णामपि प्रमाणानां साध्वसाधुत्वनिर्णये । व्यापारोऽस्तीति को जल्पेत्साधुत्वं निष्प्रमाणकम् ॥ ८७५ यद्यप्यनभियुक्तानां प्रयोगोऽस्ति ससंकरः । अभियुक्ता विवेक्ष्यन्ते तथाऽपि ब्राह्मणादिवत् ॥ ८७६ यथा च पद्मरागादीन्काचस्फटिकमिश्रितान् । परीक्षका विजानन्ति साधुत्वमपरे तथा ॥ ८७७ यथा रत्नपरीक्षायां साध्वसाधुत्वलक्षम् । तथा व्याकरणात्सिद्धं साधुशब्दनिरूपणम् ॥ ८७८ पौरुषेयव्याकरणागमपरम्परायामपि च तदनुगतसाधुत्वानन्तरदर्शनात् पूर्वदृष्टविवेकज्ञानमात्रपरत्वाद्वा नान्धपरम्परावचन्त्यायप्रसङ्गः । यावानिह दृष्टांशः स वैदिकविधिप्रतिषेधद्वयादेवोपपन्नः । तत्सिद्ध्यर्थाविनिष्टरूपाज्ञानं वेदशिष्टप्रयोगसंवादिव्याकरणान्वाख्यानपारम्पर्येण सद्यः फलत्वात्सुलभमिति न पुरुषकृतत्वनिमित्तदोषप्रसङ्गः । १. क. वाच्यत्वं बाघः । २. क. यद्वाक्यान्तरा ।

२९ ] प्रथमाध्याये तृतीयपादः ५९१ यत्तु दृष्टार्थत्वात्स्वसामर्थ्यप्राप्तत्वादेव 'अप्राप्ते शास्त्रमर्थवत्' ६-२-४ इति वाचकभाषणविधानमनुपपन्नमिति तत्राधिकरणेनेवोत्तरं 'नियमाार्था¹ वा श्रुतिरुच्यते' ४-२-२३ इति । यत्त्ववाचकत्वेनापशब्दानामप्रसङ्गाद्व्यावर्त्याभावे नियमानुपपत्तिरिति । तत्रोच्यते—नियमः परिसंख्या वा न व्यावर्त्यादृतेनेष्यते । नित्यतामात्रकारी तु नियमः किं न लभ्यते ॥ ८७९ सति भाषितव्ये कदाचिदविनष्टेन भाषेत, कदाचित्प्रमादाशक्तिजापभ्रंशेना- प्यक्षिनिकोचनादिना वा शब्दरहितेनैव प्रत्यापयेत् । अत्र श्रेयोऽर्थिनोऽवश्यं साधुभाषा नियम्यते । नियोगेन हि तां कुर्वन्नपूर्वं साधयिष्यति ॥ ८८० यद्यपि च नियमेऽन्यनिवृत्तिरवश्यं कल्पनीया, तथाऽपि साधुशब्दस्मृतिव्य- वहितानां कालरूढरूपभ्रान्तिवाचकत्वगृहीतानां चापशब्दानां संभवति² प्रयोगप्र सङ्गे साधुनियमेन व्यावृत्तिः । अथ वा नैवापशब्दानमंपृथक्त्वे केचिदेकक्रियाविषयानेकद्रव्यगुणादिवद- भिधायां प्राप्नुवन्ति ये साधुनियमेन व्यावर्त्येरन् । किं तु--साधूनेव प्रयुञ्जाना नाशयेयुरयत्नतः । मा³ विनीनशदित्येवं नियमस्तान्नियच्छति ॥ ८८१ तद्यथा 'यो विदग्धः, स नैर्ऋतः' इत्येवमादिदोषनिन्दापूर्वकम् 'अविदहता श्रपयितव्यः' इति नियम्यते, तथा 'दुष्ट शब्दः स्वरतो वर्णतो वा' इत्यादिना निन्दितत्वात्, 'तस्माद् ब्राह्मणेन न म्लेच्छितवै नापभाषितवै म्लेच्छो ह वा एष यदपशब्दः' इति प्रमादादिनिमित्तविनाशेन शब्दकार्यादर्थसाधनादपेतोऽयं म्लेच्छः, 'म्लेच्छ अव्यक्तायां वाचि, इति स्मरणात्स न प्रयोक्तव्य इति प्रतिषेधः । 'तस्मादेषा व्याकृता वागुद्यते' इति च विधिरविनष्टप्रयोगनियमार्थः । ननु चाशक्तिजा दोषाः प्रमादजनिताश्च ये । परिहर्तुमशक्यत्वान्निषेधस्याप्यगोचराः ॥ ८८२ उच्यते—प्रमादमेव मा कार्षीः सामर्थ्याय यतस्व च । एवमर्थो निषेधोऽयं नाऽऽद्रियेताऽन्यथा ह्यसौ ॥ ८८३ अन्ये सुखमुखारूढा न क्लेशेन विवक्षवः । शक्ताश्चैवाप्रमत्ताश्च वदेयुरनिवारिताः ॥ ८८४ १. क. नियमाार्था श्रुति । २. क. सम्भविनि । ३. क. माविनोनश ।

तृतीयोक्तिक्रियागम्यगुणभावेऽपि वक्तरि ।

५९२ मीमांसादर्शनम् [ सू० अशक्तैर्नाशिताश्चान्ये दाक्षिण्याद्यनुवर्तनात् । जानन्तोऽपि प्रयुञ्जीरन् यदि शास्त्रं न वारयेत् ॥ ८८५ अन्येऽपि प्राकृतालापैरशक्तैर्व्यवहर्तृभिः । सह व्यवहरन्तस्तानुपेत्यापि प्रयुञ्जते ॥ ८८६ तत्कथं नाम यत्किञ्चित्स्यादपभ्रंशकारणम् । दूरात्परिहरेयुस्तदिति यत्नो नियम्यते ॥ ८८७ यत्तु दृष्टार्थप्रत्ययाननिराकाङ्क्षत्वाददृष्टार्थप्रयोगोत्पत्त्याशास्त्रत्वमिति । तत्रोच्यते—दृष्टे सत्यपि सर्वत्र नियमाददृष्टमिष्यते । क्रत्वर्थं १पुरुषार्थं च तत्संयोगपृथक्त्वतः ॥ ८८८ 'एकस्य तूभयत्वे संयोगपृथक्त्वं' ४-३-५ तच्चेह प्रकरणानारभ्यवादाभ्याम- वगतम् । तत्र— क्रत्वर्थांशे परार्थत्वादर्थवादः फलश्रुतिः । पुरुषार्थे तु निर्देशात्फलमात्रेयदर्शनात् ॥ ८८९ क्रत्वर्थं ह्यनिर्ज्ञातोपायत्वात्सर्वादृष्टोपसंग्रहक्षममिति नियमापूर्वमात्मसात्कुर्व- त्पुरुषार्थांशे फलश्रुतिमर्थवादीकरोति । पुरुषार्थस्य नियमस्य त्ववश्यकल्पनीय- प्रयोजनत्वादर्थप्रतिपत्तेश्चापभ्रंशेऽप्यक्षिनिकोचादिभ्यो वा सुतरां सिद्धत्वादनाका- ङ्क्षितनियमापूर्वोेपजीवनसामर्थ्यं नास्तीत्यवश्यमर्थवादोपात्तमेव स्वर्गलोके काम- धुग्धाग्धेव फलत्वेनाऽऽश्रयणीयम् । यत्तु न ज्ञायते क्वेदं नियमापूर्वमाश्रितमिति, तत्राभिधीयते— नियमापूर्वस्याश्रयनिरूपणम् क्रत्वर्थं तावदङ्गेषु तदर्थेष्वेव संश्रितम् । अनङ्गत्वाभिधानार्थं स्यात्क्रत्वर्थं नराश्रितम् ॥ ८९० 'प्रकरणविशेषाद्वा तद्युक्तस्य तत्संस्कारो (४-३-१८) द्रव्यवत्' इति हि ज्योति- ष्टोमप्रकरणगतब्राह्मणशब्दलक्षिततदपूर्वसाधनयजमानसंस्कारत्वात्साधुभाषणनिय- मापूर्वस्य । 'याजमानास्तु तत्प्रधानत्वात्कर्मवत्' (३-८-२) इत्यनेन न्यायेन फल- प्रतिग्रहणयोग्यत्वाधानार्थं तदाश्रितमेव विज्ञायते । पुरुषार्थवाक्येऽपि सम्यग्ज्ञात- सुप्रयुक्तत्वाक्षिप्तज्ञातृप्रयोक्तृपर्युपस्थापनात्क्रियाफलयोश्च तद्गामित्वात्प्रधानया- गाद्यपूर्ववदेव ज्ञातृप्रयोक्त्राश्रितं निष्पद्यते । तत्रैव दृष्टान्तप्रदर्शनम् तृतीयोक्तिक्रियागम्यगुणभावेऽपि वक्तरि । संस्कार्यत्वात्प्रधानत्वं स्यात्प्रयाजाज्यशेषवत् ॥ ८९१ १. क. पृथक्त्वंकारणं ।

९ ] प्रथमाध्याये तृतीयपाद। ५९३ तथैव 'प्रयाजशेषेण हवींष्यभिधारयति' इत्ति सत्यपि शेषस्य तृतीयानिर्देशे, कार्योपयोगित्वात्संस्कार्यत्वावधारणम् । एवं ब्राह्मस्यापीत्यदोषः । यदि वा ब्राह्मणेनेति तृतीया यागकारिणी । कामधुक्शब्दयोगाच्च बहिःप्राधान्यकल्पना ॥ ८९२ नैव म्लेच्छनकारित्वात्तृतीयेयं प्रतीयते । कुर्वता यागमित्येवं ब्राह्मणेनेति योज्यते ॥ ८९३ यागे यो गुणभावश्च संस्कारे सा प्रधानता । न ह्यारादुपकारित्वं संयुक्तस्योपयोगिता ॥ ८९४ तच्चोपयोगित्वं प्रकरण-तृतीयाविभक्तिश्रवणाभ्यामवगतं शेषस्वीकरणसमर्थं भवति । बाह्यपुरुषार्थत्वेऽपि कामधुक्शब्दस्य पुरुषोपभोग्यकाम्यमानार्थसाधन- वचनत्वात्पुरुषप्राधान्यप्रतिपत्तिः१ । यद्यपि च साधुशब्दोच्चारणमुच्चारयित्रर्थम्, क्रत्वर्थं च न भवति, तथाऽपि तद्गतनियमप्रतिषेधयोरेव क्रत्वर्थपुरुषार्थत्वे भविष्यतः । न हि यदर्थे कर्मणि यो नियमप्रतिषेधो, तावेव केवलौ तदर्थौ भवतः । तथा हि—स्त्रद्युपायमांसभक्षादिपुरुषार्थमपि श्रितः । प्रतिषेधः क्रतोरङ्गमिष्टः प्रकरणाश्रयात् ॥ ८९५ क्रत्वर्थात्खादिराच्चेष्टा वीर्यसिद्धिविधानतः । भोजनाच्चाप्यतिथ्यर्थात्पूर्वं दातृसंश्रितम् ॥ ८९६ अतश्च परार्थोच्चारणाश्रितावपि नियमप्रतिषेधौ स्वप्रयोजनाकाङ्क्षावेलायां संनिहितपुरुषप्रधानौ विज्ञायेते । अतश्च वेदमूलत्वे सत्येवं प्रतिपादिते । प्रयोगोत्पत्त्यशास्त्रत्वं यदुक्तं तदसत्कृतम् ॥ ८९७ यच्चास्य कृतिमत्त्वेन स्वतः शास्त्रत्वबाधनम् । तत्प्रसिद्धिविरुद्धं स्यादचन्द्रशशिवाक्यवत् ॥ ८९८ शास्त्रशब्दस्य रूढ्या योगेन च व्याकरणस्य ग्रहणम् शास्त्रशब्दो यदि तावद्रूढः ततश्चतुर्दशसु तावद्विद्यास्थानेषु शास्त्रस्थानामेव प्रसिद्धः तदन्तर्गतत्वाच्च व्याकरणस्य शास्त्रत्वनिराकरणानुपपत्तिः । अथापि शिष्यतेऽनेनेति शास्त्रत्वमन्वर्थमिष्यते, तथाऽपि व्याकरणेन साधुशब्दाः शिष्यन्ते, तदनुगमोपाया वा प्रकृतिप्रत्ययादयः तदभियुक्तशिष्यजनो वेति सर्वथा शास्त्र- शब्दप्रवृत्तिरविहता । १. क. पुरुषोपयोग्य । ३८

५९४ मीमांसादर्शनम् [ सू० प्रसिद्धमपि शास्त्रत्वं यस्तु तर्केण वारयेत् । वेदस्यापि स नित्यत्वाद् व्योमवद्वारयिष्यति ॥ ८९९ सदृष्टान्तं व्याकरणस्य शास्त्रत्वनिषेधे परिहारकथनम् यथैव हि व्याकरणादीनां कृत्रिमकाव्योपनिबन्धसाधर्म्याच्छास्त्रत्वं प्रतिषेद्धुम- ध्यवसीयते, तथाऽऽकाशादिकालात्मनां१ परमाणुदृष्टान्तबलेन नित्यत्वाद्वेदशास्त्र- त्वमप्ययत्नेनैव क्रियेत । यो हि नागरिकभाषाभिज्ञतया ग्रामीणैर्मातापितरावपि शुक्लवचनैरभिदधीत, स केनान्येन वार्येत । परत्राविनयं कुर्वन्पितृभ्यां वार्यते सुतः । तयोरेवाविनीतस्य को भवेद्विनिवारकः ॥ ९०० तथा बहिरसंबद्धं वदन्वेदेन वार्यते । साङ्गेन तं पुनर्निघ्नन्केनान्येन निवार्यते ॥ ९०१ क्रुद्धो यो नाम यं हन्ति स तस्याङ्गानि कृन्तति । कृत्ताङ्गस्य२ ततस्तस्य विनाशः कियता भवेत् ॥ ९०२ तेन त्रयी द्विषन्पूर्व वेदाङ्गान्येव लुम्पति । ततस्तेनैव मार्गेण मूलान्यस्य कृन्तति ॥ ९०३ श्रुतिस्मृतिप्रमाणत्वे हेतुपूर्वं निरूपिते । अङ्गानामप्रमाणत्वमशास्त्रत्वं च को वदेत् ॥ ९०४ व्याकरणस्य स्मृतिभिर्वैषम्येऽपि वेदमूलत्वेन व्याकरणान्तरेण साम्यम् यत्त्वितरस्मृतीनां प्रायेण सारूप्याद्व्याकरणस्य तद्विलक्षणत्वात्तन्मध्यपा- तित्वमसंभाव्यमिति । तत्रोच्यते—सर्वधर्मसूत्राणां वर्णाश्रमधर्मोपदेशित्वाद्धर्माणां चैकरूपप्रायत्वात्परसंवादित्वं युक्तम् । व्याकरणस्य त्वन्य एव साधुशब्दतत्त्वनिर्ण- यरूपो विषयः । तत्रास्य व्याकणान्तरेणैव संगतिः स्यात् न धर्मसूत्रैः । स्मृतित्वं त्वङ्गानाम्, धर्मसूत्राणां चाविशिष्टम् । अथापि स्मृतिशब्देन नाङ्गानामभिधेयता । तथाऽप्येषां न शास्त्रत्वप्रमाणत्वनिराक्रिया ॥ ९०५ पुराणं मानवो धर्मः साङ्गो वेदश्चिकित्सितम् ॥ ९०६ इति हि तुल्यवत्प्रामाण्यस्मरणम्— अपि वा कर्तृसामान्यादुक्तो न्यायश्च यः स्मृतेः । प्रमाणत्वे समानोऽसौ वेदाङ्गेष्वपि गम्यते ॥ ९०७ १. क. कालात्मनः । २. क. कृन्ताङ्गस्य ।

सूत्र-वार्त्तिक-भाष्यकाराणां विगानस्य परिहारः

२९ ] प्रथमाध्याये तृतीयपाद। ५९५ प्रमाणषट्कमूलत्वं पूर्वं चैषां प्रदर्शितम् । दृष्टादृष्टफलत्वेन तस्मान्नास्त्यप्रमाणता ॥ ९०८ एकस्य च यदा युक्त्या समूलत्वं निरूपितम् । पौरुषेयान्तरग्रन्थमूलताऽपि तदेष्यते ॥ ९०९ असंभावितमूलं हि पौरुषेयं यदुच्यते । मूले तस्याप्रतिष्ठत्वं रूपे जात्यन्धवाक्यवत् ॥ ९१० इह तु समूलत्वादेकान्तरितप्रामाण्यसिद्धिः । सूत्र-वार्त्तिक-भाष्यकाराणां विगानस्य परिहारः यत्तु सूत्रवार्तिकभाष्यकाराणामन्योन्यविगीतवचनत्वादप्रमाणत्वमिति । तत्राभिधीयते— स्मृतीनामप्रमाणत्वे विगानं नैव कारणम् । श्रुतीनामपि भूयिष्ठं विगीतत्वं हि दृश्यते ॥ ९११ विगीतवाक्यमूलानां यदि स्यादविगीतता । तासां ततोऽप्रमाणत्वं भवेन्मूलविपर्ययात् ॥ ९१२ मूलानुरूप्येण हि स्मृतीनां प्रमाणत्वं तदविगानेन— परस्परविगीतत्वमतस्तासां न दूषणम् । विगानाद्धि विकल्पः स्यान्नैकत्राप्यप्रमाणता ॥ ९१३ धर्मसाधनतांशे च विगानं नैव विद्यते । अन्वाख्यानविगानं तु लक्ष्यभेदान्न दुष्यति ॥ ९१४ सूत्रप्रत्याख्यानस्य समाधानम् पुनरुक्तत्वादिना हि यत्सूत्रप्रत्याख्यानम्, तस्य च पुनः समाधानम् । यस्यावैदिकमूलत्वान्न किंचिदपि दुष्यति । ये चापीष्ट्युपसंख्याने ते च स्मृत्यन्तराश्रिते ॥ ९१५ न चाधिकोपसंख्यानान्न्यूनस्यास्त्यप्रमाणता ॥ ९१६ तद्यथा—वाजसनेयिशाखायामाध्वर्यवं चरकशाखासु च बह्वित्येतावता नाल्पविषयप्रमाणीकुर्वन्ति । तस्मादयमपि न दोषः । यस्तु सूत्रकारस्य प्रयोजनानभिधानोपालम्भः । स श्रुतिस्मृतिसिद्धत्वान्नोपालम्भत्वमर्हति । ग्रन्थान्ते च स्वसंवेद्यं सुज्ञानं तत्प्रयोजनम् ॥ ९१७

५९६ मीमांसादर्शनम् [ सू० सत्यं ब्रूयादित्यास्मृतिविहितस्य सत्यद्वयस्य निर्वचनम् सत्यवचनं च सर्वश्रुतिस्मृतिषु स्वर्गसाधनत्वेन, यागसाधनत्वेन च नियतम् । सत्यं च द्विविधं शब्दसत्यम्, अर्थसत्यं च । तत्र यथैव यथावस्थिताविप्लुतार्थ- वचनं श्रेयःसाधनम्, एवं यथावस्थितशब्दसत्यवचनमपि, यथा चार्थसत्यविपर्ययः प्रत्यवायाय एवं विनियोगकालप्रयुक्तशब्दानृतवचनमपि । शब्दसाधुत्वज्ञानं च व्याकरणाभियोगविशेषादित्युक्तम् । तस्माद्विज्ञायमानत्वान्नोक्तं मूलकृता स्वयम् । शास्त्रेण सर्वशब्दाना मन्वाख्यानप्रयोजनम् ॥ ९१८ न च व्याकरणप्रयोजनाभिप्रायं प्रति केचिद्विवदन्ते । स त्वभिप्रायः किं न्याय्यः नेत्यर्थान्तरमेतत् । धर्माय नियमं चाऽऽह वाक्यकारः प्रयोजनम् । वेदमूलस्तु तत्रैक एको व्याकरणाश्रयः ॥ ९१९ साधुनियमप्रयोगनियमार्थाय व्याकरणम् नियमद्वयप्रयुक्तं व्याकरणम् । साधुशब्दज्ञानात्तत्पूर्वप्रयोगाद्वा । स्वर्गयज्ञोप- कारसिद्धिरित्येतत्तावद्वेदमूलम्, अनन्यप्रमाणकत्वात् । अतश्चायं तावद्वेदाख्येन शास्त्रेण धर्मनियमः । तथा व्याकरणाख्येन साधुरूपं नियम्यते । अविशेषेण सिद्धि स्याद्विना व्याकरणस्मृतेः ॥ ९२० तेन वेदावगतसम्यग्ज्ञात्साधुशब्दप्रयोगात्मकधर्माङ्गत्वेन व्याकरणप्रक्रिये- तिकर्तव्यतया नित्यवाचकशब्दरूपज्ञाननियमः क्रियते । वार्त्तिकभाष्यकारयोः परिहारं कृत्वाचिन्तान्यायेन यच्च कात्यायनेन ज्ञाने धर्म इति चेत्तथाऽधर्म इति तन्त्रेण, प्रसङ्गेन वाऽप- शब्दज्ञानादधर्मत्वापत्तिदोषमभिधाय¹, शास्त्रपूर्वप्रयोगेऽभ्युदय इति निःश्रेयस- सिद्धयुपायेऽवधारिते, यत्पुनः परावृत्य भाष्यकारेणोक्तम्, 'अथ वा पुनरस्तु ज्ञाने धर्म इत्याभ्युपेत्यवादमात्रम्, तत्-पूर्वोक्तदोषपरिहारसामर्थ्यप्रदर्शनाथं कृत्वाचिन्तान्यायेनोक्तम् । परमार्थतस्त्वन्यानर्थक्यप्रसङ्गविज्ञातपाराथ्र्यपादितार्थ- वादत्वात्फलश्रुतिर्न फलप्रतिपत्तिक्षमा विज्ञायते । यथा 'योऽश्वमेधेन यजते य उ चैनमेवं वेद' इति ज्ञानमात्रादेव ब्रह्महत्यातारणं यदि सिद्ध्येत्, को जातुचिद्बहु- द्रव्यव्ययायाससाध्यमश्वमेधं² कुर्यात् । तद्विधानं चानर्थकमेव स्यात् । एवं शब्द- १ क. वापशब्दज्ञानादपधर्मत्वापत्ति । २ क. क्षयव्यया ।

२९ ] प्रथमाध्याये तृतीयपादः ५९७ ज्ञानाच्चेद्धर्मः सिध्येत्, को नामानेकतालवादि व्यापारायासखेदमन्ुभवेत् । तस्मात्क्रतुवदेव ज्ञानपूर्वप्रयोगस्यैव फलं कारणे कार्यवदुपचारात्तण्डुले देववर्षण- वज्ज्ञाने धर्मवचनमापादिताधर्मपरिहाराभिधानशक्तिमात्रप्रदर्शंनार्थमेवोप न्यस्तम्, न फलवत्त्वप्रतिपादनाय। 'द्रव्यसंस्कारकर्मसु परार्थत्वात्' (४-३-१) इत्यनेन न्यायेन ज्ञानस्य पुरुषशब्दसंस्कारत्वेन निराकाङ्क्षस्य फलसम्बन्धासम्भवात् । आत्मज्ञानस्याभ्युदय-निःश्रेयसफलकत्वेन अप्रकरणस्थत्वेनार्थवादत्वमितिवर्णनम् सर्वत्रैव हि विज्ञानं संस्कारत्वेन गम्यते । पराङ्गं चाऽऽत्मविज्ञानादन्यत्रेत्यवधारणात् ॥ ९२१ आत्मज्ञानं हि संयोगपृथक्त्वात्क्रत्वर्थपुरुषार्थत्वेन ज्ञायते तेन विना परलोक- फलेषु कर्मसु प्रवृत्तिनिवृत्यसम्भवात् । तथा 'य आत्माऽपहतपाप्मा विजरो विमृत्युर्विशोको विजिघत्सोऽपिपासः सत्यकामः सत्यसंकल्पः सोऽन्वेष्टव्यः स विजिज्ञासितव्यः' तथा 'मन्तव्यो बोद्धव्यः' 'तथाऽऽत्मानमुपासीत' इति कामवाद-लोकवाद-वचनविशेषैर्जिज्ञासामनन सहितात्म- ज्ञानकेवला वबोधपर्यन्त स्पष्टात्मतत्त्वज्ञान विधानापेक्षितवाक्यान्तरोपात्तद्विविधाभ्यु- दयनिःश्रेयसरूपफलसम्बन्धः, 'स सर्वांश्च लोकानाप्नोति, सर्वांश्च कामानाप्नोति तरति शोकमात्मवित्, तथा स यदि पितृलोककामो भवति, संकल्पादेवास्य पितरः समुत्तिष्ठन्ति, तेन पितृलोकेन संपन्नो महीयते' इत्यादिना योगजन्याणि- माद्यष्टगुणैश्वर्यफलानि वर्णितानि । तथा 'स खल्वेवं वर्तयंन्यावदायूषं ब्रह्मलोकमभिसंपद्यते, न स पुनरावर्तंते' इत्यपुनरावृत्यात्मकपरमात्मप्राप्त्यवस्थाफलवचनम् । अप्रकरणगतत्वेनानैक‍ान्तिक- क्रतुसम्बन्धासम्बन्धाच्च नाञ्जन-खादिर-स्रुव-वाक्यादिफलश्रुतिवदर्थवादत्वम् । न च ज्ञानविधानेन कर्मसम्बन्धवारणम् । प्रत्याश्रमवर्णनियतानि नित्यनैमित्तिककर्माण्यपि पूर्वकृतदुरितक्षयार्थमकरण- निमित्तानागतप्रत्यवायपरिहारार्थं च कर्तव्यानि । न च तेषां भिन्नप्रयोजनत्वाद् भिन्नमार्गत्वाच्च बाध-विकल्प-परस्पराङ्गाङ्गिभावाः संभवन्ति । शब्दज्ञानस्य त्वेकान्तेन प्रयोगाङ्गत्वात्पूर्वतरभावित्वाच्च न पृथक् फलसम्बन्धसम्भव इति ज्ञान- पूर्वप्रयोगफलवत्त्वमेव निश्चीयते । अदिमद्वयाकरणस्यानादिविधिमूलकत्वं व्यवहारनित्यतामादायोपपत्तिः यत्त्वादिमद्वयाकरणज्ञानतत्पूर्वकप्रयोगफलसम्बन्धोऽनादिविधिमूलो नावकल्पत इति । तत्र यूपाधिकरणवद्व्याकरणपरम्परानादित्वादन्ुपालम्भः । 'तस्मादेषा व्याकृता' इति च व्याकरणव्यवहारनित्यत्वमुक्तम् ।

५९८ मीमांसादर्शनम् [ सू० न चैषा सम्प्रदायेन व्याकृतेत्यभिधीयते । तत्र ह्युच्यत इत्येव व्याकृतेति तु निष्फलम् ॥ ९२२ यद्यपि च मनुना पङ्क्तिपावनमध्ये वेदादेवोपलभ्योक्तं ‘यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम्’ इति । तेनापि पूर्वपश्चादुक्ताधीतवेदत्व-यज्ञमीमांसन- व्यतिरिक्तविषयेण सताऽवश्यमेतदेव व्याकरणज्ञानमाश्रयितव्यमिति तन्नित्यत्व- सिद्धिः ॥ २७-२८-२९ ॥ (इति व्याकरणाधिकरणम् ॥ ८ ॥) न्या० सु०—भाष्यकृता पदोत्तरत्वेन सूत्रं व्याख्यातुं कथं पुनरित्याशङ्कितम् । तद्व्याचष्टे—तुल्येति । ततश्च पुनरपि अगृह्यमाणविशेषत्वात् सर्वेषां वाचकत्वमापद्येते- त्याशयः । शक्यमित्याहेति भाष्येणैतदाशङ्कानिरासार्थत्वेनैतत्सूत्रमवतारितं तद्व्याचष्टे— अत आहेति । अत्रार्थिनोऽभियुक्ता भवन्तीत्यादिभाष्येददृष्टार्थिनामार्याणां शब्दार्थविषयादर- विशेषात्तदुपदेशे वाचकत्वावधारणकारणमित्याभाति । तच्च गव्यादिशब्देष्वप्यार्योप- देशतुल्यत्वादयुक्तमितिमत्वाऽर्थविशेषप्रतिपिपादयिषया पृच्छति—कः पुनरिति । अभियोग- तद्विशेषशब्दयोः प्रकृतोपयोगिनमर्थमाह—तदुच्यत इति । शब्दपरोऽभियोग इति निर्देशः । लक्षणस्य व्याकरणस्य यच्छ्रवणम्, तदभ्यासनिमित्तः तं वा विषयीकृत्याभियोगशब्दः प्रवर्त्तते लक्षणश्रवणाभ्यासोऽत्राभियोगशब्देनोक्त इत्यर्थः । यल्लक्ष्यमुदाहरणीकृत्य लक्षण- श्रवणमभ्यस्तं तद्व्यतिरिक्तानान्तुल्यन्यायानां लक्ष्याणां तेन लक्षणश्रवणाभ्यासेन ज्ञान- मभियोगविशेषः फलेन तद्धेतोरभ्यासातिशयस्य लक्षणाल्लक्षणश्रवणाभ्यासातिशयोऽभियोग- विशेष इत्युक्तं भवति । ननु प्रतिपदपाठेनैव वाचकत्वनिरूपणसिद्धेनं लक्षणश्रवणाभ्यासा- तिशयापेक्षेत्याशङ्कां निरस्य तृतीयस्य प्रश्नस्योत्तरमाह—प्रतिपदेति । ननु प्रतिपदपाठस्याभ्यासत्वेऽपि— वेदाङ्गो वैदिकाः सिद्धाः लोकाच्चैव हि लौकिकाः । अनर्थकं व्याकरणमिति न्यायेन लौकिकवैदिकप्रयोगसिद्धत्वाद्वाचकत्वनिरूपणस्य न व्याकरणापेक्षेत्याशङ्कयाह—तस्मादिति । वाचकसामस्त्याज्ञानत्वावाचकत्वनिश्चयोऽपि न सम्भवतीत्याह—तत्साकल्येति । ननु वाचकसामस्त्यज्ञानेऽपि कथमवाचकनिश्चयः स्यादित्या- शङ्कयाह—लक्षणेति । सूत्रार्थमुपसंहरति—तेनेति । सूत्रं व्याख्याय, पूर्वपक्षोक्तानि दूषणानि परिहरिष्यन्पदपूर्वकत्वाच्च वाक्यात्मक- शास्त्रव्यापारसिद्धेरित्यादिनोक्तमितरेतराश्रयमनुभाषणपूर्वकं परिहरति—यत्त्विति । प्रयोगोत्पत्त्यशास्त्रत्वादित्यनेन लक्षणशास्त्रस्य तन्मूलशास्त्रस्य वा लोकप्रसिद्धपदप्रयोगा- दुत्पत्तेः प्रयोगनियामकत्वासम्भवादितरेतराश्रयत्वं यदुक्तम्, तद्यदि तावन्निर्णीतवाचकत्वैः पदैरन्वाख्यानम्, अन्वाख्यानाच्च वाचकत्वनिर्णय इत्येवं रूपमभिप्रेतम् ततो वाचकत्वा- निर्णयेऽपि प्रतिपादकत्वमात्रेणान्वाख्यायकत्वोपपत्तेः सुपरिहरमित्यर्थः ।

२९ ] प्रथमाध्याये तृतीयपादः ५९९ ननु च कुत्वं कस्मान्न भवतीत्यादिलक्षणानुगमदर्शनाद्व्याकरणावयवभूतेष्वपि पदेषु साधुत्वनिर्णयेन भाव्यमित्याशङ्क्य—पुनस्तैरेपोत्युक्तम् । अथ लक्ष्याणां शब्दानां साधुत्वे सत्यन्वाख्यानमन्वाख्यानाच्च साधुतेतीतरेतराश्रयमभिप्रेतं तत्राह--यदीति । न त्वेतदस्तीति शेषः। ननु व्याकरणात्प्रागेव साधुत्वज्ञाने व्याकरणानर्थक्यं स्यादित्याशङ्कयाह— निशानेति । श्लोकं व्याचष्टे—तेनेति । ननु लौकिकशब्दानां सङ्कीर्णत्वाद्व्रतवन्वाख्यान- मर्थवद्वैदिकानां त्वसङ्कीर्णत्वादनर्थकमित्याशङ्कते — वेद इति । अनेन च नचाश्रितप्रतिपद- पाठानां लक्षणं न कार्यमित्यादिनोक्तमानर्थक्यं प्रसङ्गात्परिहारायाऽनुभाषितं सर्वसाधु- शब्दानां वेदे प्रयोगे सति व्याकरणानर्थक्यं स्यात्कृत्स्नसाधुशब्दविषयत्वाभावात्तु वेदस्य तदनुगतशब्दान्वाख्यानार्थं व्याकरणं भविष्यतीति परिहरति ॥ २७ ॥ न्या० सु०—भाषायामित्यधिकृत्यानुगतानां लोकविषयत्वाच्छन्दसीत्यधिकृत्यानुगतानां च वेदविषयत्वान्न वेदस्य कृत्स्नविषयतेत्युपपादयति—केष्विदिति । तेन लोकव्यवस्थितानां तावल्लक्षणमर्थवदित्यशयः । कृत्स्नसाधारणसाधुशब्दविषयत्वस्याप्येकस्यां शाखायाम- भावात्सर्वशाखागतानां चाध्ययनाशक्तेः शाखान्तर्गतसाधारणशब्दानामप्यपभ्रंशेभ्यो विवेकाय लक्षणमर्थवदित्याह—सर्वेति । एतदेव विवृणोति — तथैवेति । अशक्तानन्त्यं कारणमाह—प्रकृतीति । इत्थं निर्णीतवाचकत्वैः पदैरन्वाख्यानमन्वाख्यानाच्च वाचकत्व- निर्णय इत्येवं रूपे लक्ष्याणां शब्दानां साधुत्वे सत्यन्वाख्यानमन्वाख्यानाच्च साधुतेत्येवं रूपं वा लक्षणगतेऽन्योन्याश्रये परिहृते यदि कश्चिद्व्याकरणमूलभूतो वैदिको विधिर्व्याकरणा- श्रयो वेदविद्विद्याश्रयं च व्याकरणमित्येवं रूपम् । तस्मान्न ब्राह्मणेन म्लेच्छितवा इत्यादि- लक्षणमूलगतमितरेतराश्रयं ब्रूयात् तत्राह—एतेनेति । पुरुषार्थं यत्स्वर्गे लोके कामधुग्भवतीति प्रतिपादितम् अदृष्टं साध्यं क्रत्वर्थं च ब्राह्मणेन न म्लेच्छितवा इतिज्योतिष्टोमप्रकरणाधीतवाक्यकल्पन्याकृता वागुद्यत इत्यनारभ्या- धीतवाक्यकल्पं वा, यत्साध्यम्, यच्च साधुशब्दप्रयोगाख्यम्, साधुशब्दज्ञानाख्यं वा साधनं तयोर्यत्साध्यसाधनभावविधायकं वाक्यं तद्गतानां शास्त्रान्वितादिपदानां वा या व्याक्रिया, तस्याश्च या पूर्वंप्रसिद्धविधिव्याक्यमूलत्वकल्पना त्वयेष्टा, तस्याश्च तद्वाक्यमूलत्वे वेदविहितः प्राक्सिद्धत्वकल्पनापत्तेस्तदाश्रयो वेदविधिः, तस्याश्च तन्मूलत्वकल्पना तदाश्रया सेतीतरेत- राश्रयत्वस्य यः प्रसङ्गः शक्यते एतेन प्रासाङ्गिकानर्थक्यपरिहारसमाधानस्याबुद्धिस्थेन लक्षण- गतेनेतरेतराश्रयत्वपरिहारन्यायेन प्रत्युक्त इत्यर्थः । एतदेव व्यतिरेकदर्शनपूर्वकं विवृणोति- यदि हीति । अन्वाख्यानं प्रकृत्यादिविभागेनाख्यानम् । अन्वाख्येयाः साधुशब्दाः अन्वाख्या- तानां विधिः—व्याकृता वागुद्यत इत्यादिप्रयोगो व्यवहारकाल इति चतुष्टयं साधुशब्दविषयं ब्राह्मणेन न म्लेच्छितवा इत्यन्वाख्यातानां प्रतिषेधः व्यवहारकाले वर्जनम्, चेत्यसाधुविषयं द्वयमिति षट्कस्याप्यनादित्वे सति सर्वेषामन्वाख्यानादीनां सर्वदाऽनवगतपूर्वापरविभागसम्बन्धे सति यदात्यन्तादृष्टार्थत्वमात्रमेषां शास्त्रीयप्रत्ययाधीनं न स्वरूपम्, तदा सर्वकालव्याक्रिय- माणत्वेन विद्यमानस्य शब्दस्य यो नियमविधिस्तस्येत्यर्थः, निषेधोऽपि विधिशब्देनोपलक्षितः

६०० मीमांसादर्शनम् [ सू०

तयोरनादित्वेऽवगम्यमानञ्चासौ वेदविधिश्चेति वेदविधित्वेनावगम्यमानत्वं हेतुः। इतरेषामवगम्यमानो वैदिको विधिर्मूलं येषामित्यवगम्यमानवेदविधिमूलत्वं वैदिकस्य विधेरनादित्वाक्षेपकत्वे वेदादीनां स्वरूपविधयः कार्यविधयः साधनविधयश्च दृष्टान्तिताः। ध्वनिमात्राण्यसाधूनीत्यादिना गव्यादीनामवाचकत्वस्य लोकविरुद्धत्वं यदुक्तं तत्परिहारायानुभाषते—यस्त्विति। भेर्यादिशब्दश्च मातृकाक्षपाठश्च प्रसिद्धानि च न्यूनवर्णान्यतिरिक्तवर्णानि विपर्यस्तवर्णानि च यानि पदानि तद्व्यतिरिक्ता ये प्रसिद्धा गव्यादयः शब्दाः। तेषां मध्य इत्यर्थः। परिहरति—तत्रेति। एकार्थविषयेषु सदृशशब्दे- ष्बैकस्य शक्तौ कॢप्तायामितरेभ्यस्तदशक्तिजत्वेनापि प्रतीत्युपपत्तेरेकस्यैव शक्तिरिति निर्णीतेऽपि, कस्यैकस्येत्यनिर्णयात्संमुग्धवाचके लोके सत्यविरुद्धो लक्षणाद्वाचकनिर्णयः। यदि तु लक्षणमनाहत्यागृह्यमाणविशेषत्वात्सर्वेषां वाचकत्वं कश्चिद्वदेत्तं प्रति स्मृत्याचार- बाधो वाच्य इत्यर्थः। श्लोकं व्याचष्टे—लोकेति। नन्वेवं सत्यवाचकत्वप्रतिज्ञाया लोक- विरोधः प्रथमपादे कथमुक्त इत्याशङ्क्याह—तर्केणेति। सम्बन्धग्रहणात्पूर्वं यस्मान्न गमयत्यतः गवादेर्नाभिधाशक्तिर्देवदत्तपदे यथेत्यनुमानस्य लोकेऽपेक्षितवाचकावाचकविवेक- हेतुत्वाभावाल्लोकविरोधः। स्मृतेस्तु तदपेक्षितविवेकहेतुत्वादविरोध इत्याशयः। दृष्टान्तं विवृणोति—यथैवेति। वर्णविवेकावधारणस्य प्रत्यक्षत्वेनोक्तत्वात्स्मरणादेवेत्यवधारणं सहकार्यान्तरमात्रनिवृत्त्यर्थं लोकविरोधाभाव इत्यनेन स्मर्यमाणस्य तु वाचकावाचकविवे- कस्य ब्राह्मणादिविवेकस्येव न लोकविरोध इति तदध्याहारेणोत्तराद्धं योजितम्। विपरीत- बाधप्रतिपादकत्वं नाध्याहारं विना स्मर्यमाणे विरोधो बाध इत्येवमन्यथा व्याचष्टे— यथा चेति। स्मृत्या बाध इति विग्रहः। ननु निर्मूलत्वात् स्मृतेर्न बाधकत्वं युक्तमित्या- शङ्क्याह आदितश्चेति। प्रमाणमूलत्वेन स्मृतेर्बाधकत्वोपपादनायादितः—स्मृते- रित्युक्तम्। कुतः सिद्ध इत्यपेक्षिते—प्रत्यक्षेणेत्युक्तम्। नन्ववैयाकरणैरनवगमान्नास्य प्रत्यक्षता युक्तेत्याशङ्क्य—कुशलैरित्युक्तम्। यथा मातापितृसम्बन्धस्मृतिकुशलैर्ब्राह्मणादि- भिन्नो ब्राह्मणभेदोऽवगम्यते, तथा प्रकृतिप्रत्ययव्याख्यानकुशलैः साध्वसाधुविभाग इत्यर्थः। यद्यप्यर्थ- प्रत्यायनाङ्गत्वलक्षणं साधुत्वं लिङ्गादवगम्यम्, तथापि तदाश्रयस्यानपभ्रष्टशब्दरूपस्य प्रत्यक्षताऽभिप्रेता। एवमसाधुत्वमुपन्यस्यापभ्रष्टरूपस्येत्यदोषः। अर्थबोधानपेक्षा तु नानपभ्रष्टरूपता। साधुत्वमेकवर्णेऽपि प्रसङ्गादिति वर्णितम्॥ ननु स्मृतीनां शास्त्रमूलत्वस्योक्तत्वात्तदविरुद्धं व्याकरणस्मृतेः प्रत्यक्षमूलत्वमभिधान- मित्याशङ्क्याह—यो नामेति। फलोत्पत्तेरनियतकालत्वात्सम्बन्धस्यानियतकालत्वं साध्व- साधुविवेकस्य तु प्रत्यक्षग्राह्यत्वोपपत्तेः, तदपह्नवे न केवलं स्मृत्या बाधः, किं तु प्रत्य- क्षेणापीत्याह—यस्य त्विति। सङ्गीतशास्त्रे स्वरगतरागविवेकप्रकीर्णकप्रबन्धताल-वाद्य- नृत्ताख्याः षडाध्यायाः।

२९ ] प्रथमाध्याये तृतीयपादः ६०१ तत्र—आत्मा विवक्षमाणोऽयं मनः प्रेरयते मनः। देहस्थं वह्निमाहन्ति स प्रेरयति मारुतम् ॥ ब्रह्मग्रन्थिस्थितः सोऽथ क्रमादूर्ध्वंपथे चरन् । नाभिहृत्कण्ठमूर्द्धास्येष्वाविर्भावयति ध्वनिम् ॥ नादोऽतिसूक्ष्मः सूक्ष्मश्च पुष्टापुष्टश्च कृत्रिमः । इति पञ्चाभिधावन्तः पञ्चस्थानस्थितीः क्रमात् ॥ व्यवहारे त्वसौ त्रेधा हृदि मन्द्रोऽभिधीयते । कण्ठे मध्यो मूर्ध्नि तारो द्विगुणश्चोत्तरोत्तरः ॥ तस्य द्वाविंशतिर्भेदाः श्रवणाच्छ्रुतयो मताः । स्यातां निषादगान्धारौ द्विश्रुती धैवतर्षभौ ॥ त्रिश्रुती वेदश्रुतयः षड्जमध्यमपञ्चमाः । मयूरचातकच्छागक्रौञ्चकोकिलदर्दराः ॥ गर्दभः सप्तषड्जादिक्रमादुच्चारयन्त्यमी । इत्यादिलक्षणैः षड्जादीनां विवेके द्वितीयेन रागविवेकसंज्ञकेनाध्यायेन कृते तदभ्याससंस्कृतेन श्रोत्रेण यथा षड्जोऽयमृषभोऽयं गान्धारोऽयं मध्यमोऽयं पञ्चमोऽयं धैवतोऽयं निषादोऽयमिति स्वरविवेकज्ञानं जायते । तथा यस्य व्याकरणस्मृतिजनिते साध्वसाधुविवेके पूर्वं जाते, पश्चाद्व्याकरणश्रवणाभ्याससंस्कृतश्रोत्रस्य साध्वसाधुविवेक- विषयं प्रत्यक्षं जायते । तं प्रति साध्वसाधुसङ्करं साधयतः प्रत्यक्षबाधो ब्राह्मणादिवर्ण- सङ्करसाधनवद्भवतीत्यर्थः । अतस्त्वपक्षस्यैव प्रमाणविरोधः नास्मत्पक्षस्येत्युपसंहरति— तेनेति । प्रत्यक्षग्राह्यत्वे सति तत्पूर्वकस्यानुमानादेरपि सम्भवात्समस्तशब्दः । यच्चादृष्ट- विषयवच्छब्दानां साध्वसाधुतेत्यादिना साध्वसाधुविवेकस्याप्रामाणिकत्वेन विधिनिषेध- विषयत्वायोगान्न धर्माधर्मसाधनत्वरूपापि साध्वसाधुतेत्युक्तम् । तदपि साध्वसाधुविवेकस्य सप्रमाणकत्वाभिधानेन परिहृतं भवतीत्याह—तेनेति । ननु— 'साधुत्वं नेन्द्रियग्राह्यं लिङ्गं वाऽस्य न विद्यते । शास्त्रस्यं विषयो नैष प्रयोगेऽप्यस्य सङ्करः ॥' इत्यन्यैरुक्तम् । तस्य कः परिहारः ? इत्याशङ्क्याह—यस्त्विति । इन्द्रियग्राह्यत्वं विवृणोति—ग्रस्तेति । ग्रस्तमविभक्तिकोच्चारणं निरस्तं विश्लेषितसंयोगम्, अम्बूकृतं सनिष्ठीवितम् । संवृतकलप्रगीतोपगीतक्ष्विण्णरोमशादीनामादिशब्देनोपादानम्, दोषवर्जि- तानां नियतह्रस्वादिमात्रिकालामभिव्यङ्ग्यानां यथावृद्धव्यवहारं लक्षितेन क्रमेण ग्राह्याणां वर्णानामिन्द्रियग्राह्यत्वमित्यर्थः ।

६०२ मीमांसादर्शनम् [ सू० नन्वेवमप्यर्थप्रत्यायनाङ्गत्वलक्षणस्य साधुत्वस्येन्द्रियग्राह्यत्वं नास्तीत्याशङ्क्य, वाचकत्वस्य साधुत्वस्याविनष्टत्वेन निरूप्यत्वात्तद्विषयस्य ज्ञानस्य श्रोत्रजन्यत्वेनेन्द्रिय- ग्राह्यत्वं नास्तीति वक्तुम्—अविनष्टेत्युक्तम् । प्रकृतिप्रत्ययान्वाख्यानस्मृतिसहकृतस्य च श्रोत्रस्याविनष्टरूपविषयज्ञानहेतुत्वाद्वैयाकरणस्याज्ञानं युक्तमिति—स्मर्यमाणशब्देनोक्तम् । यथोदात्तादिरूपज्ञानश्रोत्रं स्मृतिमपेक्षते तद्वदविनष्टरूपज्ञानेऽपीति दृष्टान्तार्थः । लिङ्गग्राह्यत्वं विवृणोति—तदुत्तरेति । प्रत्यक्षेण साध्वसाधुविवेकग्रहणोत्तरकालं यत्प्रवृत्तं लक्षणम्, तद्गतं प्रकृतिप्रत्ययलोपादिसधुत्वाव्यभिचारितया लक्षणेनावगतत्वादु- दाहृतशब्दे दृष्टान्तेन शब्दान्तरे साधुत्वानुमानाय लिङ्गं भवतीत्यर्थः । वृद्धप्रयोगगम्यश्च हि शब्दार्थः सर्व एव न । इत्यनेन न्यायेन शब्दार्थस्य वृद्धप्रयोगमात्रावसेयत्वावधारणात् स्रवन्तीत्यादिषु शब्देषु वृद्धाप्रयुक्तत्वेनार्थप्रत्यायकत्वाभावात्साधुत्वरहितेष्वपि प्रकृतिप्रत्ययान्वाख्यानदर्शनात् व्यभि- चारमाशङ्क्य, व्यवहारगतार्थप्रतिपत्तिसहितत्वं विशेषणं कृतम् । अस्मादेव विशेषणादर्थ- प्रत्यायनार्थत्वम् साधुत्वलक्षणं वार्त्तिककृतोऽभिप्रेतमिति ज्ञायते । शास्त्रविषयत्वं विवृणोति — शास्त्रस्य चेति । श्रुतिस्मृतिरूपत्वेन क्रत्वर्थपुरुषार्थ- साधनत्वप्रतिपादकत्वरूपेण विधिनिषेधनिबन्धनाथंनार्थज्ञापकत्वरूपेण कार्यस्वरूपज्ञापकत्व- रूपेण चेति चतुर्द्धा द्वैविध्यं विवृतम् । साधुत्वमिन्द्रियग्राह्यमिति साधुत्वशब्देनासाधुत्वस्या- प्युपलक्षितत्वादनर्थज्ञानार्थंनिषेधशास्त्रविषयत्व (मसाधुत्वस्य दर्शितम् । अर्थ-साध्वसाधुत्व- रूपो विषय इत्यर्थः । ननु साध्वसाधुशब्दप्रयोगयोरिष्टानिष्टसाधनत्वज्ञापने साध्यसाधनभाव- विषयत्वाच्छास्त्रस्य साध्वसाधुविषयत्वं न स्यादित्याशङ्क्यैवंविध एवान्योऽपीत्युक्तम् । अन्योऽपि यागादिरेव विधिरेव विषय इत्यर्थः । द्विविधशास्त्रविषयत्वमेवोपपादयति— मविनष्टैरिति । साधुशब्दप्रयोगस्य स्वर्गसाधनत्वम् । 'एकः शब्द इत्यस्य कामधुक्शब्दयुक्तस्य शास्त्रस्य विषयः' यज्ञोपकारसाधनत्वव्याकृता वागुद्यत इत्यनारभ्याधीतस्याप्यश्वप्रतिग्रहेष्टि- न्यायेन व्याकृतत्वस्य लौकिकवैदिकवाग्वदनविषयकतवे क्रत्वर्थपुरुषार्थत्वलक्षणावैरूप्यापत्ते- र्लौकिकमात्रविषयत्वेऽपि फलकल्पनागौरवापत्तेर्वैदिके कर्मणि या वागुद्यते, सा व्याकृते- त्यर्थावधारणात् विषयः, अपशब्दभाषणस्य प्रतिषिद्धाचरणनिमित्तक्रतुवैगुण्यरूपानर्थसाधनत्वं 'ब्राह्मणेन न म्लेच्छितवा' इति निषेधशास्त्रस्य ज्योतिष्टोमप्रकरणाधीतस्य विषयः, अस्य निषेधस्यानृतवदननिषेधवत्प्राकरणिकं क्रत्वर्थत्वं यज्ञे कर्म्मणि स नियमोऽन्यत्रानियम इत्यादिना महाभाष्यकृताऽप्युक्तमिति सूचयितुम्—यज्ञे कर्मणीत्युक्तम् । 'वाग्योगवित् दुष्यति चापशब्दैरिति स्मृत्यापि वाचैव हि मनसा च यज्ञो वर्त्तत इत्यादिलिङ्गदर्शना- द्धाग्योगशब्दस्य यज्ञपरत्वावगतेर्वाग्योगविच्छब्दस्यर्त्विग्यजमानविषयतया व्याख्यातुं शक्य- १. अयं पा० २ पु० ना०

२९ ] प्रथमाध्याये तृतीयपादः ६०३ त्वादङ्गविषयत्वम्, अपशब्दनिषेधस्यावसीयत इति सूचयितुम् - यथोक्तमित्युक्तम् । यच्च प्रतिशब्दं विधिनिषेधवाक्यानुमानकल्पनानुपपत्तेर्न साध्वसाधुतोर्विधिनिषेधविषयत्वं सम्भवतीत्युक्तम् । तत्परिहरति - द्वाभ्यामेवेति । ऋत्वर्थपुरुषार्थविध्योर्भेदेऽपि विधित्वेनैक्यं मत्वा - द्वाभ्यामित्युक्तम् । ननु वेदवचनं पुनर्वस्तुस्वरूपतद्गतगुणदोषान्वाख्यानपरं विधिप्रतिषेधानपेक्षं नैव किञ्चित्प्रमाणत्वेन सम्भवतीत्यनेन वेदस्य स्वरूपपरत्वनिषेधात्कथं स्वरूपज्ञानार्थं शास्त्रविषयता साध्वसाधुत्वयोरुक्तेत्याशङ्क्याह - न चेति । 'यावदेकाहेनाश्वो याति तावदाश्वीनं । ननु तत्राप्यविनाशी वा अरेऽयमात्मा ज्ञातव्य इत्येवंविधिपरस्यैव शास्त्रस्य स्वरूपज्ञानार्थत्वान्न तन्निरपेक्षस्येत्याशङ्क्याह अथापीति । अत्रापि तह्यर्थं- प्रत्यायनाङ्गत्वविशिष्टलक्षणानुगतस्वरूपैकोप लक्षणोपपत्तेर्यऽर्थप्रत्यायनाङ्गभूताः शब्दा लक्षणा- नुगताः ते साधवः, अन्ये चासाधवः प्रत्येत्तव्या इत्येवं ज्ञात्वा शास्त्रावधारितप्रयोजनान् शाधुशब्दान्प्रयोक्तुमिच्छेन्नानर्थंप्रत्यायनाङ्गभूताः शब्दा लक्षणेनानुगतास्ते साधवः न वा लक्षणेनाननुगता नित्येवं विधिनिषेधपरयोः शास्त्रयोः साध्वसाधुस्वरूपज्ञानार्थत्वं भविष्य- तीत्याशयः । यावद्रूपमित्यनेन द्वयोरेव विधिनिषेधयोरेकेनोपलक्षणेन - सर्वशब्दापशब्द- व्यापित्वमुक्तम् । शास्त्रस्य विषयोऽप्येष इत्यपिशब्दसूचितमुपमानादिप्रमाणविषयत्वं दर्शयन्नुपमानं तावद् द्विविधमाह- निः सन्दिग्धेति । यो ह्यविनष्टत्वेन निःसन्दिग्धो वृद्धप्रयुक्तो देवदत्त- शब्दो, यश्च विनष्टत्वेन निःसन्दिग्धो बालप्रयुक्तस्तत्तु शब्दस्तत्साहश्यं यच्च पटुकरणाभि- व्यक्त्यत्त्वादिधर्मसामान्यभूतस्वरूपं गोशब्दादेरुपमानेनावगम्य पटुकरणाभिव्यङ्ग्यत्वस्य विनष्टाविनष्टरूपत्वेन देवदत्तादिशब्दे व्याप्तिदर्शनाद् गोशब्दादौ विनष्टाविनष्टरूपत्वेन देव- दत्तादिशब्दे व्याप्तिदर्शनाद् गोशब्दादौ विनष्टाविनष्टरूपत्वानुमानं सम्भवतीत्युपमानपूर्वका- नुमानविषयत्वं साध्वसाधुत्वयोरुपचारादुपमानविषयत्वेन विवक्षितमिति - शष्यशब्देन सूचितम् । सङ्कीर्णं साधुविषयं चेदमुपमानं लक्षणानुगतवैदिकशब्दसादृश्यं लक्षणानुगतत्वस्या- विनष्टत्वेन वैदिकेषु व्याप्तिदर्शनात् लौकिकेष्वविनष्टत्वानुमानमित्येतदप्युपमानपूर्वकमेवानु- मानमसङ्कीर्णसाधुत्वविषयमिति दर्शयितव्यमित्यनेन सूचितम् । सङ्कीर्णसाधुत्वविषयां तावदर्थापत्तिमाह - तथेति । लक्षणनैरपेक्ष्याभिप्रायो लौकिकशब्दः । वृद्धव्यवहारनिबन्ध- नेनार्थप्रत्ययेन द्योत्थापिता वाचकत्वविषयार्थापत्तिः, तया विनष्टस्य स्वाभाविकाभिधान- शक्तत्वरूपवाचकत्वानुपपत्तेरविनष्टरूपं साधुत्वं गाव्यादिशब्दसङ्कीर्णं निश्चीयत इत्यर्थः । असङ्कीर्णसाधुत्वविषयामर्थापत्तिमाह - तत् इति । अन्याशक्तिनिमित्तं तदनासक्तिनिमित्तं स्पृष्टादिकरणवैगुण्यनिमित्तं वा यत्सम्भवत्यपभ्रष्टं रूपम्, तद्वर्जितस्य केवलस्य साधोर्यल्लक्षणे- नान्वाख्यानम्, तदन्यथानुपपत्त्या गोशब्दादेरेव साधुतेति सिद्धम् । गवादिराब्दनियतमसङ्कीर्ण- साधुत्वज्ञानमित्यर्थः । गाव्यादिशब्दानां लक्षणाभावस्यासाधुत्वं विनानुपपत्तेरभावपूर्वक- यार्थापत्त्या साधुत्वाभावनिश्चयात्तद्वारेणाभावस्यापि साध्वसाधुत्वनिर्णयो विषय इत्याह- अपभ्रंशेष्विति ।

६०४ मीमांसादर्शनम् [ सू० ननु प्रत्यक्षादित्रयविषयत्वाभिधानमात्रेण परोक्तश्लोकप्रतिकञ्चुकसिद्धेरुपमानादि- त्रयविषयत्वाभिधानं किमर्थमित्याशङ्कयाह—इतीति। व्यापारशब्देनाभावोपमानयोः साक्षात्साध्वसाधुत्वनिर्णायकत्वाभावेऽपि व्यापारसद्भावात्तद्विषयतेति सूचितम् । प्रयोगेऽप्य- स्त्यसङ्कर इत्येतद्विवृणोति—यद्यपीति । मातापितृसम्बन्धकुशलानां ब्राह्मणादिविवेक- वत्प्रकृतिप्रत्ययान्वाख्यानकुशलानां साध्वसाधुशब्दविवेकोऽस्तीत्यर्थः । किञ्च साधुत्वं नाम दोषवर्जितत्वम् । तच्चान्यत्रापि परीक्षकगम्यं दृष्टमित्याह—यथा चेति । रत्नतत्त्वपरीक्षका यथा पद्मरागादीनि विवेकेन जानन्ति, तथा परे शब्दानामदोषवर्जितत्वम्, तच्चान्यत्रापि परीक्षकत्तत्त्वपरीक्षकाः साधुत्वं विवेकेन जानन्तीत्यर्थः । लक्षणस्य च साध्वसाधु- विवेकोपायता रत्नपरीक्षायामेव दृष्टेत्याह—यथेति । एवं च साध्वसाधुविवेकस्य प्रत्यक्षादि- नावगतिसम्भवे तन्निराकरणाच्च तत्पूर्वकंपुरुषवचननिराक्रियापि सिद्धेति यदुक्तम्, तदपि- प्रतिहतं भवतीत्याह पौरुषेयेति । ननु व्याकरणानुगतसाधुत्वानन्तरं प्रत्यक्षेणासङ्कीर्णसाधुत्वदर्शने माभूदन्धपम्परा- न्यायापत्तिः । सङ्कीर्णस्य तु साधुत्वस्य पूर्वंदृष्टस्य व्याकरणमात्रात् विवेकज्ञाने तदाप- त्तिरपरिहार्येत्याशङ्कयाह—यावानिति । अयमाशयः—न तावददृष्टसाधनत्वलक्षणसाधुत्व- विवेकेऽन्धपरम्परान्यायापत्तिः विधिनिषेधमूलत्वादविनष्टरूपसाधुविवेकेऽपि न तदापत्ति- र्वेदादिविद्यास्थानप्रयोगमूलत्वादिति । यच्चार्थप्राप्तश्च योऽर्थः स्यादित्यनेनार्थप्राप्तत्वात्साधुविधानानुपपत्तिरित्युक्तम्, तदनु- भाषणपूर्वकं परिहरति - यत्त्विति । यथा चतुर्थे समे दर्शपूर्णमासाभ्यां यजेत 'पौर्णमास्यां पौर्णमास्या यजेत' दर्शपूर्णमासयोश्चत्वार ऋत्विजः इत्युपात्तानामपि देशादीनामर्थ- प्राप्तत्वादविधानमिति पूर्वपक्षयित्वा, पक्षप्राप्तानामपि नियमार्थो विधिरिति नियमार्था श्रुतिरुच्येत इति सूत्रेण सिद्धान्तयिष्यते । तथात्रापि नियमार्थो विधिर्भविष्यतीत्याशयः । यच्चात्यन्तावाचकत्वादित्यनेन व्यावर्त्यासाध्वप्रसक्तेरसाधु निवृत्त्यर्थस्य नियमस्यानु- पपत्तिरित्युक्तं तदप्यनुभाषणपूर्वकं परिहरति—यस्त्विति । यत्त्वयाऽन्यनिवृत्तिफलो विधि- नियम इत्युक्तः । स नियमः, परिसंख्या वेत्यनेन किं नादौ परस्तान्नियमः किन्तु परि- संख्येत्याशयः । सा चात्यन्तव्यावृत्त्याद्विना नेष्यते, यस्तु परमार्थतो नियमः, स नित्यप्ता- मात्रकारीति किमिति व्यावृत्त्याद्विना न लभ्यत इत्यर्थः । ननु भाषणे साधूनां नित्यप्राप्त- त्वान्नियमोऽनर्थकः स्यात्, भाषणनियमे तु मोने दोषः प्रसज्येतेत्युक्तं तत्राह—सतीति । द्विधा परस्यार्थः पुरुषेण ज्ञाप्यते स्वाभिप्रायप्रकाशनद्वारेण वा तन्निरपेक्षमुख्यगौणलाक्षाणि- कैव त्रैरूप्यादिस्मरणमात्रे वा । तत्र स्वाभिप्रायप्रकाशनद्वाराथंज्ञापनमिह त्रैरूप्यस्मार- णादिद्वाराथंप्रकाशनव्यावृत्त्यर्थंभाषितव्यशब्देन लक्षणयोक्तम् । अनेन च पूर्वपक्षोक्तं दूषण- द्वयमपि परिहृतम् । शब्दव्यापारद्वाराथंज्ञानरूपे हि भाषणे साधुव्यतिरिक्तोपायाप्रसक्तेः साधुनियमानर्थक्यमपरिहार्यम् । अर्थज्ञापनमात्रे तु साधुनियमे त्रैरूप्याद्युपन्यासः शास्त्र,

२९ ] प्रथमाध्याये तृतीयपादः ६०५ काराणां विरुद्धयेत । स्वातन्त्र्येण तु सर्वदा साधुभाषणनियमे मौने दोषोऽपरिहार्यः । स्वाभिप्रायप्रकाशनद्वाराऽर्थज्ञापनं मौनिनाक्षिनिकोचादिना क्रियमाणं न श्रेयःसाधन- मित्यक्षिनिकोचादिव्यावृत्त्यभिधानेनैव सूचितम् । अतश्च भोजनादौ मौनविधाने शाकादे- र्भाषणनिवारणादि हस्तसंज्ञादिना न कार्यं शिष्टाचारविरोधपरिहारार्थं वा मौनविध्य- भावविषयत्वं साधुभाषणनियमस्य कल्पनीयम्, भाषणानुवादेन साधुनियामकत्वं कल्प्यम् । साधुभाषाशब्दस्त्वस्मिन्पक्षे विशेषणाशयः । नन्वन्यनिवृत्त्या शिष्टाचारविरोधपरिहारार्थं वा मौनविध्यभावं विना नित्यत्वायोगा- न्नियमेऽप्यन्यनिवृत्तिरवश्यं कल्प्येत्याशङ्क्याह — यद्यपि चेति । साधुस्मृत्या व्यवहिता- नामसाधूनः तदर्थप्रतिपादकत्वोपपत्तेरपभ्रंशकाले प्रयोगः सम्भवतीति विप्रकर्षाभिधायि- कालशब्दोक्तानां स्मर्यमाणावधिदीर्घकालप्रयोगरूपरूढशब्दोक्तम्लेच्छभाषणविलक्षणसाधु- सादृश्यरूपात्मककारणद्वय न्यया भ्रान्त्या वाचकत्वेनावार्चीनैर्गृहीतानामिदानीन्तनकाले प्रयोगः सम्भवतीत्यर्थः । गाव्यादिशब्दानामविवेकिलोकप्रसिद्धशब्दान्तरत्वमङ्गीकृत्य प्रसक्तिर्दर्शिता । परमार्थं- तस्तु तेषां गवादिशब्दापभ्रंशमात्रत्वेन शब्दान्तरत्वाभावाद्विनाशनिवृत्तिमात्रं नियमफल- मित्याह — अथ वेति । मा कश्चिद्विनीनशदित्येकवचनान्वयायऽध्याहार्यं विनाशनिवृत्त्यर्थत्वं नियमस्य दृष्टान्तपूर्वकमुपपादयति - तद्यथेति । तस्माद् ब्राह्मणेनेति प्रतिषेधः, तस्मादेषेति च त्रिविधिरविनष्टप्रयोगनियमार्थ इत्य- न्वयः। म्लेच्छतिधात्वर्थव्याख्यार्थत्वापभाषित्वादिति महाभाष्यकृतप्रयुक्तं धात्वन्तरं दर्शितम् । विनाशनिवृत्त्यर्थत्वोपपादनाय दुष्टः शब्द इति स्मृत्युपन्यासः । किंचिद्विनष्टस्यापि भग्नशृङ्गगोन्यायेन शब्दत्वानपायात्कथमपशब्दतेत्याशङ्क्य प्रमादादिनिमित्तेन विनाशे- त्याद्युक्तम् : अयमित्यनेनापशब्दत्वं परामृष्टम् । विनष्टस्यापि गवादिशब्दस्य म्लेच्छैर- प्रयोगात् किंनिमित्तो म्लेच्छशब्द इत्याशङ्क्य प्रकृतिप्रत्ययान्वाख्यानरूपव्यक्त्यभावेना- व्यक्तोच्चारणत्वनिमित्तता स्मरणेन सूचिता । प्रत्यक्षविधिनिषेधोपन्यासेन नात्र साधुभि- र्भाषितासाधुभिर्नेति विधिनिषेधौ कल्प्यौ; येनोक्तदोषद्वयापत्तिः स्यादिति सूचितम् । ननु प्रमादादेरभावे विनाशस्याप्रसक्तेर्भावे वा परिहर्तुमशक्तेर्निषेधो न युक्त इत्या- शङ्कते — ननु चेति । विनाशकारणनिषेधद्वारेण विनाशनिषेधो भविष्यतीति परिहरति — उच्यत इति । अशक्तेः प्रागभावरूपायाः स्वभावसिद्धत्वात् निषेधो न शक्य इत्याशङ्क्य- सामर्थ्यायेत्युक्तम् । प्रमादाशक्तभावेऽपि च त्रेधा प्रसक्तिः सम्भवतीत्यन्यथा परिहरति- अन्य इति । उपसंहरति -- तत्कथं नामेति । यत्किंचित्प्रमादाशक्तिरूपक्लेशो वा, दाक्षिण्याद्यनुवृत्तं वाऽनभियुक्तसंव्यवहारो वापभ्रंशकारणम् । तत्परिहारार्थमविनष्टशब्दप्रयोगविषयापन्नो नियम्यत इत्यर्थं । यच्च न चादृष्टार्थतापि तस्येत्यनेन दृष्टार्थत्वाच्छब्दप्रयोगस्यादृष्टार्थो—नियमो न युक्त इत्युक्तम् ।

६०६ मीमांसादर्शनम् . [ सू० त् क्रियारूपस्य नैराकाङ्क्ष्येऽपि तद्गतस्य नियमस्यादृष्टार्थत्वं विनानर्थक्यापत्तेर्युक्त- मित्यभिप्रायेणानुभाषणपूर्वकं परिहरति—यत्त्विति । ननु फलसिद्धयर्थत्वाद् अपूर्वकल्पनायात्र तदभावान्नापूर्वकल्पना युक्तेत्याशङ्क्य क्रतूपकाररूपं पुरुषार्थरूपं च फलं दर्शयितुमाह—क्रत्वर्थमिति । एतदेवोपपादयितुमेकस्य उभयत्वं संयोगपृथक्त्वादिति चातुर्थिकं सूत्रं साध्याहारमुपन्यस्यति—एकस्य त्विति । ननु तत्र दध्ना जुहोति दध्नेन्द्रियकामस्य जुहुयादिति वाक्यद्वयश्रवणात् तस्माद् गुणानां च. परार्थत्वादसंबन्धः समत्वात्स्यादि३-१-२२त्यनेन न्यायेन परस्परासङ्गतेरेकेन विहितस्य दध्नः, परेण फलबोधाद्योगात्परस्परनिरपेक्षवाक्यद्वयेन युक्तोभयरूपता । नन्विह तथाविधं वाक्यद्वयं श्रूयत इत्याशङ्कयाह—तच्चेहेति । ब्राह्मणेन न म्लेच्छितवा इति प्रकारणिकेन निषेधेनासाधुभाषणस्य ऋतुवैगुण्यापादकत्वावगतेरर्थात्साधुभाषणनियमस्य क्रत्वर्थता- वसीयते । एकः शब्दः सम्यक् ज्ञातः सुप्रयुक्तः शास्त्रान्वितः स्वर्गे लोके कामधुग् भवतीति चानारभ्यवादेन शास्त्रशब्दस्य रूढ्या विद्यास्थानवाचित्वात्सम्प्रदायपरतया व्याख्यानानु- पपत्तेर्व्याकरणशास्त्रानुगतसाधुशब्दभाषणनियमस्य स्वर्गसाधनत्वावगतेः पुरुषार्थतावसीयत इत्यर्थः । ननु भाषणस्यार्थप्रतिपत्त्यर्थत्वेन जुह्वादिवत्पारार्थ्यादपापश्लोकश्रवणवत्स्वर्गे लोके कामधुगिति फलश्रुतेरर्थवादत्वात्पर्णमयीत्वनियमवद्दृष्टवत्साधु नियम्यादृष्टस्यापि पुरुषार्थता न युक्तेत्याशङ्कयाह--तत्रेति । यदि क्रत्वर्थस्य भाषणस्योपायनियमरूपफलश्रुतिरेषा स्यात्, ततो भवेदर्थवादस्यानारभ्यविहितस्य तु भाषणस्य क्रत्वर्थत्वे प्रमाणाभावाद् दृष्टार्थव्यवहार- हेतुत्वेन शुद्धपुरुषार्थत्वावगतेस्तस्य च नियमं विनापि सिद्धेरदृष्टफलाकाङ्क्षिणि नियमे फलनिर्देशात्फलमेवावसीयत इत्यर्थः । एतदुपपादनार्थं फलमात्रेयो निर्देशादिति सूत्रोक्तं चतुर्थन्यायं दर्शयितुम्—आत्रेयेत्युक्तम् । श्लोकं व्याचष्टे क्रत्वर्थं हीति । पुरुषार्थांश इत्य नवधारितक्रत्वर्थत्वमात्रामिप्रायेण नियमस्य पुरुषार्थंतोक्ता । अनेन च क्रत्वर्थस्यांश इति क्रत्वर्थंशब्दे विग्रहः सूचितः । यच्च न चेदं नियमापूर्वमित्याश्रयासम्भवेनेह—अपूर्वकल्पना न युक्तेत्युक्तम् । तदनुभाष्य परिहरति—यस्त्विति । पूर्वार्धेन क्रत्वर्थशब्देन साधुभाषणनियमस्यानृतवदन- वर्जनवच्छुद्धक्रतुधर्मत्वाभिधानात्, तस्य च ऋतुसंयुक्तपुरुषधर्मविषयब्राह्मणसंयुक्तवाक्य- विषयत्वायोगात्तस्मादेषा व्याकृता वागुद्यत इत्यनेन वाक्येन या वागुद्यते, साव्याकृतेति वाग्वदनानुवादेन व्याकरणानुगतत्वविधिप्रतीतिरनारभ्याधीतस्यापि चेषेति सर्वनाम्ना- सन्निहितवैदिकवाग्वदनविषयत्वप्रतीतेलौकिकविषयत्वे च फलकल्पनागौरवापत्तेर्वेदिककर्माङ्ग- भूतव्रीह्यादिपदार्थव्यवहारार्थं लौकिकशब्दे प्रयोक्तव्ये व्याकरणानुगतशब्दनियमात्तज्जन्यं यदवघातादिनियमजन्यापूर्ववत् शुद्धक्रत्वर्थमपूर्वं तदङ्गभूतेष्वेव व्रीह्यादिष्वाश्रितम्, यत्तु न

२९ ] प्रथमाध्याये तृतीयपादः ६०७ ब्राह्मणेन म्लेच्छितवा इति ज्योतिष्टोमप्रकरणाधीतापशब्दनिषेधसामर्थ्यलभ्याद्यज्ञमध्यगत- मुक्तभाषणविषयात्साधुशब्दनियमादपूर्वं तज्जञ्जभ्यमानन्यायेनापशब्दवर्जनस्य क्रतुयुक्त- पुरुषधर्मत्वावधारणेन क्रतुसाधनीभूतपुरुषाश्रितमित्यर्थः । क्रत्वाङ्गभूतानामपि पदार्थानामङ्गस्वरूपेण यदभिधानं तदर्थं तद्विषयम् यन्न भवती- त्यनङ्गत्वाभिधानार्थमित्युक्तम् । अपूर्वहेतोर्नियमस्याभिधानविषयत्वमुपचारेणापूर्व्वेऽभि- हितम् । यद्वाऽङ्गभूतस्यापि यस्यानङ्गत्वेन प्राप्तत्वेनाभिधानं यस्य स अनङ्गत्वामिधानो यजमानः, तदर्थमित्यर्थः । उत्तरार्द्धं व्याचष्टे- प्रकरणेति । ननु जञ्जभ्यमानाधिकरणन्यायेन क्रतुयुक्तपुरुष- संस्कारत्वसिद्धावपि ऋत्विजामपि संस्कारोपपत्तेः कथं यजमानसंस्कारत्वावधारणेत्या- शङ्कय, न्यायान्तरमुक्तं शुद्धक्रत्वङ्गधर्मत्वेन क्रतुयुक्तपुरुषधर्मत्वेन च क्रत्वर्थस्य साधुभाषण- नियमापूर्वस्याश्रयमुक्त्वा, पुरुषार्थस्याह- पुरुषार्थेति । पुरुषार्थवाक्येऽपि प्रयोक्त्राश्रितं साधुभाषणनियमापूर्वमित्यन्वयः । कथमित्यपेक्षायां सम्यगित्यनेन सन्निधिः प्रमाणत्वेनोक्तः । ज्ञानपूर्वकस्य प्रयोगस्यापूर्वहेतुत्वसूचनाय ज्ञातुग्रहणम् । अपूर्वजनिकायाः साधुभाषणक्रियाया जन्यस्य च स्वर्गास्य फलस्य च तदाश्रितत्वात्तदधीननिरूपणस्यापूर्वस्यापि तदाश्रितत्वं युक्तमिति योग्यतोक्ता । यथा प्रधानयागसाध्यमादिशब्दोपात्तत्वमारादुपकारकाङ्गसाध्यम- पूर्वं प्रयोगकर्त्राश्रितमनुष्ठात्राश्रितमिति दृष्टान्तार्थः । ननु वक्ता तु भाषणे सर्व इत्यनेन ब्राह्मणेनेति तृतीया सुप्रयुक्त इति चोक्तिक्रियाया वक्तुर्गुणत्वावगमात्संस्कार्यत्व निषिद्धमत आह-तृतीयेति । दृष्टान्तं विवृणोति- यथैवेति । यथा तृतीयानिर्दिष्टस्यापि शेषस्य भूतोपयोगित्वाद्वहिषु क्षारणेन प्रतिपत्ति- रूपः संस्कारः शेषधारणाद्यपात्रान्तराप्रयोजकत्वाय चतुर्थे वक्ष्यते । तथेहापि ब्राह्मणस्य ज्योतिष्टोमसाध्यफलोपभोगलक्षणकार्योपयोगित्वाद्वपनादिनेव फलग्रहणयोग्यतारूपः संस्कारो भविष्यतीत्यर्थः । यद्वा वर्जनीयाया म्लेच्छनक्रियाया वपनादिवदेव यजमानकर्तृकत्वे सिद्धे तृतीयायाः कर्तृविधानार्थत्वायोगेनानुवादमात्राद्यर्थत्वात्तस्य चान्यतः सिद्ध्यपेक्षत्वात् यागकर्तृत्वस्यैव च प्रकरणसिद्धत्वात्तद्विषयत्वेनेयं तृतीयाऽङ्गमेव प्रतिवक्तुर्गुणत्वं ब्रूते, न म्लेच्छत्वं प्रतीत्याह- यदि वेति । पुरुषार्थवाक्ये तु कमिपदादेव स्वर्गकामादिवत्प्राधान्यलाभ इत्याह-कामधुगिति । गोदोहनादिवदधिकृताधिकारशङ्कानिवृत्त्यर्थो वहिःशब्दः । पूर्वार्द्धं व्याचष्टे- नैवेति । कथं तर्हि म्लेच्छतिनान्वय इत्याशङ्कयाह- कुर्वंतेति । यागगुणत्वं च व्रीह्यादिवत्संस्कार्यत्वस्यानुकूलमेवेत्याह-यागे इति । यागोपयोगिना ब्राह्मणेन संयुक्तस्य म्लेच्छनस्यारादुपकारित्वायोगात्संस्कारत्वमेव न युक्तमित्यर्थः । ननूपयोगित्वेऽपि ब्राह्मणस्य व्रीह्यादिवत्प्राधान्यावेदकद्वितीयाद्यभावात्कथं प्राधान्याव- गतिरित्याशङ्कयाह-तच्चेति । उपयोगितैव शेषस्वीकारसामर्थ्यात्प्राधान्याक्षेपिकेत्याशयः ।

६०८ मीमांसादर्शनम् [ सू० उत्तरार्द्धं व्याचष्टे—बाह्येति । साधुशब्दप्रयोगस्य फलसाधनतैवाऽवगम्यमाना प्रयोक्तुः फलभोक्तृत्वमाक्षिपतीत्याशयः । अनेन वानप्रस्थपदं चात्र विद्यत इति परिहृतम् । यच्च न वेदोच्चारणमुच्चारयित्रर्थमित्यनेनोच्चारणस्य पुरुषार्थपूर्वंद्धारता न युक्तेत्युक्तम्, तत्परि- हरति — यद्यपि चेति । अन्यार्थाश्रितस्य निषेधस्यान्यार्थत्वे तदहर्मांसमैथुने वर्जयेदिति दर्शपूर्णमासप्रकरणाधीतं निषेधमुदाहरति — तथा हीति । नियमस्यान्याश्रितस्यान्यार्थत्वे 'खादिरं वीर्यकामस्य यूपं कुर्यादित्युदाहरणमाह—क्रत्वर्थादिति । ननु संयोगपृथक्त्वाच्च ऋत्वर्थत्वेनानुष्ठितस्य खादिरत्वस्य पुरुषार्थनियमाश्रयतास्तीत्याशङ्क्योदाहरणान्तरमाह— भोजनाच्चेति । खादिरत्वरूपेणैक्यमभिप्रेत्य पूर्वोदाहरणं समर्थनीयमुपसंहरति—अतश्चेति । एवं चावेदमूलत्वादित्युपसंहारं दूषयति—अतश्चेति । यत्तु न चास्याः शास्त्रता स्वयमित्युक्तम् । तदपि दूषयति—यच्चेति । (नासन्निध्रिमा- दिति सूत्रोपन्यासेन कृतकत्वमशास्त्रत्वे हेतुरुक्त इत्यभिप्रेत्य—कृत्रिमत्वेनेत्युक्तम् । प्रसिद्धिं दर्शयति—शास्त्रेति । यौगिकत्वेऽपि प्रसिद्धिमपपादयति—अथापीति । किं च शब्दार्थस्य वृद्धप्रयोगैकसमधिगम्यत्वेन तर्कविषयत्वाभावान्न तर्केण शास्त्रत्ववारणं युक्तमिति प्रसङ्गा- प्पत्तेरित्याह—प्रसिद्धमपीति । श्लोकं व्याचष्टे — यथैव हीति । वेदातिरिक्तविद्यास्थानानां चाशास्त्रत्वमप्रामाण्यं वोच्यमानमङ्गीकृतप्रामाण्यवेदमूलत्वेन वार्येत वेदस्यैव त्वशास्त्र- त्वमप्रामाण्यं वोच्यमानं कथं वार्येतेति सोपहासं दृष्टान्तेन दर्शयितुमाह—यो हीति । शुक्लं निष्ठुरम् ननु पूर्वं व्युत्पादितेनेष्टानिष्टप्राप्तिपरिहारसाधनोपदेशकत्वेन स्वतः प्रामाण्याच्च- प्रामाण्यकारणनिरासेन च वेदस्याप्रामाण्यं वारयिष्यत इत्याशङ्कानिराकरणं सूचयितुं मातापित्रोर्निष्ठुराभिधायिनोर्वारकान्तराभावेऽपि तावेव वारकौ भविष्यत इत्याशङ्कां निरस्यति—परत्रेति । वेदवदितरविद्यास्थानानामपि प्रामाण्यस्य व्युत्पादितत्वान्न तदनाद- रेणेदं प्रत्यवस्थानम् । तदवस्थितन्यायानादरे कश्चित्प्रतीकार इत्याशयः । दृष्टान्तेन सूचितमर्थं प्रकटयति-तथेति । व्याकरणस्य वेदाङ्गत्वान्धर्माशास्त्रादिभ्योऽतिशयं सूचयितुम्- साङ्गेनेत्युक्तम् । ननु व्याकरणमात्रस्याप्रामाण्यं मयोच्यते न वेदस्य तेनायं वृथोपहास इत्याशङ्कयाह—क्रुद्ध इति । न चाङ्गीकृतेतरविद्यास्थानप्रामाण्यो व्याकरणमात्रस्या- प्रामाण्यं वक्तुमर्हत्यविशेषादित्याह—श्रुतीति । यच्च न च स्मृत्यन्तरं किंचिदित्यनेन स्मृत्यन्तरसंवादाभावाद् व्याकरणप्रामाण्यमुक्तं तदनुभाषणपूर्वकं परिहरति—यत्त्विति । ननु वर्णाश्रमधर्मोपदेशित्वाभावे व्याकरणस्य स्मृतित्वाभावान्न तन्न्यायेन प्रामाण्यं स्यादि- त्याशङ्कयाह—स्मृतित्वं त्विति । पूर्वानुभवपारतन्त्र्यनिमित्तस्मृतिशब्दो न वर्णाश्रमधर्मोप- देशित्वनिमित्त इत्याशयः । स्मृतित्वाभावेऽपि वा तत्तुल्यत्वस्मरणशास्त्रत्वप्रामाण्ययोः सिद्धिरित्याह—अथापीति । न्यायतुल्यत्वादपि तत्सिद्धिरित्याह—अपि चेति । न च मूलासम्भवात्स्मृतिन्यायाभावः मूलस्योपपादितत्वादित्याह- प्रमाणेति । दृष्टार्थप्रत्यायन- फलत्वरूपेण सर्वप्रमाणमूलत्वम् । अदृष्टफलत्वरूपेण तु शास्त्रमूलतेति विवेकः । मूलप्रमाण- सम्भवे च व्याकरणान्तरमूलतापि न दुष्यतीत्याह—एकस्य चेति । ननु पुंवाक्यमूलत्वेऽन्ध-

२७-२९ ] प्रथमाध्याये तृतीयपादः ६०९ परम्परान्यायः स्यादित्याह-- असम्भावितेति । यच्च परस्परेण चाचार्या इत्यादिनाऽ- न्योन्यविगानादप्रामाण्यमुक्तं तदप्यनुभाष्य परिहरति -- यत्त्विति । श्रुतीनां च विगीतत्वे तन्मूलश्रुतीनामविगानमेवा प्रामाण्यमापादयेदित्याह -- विगीतेति । न चान्योन्यसंवादः प्रामाण्यकारणं येन तदभावादप्रामाण्यं स्यादित्याह -- मूलेति । उपसंहरति - परस्परेति । सिद्धे वस्तुनि विकल्पायोगाद्यथासम्भवविषयं विकल्पाभिधानं न सर्वविगीतव्याकरणस्मृति- विषयम् । विगानं च धर्माधर्म्मसाधनत्वविषयं वा स्यात्, अन्वाख्यानविषयं वा, सूत्र- प्रत्याख्यानसमाधानरूपं वा, इष्ट्युपसंख्यानावापारूपम्, तत्र सूत्रकृतोऽपि प्रयोजनाभावाभि- प्रायाभावमभिप्रेत्य धर्माधर्म्मसाधनत्वे तावद्विगानं नास्तीत्याह - धर्म्मेति । यत्तु - सम्बोधने त्यूशनसस्त्रिरूपं सान्तं तथा नान्तमथाप्यदन्तम् । माध्यन्दिनिर्व्विगुणं त्विगन्ते नपुंसके व्याघ्रपदां वरिष्ठः ॥ इत्याद्यन्वाख्यानविगानम्, तत्र ब्रूमः पदार्थात्मानः सर्वेष्वेतेषु भिद्यते (श्लो० वा० वा० श्लो० १८२) इति तद्भूताधिकरणोक्तेन न्यायेन लक्ष्याणां सान्तनान्तादिशब्दानां भेदाद- विरुद्धमित्याह - अन्वाख्यानेति । सूत्रप्रत्याख्यानसमाधानयोश्च तर्कमूलत्वात्, तस्य चोच्चा- वचपुरुषबुद्धिप्रभवत्वेनानेकत्वरूपत्वोपपत्तेर्न व्याकरणाप्रामाण्यापादकतेत्याह- पुनरुक्तत्वा- दिना हीति । हिशब्दोऽप्यर्थे वैदिकत्वाच्च मूलत्वे तस्यैकरूपत्वेनानेकरूपप्रत्याख्यानाच्चानु- पपत्तिः स्यात्, न त्वेतदस्तीत्यर्थः । इष्ट्युपसंख्यानयोरपि व्याकरणान्तरमूलत्वादधिकोपसंख्यानस्य च मूलोपसंख्याना- प्रामाण्यप्रसञ्जकत्वान्न व्याकरणाप्रामाण्यापादकतेत्याह - ये चापीति । अल्पविषयत्व- मात्रस्याप्रामाण्यकारणत्वाभावं दृष्टान्तेनोपपादयति- तद्यथेति । ननु सूत्रकारस्य प्रयोजनानभिधानात्तद्भावाभिप्रायावगतेः, वार्त्तिककारादिभिश्च प्रयो- जनाभिधानाद्विगानमुक्तम् । तस्य कः परिहारः ? इत्याशङ्क्यानुभाषणपूर्वकं परिहारमाह- यस्त्विति । वार्त्तिककृता शास्त्रेण धर्म्मनियम इति वदता साधुशब्दप्रयोगद्वारा धर्म्मसिद्धिः परं प्रयोजनमुक्तम् । भाष्यकृता चाथ शब्दानुशासनमिति वदता साधुशब्दज्ञानं साक्षात्प्रयो- जनमुक्तम् । तत्र यस्तावद्वार्त्तिककारोक्तप्रयोजनानभिधाननिमित्तः सूत्रकारस्योपालम्भः कृतः, स चोपालम्भनत्वस्यानर्होऽसमर्थः श्रुतिस्मृतिसिद्धत्वनिबन्धनत्वादप्रयोजनानभिधानस्य, भाष्यकारोक्तस्य च लक्षणश्रवणानन्तरमेव स्वसंवेद्यत्वेन सुज्ञानत्वादित्यर्थः । एकैकसूत्रेण शब्दाज्ञानात्- ग्रन्थान्तर इत्युक्तम् । धर्म्मसिद्धेः श्रुतिस्मृतिसिद्धत्वं विवृणोति- सत्येति । कामधुगादिश्रुतेर्व्वर्त्तमानापदेशत्वेन फलपरत्वस्य दुर्ज्ञानत्वात्साधुशब्दप्रयोगविधिपरत्वेनान- भिमतौपि सत्यवचनविषया श्रुतिः स्मृतिश्चोपरिक्षिप्ता । ननु सत्यशब्दस्य लोकवेदयोरर्थ- विषयत्वाप्रसिद्धेः शब्दविषयता न युक्तेत्याशङ्कय, प्रौढिवादेन पूर्वोक्तमेवोभयविषयत्वं स्मारयति - सत्यं चेति । नानृतं वदेदित्यभिधानार्थत्वाद्वदतेरर्थाभिधानकाल एवासाधुभाषणं प्रत्यवायहेतुः, नान्यदेति विनियोगकालविशेषेणोक्तम् । साधुशब्दज्ञानस्यानुभवसिद्धत्वं ३९