ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)
Aitareya Aranyaka Hindi
महर्षि ऐतरेय महिदास द्वारा
स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)
अध्या० १।ख० ४] ऐतरेयारण्यकम् । १९५
अस्मिन्प्राणोपासने दोषवादी शत्रुरुपासकेन शप्तव्य इत्येतद्दर्शयति—
स य एनं प्राणवंशमुपवदेच्छक्नुवन्चेन्मन्येत प्राणं
वंशं समधा३म्, प्राणं मा वंशं संदधतं न शक्रोर्षी-
त्याह प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात्, इति ।
स यो ब्राह्मणोऽन्यो वा यः कोऽपि शत्रुरेनमुपासकं प्राणवंशध्यानेन तदात्मक-
मुपवदेत्प्राणं समाधातुं न शक्नोषीत्येवं दूषयेत् । तदानीमयमुपासको द्विविधः शक्तोऽ-
शक्तश्च तयोर्मध्ये यद्ययं शक्नुवन्नेवास्मीति मन्येत तदानीं प्राणमित्यादिना मन्त्रेणैनं
शत्रुं शपेत् । तस्य मन्त्रस्यायमर्थः । अहमुपासको वंशसदृशं प्राणं समधां सम्यक्-
चित्ते धारितवानस्मि । तथा सति प्राणरूपो यो वंशस्तं वंशं संदधतं सम्यग्ध्यानेन
धारयन्तं मां प्रति न शक्नोषि धारयितुं त्वमिति भवानाह । तस्मात्कारणाद्वंशस्था-
नीयः प्राणस्त्वां हास्यति परित्यक्ष्यति ततो मरिष्यसीति ।
अशक्तस्योपासकस्य शापमन्त्रे पाठान्तरं दर्शयति—
अथ चेदशक्नुवन्तं मन्येत प्राणं वंशं समधित्सिषन्तं नाशक्रः
संधातुं प्राणस्त्वा वंशो हास्यतीत्येनं ब्रूयात्, इति ।
यद्ययमुपासको ध्याने शक्तिरहितमात्मानं मन्येत तदानीमनेन मन्त्रेण शपेत् । तस्य
मन्त्रस्यायमर्थः । अहमुपासको वंशरूपं प्राणं सम्यग्ध्यानेन धारयितुमिच्छामि तादृश-
मिच्छन्तं मां प्रति संधातुं सम्यग्ध्यानेन धारयितुं नाशको न शक्नोषीत्येवं भवानाह
तस्माद्वंशरूपः प्राणस्त्वां परित्यक्ष्यतीति ।
पूर्ववदत्रोपासकस्य सामर्थ्यं दर्शयति—
यथा तु कथा च ब्रुवन्वाऽब्रुवन्तं वा ब्रूयादभ्या-
शमेव यत्तथा स्यान्न त्वेवान्यत्कुशलाद्ब्राह्मणं
ब्रूयादतिधुम्न एव ब्राह्मणं ब्रूयान्नातिधुम्ने च-
न ब्राह्मणं ब्रूयान्नमो अस्तु ब्राह्मणेभ्य इति
ह स्माऽऽह शूरवीरो माण्डूकेयः, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये
चतुर्थः खण्डः ॥ ४ ॥
पूर्वव्याख्येयम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यकभाष्ये
तृतीयारण्यके प्रथमाध्याये चतुर्थः खण्डः ॥ ४ ॥
१ क. ख. शक्तोऽस्मीत्ये ।
१९६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-
अथ पञ्चमः खण्डः ।
उक्तासु वक्ष्यमाणासु च संहितोपासनासु सर्वासु श्रोतॄबुद्धि^१समाधानार्थमुपास्यविषयं सम्यक्परिशोधयितुं प्रस्तौति—
अथ खल्वाहुर्निर्भुजवक्त्राः, इति ।
अथ कासां चित्संहितोपासनानां कथनानन्तरं निर्भुजशब्दाभिधेया संहिता वक्त्रे मुखे येषां संहितोपासकानां ते महर्षयो निर्भुजवक्त्रास्ते च विषयशोधनार्थं वक्ष्यमाणं वाक्यमाहुः ।
स खलु तदीयं वाक्यं दर्शयति—
पूर्वमक्षरं पूर्वरूपमुत्तरमुत्तररूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण सा संहितेति, इति ।
अस्याः^२ संहितोपनिषदः प्रारम्भे “पृथिवी पूर्वरूपं द्यौरुत्तररूपम्” [ ऐ० आ० ३ अ० १ ख० २ ] इत्यादौ पूर्वरूपमित्यनेन पूर्वमक्षरं विवक्षितम् । उत्तररूपमित्यनेनोत्तरमक्षरं विवक्षितम् । तयोरक्षरयोर्मध्ये योऽवकाशः स संहिताशब्देन विवक्षितः ।
एवमुपास्यनिश्चयार्थं पूर्वरूपादिशब्दान्व्याख्याय^३ प्ररोचनार्थं पूर्वमुक्तं [ ऐ० आ० ३ अ० १ ख० २ ] तदुपासनफलमनुस्मारयति^४—
स य एवमेतां संहितां वेद संधीयते प्रजया पशुभि- र्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।
तदेतत्तत्रैव व्याख्यातम् ।
योऽवकाश इति यदुक्तं तत्र कंचिद्विशेषं दर्शयति—
अथ वयं ब्रूमो निर्भुजवक्त्रा इति ह स्माऽऽह ह्रस्वो माण्डूकेयः पूर्वमेवाक्षरं पूर्वरूपमुत्तरमुत्तर- रूपं योऽवकाशः पूर्वरूपोत्तररूपे अन्तरेण येन संधिं विवर्तयति येन स्वरास्वरं विजानाति येन मात्रामात्रां विभजते सा संहितेति, इति ।
ह्रस्वो वामनः स्वल्पदेहः । स च स्वाभिज्ञत्वप्रकटनार्थं वयमिति पूजारूपं बहुवचनं प्रयुङ्क्ते । स चैवमाह । पूर्वरूपोत्तररूपयोर्व्याख्यानं तत्तादृशमेव, अवकाशः संहितेति यदुक्तं तत्रास्ति कश्चिद्विशेषः । न केवलमवकाशमात्रं संहितेति किं तु येनाव-
१ ग. श्रोतॄबुद्धि° । २ क. ख. तस्याः । ३ घ. ङ. ॰ब्दानाख्याय । ४ घ. ङ. ॰नुस्मरति ।
अध्या० १।ख० ५] ऐतरेयारण्यकम् । १९७
काशेन संधिं पूर्वोत्तरयोः संनिकर्षमध्येता विवर्तयति विशेषेण संपादयति येन चावकाशेन स्वरमस्वरं च विविच्य जानाति । “अग्निमीळे” [ ऋ० सं० म० १ सू० १ ऋ० १ ] इत्यत्रोत्तरपदे पदकालवदनुदात्तस्वरो न भवति किंतु स्वरितप्र- चयौ स्वरा॒वित्येतादृशो विवेकः । येन चावकाशेन मात्राममात्रां च विभजते । “तवेत्तत्सत्यमङ्गिरः” [ ऋ० सं० म० १ सू० २ ऋ० ६ ] इत्यत्र पदकाले वका- रस्योपरि ह्रस्वोऽकारो दृश्यते, संहिताकाले सा मात्रां न भवति, किंत्वेकारो मात्रेत्ययं विभागः । एतैर्विशेषणैर्विशिष्टोऽवकाशः संहिता न त्ववकाशमात्रमिति ।
पूर्ववत्फलमनुस्मारयति—
स य ए॒वमे॒तां संहि॒तां वेद॑ संधीयते प्र॒जया॑ प॒शुभि॒र्य- शसा ब्रह्मवर्च॒सेन स्व॒र्गेण लो॒केन॒ सर्व॒मायु॑रेति, इति ।
पूर्ववद्व्याख्येयम् ।
मतान्तरं दर्शयति—
अथ हास्य पुत्र आह मध्यमः प्रातीबोधीपुत्रोऽक्षरे खल्विमे अविकर्षन्नेकीकुर्वन्यथावर्णमाह तद्याऽसौ मात्रा पूर्वरूपोत्तररूपे अन्तरेण संधिविज्ञापनी साम तद्भवति सामैवाहं संहितां मन्य इति, इति ।
अस्य ह्रस्वमाण्डूकेयस्य मध्यमः पुत्रः कश्चिदस्ति, तस्य माता प्रातीबोधी । तत्पुत्रो महर्षिरिमे पूर्वोत्तरे अविकर्षन्परस्परमत्यन्तविशेषमकुर्वन्ननेकीकुर्वन्नत्यन्तमै- क्यमप्यकुर्वन्यथावर्णमाहेतं तं वर्णमनतिक्रम्योच्चारयति । तवेदित्यत्र पूर्वपदान्त्यम- कारमुत्तरपदादिमिकारं च संहिताकाले यदि पृथगुच्चारयेत्तदानीमत्यन्तविश्लेषो भवेत् । यदि त्विकारमन्तर्भाव्य केवलमकारमुच्चारयेत्तदानीमत्यन्तमेकीकरणं भवति । तदुभयं परित्यज्य यथाशास्त्रमेकारमसावुच्चारयति । तत्तथा सति पूर्वरूपोत्तररूपयोर्मध्ये याऽसौ मात्रोच्चारणविशेषरूपा संधिविज्ञापनी शास्त्रीयं संधिं विज्ञापयति तत्साम समत्वं भवति । अतिद्रुतातिविलम्बयोरभावात्सामैव तत्समत्वमेव संहितामहं मन्य इति मध्यमपुत्रस्य मतम् ।
अस्मिन्नर्थे कंचिन्मन्त्रमुदाहरति—
तदप्येतदृषिणोक्तम्, इति ।
१ घ. ङ. °पदस्य प° । २ क. ख. ह्रस्वाका° । ३ क. ख. घ. ङ. °नुस्मरति । ४ ग. घ. ङ. प्रतिबोधी । ५ क. ख. ॰ह तत्र वं॰ । ६ ग. तं वं॰ । ७ क. ख. ॰रं सं॰ ।
१९८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-
स चं मन्त्रः संहितायामेवमाम्नातः—“मा नः स्तेनेभ्यो ये अभिद्रुहस्पदे निशामिणो रिपवोऽन्नेषु जागृधुः । आ देवानामोहते विव्रयो हृदि बृहस्पते न परः साम्नो विदुः ” [ ऋ० सं० म० २ सू० २४ ऋ० १६ ] इति । हे बृहस्पते नोऽस्मान्मन्त्ररूपान्स्तेनेभ्यो विद्याचौर्यपरेभ्यो मा दा इत्यध्याहारः । तादृशेभ्यो मन्त्रोपदेशं मा कुर्वित्यर्थः । कीदृशा विद्याचोरा इत्याशङ्क्योच्यते— ये शिष्या अभिद्रुहस्पदे सर्वतो गुरुद्रोहस्य स्थाने वर्तमाना निशामिणो मायया गुरुमभिमुखीकृत्य व्यवहारे बाह्ये नितरां रमयन्तीति निशामिणः । एतेऽनुकूला इत्येवं गुरोर्भ्रान्तिं जनयन्तीत्यर्थः । ते च स्वहृदये रिपवः शत्रवः सन्तोऽन्नेषु भोग्येषु दृष्टार्थेष्वेव जागृधुरभिकाङ्क्षां कुर्वन्ति । तादृशेभ्यो स्तेनेभ्यो मन्त्रात्मकानस्मान्मा देहि । इति मन्त्रद्रष्टृणां वचनमेतत् । तर्हि केभ्यो मँत्रा दातव्या इति चेदुच्यते ये श्रद्धालुत्वो विव्रयः संभजनकर्तारः सन्तो हृदि स्वचित्ते देवानामिन्द्रादीनां यागादिरूपं संबन्धमा समन्तादोहते वितर्कयन्ति सर्वदा यागं कर्तुं विचारयन्ति । तादृशेभ्यो मन्त्रान्देहीत्यर्थः । ते च साम्नः समत्वादाजर्वाद्वत्परः श्रेयोहेतुर्नास्तीत्येवं विदुर्जानन्ति । अतस्ते मन्त्रोपदेशयोग्याः । अत्र यँथा शिष्याणां व्यवहारे समत्वं प्रशस्तमेवं संहितायामपि सँममात्रोच्चारणं प्रशस्तमित्यर्थः ।
एतस्य मन्त्रस्य प्रदर्शनार्थं चतुर्थं पादं पठति—
बृहस्पते न परः साम्नो विदुरिति, इति ।
पूर्ववत्फलवाक्यमनुस्मारयति—
स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके प्रथमाध्याये पञ्चमः खण्डः ॥ ५ ॥
बृहस्पते न परः०—ऋ० सं० म० २ सू० २४ ऋ० १६ ।
१ घ. ङ. च सं° । २ ग. ˚द्याचौरा । ३ घ. ङ. ˚षु दृ° । ४ क. ख. ग. मन्त्रो दातव्य इ° । ५ ग चेत्तदु° । ६ क. ख. ननु । ग. एव । ७ घ. ङ. यदा । ८ घ. ङ. समं मा° । ९ क. ख. ङ. ˚तुर्यपा° ।
अध्या० १। ख० ६] ऐतरेयारण्यकम् । १९९
अथ षष्ठः खण्डः ।
पुनरप्युपासनान्तरं वक्तुं प्रस्तौति—
बृहद्रथंतरयो रूपेण संहिता संधीयत इति तार्क्ष्यः, इति ।
तैरुक(तृक्ष)नामकस्य पुत्रः कश्चिन्महर्षिरेवं मन्यते । बृहन्नामकं यत्साम “त्वामिद्धि हवामहे” [ऋ० सं० म० ६ सू० ४६ ऋ० १] इत्यस्यामृच्युत्पन्नमस्ति यच्च रथंतराख्यं साम “अभि त्वा शूर नोनुमः” [ऋ० सं० म० ७ सू० ३२ ऋ० २२] इत्यस्यामृच्युत्पन्नं तयोरुभयोः साम्नोः स्वरूपेण संहिता संपद्यते । सामद्वयसंबन्धित्वेन संहिताध्यानं कर्तव्यमित्यर्थः ।
तमेव विवक्षितं ध्यानप्रकारं दर्शयति—
वाग्वै रथंतरस्य रूपं प्राणो बृहत उभाभ्यामु खलु संहिता संधीयते वाचा च प्राणेन च, इति ।
अत्र बृहद्रथंतरशब्दाभ्यां सामगानरूपो वाक्यार्थो न विवक्षितः । किं तर्हि प्रशस्तत्वसाम्येन ताभ्यां शब्दाभ्यां वाक्प्राणावुपलक्ष्येते । यथा बृहद्रथंतरसामनी सोमयागप्रकृतिरूपेऽग्निष्टोमे पृष्ठस्तोत्रस्य निष्पादके संती प्रशस्तत्वाभिप्रायेण सर्वत्र श्रुतिभिराद्रियेते तथा वाक्प्राणावपि देहव्यवहारनिष्पादकत्वेन प्रशस्तौ । तस्माद्वागेवात्र रथंतरस्य स्वरूपत्वेन विवक्षिता । प्राणो बृहतः स्वरूपत्वेन विवक्षितः । वाचा च प्राणेन चेत्येताभ्यामुभाभ्यामेव संहिता संपादनीया । वाक्प्राणरूपा संहितेत्येवं ध्यायेदित्यर्थः ।
उक्तसंहिताध्यानस्य गुरुशुश्रूषालभ्यत्वेन प्राशस्त्यं दर्शयति—
एतस्यां ह स्मोपनिषदि संवत्सरं गा रक्षयते तार्क्ष्यः, इति ।
येयमुपनिषद्वाक्प्राणरूपसंहिताविद्ये तस्यामेव निमित्तभूतायां सत्यामाचार्यप्रसादार्थं लौकिकगोपालवत्तरु(तृ)क्षस्य पुत्रो निरन्तरं संवत्सरमाचार्यसंबन्धिनीर्गा रक्षितवान् ।
न चात्र प्रयोजनान्तरमुद्दिश्य गोरक्षायां क्रियमाणायां प्रसङ्गादियं विद्या लब्धेति शङ्कनीयमित्येतद्दर्शयति—
एतस्यां ह स्म मात्रायां संवत्सरं गा रक्षयते तार्क्ष्यः, इति ।
मात्राशब्देन प्रयोजनान्तरं निवार्यते । एतस्यां मात्रायां केवलायां वाक्प्राणविद्या-
१ ग. °सनां व° । २ क. ख. °रं प्र° । ३ क. ग. घ. ङ. तारुक्ष्यः । ४ घ. °ति । तारुक्षुना° ।
५ ङ. तरुक्षुना° । ६ घ. ङ. °क्षितध्या°। ७ ग. °त्वपठनसा°। ८ क. ख. घ. ङ. °मनि सो° । ९ क. °स्तोमस्य । १० क. ख. ङ. सति । ११ ग. घ. ङ. तारुक्ष्यः । १२ ग. घ. ङ. छ. झ. तारुक्ष्यः ।
२०० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३तृतीयारण्यके-
यामेव निमित्तभूतायां सत्यां गोरक्षा कृता । तस्मादेतावता प्रयासेन लभ्यत्वादतिप्रश- स्तेयं विद्येत्यर्थः ।
वाक्प्राणयोर्बृहद्रथंतररूपत्वेन प्राशस्त्यमभिप्रेत्य बृहद्रथंतरप्रतिपादकं मन्त्रद्वय- मुदाहरति—
तदप्येतदृषिणोक्तम् , इति ।
तदेतन्मन्त्रद्वयं संहितायामेवमाम्नातम्—
“ प्रथश्च यस्य सप्रथश्च नामाऽऽनुष्टुभस्य हविषो हविर्यत् ।
धातुर्युतानात्संवितुश्च विष्णो रथंतरमाजभारा वसिष्ठः ।
अविन्दन्ते अतिहितं यदासीद्यज्ञस्य धाम परमं गुहा यत् ।
धातुर्युतानात्संवितुश्च विष्णोर्भरद्वाजो बृहदाचक्रे अग्नेः ” ।
[ ऋ० सं० म० १० सू० १८२ ऋ० १–२ ] इति ।
तदेतन्मन्त्रद्वयं प्रवर्गाभिषेवे सूक्ते समाम्नातम् । आनुष्टुभस्यानुष्टुप्छन्दोयुक्तैर्मन्त्रैः संस्तुतस्य यस्य प्रवर्ग्यहविषो नाम घर्म इत्यादिकं प्रथादयो जानन्तीति शेषः । प्रथ- सप्रथनामकावुभावृषी । चकारादनुक्तमहर्षिसमुच्चयार्थो । ते सर्वेऽपि यस्य हविषः प्रसिद्धस्य नाम जानन्ति । यच्च प्रवर्ग्यार्थं द्रव्यं हविषोऽपि हविर्भवति । उत्तमं हवि- रित्यर्थः । यथा राज्ञोऽपि राजेत्यत्रोत्तमत्वमुक्तं भवति तद्वत् । तादृशं हविः स्तोतुं वसिष्ठाख्यो महर्षी रथंतराख्यं सामाऽऽजभाराऽऽहृतवान् । तेन साम्ना तस्य हविषः स्तुतिरपि किंनिमित्तेत्याशङ्क्य धात्रादिदेवतानिमित्तेत्युच्यते । धात्रादिशब्देषु चतु- र्थ्यर्थे पञ्चमी । धात्रादीनां परितोषार्थं हविःस्तुतिरित्यर्थः । ते प्रथादयो महर्षयः प्रव- र्ग्यरूपं हविरतिहितं धात्रादिदेवेभ्योऽतिशयेनोपयुक्तमित्यविन्दल्लब्धवन्तो ज्ञातवन्त इत्यर्थः । यद्धविर्यज्ञस्य सोमयागस्य धाम स्थानमासीत् । सति हि प्रवर्ये सोमयागस्ते- जस्वीव भासते । तस्मादस्य हविषो धामत्वम् । तथा यद्धविः परमं गुहाऽत्यन्तं गोप्यं यज्ञस्य शिरोरूपत्वात् । तथा चान्यत्र श्रूयते— “शिरो वा एतद्यज्ञस्य । यत्प्रवर्ग्यः” [ तै० आ० प्र० ५ अ० १० ] इति । अग्निसहितानां धात्रादीनां परितोषं निमि- त्तीकृत्य तद्धविः स्तोतुं भरद्वाजाख्यो महर्षिर्बृहदाख्यं सामाऽऽचक्र आनीतवान् । सर्वेषु सोमयागेषु प्रशस्तं यत्प्रवर्ग्यहविस्तादृशं हविः स्तोतुं वसिष्ठभरद्वाजौ महता प्रयासेन रथंतरं बृहच्च संपादितवन्तौ । तदुभयसामरूपत्वेन प्रशस्तौ वाक्प्राणौ । तस्मा- द्वाक्प्राणरूपत्वेन संहिताध्यानमुत्तममिति मन्त्रद्वयोदाहरणस्य तात्पर्यार्थः ।
१ ग. ˚मेवाऽऽम्ना˚ । २ घ. ङ. ˚ष्टवम् । ३ ग. संकृतं । ४ घ. ङ. ˚तस्यार्थस्य । ५ ग. घ. ङ. ˚तुर्ष्वपि निमित्तार्थे पं˚ । ६ ग. घ. ङ. ˚य तद्बविः । ७ क. ख. ˚र्थः । प्र˚ ।
अध्या० १। ख० ६ ] ऐतरेयारण्यकम् । २०१
तस्यैतस्य मन्त्रद्वयस्य प्रतीकत्वेन चतुर्थपादौ पठति—
रथंतरमाजभारा वसिष्ठः । भरद्वाजो बृहदाचक्रे अग्रेरिति, इति ।
उपासनस्य फलं दर्शयति—
स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्य-
शसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।
पुनरपि गुणान्तरविशिष्टत्वेन वाक्प्राणरूपायाः संहिताया उपासनान्तरं विधत्ते—
वाक्प्राणेन संहितेति कौण्ठरव्यः प्राणः पवमानेन
पवमानो विश्वैर्देवैर्विश्वे देवाः स्वर्गेण लोकेन
स्वर्गो लोको ब्रह्मणा सैषाऽवरपरा संहिता, इति ।
कुण्ठरवस्य पुत्रो महर्षिः संहितोपासनामेवमुवाच । येयं वागस्ति सा प्राणेन संहिता संयुक्ता, वाचः प्राणेन प्रेर्यमाणत्वात् । स च प्राणो देहमध्यवर्ती पवमानेन बाह्यवायुना संहितः, बाह्यवायोः प्राणानुग्राहकत्वात् । स च पवमानो बाह्यवायुर्विश्वैर्देवैः संहितः, सर्वेषां देवानां बाह्याधीनक्रियोपेतत्वात् । ते च विश्वे देवाः स्वर्गेण लोकेन संहिताः, तल्लोकनिवासित्वात् । स च स्वर्गो लोको ब्रह्मणा वेदेन संहितः, वेदोक्तकर्मानुष्ठानलभ्यत्वात् । सैषा वागादिका ब्रह्मान्ता संहितोपासकैरवरपरेत्युच्यते । अवरैः पूर्वपूर्वमभिहितैः परैरुत्तरोत्तरमभिहितैश्च पदार्थैर्युक्तत्वात् । एवंरूपा संहिता ध्यातव्येत्यर्थः ।
तस्य ध्यानस्य फलं विधत्ते—
स यो हैतामवरपरां संहितां वेदौवं हैव स
प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण
लोकेन संधीयते यथैषा संहिता, इति ।
एषा ध्यातव्यत्वेनोक्ता संहिता बहुविधपदार्थपरम्परयोपेता । एवमेव स उपासकः प्रजादिपरम्परया संयुज्यते ।
यथोक्तपरम्परारहितेऽप्युपासने प्रमादिफलं समानमित्याशङ्कयात्र विशेषं दर्शयति—
स यदि परेण वोपसृतः स्वेन वाऽर्थेनाभिव्याह-
रेदभिव्याहार्षेन्नेव विद्याद्दिवं संहिताऽगमदित्युषां
रथंतरमाजभारा व०—ऋ० सं० म० १० सू० १८२ ऋ० १ । भरद्वाजो बृहदाचक्रे०—ऋ० सं० म० १० सू० १८२ ऋ० २ ।
१ ख. ˚तुर्थौ पा˚ । २ ग. ˚क्तमार्गानुं ।
२६
२०२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-
देवानामेव भविष्यतीति शश्वत्तथा स्यात् , इति ।
स उपासको यदि कदाचित्परकीयप्रयोजनेन वा स्वकीयप्रयोजनेन वोपसृतः प्रेरितः सन्नभिव्याहरेत्संहितां पठेत्तदानीमभिव्याहारार्थमेव संहितां पठितुमिच्छन्नेव विद्यादेवं मनसा संकल्पयेत् । कथमिति तदुच्यते—इयं मयोपास्यमाना संहिता दिवमगमत् । द्युलोकपर्यन्तं पदार्थजातं प्राप्तवती “विश्वे देवाः स्वर्गेण लोकेन स्वर्गो लोको ब्रह्मणा” इत्येवमुक्तत्वात् । तस्मात्कारणाद्विदुषां संहितोपासकानामत एव देवानां देवतारूपाणामेतेषां पुरुषाणामेवं भविष्यत्यैहिकमामुष्मिकं वाऽपेक्षितं श्रेयः सर्वदा भविष्यतीत्येवं मनसा संकल्पिते सति शश्वत्तथा स्यादवश्यं तत्फलं सिध्येत् ।
एवं सत्यस्या उपासनायाः संकल्पाधीनमिदमेव फलं न तु पूर्वोक्तं प्रजादिकमित्याशङ्क्य तदुभयसमुच्चयमाभिप्रेत्य पूर्वोक्तमेव पुनः पठति—
स य एवमेतां संहितां वेद संधीयते
प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन
स्वर्गेण लोकेन सर्वमायुरेति, इति ।
केवलवाग्रूपेण संहिताया उपासनन्तरं विधत्ते—
वाक्संहितेति पाञ्चालचण्डः, इति ।
पञ्चालाख्ये देशे समुत्पन्नश्चण्डस्तेजस्वी तन्नामको वा कश्चिन्महर्षिर्वाग्रूपेण संहिता ध्यातव्येत्याह ।
तदेतत्संहिताया वाग्रूपत्वं स एव महर्षिरुपपादयति—
वाचा वै वेदाः संधीयन्ते वाचा छन्दांसि
वाचा मित्राणि संदधति वाचा सर्वाणि
भूतान्यथो वागेवेदं सर्वमिति, इति ।
वेदाः सर्वेऽपि वाचैव संधीयन्ते पठ्यन्ते । छन्दांसि गायत्र्यादीन्यपि वाचा प्रयुज्यन्ते । मित्राणि स्निग्धाः पुरुषा वाचा प्रियोक्त्या संदधति संयुक्ता भवन्ति । न केवलं मित्राणि किंतु सर्वेऽपि प्राणिनः प्रियोक्त्या स्निग्धा भवन्ति । अपि च वागेवेदं सर्वमैहिकमामुष्मिकं च फलजातं संपादयति । राजसेवादौ प्रियभाषणेन धनलाभात् । मन्त्रजपादिना स्वर्गादिसिद्धेश्च ।
ननु वाचः प्राणप्रेरितत्वात्प्राणध्यानमेव प्रशस्तमित्याशङ्क्य वस्तुतत्त्वविचारेण तथात्वेऽपि संहितायां वाचः प्रत्यासत्तिमन्वयव्यतिरेकाभ्यां दर्शयति—
तद्यत्रैतदधीते वा भाषते वा वाचि तदा
१ क. ख. 'धेन्तप' । २ क. ख. 'र्थज्ञानं प्रा' । ३ घ. ङ. प्राणेन संस्कृत' । ४ घ. ङ. 'ध्यानं प्र' ।
अध्या० १। ख० (६)] ऐतरेयारण्यकम् । २०३
प्राणो भवति वाक्तदा प्राणं रेळ्ह्यथ यत्र
तूष्णीं वा भवति स्वपिति वा प्राणे तदा
वाग्भवति प्राणस्तदा वाचं रेळ्हि ताव-
न्योन्यं रीळ्हो वाग्वै माता प्राणः पुत्रः, इति ।
तत्तस्यां वाक्संहितायामियमुपपत्तिरुच्यत इति शेषः । यत्र यदा पुमानेतद्वेद-वाक्यमधीते लौकिकीं वा भाषां कथयति तदानीं प्राणो वाच्यन्तर्भूतो भवति वाच एव व्यापार उच्चारणलक्षणो दृश्यते न तूच्छ्वासनिःश्वासरूपः प्राणव्यापारः, अतस्तदानीमियं वाक्प्राणं रेळ्हि रेडि ग्रसति । एतावता संहितापाठकाले वाग्व्यापाररूपोऽन्वयोऽभिहितः । अथशब्देन वैलक्षण्यवाचिना व्यतिरेक उपक्रम्यते । यत्र यदा तूष्णीं वा भवति वाग्व्यापारं परित्यज्य मौनी सन्नवतिष्ठते चक्षुरादिव्यापारमपि परित्यज्य स्वापं वा प्राप्नोति तदानीमियं वाक्प्राणेऽन्तर्भवति, वाग्व्यापारो न दृश्यते प्राणव्यापारस्तु दृश्यते । तस्मात्तदानीं प्राणो वाचं रेळ्हि ग्रसति । न च तूष्णींभावे स्वापे वा संहितापाठोऽनुगच्छति । तथा सति यत्र वाग्व्यापारो नास्ति तत्र संहिता नास्तीत्येवं व्यतिरेकः प्रदर्शितो भवति । तावेतौ वाक्प्राणावन्योन्यं रीळ्हः कालभेदेन ग्रसतो यद्यपि तथाऽपि वागेव माता प्राणः पुत्रः । तस्माद्वाग्भ्यानं प्रशस्तमित्यर्थः ।
वाचो मातृत्वे प्राणस्य पुत्रत्वे च संवादकं मन्त्रमुदाहरति—
तदप्येतदृषिणोक्तम् , इति ।
तमेतं मन्त्रं पठति—
एकः सुपर्णः स समुद्रमाविवेश स इदं विश्वं भुवनं विचष्टे ।
तं पाकेन मनसाऽपश्यमन्तितस्तं माता रेळ्हि स उ रेळ्हि मातरमिति, इति ।
योऽयमेकः प्राणवायुः सुपर्णः पक्षिवन्नि²राधारसंचारी स प्राणवायुर्बाह्यवायुरूपेण समुद्रं समुद्रवद्विस्तृतमन्तरिक्षमाविवेश प्रविष्टवान् । स प्राणदेव इदं विश्वं भुवनं सर्वमपि लोकं विचष्टे¹ विशेषेण ख्या³पयति । सति हि प्राणे जीवन्तः पुरुषा लोकं⁴ विख्यातं⁵ कुर्वन्ति । न तु प्राणरहिता मृताः । तं तादृशं प्राणदेवं⁶महमुपासकः पाकेन मनसा परिपाकेन⁷(ण) ज्ञानेनान्तितोऽन्तिके स्वहृदयेऽपश्यं दृष्टवानस्मि । केन प्रकारेण तद्दर्शनमिति तदुच्यते—तं प्राणं माता रेळ्हि। अध्ययनकाले लौकिकभाषा-
एकः सुपर्णः स०—ऋ० सं० म० १० सू० ११४ ऋ० ४ ।
¹ घ. ङ. उपलक्ष्यते । ² ग. ॰वदम्बरा॰ । ३ घ. ङ. स्थापयति । ४ घ. ङ. लोकविं
५ घ. ङ. ॰तं कर्म कुं । ६ क. ख. प्राणं दे॰ । ७ घ. ङ. ॰पक्त्वा॰ ।
२०४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३तृतीयारण्यके-
काले च वाक्प्राणं ग्रसति । स उ सोऽपि प्राणो मातरं रेळ्हि तूष्णींभावकाले स्वापकाले च वाचं ग्रसति । इतिशब्दो मन्त्रसमाप्त्यर्थः ।
उपास्तिफलं दर्शयति— स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्मवर्चसेन स्वर्गेण लोकेन सर्वमायुरेति, इति ।
उपासनान्तरं प्रतिजानीते— अथातः प्रजापतिसंहिता, इति ।
अथ पञ्चालचण्डकौण्ठरव्यादिमहर्षिप्रणीतसंहिताध्यानकथनानन्तरं यतः प्रजापतिप्रणीता संहिता कृत्स्नकुटुम्बविषयत्वात्प्रशस्ता, अतः कारणात्साऽभिधीयते ।
तामेतां¹ संहितां दर्शयति— जाया पूर्वरूपं पतिरुत्तररूपं पुत्रः संधिः प्रजननं संधानं सैषाऽदितिः संहिता, इति ।
संभोगकालेऽधोवर्तित्वाज्जायायाः² पूर्ववर्णरूपत्वम् । उत्तरदेशवर्तित्वात्पत्युरुत्तरवर्णरूपत्वम् । उभयमेलनजत्वात्पुत्रः संधिः । प्रजननं पुत्रोत्पादनं संधानं संहिताया निमित्तम् । “इको यणचि” [पा० सू० अ० ६ पा० १ सू० ७७] इत्यादावच्परत्वं यथा संधिकार्यनिमित्तं तद्वत् । येयं ध्यातव्या संहितोक्ता सैषाऽदितिरखण्डनीया, जायापतिपुत्रतदुपयुक्तव्यापारैः कृत्स्नस्य संसारधर्मस्य³ पूरितत्वात् ।
तमेतमर्थं विस्पष्टं दर्शयति— अदितिर्हीदं सर्वं यदिदं किंच पिता च माता च पुत्रश्च प्रजननं च, इति ।
पित्रादिकमपेक्षितं लोके यत्किंचिदस्ति तदिदं सर्वमदितिर्ह्यखण्डमन्यूनमित्यर्थः⁴ । यथेयं संहिता पित्रादिभिरपेक्षितैः पूर्णत्वाददितिरेवमदितिनामयुक्ता देवमाता सर्वदेवपूर्णत्वेन⁵ साम्येन, अदितिदेवताप्रतिपादकं मन्त्रं प्रकृतसंहिताप्रशंसार्थमुदाहरति—
तदप्येतदृषिणोक्तम्, इति ।
स च मन्त्रः संहितायामेवमाम्नातः⁶—
“अदितिर्द्यौरदितिरन्तरिक्षमदितिर्माता स पिता स पुत्रः।
विश्वे देवा अदितिः पञ्च जना अदितिर्जातमदितिर्जनित्वम्” ॥
[ ऋ० सं० म० १ सू० ८९ ऋ० १० ] इति ॥
¹ घ. ङ. ॰तां दं । ² क. ख. ॰धोभागव॰ । ³ ग. ॰रस्य । ४ क. ख. ग. ॰ण्डनम॰ । ५ क. ख. ग. ॰नत्वमि॰ । ६ घ. ङ. ॰मेवाऽऽम्ना॰ ।
अध्या० १।ख०६] ऐतरेयारण्यकम् । २०५
द्युलोकाद्यभिमानिदेवतानां सर्वासामदितिकार्यत्वे सति कारणव्यतिरेकेण कार्याभावा-
ददितेः सर्वात्मकत्वं युक्तम् । गन्धर्वाः पितरो देवा असुरा रक्षांसीत्येते पञ्च जनाः ।
यद्वा निषादपञ्चमा ब्राह्मणादिवर्णाः पञ्च जनाः । किंच यज्जातं पूर्वमुत्पन्नं यज्जनि-
त्वमितः परं जनयितव्यं तत्सर्वमदितिरेव । तादृगदितिदेवतानामसाम्यादियं संहिताऽपि
प्रशस्तेत्यर्थः ।
एतंस्य मन्त्रस्य प्रतीकत्वेन द्वितीयं पादं पठति—
अदितिर्माता स पिता स पुत्र इति, इति ।
उपासनस्य फलं दर्शयति—
स य एवमेतां संहितां वेद संधीयते प्रजया पशुभिर्यशसा ब्रह्म-
वर्चसेन स्वर्गेण लोकेन सर्वमायुरेति सर्वमायुरेति, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके प्रथमाध्याये
षष्ठः खण्डः ॥ ६ ॥
इति बह्वृचब्राह्मणारण्यककाण्डे तृतीयारण्यके
प्रथमोऽध्यायः ॥ १ ॥
अभ्यासोऽध्यायसमाप्त्यर्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक-
भाष्ये तृतीयारण्यके प्रथमाध्याये षष्ठः खण्डः ॥ ६ ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म-
णारण्यककाण्डभाष्ये तृतीयारण्यके प्रथमोऽध्यायः ॥ १ ॥
अदितिर्माता स पिता०—ऋ० सं० म० १ सू० ८९ ऋ० १ ।
१ घ. ङ. 'तन्मन्त्र' ।
अथ तृतीयारण्यके द्वितीयोऽध्यायः।
तत्र प्रथमः खण्डः। (सप्तमः)
प्रथमेऽध्याये संहितापद्क्रमाणां नानाविधं ध्यानमुक्तम्। द्वितीयेऽक्षरादिबहुविधध्यानान्युच्यन्ते। तत्राऽऽदौ तावत्सिंहावलोकनन्यायेन “अथातोऽनुव्याहाराः प्राणो वंश इति विद्यात्” [ ऐ० आ० ३ अ० १ ख० ४ ] इत्युक्तं तदेतदनूद्योपपादयति—
प्राणो वंश इति स्थविरः शाकल्यस्तद्यथा शालावंशे
सर्वेऽन्ये वंशाः समाहिताः स्युरेवमस्मिन्प्राणे चक्षुः श्रोत्रं
मनो वागिन्द्रियाणि शरीरं सर्व आत्मा समाहितः, इति।
शकलस्य पुत्रः शाकल्यः स तु बालोऽपि कश्चिदस्तीति स्थविरशब्देन विशेष्यते। तेन प्रोक्तं प्राणस्य वंशत्वध्यानं साम्यसद्भावादुपपद्यते। यथा लोके शालाया आधारभूतस्तम्भाग्रेषु दण्डायमानस्थापिते प्रौढे वंशे स्यूता अन्ये सर्वे वंशाः सम्यक्प्रतिष्ठिताः स्युरेवमस्मिन्प्राणवायौ चक्षुरादिकं शरीरान्तमवयवजातं तत्संघस्वरूपः सर्व आत्मा च सम्यगाश्रितः।
इत्थं बुद्धिस्थं वंशत्वमुपपादितम्, अथाक्षरध्यानं विधत्ते—
तस्यैतस्याऽऽत्मनः प्राण ऊष्मरूपमस्थीनि स्पर्शरूपं
मज्जानः स्वररूपं मांसं लोहितमित्येतदन्यच्चतुर्थम-
न्तस्था रूपमिति ह स्माऽऽह ह्रस्वो माण्डूकेयः, इति।
योऽयं “प्राणो वंशः” इति स्तुतिप्रसङ्गेन देहेन्द्रियादिसंघातरूपः सर्व आत्मोक्तस्तस्यैतस्य संघरूपस्याऽऽत्मनो यः प्राणोऽस्ति तदेतदूष्मणां स्वरूपम्। शषसहाख्या अक्षरविशेषा ऊष्माणस्तेष्वक्षरविशेषेषु प्राणदृष्टिं कुर्यात्। मातृकापाठे ककारादयो मकारान्ता वर्णाः स्पर्शसंज्ञकास्तेष्वस्थिदृष्टिः। अकारादयः, अकारान्ता वर्णाः स्वरसंज्ञकास्तेषु मज्जदृष्टिः। यरलवाश्चत्वारो वर्णा अन्तस्थासंज्ञकास्तेषु मांसलोहितरूपं पूर्वोक्तत्रयापेक्षया चतुर्थमङ्गमन्यद्ध्यातव्यम्।
१ घ. ङ. °थमाध्या°। २ ग. घ. ङ. °विधध्या°। ३ घ. ङ. °दिध्या°। ४ क. ख. ग. °लोकि-तन्या°। ५ घ. ङ. °णवं°। ६ क. ख. घ. ङ. °शस्य ध्या°। ७ घ. ङ. सोऽयं । ८ क. ख. ग. °रूपं सर्वमात्मो°। ९ क. ख. मज्जादृ°। १० घ. ङ. °हितं रू°।
अध्या० २ ख० १(७)] ऐतरेयारण्यकम् । २०७
तदेतच्चतुर्थाङ्गध्यानं माण्डूकेय उक्तवान् । शाकल्यस्य तु मते न चतुर्थध्यानं किंतु पूर्वोक्ताङ्गत्रयध्यानमेवेत्येतद्दर्शयति—
त्रयं त्वेव न एतत्प्रोक्तम्, इति ।
नोऽस्माञ्छिष्यान्प्रति शाकल्येन प्राण ऊष्मरूपमित्यादि त्रयमेवोक्तं न तु मांसमित्यादिकं चतुर्थम् । एवं सति शाकल्यमाण्डूकेयमतद्वयानुसारेण ध्याने विकल्पो द्रष्टव्यः ।
तत्र शाकल्यमाश्रित्य ध्यातव्यं¹ गुणान्तरं विधत्ते—
तस्यैतस्य त्रयस्यास्थ्नां मज्ज्ञां पर्वणामिति त्रीणीतः
षष्टि शतानि त्रीणीतस्तानि सप्तविंशतिशतानि
भवन्ति सप्त च वै शतानि विंशतिश्च संवत्सरस्या-
होरात्राः स एषोऽह्नःसंमानश्चक्षुर्मयः श्रोत्रमयश्छ-
न्दोमयो मनोमयो वाङ्मय आत्मा, इति ।
यान्यस्थीनि स्पर्शेषु ध्येयत्वेनोक्तानि, ये मज्जानः स्वरेषु ध्येयत्वेनोक्ताः, यानि च पर्वाण्यूष्मसु ध्येयत्वेनोक्तानि, यद्यप्यूष्मसु प्राण एव ध्येयत्वेनोक्तो न तु पर्वाणि तथाऽपि तस्य प्राणस्य तेषु पर्वसु संचारादभेदविवक्षा द्रष्टव्या । अस्थ्नां मज्ज्ञां पर्वणामिति यदुक्तं तदेव तस्यैतस्य त्रयस्येति संगृह्योच्यते । अस्थिमज्जपर्वरूपस्य त्रयस्यै² शकलविशेषाः पुरुषशरीरस्येतो दक्षिणपार्श्वे त्रीणि शतानि षष्टिश्च भवन्ति । पुनरपीतो वामपार्श्वे त्रीणि शतानि षष्टिश्च भवन्ति । तानि मिलित्वा सप्त शतानि विंशतिश्च संपद्यन्ते । संवत्सरस्याप्यहानि रात्रयश्च मिलित्वा विंशत्यधिकसप्तशतसंख्या गण्यन्ते । तथा सति स एष पुरुषोऽह्नःसंमानः संख्यया³ संवत्सरगताहोरात्रपरिमितः । तथा चक्षुःश्रोत्रादिभिरुपेतत्वात्तत्तन्मय आत्मा । तमेतमह्नःसमानत्वादिगुणविशिष्टमात्मानं ध्यायेदित्यर्थः ।
उक्तोपासनस्य फलं दर्शयति—
स य एवमेतमह्नःसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनो-
मयं वाङ्मयमात्मानं वेदाह्नां सायुज्यं सरूपतां सलो-
कतामश्नुते पुत्री पशुमान्भवति सर्वमायुरेति, इति⁴ ।
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये
प्रथमः खण्डः ॥ १ ॥ (७)
¹ घ. ङ. 'तव्यगु' ।
² क. ख. घ. ङ. 'स्य सक' ।
³ ग. घ. ङ. संख्यायाः ।
⁴ क. ख 'ति । सोऽह्ना' ।
२०८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-
स ब्रह्माऽहामहरभिमानिदेवतानां सायुज्यं तादात्म्यं सरूपतां पृथक्त्वे सति समानरूपत्वं सलोकतां समानलोकवासित्वमश्नुते प्राप्नोति । भावनायामत्यन्तमुत्कर्षे सायुज्यं मध्यमत्वे सारूप्यं मन्दत्वे सालोक्यमिति व्यवस्था द्रष्टव्या । तदेतत्सर्वमामुष्मिकं फलं पुत्रित्वादिकं चैहिकं द्रष्टव्यम् ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके द्वितीयाध्याये प्रथमः खण्डः ॥ १ ॥ (७)
अथ द्वितीयः खण्डः । ( अष्टमः )
उपासनान्तरं प्रतिजानीते— अथ कौण्ठरव्यः, इति । कौण्ठरव्यनामा महर्षिः कांचिदुपासनां वक्तीति शेषः । तामुपासनामाह— त्रीणि षष्टि शतान्यक्षराणां त्रीणि षष्टि शता- न्यूष्मणां त्रीणि षष्टि शतानि संधीनाम्, इति ।
अकारादयः स्वरा अक्षरशब्देन विवक्षिताः । ऊष्मशब्देन शकारादिवाचकेन सर्वाणि व्यञ्जनानि ककारादीन्युपलक्ष्यन्ते । संधिशब्देन स्वराणां व्यञ्जनानां च परस्परसंयोगोऽभिधीयते । *षष्टीत्येतदत्र पृथक्पदम् । तथा सति स्वराणां त्रीणि शतानि षष्टिश्चाधिकेत्युक्तं भवति । एकस्य संवत्सरस्य षष्ट्युत्तरं शतत्रयं दिवसाः, तेषु दिवसेषूच्चार्यमाणाः स्वरास्तत्संख्ययैव गण्यन्ते । एवं व्यञ्जनेषु स्वरव्यञ्जनसंयोगेष्वपि योजनीयम् । अयं न्यायः पूर्वस्यामुपासनायामप्येकैकपार्श्वगतास्थिमज्जैपर्वसु द्रष्टव्यः । तथा सति त्रीणीतः षष्टि शतानि त्रीणीत इत्येषा संख्योपपद्यते ।
उपास्यत्वेनाभिहितेष्वक्षरोष्मसंधिष्वहोरात्रादिदृष्टिं विधत्ते— यान्यक्षराण्येवोचामाहानि तानि यानूष्म- णोऽवोचाम रात्रयस्ता यान्संधीनवोचा- माहोरात्राणां ते संधय इत्यधिदैवतम्, इति । कालात्मानमहोरात्रतत्संधिरूपं दैवतमधिकृत्य वर्तत इत्यधिदैवतम् ।
* एतच्च पूर्वमपि “तस्यैतस्य” [ऐ० आ० ३ अ० २ ख. १] इत्यादिवाक्यव्याख्यानावसरे वक्तुमुचितम् । तत्रापि षष्टिशतानीति पदद्वयस्य कर्तुमत्रेवोचितत्वात् ।
१ घ. ङ. °रूप्यमघमत्वे । २ घ. ङ. °मज्जाप° । ३ ग. °ऽज्जमु ।
अध्या० २ ख० २] ऐतरेयारण्यकम् । २०९
देवतावयवानामहारादीनां दृष्टिरर्थाऽभिहिता तथा पुरुषशरीरावयवानामस्थ्यादीनां दृष्टिमपि विधत्ते—
अथाध्यात्मं यान्यक्षराण्यधिदैवतमवोचामास्थीनि तान्यध्यात्मं यानूष्मणोऽधिदैवतमवोचाम मज्जानस्तेऽध्यात्मम् , इति ।
अथ देवतावयवानामहारादीनां दृष्टिविधानान्तरमध्यात्ममुपासकशरीरावयवदृष्टि-रपि विधीयते । तत्र स्वरेष्वस्थिव्यष्टिर्व्यञ्जनेषु मैज्जदृष्टिश्च कर्तव्या ।
तामेतां मैज्जदृष्टिं प्रशंसति—
एष ह वै संप्रति प्राणो यन्मज्जैतद्रेतो न ह वा ऋते प्राणा-द्रेतः सिच्यते यद्वा ऋते प्राणाद्रेतः सिच्येत पूयेन्न संभवेत् , इति ।
मज्जेति यदस्त्येष एव संप्रति प्राणः समीचीनो मुख्यः प्राणवायुः । तत्कथमित्याशङ्क्य तदेव स्पष्टी क्रियते—मज्जाकार्यभूतमेतद्रेत उत्पत्स्यमानजन्तुप्राणतादात्म्यं प्राप्य प्राणरूपेण वर्तते । अत उत्पादकेन पितुर्तुकाले जनिष्यमाणजन्तोः प्राणाहते गर्भाशये रेतो न सिच्यते किंतु तदीयप्राणसहितमेव रेतः सिच्यते । यदि कदाचिदुत्पत्स्यमानजन्तोः प्राणाहते केवलं रेतः सिच्येत तदानीं तद्रेतः पूयेन्नश्येन्न तु पुत्ररूपेण संभवेत् । अतः प्राणसँहितरेतःकारणभूतैर्मज्जध्यानं प्रशस्तमित्यर्थः ।
स्वराणां व्यञ्जनानां च संधिषु शरीरावयवसंधिध्यानं विधत्ते—
यान्तसंधीनधिदैवतमवोचाम पर्वाणि तान्यध्यात्मम् , इति ।
यथोक्तमस्थ्यादिध्यानं संख्याद्वारेण प्रशंसति—
तस्यैतस्य त्रयस्यास्थां मज्ज्ञां पर्वणामिति पञ्चैतश्च-त्वारिंशच्छतानि पञ्चैतस्तदशीतिसहस्रं भवत्यशीतिस-हस्रं वा अर्कलिनो बृहतीरहरभिसंपादद्यन्ति , इति ।
अस्थिमैज्जपर्वणां यदेतत्रयमस्ति तस्यैतस्य त्रयस्य गणनार्थां कृतायामशीत्यधिकं सहस्रं संपद्यते । तद्यथाऽस्थिमज्जपर्वणां प्रत्येकं षष्ट्यधिकशतत्रये सति तानि त्रीणि शतत्रयाणि मिलित्वा नव शतानि संपद्यन्ते । षष्टीनां त्रयं मिलित्वाऽशीत्यधिकं शतं भवति । तदेवमशीत्युत्तरं सहस्रम् । एतच्च शरीरस्य पार्श्वद्वये विभज्य योजनीयम् । तथा योजनायामितो दक्षिणपार्श्वे पञ्च शतानि चत्वारिंशच्च भवन्ति । इत उत्तर-पार्श्वेऽपि पञ्च शतानि चत्वारिंशच्च भवन्ति । एवमशीत्यधिकसहस्रसंपत्तौ सत्यां
१ क. ख. घ. ङ. मज्जाहृ° । २ क. ख. घ. ङ. °मज्जाहृ° । ३ क. ख. ग. °जन्तुप्रा° ।
४ क. ख. °हितं रे° । ५ क. °भूतं म° । ६ क. ख. घ. ङ. मज्जाध्या° । ७ घ. ङ. 'मन्नाप' ।
८ घ. ङ. °यां क्रियमाणायां ।
२१० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३तृतीयारण्यके-
तत्संसख्योपेतास्थ्यादिमतः पुरुषस्याऽऽदित्यरूपत्वं संपद्यते । अर्के लीयन्त इत्यर्कलिन आदित्यस्य रश्मयः, ते चाशीत्यधिकं सहस्रं भवन्ति । अतः पुरुषस्य संख्यासाम्या- दादित्यरूपत्वम् । आदित्यस्य रश्मीनां सहस्रसंख्या चाऽऽथर्वणिकैराम्नायते— “सहस्ररश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः” इति । तेन च सहस्रे- णाशीतिरप्युपलक्ष्यते । किंचैता अस्थ्यादिगताः संख्या बृहतीच्छन्दस्का ऋचः संपाद्य महाव्रताख्यमहः सर्वतः संपादयन्ति । तस्मिंश्चाहनि बार्हती तृचाशीतिर्विद्यते । ताश्च बृहतीच्छन्दस्काः । एवमत्र संपादनीयाः । षट्त्रिंशदक्षरा तावदेका बृहती । तथा सति षष्ट्युत्तरशतत्रयसंख्यया दश बृहत्यः संपद्यन्ते । तस्यां च संख्यायां त्रिगुणीकृतायां त्रिंशद्बृहत्यः संपद्यन्ते । तदेवं बृहतीद्वारेण महाव्रताख्यस्याह्नः संपादनाद्यथोक्तसं- ख्योपेतमस्थ्यादिध्यानं प्रशस्तमित्यर्थः ।
अथाऽऽध्यात्मिकपुरुषध्याने गुणविशेषान्विधत्ते—
स एषोऽक्षरसंमानश्चक्षुर्मयः श्रोत्रमयश्छ- न्दोमयो मनोमयो वाङ्मय आत्मा, इति ।
योऽयमक्षरोपासकः पुरुषः स एषोऽक्षरैः संमीयते समानपरिमाणः क्रियत इत्य- क्षरसंमानः । स्वरेषु व्यञ्जनेषु तत्संधिषु च येयमशीत्यधिकसहस्रसंख्या सेयमस्थिषु मज्जसु पर्वस्वप्यस्ति तस्मादयमक्षरैः संमानः समानपरिमाणश्चक्षुःश्रोत्रादिव्यवहारोपेत- त्वाच्चक्षुरादिमयश्छन्दसामध्ययनाच्छन्दोमयस्तादृश आत्माऽहमित्येवमुपासीत ।
तदुपासनस्य फलं दर्शयति—
स य एवमेतमक्षरसंमानं चक्षुर्मयं श्रोत्रमयं छन्दोमयं मनोमयं वाङ्मयमात्मानं वेदा- क्षराणां सायुज्यं सरूपतां सलोकतामश्नुते पुत्री पशुमान्भवति सर्वमायुरेति, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ (८)
पूर्वोक्ताहःसंमानोपोस्तिफलव्याख्येयम् [ ऐ० आ० ३ अ० २ ख० १ ] ।
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये तृतीयारण्यके द्वितीयाध्याये द्वितीयः खण्डः ॥ २ ॥ (८)
१ क. ॰धिका सं॰। २ घ. ङ. ॰पास्तेः फ॰।
अध्या०२ख०३(९)] ऐतरेयारण्यकम् । २११
अथ तृतीयः खण्डः । ( नवमः )
उपासनान्तरं विधत्ते— चत्वारः पुरुषा इति बाध्र्वः, इति । बध्र्वस्य पुत्रो महर्षिर्वक्ष्यमाणाश्चत्वारः पुरुषा उपासनीया इति मन्यते । तान्पुरुषान्निर्दिशति— शरीरपुरुषश्छन्दःपुरुषो वेदपुरुषो महापुरुष इति, इति । तत्र प्रथमं पुरुषं विवृणोति— शरीरपुरुष इति यमवोचाम स य एवायं दैहिक आत्मा तस्य योऽयमशरीरः प्रज्ञात्मा स रसः, इति । बाध्वनामका वयं महर्षयो यं ध्यातव्यं देवं शरीरपुरुषनाम्ना कथितवन्तस्तं स्पष्टी कुर्म इति शेषः । देह एव दैहिकः स चाहं मनुष्य इति प्रत्ययवेद्यत्वादात्मा। तादृशो योऽस्त्ययमेव स पूर्वोक्तः शरीरपुरुषः । तस्य च देहरूपस्य पुरुषस्य स्वामित्वेनान्त- र्वर्तमानो योऽयमशरीरो नाम शरीररहितः प्रज्ञात्मा चिद्रूपः पुरुषः सोऽयं रसः शरीरपुरुषस्य सारः । तदुभयं ध्यायेदिति तात्पर्यार्थः । द्वितीयं विवृणोति— छन्दःपुरुष इति यमवोचामाक्षरसमा- म्नाय एव तस्यैतस्याकारो रसः, इति । "अग्निमीळे पुरोहितम्" [ ऋ० सं० म० १ सू० १ ऋ० १ ] इत्यत्र श्रूयमाणानामकारगकारनकारादीनामक्षराणां समाम्नायः सम्यक्पाठो योऽस्ति स एव च्छन्दःपुरुषशब्देन विवक्षितः । तस्यैतस्य च्छन्दःपुरुषस्य मध्ये सारोऽय- मकारो रस इति वेदितव्यः । तथा च पूर्वत्राऽऽम्नातम्—"अकारो वै सर्वा वाक्सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति" । तृतीयं विवृणोति— वेदपुरुष इति यमवोचाम येन वेदान्वेद ऋग्वेदं यजुर्वेदं सामवेदं तस्यैतस्य ब्रह्मा रसः, इति । लोके कश्चित्पुमान्येन मनसा सावधानेन वेदान्ताञ्जानाति "अग्निमीळे" [ ऋ० सं० म० १ सू० १ ऋ० १ ] इत्यादिरयमृग्वेदस्तेन हौत्रं कर्तव्यम्—"इषे त्वा"
१ क. ख. एवायं दै० । २ ग. नाशरहि० । ३ क. ख. घ. ङ. ॰रो यो मकारो वे० । ४ ग. ॰वैमान्ना० । ५ ग. ॰के वेदवित्पु० ।
२१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-
[ तै० सं० १ । १ । १ ] इत्यादिर्यजुर्वेदस्तेनाऽऽध्वर्यवं कर्तव्यम्—“अग्न आयाहि” इति सामवेदस्तेनौद्गात्रं कर्तव्यमित्येवमृग्वेदादिज्ञापकं मानसं यदवधानं सोऽयं वेदपुरुषत्वेनोच्यते । तस्यैतस्य वेदपुरुषस्य ब्रह्मा रसो हिरण्यगर्भोपास्त्या तद्रूपत्वमभिमन्यमानः पुरुषः सारभूतः ।
अत्र प्रसङ्गाद्धोत्रध्वर्युद्गातृव्यतिरिक्तस्य ब्रह्माख्यस्य चतुर्थस्यर्त्विजः कंचिद्विशेषं विधत्ते—
तस्माद्ब्रह्माणं ब्रह्मिष्ठं कुर्वीत यो यज्ञस्योल्बणं पश्येत् , इति ।
यस्माद्वेदत्रयाभिज्ञानरूपस्य वेदपुरुषस्य हिरण्यगर्भोपासको ब्रह्मा रसस्तस्माद्ब्रह्मनामसाम्याद्यागेऽपि ब्रह्माणमृत्विजं ब्रह्मिष्ठमतिशयेन वेदत्रयगतं कुर्वीत । ब्रह्मा यज्ञस्य संबन्धिनमुल्बणं तीव्रगुणं दोषं वा द्रष्टुं समर्थस्तादृशं कुर्वीत ।
चतुर्थं विवृणोति —
महापुरुष इति यमवोचाम संवत्सर एव प्रध्वंसयन्नन्यानि भूतान्यैक्या भावयन्नन्यानि तस्यैतस्यासावादित्यो रसः, इति।
योऽयं संवत्सरः कालात्माऽन्यानि भूतानि कानिचिद्गतायुष्काणि प्राणिशरीराणैक्या प्रध्वंसयन्स्वस्वकारणेन सहैक्यं यथा प्रतिपद्यन्ते तथा विनाशयन्भावयन्पुनरन्यानि कानिचिन्नूतनशरीराण्युत्पादयन्वर्तते । सोऽयं कालात्मा महापुरुषशब्देन विवक्षितः । तस्यैतस्य महापुरुषस्यासौ मण्डले दृश्यमान आदित्यो रसः सारः । यथा लोके वृक्षः स्वनिष्ठेन रसेन पूर्णः शोभत एवमेते शरीरपुरुषादयो यथोक्तै रसैः पूर्णाः शोभन्ते ।
चतुरः पुरुषांस्तद्रसांश्च ध्येयत्वेनाभिधायापरं कंचिन्मुख्यं गुणं ध्येयत्वेन विधत्ते—
स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात्तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति, इति ।
शरीरपुरुषसारत्वेनैवं प्रज्ञात्मा जीवोऽभिहितो महापुरुषसारत्वेन योऽयमादित्य ईश्वरोऽभिहित एतदुभयमप्येकमेव वस्त्विति विद्यात्साक्षात्कारपर्यन्तमुपासीत । यस्मादुभयोरेकत्वं वास्तवं तस्माल्लोकेऽपि तं तं पुरुषं प्रति संमुखः सन्नादित्योऽवतिष्ठते । तथा च तैत्तिरीया आमनन्ति—“असावादित्यः सर्वाः प्रजाः प्रत्यङ्ङुदेति । तस्मात्सर्व एव मन्यते मां प्रत्युदगादिति” इति ।
आदित्यमण्डले स्वशरीरे वस्त्वैक्यसंपादकं मन्त्रमुदाहरति—
तदप्येतदृषिणोक्तम् , इति ।
१ ड. ॰त्रयं कु॰ । २ ड. ॰गुणदोषं प्रमाष्टुं स॰ ।
अध्या० २ ख० ३(९)] ऐतरेयारण्यकम् । २१३
तमेतं मन्त्रं पठति—
चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्चेति , इति ।
अनीकशब्दो मुखवाची सैन्यवाची वा । यदेतदादित्यमण्डलं तदेतद्देवानां मुखम् । स हि व्यवहारहेतुत्वाद्देवानां मध्ये मुख्य इत्यर्थः । सैन्यपक्षे बहुविधरश्मिसमूहरू-पमिति व्याख्येयम् । तच्च मण्डलं चित्रं चायनीयं पूजनीयम् । यद्वा सर्वदिक्षु रश्मि-प्रसारणेन चित्रं देवानां मुखमित्यर्थः । तदेव चक्षुरित्यादिना प्रपञ्च्यते—मित्र-वरुणादीनां चक्षुःस्थानीयमिदं मण्डलम् । एतदीयेन हि प्रकाशेन सर्वे देवाः पश्यन्ति । तच्च मण्डलं लोकत्रयमाप्राः सर्वतः पूर्णं सद्धर्तते । तन्मण्डलस्थः सूर्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्यापि प्राणजातस्याऽऽत्मा प्रत्यक्षस्वरूपमिति मन्त्रस्यार्थः ।
यथोक्तपुरुषचतुष्टयोपासकस्य बाध्वस्य वचनमुपसंहरति—
एतामनुविधं संहितां संधीयमानां
मन्य इति ह स्माऽऽह बाध्वः, इति ।
शरीरपुरुष इत्याद्यनुक्रमेणोक्तां विधां प्रकारमनुसृत्यैत्यनुविधं तथा सम्यक्चित्ते धार्यमाणां संहितां मन्ये चिन्तयामीत्येवं बाध्वो महर्षिरुक्तवान् ।
अध्यात्ममधिदैवं च योऽयमेकः परमात्मा ध्येयत्वेनोक्तस्तस्य प्रशंसार्थं सर्वत्र ध्येयतां दर्शयति—
एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतम-
ग्नावध्वर्यव एतं महाव्रते छन्दोगा एतमस्यामेतं
दिव्येतं वायावेतमाकाश एतमप्स्वेतमोषधी-
ष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं
सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते , इति ।
बह्व्य ऋचो यागप्रयोगार्थं येषां होतॄणां ते होतारो बह्वृचाः । ते च यथोक्तम-ध्यात्ममधिदैवतमेकमेव सन्तं परमात्मानं महत्युक्थे प्रौढे शस्त्रे मीमांसन्ते विचार-यन्ति ध्यायन्तीत्यर्थः । अध्वर्यवस्त्वेतं परमात्मानमिष्टकाचयनेन निष्पादितेऽग्नावु-पासते । छन्दोगास्तु महाव्रताख्ये कर्मण्येमुपासते । एवं तत्तद्वेदगतकर्माङ्गेषु
चित्रं देवानामुदगात्०—ऋ० सं० म० १ सू० ११५ ऋ० १ ।
१ ग. मुख्यमि॑ । घ. ङ. मुखमि॑ । २ क. ख. विचित्रं । ३ क. ख. ग. ॰ध्यात्ममधि॑ । ४ घ. ङ. ॰दैवं धर्तितमे॑ । ५ ग. ॰तयोरेक॑ ।
२१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-
तैस्तैः १ परमात्मन उपास्यत्वमुक्तम् । तथा यागाद्बहिर्भूतेषु पृथिव्यादिषु सर्वभूतान्तेषु प्रतीकेष्वेतं परमात्मानं तत्तत्फलकामा उपासते । वेदान्ताभिज्ञास्त्वेतमेव चिदात्मानं जगत्कारणं ब्रह्मेत्याचक्षते । तस्मादादित्यमण्डले शरीरे च वर्तमानस्यैकस्य परमात्मन उपासनं प्रशस्तमित्यर्थः ।
तस्य ध्यातव्यान्यांश्चिद्देन्यान् २ गुणान्विधत्ते—
स एष संवत्सरसंमानश्चक्षुर्मयः श्रोत्रमयश्छ-
न्दोमयो मनोमयो वाङ्मय आत्मा, इति ।
संवत्सरनिष्पादकेनाऽऽदित्येन सहैकत्वेन चिन्त्यमानैत्वात्स ३ एष ध्येयः पुरुषः संवत्सररूपकालात्मसदृशः । चक्षुर्मयत्वादिकं पूर्ववत्, फलमप्यहःसंमानाक्षरसंमानयोरिव संवत्सरसंमानेऽप्युन्नेतव्यम् ।
अत्र प्रसङ्गादुपासकस्य परकीये यागे शंसनमपवदितुं वदति—
स य एवमेतं संवत्सरसंमानं चक्षुर्मयं
श्रोत्रमयं छन्दोमयं मनोमयं वाङ्-
मयमात्मानं परस्मै शंसति ४, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये
तृतीयः खण्डः ॥ ३ ॥ ( ९ )
ईदृशमात्मानं विदित्वोपास्य यः कोऽपि परार्थं शंसतीत्येषोऽनुवाद उत्तरार्थः ॥
इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ १ ॥ ( ९ )
अथ चतुर्थः खण्डः । ( दशमः )
इदानीमनूदितेऽर्थे प्रत्यवायं दर्शयति—
दुग्धदोहा अस्य वेदा भवन्ति न तस्यानूक्ते
भागोऽस्ति न वेद सुकृतस्य पन्थानमिति, इति ।
यः परार्थं शंसत्यस्य वेदा गुरुमुखादधीता दुग्धदोहा भवन्ति । दोहः क्षीरं तच्च पूर्वमेव दुग्धं निःसारितमितः परं दोहनीयं किमपि नास्ति । अधीता वेदा निष्फला भवन्तीत्यर्थः । तदेव स्पष्टी क्रियते—तस्य परार्थं शंसनं कृतवतः पुरुषस्यानूक्ते गुरूपदेशमनु पठिते वेदे भागः सौभाग्यं नास्ति । अध्ययननिमित्तं सुकृतं न निष्प-
१ ग. तैस्तैरेवमा°। २ ग. °श्चिद्गुणा°। ३ घ. ङ. °नत्वेन स ए°। ४ ग. शंसेदित्ये°।