भारतकोश
संग्रह पर लौटें

ऐतरेय आरण्यक (ऋग्वेद - सायणभाष्य व हिन्दी व्याख्या)

Aitareya Aranyaka Hindi

महर्षि ऐतरेय महिदास द्वारा

स्रोत: Aitareya Aranyakam with Vedic Accents & Commentary (उद्गम)

DevanagariHindipublished304 पृष्ठ

२१२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

[ तै० सं० १ । १ । १ ] इत्यादिर्यजुर्वेदस्तेनाऽऽध्वर्यवं कर्तव्यम्—“अग्न आयाहि” इति सामवेदस्तेनौद्गात्रं कर्तव्यमित्येवमृग्वेदादिज्ञापकं मानसं यदवधानं सोऽयं वेदपुरुषत्वेनोच्यते । तस्यैतस्य वेदपुरुषस्य ब्रह्मा रसो हिरण्यगर्भोपास्त्या तद्रूपत्वमभिमन्यमानः पुरुषः सारभूतः ।

अत्र प्रसङ्गाद्धोत्रध्वर्युद्गातृव्यतिरिक्तस्य ब्रह्माख्यस्य चतुर्थस्यर्त्विजः कंचिद्विशेषं विधत्ते—

तस्माद्ब्रह्माणं ब्रह्मिष्ठं कुर्वीत यो यज्ञस्योल्बणं पश्येत् , इति ।

यस्माद्वेदत्रयाभिज्ञानरूपस्य वेदपुरुषस्य हिरण्यगर्भोपासको ब्रह्मा रसस्तस्माद्ब्रह्मनामसाम्याद्यागेऽपि ब्रह्माणमृत्विजं ब्रह्मिष्ठमतिशयेन वेदत्रयगतं कुर्वीत । ब्रह्मा यज्ञस्य संबन्धिनमुल्बणं तीव्रगुणं दोषं वा द्रष्टुं समर्थस्तादृशं कुर्वीत ।

चतुर्थं विवृणोति —

महापुरुष इति यमवोचाम संवत्सर एव प्रध्वंसयन्नन्यानि भूतान्यैक्या भावयन्नन्यानि तस्यैतस्यासावादित्यो रसः, इति।

योऽयं संवत्सरः कालात्माऽन्यानि भूतानि कानिचिद्गतायुष्काणि प्राणिशरीराणैक्या प्रध्वंसयन्स्वस्वकारणेन सहैक्यं यथा प्रतिपद्यन्ते तथा विनाशयन्भावयन्पुनरन्यानि कानिचिन्नूतनशरीराण्युत्पादयन्वर्तते । सोऽयं कालात्मा महापुरुषशब्देन विवक्षितः । तस्यैतस्य महापुरुषस्यासौ मण्डले दृश्यमान आदित्यो रसः सारः । यथा लोके वृक्षः स्वनिष्ठेन रसेन पूर्णः शोभत एवमेते शरीरपुरुषादयो यथोक्तै रसैः पूर्णाः शोभन्ते ।

चतुरः पुरुषांस्तद्रसांश्च ध्येयत्वेनाभिधायापरं कंचिन्मुख्यं गुणं ध्येयत्वेन विधत्ते—

स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदिति विद्यात्तस्मात्पुरुषं पुरुषं प्रत्यादित्यो भवति, इति ।

शरीरपुरुषसारत्वेनैवं प्रज्ञात्मा जीवोऽभिहितो महापुरुषसारत्वेन योऽयमादित्य ईश्वरोऽभिहित एतदुभयमप्येकमेव वस्त्विति विद्यात्साक्षात्कारपर्यन्तमुपासीत । यस्मादुभयोरेकत्वं वास्तवं तस्माल्लोकेऽपि तं तं पुरुषं प्रति संमुखः सन्नादित्योऽवतिष्ठते । तथा च तैत्तिरीया आमनन्ति—“असावादित्यः सर्वाः प्रजाः प्रत्यङ्ङुदेति । तस्मात्सर्व एव मन्यते मां प्रत्युदगादिति” इति ।

आदित्यमण्डले स्वशरीरे वस्त्वैक्यसंपादकं मन्त्रमुदाहरति—

तदप्येतदृषिणोक्तम् , इति ।


१ ड. ॰त्रयं कु॰ । २ ड. ॰गुणदोषं प्रमाष्टुं स॰ ।

अध्या० २ ख० ३(९)] ऐतरेयारण्यकम् । २१३

तमेतं मन्त्रं पठति—

चित्रं देवानामुदगादनीकं चक्षुर्मित्रस्य वरुणस्याग्नेः ।
आप्रा द्यावापृथिवी अन्तरिक्षं सूर्य आत्मा जगतस्तस्थुषश्चेति , इति ।

अनीकशब्दो मुखवाची सैन्यवाची वा । यदेतदादित्यमण्डलं तदेतद्देवानां मुखम् । स हि व्यवहारहेतुत्वाद्देवानां मध्ये मुख्य इत्यर्थः । सैन्यपक्षे बहुविधरश्मिसमूहरू-पमिति व्याख्येयम् । तच्च मण्डलं चित्रं चायनीयं पूजनीयम् । यद्वा सर्वदिक्षु रश्मि-प्रसारणेन चित्रं देवानां मुखमित्यर्थः । तदेव चक्षुरित्यादिना प्रपञ्च्यते—मित्र-वरुणादीनां चक्षुःस्थानीयमिदं मण्डलम् । एतदीयेन हि प्रकाशेन सर्वे देवाः पश्यन्ति । तच्च मण्डलं लोकत्रयमाप्राः सर्वतः पूर्णं सद्धर्तते । तन्मण्डलस्थः सूर्यो जगतो जङ्गमस्य तस्थुषः स्थावरस्यापि प्राणजातस्याऽऽत्मा प्रत्यक्षस्वरूपमिति मन्त्रस्यार्थः ।

यथोक्तपुरुषचतुष्टयोपासकस्य बाध्वस्य वचनमुपसंहरति—

एतामनुविधं संहितां संधीयमानां
मन्य इति ह स्माऽऽह बाध्वः, इति ।

शरीरपुरुष इत्याद्यनुक्रमेणोक्तां विधां प्रकारमनुसृत्यैत्यनुविधं तथा सम्यक्चित्ते धार्यमाणां संहितां मन्ये चिन्तयामीत्येवं बाध्वो महर्षिरुक्तवान् ।

अध्यात्ममधिदैवं च योऽयमेकः परमात्मा ध्येयत्वेनोक्तस्तस्य प्रशंसार्थं सर्वत्र ध्येयतां दर्शयति—

एतं ह्येव बह्वृचा महत्युक्थे मीमांसन्त एतम-
ग्नावध्वर्यव एतं महाव्रते छन्दोगा एतमस्यामेतं
दिव्येतं वायावेतमाकाश एतमप्स्वेतमोषधी-
ष्वेतं वनस्पतिष्वेतं चन्द्रमस्येतं नक्षत्रेष्वेतं
सर्वेषु भूतेष्वेतमेव ब्रह्मेत्याचक्षते , इति ।

बह्व्य ऋचो यागप्रयोगार्थं येषां होतॄणां ते होतारो बह्वृचाः । ते च यथोक्तम-ध्यात्ममधिदैवतमेकमेव सन्तं परमात्मानं महत्युक्थे प्रौढे शस्त्रे मीमांसन्ते विचार-यन्ति ध्यायन्तीत्यर्थः । अध्वर्यवस्त्वेतं परमात्मानमिष्टकाचयनेन निष्पादितेऽग्नावु-पासते । छन्दोगास्तु महाव्रताख्ये कर्मण्येमुपासते । एवं तत्तद्वेदगतकर्माङ्गेषु


चित्रं देवानामुदगात्०—ऋ० सं० म० १ सू० ११५ ऋ० १ ।


१ ग. मुख्यमि॑ । घ. ङ. मुखमि॑ । २ क. ख. विचित्रं । ३ क. ख. ग. ॰ध्यात्ममधि॑ । ४ घ. ङ. ॰दैवं धर्तितमे॑ । ५ ग. ॰तयोरेक॑ ।

२१४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

तैस्तैः १ परमात्मन उपास्यत्वमुक्तम् । तथा यागाद्बहिर्भूतेषु पृथिव्यादिषु सर्वभूतान्तेषु प्रतीकेष्वेतं परमात्मानं तत्तत्फलकामा उपासते । वेदान्ताभिज्ञास्त्वेतमेव चिदात्मानं जगत्कारणं ब्रह्मेत्याचक्षते । तस्मादादित्यमण्डले शरीरे च वर्तमानस्यैकस्य परमात्मन उपासनं प्रशस्तमित्यर्थः ।

तस्य ध्यातव्यान्यांश्चिद्देन्यान् २ गुणान्विधत्ते—

स एष संवत्सरसंमानश्चक्षुर्मयः श्रोत्रमयश्छ-
न्दोमयो मनोमयो वाङ्मय आत्मा, इति ।

संवत्सरनिष्पादकेनाऽऽदित्येन सहैकत्वेन चिन्त्यमानैत्वात्स ३ एष ध्येयः पुरुषः संवत्सररूपकालात्मसदृशः । चक्षुर्मयत्वादिकं पूर्ववत्, फलमप्यहःसंमानाक्षरसंमानयोरिव संवत्सरसंमानेऽप्युन्नेतव्यम् ।

अत्र प्रसङ्गादुपासकस्य परकीये यागे शंसनमपवदितुं वदति—

स य एवमेतं संवत्सरसंमानं चक्षुर्मयं
श्रोत्रमयं छन्दोमयं मनोमयं वाङ्-
मयमात्मानं परस्मै शंसति ४, इति ॥
इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये
तृतीयः खण्डः ॥ ३ ॥ ( ९ )

ईदृशमात्मानं विदित्वोपास्य यः कोऽपि परार्थं शंसतीत्येषोऽनुवाद उत्तरार्थः ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके द्वितीयाध्याये तृतीयः खण्डः ॥ १ ॥ ( ९ )


अथ चतुर्थः खण्डः । ( दशमः )


इदानीमनूदितेऽर्थे प्रत्यवायं दर्शयति—

दुग्धदोहा अस्य वेदा भवन्ति न तस्यानूक्ते
भागोऽस्ति न वेद सुकृतस्य पन्थानमिति, इति ।

यः परार्थं शंसत्यस्य वेदा गुरुमुखादधीता दुग्धदोहा भवन्ति । दोहः क्षीरं तच्च पूर्वमेव दुग्धं निःसारितमितः परं दोहनीयं किमपि नास्ति । अधीता वेदा निष्फला भवन्तीत्यर्थः । तदेव स्पष्टी क्रियते—तस्य परार्थं शंसनं कृतवतः पुरुषस्यानूक्ते गुरूपदेशमनु पठिते वेदे भागः सौभाग्यं नास्ति । अध्ययननिमित्तं सुकृतं न निष्प-


१ ग. तैस्तैरेवमा°। २ ग. °श्चिद्गुणा°। ३ घ. ङ. °नत्वेन स ए°। ४ ग. शंसेदित्ये°।

अध्या० २ ख० ४ (१०)] ऐतरेयारण्यकम् । २१५

द्यत इत्यर्थः । तथा सुकृतस्य पन्थानं पुण्यमार्गं न वेद, अर्थज्ञानमपि न संपद्यत इत्यर्थः ।

उक्तेऽर्थे संवादकं मन्त्रमुदाहरति— तदप्येतदृषिणोक्तम् , इति ।

तमेतं मन्त्रं पठति— यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति । यदीं शृणोत्यलकं शृणोति न हि प्रवेद सुकृतस्य पन्थामिति, इति ।

यो यं वेदः सोऽयं यथाशास्त्रमध्येतृणां पुरुषाणां सखा स्वार्थबोधेनोपकारित्वात् । न केवलं सखा किं तु सचिविर्दोपि । सचिव्शब्दः सखिवाची । अत एव शाखान्तरे— “सखिविदम्” [ तै० आ० प्र० २ अ० १९ ] इति पठन्ति । यो माणवकोऽ- ध्येता सोऽपि वेदस्य सखा संप्रदायोच्छेद निवारकत्वेन वेदं प्रत्युपकारित्वात्, तादृशमु- पकारिणमध्येतारं वेत्तीति सचिवित् । तमेतमभिज्ञं सखायं यः पुमांस्तित्याज परार्थे विनियोगेन परित्यजति तस्य पुरुषस्य वाच्यपि भागो नास्ति अध्ययननि- मित्तमपि सुकृतं न विद्यते । यदीं शृणोति यदपि वेदार्थश्रवणं तदप्यलकं शृणो- त्यलीकश्रवणमेव । तत्र हेतुरुच्यते—हि यस्मात्सुकृतस्य पन्थानं न वेद श्रद्धारा- हित्यादनुष्ठानमार्गं न जानाति, तस्मात्तदीयं श्रवणमपि निष्फलमित्यर्थः ।

तृतीयचतुर्थपादयोरभिप्रायं दर्शयति— न तस्यानूक्ते भागोऽस्ति न वेद सुकृतस्य पन्थानमित्येतत्तदुक्तं भवति, इति ।

इत्थं परार्थशंसने दोषमभिधाय तत्प्रसङ्गाच्चयनादीनि त्रीणि निषेधति— तस्मादेवं विद्वान्न परस्मा अग्निं चिनुयान्न परस्मै महाव्रतेन स्तुवीत न परस्मा एतदहः शंसेत् , इति ।

यस्मात्परार्थानुष्ठाने महान्प्रत्यवायोऽस्ति तस्मादेवं विद्वानध्वर्युः परार्थं महाव्रता- ङ्गमग्निचयनं न कुर्यात् । उद्गाता च महाव्रताङ्गेन साम्ना परार्थं न स्तुवीत । होताऽ- प्येतदहर्महाव्रतारूप्येनाह्नोपलक्षितं शस्त्रं परार्थं न शंसेत् ।


यस्तित्याज सचिविदम्०—ऋ० सं० म० १० सू० ७१ ऋ० ६ ।


१ ग. मार्गं । २ घ. ङ. संपादकं । ३ घ. ङ. ॰बोधनेनो॰ । ४ ग. ॰दम् । स॰ । ५ क. ख. ॰रार्थेत्रि॰। ६ घ. ङ. निन्दति । ७ घ. ङ. ॰ने प्रत्यवायो भूयानस्ति । ८ घ. ह. ॰त् । एवं विद्वृच्छं॰।

२१६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३तृतीयारण्यके-

क्वचिच्छंसनस्य प्रतिप्रसवं दर्शयति— कामं पित्रे वाऽऽचार्याय वा शंसेदात्मन एवास्य तत्कृतं भवति, इति । इत्थं प्रसङ्गाच्छंसनस्य विधिनिषेधावुदाहृतौ । अथालपायुषः परमपुरुषार्थसाधनो- पायमुपदेष्टुमायुषोऽल्पत्वज्ञापकानि कानिचिदरिष्टान्युदाहरति— स यश्चायमशरीरः प्रज्ञात्मा यश्चासावादित्य एकमेतदि- त्यवोचाम तौ यत्र विहीयेते चन्द्रमा इवाऽऽदित्यो दृश्यते न रश्मयः प्रादुर्भवन्ति लोहिनी द्यौर्भवति यथा मञ्जिष्ठा व्यस्तः पायुः काककुलायगन्धिकमस्य शिरो वायति संपरे- तोऽस्याऽऽत्मा न चिरमिव जीविष्यतीति विद्यात् , इति ।

आदित्यमण्डले स्वशरीरे च तत्त्वमेकमेवेति वयं यदवोचाम तदेकत्वं तिरोधाय तावादित्यस्वशरीरपुरुषौ यत्र विहीयेते यदा विमुक्तौ भवतः । वियोगस्य लिङ्गमु- च्यते—चन्द्रवदादित्यः शीतरश्मिर्भासते न तु दृष्टिप्रतिघातकरा उष्णरश्मयः प्रादुर्भवन्ति तदिदमेकमरिष्टम् । तथा मञ्जिष्ठासाम्येन द्यौर्लोहिता दृश्यते । तदिदं द्वितीयम् । पायुद्वारं चात्यन्तविवृतं भवति न तु संकोचयितुं शक्यते, तदिदं तृतीयम् । काकस्य कुलायो नीडं तत्र यादृशो गन्धस्तादृशदुर्गन्धोपेतमस्य शिरो भवति । तँच्च शिरः स्वकीयं दुर्गन्धं वायति दूरदेशे प्रसारयति, एतच्चतुर्थम् । एतेषामन्यत॑- मस्मिन्नु(म उ)त्पन्ने सत्यस्य पुरुषस्याऽऽत्मा जीवः संपरेतो मृतो न त्वितः परं दीर्घ- कालं जीविष्यतीति निश्चिनुयात् ।

अस्त्वेवं निश्चयः किं तत इत्याशङ्क्याऽऽह— स यत्करणीयं मन्येत तत्कुर्वीत यदन्ति यच्च दूरक इति सप्त जपेदादित्यप्रत्नस्य रेतस इत्येका यत्र ब्रह्मा पवमानेति षळुद्यं तमसस्परीत्येका, इति ।

अरिष्टदर्शनेन प्रत्यासन्नं मरणं निश्चित्यावस्थितः स पुमाँल्लौकिकं वैदिकं वा कर्त- व्यशेषं यैन्मनसि धारयति तदानीं तत्सर्वं सहसा कुर्वीत । तावद्विलम्बसिद्ध्यर्थं यद- न्तीत्यादिका विहिता ऋचस्तत्तत्संख्याकाः सर्वा जपेत् ।


यदन्ति यच्च०—ऋ० सं० म० ९ सू० ६७ ऋ० २१ । आदित्यप्रत्नस्य रेतसः०— ऋ० सं० म० ८ सू० ६ ऋ० ३० । यत्र ब्रह्मा पवमान०—ऋ० सं० म० ९ सू० ११३ ऋ० ६ । उद्वयं तमसस्परि०—ऋ० सं० म० १ सू० ५० ऋ०१० ।


१ ग. ॰नप्र’ । २ घ. ङ. ॰विस्तृतं । ३ क. ख. तस्य । घ. ङ. तच्चैतस्य । ४ ग. घ. ङ. ॰तरस्मिन् । ५ क. ख. ग. यदि मन’ ।

अध्या० २ ख० ४ (१०)] ऐतरेयारण्यकम् । २१७

अरिष्टान्तरं दर्शयति—

अथापि यत्र छिद्र इवाऽऽदित्यो दृश्यते रथनाभिरिवाभि- ख्यायेत छिद्रां वा छायां पश्येत्तदप्येवमेव विद्यात् , इति ।

अथापि पुनरप्यन्यदरिष्टमुदाह्रियत इति शेषः । यत्र यदाऽऽदित्यश्छिद्रोपेत इव दृश्यते यथा रथचक्रस्य नाभिः सच्छिद्रो भवति तद्वदादित्यस्य मण्डलं सच्छिद्रं प्रतीयेत । यद्वा स्वदेहच्छायां सच्छिद्रां पश्येत् । तदपि तदानीमप्येवमेव "संपरेतोऽस्याऽऽत्मा" इत्यारभ्य "उद्वयं तमसस्परीत्येका" इत्यन्तेन ग्रन्थेनोक्तप्रकारमेव विद्यात् ।

अरिष्टान्तरं दर्शयति—

अथाप्यादर्शे वोदके वा जिह्मशिरसं वाऽशिरसं वाऽऽत्मानं पश्येद्विपर्यस्ते वा कन्याके जिह्मेन वा दृश्येयातां तदप्येवमेव विद्यात् , इति ।

आदर्शो दर्पणस्तेनोदकेन च प्रतिबिम्बयोग्यानि स्वच्छानि खड्गादिद्रव्याण्युपलक्ष्यन्ते । तेषु द्रव्येषु स्वकीयं देहप्रतिबिम्बं जिह्मशिरसं कुटिलशिरस्कं पश्येत् । यद्वा शिरोरहितं पश्येत् । अथवा कन्याके कनीनिके प्रतिबिम्बस्य चक्षुर्गते शुक्लकृष्णमण्डले विपर्यस्ते विद्यमानसन्निवेशाद्विपरीते । शुक्लमण्डलमध्य कृष्णमण्डलमित्यसौ विद्यमानसन्निवेशस्तद्विपर्ययः कृष्णमण्डलमध्ये शुक्लमण्डलम् । यद्वा यथावस्थितमार्जवं परित्यज्य जिह्मेन वक्रत्वेन कनीनिके दृश्येयाताम् । तान्येतानि चत्वार्यरिष्टानि ।

पुनरप्यरिष्टान्तरं दर्शयति—

अथापिधायाक्षिणी उपेक्षेत तद्यथा बटरकाणि संपतन्तीव दृश्यन्ते तानि यदा न पश्येत्तदप्येवमेव विद्यात्, इति ।

लोके सर्वोऽपि पुरुषश्चक्षुषी निमील्य नेत्रस्यापाङ्गमवष्टभ्योपेक्षेत नेत्रसमीपं पश्येत्तत्तदानीमनुभवतो यथा भवति तथोदाह्रियते—बटरकाणि वर्तुला नि सूक्ष्माणि शुक्लवर्णानि केशोण्डूकशब्दाभिधेयानि संपतन्तीव सम्यङ्नेत्रान्निर्गच्छन्तीव सर्वैर्दृश्यन्ते । तानि बटरकाणि यदा न पश्येत्तदानीमप्यरिरं¹ष्टं² विज्ञेयम् ।

अरिष्टान्तरं दर्शयति—

अथाप्यपिधाय कर्णौ उपशृणुयात्स एषोऽ- ग्नेरिव प्रज्वलतो रथस्येवोपब्दिस्तं यदा न शृणुयात्तदप्येवमेव विद्यात् , इति ।


१ ग. 'रिष्टनिश्चयः । अ' । २ घ. ङ. निश्चेयम् ।
२८

२१८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्- [३तृतीयारण्यके-

सर्वोऽपि जनः स्वकर्णावुभावप्यङ्गुलिभ्यां दृढमपिधाय देहमध्ये किंचिच्छब्दं शृणुयात्तस्य दृष्टान्तद्वयमुच्यते । प्रकर्षेण ज्वलतो वन्हेः प्रौढस्य शब्दो यादृशो भवति, रथस्य त्वरया गच्छत उपबिद्घोषो यादृशो भवति स एष देहमध्ये श्रूय- माणः शब्दस्तादृशः । तं यदा न शृणुयात्तदानीमरिष्टं विद्यात् । अरिष्टान्तरं दर्शयति—

अथापि यत्र नील इवाग्निर्दृश्यते यथा मयूरग्रीवा मेघे वा विद्युतं पश्येन्मेघे वा विद्युतं न पश्येन्महा- मेघे वा मरीचीरिव पश्येत तदप्येवमेव विद्यात्, इति ।

यथा मयूरस्य ग्रीवा लोकेऽतिशयेन नीलवर्णा तद्वत्प्रौढो वह्निर्ज्वलन्यदा नील इव दृश्यते, तथा मेघरहिते निर्मल आकाशे केनाप्यन्येनादृश्यमानां महतीं विद्युतं पश्येत्, मेघे वा प्रौढे सर्वैर्दृश्यमानां विद्युतं स्वयं न पश्येत्, यद्वा वर्षर्तुमध्ये भूमौ सर्वत्रा- न्धकारमापादयन्प्रौढो मेघो मध्याह्नादिकाले कदाचिद्भवति तस्मिन्मेघे भासुरा मरीची- रिव पश्यति, तान्येतानि चत्वार्यरिष्टानि । अरिष्टान्तरं दर्शयति—

अथापि यत्र भूमिं ज्वलन्तीमिव पश्येत तदप्येवमेव विद्यात्, इति ।

शुष्कतृणकाष्ठादिरहिता केवला मृत्तिकैव प्रौढज्वालायुक्ता यदा दृश्यते तदानीम- रिष्टं विद्यात् । उदाहृतान्यरिष्टान्युपसंहरति—

इति प्रत्यक्षदर्शनानि, इति ।

इत्येवं पूर्वमुक्तानि “ तौ यत्र विहीयेते चन्द्रमा इवाऽऽदित्यो दृश्यते ” इत्या- रभ्य “ भूमिं ज्वलन्तीमिव पश्येत ” इत्यन्तानि जागरणावस्थायां प्रत्यक्षेण दृश्यमा- नान्यरिष्टानि विज्ञेयानि । वक्ष्यमाणं प्रतिजानीते—

अथ स्वप्नाः, इति ।

जागरणप्रत्यक्षारिष्टकथनानन्तरं स्वप्नगता अरिष्टविशेषाः कथ्यन्त इति शेषः । दशसंख्याकानि स्वप्नारिष्टानि दर्शयति—

पुरुषं कृष्णं कृष्णदन्तं पश्यति स एनं हन्ति वराह


१ क. ॰भाभ्यामप्य् । २ ग. स य एं । ३ घ. ङ. ॰घे सूर्यमं ।

अध्या०२ख०४(१०)] ऐतरेयारण्यकम् । २१९

एनं हन्ति मर्कट एनमास्कन्दयत्याशु वायुरेनं प्रवहति सुवर्णं खादित्वाऽपगिरति मध्वश्नाति बिसानि भक्ष- यत्येकपुण्डरीकं धारयति खरैर्वराह्रैर्युक्तैर्याति कृष्णां धेनुं कृष्णवत्सां नलदमाली दक्षिणामुखो व्राजयति, इति ।

स्वप्ने साकल्येनात्यन्तं कृष्णवर्णं पुरुषदेहं कृष्णवर्णैर्दन्तैर्युक्तं पश्यति । स च पुरुष आगत्यैनं स्वप्नद्रष्टारं हन्ति स्वप्नमध्ये मारयति । तदिदमेकमरिष्टम् । तथाऽरण्यमध्ये प्रौढो वराह आगत्य मारयति । तदिदं द्वितीयम् । मर्कटः कश्चिदागत्यैनं स्वप्नद्रष्टारमास्कन्दयति समन्तान्मूर्धपर्यन्तमारोहति । तदिदं तृतीयम् । अतिशीघ्रगामी प्रौढो वायुरेनं गृहीत्वा निम्नदेशे जलवत्प्रवहति । एतच्चतुर्थम् । सुवर्णनिर्मितमाभरणं लड्डुकादिवद्भक्षयित्वा पुनरपि वमति । एतत्पञ्चमम् । मासिकं यन्मधु तदाकण्ठमश्नाति । एतत्षष्ठम् । बिसानि पद्मादीनां नालानि भक्षयति । एतत्सप्तमम् । ऐकपुण्डरीकम् । रक्तवर्णमिति संप्रदायः । तच्छिरसि धारयति । एतदष्टमम् । युक्तैरश्ववत्सज्जीकृतैर्गर्दभैर्वराहैर्वा ग्रामान्तरं गच्छति । एतन्नवमम् । नलदमाली रक्तकुसुमग्रथितस्रग्वी दक्षिणदिगभिमुखो भूत्वा कांचत्कृष्णवत्सोपेतां कृष्णां धेनुं व्राजयति देशान्तरं प्रेरयति । एतद्दशमम् ।

एतैर्जागरणस्वप्नगतेररिष्टैः प्रत्यासन्नं मरणं निश्चित्यानन्तरं यत्कर्तव्यं तद्दर्शयति—

स यद्येतेषां किंचित्पश्येदुपोष्य पायसं स्थालीपाकं श्रपयित्वा रात्रीसूक्तेन प्रत्यृचं हुत्वाऽन्येनान्नेन ब्राह्मणान्भो- जयित्वा चरुं स्वयं प्राश्नीयात्, इति ।

स पुमानेतेषामरिष्टानां मध्ये यत्किमप्यरिटं यदा पश्येत्तस्मिन्दिने स्वयमुपवासं कृत्वा स्थालीपाकविधानोपेतं पायसं [ श्रपयित्वा ] “रात्री व्यख्यदायती” [ ऋ० सं० म० १० सू० १२७ ऋ० १ ] इत्यस्मिन्सूक्ते प्रतिमन्त्रं पायसं हुत्वा स्वगृहे निष्पादितेनान्नेन यथाशक्ति ब्राह्मणान्भोजयित्वा पश्चाद्धोमशेषं चरुं स्वयं प्राश्नीयात् । एतावता संपादनीयस्य पुरुषार्थस्योपस्थितो विघ्नः परिहृतो भवति ।

विघ्नं परिहृत्य पश्चात्संपादनीयं पुरुषार्थं दर्शयति—

स योऽतोऽश्रुतोऽगतोऽमतोऽनतोऽदृष्टोऽविज्ञातोऽनादिष्टः श्रोता मन्ता द्रष्टाऽऽदेष्टा घोष्टा विज्ञाता प्रज्ञाता सर्वेषां


१ क. कृष्णैर्दं° । २ क. °पि बहिर्वम° । ३ क. °ष्ठपर्यन्तम° । ४ घ. ङ. एकं पुं° । ५ क. घ. ङ. °न्तरं ग° । ६ क. ख. 'क्षिणाभि° । ७ क. ख. घ छ. °न्तरे प्रे° ।

चतुर्थः खण्डः ॥ ४ ॥ (१०)

२२० श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् । [३तृतीयारण्यके-

भूतानामन्तरपुरुषः स म आत्मेति विद्यात्, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ (१०)

कृतविघ्नपरिहारः स पुमानिति विद्यादित्यन्वयः। कथं विद्यादित्युच्यते। यः सर्वेषां भूतानामन्तरपुरुषो ब्रह्मादिस्तम्बान्तानां सर्वप्राणिनां देहमध्ये तत्तद्देहसाक्षित्वेन भासमानः परिपूर्णः परमात्माऽस्ति सोऽयं परमात्मा मे मम मुमुक्षोः पुरुषस्याऽऽत्मा स्वरूपमित्येवं विद्यात्। प्रमाणेन साक्षात्कुर्यात्। तदशक्तावुपासीतेत्यपि द्रष्टव्यम्। अत इत्यादिभिः पदैः सर्वभूतान्तरं पुरुषं विशिनष्टि—अतोऽस्माद्देहेन्द्रियादिसंघाताद्विलक्षण इति शेषः। अश्रुत इत्यादिभिः सप्तभिर्विशेषणैरिन्द्रियजन्यक्रियोऽकर्मत्वं निवारयति। अकारादयो वर्णाः परैरुच्चार्यमाणा उदात्तादिस्वरा वा यथा श्रोत्रेन्द्रियेण श्रूयन्ते नैवमात्मा श्रोत्रेण श्रुतः। यथा पादेन्द्रियजन्यया गमनक्रियया ग्रामान्तरं गम्यते नैवमसौ गतः। यथा चतुर्भुजायुपेता विष्ण्वादिमूर्तिर्जडत्वान्मनसा ध्यानकाले प्रकाश्यते नैवमसौ मतः, स्वप्रकाशत्वान्मनेसोऽमतो न विस्फारितः। यथा पुत्रभृत्यादि तत्स्वामिना नम्यते वशी क्रियते नैवमसौ नतः, स्वतन्त्रत्वात्केनापि न वशीकृतः। यथा नीलपीतादिकं रूपं चक्षुषा दृश्यते नैवमसौ दृष्टः। यथा मनसा संदिह्यमानं वस्तु स्थाणुचोरादिकं विज्ञानशब्दवाच्यया बुद्ध्या निश्चीयते नैवमसौ विज्ञातः, संदेहरहितत्वाद्बुद्ध्या न निश्चेतव्यः। यथा जातिगुणादियुक्ता गवाश्वादिपदार्थास्तद्वाचकैः शब्दैरादिश्यन्ते नैवमसावादिष्टः, वाच्यार्थस्य जात्यादेस्तस्मिन्नभावात्। एतैर्विशेषणैरिन्द्रियव्यापारविषयत्वं निवारितम्। कथं तर्ह्यात्मा बोद्धुं शक्यत इत्याशङ्क्याऽऽत्मनः कर्मकारँकत्वाभावेऽपि तत्तद्व्यापारकर्तृत्वेनोपलक्षयितुं शक्यत इत्यभिप्रेत्य श्रोता मन्तेत्यादिसप्त विशेषणान्युच्यन्ते। आत्मा विषयो न भवति विषयी तु भवत्येवातो विषयित्वेनावगन्तव्याः। अत एवान्तर्यामिब्राह्मणे विषयत्वनिषेधपुरःसरं विषयित्वमाम्नायते—“अदृष्टो द्रष्टाऽश्रुतः श्रोताऽमतो मन्ताऽविज्ञातो विज्ञाता” [बृह० ३।७।२३] इति। अक्षरब्राह्मणेऽपि तथैवाऽऽम्नातम्—“तद्वा एतदक्षरं गार्ग्यदृष्टं द्रष्ट्रश्रुतं श्रोत्रमतं मन्त्रविज्ञातं विज्ञातृ” [बृह० ३।८।११] इति। कौषितकिनोऽप्यामनन्ति—“न वाचं विजिज्ञासीत वक्तारं विद्यात्” [कौषी० १।८] इत्यादिना। प्रश्नोपनिषद्यपि दर्शनादिक्रियाकर्तृत्वमाम्नातम्—“एष हि द्रष्टा स्प्रष्टा श्रोता घ्राता


१ ग. घ. ङ. ॰दिति तदुच्य॰ । २ घ. ङ. ॰याकारित्वं । ३ क. ख. ॰नसा मतो विस्फारितो न । यं॰ । ४ ग. घ. ङ. ॰रत्वा॰ ।

अध्या० २ ख० ९(११)] ऐतरेयारण्यकम्। २२१

रसयिता मन्ता बोद्धा कर्ता विज्ञानात्मा पुरुषः " [ प्रश्नो० ४ । ९ ] इति । तत्तदिन्द्रियावभासकत्वेन तत्तत्कर्तृत्वव्यवहारो न तु क्रियाश्रयत्वं कर्तृत्वमित्यभिप्रेत्योत्तरतापनीये पठ्यते—" चक्षुषो द्रष्टा श्रोत्रस्य द्रष्टा वाचो द्रष्टा मनसो द्रष्टा बुद्धेर्द्रष्टा प्राणस्य द्रष्टा मनसो द्रष्टा सर्वस्य द्रष्टा " [ नृ० उ० २ ] इति । चक्षुर्भासकत्वमपि भासनक्रियाश्रयत्वं न भवति किं तु स्वप्रकाशचैतन्यरूपस्य तत्तज्ज्ञानानुकूल्येनावस्थानं साक्षित्वमेवेति तत्रैवाऽऽम्नातम्—" चक्षुषः साक्षी श्रोत्रस्य साक्षी वाचः साक्षी मनसः साक्षी बुद्धेः साक्षी प्राणस्य साक्षी मनसः साक्षी सर्वस्य साक्षी" [नृ० उ० २ ] इति । एवम् " असङ्गो ह्ययं पुरुषः" [ बृह० ४ । ३ । १६ ] इत्यादीन्युदाहरणीयानि । यद्यप्यादेष्टा घोष्टेति पदद्वयेन वाग्व्यापारकर्तृत्वमेवाभिधीयते तथाऽपि राजादिवदाज्ञापयितृत्वमादेष्टृत्वं सैन्यस्याऽऽह्वायितृयाष्टिकवदुच्चध्वनिकर्तृत्वं घोष्टृत्वमिति विवेकः । विज्ञातृत्वप्रज्ञातृत्वे अप्यवान्तरभेदेन विवेचनीये । देहेन्द्रियादिभ्यः प्रत्यगात्मानं विविच्य विज्ञातृत्वं तस्य च विविक्तस्य प्रकृष्टब्रह्मरूपत्वेन ज्ञातृत्वं प्रज्ञातृत्वम् । सर्वेषां भूतानामन्तरपुरुष इत्यनेन हिरण्यगर्भाद्युपाधिप्रयुक्तमात्मनो नानात्वं निराकृतम् । तादृशस्य परमात्मनः स म आत्मेति विद्यादिति वाक्येन स्वकीयसंसारित्वनिवारणाय तादात्म्यमुपन्यस्तम् । ईदृग्वस्तुसाक्षात्कारे सति देहपातकाल एव विमुच्यते । तथाविधवस्तूपासने तु ब्रह्मलोकप्राप्तिद्वारा क्रमेण विमुच्यते । इत्येवमादित्यमण्डलस्थस्वशरीरान्तर्गतपुरुषैक्यध्यानप्रसङ्गागतान्यरिष्टदर्शनानि तद्युक्तस्य परमपुरुषार्थहेतुभूता ब्रह्मविद्या च परिसमापिता ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यकभाष्ये तृतीयारण्यके द्वितीयाध्याये चतुर्थः खण्डः ॥ ४ ॥ ( १० )


अथ पञ्चमः खण्डः । ( एकादशः )


प्रासङ्गिकं परिसमाप्य प्रकृतामेवोपासनां प्रकारान्तरेण वक्तुं प्रतिजानीते—

अथ खल्वियं सर्वस्यै वाच उपनिषत्सर्वा ह्येवेमाः
सर्वस्यै वाच उपनिषद इमां त्वेवाऽऽचक्षते, इति ।

प्रासङ्गिकब्रह्मविद्याकथनानन्तर्यार्थेऽथशब्दः । वक्ष्यमाणोपासनायाः प्रसिद्धयर्थः खलुशब्दः । इयमनन्तरमेव वक्ष्यमाणोपनिषदूपासना सर्वस्यै वाचः संबन्धिनी । अकारादिक्षकारान्तानां मातृकामन्त्रगतानां सर्वेषां वर्णानामत्रोपासनीयत्वात् । यद्य-


१ ग. 'पारे क'। २ क. ख. मुच्यते । ३ क. ख. 'सन्तत्वा' । ग. 'सनसत्त्वात् ।

२२२ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

प्यस्मिन्नारण्यके प्रोक्ताः सर्वा अपि संहितोपासनाः कृत्स्नवाग्विषया एव तथाऽपि तद्- भिज्ञाः पुरुषा इमामेवोपनिषदं वक्ष्यमाणामुपासनामेव सर्वोत्कृष्टामार्चक्षते ।

प्रतिज्ञातामुपासनां दर्शयति—

पृथिव्या रूपं स्पर्शा अन्तरिक्षस्योष्माणो दिवः
स्वरा अग्ने रूपं स्पर्शा वायोरूष्माण आदित्यस्य
स्वरा ऋग्वेदस्य रूपं स्पर्शा यजुर्वेदस्योष्माणः
सामवेदस्य स्वराश्चक्षुषो रूपं स्पर्शाः श्रोत्रस्यो-
ष्माणो मनसः स्वराः प्राणस्य रूपं स्पर्शा
अपानस्योष्माणो व्यानस्य स्वराः, इति ।

ककारादयो मकारावसाना वर्गपञ्चकनिष्ठा वर्णाः स्पर्शसंज्ञकाः । शषसहाश्चत्वार ऊष्मसंज्ञकाः । अकारादय औकारान्ताश्चतुर्दश स्वरसंज्ञकाः । एतेषु स्पर्शोष्मस्वरेषु पृथिव्यादिलोकदृष्टिरग्न्यादिदेवतादृष्टिर्ऋगादिवेददृष्टिश्चक्षुरादीन्द्रियदृष्टिः प्राणादिवायुदृष्टिश्च कर्तव्या ।

अस्या उपासनाया अङ्गत्वेन स्वतन्त्रत्वेन वा वीणाध्यानं विधत्ते—

अथ खल्वियं दैवी वीणा भवति तदनु-
कृतिरसौ मानुषी वीणा भवति, इति ।

अथ पृथिव्यादिध्यानकथनानन्तरम् । खलुशब्दो वीणाप्रसिद्ध्यर्थः । इयमस्माभिर्दृश्यमाना शरीररूपा दैवी देवनिर्मिता काचिद्वीणा विद्यते । न हि देवव्यतिरेकेण कश्चिदपीमं देहं निर्मातुं क्षमते । या तु गायकैर्धार्यमाणा काष्ठमयी वीणा सा तु मनुष्यैर्निर्मितत्वान्मानुषी । असौ च तदनुकृतिर्भवति । तां दैवीं वीणामनुसृत्य कृतिर्निष्पादनं यस्याः सा तदनुकृतिः, तत्सदृशीत्यर्थः ।

शरीररूपाया देववीणायाः काष्ठनिर्मिताया मानुषीवीणायाश्च सादृश्यं ध्यानाय दर्शयति—

यथाऽस्याः शिर एवममुष्याः शिरो यथाऽस्या
उदरमेवममुष्या अम्भणं यथाऽस्यै जिह्वैवममुष्यै
वादनं यथाऽस्यास्तन्त्रय एवममुष्या अङ्गुलयो
यथाऽस्याः स्वरा एवममुष्याः स्वरा यथाऽस्याः
स्पर्शा एवममुष्याः स्पर्शा यथा ह्येवेयं शब्दवती
तर्द्मवत्येवमसौ शब्दवती तर्द्मवती यथा ह्येवेयं


१ ग. ˚नकृत्य । २ क. ख. ग. ˚या दैवी वीणा˚ । ३ क. ख. ˚नषीवी˚ । ग. ˚नष्याश्च ।

अध्या०२ख०५(११)] ऐतरेयारण्यकम्। २२३

लोमशेन चर्मणाऽपिहिता भवत्येवमसौ लोमशेन चर्मणाऽपिहिता, इति ।

अस्या अस्माभिर्दिश्यमानायाः शरीररूपाया दैव्या वीणाया ऊर्ध्वभागे¹ प्रसिद्धं शिरो यथा भवति एवममुष्या उपासकशरीराद्व्यतिरिक्तायाः² काष्ठनिर्मिताया मानुष्या³ वीणाया ऊर्ध्वभागे शिरो द्रष्टव्यम् । यो भागो गायकस्य वामांसमाश्रित्यावस्थितस्तत्रालाबुखण्डोपेतत्वेन शिरँस आकारो⁴ दृश्यते । तदिदमेकं सादृश्यम् । उत्तराण्यपि सादृश्यान्येवं द्रष्टव्यानि । अस्याः शरीरवीणायाः प्रसिद्धोदरवदमुष्याः काष्ठवीणाया अम्भणं वीणादण्डमध्यवर्ति च्छिद्रम् । शरीरवीणायामवस्थिता जिह्वा यथा स्वरोत्पत्तिहेतुस्तथैवामुष्यै⁵ काष्ठवीणाया हस्तेन वादनं स्वरोत्पत्तिहेतुः । तन्त्रयोऽङ्गुलय इति पदद्वयं व्यत्यासेन योजनीयम् । अस्याः शरीरवीणाया अङ्गुलयो यथा बहुविधा दीर्घा वर्तन्ते तथैवामुष्याः काष्ठवीणायास्तन्त्रयो दीर्घतन्तवः । यथाऽस्याः शरीरवीणायाः स्वराः कोष्ठाग्निप्रेरितवायोः संबन्धविशेषेणोत्पन्नाः षड्जर्षभगान्धारादयो यथा वर्तन्ते तथैवामुष्याः काष्ठवीणायास्तत्तत्स्थानेष्वङ्गुलिधारणेन षड्जादिस्वरा आविर्भवन्ति । स्वराभिव्यक्त्यर्थं यथा शरीरमध्ये वायोः स्पर्शविशेषाः प्रयत्नात्संपद्यन्ते तथा काष्ठवीणाया अङ्गुलिस्पर्शविशेषाः प्रयत्नसंपाद्याः । यथा चेयं शरीरवीणा शब्दवती स्वराभिव्यक्तिहेतुभूतध्वनियुक्ता तर्त्मवती तर्दनवती । धमनीभिः शरीरावयवानां दृढबन्धनं तर्दनम् । तथैव⁶ काष्ठवीणाऽपि शब्दवती स्वरविशेषाभिव्यक्तिहेतुभूतध्वनियुक्ता । तथा तर्त्मवती तर्दनेन तन्त्रीणां दृढबन्धनेन युक्ता । यथा चेयं शरीरवीणा लोमशेन प्रभूतरोमाधारेण चर्मणाऽपिहिताऽऽच्छादिता भवति एवमसौ काष्ठवीणाऽपि लोमशेन व्याघ्रादिचर्मणाऽऽच्छादिता भवति ।

नन्विदानींतनाः काष्ठवीणाश्चर्मणा न बध्यन्त इत्याशङ्कयाऽऽह—

लोमशेन ह स्म वै चर्मणा पुरा वीणा अपिदधति, इति ।

इदानीमत्र चर्मापिधानाभावेऽपि पूर्वकाले देवलोकादौ तद्विद्यत इति द्रष्टव्यम् ।

वीणाध्यानस्य फलं दर्शयति—

स यो हैतां दैवीं वीणां वेद श्रुतवदनो भवति भूमिप्राऽस्य कीर्तिर्भवति यत्र कचाऽऽर्या वाचो भाषन्ते विदुरेनं तत्र, इति ।

यः पुमान्मानुषवीणासादृश्यानुसंधानपुरःसरमेतां शरीररूपां दैवीं वीणामुपास्ते


¹ क. ॰गे शिं॰ । ² घ. ङ. ॰रीरव्यति॰ । ³ क. ख. ॰या मनुष्यवी॰ । ⁴ ङ. ॰रआं॰ । ⁵ ग. घ. ङ. ॰मुष्याः कां॰ । ६ घ. ङ. तद्वत्काष्ठ॰ । ७ घ. ङ. चर्मणाऽपिं॰ ।

२२४ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

सोऽयं श्रुतवदनः सर्वजनश्रोत्रप्रियं वदनमुक्तिर्यस्यासौ श्रुतवदनो विद्वत्सभायां राजसभायां च सर्वेषां प्रियतमैर्वचनैरत्यन्तं रञ्जको भवति । तथाऽस्य कीर्तिर्भूमिप्रा भूमेः पूरयित्री भवति । सर्वस्यां भूमावविवादेन सर्वेऽपि जना एनं विद्याधिकं मन्यन्त इत्यर्थः । किंच यत्र क्व च यस्मिन्कस्मिन्नपि देशे यस्मिन्कस्मिन्नपि ग्रामविशेषे केचिदार्या वेदशास्त्रपारं गतास्तदनुष्ठानपरा बहवः सभायामुपाविश्य भाषन्ते विद्याप्रसङ्गं कुर्वन्ति तत्र तस्यां सभायामेनं विदुः सर्वज्ञोऽयमत्यन्तपण्डित इत्येनमुपासकं स्मरन्ति ।

वीणाध्यानफलोक्तिप्रसङ्गेन विद्वत्सभाञ्जनहेतुं मन्त्रविशेषं विधत्ते—

अथातो वाग्रसो यस्यां संसद्यधी-
यानो वा भाषमाणो वा न विरु-
रुचुषेत तत्रैतामृचं जपेत् , इति ।

अथ वीणोपास्तिकथनानन्तरं यतः कारणात्फलोक्तिप्रसङ्गेन सभाराञ्जनहेतुर्मन्त्रो बुद्धिस्थोऽतः कारणाद्वाग्रसो वाचः सारभूतो मन्त्रोऽभिधीयत इति शेषः । यस्यां संसदि विद्वत्सभायामधीयानो वेदशास्त्रगोष्ठीं कुर्वाणः पुरुषो राजसभायां वा लौकिकान्युचितवाक्यानि भाषमाणो वा न विरुरुचुषेत विशेषेण रुचिकरः सर्वजनानां रञ्जको यदि न भवेत्तत्र तस्यां सभायां रञ्जकत्वसिद्ध्यर्थमेतां वक्ष्यमाणामृचं जपेत्तन्मन्त्रपुरश्चरणादिकं कुर्यात् ।

तामेतामृचं दर्शयति—

ओष्ठापिधाना न कुलीदन्तैः परिवृता पविः ।
सर्वस्यै वाच ईशाना चारु मामिह वाद्येदिति वाग्रसः, इति ।

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये
पञ्चमः खण्डः ॥ ५ ॥ ( ११ )

सर्वस्यै वाचो वेदशास्त्रलौकिकोक्तिरूपस्य सर्वस्यापि वचनजातस्येशाना स्वामिरूपा वाग्देवता मां समारञ्जकोक्तिकाममिहास्यां विद्वत्सभायां राजसभायां वा चारु शोभनं सर्वरञ्जकं यथा भवति तथा वादयेत् । संभाषणोक्तिं प्रेरयतु । कीदृशी वाग्देवता, ओष्ठापिधाना न । उपमार्थो नकारः । ओष्ठद्वयमपिधानं वस्त्रवदाच्छादनं यस्या जिह्वादिस्थानगताया वाग्देवतायाः सेयमोष्ठापिधाना । ओष्ठयोराच्छादकवस्त्र-


१ क. ख. भूमौ वेदवि° । २ घ. ङ. देशेऽपि य° । ३ क. ख. °कं वदन्ति स्म° । ४ घ. ङ. °शेषमभिध° । ५ क. ख. °स्तिफलक° । ६ घ. ङ. °षो वा रा° । ७ घ. ङ. °वा स्तावका° । ८ घ. ङ. °णो न । ९ घ. ङ. °भाव(ष)कोक्त्या प्रेर° । १० ग. °षणोक्ति । ११ घ. ङ. °रः पठितः ।

अध्या० २ ख० ६ (१२)] ऐतरेयारण्यकम् । २२५

सादृश्यमेव न तु मुख्यमाच्छादकत्वमित्यभिप्रेत्योपमार्थो नकारः पठितः । कुलीदन्तै- र्वज्रर्वद्धनीभूतैरन्तरालच्छिद्ररहितैर्दन्तैः परिवृता परितो वेष्टिता वाग्देवता । दन्तानां विरलत्वे सत्युच्चार्यमाणा वर्णा आभासा भवन्ति । पंविव्र्जप्रवृत्तीक्षणशब्दोच्चारणेऽत्यन्तं पट्वी देवतेत्यर्थः । अथवौष्ठेत्यादिविशेषणैर्देवता न प्रशस्यते, किं तु स्वकीयवाचि दोष उद्भाव्यते । अस्मिन्पक्षे नकारो निषेधार्थः । येयं मदीया वाक्सेयमोष्ठाभ्यां बहिराच्छादिताऽतः कुलीदन्तैः परिवृता वेष्टिताऽतो बहिर्निर्गता सभां रञ्जयितुं<sup></sup> न पविर्नात्यन्तं पटुरतः कारणाद्वाग्देवते सर्वस्या इत्यादिना त्वामहं प्रार्थये । इत्येव- मुक्तो यो मन्त्रः सोऽयं वाग्रसः सर्वस्या वाचः सारभूतोऽवगन्तव्यः ।

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये तृतीयारण्यके द्वितीयाध्याये पञ्चमः खण्डः ॥ ५ ॥ (११)


अथ षष्ठः खण्डः । (द्वादशः)

उपासनान्तरं विधातुं प्रजापतिवृत्तान्तमवतारयति— अथ हास्मा एतत्कृष्णहारितो वाग्ब्राह्मणमिवोपोदाहरति, इति । अथ यथोक्तसर्वसंहितोपास्तिकथनानन्तरं न्यूनातिरिक्तदोषसमीकरणार्थं किंचित्सं- हिताविषयमुपासनमुच्यत इति शेषः । यथा प्रधानेयागं<sup></sup>ष्वनुष्ठितेषु पश्चात्स्विष्टकृदनु- ष्ठीयते तद्वदिदं द्रष्टव्यम् । हरितस्य पुत्रो हारीतः स च कृष्णवर्णस्तादृशः कश्चिन्म- हर्षिरस्मै स्वपुत्राय शिष्यार्थं वैतद्दृश्यमाणं<sup></sup> वाग्ब्राह्मणं वाग्रूपसंहितोपास्तिविशेषवि- धायकं ब्राह्मणवाक्यमुपोदाहरति । रहस्यत्वेन समीपमागत्य कर्णे कथयति । इवश- ब्दोऽवधारणार्थोऽनर्थको वा । संहिताविषयमेव ब्राह्मणं न त्वन्यदित्यर्थः ।

प्रतिज्ञातं<sup></sup> प्रजापतिवृत्तान्तप्रतिपादकं ब्राह्मणं दर्शयति— प्रजापतिः प्रजाः सृष्ट्वा व्यस्रंसत संवत्सरः स च्छन्दोभिरा- त्मानं समदधाद्यच्छन्दोभिरात्मानं समदधात्तस्मात्संहिता, इति । संवत्सरः प्रजापतिः कालात्मकः परमेश्वरो देवतिर्यङ्मनुष्यरूपाः प्रजाः सृष्ट्वा व्यस्रंसत श्रमेण विस्रस्तावयवोऽभूत् । पुनश्छन्दोभिर्वेदैरात्मानं सर्वावयवसंघात- रूपं स्वशरीरं समदधात्सम्यग्धारितवान्वेद्दोक्तमन्त्रपाठसामर्थ्येन स्वावयवपाटवं संपा- दितवानित्यर्थः । यस्मादयं छन्दोभिः स्वशरीरं समाहितवांस्तस्मात्समाधानहेतुत्वा- च्छन्दःपाठः संहितेत्युच्यते


१ घ. ङ. °वद्भिरलैर° । २ क. ख. पविः पविव्र° । ३ क. ख. °तुं नात्यन्तं प° । ४ घ. ङ. °गेऽनु° । ५ घ. ङ. °ते प° । ६ क. ख. °य चैत° । ७ क. ख. घ. ङ. °ज्ञातप्र° ।
२९

२२६ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम् - [३तृतीयारण्यके-

इत्थं निर्वचनेन संहितां प्रशस्य तत्रोपासनविशेषं विधत्ते—

तस्यै वा एतस्यै संहितायै णकारो बलं षकारः प्राण आत्मा, इति।

येयं वैदिकशब्दानामविच्छिन्नपाठरूपा संहिता तस्याः संहिताया णकारष्टवर्गपञ्चमो बलमिति ध्यायेत्। कादयो मावसानाः स्पर्शनामकाः पञ्च वर्गा ये सन्ति तेषु मध्यमवर्गस्थत्वाद्वलत्वं युक्तम्। “स्पृष्टं करणं स्पर्शानाम्” इति लक्षणानुसारेण दृढप्रयत्ननिष्पाद्याः स्पर्शवर्णाः। तथैवोष्मस्वन्तर्भूतस्य षकारस्य प्राणत्वध्यानं युक्तम्। “य ऊष्माणः स प्राणः” [ऐ० आ० ३ अ० २ ख० १] इत्येवमुपासनान्तरे पूर्वमभिहितत्वात्। प्राणत्वादेव जीवात्मत्वमपि संभवति। प्राणधारी हि जीवात्मा।

यथोक्तणकारषकारध्यानं प्रशंसति—

स यो हैतौ णकारषकारावनुसंहितमृचो वेद सबलां सप्राणां संहितां वेदाऽऽयुष्यमिति विद्यात्, इति।

यः कश्चित्संहितोपासक एतौ णकारषकारौ बलप्राणत्वेन ध्यातव्यावनुसंहितं या या संहिता तां सर्वामनुगताविति ध्यायन्नृचो वेद, ऋग्रूपान्मन्त्रान्पठेत्। स पुमान्स्वेनोपास्यां संहितां *बलसंहितां प्राणसंहितां चोपास्ते। अन्यथोपायमाना संहिता दुर्बला प्राणरहिता च प्रसज्येत। तस्मात्संहिताया आयुष्यस्थान[त्व]मिति निश्चिनुयात्।

इदानीं गुरुशिष्ययोः प्रश्नोत्तरमुखेन[ण] णकारषकारध्यानं द्रढयति—

स यदि विचिकित्सेत्सणकारं ब्रवाणी३ँ अणकारा३ँ इति सणकारमेव ब्रूयात्सषकारं ब्रवाणी३ँ अषकारा३ इति सषकारमेव ब्रूयात्, इति।

पूर्वग्रन्थे णकारषकार ध्यान रहितानि संहितोपासनान्युक्तानि। अत्र तु तद्युक्तध्यानमुच्यते। अतः किं प्रशस्तमिति संदिहानः शिष्यो गुरुं प्रति पृच्छति। हे गुरो योऽहमुपासकः सोऽहं णकारध्यानसहितं यथा भवति तथा किं संहितामुच्चारयामिँ ध्यायामि किं वा तद्राहित्येन। सणकारं ब्रवाणी३ँ। अणकारा३ँ इत्येतत्सानुनासिकं प्लुतद्वयं विचारार्थम्। णकारध्यानसहितायाः संहितायाः प्रशस्तत्वात्तत्सहितं यथा भवति तथा संहितां ब्रूहीत्येवं गुरुः प्रत्युत्तरं ब्रूयात्। एवं षकारेऽपि योजनीयम्।

उक्तार्थस्य सांप्रदायिकत्वं दर्शयितुं माण्डूकेयस्य वचनमुदाहरति—

ते यद्वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयी-


* बलसहितां प्राणसहितामिति पाठो युक्ततरः।

१ ग. कारणं। २ क. ख. ग. ॰ध्यानमुक्तं। ३ घ. ङ. ॰ध्मा स। ४ ग. ॰मि किं। ५ ग. प्लुतद्वं। ६ ग. ॰कारोऽपि। ७ घ. योजनीयः।

अध्या० २ ख० ६(१२)] ऐतरेयारण्यकम्। २२७

यमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ता-
विति ह स्माऽऽह ह्रस्वो माण्डूकेयः, इति ।

तां तां संहितां ध्यातव्यामनुप्राप्य वर्तत इति णकारषकारध्यानमनुसंहितमित्युच्यते । तच्चानुसंहितमनुसंदधानास्ते प्रसिद्धा वयं ह्रस्वदेहा माण्डूकेयनामका उपासका ऋचोऽधीमहे संहितां पठाम इति यदस्ति । किंच माण्डूकेयीयं शूरवीरेण माण्डूकेयेन प्रोक्तं निर्भुजादिध्यानस्य प्राणवंशध्यानस्य च प्रतिपादकं पूर्वोक्तमध्यायं ग्रन्थविशेषं प्रब्रूमः प्रकृष्टध्यानसहितं यथा भवति तथा पठाम इति च यदस्ति तेनोभयेन सर्वसंहिताध्यानेन विशेषतो निर्भुजप्राणवंशध्यानेन च नोऽस्माकं ह्रस्वानां माण्डूकेयानां णकारषकारौ बलप्राणरूपौ वायुषो वा हेतू उपाप्तौ सामीप्येन प्राप्तावित्येवं माण्डूकेयस्य वचनम् ।

तद्वच्छाकल्यवचनमप्युदाहरति—

अथ यद्वयमनुसंहितमृचोऽधीमहे यच्च माण्डूकेयी-
यमध्यायं प्रब्रूमस्तेन नो णकारषकारावुपाप्ता-
विति ह स्माऽऽह स्थविरः शाकल्यः, इति ।

ह्रस्वमाण्डूकेयवाक्यवद्व्याख्येयम् । तदिदं णकारषकारध्यानं सर्वेषु यागेषु स्विष्टकृद्धोम इव सर्वासु संहितोपासनास्वनुसंधेयमिति तात्पर्यार्थः ।

ननु साक्षात्कारपर्यन्तासु सर्वासूपासनासु नैरन्तर्येणोपासनीयत्वान्नित्यनैमित्तिककर्मानुष्ठानलोपे प्रत्यवायः स्यादित्याशङ्क्योपासकव्यतिरिक्तविषयं तत्प्रत्यवायशास्त्रमुपासकस्य तूपासनमेव सर्वकर्मफलप्रापकमित्येतद्दर्शयति—

एतद्ध स्म वै तद्विद्वांस आहुर्ऋषयः काव-
षेयाः किमर्था वयमध्येष्यामहे किमर्था
वयं यक्ष्यामहे वाचि हि प्राणं जुहुमः प्राणे
वा वाचं यो ह्येव प्रभवः स एवाप्ययः, इति ।

कवषस्य पुत्राः कावषेया बहवस्तेषां मध्ये केचित्तदेतद्विद्वांसः पूर्वोक्तसंहितास्वरूपमुपासीना अन्ये केचिच्छाखान्तरप्रसिद्धं तदेतत्समगुणं ब्रह्मोपासीना अपरे तु तदेतत्सर्वेवेदान्तप्रसिद्धं ब्रह्मतत्त्वं साक्षात्कृतवन्तस्ते च सर्वे मिलित्वा परस्परमिदमाहुः । वयं सर्वे यथोक्तोपासनेन ब्रह्मज्ञानेन च कृतकृत्याः सन्त इतः परं किं प्रयोजनमुद्दिश्य ब्रह्मयज्ञाध्ययनादिकं वा ज्योतिष्टोमादियागान्वा करिष्यामः । सर्वस्यापि पुरुषार्थस्य


१ ग. वर्तन्त । २ न. ॰रूपौ बलप्राणहेतुत्वादुपा° । ३ घ. ङ. ॰पायु° । ४ ग. ॰सनायां नित्य° । घ. ङ. ॰सनस्य नियतत्वा° । ५ क. ख. ॰रमा° । ६ क. ख. ॰यं च स° ।

२२८ श्रीमत्सायणाचार्यविरचितभाष्यसमेतम्— [३तृतीयारण्यके-

संपन्नत्वान्नास्त्यस्माकमध्ययनयागाभ्यां प्रयोजनमित्यर्थः । अथापि श्रद्धाजडानां परितोषाय यद्यनुष्ठानमपेक्ष्येत तथाऽपि सायं प्रातः कालीनाग्निहोत्रद्वयवदस्माकं स्वतःसिद्धं होमद्वयं सर्वदा प्रवर्तते । तद्यथा कौलैंनिस्तारार्थं यदा वेदमधीमहे लौकिकं वा वृत्तान्तं भाषामहे तदानीमस्मदीयायां वाचि वह्निस्थानीयायां प्राणरूपं होमद्रव्यं जुहुमः । अथवा यदा तूष्णीं भवामो निद्रां कुर्महे तदानीं प्राणरूपे वह्नौ च वाग्रूपं होमद्रव्यं जुहुमः । तदेतद्धोमत्वमुपपद्यते । वाक्प्राणयोरन्यतरो यः पदार्थ इतरस्योद्भव उत्पत्तिहेतुः स एव कालान्तरे तस्याप्ययो लयहेतुर्भवति । वाच उपरमेण हि प्राणवृत्तिरुद्भवति तस्या एव वाचः प्रवृत्तौ प्राणवृत्तिर्लीयते । एवं प्राणस्योपरमेण वाग्वृत्तिरुद्भवति तथा प्राणस्य प्रवृत्तौ वाग्वृत्तिर्विलीयते । सोऽयं निरन्तरं पर्यायेणान्योन्यस्मिन्विलयो हुतद्र्व्यवद्दर्शनहेतुत्वाद्वोम इत्युच्यते । अतः श्रद्धाजडान्प्रति नित्यसिद्धो होमोऽस्तीति प्रतिपादनीयम् । विवेकिनं प्रति तु नास्त्येव कर्तव्यान्र्तमिति बोधनीयमित्यर्थः । कौषीतकिनः—" तथा तस्य सायतंनं प्रातस्तनम्" [ कौ० ] इत्यादिना यथोक्तपरस्परहोमस्य ध्येयत्वमामनन्ति । तद्वदत्रापि होमध्यानं वा द्रष्टव्यम् ।

इदानीं संहिताविद्यायाः संप्रदानविधिरुच्यते—

ता एताः संहिता नानन्तेवासिने प्रब्रूयान्नासंवत्सरवासिने नाप्रवक्त्र इत्याचार्या आचार्याः, इति ॥

इत्यैतरेयब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयाध्याये षष्ठः खण्डः ॥ ६ ॥ ( १२ )

इति बह्वृचब्राह्मणारण्यककाण्डे तृतीयारण्यके द्वितीयोऽध्यायः ॥ २ ॥

इति बह्वृचब्राह्मणारण्यककाण्डे तृतीयारण्यकं समाप्तम् ॥ ३ ॥

ताः “अथातः संहिताया उपनिषत्” [ऐ० आ० ३ अ० १ ख० १] इत्यारभ्य प्रोक्ता एता ण्कारष्कारध्यानपर्यन्ताः संहितोपासना अनन्तेवासिने शास्त्रोक्तशिष्यलक्षणरहिताय नोपदिशेत् । सत्स्वपि शिष्यलक्षणेषु गुरुसमीपे संवत्सरनिवासात्पूर्वं न ब्रूयात् । उक्तगुणद्वयसंपत्तावपि यः पुमान्प्रवक्ता न भवति शिष्यान्बोधयितुं सामर्थ्याभावादालस्याद्वा प्रवचनं शिष्योपदेशं न करोति तादृशाय च न ब्रूयात् । किंतु


१ क. ख. स्ववेदसिं° । २ ग. ˚काले विस्ता° । ३ क. ख. ˚लविस्ता° । ४ घ. ङ. ˚द्रां वा कु° । ५ घ. ङ. ˚पपाय° । ६ घ. ङ. ˚द्रव्यादिदर्श° ।

अध्या० २ ख० ६(१२)] ऐतरेयारण्यकम् । २२९

शिष्यलक्षणसंपन्नाय संवत्सरं गुरुसेविने शिष्योपदेशक्षमाय पुरुषाय ब्रूयादित्येवमाचा- र्यलक्षणसंपन्ना महान्त आचक्षते ।

आचार्यलक्षणं त्वेवं स्मर्यते—

“आचिनोति च शास्त्रार्थमाचारे स्थापयत्यपि । स्वयमाचरते यस्मादाचार्यस्तेन कीर्त्यते” इति ॥

निरुक्तकारोऽप्याह—“आचार्यः कस्मादाचार्य आचारं ग्राहयत्याचिनोत्यर्था- नाचिनोति बुद्धिमिति वा ” इति । अभ्यासोऽध्यायसमाप्त्यर्थस्तृतीयारण्यकसमा- प्त्यर्थश्च ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाश ऐतरेयब्राह्मणारण्यक- भाष्ये तृतीयारण्यके द्वितीयाध्याये षष्ठः खण्डः ॥ ६ ॥ ( १२ )

वेदार्थस्य प्रकाशेन तमो हार्दं निवारयन् । पुमर्थांश्चतुरो देयाद्विद्यातीर्थमहेश्वरः ॥ १ ॥

इति श्रीमत्सायणाचार्यविरचिते माधवीये वेदार्थप्रकाशे बह्वृचब्राह्म- णारण्यककाण्डभाष्ये तृतीयारण्यके द्वितीयोऽध्यायः ॥ २ ॥

इति श्रीमद्विद्यातीर्थमहेश्वरापरावतारस्य वैदिकमार्गप्रवर्तकस्य श्रीवीरबुक्कमहाराजस्याऽऽज्ञापरिपालकेन सायणामात्येन विरचिते माधवीये वेदार्थप्रकाश ऐतरेयारण्यककाण्डे तृतीयारण्यकं समाप्तम् ॥ ३ ॥


( आदितः समष्ट्यङ्काः—आर० ३ अध्या० १४ ख० ६० )

अथ चतुर्थमारण्यकम् ।

प्रथमोऽध्यायः ।

तत्र प्रथमः खण्डः ।


* यस्य निःश्वसितं वेदा यो वेदेभ्योऽखिलं जगत् ।
निर्ममे तमहं वन्दे विद्यातीर्थमहेश्वरम् ॥ १ ॥
कथितोपनिषत्सर्वा महानाम्न्याख्यमन्त्रकाः ।
अरण्याध्ययनार्था वै प्रोच्यन्तेऽथ चतुर्थके ॥ २ ॥

तेषां च मन्त्राणां विनियोग आश्वलायनसूत्रे द्रष्टव्यः । स चाऽऽश्वलायनः सप्तमाध्याये पृष्ठ्यषडहस्य पञ्चमेऽहनि माध्यंदिने सवने मरुत्वतीयशस्त्रस्य क्लृप्तेरूर्ध्वं निष्केवल्यस्य शस्त्रस्य क्लृप्तिं कुर्वन्नेवमाह—" शाकरं चेत्पृष्ठं महानाम्न्यः स्तोत्रियस्ता अध्यर्धकारं नव प्रकृत्याँ तिस्रो भवन्ति ताभिः पुरीषपदान्युपसंतनुयात्पञ्चाक्षरशः पूर्वांणि पञ्च सर्वाणि वा यथानिशान्तम् " इति । अस्य सूत्रवाक्यस्यायमर्थः—शाकरनामकं सामवेदप्रसिद्धं किंचित्सामास्ति तद्यद्युद्गातारः पृष्ठस्तोत्ररूपेण गायेयुस्तदानीं महानाम्नीसंज्ञया व्यवह्रियमाणा " विदा मघवन् " [ ऐ० आ० ४ अ० १ ख० १ - इत्याद्या नवसंख्याका ऋचो याः सन्ति ताः सर्वा मिलित्वा स्तोत्रसंबन्धितया स्तोत्रि]यस्तृचा इत्यभिधीयन्ते । तिसृभिस्तिसृभिर्ऋग्भिर्मिलिताभिरेकैकस्यामृचि निष्पादितायां सत्यां प्रकृत्या स्वभावतो नवसंख्याका अपि संपादनेन तिस्र ऋचो भवन्ति । तादृशीस्ता ऋचोऽध्यर्धकारं शंसेत् । अधिकमर्धं यस्या ऋचः सेय॑मृगध्यर्धा तामध्यर्धां कृत्वा शंसेत् । समाम्नातक्रमेणार्धत्रयं पठित्वा तत्रावसाय पुनरर्धत्रयं पठित्वा तदन्ते प्रणवं कुर्यात् । अनेन प्रकारेण नवसंख्याकाः समाम्नाता ऋचः शस्त्वा ताभिर्नवभिर्ऋग्भिः सह पुरीषपदानि संयोजयेत् । अन्तिमेन प्रणवेन सह पठेत् । " एवा ह्येव " इत्यादयो नव मन्त्राः फलपूर्तिहेतुत्वात्पुरीषपदानीत्युच्यन्ते । तेषु नवस्वाद्यानि पञ्चसंख्याकानि पुरीषपदानि पञ्चाक्षरशः शंसेत् । तयथा—"एवा


* एतस्मात्प्राक् ङ. पुस्तकेऽधिकं किंचित्तद्यथा—" तुरगाननमाश्रयाम्यहं सुरगन्धर्वशिवेन्द्रकीर्त्यमानम् । उरगाधिपवाग्विलासक्ष्मीं तरसैकेन मुखेन लज्जयन्तम् " इति ।


१ क. ख. ॰नार्थं ते प्रो॰ । २ क. ख. ग. ॰षळह॰ । ३ ग. क्लृप्तनि॰ । ४ ग. ॰न्नेवाऽऽह । ५ घ. ङ. प्रकृत्याँ । ६ ग. ॰त्यास्तिस्रो । ७ ग. ॰त्रस्यां । ८ क. ख. ॰द्यदुद्गा॰ । ९ क. ख. ॰दृशस्ता । घ. ङ. ॰दृशस्तृचोऽ । १० क. ख. ग. ॰यामृध्य॰ । ११ घ. ङ. ॰म्नायक्र॰ । १२ ग. ॰त्युच्यते । ते॰ ।

अध्या० १ ख० १] ऐतरेयारण्यकम् । २३१

ह्येव ” इति पञ्चाक्षराणि पठित्वा सकृदवसाय पश्चात् “एवा ह्यग्ने” इत्येतानि पञ्चाक्ष-
राणि पठेत् । यद्यप्युभोभयत्र चत्वार्येवाक्षराणि दृश्यन्ते तथाऽपि हिशब्दमेवशब्दं
च विश्लिष्टं कुर्यात् । तथोत्तरत्रापि हिशब्दमग्निशब्दं च संधिरहितं कृत्वा पञ्चाक्षरत्वं
द्रष्टव्यम् । अनेन प्रकारेण पञ्च मन्त्रान्पठित्वा पश्चात् “ एवा हि शक्र ” इत्यादीं-
श्चतुरो मन्त्रान्मध्ये विच्छेदमकृत्वा पठेत् । यद्वा सर्वानपि नव मन्त्रानेतान्यथानिशान्तं¹
यथा॑समाम्नायमध्ययनपाठक्रमेणैव पठेत् । न तु मन्त्रस्य मध्येऽवसानं कर्तव्यमिति ।
सोऽयं सूत्रोक्तो मन्त्राणां विनियोगः ।

तत्र नवस्वृक्षु प्रथमामृचमाह—

विदा मघवन्विदा गातुमनु शंसिषो दिशः ।
शिक्षा शचीनां पते पूर्वीणां पुरूवसो, इति ।

हे मघवन्निन्द्र *विद्² वेत्सि । अत्र वेदनस्य कर्मकारकस्य कस्यचिद्विशेषस्यानुप-
पादनात्सामान्याकारेण सर्वं जानासीत्ययमर्थो लभ्यते । यस्मात्सर्वज्ञस्त्वं तस्माद्गातुं
यजमानेन गन्तव्यमार्गं विद्³ वेत्सि जानासि । ततो यजमानस्य समीचीनेन मार्गेण
स्वर्गं गन्तुं दिशो मार्गोपयुक्तान्दिग्विशेषाननुशंसिषोऽनुक्रमेण शंसोपदिश । किंच
पूर्वीणां पूर्वसिद्धानां शचीनां⁴ शक्तीनां पते⁵ हे पालक पुरु प्रभूतं वसु धनं यस्यासौ
पुरूवसुस्तत्संबोधनं हे पुरूवसो शिक्ष⁶ यजमानस्य हितोपदेशं कुरु । सर्वशक्तिमत्त्वेन
प्रभूतधनत्वेन च हे इन्द्र त्वं यजमानं समीचीने कर्मणि प्रवर्तयितुं तत्फलं दातुं च
प्रभवसीत्यर्थः ।

द्वितीयामृचमाह—

आभिष्टिभिरिष्टिभिः प्रचेतन प्रचेतय ।
इन्द्र द्युम्नाय न इष एवा हि शक्रः, इति ।

प्रकृष्टा चेतना बुद्धिर्यस्यासौ प्रचेतनः । हे प्रचेतनाऽऽभिर्यजमानेन क्रियमाणा-
भिरभिष्टिभिरिष्टाभिः स्तुतिभिः प्रचेतय प्रकर्षेण यजमानसेवां जानीहि । हे
इन्द्र त्वं नोऽस्माकं द्युम्नाय धनलाभायेषेऽन्नलाभाय च शक्रः शक्तिमानेव हि ।
तस्मात्प्रचेतयानुगृहाणेत्यर्थः ।

तृतीयामृचमाह—

राये वाजाय वज्रिवः शविष्ठ वज्रिन्नृञ्जसे ।


* छान्दसो दीर्घो मूले । एवमग्रेऽपि ।


१ घ. ङ. ॰थान्नां । २ क. ख. विदा । ग. विदा त्वं वे॰ । ३ क. ख. ग. विदा । ४ घ. ङ. ॰नां प॑ । ५ क. ख. हे इन्द्र पां । ६ क. शिक्षा ।