भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

विद्योपदेशार्हो न भवतीति ज्ञात्वा, सनत्कुमारो नारदाधिकारं च ज्ञातुं 'यद्वेत्थ तेन मोपसीदे'त्युक्तो नारदः स्वयं विदितमृग्वेदादिसर्पदेवजनविद्यान्तमुक्त्वा, 'सोऽहं भगवो मन्त्रविदेवास्मी'ति स्वाधिकारमुक्त्वा, आह 'नात्मविच्छ्रुतं ह्येवमेव भगवद्दृशेभ्यस्तरति शोकमात्मविदिति, सोऽहं भगवः शोचामि तं भाष्यप्रकाशः 'उपसीदे'ति श्रौतस्य पदस्य 'तं होवाचे'ति श्रौतेनैव पदेनान्वयः । 'यद्वेत्थ तेन मोपसीद ततस्त ऊर्ध्वं वक्ष्यामीति होवाच ।' यत्त्वं जानासि तत्कथनेन मदुपसन्नो भव, स्वाधीतं वद; ततोऽतिरिक्तं तुभ्यं कथयिष्यामीत्युक्तवान् । तदा इत्युक्तः सनत्कुमारेण नारदः स्वविदितं ऋग्वेदादिसर्पदेवजनविद्यान्तं आह । अत्र ऋग्वेदादिपुराणान्त

मां भगवाञ्छोकस्य पारं तारयत्वि'ति नारदेनोक्तः सनत्कुमारः पूर्वस्मात्पूर्वस्माद् भूयो वदेति पृष्टः, भूयःपदमधिकार्थकम्, नामवाङ्मनःसङ्कल्पचित्तध्यानविज्ञान- बलान्नापस्तेजआकाशस्मराशाप्राणान् ब्रह्मत्वेनोपासनाविषयत्वेनोक्त्वा, प्राणो- ब्रह्मत्वेनोपासनं तत्फलं च पूर्ववदुवाच, तत्र भूयःपदं न बाहुल्यार्थकम्, नापि पुनरर्थकम्, किन्त्वाधिक्यार्थकम्, आधिक्यमुत्कर्षस्तदर्थकमिति तत्तन्माहात्म्यकथनादवसीयते, एवं नामवाङ्मा- नःसङ्कल्पचित्तध्यानविज्ञानबलान्नापस्तेज आकाशस्मराशा उक्ताः। तत्र नामवाचौ प्रसिद्धौ, मनो मननव्यापारविशिष्टमन्तःकरणम्, मननव्यापारश्च विवक्षात्मकः। सङ्कल्पोपि कर्तव्या- कर्तव्योर्विषयसमर्थनरूपस्तादृशान्तःकरणस्यैव वृत्तिविशेषः। चित्तं चेतयितृत्वं प्राप्तकालानुस- न्धानवत्त्वम्, अतीतानागतविषयप्रयोजननिरूपणसामर्थ्यं च। ध्यानं शास्त्रोक्तदेवतालम्बनो विजातीयानन्तरितः प्रत्ययसन्तान एकाग्रतापरपर्यायः। चिरकालस्थायिज्ञानवादे तु तादृश एक एव प्रत्ययो बोध्यः। विज्ञानं शास्त्रार्थविषयकं विशिष्टज्ञानम्। बलं अन्नभक्षणजनितं मनसो विशेयविभावनसामर्थ्यम्। अन्नमापस्तेज आकाशश्च प्रसिद्धाः। स्मरः स्मरणं अप्रयत्नश्चित्तव्यापारः। आशा अप्राप्तवस्त्वाकाङ्क्षा तृष्णाकामाद्यपरपर्याया। एवमेतेषां स्वरूपमुपनिषद्व्याख्यानादवग- न्तव्यम्। एतेषामत्र ब्रह्मत्वेनोपासनमुक्तम्, प्राणस्य त्वाशातो भूयस्त्वं माहात्म्यं चोक्त्वा, 'स वा एष एवं पश्यन्नेवं मन्वान एवं विजानन्नतिवादी'त्यनेन तद्दर्शनादिमतोऽतिवादित्वं यद्यप्युक्तम्, तथापि तत्र विद्याया अपर्यवसानादग्रे जन्यप्रायपाठे 'आत्मतः प्राण' इति श्रावणाच्च सोऽत्र परतत्त्वेन नाभिप्रेतः, किन्त्वासन्यत्वेन। स चोक्तमाहात्म्यवत्त्वादपहतपाप्मत्वाच्चान्येभ्य उक्तेभ्य उत्कृष्ट इति तेभ्योऽप्युत्कृष्टवादित्वमेवातिवादित्वम्, न तु परमकाष्ठापन्नोत्कृष्टवादित्वरूपं तदिति सोऽपि ब्रह्मत्वेनोपास्यतयैवाभिप्रेतः। तदेतदभिसन्धाय भाष्ये प्राणोपि तथोपास्य- मध्ये गणितः प्राणान् ब्रह्मत्वेनोपासनाविषयत्वेनोक्तेवेति। श्रुतौ तथानुक्तिस्तु नारदस्य मुख्यविद्याग्रहणयोग्यता जाता न वेति परीक्षार्थम्। अत एवाग्रे 'तं चेद् ब्रूयुरतिवाद्यसीति, अतिवाद्यस्मीति ब्रूयान्नापह्नुवीते'त्युक्त्वा, 'एष तु वा अतिवदति, यः सत्येनातिवदती'ति यती'ति श्रुतेः। 'दिवं च पृथिवीं च वायुं चाकाशं चे'ति श्रुत्या रूपविज्ञापकलम्। वाङ्माहात्म्यं वाग्देवत्वम्। ब्रह्मत्वेनेति। 'तत्रास्य कामचारो भवति, यो वाचं ब्रह्मेत्युपास्ते' इति श्रुतेः। अत्र भूयःपदं 'भूयः पुनः पुनः ख्यातं प्रभूतार्थे त्वनव्ययम्। निश्चये च निषेधे च साकल्यातीतयोरपी'ति विश्वादनेकार्थमिति तदर्थं निश्चिक्युः तत्रेति। अथेति। तथा च श्रुत्या पूर्वोक्तार्यबाधात् नाम- नारायणादितो लक्षणया बोलकर्षकमिति भावः। विषयेति। विषयो यस्य यो ज्ञातः स तस्य प्रयोजनं फलम्। प्रत्ययसन्ताने स्वमतमाहुः चिरेति। बलमिति। विज्ञानानन्तरं स्नेहरूपबलस्यापि वक्तुं शक्यत्वेपि ह्यनुग्रहादीनां विशेषकारणानामनुक्तेः प्रसिद्धमेव बलमुररीकृतम्। तथा च भाष्यम्। ज्ञात एव स्नेह इति। बलं भक्तिरिति च। यद्वा। अन्नाप्तेजआकाशस्मराशाकाङ्क्षाणामग्र आधिक्येन वक्ष्यमाणत्वात् तेषां चानन्दमयाधिकरणोक्तरीत्या वक्तव्यत्वात् बलं भक्तिर्वा। जगति भक्तिः स्वांशब- लत्वेन भवति। च प्रसिद्धा इति। चकारेणानन्दमयाधिकरणे प्रसिद्धाः। न चाप्रयोजकत्वम्। शास्त्रार्थविषयकविशिष्टज्ञानाद्भूयस्त्वात्। माहात्म्यमिति। देवत्वम्। अतिवादित्वमिति। अग्रे स्पष्टम्। अपरीति। अग्रे ततोपि भूयः प्रश्नोत्तराभ्याम्। तथेति। ब्रह्मत्वेन। वदानीति लङर्थे लोड् 1901

३६६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० १ सू० ४४. पासकस्यातिवादित्वं सत्यवादित्वेनोक्त्वा, विजिज्ञासितव्यत्वेन सत्यविज्ञानमति- श्रद्धा निष्ठाकृति सुखानि पूर्वपूर्वकारणत्वेनोत्तरोत्तराण्युक्त्वा, सुखस्वरूपजिज्ञासा- यामाह 'यो वै भूमा तत्सुख'मिति । भूम्नः स्वरूपजिज्ञासायामाह 'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे'ति । भाष्यप्रकाशः। प्राणोपासकस्यातिवादित्वं सत्यवादित्वेनोक्तम् । यद्येवं शिष्टप्रयोगेऽसाधिकजिज्ञासोत्पत्स्यते, तदा योग्यः, नो चेदयोग्य इत्येतदर्थमेवमुक्त्वा, ततो नारदेन प्राणस्य तत्त्वं न प्राणः, किन्त्वन्यदिति बुद्ध्वा, 'सोऽहं भगवः सत्येनातिवदानी'ति साभिप्राय उक्तः, तत्र 'अतिवदानी'त्यन्तर्भावितसन्नर्थः । सत्येनातिविवक्षामीत्याशयात् । तदा सनत्कुमारः 'सत्यं त्वेव विजिज्ञासितव्य'मित्यादिना तस्य सत्यादिजिज्ञासामुत्पाद्य, विजिज्ञासितव्यत्वेन सत्यविज्ञानमतिनिष्ठाकृतिसुखानि पूर्वपूर्वकारण- त्वेनोत्तरोत्तराण्युक्तवान् । तत्र सत्यं अर्थमनतिक्रम्य स्थितं वस्तुस्वरूपम्, विज्ञानं तद्विषयकं विशिष्टज्ञानम्, मतिस्तर्केण तदर्थस्वरूपविचारः, श्रद्धा आस्तिक्यबुद्धिः, निष्ठा तद्विषयक आदरस्तत्परत्वरूपः, कृतिस्तद्विषयसाधनानुकूल इन्द्रियव्यापारः, सुखं अनुकूलबुद्धि‌वेद्य आन्तरो धर्म इत्येवं लौकिकसमानाकारं तत्स्वरूपं ज्ञातव्यमिति सत्यादिषु कृत्यन्तेषु विशेषाकथनादायातीति तथोक्त्वा, ततः सुखे विशेषं वक्तुं सुखस्वरूपजिज्ञासायामाह । 'यो वै भूमा तत् सुखं नाल्पे सुखमस्ति भूमैव सुखं भूमा त्वेव विजिज्ञासितव्य' इति भूम्नो विचार्यत्वमुक्तम् । तेन प्राणस्य सत्यवदनादीनां च स एव कारणं तत्त्वं च, अतस्तमेव कृत्यादिप्रणाल्या ज्ञात्वा, सत्यवदनेऽति- वादित्वम्, नान्यथेत्यवगत्य, किंखरूपो विचार्य इत्याकाङ्क्षायां पप्रच्छ 'भूमानं भगवो विजिज्ञास' इति । एवं नारदस्य भूमस्वरूपजिज्ञासायामाह 'यत्र नान्यत् पश्यति नान्यच्छृणोति नान्यद्विजानाति स भूमे'ति । इह यच्छब्दगतसप्तम्या अधिकरणार्थत्वे ब्रह्मणो व्यापकत्वेन सर्वेषां तदुपश्लिष्टतया तद्व्याप्यतया च सर्वेषां सर्वदान्यज्ञानाभावापत्तेः सप्तम्याः सत्यर्थत्वेऽपि ब्रह्मणः सर्वत्र सत्त्वेन सर्वस्य तथात्वापत्तेश्चात्र कश्चिद्विशेषो वाच्यः । तथाच यस्मिन् दृष्टे श्रुते विज्ञाते सति द्रष्टुः रश्मिः। छान्दसः । विवक्षामीति व्याख्यानात् । उपनिषद्द्व्याख्यानाच्च । कृत्यादीति । कृतेरादिभूताया प्रणाल्या । ज्ञात्वेति । 'भूमा त्वेव विजिज्ञासितव्य' इत्यत्रैवैकारः सर्वत्र, नत्वेवंकारः । अतः कृत्या- दिप्रणाल्या तदुक्तिवैयर्थ्यपरिजिहीर्षया ज्ञात्वा विजिज्ञास इत्यत्रेच्छाविषयज्ञानं यत् तद्विषयीकरणं भूम्नः प्रतीयत इति । आहेति । मूललक्षणमाह । औपश्लेषिकवैषयिकाभिव्यापकाधारेषु वैषयिका- धाराङ्गीकारो न सम्भवति, ह्यन्यपदार्थस्य विषयत्वादिति शङ्कायां यत्रेति सप्तम्याः सतिसप्तमीत्वं समर्थयाम्बभूवुः इहेत्यादिना । अन्यज्ञानाभावापत्तेरिति । न च ब्रह्मणो होपश्लिष्टत्वेऽपि व्याप्य- त्वेपि 'पश्यन् चक्षुर्भवती'त्यादिरीत्या चिक्रीडिषया वा पुराणमते मायया वा न सर्वेषां सर्वदान्यज्ञाना- भावापत्तिरिति वाच्यम् । भूमाधिकरणे भूम्नो ब्रह्मत्वेन सिद्धस्तात्र ज्ञानप्रकारविशेषनिरूपणे ज्ञानेनाज्ञान- निवृत्त्या तथात्वापत्तिः जीवस्य ब्रह्मभेदात् । भेदे तु अचलत्वसूत्रोक्ताभासे भक्तमनोरथपूरकत्वात् भगवतश्चक्षुर्भवनादीनां नित्यलीलास्थानां 'आत्मत आविर्भावतिरोभावा'विति श्रुतेर्भक्ताधीनात्मतो भवनाद्ब्र- ह्मस्वरूपस्यात्मनो लीलाप्तसंकल्पपदार्थरूपत्वेन लीलास्थानां सर्वेषां सर्वदान्यज्ञानाभावापत्तिः, न तु प्रपञ्च- स्थानामपीत्यदोषात् । तथात्वे । पूर्वोक्तदिशा सर्वस्य निरधिष्ठस्य नित्यलीलास्थस्य च तथात्वं सर्वदा- न्यज्ञानाभावापत्तिमत्त्वं तस्यापत्तेः । कश्चिद्विशेष इति । आशङ्कोत्तरणोपपादनं वाच्यः । तथा चेति । पूर्वोक्तप्रकारे सति । सतीति । न च 'फले सप्तमी यत्रे'त्यत्र यत्फलकोन्यदर्शनाभाव इति कर्मणोऽ- 1902

श्रोतुर्विज्ञातुरन्यविषयकदर्शनश्रवणविज्ञानाभावो भवति, स भूमेति लक्षणकथनेन नित्यनिरवधि- सुखरूपं तत्स्वरूपं स्वेतरस्मिन् सुखत्वसुखसाधनत्वज्ञानाभावजननं तत्कार्यं चेति सिद्ध्यति । तेनैवं स्वरूपकार्यलक्षणयुक्तं विचार्यमिति फलति । तत्र भूम्नि दृष्टे श्रुते विज्ञातेऽन्यदर्शनादिकं कुतो न भवति, किं विशेषदर्शने रजतादिकमिवान्यन्नश्यति, उत कारणे कार्यमिव भूम्न्य- न्यल्लीयते, अथवा सूर्यतेजोनक्षत्रादिकमिव भूमा अन्यत्तिरस्करोतीति शङ्कायामाह 'अथ यत्रा- न्यत् पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पम्, यो वै भूमा तदमृतम्, अथ यदल्पं तन्म- र्त्य'मित्यनेन । अनित्यत्वे सति सावधिसुखरूपत्वे सत्यन्यत्र सुखत्वसुखसाधनत्वज्ञानजनक- त्वमल्पसुखत्वमिति सिद्ध्यति । तथाच न पूर्वविकल्पितं किञ्चिद्भवति, अपि तु भूम्नि दृष्टे श्रुते विज्ञाते तदानन्दैकतानतया अन्यदल्पं न सुखत्वेन सुखसाधनत्वेन च पश्यति, न शृणोति न विजानातीत्यर्थः सिध्यति । तत्र ननु यदि भूम्नो दर्शनश्रवणविज्ञानेष्वन्यतमेनैवं भाव आनन्दैक- तानत्वरूपः, तर्हि शृण्वतो मम कुतो नास्ति । अथ समुदितैस्तैस्तदा यत्र भूमा स्वरूपं स्वकार्यं च प्रकाशयंस्तिष्ठति, तस्यैव भावो नान्यस्येत्याशयः, तदा स आधारो वक्तव्य इत्याशयेन पृच्छति 'स भगवः कस्मिन् प्रतिष्ठित' इति, उक्तरीत्या कमभिव्याप्य स्थित इत्यर्थः । तत्रोत्तरमाह 'स्वे महिम्नी'ति । स्वविभूतौ । अत्रापि को महिमेत्याशङ्का भविष्यतीति तद्वारणार्य स्वयमेवाह न्यस्य फलेन यच्छब्दार्थेन समवायादिति वाच्यम् । अन्यदर्शनाभावस्य सुषुप्तावपि सत्त्वेनात्मा फलं स्यादिति तत्फलं तु भक्त्येकसाध्यत्वात् । न च भक्तिप्रकरणादन्यदर्शनाभावो भक्तिरेवेति तस्यात्मा फलं कथं न भवतीति वाच्यम् । अत्रार्थेऽन्येषां रामानुजाचार्यादीनामसंमतेर्वक्ष्यमाणत्वात् । 'सर्वं हि पश्यः पश्यती'ति श्रुतिविरोधाच्च । न च सुषुप्तिलक्षणे दृष्टे विज्ञाते इति कुतो लब्धमिति वाच्यम् । एतादृशविशेषणमन्तरा कस्मिन्नर्थे सप्तमीत्यपि वाच्यम् । सत्यर्थे सप्तमीति चेत् । सुषुप्तिर्व्याक्रियताम् । ननु सुषुप्तौ व्याक्रियमाणायां शङ्करभाष्यपूर्वपक्षस्य सिद्धान्तीकरणात् सम्प्रदायप्रदीपोक्ता भगवदाज्ञा से- त्स्यति शङ्कराचार्यमतस्था मन्मतं पूर्वपक्षयन्ति तत्त्वं सिद्धान्तयेत्याकारिकेति चेत्, न । अहङ्कारादेशात् । 'अथाहङ्कारादेश' इति वक्ष्यमाणश्रुतेः । तस्य तुरीयग्राहकत्वं प्रतिभाति । चित्तस्य सुषुप्तिग्राहकत्वात् । तथाच 'अशक्ये हरिरैवास्ति मोहं मा गाः कथञ्चन' इति वाक्यान्न दोषः । किञ्च । सर्वस्य तथात्वापत्ते- श्चेत्युक्तदोषाच्च । तथाच श्रुतिः 'सर्वं हि पश्यः पश्यती'ति । अत्र रामानुजमाध्वभास्कराचार्या भिक्षुशैवौ च भगवन्तौ 'यत्र नान्यत् पश्यत्यादे'र्भूमातिरिक्तावदर्शननिषेधो नार्थः, किन्तु निरवधि- सुखरूपे ब्रह्मण्यनुभूयमाने ब्रह्मस्वरूपतद्विभूत्यन्तर्गतत्वात् कृत्स्नस्य वस्तुजातस्यैश्वर्यविशिष्टब्रह्मभिन्नत्वेन न पश्यतीति । एतदेवोपपादयति वाक्यशेषः । 'स वा एवं पश्यन्नेवं मन्वान' इत्यादिः । अग्रे 'न पश्यो मृत्युं पश्यति, न रोगं नोत दुःखताम्, सर्वं हि पश्यः पश्यति सर्वमाप्नोति सर्वश' इति मन्त्रश्चेति वदन्ति । पूर्वोक्ताविरुद्धमेतत् । भूमाधिकरणभाष्यप्रकाशे एतदुक्तम् । इतीति । इति स्वरूप- लक्षणं कार्यलक्षणं च सिध्यतीत्यर्थः । किमित्यादि । विशेषदर्शनम् । नेदं रजतमित्याकारकं रजतादिकम्, शुक्ताविदं रजतमिति । आदिना रज्जौ सर्पोऽयमिति । नायं सर्पः, रज्जुरेवेति विशेषदर्शनम् । कारणे जले कार्यं पृथिवी । स्वेति । विभूत्यध्यायोक्तायाम् । अत्रापीति । १. संपद्यते । २. तदेकतानतारूपः । 1903

१६८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १७ सू० ४४. भाष्यप्रकाशः। 'यदि वा न महिम्नीति गो अश्वमिह महिमेत्याचक्षते हस्तिहिरण्यं दासभायं क्षेत्राण्यायतना- नी'ति । तथाचैतेषु तत्प्रतिष्ठाया अदर्शनात्कथमेतदिति शङ्कां मा कृथाः । तत्र हेतुमाह 'नाहमेवं ब्रवीमी'ति । एतादृशे महिम्नि प्रतिष्ठित इत्यहं न ब्रवीमि । तर्हि क्व प्रतिष्ठित इत्यत आह 'ब्रवीमीति होवाच अन्यो ह्यन्यस्मिन् प्रतिष्ठित' इति । अत्र 'इति होवाचे'ति श्रुतिवाक्यम्, शेषं सनत्कुमारस्य । तथाच गोअश्वादिभ्योऽन्यो महिमा तस्मिन् प्रतिष्ठित इति । तथाच लौकिकमहिम्नभिन्नः स्वे आत्मीये वृते भक्ते योऽथवा स्वामिन्नो यो महिमा तस्मिन्नु- क्तरीत्या स्थित इत्यर्थः । अतस्तेनापि प्रकारेण विचार्य इत्यर्थतः सिध्यति । तर्हि, स कीदृग् केन तत्रैव प्रतिष्ठित इत्याकाङ्क्षायां तं विवृणोति 'स एवाधस्तात् स उपरिष्टात् स पश्चात् स पुरस्तात् स दक्षिणतः स उत्तरतः स एवेदं सर्व'मित्यारभ्याग्रेऽहंकारादेशं तत आत्मादेशं च पूर्ववत् 'आत्मैवेदं सर्व'मितीत्यन्तम् । तथाच यस्य पूर्वं 'स एवाधस्ता'दित्याद्युक्तरीत्या सर्वदिक्षु भूमभानं सर्वं परिदृश्यमानं भूमेति च भानम् । अथ तदनन्तरम्, अत एत- स्माज्ज्ञानाद्देवोरहंकारादेश एव पूर्ववद्भूमाभिन्नस्वभानम् । अथ तदनन्तरम्, अतस्तादृशभानाद्धेतो- रात्मादेश एव पूर्ववद्भूमाभिन्नात्ममानमिति । एवं प्रकारकभानवान् यः स पुरुषस्तत्र यो महिमा रश्मिः। विभूतिष्वपीत्यर्थः । अस्येति । नारदस्य । स्वयं सनत्कुमारः । यदि वा नेति । यदि वा परमार्थत आधारं पृच्छसि तर्हि ब्रूमः । महिम्नि गो अश्वं गवाश्वं तदादिरूपे महिम्नि । नेति । न प्रतिष्ठित इतीत्यर्थः । कथमेतदिति । कथं केन प्रकारेण । 'स्वे महिम्नी'ति श्रुतिवाक्यमित्यर्थः । न ब्रवीमीति । अन्ये ज्ञानिनस्तु ब्रुवन्तीत्यर्थः । अन्यज्ञानिनां परमार्थः गीताविभूत्यध्याये । 'धेनुनामस्मि कामधुक्' 'उच्चैःश्रवसमश्वानाम्' 'ऐरावतं गजेन्द्राणाम्' 'श्रीमदूर्जितमेव वा' 'रुद्राणां शङ्करश्चास्मि' 'देवर्षीणां च नारदः' 'सिद्धानां कपिलो मुनिः' 'कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा धृतिः क्षमा । विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्' इत्येतेषु वाक्येषु गवाश्वादीनां श्रीकृष्णविद्विभेदः । अत एव 'ह्यन्यो ह्यन्यस्मिन् प्रतिष्ठित' इति श्रुतेर्ज्ञानिनो भूमा तु स्वतो न भिन्न इति भावं वदन्ति । सर्वालंभावरूपमुख्यभक्तिप्रकरणाङ्कतानामुक्तश्रुतिप्रतिपाद्यपरमार्थमाहुः तथा चेति । गवाश्वादिभ्योऽन्यो महिमा यस्तस्मिन् तद्रूपेऽन्यस्मिन् प्रतिष्ठित इति । हि युक्तश्चाय- मर्थः । ज्ञानमार्गीयादर्याद्भिन्नाः । ननु ज्ञानमार्गीयार्थो भक्तिमार्गीयो वेति चेत् । न । महाभाष्ये 'चत्वारि शृङ्गा त्रयोऽस्य पादा द्वे शीर्षे सप्त हस्तासो अस्ये'ति श्रुतेर्निरुक्तावाशुशुक्षणपरत्वेन व्याख्यातापि शब्दपरत्वेन व्याकरणदत्रापि ज्ञानमार्गपरत्वेन व्याकृता भक्तिमार्गपरत्वेन व्याकृतेति । स्वामिन्न इति । स्वं भगवान् । उक्तेति । उक्ता 'अन्यो ही'त्यादिश्रुत्योक्ता रीतिस्तया । श्रुति- प्रामाण्यात् स्वस्मिन्नपि (स्वयं) स्थित इत्यर्थः । अस्मिन् पक्षे 'अन्यो ही'त्यादिश्रुत्यर्थः स्पष्टः । भूमा तु स्वतो न भिन्न इति भावः । स इति । महिमा । श्रुतौ स इति भूमा । पूर्ववदिति । 'अहमे- वाधस्ता'दित्यादिपूर्ववत् । 'आत्मैवाधस्ता'दित्यादि पूर्ववच्च । भूमेति । ययाधस्ताद् घट इत्यत्राधस्त- नघटभानम् । इदम्पदार्थमाहुः परीति । इदमस्तु प्रत्यक्षगे रूपमिति । स्वेति । भूमाभिन्नानां स्वेषां मानम्, 'कृष्णोऽहं पश्यत गति'मित्यत्र यथा भूमा भगवान् तत्त्वेन स्वेषां भक्तानां भानम् । हेतोरिति । सम्भारिभावरूपत्वादित्यर्थः । आत्मपदं मुख्ययात्मपरम् । अहङ्कारादेशस्य सम्भारिभावत्वज्ञापनाय पुनर्भूमा- भिन्नात्मज्ञानमित्यर्थः । एवमग्रे भाष्ये स्फुटम् । महिमेति । सस्फूर्तिसर्वात्मभावस्तस्मिन् प्रसिद्धे 1904

भिमान'" -> wait, there is no visarga visible or is there? It ends with "मान' इति". It's printed without visarga: "पञ्चधियोऽभिमान' इति" or "पञ्चधियोऽभिमान इति"? Look closely: "पञ्चधियोऽभिमान' इति ।" - yes, quote mark then इति.

Line 31: "तदुक्तमाचार्यैः 'सर्वात्मभावोऽधिकृतो भवतीनामधोक्षजे । विरहेण महाभागा महान् मेऽनुग्रहः कृत' इति श्लोके 'सर्वोप्यात्मनो भावो भगवत्येवाधिकृत उत्तरोत्तरं वृद्ध्यर्थं आरब्ध इवे'ति सुबोधिन्या ।" Wait: "वृद्ध्यर्थं आरब्ध" or "वृद्ध्यर्थं आरब्ध"? In line 32: "वृद्धयर्थं" or "वृद्ध्यर्थं"? It is "वृद्ध्यर्थं" (द् + ध्य). "आरब्ध इवे'ति सुबोधिन्या ।"

Line 32-33: "ननु विरहेणेत्युक्तौ पुष्टिमार्गीयाणां विरहसामयिकसर्वात्मभावपदनिर्वचनम्," Wait, look at line 32: "पुष्टिमार्गीयाणां" or "पुष्टिमार्गीयाणां"? Wait, look at line 33: "

६७० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १७ सू० ४४. सर्वत्र तदेव स्फुरतीति 'स एवाधस्ता'दित्यादिनोक्त्वा, कदाचित् स्वस्मिन्नेव भगवत्स्फूर्तिरपि भवतीति 'अथाहंकारादेश' इत्यादिना तामुक्त्वा, एतेषां व्यभिचारिभावत्वेनानियतत्वं ज्ञापयितुं पुनः सर्वत्र भगवत्स्फूर्तिमाह 'अथात भाष्यप्रकाशः । न यदुद्भवं प्रति सर्वात्मभावरूपं स्वस्मिन् विगाढभावात्मकं भगवतोक्तं तदेवोक्तमि- त्यर्थः । कथमित्याकाङ्क्षायामेतदग्रिमोक्तकार्यान्थानुपपत्त्यार्थादुक्तं भवतीति वक्तुमेतद्विम- जन्ते तत्रेत्यादि । रश्मिः । न तु संयोगसामयिकसर्वात्मभावपदनिर्वचनमिति संयोगीयन्निर्वचनमिति चेत् । न । संयोग- विप्रयोगभेदेनैकस्या एव भक्तेद्वैविध्यात् । न च संयोगे मानाभाव इति वाच्यम् । विहितभक्त्य- साध्यत्वेन भक्तिपदं सर्वात्मभावेऽर्धदलवाचकं स्यादिति । न चास्त्वेवमिति वाच्यम् । विशिष्टे शक्ति- वादिनां घट इत्युक्ते हि न घटत्वाविषयकप्रत्ययो भवतीति तथा वक्तुमशक्यत्वात् । तथा च प्रत्ययः । प्रतिमादिं पश्यतो भगवन्तं पश्यामीति चक्षुःसंयोगे । विप्रयोगे तु दैहिकपारतन्त्र्यं देशैक्येपि । तदा न पश्यामीति प्रत्ययः । तथा च प्रयोगः । विगाढभाववान् निरोधादाचार्यवदिति । एवं सर्वस्मिन् भाव इति सर्वात्मभाव इति लाडूमट्टकृतसर्वात्मभावविवेके । सा व्युत्पत्तिरतिविगाढभावेन वक्ष्यमाणस्फूत्तौ । तथा चैतादृशः सर्व आत्मनो भावो यत्र विगाढभावे स विगाढभावः सर्वात्मभावः । द्वितीयदले त्वतिविगाढभावः अतिपदार्थोऽनुभवसाक्षिको विरहे संयोगापेक्षयातिशयरूपः । तत्र सर्वस्मिन्नात्मभावो यत्रातिविगाढभावे स सर्वात्मभावः । तदुक्तं सर्वात्मभावरूपं स्वस्मिन् विगाढभावात्मक- मिति । अन्यस्मिन् कामुकेऽयं भावः सर्वात्मभावः स्यात्, तद्व्यावृत्त्यर्थं स्वस्मिन्निति । विगाढ- भावात्मकसर्वात्मभावाग्निरोधात्मकस्तस्मादतिविगाढात्मके स्फूत्र्यात्मकः सर्वात्मभावः । एवं संयोगे द्विविधोपि त्रिविधः आध्यात्मिकादिदैविकयोरभेदात् । अतिविगाढभावतदुद्भवस्फूर्तिरूपो द्विविधोपि विरहे त्रिविधः । उक्तभेदात् । एवं षड्विधो जीवे । ईश्वरेप्येवं षड्विधः कारणरूपः । तदुक्तं प्रदानव- त्सूत्रभाष्यप्रकाशे 'तेन भगवद्धर्मे'त्यादिना । व्युत्पत्तिस्तु सुबोधिन्या एव 'सर्वोप्यात्मनो भावः' इत्यस्याः श्रुतौ निरवध्यानन्दरूपत्वेन रसरूपत्वेन पुत्रादिभ्योपि प्रेयस्त्वेन च सिद्धस्य आत्मनो यो भावो धर्मः प्रियत्वाख्य आनन्दात्मा यन्मात्रां सर्व उपजीवन्ति स सर्वस्तदंशभूतो भगवद्धर्म ऐश्वर्या- दिवदतिरिक्तः । ननु स दत्तो जीवेष्वपि तादृश इति चेत् । न । 'एतस्यैवानन्दस्यान्यानि भूतानि मात्रामुप- जीवन्ती'ति श्रुत्या प्रदानवत्सूत्रोक्तरीत्या भगवद्धर्मात्मकसर्वात्मभावदानेपि भगवद्धर्मसर्वात्मभावस्योक्त- विधत्वमपि । मात्रारूपत्वेन परिणामात् । एतेन प्रदानवत्सूत्रोक्तभाष्यप्रकाशोक्तलक्षणकसर्वात्मभावनिर्व- चनाभावात् तद्विरोध इत्यपास्तम् । तत्र भगवद्धर्मात्मकसर्वात्मभावनिर्वचनात् । आध्यात्निकाधिभौतिक- स्फूर्तिविगाढभावयोर्मात्रात्वायुक्तविधत्वम् । पुराणमतेन तु प्रदानवदेवेति सूत्रभाष्यप्रकाशेऽनुरागात्मेत्या- दिविशेषणविशिष्टः सर्वात्मभावो ज्ञेयः । तथा चैतेन श्रुतिवाक्येन सर्वः सर्वेन्द्रियसम्बन्धी आत्मनोऽ- न्तःकरणस्य भावः 'कामः सङ्कल्प' इत्यादिश्रुत्युक्तस्तस विद्यारूपस्स स्वरूपं 'दर्शनाच्चे'ति वक्ष्यमाण- सूत्रादुक्तमित्यर्थः । निरोधलक्षणोक्तविद्यारूपमिति यावत् । श्रीवल्लभजित्कृतसर्वात्मभावनिरूपणे सर्वात्मभावपदस्यायमर्थकः । भक्तिमार्त्तण्डे च । 'नन्दगोपव्रजस्त्रीणां नन्दगोपसर्वात्मभावत्वेन 'मनसो वृत्तयो नः स्यु'रिति भ्रमरगीतीयवाक्योक्तेन सर्वात्मभावनिरूपणस्य युक्तत्वात् । उक्तश्रुतेश्चेति 1906

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७१ भाष्यप्रकाशः । अयमर्थः । अत्र व्याख्यातरीत्या यो भूममहिमाधाररूपः पुमान् परिचाययिष्यते, तस्य या स्फूर्तिः, सा नाखण्डब्रह्मज्ञानरूपा, 'तत् केन कं पश्ये'दित्यादिवत्तदाकाराभावात्, किन्तु सख- ण्डतद्रूपा, षण्णां दिशां परिदृश्यमानस्य सर्वस्य चानुवादपूर्वकं तत्स्फूर्तिकथनात् । सापि न वामदेवादिस्फूर्तिवन्मनुरभवमहं सूर्यश्चे'त्यादिसर्वत्राहङ्ग्रहरूपो, अहङ्कारादेशोत्तरं पुनरात्मादेश- कथनेन तस्याः व्यभिचारबोधनात् । अतः सा द्विविधाया अपि ज्ञानिस्फूर्तेर्विलक्षणेति तद्वानपि तेभ्यो विलक्षणः । 'स यदि पितृलोककामो भवती'त्यादिवदस्य कामानामनुक्तत्वादैहराद्युपा- सकेभ्योपि विलक्षणः । मर्त्यसुखानभीप्सुत्वाल्लोकेतोपि विलक्षणः । किन्तु सत्यवदनादि- कारणभूतकृत्यादिजनकसुखलामवत्त्वस्य भूमप्रतिष्ठाप्रश्नोत्तराभ्यां तन्महिमाधारत्वेनोक्तत्वात् पूर्व भूमलामवानुक्तः, तेन दृष्टश्रुतविज्ञातभगवत्कः परमभक्तस्तत्र ततोऽन्यदर्शनादिराहित्यस्योक्त- त्वाद्विरहभावे प्रपञ्चविस्मारकपरमासक्तिरूपो योऽतिविगाढभावस्तेन सर्वत्र तदेव आसक्तिविषयं रश्मिः । भाष्यार्थः । भाष्यीयैवकारव्यावर्त्यमाहुः अयमर्थ इति । 'सा सा सा सा जगति सकले कोऽयमद्वैत- वाद' इत्यत्रायं भावः कामुकस्योपवर्णितः । क्वचित् तत्रापि संभोगविगाढभावनिरोधविप्रयोगोति- विगाढभावस्फूर्तीनां सत्त्वात् लौकिकः सर्वात्मभावो रूपप्रपञ्चान्तर्गतो बन्धको रूपप्रपञ्चस्य बन्धकत्वात् 'सर्वग्रन्थीनां प्रविमोक्ष'इति श्रुतिविरोधाच्चेत्यत आहुः मर्येति । तथाच लौकिके सर्वात्मभावे मर्त्यसुखा- भीप्सुरधिकारी, अलौकिके तु शुद्धाहारी । 'प्राणपोषको ह्याहारः, तस्य सदोपत्वे तु न किञ्चित् सिध्यती'ति भाष्यात् । 'न पश्यो मृत्युं पश्यती'ति मृत्वस्पृष्टसुखत्वात् सर्वात्मभावसामर्थ्यसुखामीप्सुरधिकारी । एतेन वैष्णवस्य स्वस्त्रियामेतादृशभाववतो भावेपि न क्षतिः । आत्मविषयत्वाच्च । न चायोग्ये भावकल्पनमिति वाच्यम् । 'यद्यदिष्टतम'मिति वाक्यात् । 'लोकवत्तु लीलाकैवल्य'मिति सूत्राच्च । आत्म- विषयकः कैवल्यरूपः । कृत्यादिविषयकोऽकैवल्यरूपः । सत्येत्यादि । सत्यवदनविज्ञानमतिश्रद्धानिष्ठाः सुखादयः तासां कारणीभूता कृतिरादिः कृत्यादिसुखस्यादिः । तस्या जनकेत्यर्थः । ननु 'सत्यवदना- दिजनकेत्येतावत्तैव चारितार्थ्ये कारणभूतकृत्यादीत्यधिकमिति चेत्, न । एतदनुक्तौ सत्यवदनादिसक- लजनकेति भ्रमः स्यात्, तन्निवृत्तये कारणभूतायाः सुखस्यादिरूपायाः कृतेर्जनकत्वनिश्चयार्थं कारणभूत- कृत्यादीत्यस्यानाधिक्यात् । उक्तत्वादिति । 'यदा वै सुखं लभतेऽथ करोती'ति श्रुतेरित्यर्थः । दृष्टेति । भूमलक्षणश्रुतिव्याख्याने विशेषरूपेण लब्धः । परमेति । दृष्टश्रुतविज्ञातभ(ग)वत्कत्वमेव परमभक्तत्वम् । संयोगविगाढभावयोस्तु प्राकृतयोरनुवादात् । संयोगविगाढभावनिरोधानां वक्ष्यमाणत्रयप्रतिपादकग्रन्था- नुरोधेन वक्तव्यत्वात् । अत्र सत्यवदनादीनां संनिवेशप्रकारः । सर्वात्मभावे 'भक्तिः प्रवर्तिता दिष्ट्ये'ति वाक्यं अमरगीते, भक्तिवर्धिन्यां च 'सेवायां वा कथायां वे'ति वाक्यं विवि

३७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १७ सू० ४४. भाष्यप्रकाशः। भगवत्स्वरूपमेव सर्वत्र स्फुरतीति 'स एवाधस्तादित्या'दिनोक्त्वा, एतेषां विरहभावकृततत्तत्स्फू- र्तिरूपाणां ज्ञानानां व्यभिचारिभावत्वेनानियतत्वं ज्ञापयितुं पुनरहङ्कारादेशात् पूर्वं निरूपित- रश्मिः। व्यवह्रियते ज्ञायते इति तद्रूपोऽतिविगाढभाव इत्यर्थः । 'मनसो वृत्तयो नः स्युः कृष्णपा- दाम्बुजाश्रया' इति भ्रमरगीतोक्तसर्वात्मभावे निरोधस्कन्धोक्ते निरोधस्य प्रपञ्चविस्मृतिपूर्वकभगवदा- सक्तिरूपस्य संनिवेशो भाष्यस्य आवश्यकः । तेनातिविगाढभावे वक्तव्येऽस्य विशेषणस्य किं प्रयोजनमिति कुचोद्यं निरस्तम् । व्यभिचारीति । विरहेत्यादितत्तत्स्फूर्तयोऽधःस्त्वत्वादिव्रकारकास्म- द्विशेष्यका बोध्याः । ते तु त्रयस्त्रिंशत् । 'चिन्ता स्मृतिर्हर्ष औत्सुक्यमपस्मारो विबोधो मतिरुन्मादो मरण'मित्येतेषु मतिरत्र सम्भवति । तस्या लक्षणं शास्त्रोपदेशमन्त्राद्यैरर्थनिर्धारणं मतिरिति । 'तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यत' इति गीतात्तः व्यभिचारित्वमस्या भक्तिरसात् पूर्वभावित्वेनोत्तरभावित्वेन च, भक्तिमार्गे उन्मादो वा । तस्य लक्षणम्, 'सन्निपातग्रहादित उन्मादश्चित्तविभ्रमः ।' तदुक्तं 'उत्तमानां विप्रलम्भो भवेत् प्रियवियोगतः । नीचानां विभवभ्रंशात् सर्वेषां सन्निपातत' इति । अत्रापि वाक्यं 'इत्युन्मत्तवचो गोप्यः कृष्णान्वेषणकातराः' इति । अत्र भक्तिपदवाच्यत्वात् षट्सु सर्वात्मभावपदव्युत्पत्तिः । संयोगः परस्परालिङ्गनपरिचुम्बनाद्यनन्तभेदत्वाद- परिच्छेद्य इत्येक एव । सर्व आत्मनो भावः परम्परया यत्र संयोगे स तथोक्तः । संयोगे परम्परया निरोधकारणत्वात् । वि विशेषेण गाढो दृढः बलपदवाच्यो भावः प्रेमा । 'दृढः स्थूलबलयो'रिति पाणिनिसूत्रात् । न च भावपदार्थो रतिर्वाच्य इति वाच्यम् । रतेर्भगवदाहकत्वात् । 'वशे कुर्वन्ति मां भक्त्ये'ति वाक्यात् । 'तं भजे'दिति श्रुतेश्च । न च प्रेमपदोपसन्दाने विहितकर्मज्ञानभक्तिसाध्यो न वेति शङ्कित्वा प्रदानसाध्यत्वं सर्वात्मभावस्योक्तम्, तद्भङ्गः, प्रेमपदेन विहितभक्तिलाभो न, अन्यसाधनसाध्यत्वादिति वाच्यम् । भाष्ये विहितपदाच्चित्तशुद्ध्यादीनां मर्यादामक्तिसाधकत्वे पुष्टौ प्रदानसाध्यत्वे बाधकाभावात् । न च प्रदानसाध्यत्वेऽनुग्रहासाध्यत्वापत्त्या भक्तिहेतुविरोध इति वाच्यम् । सर्वात्मभावोक्तिसन्दर्भकूपे द्वादशाध्याये पुष्टिमार्गकथनानन्तरं 'याहि सर्वात्मभावेने'ति वाक्यात् पुष्टिमक्तिस्त्वेपि सुबोधिन्याः सर्वः सर्वेन्द्रियसम्बन्धी आत्मनोऽन्तःकरणस्य भावः, 'कामः सङ्कल्प' इतिश्रुत्युक्तो वा, 'एकादशामी मनसो हि वृत्तय' इति पञ्चमस्कन्धोक्तो वा भवनं भगवति सत्ता वर्तनं तत्परत्वेनावस्थापनं वेत्यार्थकायाः सिद्धस्य वक्ष्यमाणस्य विद्यारूपस्य निरोधस्य दानेनाभ्युपगमात् । इतरस्याध्यात्मिकाधिभौतिकस्यानुग्रहसाध्यस्य पुष्टित्वादनुग्रहेणोपगमात् । श्रौतस्य प्रदानसाध्यता, पौराणस्य तु अनुग्रहसहकृतप्रदानसाध्यता सर्वात्मभावस्य निरोधात्मकस्य । वक्ष्यमाणनिरोधात्मकस्य । विगाढभावे सर्व आत्मनोऽन्तःकरणस्य भाव उक्तो यत्रेतिव्युत्पत्तिः । 'नास्तो विद्यते भावो नाभावो विद्यते सत' इति गीतायाः । निरोधे व्युत्पत्तिः । सर्वः सर्वेन्द्रियसम्बन्धी भावः 'कामः सङ्कल्प' इति श्रुत्युक्तः । भाष्ये भूमपदवाच्यो यः । 'एतेन सर्वात्मभावरूपमेवोक्तं भवती'ति भाष्यात् । भाष्यमते इयं मुख्या व्युत्पत्तिः सर्वात्मभावस्य । मूललक्षणश्रुतिसिद्धत्वात् । पञ्च तु सर्वात्मभावव्युत्पत्तिश्रुत्याः सर्वात्मभावान्तःपातित्वात् सर्वात्मभावा इत्युच्यन्त इति भक्तिहंसदिशा ज्ञायते । अथापि व्युत्पत्तिर्विरहे । विशिष्टो रहो विरहः । अन्तःसंवेदनम् । विरहो, 'विरहे ये विविधा भक्तिभावा उत्पद्यन्ते, ते न सङ्गमेपी'ति वैशिष्ट्यम् । स च चक्षूरागः । प्रथममित्यवस्थाप्रकारेण धिकलत्वात्सास्यरूपः । नन्वन्तःसंवेदनेपि चक्षूराग इति चेत् । न । 'कश्चिद्धीरः प्रत्यगात्मानमैक्षदा- 1908

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७३ भाष्यप्रकाशः। स्वावृत्त्या सर्वत्र भगवत्स्फूर्तिमाह 'अथात आत्मादेश' इत्यादिना । विधात्रयसमाप्तौ च 'स वा एष एवं पश्य'न्नित्यादि कथयति । तत्र 'स' इत्यनेन पूर्वोक्तं परामृश्य, 'एष' इत्यनेन महिमानं निगमयति । तत्रायमर्थः । पूर्वं विधात्रयस्योक्तत्वात्तासां प्रत्येकंमहिमरूपत्वे, 'स वा एष' इत्यत्र बहुवचनापत्तिः । समुदितस्य तथात्वे पूर्वविधापरामृ- ष्टस्य भूम्नोपि महिमत्वापत्तिः, अतस्तदुभयमत्र नाभिप्रेतम्, किन्त्वेवं पश्य'न्नित्यादिनोक्तासु दर्शनादिक्रियासु पूर्वोक्तविधात्रयं कर्मत्वेनैवाभिप्रेत्यैवं पदेन परामृशति, दर्शनादिमतश्चाग्रे फलं रश्मिः। वृत्तचक्षुरमृतत्वमिच्छ'न्नितिश्रुत्यान्तःसंवेदने चक्षूरागोक्तेः । आत्मदर्शनं 'सा परानुरक्तिरीश्वरे' इति शाण्डिल्यसूत्रेण रागमन्तरासम्भवच्चक्षूरागरूपां भक्तिमाह । द्विपत्ति चक्षुःस्वकारणनिर्वाहाय । न चास्तु चक्षूरागः संयोगवद्विरहेपि, रागस्य भक्तिलक्षणत्वात्, परन्तु सम्यक् ज्ञानं तस्य श्रुतौ न सम्भवति, प्रत्याशादिमस्तिरस्कारादिति बोध्यम् । 'भवतीनां वियोगो मे न हि सर्वात्मना क्वचि'दित्यस्मात् । 'दुस्त्यजस्तत्कथार्थ' इत्यस्माच्च रागप्राप्तेः । लक्षणोक्तस्य भानावश्यकत्वाच्च । अन्यथा लक्षणत्वापलाप- प्रसङ्गः । ननु 'कामाद्गोप्यः', 'अलमन्यविचारेण, प्रेम्णेच्छेति स्थितं मत'मिति वाक्याभ्यां इच्छा ममेति चेत् । न । 'अनाविष्कुर्वन्नन्वया'दितिसूत्रे भक्तिरसस्य गुप्तसैवविवृद्धिखभावत्वेन कामादीनां गौण- प्रेमत्वात् । अतः 'का मस्तस्य दिदृक्षैवे'ति 'नैव इच्छा तु साधारण्या'दिति कारिकाशाण्डिल्यसूत्रयो- रिच्छायां विशेषस्य दूषणस्य चोक्तेः । अतः बहुविधोपि विरहोत्रैक एव गण्यते, संयोगवदिति सिद्धम् । ननु विप्रलम्भ इति वक्तव्ये तदेकदेशोपादानं भाष्ये कुत इति चेत् । न । विप्रयोगस्याभिलाषविरहे- र्ष्याप्रवासशापहेतुकत्वेन पञ्चविधस्य सङ्गमप्रत्याशाकालीनस्तदनुत्पादो विप्रलम्भ इति लक्षणलक्षितस्या- यावयवोऽभिलाष इच्छारूपः द्वितीयो विरहः । देशैक्येपि गुर्वादिपारतन्त्र्यम् । अन्यासङ्गिनि प्रिये कोप ईर्ष्या । प्रवासा वैदेश्यम् । उत्पादिकोपनीयश्रणं शापः वाग्दण्डः । विप्रलम्भलक्षणे प्रत्याशा प्रतिनिश्चयः । तत्रोद्भवस्य 'अत्रागतोऽहं विरहातुरात्मे'ति वाक्याद्विरहेऽन्तर्भावि सर्वं भवतीति विरहस्य भागवतमते मुख्यत्वात् । अन्यथा प्रवासहेतुके विप्रलम्भे विरहहेतुकत्वं विरुद्धमुक्तं स्यात् । सर्वस्मिन्नात्मभावः परम्परया यत्र विरहे स सर्वात्मभावः । संयोगवद्विप्रयोगेपि सर्वात्मभावं वक्तुं तत्रेत्यारभ्य इत्यादिने- त्यन्तं भाष्यं ततः संयोगभाव इत्यादिभाष्येण सुखान्वितमपि ह्यग्रेतनश्रुत्या तदेव भाष्यं संयोज्य 'सर्वात्मभावस्वरूपमेवोक्तं भवती'ति भाष्यमावृत्त्या पुनर्योजयन्तिस्म विधेति । विधात्रयमात्मादेशाहङ्कारा- देशात्मादेशरूपम् । अहङ्कारस्य पुरुषविधाब्राह्मण आत्मतः प्रथममुत्पत्तिदर्शनात् । जीववाचकस्याहङ्कारस्य प्रयोगः, न तु सन्निपातलक्षणैकदेशस्यास्मत्पदवाच्यस्य हेयस्य । लक्षणं तु 'सन्निपातस्त्वहमिति ममे- त्युद्भव या मति'रिति । न चोन्मादोत्पादकः सन्निपातोऽस्त्विति शङ्क्यम् । भेदांशे तस्याविरोधात् । भक्तानामन्तराभूतस्यामेदसादनादयं ब्रह्माभिप्रेतोऽह्येव एव । तदुक्तं सुबोधिन्यां 'कृत्वाऽतरन् वत्स- पदं स्म यत्प्लवा' इत्यस्य । भेदः संसारः । सुबोधिन्यां भूम्नोपीति । न च निरोधलक्षणोक्तनिरोधस्य भूमपदवाच्यत्वेन स्फूर्तिविषयस्य कथं भूमपदवाच्यत्वमितिशङ्क्यम् । भक्तिहंसोक्तदिशा सर्वात्मभावान्तः- पातिनोपि स्फूर्तिविषयस्य भूमत्वात् । पूर्वोक्तेति । एवं पदेन पूर्वोक्तेत्यादिरित्यन्वयः । पूर्वपरामर्शार्थक एवकारः । फलमिति । 'आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः, स खराड् भवती'ति श्रुत्या 1909

३७४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १७ सू० ४४. आत्मादेश' इत्यादिना । ततः संयोगाभावे सति पूर्वभावेन सर्वोपमर्दिना स्वप्रा- णादिसर्वतिरोधानेनाग्रिमलीलानुपयोगित्वं न शङ्कनीयम्, यतो भगवत एव सर्व- सम्पत्तिरित्याशयेन 'तस्य ह वा एतस्यैवं पश्यत' इत्युपक्रम्य 'आत्मत एवेद५ सर्व'मित्युक्तवान् । ततः श्लोकैस्तद्भावस्वरूपमुक्तवैतस्य मूलकारणमाह 'आहारशु- भाष्यप्रकाशः । वदति, तेन 'कर्म फलार्थत्वा'दिति न्यायात्तादृशफलजनकं यद्विधात्रयकर्मकं ज्ञानं तदत्र महि- मत्वेन फलति । तथाचात्राग्रे आत्मरत्यादिपदै रतिक्रीडामिथुनानन्दानां रसरूपं भगवन्तं भजत एव धर्माणामुक्तत्वाद् दृष्टश्रुतविज्ञातभगवत्को रसस्य संयोगविप्रयोगाभ्यां द्विधानुभवविषय- त्वाद्विरहभावेऽतिविगाढभावेनोक्तरीत्या सर्वत्र तत्स्फूर्तिमान् भक्तो भूममहिमाधारत्वेन सिद्ध इति तस्य या स्फूर्तिः सोक्तरीतिकसर्वात्मभावव्यभिचारिभावरूपैव, नान्यविधेति तेन भगवति विगाढभावरूपं तत्स्वरूपमेवात्रोक्तं भवतीत्यर्थः । एतदेव फलतोपि निगमयितुं, 'तस्य ह वा एतस्ये'त्यादेर्ग्रन्थस्य तात्पर्यमाहुः तत इत्यादि । तथाच विरहभावानन्तरं संयोगाभावे असति पूर्वभावेन विरहात्मकेन तथेति श्रुत्यैवेदं सर्वमिति शङ्कानिरासाय 'तस्य वा एतस्ये'त्यादिना भगवत एव सकाशात् सर्वस्थितिरुक्तवान्, अतो विरहेण सर्वोपमर्दाभावाल्लीलोपयोगसिद्धिरिति, सापि तादृशभक्तद्भावयोर्गमिकेत्यर्थः । एत- देव सङ्ग्रहग्रन्थतात्पर्यकथनेन दृढीकुर्वन्ति ततः श्लोकैरित्यादि । श्लोकास्तु 'न पश्यो मृत्युं पश्यति न रोगं नोत दुःखताम् । सर्व५ हि पश्यः पश्यति सर्वमाप्नोति सर्वश इति । स एकधा भवति त्रिधा भवति पञ्चधा । सप्तधा नवधा चैव पुनश्चैकादशः स्मृतः । शतं च दश चैकश्च सहस्राणि च वि५शतिः । आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिप्रतिलम्भे रश्मिः । फलमित्यर्थः । न्यायादिति । अयं न्यायः पूर्वमीमांसायां तृतीयाध्याये वर्तते 'कर्माण्यपि जैमिनिः फलार्थत्वा'दिति सूत्रसिद्धः । कर्माण्यपि शेषाणि फलार्थत्वात् परार्थस्य शेषलक्षणत्वादिति जैमिनिः सिद्धान्तवक्ता आहेति सूत्रार्थः । विधात्रयेति । 'एवं पश्यं'नित्यस्य विधात्रयं पश्यन्नित्याद्यर्थात् विधात्रयेत्यादिः । ज्ञानं क्रिया कर्मेति यावत् । ननु कथं ज्ञानं कर्मेति चेत् । न । 'भूवादयो धातव' इत्यस्य सूत्रस्य 'क्रियावाचिनो भ्वादय' इत्यर्थात् । अग्रेति । विरहे । उक्तेति । भाष्योक्तरीतिक- निरोधात्मकसर्वात्मभावेत्यर्थः । तेनेत्यादि । विगाढभावस्यातिविगाढभावस्य रूपं व्यवहारो ज्ञानं येन सर्वात्मभावेनेति बहुव्रीहिः । विरहभावेपीत्याद्युक्तग्रन्थात् । विरहभावेऽतिविगाढभावेनेति पाठः । तत्र विरहभावेऽतिविगाढभावेनेति भाष्यात् । तत्स्वरूपं सर्वात्मभावस्वरूपम् । एवकारेण 'सर्वात्मभावं विदध'दिति नवमस्कन्धवाक्ये 'सर्वस्मिन्नात्मभावो यत्र क्रियाकलाप' इति श्रीधरीग्रन्थेन सर्वस्मिन्नात्मभाव इति समासावेदकश्रीभागवतेन चास्यार्थसेतरार्थापेक्षया प्रामाणिकत्वादितरेऽर्था व्यावर्तन्ते । यथैतेनेत्यादिभाष्ये एवकारेण 'मनसो वृत्तयो नः स्युः कृष्णपादाम्बुजाश्रया' इत्यादिना भ्रमरगीतोक्तश्रीनन्दसर्वात्मभावस्य 'वन्दे नन्दव्रजस्त्रीणा'मित्यत्र नन्दव्रजस्त्रीत्वेन तासामपि वक्तुं शक्यत्वेन 'आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्ये'ति श्रुत्या च सर्वः सर्वेन्द्रियसम्बन्धी आत्मनोऽन्तःकरणस्य भाव इति षष्ठीतत्पुरुषगर्भितकर्मधारयार्थसेतरार्थापेक्षया प्रामाणिकत्वादितरेऽर्था व्यावर्तन्ते, तद्वत् । अर्थ इति । तत्रायमर्थ इत्यत्रतार्थमुद्दिश्यैतादृशार्थत्वं विधीयत इति तत्रायमर्थ इति न वाक्यान्तर- मिति न वाक्यभेदः । गमिकेति । तादृशभक्तभाववान् आत्मतः पुष्टिमार्गीयप्राणादिसर्वसम्पत्तेः । 1910

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७५ द्धा'त्यादिना । प्राणपोषको ह्याहारः, तस्य सदोषत्वे तु न किञ्चित् सिद्ध्यति । भाष्यप्रकाशः सर्वग्रन्थीनां प्रविमोक्ष' इति । अर्थस्तु, पश्यः उक्तविधया भूमदर्शनवान् मृत्युरोगौ न, दुःख- भावं च न पश्यति, उतेति पादपूरणे, अथवा पक्षान्तरे, दुःखसत्तामेव न पश्यति, का वार्ता मृत्युरोगयोः । तत्र हेतुमाह । हि यतो हेतोः सर्वं भूमात्मकं पश्यो भूमद्रष्टा पश्यति । तेन दुःखादिकं न पश्यतीति । तस्य फलमाह । सर्वज्ञः सर्वेण सर्वमाप्नोतीति न तस्य पुनः शोकः । प्राप्तौ, प्रकारमाह 'स एकधे'त्यादि । अनेन 'आत्मत आविर्भावतिरोभावा'विति यत्पूर्वमुक्तम्, तस्य प्रकार आविर्भावप्रकारोक्तिद्वारा विवृतः । स भूमैव उक्तप्रकारैः प्रकटो भवन् पश्यस्य सर्वं प्रापयतीति । अथवा । पश्य एव भगवतः सकाशात्तत्तदनुभवार्थं तथा प्रकटीभवतीति बोध्यः । मध्ये, द्विधा चतुर्धा षोढा अष्टधा दशधेत्यादिप्रकारत्यागस्तु तिरोभावप्रकारबोध- नार्थः । विशेषतस्तु तादृशाधिकाराभावान्न विवेचितुं शक्य इति नोच्यते । तेन विरहसामयि- कदशैवै बोध्यत इति हृदयम् । एवमग्रेपि भगवत्कृपया बोध्यम् । एतस्य सर्वस्य मूलकारणमा- हारशुद्धिः । सा च 'त्वयोपभुक्तस्रग्गन्धवासोऽलङ्कारचर्चिताः । उच्छिष्टभोजिनो दासास्तव मायां जयेमही'तिप्रकारेण भगवद्दत्तप्रसादेन भवन्ती सत्त्वं शोधयति । तच्छुद्धौ सत्यां ध्रुवा पूर्वावस्थास्मृतिः । तस्याः प्रतिलम्भे अविद्याकामकृतानां सर्वासां ग्रन्थीनां प्रकृष्टो ज्ञानितोऽ- प्यधिको विमोक्ष इति ज्ञेयः । अतः परं श्रुतिरेतस्य ज्ञानस्य यस्मैकसैचिद्देयत्वायाह 'तस्मै मृदितकषायाय तमसस्पारं दर्शयति भगवान् सनत्कुमार' इति । तथाच सोपि दर्शयति, न रश्मिः। आत्मसृष्टौ ह्यात्मतस्तादृशभक्तभावरहितानामप्यात्मतः प्राणादिसर्वसम्पत्तेर्हेतोः साधारण्यवारणाय पुष्टि- मार्गीयैति । 'निपातः पादपूरणे' इति निरुक्तेनोक्तपदार्थमुक्त्वा ग्रन्थान्तरानुरोधेनाहुः अथेति । भूमात्मकं सुखात्मकम् । सर्वेणेति । उपनिषद्भाष्येऽपि 'बह्वल्पाख्याच्छस्कारकादन्यतरस्याम्' इति पाणिनिसूत्रात् सर्वदात सर्वशःपदार्थो बहुशःपदार्थ इति सर्वेणेत्यस्य सर्वदातृत्वेनापि प्रकारेणेत्यर्थः । तिरोभावेति । श्रुतार्थापत्त्या तिरोभावप्रकारबोधकः । पूर्वमाविर्भावादेकधा सत्यज्ञानानन्तानन्दरूपम् । इह तु 'सच्चिदानन्दता स्मृते' इति निरोधलक्षणग्रन्थवाक्यादेकधा । पश्चाद्विधा सत्यानन्दत्वप्रकाराभ्यां तिरोभावः । ज्ञानमात्रप्रकाराभ्यां स्थितिः । एकधायां लीलावशिष्टत्वविधाभक्तिविशिष्टविधयोः प्रवेशे त्रिधा । तेजोऽबन्नरूपेण वा । सर्वात्मभावे संयोगोपि वर्तत इति गौरत्वश्यामत्वातिश्यामत्वप्रकारैर्वा- विर्भवति । एवमग्रेपि । न च 'स्वप्राणादिसर्वतिरोधानेने'ति भाष्यात् प्राणादिप्रकारो वक्तुं योग्य इति शङ्क्यम् । पूर्वं भक्तस्य सायुज्यादिदशायां तथात्वेन पञ्चधा भवनादौ तन्निवेशस्य सुकरत्वाददृष्टः कथं कल्प्येत । विवेचितुमिति । महाकविप्रयोगोऽयं काव्यप्रकाशे । अतो विवेक्तुमिति नोक्तम् । विगतं वं सुखं यस्मिन्निति विवः प्रपञ्चः तस्मिन् अचितुं पूजयितुमिति वा । नोच्यते इति । विशेषाकाङ्क्षायां 'सदा सर्वात्मभावेन भजनीयो व्रजाधिप'इति वद्भिः प्रभुभिस्तथैव सेवित इति तद्धन्यात् तर्कणीयो विशेषः । तेनेति । प्राणादिसर्वतिरोधायकप्रकारबोधनेन । पूर्वेति । 'जातिं स्मरति पौर्विकी'मिति मनुः । 'सोऽह' मित्याकारिका व्युच्चरणात् पश्चादविद्यासम्बन्धात् पूर्वेति प्रस्थानरत्नाकरे 'जीवस्यानुस्मृतिः सती'ति वाक्यात् । 'स्मृतिर्भक्ति'रिति रामानुजाचार्याः । ग्रन्थीनामविद्याजनितरागादिग्रन्थीनाम् । सर्वात्मभावफलत्वेन 'स स्वराड् भवती'ति श्रुत्युक्तोऽर्थो व्याख्यातः, पूर्वं 'सर्वग्रन्थीनां प्रविमोक्ष'स्तु सिद्धान्तमुक्तावल्यां 'ततः संसारदुःखस्य निवृत्ति' रित्यनेनोक्तः । 1911

३७६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० १० सू० २४. एवं सति भगवदतिरिक्तस्य खतो निर्दोषत्वाभावाद्भगवान्नेव चेत्प्राणपोषको भ- वेत्, तदा सर्वं सम्पद्यते । स च सर्वात्मभावे सत्येव भवति । स च तथा तद्व- रणं विना न भवति । तच्चोक्तकार्यानुमेयमिति वरणलिङ्गं सर्वात्मभावः, तस्यैव भाष्यप्रकाशः। तु दातुं शक्नोति, एतस्य भगवत्परमकृपाप्राप्यत्वात् । तर्हि कथनर्मापि कुत इत्याकाङ्क्षायां सन- त्कुमारस्य कृपालुत्वमाह 'तं स्कन्द इत्याचक्षत' इति । योऽसौ वरदानेन शिवस्य पुत्रोऽपि जातस्तेन तथेत्यर्थः । द्विरुक्तिः समाप्यर्था । तदेतत् सर्वं हृदिकृत्य आहुः एवं सतीत्यादि । एवं श्रुतितात्पर्यमुक्त्वा सूत्रं व्याकर्तुमाहुः स चेत्यादि । स भगवाँश्च प्राणपोषकः सर्वात्मभावे सत्येव भवति । स सर्वात्मभावश्च तथा अत्यनुग्रहेण तस्य जीवस्य वरणं विना न भवति, तद् वरणं च भगवत्कृतप्राणपोषणाद्यनुमितसर्वात्मभावरूपकार्यानुमेयमिति वरणलिङ्गं सर्वात्मभावः रश्मिः । सोऽवान्तरफलमिति तट्टीकायाम् । परमेति । विरहसामयिकसर्वात्मभावदातृत्वं पारम्यं कृपायाम् । तथा च प्रदानवत्सूत्रभाष्यम्, 'सर्वात्मभावस्यानुभवैकवेद्यत्वेन पूर्वमज्ञानेनेति तत्त्वासम्भवेपि स्वत एव कृपया दान'मिति । वरदानेनेति । कचित् प्रसिद्धं पुत्रमवनम् । द्विरिति । 'वाक्यादेराम्रे- डित्तसासूयासम्मतिकोपकुत्सनभर्त्सनेष्वि'ति सूत्रेण सम्मतौ द्विवचनं वाक्यादेराम्रेडितस्य । 'स्कन्दिर् गति- शोषणयोः' । भ्वादिरनिद् । स्कन्दस्य शिवपुत्रत्वे । वरदातुः पितुर्वा शोषयोषकत्वम् । तद्योगरूढ्या । रूढ्यभावे तु नागयज्ञोपवीतिन्यपि स्कन्द इति प्रयोगापत्तिः पुराणमते, श्रौते तु मते वेदान्तत्वेन योगमात्रादरणात् स्कन्दति प्रकरणात् शोकम्, शोषकः 'तरति शोकमात्मवि'दिति श्रुतेः शोकस्य । इति न रूढ्यपेक्षा । इत्थं च द्विरुक्तिश्चरमवर्णध्वंसरूपसमाप्त्यर्था, श्रौतपौराणामतातिरिक्तमताप्रतिपा- दनात् । श्रुतितात्पर्यमिति । यद्याहुरुपनिषद्भास्यानकारा विश्वेश्वराः 'पूर्वप्रपाठके श्रेष्ठाधिकारिणं प्रत्येवं ब्रह्मात्मतत्वमुपदिष्टम्, अथोत्तरप्रपाठके मध्यमाधिकारिणः प्रति शाखाचन्द्रन्यायेन ब्रह्मणि बुद्धिस्थिरीकरणार्थं सोपानारोहणन्यायेन बोधनार्थं नामादिप्राणान्तसङ्कीर्तनद्वारा भूमाख्यं निरतिशयं तत्त्वं निरूप्यते' इति प्रपाठकाभासे । तद्भाष्ये पूर्वविकल्पसूत्रस्य निराक्रियते, तथापि 'अधीहि भगवो ब्रह्मे'त्यादिप्रपाठके नामादिप्राणान्तसङ्कीर्तनेन माहात्म्यज्ञानसाङ्गुण्यतया पूर्वप्रपाठकेनात्मभेदज्ञानस्य जातत्वेन सर्वात्मभावरूपमुख्यभक्तौ तात्पर्यम् । 'भगवान् ब्रह्म कार्त्स्न्येन त्रिरन्वीक्ष्य मनीषिण, तदध्य- वस्यत् कूटस्थो रतिरात्मन्यतो भवे'दिति शास्त्रार्थनिरूपके द्वितीयस्कन्धे वाक्यात् । न च यत्र 'नान्यत् पश्यती'त्यादेस्तु श्रुतेर्मुख्यभक्तावभिधावृत्तिरस्तु, किं तात्पर्येणेति चेत्, न । उक्तश्रुत्यभिधा- वृत्तिप्रतिपाद्यसर्वात्मभावेऽन्यासां श्रुतीनां तात्पर्यमुक्तैवेत्यर्थात् । अतीति । सर्वात्मभावोक्तिसन्दर्भे पुष्टिमक्तेरपि सत्त्वात् पुष्टिमक्तिकारणं सर्वात्मभावस्यापीत्याशयेनोक्तं सामान्यतो विशेषाकाङ्क्षायाम् । परमकृपयेति बोध्यम्, 'स्वत एव कृपया दान'मित्युक्तभाष्यात् । कचिद्भाष्ये तेन प्रकारेणेत्यर्थ इति तथापदार्योपि दृश्यते । विनेति । 'यमेवैष वृणुत' इति श्रुतेः । भंगेत्यादि । सर्वात्मभाववान् भगव- कृतप्राणपोषणात् । इत्येवमनुमितः भक्तः सर्वात्मभाववानिव्यनुमितिविषयीकृतः सर्वात्मभावस्तद्रूपं कार्यं तेनानुमेयं वरणवान् सर्वात्मभावादित्येवमनुमातुं योग्यमिति हेतोस्तथा । तस्यैत्यादिभाष्यं विवृ- ण्वन्ति स्म । 'प्रभूतार्थे त्वनव्यय' मिति विश्वादाहुः सर्वत इत्यादिभाष्यर्थम् । भूयस्तत्वादिति । पदेनानेन मूधातुघटितेन 'फलमत उपपत्ते'रिति सूत्रसंवाद्यर्थ एकादशसर्वस्वसर्वात्मभावमनुभवतां भूम- 1912

भूयस्त्वात् सर्वतोऽधिकत्वात्तद्वरणमेव सर्वतः कालादेर्बलीय इत्यर्थः । यल्लिङ्ग- मेव सर्वतोऽधिकम्, तस्य तथात्वे किं वाच्यमिति कैमुतिकन्यायोपि सूचितः । ज्ञानमार्गीयज्ञानेन प्रतिबन्धशङ्कायामाह तदपीति । उक्तमिति शेषः । 'अन्तरा भूतग्रामवत्स्वात्मन' इति सूत्रेण । तच्चोपपादितमस्माभिः ॥ ४४ ॥ पूर्वविकल्पः प्रकरणात् स्यात् क्रियामानसवत् ॥ ४५ ॥ तन्नाह, नात्र वरणलिङ्गभूयस्त्वं निरूप्यते, किन्त्वात्मज्ञानप्रकारविशेष एव । तथाहि । पूर्वप्रपाठक आत्मना सहाभेदः सर्वस्य निरूपितः श्वेतकेतूपाख्यानेन, अग्रिमे च 'सोऽहं भगवो मन्त्रविदेवास्मि नात्मवि'दित्यादिना नारदस्यात्मजिज्ञा- सैवोक्ता । एवं सत्युत्तरमपि तद्विषयकमेव भवितुमर्हति, अत आत्मप्रकरणत्वादु- भयोः प्रपाठकयोः पूर्वस्मिन् यदभेद उक्तः, तस्यैव स्वरूपं 'आत्मत ए

३७८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ३ अ० १७ सू० ४६. मित्यन्तेनोक्तमिति पूर्वोक्तप्रकारादन्येन प्रकारेणात्माभेद एव सर्वस्योक्तः । तदे- वाह । पूर्वस्य पूर्वप्रपाठकोक्तात्माभेदज्ञानस्य विकल्पः प्रकारभेद एवाग्रेपि निरू- प्यते । तत्रोपपत्तिमाह प्रकरणादिति । एतदुपपादितम्। अत्र सिद्धान्तसम्मतमेव दृष्टान्तमाह तद्द्वयसंवादार्थं क्रियामानसवदिति । यथा पूजनप्रकरणे बाह्यं तत्क्रियारूपमुच्यते, आन्तरं तु मनोव्यापाररूपमुच्यते । न चैतावतान्यतरस्य तल्लिङ्गत्वं वक्तुं शक्यम् । प्रकरणभेदात् । तथेहापीत्यर्थः ॥ ४५ ॥ अतिदेशाच्च ॥ ४६ ॥ नामरूपात्मकं हि जगत्, तत् पूर्वं सर्वशब्देनानूद्य तस्मिन् ब्रह्माभेदो निरूपितः, अग्रे तु ऋगादिविद्या अनूद्य नामात्मकब्रह्मत्वं तत्रातिदिश्यते । भाष्यप्रकाशः।

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ३७९ 'नामैवैतन्नामोपास्वे'ति । इतोपि हेतोर्ज्ञानप्रकारभेद एवाग्रे निरूप्यत इत्यर्थः ॥४६॥ विद्यैव तु निर्धारणात् ॥ ४७ ॥ तुशब्दः पूर्वपक्षं व्यावर्तयति । यदुक्तं सनत्कुमारनारदसंवाद आत्मज्ञान- प्रकारविशेष एव निरूप्यत इति, तन्न, किन्तु विद्यैव निरूप्यत इति । अत्रेदमाकूतम् । 'नायमात्मे'ति श्रुतिरितरसाधननिषेधपूर्वकं वरणस्य भाष्यप्रकाशः। अनूद्य नामात्मकब्रह्मत्वं तत्रातिदिश्यते । तथैव मनःप्रभृतिरूपात्मकं जगत्तत्तच्छब्देनानूद्य तत्त- दात्मकब्रह्मत्वं तत्रादिश्यते । अतो यथा कौण्डपायिनां सत्रे 'मासमग्निहोत्रं जुहोती'त्यग्निहो- त्रनाम्ना प्राकृताग्निहोत्रधर्मास्तत्रादिश्यन्ते, तथात्र 'नामोपास्वेति स यो नाम ब्रह्मेत्युपास्त' इत्या- दिवाक्यैर्नामादीञ्जगद्रूपाननूद्य नामादिशब्दैस्तत्तदात्मकब्रह्मत्वं तेष्वतिदिश्यत इत्यतिदेशादपि हेतोर्ज्ञानप्रकारविशेष एवाग्रेऽस्मिन् प्रपाठके निरूप्यत इत्यर्थः ॥ ४६ ॥ विद्यैव तु निर्धारणात् ॥ ४७ ॥ उक्तं पूर्वपक्षं सूत्रव्याख्यानेन निरस्यन्ति तुशब्द इत्यादि । ननु विद्याशब्दो ज्ञानसामान्ये प्रसिद्धः, सर्वात्मभावस्वरूपे ज्ञानविशेषे कथं नियम्यत इत्या- काङ्क्षायां तदुपपादनाय वरणादिश्रुत्येकवाक्यतया प्रकृतश्रुतितात्पर्यं वक्तुं पूर्वं वरणश्रुतिं व्याकु- र्वन्ति अत्रेत्यादि । अस्यां उक्तायां श्रुतौ वरणश्रुत्यविरुद्धं तात्पर्यं तस्माद्वरणश्रुत्यर्थ उच्यत इत्यर्थः । वरणश्रुतिस्तु 'नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन । यमेवैष वृणुते रश्मिः । वेदितव्ये' इत्युपक्रम्य, 'तत्रापरा ऋग्वेदो यजुर्वेदः सामवेदोऽथर्ववेद' इति श्रुतेर्विद्यापदप्रयो- गोऽस्ति । अतिदिश्यत इति । 'नामैवैतन्नामोपास्वे'ति श्रुत्यातिदिश्यत इत्यर्थः । नन्वत्र नामत्व- मतिदिश्यते, न नामात्मकब्रह्मत्वमिति चेत् । न । 'स यो नाम ब्रह्मेत्युपास्त' इति पूर्वार्थानुवादकश्रुत्या नामोपासनस्य नामात्मकब्रह्मोपासनत्वात् । अतिदेशस्तु अन्यत्र । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति प्रतिपाद्ये ब्रह्मणि प्रतीतस्य ब्रह्मत्वस्यान्यत्र नाम्नि कार्यत उपासनायाः प्राप्तिः । तदुक्तं पूर्वाचार्यैः । 'अन्यत्रैव प्रतीतायाः कृत्स्नाया धर्मसन्ततेः । अन्यत्र कार्यतः प्राप्तिरतिदेशोऽभिधीयत' इति । प्राकृताङ्गस्योपासना- ख्यात् तत्समानेषु नामोपासनकर्मसु धर्मप्रवेश आज्ञाविषयप्रवेशो 'नामैवैतन्नामोपास्वे'त्यनेन स्यात् स वेदो वातिदेशः । 'प्राकृतात् कर्मणो यस्मात् तत्समानेषु कर्मसु । धर्मप्रवेशो येन स्यात् सोऽतिदेश इति स्मृत' इति तैरेव । तत्तच्छब्देनेति । मनःप्रभृतिशब्देन तच्छब्दस्य द्विरुक्तावप्यर्थस्यैक्यात् । स च स चेति विग्रहे एकशेषपत्तिः । तत्तदिति । मनःप्रभृत्यात्मकब्रह्मत्वम् । अत इति । अतिदेशात् । मासमिति । अत्यन्तसंयोगे द्वितीया । अग्निहोत्रेति । द्वितीयलक्षणादरेणातिदेशरूपेण । तत्रेति । मासाग्निहोत्रे । अतिदिश्यन्त इति । प्रथमलक्षणेन पूर्वतन्त्रे सप्तमस्य तृतीये पादे उक्ताधिकरणेऽति- देशा धर्मनिष्ठाः क्रियन्ते । सूत्रं तु उक्तम्, 'क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्या'दिति । चतुःसूत्रमिदमधिकरणं भाष्ये प्रसिद्धम् । भाष्ये 'सायमग्निहोत्रं जुहोती'ति पपाठ भाष्यकृत् । ज्ञाने- त्यादि । ब्रह्मत्वप्रकारकनाममनःसङ्कल्पादिविशेष्यकज्ञानप्रकारविशेष इत्यर्थः ॥ ४६ ॥ विद्यैव तु निर्धारणात् ॥ ४७ ॥ इदमपदार्थमाहुः वरणेति । आकूतपदार्थमाहुः तात्पर्यमिति । भिन्नवाक्यत्वार्थं शेषं पूरयन्ति स्म तस्मादिति । उक्त्वेति । श्रुतिरुक्त्वा वृत- 1915

१८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ३ अ० १७ सू० ४७. साधनत्वमुक्त्वा वृतलभ्यत्वे हेतुं वदन् वरणविषयमप्याह 'तस्यैष आत्मा वृणुते तनुं स्वा'मिति । तस्य वृतस्यात्मन एष भगवानात्मा, अत एव तत्तद्रूपः स जीवात्मा। तद्वरणस्यावश्यकत्वज्ञापनाय स्वामिति । सर्वो हि स्वकीयां तनुमात्मी- भाष्यप्रकाशः। तेन लभ्यस्तस्यैष आत्मा वृणुते तनुं स्वा'मिति मुण्डके कठवल्ल्यां चास्ति । विवृणुत इति पाठा- न्तरं चास्ति । उक्त्वेति पादत्रयेणोक्त्वा । अत एवेति । भगवतो वृतप्रवृतात्मत्वादेव । तथाच तस्यैष आत्मा सभार्याचं स्वां तनुं वृणुत इत्यन्वयः । ननु माध्यन्दिनानामन्तर्यामिब्राह्मणे 'यस्यात्मा शरीर'मिति सामान्यत आत्ममात्रस्य ब्रह्मशरीरत्वश्रावणात् कथं वृतस्यैव तत्तद्रूप- त्वमित्याकाङ्क्षायामाहुः तद्वरणस्येत्यादि । तथाच यद्यपि तत्र सामान्यत आत्ममात्रस्य शरी- रत्वं श्रावितम्, तथापि 'य आत्मानमन्तरो यमयती'ति नियन्तव्यतायैव साधारण्येनैव श्रावि- तम्, न तु स्वकीयत्वकथनपूर्वकम् । अतः सर्वेषु शरीरत्वे साधारणेपि यं स्वीयत्येनालोचित- वाँस्तमेव वृणुत इत्यर्थः । विवृणुते इति पाठेपि विशेषेण वृणुत इत्यर्थः । ननु विवरणपदस्य प्रकाशनार्थकत्वाद्विवृणुत इति पाठेऽयमर्थो न लप्स्यते, किन्तु यं वृणुते तस्य स्वां तनुं प्रकाशयतीत्येवार्थो लप्स्यत इति चेत् । मैवम् । तस्मिन्नपि पक्षे तनुविवरणलिङ्गे- नोक्तसार्थस्य लाभात् । तथाहि । सर्वेषां जीवानां तौल्येऽप्यत्र 'यं वृणुत' इति विशेषकथनादर- णीये कश्चिद्विशेषो विवक्षितः । सोपि न जीवे साधारणशास्त्रीयसाधनजन्मा, पूर्वार्धासङ्गंत्यापत्तेः । नापि साधनाभावजन्मा, पामरपशुकीटमात्रेषु तदापत्तेः, साधनशास्त्रवैयर्थ्यापत्तेश्च । अतोऽन्य- थानुपपत्त्या भगवदालोचनजन्मैव वाच्यः । सोपि न ज्ञानिभक्तसाधारणः । भावभेदानुपपत्तेः । 'स्वं विवृणुत' इत्येतावत्तैव चारितार्थ्येन तनुपदवैयर्थ्यापत्तेश्च । अतस्तनुपदानुरोधात् साकारस्यैव प्रकाशो वक्तव्यः । स तु प्रायो भक्तानामेवेति वरणविषयतया सुखेनैव भक्तो लप्स्यते । रश्मिः। लभ्यत्वे हेतुं स्वात्मत्वम्, स्वात्मा ज्ञानिप्रभृतिभिर्लभ्यत इत्यलभ्यस्य लाभो वृतभक्तस्योक्तः । वदन्निति छान्दसं पुंस्त्वम् । श्रुतीनां वा सर्वात्मभावकरणात् भगवत्सेवानुकूल्यरूपं पुंस्त्वं जातमिति लीलायां प्रसादशक्तेः श्रुतिषु सत्त्वेन स्त्रीत्वविशिष्टशक्त्यवच्छिन्नश्रुतिः पुंस्त्वविशिष्टवदनकर्त्री समानाधिकरणेत्यर्थः । तादृशं पुंस्त्वं टिप्पण्यां तदादाय वेदाः प्रमाणम्, शतं ब्राह्मणा इतिवदुपपाद्यम् । सामानाधिकरण्यं च भिन्नप्रवृत्तिनिमित्तत्वे सत्येकार्थबोधकत्वम् । 'लटः शतृशानचावप्रथमासमानाधिकरणे' इति सूत्रेण वदन्नित्यत्र शता शब्दबोधेपि सामानाधिकरण्यमुपपादयति । वरणविषयं तनुम् । द्वितीयाया विषय्यार्थ- कत्वात् । अत्रैव श्रुतिर्वदन्निति प्रयोगः साधुः । अन्यथा मर्यादाभङ्गप्रसङ्गात् । भाष्यप्रामाण्याद्वैतादृशः प्रयोगः । वृणुत इत्यर्थ इति । न च सिद्धान्तन्तर एकव्यापकजीवपक्षस्योक्तत्वादवृतानामप्यात्मनां शरीरत्वेन वृतलभ्यालब्धयलाभापत्तिरिति शङ्कयम् । अरूपवत्सूत्रसिद्धसिद्धान्तान्तरेपि वृतत्वाच्छेदेना- लभ्यलाभाङ्गीकारात् । स्वमिति । आत्मीयम् । स्वामित्युक्ते स्त्रीत्वविशिष्टस्य स्यात्, तनुविशेषणत्वे तु भिन्नलिङ्गसाददर्शनेन स्वामित्येव । सामान्ये नपुंसकत्वसा(स)गविकगतित्वात् । प्राय इति । सिद्धान्त- मुक्तावलीटकाप्रामाण्यात् 'ज्ञानिभक्तौ चेद्विशेषतोऽनुगृह्णाति पुष्टिमार्गीयां भक्तिं प्राप्नुतः । आदाविति भक्त्या व्यवधानम्, तथापि नलकुबरमणिश्रीववत् कदाचित् तथाऽव्यवधानेपि साकारप्रकाशः । कर्मठस्य सुरज्येष्ठसासुरव्यामोहलीलासामयिकसाकारप्रकाशः, अतः प्राय इत्युक्तम् । एवकारो 'नैषा १. हेतुत्वम् । 1916

यस्त्वेनात्मत्वेन च वृणुते, तद्विशिष्ट एव भोगान् भुङ्क्ते । अत एव तैत्तिरीयोप- निषत्स्वपि 'ब्रह्मविदाप्नोति पर'मिति सामान्यतो ब्रह्मविदः परब्रह्मप्राप्तिमुक्त्वा, अग्रिमर्चा विशेषतोऽवदन् । 'सत्यं ज्ञानमनन्तं ब्रह्मे'ति परब्रह्मस्वरूपमुक्त्वा, 'यो वेद निहितं गुहायां परमे व्योमन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चि- ते'त्युक्तम् । एतद्यथा तथाऽऽनन्दमयाधिकरणे प्रपञ्चितमस्माभिः । भाष्यप्रकाशः। यत्तु केचिदस्मिन् मन्त्रे 'यमेव परमात्मानमेष विद्वान् वृणुते प्राप्तुमिच्छति, तेन वरणेन एष परमात्मा लभ्यः, नान्येन साधनान्तरेण । नित्योपलब्धस्वभावत्वात् । कीदृशोऽसावात्मलाभ इति, उच्यते । तस्य एष आत्माऽविद्यासंछन्नः स्वां परां तनुमात्मतत्त्वस्वरूपं प्रकाशयति । प्रकाशे घटादिरिव विद्यायां सत्यामाविर्भवतीति मुण्डके व्याचक्रुः । यदपि काठके यमेव स्वमा- त्मानमेष साधको वृणुते प्रार्थयते तेनैवात्मना वरित्रा स्वयमात्मा लभ्यः ज्ञायते इत्येतत् । निष्कामश्चात्मानमेव प्रार्थयते । आत्मनैवात्मलाभ इत्यर्थः । कथं लभ्यत इति । उच्यते । तस्या- त्मकामस्यैष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं तनुं स्वां स्वकीयाम् । स्वं याथात्म्यमि- त्यर्थ इति । तत्रापि तनुपदवैयर्थ्यस्य दुर्वारत्वात् वरणीयवरित्रोरभेदाङ्गीकाराच्च व्याख्येयवि- रोधः स्फुट एव । किञ्च । गीतायां 'एवं सततयुक्ता ये' इत्यर्जुनप्रश्ने, भगवता 'मय्यावेश्य मनो ये मा'मित्युत्तरेण, 'चतुर्विधा भजन्ते मा'मिति भजनमुपक्रम्यैव, 'ज्ञानी त्वात्मैव मे मत'- मिति ज्ञानिभक्तस्यैवात्मकत्वकथनेन, 'तपस्विभ्योऽधिको योगी'ति सन्दर्भे शुष्कज्ञान्यपेक्षया योगिन उत्कर्षमुक्त्वा, 'श्रद्धावान् भजते यो मां स मे युक्ततमो मत' इति भक्तोत्कर्षकथने चास्म- दुक्तार्थस्यैवोपोद्बलनाच्च तदसङ्गतम् । अतो विवरणपदस्य प्रकाशनार्थकत्वपक्षेपि तनुप्रकाशलि- ङ्गेन भक्तस्यैव वरणविषयत्वं निश्चीयत इति तेष्वेव स्वीयत्वं सिद्ध्यतीति पूर्वोक्तप्रकारे न कश्चि- द्दोष इति हृदिकृत्योक्तार्थदार्ढ्याय श्रुत्यन्तरमाहुः अत एवेत्यादि । तथाच यदि लाभपदार्थः प्रकाशनरूपः श्रुत्यभिप्रेतः स्यात्, तदास्यामृचि प्राप्तिपदार्थः कामभोगरूपो नोच्येत । अतो न पूर्वोक्तेऽर्थे विप्रतिपत्तव्यमित्यर्थः । एतच्छ्रुतावपि विप्रतिपत्तिश्चेत्, तदा पूर्वग्रन्थमवलोक्य सा निरसनीयैत्याशयेन आहुः एतदित्यादि । आनन्दमयाधिकरणे अक्षरादुत्तमस्य रसरूपस्यैव रश्मिः। तर्केण मतिरापनेये'ति विरोधकम् । 'आत्मा वा अरे द्रष्टव्यः श्रोतव्य' इत्यादिश्रुतौ वाराहवाक्याद्भक्ति- प्रवेशवत् वरणश्रुतावपि भक्तिप्रवेशस्य न्याय्यत्वेन तर्काभावादृते । 'वृङ् सम्भक्तौ' क्र्यादिः संविभजनार्थ इति स नोपात्तः । ननु परेषामयमर्थः, न तु वैयाकरणानाम्, सम्यक् सेवारूपसर्वात्मभावः सम्भक्ति- पदार्थोऽस्तु, श्रुतौ विकरणव्यत्ययोऽस्त्विति चेत् । न । भक्तिमार्गे यद्वरणं स्वीयत्वेनाङ्गीकाररूपमिति भाष्ये विकरणव्यत्ययानङ्गीकारात् । न चेदमप्रयोजकमिति वाच्यम् । 'आचार्यवान् पुरुषो वेदे'ति श्रुतेः । इच्छतीति । ज्ञानवान् इच्छात इति ज्ञानमनुमेयम् । य इच्छति, स यतिष्यत एव । इतीति । इमं प्रश्नरूपं हेतुं विचार्य श्रुत्योच्यते इत्यर्थः । प्रकाश इति । सति सप्तमी । घटादि- रिति । पूर्वं विद्यमान एवात्मतत्त्वं प्रकाशयति, तद्वत् । घटादेरुपादानविषमसत्ताकान्यथाभावरूप- विवर्तत्वात् । अभेदेति । ननु भवतामप्यभेदाङ्गीकारोऽस्त्येवेति चेत् । न । भावाद्वैतेन पटस्तन्तव इत्यभेदप्रत्ययेपि तन्तवः पट इत्यप्रत्ययात् तादृशभेदमादायोपपत्तेः । नन्वभेदमादाय पाक्षिको दोष इति चेत् । न । उपष्टम्भकत्वादित्याहुः किञ्चेति । रसरूपस्येति । एतेनानन्दमयाधिकरणोक्तः प्राप्तिपदार्थः, न

१८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ३ अ० १७ सू० ४७. भाष्यप्रकाशः । परशब्दार्थत्वेन निर्णीतत्वात् परमव्योमत्वेन चाक्षरस्य तद्धास्रो निर्णीतत्वाद्गरणैनैव तत्राप्तेरपि विचारितत्वाच्चेत्यर्थः । ननु वरणश्रुतिः काठके 'अन्यत्र धर्मादन्यत्राधर्मादन्यत्रास्मात्कृताकृतात्, अन्यत्र भूताच्च भव्याच्च यत्तत् पश्यसि तद्वदे'ति प्रश्ने, 'सर्वे वेदा यत्पदमामनन्ती'त्यादिना, 'एतद्ध्येवाक्षरं ब्रह्म'ति प्रकृत्य पठिता । मुण्डकेपि 'अथ परा यया तदक्षरमधिगम्यते यत्तदहेश्यमग्राह्य'मित्यक्षरमेवोपक्रम्य पठिता । एवं सति पुरुषोत्तमप्रसङ्गस्य कुत्राप्यदर्शनात् कथमत्रैवं भगवत्परत्वेन व्याख्या- यत इति चेत् । अनवधाय वदसि । काठके सर्ववेदवेद्यत्वं परस्यैवोच्यते । तच्च वाच्यवाचकाभेदविवक्षया प्रणवे वक्तुमक्षरपदेन प्रणवं परामृश्य, तत्र ब्रह्मत्वमुपासनासाधनत्वाय विधीयते मन्त्रद्वयेन । ततो 'न जायते न म्रियते वे'ति मन्त्रद्वयेनोपासकस्वरूपमुक्त्वा, 'अणोरणीयान् महतो महीया'नित्यादि- मन्त्रत्रयेण तस्य परस्यात्मनो विरुद्धधर्माश्रयत्वादिकमुक्त्वा, तस्य ज्ञानं कथमित्याकाङ्क्षायां 'नाय- मात्मे'ति पठ्यते । अतो नात्र तद्गन्धः । मुण्डकेपि प्रथमे मुण्डके 'यत्तदहेश्यमग्राह्य'मित्यादिना सर्वकारणत्वेनाक्षरं प्रस्तुतम्, द्वितीयेपि 'यथा सुदीप्तात् पावकाद्विस्फुलिङ्गा' इति मन्त्रेण तस्मात् सजा- तीयविजातीयसृष्टिमूक्त्वा, 'दिव्यो ह्यमूर्तः पुरुषः स बाह्याभ्यन्तरो ह्यजः । अप्राणो ह्यमनाः शुभ्रो ह्यक्षरात्परतः पर' इति मन्त्रे पूर्वोक्तादक्षरात् परतः परोऽतिरिक्त उक्तः । तृतीयेपि 'द्वा सुप- र्णे'त्यनेनान्तर्यामितया तमेव परामृश्य ततो 'जुष्टं यदा पश्यत्यन्यमीश'मित्यादिना तद्दर्शनफ- लमुक्त्वा, ततो 'ज्ञानप्रसादेने'त्यनेन निष्कलध्यानात्तद्दर्शनमुक्त्वा, ततो ज्ञानप्रसादेपि न स्वसा- रश्मिः । तु व्यापकरूप इति ध्वन्यते । न च कामिनामालिङ्गने कामिन्यादिव्याप्तीच्छासत्त्वा'दक्षुत' इत्यत्र रसरूपत्वेपि व्याप्यर्थोऽस्त्विति वाच्यम् । 'लोकवत्तु लीलाकैवल्य'मिति सूत्रात् तावत्याः शरीरप्रति- बद्धाया व्याप्तेः स्वीकारात् । अनवेति । 'एतद्ध्येवाक्षरं ब्रह्म, एतद्ध्येवाक्षरं पर'मिति श्रुतौ ब्रह्म- परयोः शब्दवैलक्ष्याहितवैलक्षण्यमनवधाय । परस्यैवेति । अनिदमित्यतयेति शेषम् । ईक्षत्यधिकरण उपपादनादेवकारोऽवधारणे । न'न्वेतद्ध्येवाक्षरं ब्रह्मे'त्यनेन सर्ववेदवेद्यत्वमक्षरेपि श्रुत्योच्यते, तत्राहुः तच्चेत्यादि । प्रणव इति । 'नवीनभावजनक' इत्यादिगायत्र्यर्थकारिकातस्तादृशोऽर्थो ध्वन्यते । अकार उकारो मकारोऽर्धमात्रा चेत्येतच्चतुष्टयात्मके ब्रह्मरुद्रविष्णुकृष्णरूपे वाचक इत्यर्थः । विधीयते, नत्वारोप्यते । तथा च परस्येक्षत्यधिकरणे कृष्णस्य 'यतो वाचो निवर्तन्ते' इति श्रुतिप्राप्ता- शब्दत्वं निषिध्यते तद्द्वारानिदमित्यतया सर्ववेदवेद्यत्वं इतरत्र तु वर्तत एवेदमितयतया सर्ववेदवेद्यत्वम् । श्रुतिश्च 'ॐमित्येतत् । एतद्ध्येवाक्षरं ब्रह्म, एतद्ध्येवाक्षरं पर'मिति । परं कृष्णरूपम् । परपदार्थस्यानन्द- मयाधिकरणे निरूपणात् । एतच्चादृश्यत्वाधिकरणे समन्वयाध्यायद्वितीयपादे निपुणतरमुपपादितम् । मन्त्रेति । 'एतद्ध्येवाक्षरं ब्रह्म, एतद्ध्येवाक्षरं परम् । एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छसि तस्य तत् । एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् । एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते' इति मन्त्रद्वयेन । तस्य प्रणवार्थमात्राप्रतिपाद्यस्य । ज्ञानमिति । फलात्मकम्, न तु साधनात्मकम् । सर्वेति । तया च सर्व- कारणे निरङ्कुशजगज्जन्मादिकर्तृत्वेन शास्त्रप्रतिपाद्यत्वरूपलक्षणसङ्गया परमे ब्रह्माक्षरात्मकं प्रस्तुतमित्यर्थः । अतिरिक्त इति । गोकुले नित्यलीलाकर्ता । 'तानि परे तथा ह्याहे'ति व्याससूत्रात् । इतीति । शङ्कर- भाष्ये प्रतिपाद्यान्तराभावादिति भावः । छान्दोग्ये सामशाखायां काठकं यजुःशाखायां मुण्डकं शाखान्तरम् । 1918

-like curve? Ah! शाठ्यायनी? No, the matra curves to the left: it's ि (short i). Wait, does it curve to the left over ? Yes, नि. Then next to it is ? No, wait, it's न्? Wait, look at the user prompt's OCR hint if any: user provided no text, just the image! Let's look at: शाठ्यायनि ... wait, look at छन्द आदिशु: Wait, is that आदिशु or आदिषु? Look at the loop: it is definitely ! In आदिशु, the print literally has instead of ! It's a typo in the book: छन्द आदिशु तु.

Let's check line 21: 'नवाक्षराणि छन्दांस्यासुरणि, अन्यानि दैवतानि, तेषां क्वचित् छन्दोभिः स्तुवते' इत्यत्राविशेषप्राप्तौ Wait, "छन्दांस्यासुरणि" or "छन्दांस्यासुराणि"? Look at L21: छन्दांस्यासुरणि - wait, is there an aa matra on र? Look at रणि: has no aa matra, or is it राणि? Wait, let's look at