अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
४९० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ३ सू० ३५. होपरमं पदाम्बुज'मिति । 'महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् । सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः। नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासत' इति । एतेन भगवद्धर्मा- णामात्मधर्मत्वेनान्तरङ्गत्वादाश्रमकर्मणो देहधर्मत्वेन बहिरङ्गत्वात्तदविरोधेनैव तत् कर्तव्यमिति स्थितम् । अत एव भगवद्धर्मान्यधर्मं प्रतिषिध्य तेषां सर्वेभ्य आधिक्यं ज्ञापयितुं 'स वा अयमात्मा सर्वस्य वशी'त्यादिना भगवन्माहात्म्य- मुक्तम् ॥ ३३ ॥ अनभिभवं च दर्शयति ॥ ३४ ॥ प्राधान्येन भगवद्धर्मा एव कर्तव्या इत्यत्रोपोद्बलकान्तरमनेन उच्यते । 'सर्वं पाप्मानं तरति, नैनं पाप्मा तरति, सर्वं पाप्मानं तपति, नैनं पाप्मा तपती'त्यादिना भगवद्धर्मानुरोधेनाश्रमकर्माकरणदोषैरनभिभवं च श्रुति- र्दर्शयति, अतो भगवद्धर्मा एव सर्वेभ्य उत्तमानि साधनानीत्यर्थः ॥ ३४ ॥ अन्तरा चापि तु तद्दृष्टेः ॥ ३५ ॥ भगवद्धर्मेभ्य आश्रमधर्मा हीना इत्यप्यल्पमुच्यते । अपि तु तस्मिन् पुरुषोत्तमे धर्मिण्येव दृष्टिसत्तात्पर्यं यस्य पुंसस्तस्याश्रमधर्मा अन्तरा च फलसिद्धौ व्यवधानरूपाश्चेति श्रुतिर्दर्शयतीति पूर्वेण सम्बन्धः । अन्तराशब्दोऽत्राव्यव्यात्मको व्यवधानवाचकः । तथा च श्रुतिः 'एतद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः भाष्यप्रकाशः। गीतावाक्येपि ज्ञेयम् । सिद्धमाहुः एतेनेत्यादि । एतदुपष्टम्भाय प्रकृतश्रुतिस्थमेव लिङ्गं दर्शयन्ति अत एवेत्यादि। तथा चान्ते भगवन्माहात्म्योक्तिरपि भगवद्धर्माणामाधिक्ये तेषामवश्यकर्तव्यत्वे च लिङ्गमित्यर्थः । एतेन अस्मिन् सूत्रे त एवेत्यवधारणेन त्रयाणां युगपदुपस्थितौ भगवद्धर्मा- तिरिक्तान् आचार्यो निवर्तयतीति बोधितम् । एतदुपष्टम्भायैवाग्रिमा पञ्चसूत्रीति ॥ ३३ ॥ अनभिभवं च दर्शयति ॥ ३४ ॥ अत्र भाष्यमतिरोहितार्थम् । 'सर्वं पाप्मानं तरती'ति श्रुतिस्तु शारीरब्राह्मणस्था ॥ ३४ ॥ अन्तरा चापि तु तद्दृष्टेः ॥ ३५ ॥ व्यवधानवाचक इति । 'अन्तरेऽन्तरा, अन्तरेण च रश्मिः। श्रवणकीर्तनादीनाम् । एवं गीतेति । नवमाध्यायस्थं वाक्यम्, अत्रापि पदाम्बुजदर्शनं फलश्रुतिः । श्रीभागवतस्य गीताव्याख्यानत्वात् । यद्वा । नवमाध्यायस्थं व्यवहितम्, 'यान्ति मद्याजिनोपि मा'मिति वाक्योकं श्रीभागवतोक्तरूपम् । एतेनेत्यादीति । तदविरोधेनेति । अन्तरङ्गाविरोधेन । तत्क- र्तव्यम् बहिरङ्गकर्तव्यम् । प्रकृतेति । 'तमेव धीर' इति श्रुतिस्थम् । अत एवेत्यादीति । अन्तर- ङ्गानुरोधेन बहिरङ्गस्य कर्तव्यत्वादेव । 'नानुध्याया'दित्यादिना भगवद्धर्मेभ्योऽन्यं बहूनां धर्मं निषिद्ध्य । माहात्म्यमुक्तमिति । देवत्वमुक्तम् । आचार्य इति व्यासः । आश्रमे आश्रमान्तर- धर्मनिवर्तनवत् निवर्तयति ॥ ३३ ॥ अनभिभवं च दर्शयति ॥ ३४ ॥ सर्वमिति । अस्यां श्रुतौ । नैनमिति । पुरुषोत्तम- विदमपीति तात्पर्यार्थः ॥ ३४ ॥ 2090
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९१ प्रजां न कामयन्ते किं प्रजया करिष्यामो येषां नोऽयमात्माऽयं लोक' इति ऋणापाकरणहेतुत्वेन लौकिकोत्कर्षहेतुत्वेनापि प्रजाया अभीष्टत्वेपि तदुत्पा- दनव्यासङ्गेन भगवदानन्दानुभवेऽन्तरायो भविष्यतीति तदृष्ट्या तन्निरपेक्षतां दर्शयति ॥ ३५ ॥ अपि स्मर्यते ॥ ३६ ॥ अपिशब्देनाश्रमधर्माणां तथात्वं किमु वाच्यम्, यतो ज्ञानतत् साधन- वैराग्यादीनामप्यन्तरायरूपत्वं स्मर्यते । 'तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः । न ज्ञानं न च वैराग्यं प्रायः श्रेयो भवेदिहे'ति भगवद्वाक्यम् ॥ ३६ ॥ विशेषानुग्रहश्च ॥ ३७ ॥ स्मर्यत इति पूर्वेण सम्बन्धः । ज्ञानादेः सकाशाद्भक्तिमार्गे फलतोऽप्युत्कर्ष- माह । ज्ञानादिसाधनवतस्त्वनुग्रहो मुक्तिपर्यन्त एव, भक्तिमार्गे तु, 'अहं भक्तपरा- धीनो ह्यस्वतन्त्र इव द्विज'त्यादिवाक्यैर्विशेषरूपो मुक्तादिभ्योपि भक्तानां व्याव- र्तको भगवदनुग्रहः स्मर्यत इत्यर्थः ॥ ३७ ॥ गूढाभिसन्धिमुद्घाटयन् फलितमर्थमाह । अतस्त्वितरज्यायो लिङ्गाच्च ॥ ३८ ॥ अत इति पूर्वोक्तश्रुतिस्मृतिपरामर्शः । तथा चेतरस्या मुक्तेरपि भक्तिमार्गी- यतदीयत्वमेव ज्याय इत्यर्थः । अत्र हेत्वन्तरमाह लिङ्गाच्चेति । मुक्तानां तु माया- विनिर्मुक्तमात्मस्वरूपमेव, न तु देहेन्द्रियादिकमप्यस्ति, येन भजनानन्दानुभवः स्यात् । भक्तानां तु देहेन्द्रियादिकमपि मायातत्कार्यरहितत्वेनानन्दरूपत्वेन च भगवदुपयोग्यतोपि तत्तथेत्यर्थः । न हि मुक्तात्मनां कश्चन भगवदुपयोगोऽस्तीति भाष्यप्रकाशः। मध्ये स्यु'रिति कोशात् । मध्यस्थितस्य च व्यवधायकत्वाद् व्यवधानवाचक इत्यर्थः । आश्रमकर्मणां कथं व्यवधायकत्वमित्याकाङ्क्षायां श्रुत्या तदुपपादयन्ति तथा चेत्यादि । इयमपि श्रुतिस्तत्रत्येव ॥ ३५॥ अपि स्मर्यते ॥ ३६ ॥ विशेषानुग्रहश्च ॥ ३७ ॥ एतद्भाष्यमप्यतिरोहितार्थम् । अनु- ग्रहस्तु धर्मान्तरं कृपाद्याद्यपरपर्यायम्, न तु फलदित्सा । 'यस्यानुग्रहमिच्छामी'ति वाक्यात् । अयमेव च पुष्टिशब्देनोच्यते । 'पोषणं तदनुग्रह' इति वाक्यात् । एतत् सर्वं मत्पितृचरणविर- चिते पुष्टिप्रवाहमर्यादाख्यग्रन्थविवरणे प्रपञ्चितमिति नात्रोच्यते ॥ ३७ ॥ अतस्त्वितरज्यायो लिङ्गाच्च ॥ ३८ ॥ मुक्तेरिति पञ्चमी अत्रेति । भक्तिमार्गीय- भगवदीयत्वस्य मुक्तितोपि ज्यायस्त्वे । स्वरूपमेवेति । तिष्ठतीति शेषः । अतोपीति भगवदु- पयोगिलिङ्गस्थूलशरीरद्वयात्मिकाया भजनानन्दानुभावकसामग्र्या आधिक्यादिति । एतेन 'सर्वै- न्द्रियैस्तथा चान्तःकरणैरात्मनापि हि । भक्तभावात्तु भक्तानां गृह एव विशिष्यत' इति निबन्धोक्तं रश्मिः। अन्तरा चापि तु तद्दृष्टेः ॥ ३५ ॥ तत्रत्यैवेति । शरीरब्राह्मणस्यैव ॥ ३५ ॥ अपि स्मर्यते ॥ ३६ ॥ विशेषानुग्रहश्च ॥ ३७ ॥ अतस्त्वितरज्यायो लिङ्गाच्च 2091
४९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ३ सू० ३८. भाषः। तदुक्तं श्रीभागवते, 'न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरा- र्चिता' इत्यादि, मुक्तोपसृप्यत्वं बोध्यते । अत एव सप्तमस्कन्धे 'देहेन्द्रिया- सुहीनानां वैकुण्ठपुरवासिना'मित्युक्तम् । पुरवासित्वे देहादेरावश्यकत्वान्निषेधो जडात्मकानामेवेत्यवगम्यते । इतरज्ज्याय इति पाठे तु पूर्वोक्ताश्रमकर्मपरामर्शोऽत इत्यनेन उक्तयोरेव वा । एतेन, 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'तिश्रुत्युक्तफलवत्त्वं तस्य सूच्यते ॥ ३८ ॥ इति तृतीयाध्याये चतुर्थपादे तृतीयं विहितत्वाच्चाश्रमकर्मेत्यधिकरणम् ॥ भाष्यप्रकाशः। स्सारितम् । ननु भगवदुपयोगित्वस्य कथं मुक्त्यपेक्षया भक्ताधिक्यलिङ्गत्वमित्यपेक्षायां तत्र प्रमाण- माहुः तदुक्तमित्यादि । एतद्वाक्ये मायासंसर्गरहिते स्थाने भगवदनुव्रतानां कथनाद्भगवतो मुक्त- सेव्यत्वस्य पूर्वं भगवता सूत्रकारेण मुक्तोपसृप्यसूत्रे उक्तत्वाच्च तदेव प्रमाणमित्यर्थः । एतदुपोद्ब- लनाय निषेधमुखेनालौकिकदेहबोधकं वाक्यान्तरमाहुः अत एवेत्यादि । एवमेकपाठं व्याख्याय पाठान्तरं व्याकुर्वन्ति इतरदित्यादि । उक्तयोरिति । श्रुतिस्मृत्योः । अस्मिन् पक्षे इतरदितिपदेन भक्तिमार्गीयभगवदीयत्वं बोध्यम् । सिद्धमाहुः एतेनेत्यादि । तस्येति तादृशभगवदीयत्वस्य । एवं ज्ञानिधर्माणां शमादीनामा श्रमधर्माणां च विहितत्वेन तौल्यादावश्यकर्तव्यत्वे प्राप्तेऽप्यनभिभवादि- पञ्चसूत्र्या भगवद्धर्माणामुकर्षप्रदर्शनेन, अन्येषामेतेषां च युगपदुपस्थितौ भक्तिमार्गीयेण पूर्वमेत एव कर्तव्या, गौणकाले त्वन्य इति निर्णीतम् । यद्यप्यतीतपादे, 'आदरादलोप' इत्यधिकरणे राजसभक्तानां कर्मासक्तिनिवृत्तयेऽयमर्थ उक्तः, तथाप्यत्र कर्मोपसंहारप्रकारदार्थ्यार्थं पुनविशेषतो युक्तिपूर्वकं बोधित इति न पुनरुक्तिदोष इति ज्ञेयम् । अन्ये तु 'सर्वथाऽपि'ति सूत्रद्वयमाश्रमकर्माधिकरणशेषत्वेनाङ्गीकृत्य त एवेत्यवधारणेनाश्रम- रश्मिः। ॥ ३८ ॥ स्वरूपमेवेति । तेनात्मस्वरूपमित्यत्रात्मनः स्वरूपमित्यपि पाठः । आधिक्यादि- तीति आधिक्यादपि । 'इति प्रकारे हेतौ प्रकारादिसमाप्तिष्वि'ति विश्वात् । भक्ताधिक्येति । ननु मुक्तिः फलम्, भक्तो फलभक्तिविशिष्ट इति मुक्त्यपेक्षया भक्ताधिक्यासिद्ध्या दूरं तल्लिङ्ग- त्वप्रभ इति चेत्, न । 'अहैतुक्यव्यवहिता या भक्तिः पुरुषोत्तम' इत्यात्यन्तिकभक्तिलक्षणमुक्त्वा कार्यमाह 'सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत । दीयमानं न गृह्णन्ति विना मत्सेवनं जना' इत्यैकत्वापेक्षया भगवत्सेवनस्याधिक्योक्तेः । पूर्वमिति द्वितीयाध्याये । निषेधेति 'देहेन्द्रि- यासुहीनाना' मित्येवं पूर्वोक्तस्य, भक्तानां तु देहेन्द्रियादिकमपीयस्य निषेधमुखेन निषेधोपायेन भगवदीयत्वस्य । तेन भगवदीयं फलवदिति निष्पन्नम् । फलं किमित्युक्ते । साधनफलैकीकारेण । प्रकटसंदर्शसेवायां प्रकटानन्दांशत्वे भवति । सेवाविषयभगवद्रूपानन्देन वा । तदुक्तं 'तस्मात् सर्वं परित्यज्य निरुद्धैः सर्वदा गुणाः । सदानन्दपरैर्ज्ञेया सच्चिदानन्दता स्वत'इति निरोधलक्षणग्रन्थे । निरुद्धस्य जीवस्य सच्चिदानन्दता स्वत इति बोध्यम् । निरोधस्त्वात्यन्तिकभक्त्यात्मको भवत्वेव । एतचेतः प्रेत्य फलम् । 'अस्माल्लोकात् प्रेत्ये'ति ब्रह्मवित्पाठश्रुतेः । भक्तिमार्गीयेणेति । पुंसा । आश्रमकर्मेति । इदमधिकरणं सूत्रचतुष्टयात्मकम् । तेनाश्रमकर्माधिकरणे शेषत्वेना- श्रमकर्माधिकरणशेषत्वेन । सप्तमी शौण्डैरित्यत्र सप्तमीति योगविभागात् समासः । त एवेति । सर्वथापि त एवेत्यत्र त एवेत्यवधारणेन । आश्रमति । आश्रमधर्मातिरिक्तानि धर्मान्तराण्यपिहो- 2092
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:
भाष्यप्रकाश-रश्मि-परिवृंहितम् । [४१३] भाष्यप्रकाशः । धर्मातिरिक्तधर्मान्तरनिवृत्तिमङ्गीकुर्वन्ति । यथा हि, 'मासमग्निहोत्रं जुहोती'ति कर्मान्तरमुपदिश्यते, तथा नात्र, किन्तु तान्येव वेदानुवचनादिपदैरनूद्य पृथक्संयोगो विधीयते तस्मादिति । तत्रैवं व्याख्याने सर्वथेति पदानर्थक्यम् । आश्रमधर्मपक्षे भेदशङ्काया एवानुदयादिति । अनभिभवसूत्रवैयर्थ्यं च । तथा, 'अन्तरा चापी'ति सूत्रचतुष्टयात्मकमधिकरणान्तरमङ्गीकृत्य तत्र विधुरादीनां द्रव्या- दिसम्पद्रहितानां चान्यतमाश्रमप्रतिपत्तिहीनानां च विद्यायामधिकारोऽस्ति, न वेति संशये, रयि- क्वाचक्नूवीप्रभृतीनामपि ब्रह्मवित्वश्रुत्युपलब्धेः । संवर्तप्रभृतीनां च नग्नचर्यादियोगादनपेक्षित्वाश्र- मकर्मणामपि महायोगित्वस्मरणात् । विधुरादीनामविरुद्धैः पुरुषमात्रसम्बन्धिभिर्धर्मविशेषैर्विद्यानुग्र- रश्मिः । त्रादीनि न भवन्ति । किन्तु सर्वथाप्याश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे च त एवाग्निहोत्रादयोऽनु- ष्ठेयाः । त एवेत्यवधारयन् आचार्यः किं निवर्तयति । कर्मभेदशङ्कामिति ब्रूमः । यथा कुण्डपायिनाम- यने'मासमग्निहोत्रं जुहोती'त्यत्र नित्याग्निहोत्रात् कर्मान्तरमुपदिश्यते नैवमिह कर्मभेदोस्तीत्यर्थः । कुतः । श्रुतिलिङ्गात्, स्मृतिलिङ्गाच्च । श्रुतिलिङ्गं तावत् 'तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ती'ति सिद्धवदुत्पन्नरूपाण्येव यज्ञादीनि विविदिषायां विनियुङ्क्ते । जुहोतीत्यादिवत् नापूर्वमेषां रूपमुत्पाद- यतीति । स्मृतिलिङ्गमपि 'अनाश्रितः कर्मफलं कार्यं कर्म करोति य' इति । एवं आश्रमधर्मातिरिक्त- धर्मान्तरनिवृत्तिमङ्गीकुर्वन्तीत्यर्थः । कर्मान्तरमिति । पूर्वतन्त्रे चिन्तितं द्वितीयेऽध्याये । अत्र हि जुहोत्याख्यातस्य विधायकस्य प्रकृतिभूतस्य जुहोतेरर्थः अग्निहोत्रमिति युक्तः तस्य प्रसिद्धाग्नि- होत्राद्भेदः । जुहोतेः साध्यहोमव्यक्तिवचनत्वेन सिद्धाग्निहोत्रपरामर्शानुपपत्तेः । अत एव तदेकार्थका- ग्निहोत्रशब्दस्य न नित्याग्निहोत्रानुवादकत्वं व्यक्तिवचनादेव । एवं कर्मान्तरमुपदिश्यते । तथा नात्रेति अत्र प्रकृते तथा न यज्ञादेर्विधायकाख्यातः प्रकृत्यर्थः । विविदिषाया एव तदर्थत्वात् किन्तु तानीति । अग्निहोत्रादीनि । विविदिषन्तीति पृथग्विद्यासंयोगः । तस्मादाख्यातप्रकृत्यर्थमात्रार्थ- कैर्यज्ञादिशब्दैः प्रसिद्धस्य यज्ञादेरनुवादेन 'तमेत'मित्यत्र विद्यासंयोगमात्रमपूर्वं विधीयते इति न कर्मभेदः । तस्मादिति उभयलिङ्गात् । एवमिति सर्वथाप्याश्रमकर्मत्वपक्षे विद्यासहकारित्वपक्षे चेति । सर्वथापदव्याख्याने । अनुदयादिति अग्निहोत्रादेर्गृहस्थाश्रमधर्मत्वात् विद्यासहका- रित्वमात्रपक्षे सर्वपदासङ्गतेः । अनभिभवेति । रागादिभिः क्लेशैरेष ह्यात्मानं न पश्यति यं ब्रह्मचर्येणानुविद्याश्रुतिर्ब्रह्मचर्यादेराश्रमकर्मणो मनःशुद्धिद्वारा ज्ञानसाधनत्वे आत्मानभिभवं लिङ्गं दर्शयतीति सूत्रार्थः । अत्राश्रमधर्मविचारः पूर्वसिद्ध इति तथा । विधुरेति अन्तराले वर्तमानो विधुरः । एतस्यैव प्रपञ्चः द्रव्यादीति । रयिकेति । छान्दोग्ये 'जानश्रुतिर्ह पौत्रायण' इत्यारम्भके प्रपाठकेऽस्ति । वाचक्नुवीति । वचक्नोरपत्यं स्त्री वा वाचक्नवी । वाचक्नवीत्यपि पठ्यते । ब्रह्मवित्वेनेति । 'रयिक्वेमानि षट्शतानि गवामयं निष्को अयं अश्वतरीरथोऽनु म एतां भगवो- देवताँच्छाधि यां देवतामुपास्स' इति ब्रह्मवित्वश्रुतेरुपलब्धेः । वाचक्नवी स्त्रीत्वेनाश्रमी । अपि स्मर्यत इति सूत्रार्थमनुवदन्ति संवर्तति । प्रभृतिशब्देनर्षभादयः । महेति इतिहासे तथा । विशेषानुग्रहश्चेति सूत्रार्थमनुवदन्ति स्म विधुरादीनामिति । अविरुद्धैरिति अविधुरादि- भ्योऽविरुद्धैः । धर्मैरिति जपोपवासदेवताराधनादिभिः । तथा च स्मृतिः 'जप्येनैव तु संसिध्येद् ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वाकुर्यान् मैत्रो ब्राह्मण उच्यते' इति । संशयद्वितीयकोटेः पूर्वपक्षत्वं 2093
४९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ४ सू० ३९. तद्भूतस्य तु नाऽतद्भावो जैमिनिरपि नियमात्तद्रूपाभावेभ्यः ॥ ३९ ॥ (३-४-४) अथेदं विचार्यते । तदीयानामपि कदाचित् सायुज्यमस्ति, न वेति । तत्र भक्तिमार्गस्यापि साधनरूपत्वात् तस्य च मुक्तावेव पर्यवसानात् तदीयत्वस्य साधनावस्थायामुत्कृष्टावस्थारूपत्वात् तेषामपि मुक्तिरावश्यकी । तथा च फलतो न कश्चित् विशेष इति प्राप्ते, उच्यते तद्भूतस्येत्यादि । तुशब्देन मर्यादामार्गीयव्यवच्छेदः । अत्र विश्वासदार्ढ्यायाह । अन्यस्य का वार्ता, कर्ममात्रनिरूपकस्य जैमिनेरपि यदि कदाचिद्भगवत्कृपयायं भावो भवेत्, तदा तद्भूतस्य पुष्टिमार्गीयभगवद्भावं प्राप्तस्य तस्यापि नातद्भाव उक्तभावनिरोधानं न कदाचिदपीत्यर्थः । अत्र हेतूनाह नियमादीन् । तैत्तिरीयके
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९५ पणायोच्यते, 'सदा पश्यन्ति सूरय' इति । सूरयो विद्वांसः पुरुषोत्तमज्ञानवन्त इति यावत् । तच्च भक्तैरेवेति सूरिपदेन भक्ता उच्यन्ते । तथा च भक्तानां सार्वदिकदर्शनं नियम्यते, 'सदे'ति पदेन । एवं सति पुष्टिमार्गीयभगवद्भावं प्राप्तस्य मुक्तावुच्यमानायां तन्नियमो भज्येतेत्यर्थः । यच्चोक्तं साधनावस्थायामुक्त- मावस्थास्वरूपत्वम्, परं तदीयत्वस्य फलं मुक्तिरेवेति तत्राह । अतद्रूपेति । उक्तभ- गवदीयत्वं न साधनरूपमपि तु मुक्तेरपि फलरूपम् । 'मुक्तानामपि सिद्धानां नारायणपरायणः । सुदुर्लभः प्रशान्तात्मा' इति वाक्यात् । 'यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः । अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुत' इति श्रुत्या अमृतस्य मुक्तस्य ब्रह्मस्वरूपभोग उच्यते । स च, 'यमेवैष वृणुत' इति श्रुतेर्भग- वदीयत्वसाध्य एवेति स्पष्टं फलत्वमस्यातोऽतद्रूपत्वम् । किञ्च । फलं हि साधनादु- त्तमं भवति । भगवदीयत्वाद्युत्तमस्यार्थस्याभावादपि न मुक्तिर्वक्तुमुचिता । तदुक्तं श्रीभागवते पञ्चमस्कन्धे पूर्वं भक्तिस्वरूपं निरूप्य, 'तयैव परया निर्वृत्या ह्यपवर्ग- मात्यन्तिकं परमपुरुषार्थमपि स्वयमासादितं नो एवाद्रियन्ते भगवदीयत्वेनैव परि- समाप्तसर्वार्था' इति ॥ ३९ ॥ इति तृतीयाध्याये चतुर्थपादे चतुर्थं तद्भूतस्येत्यधिकरणम् ॥ ४ ॥ भाष्यप्रकाशः। ब्रह्मस्वरूपभोग एवात्रोच्यते । स च, 'यमेवे'ति श्रुत्यन्तरैकवाक्यतया तथावधार्यते इति मुक्तिफ- लरूपत्वान्न तस्य मुक्तिसाधनरूपत्वमित्यर्थः । तेन अतद्रूप इति भावप्रधानो निर्देश इति बोधि- तम् । न च 'सुषुप्त्युत्क्रान्त्योर्भेदेने'त्यत्रेयं वाजसनेयिश्रुतिः । 'अकामयमानस्ये'त्यारभ्या 'त्र ब्रह्म सम- श्नुत' इत्यन्तं सुषुप्तिपरत्वेन भाष्य एव व्याख्यातेति कथमत्रैवमुच्यत इति शङ्क्यम् । याज्ञवल्क्येन श्लिष्टतया तत्र सुषुप्तिमोक्षावस्थे बोधिते इति बोधनार्थं तत्र तथा व्याख्यानम्, न तु सिद्धान्तबोध- नायेति तत्रैव मया व्युत्पादितत्वादिति । शेषं स्फुटम् । यद्यप्यतीतपादे लिङ्गभूयस्त्वाधिकरणे 'अनुबन्धादि'सूत्रेऽयमर्थो निर्णीतः, तथापि सर्वात्मभाववत एव निर्णीतः न तु पुष्टिमर्यादामार्गी- यभगवद्भक्तस्यापीति न पुनरुक्तिरिति ज्ञेयम् । अन्ये तु, अत्र ऊर्ध्वरेत आश्रमात् कथमपि पुनराश्रमान्तरं भवति न वेति संशयेऽनेन सूत्रेण तद्भावः साध्यत इत्याहुः । तदस्माकमपि सम्मतम् । यत्तु जैमिनिपदैकमत्यबोधनायेत्याहुः तत् तद्दर्शने तद्विचारादर्शनाच्छिष्यत्वेन तत्सम्म- तिप्रदर्शनप्रयोजनाभावाच्चेति न रोचिष्णु ॥ ३९ ॥ इति चतुर्थं तद्भूतस्येत्यधिकरणम् ॥४॥ रश्मिः। विवृण्वन्ति स्म । स च यमेवेति । तथेति भाष्योक्तप्रकारेण । तस्येति । तदीयत्वस्य । तेनेति । अतद्रूपत्वमिति भाष्येण । अत्रैवमिति अस्मिन्नधिकरणे । एवं पुष्टिफलदत्वेन । श्लिष्टतयेति । मोक्षसुषुप्तिसुखयोः श्लिष्टं ब्रह्मपदं तया । बोधिते इति । स्फुटमिति । उत्तमस्येति । भगवदीयत्वफले वैराग्यजनकस्य । आत्यन्तिकमिति एतल्लक्षणमुक्तम् । एवं स्फुटमित्यर्थः । ऐकमत्ये विशेषावधानमाशङ्क्याहुः शिष्यत्वेनेति । नेति । विशेषावधानाभावान्न रोचिष्णु ॥ ३९ ॥ इति चतुर्थं तद्भूतस्येत्यधिकरणम् ॥ ४ ॥ 2095
४९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ५ सू० ४०. ॰ न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ ४० ॥ (३-४-५) अथेदं विचार्यते । ध्रुवायेव ब्रह्मादिलोकाधिकारं दत्त्वा तत्सम्बन्धिफलं ददाति, न वेति । तत्र नेत्याह न चेति । तत्र हेतुः । पतनानुमानादिति । 'आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुने'ति स्मृतेरित्यर्थः । फलस्य सावधित्वा- दिति भावः । किञ्च । तादृशे भगवतीये पतनायोगादपि न तथा । अथवा । तादृशस्य सदा भक्तिरसानुभवात्तदतिरिक्तस्यानपेक्षणादन्येषां फलानां सम्बन्धा- भावादित्यर्थः ॥ ४० ॥ भाष्यप्रकाशः । न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ ४० ॥ अधिकरणमवतारयन्ति अथेत्यादि । अथेदं विचार्यत इति पुष्टिमर्यादामार्गीयफलविचारोत्तरं मर्यादापुष्टस्य फलं विचार्यत इत्यर्थः । तत्सम्बन्धीति अधिकारसम्बन्धि । सिद्धान्तमाहुः तत्र नेत्यादि । ईदृशे सन्देहे 'ध्रुवायेव ददाती'ति पूर्वपक्षे नेत्याहेत्यर्थः । हेतुं व्याकुर्वन्ति आब्रह्मेत्यादि । सूत्र- योजना तु, आधिकारिकं फलम् चकारादधिकारमपि न, पुष्टिमार्गीयेभ्यो न ददात्येव । कुतः । पतनानुमानात् । अनुमीयते श्रुतिरनेनेत्यनुमानं स्मृतिः, पतनबोधकमनुमानं पतनानुमानं तस्मात् । शेषा तु स्फुटा । तर्हि, ध्रुवाय कथं दत्तवानिति तु न शङ्क्यम् । द्वितीयस्कन्धे, 'ते वै विदन्त्य- तितरन्ति च योगमाया'मिति भगवद्योगमायाज्ञानरूपसाधनान्तरस्य ध्रुवे उक्तत्वेन, 'नैच्छन्मुक्ति- पतेर्मुक्तिं पश्चात्तापमुपेयिवा'निति वाक्येन च तस्य मुमुक्षुतया मर्यादामार्गीयत्वावगमात् । ये पुनः पुष्टावङ्गीकृताः, तेषां तु मुक्तावप्याकाङ्क्षाराहित्यात्तामेव न ददातीति दूरापेतमाधिकारिकमित्यर्थः । किञ्च । तस्यापि तत्र मुक्तिरेव मायातरणरूपा फलत्वेनोच्यते, न तु भक्तिफलम्, अतो न दोषः । भक्तस्वरूपविचारेणार्थान्तरं तदयोगपदस्याहुः । अथवेत्यादि ॥ ४० ॥ रश्मिः । न चाधिकारिकमपि पतनानुमानात् तदयोगात् ॥ ४० ॥ तत्सम्बन्धीति । ततोऽपुनरावृत्त्यादि यावदधिकारम् । नेत्यस्यार्थः पुष्टिमार्गीयेभ्य इत्यादिः सम्प्रदानक्रियाव- धारणेः सह । श्रुतिरनेनेति । ऋषीणां श्रुत्युक्ताचारस्मरणात् स्मृतेरिति व्युत्पत्या स्मृतिमूल- श्रुतिरनेनानुमानेन ज्ञाप्यतेऽनुमीयते वा । 'आब्रह्मो'ति स्मृतिः एतत्समानार्थकश्श्रुतिमूला, स्मृतित्वात् । 'आरूढो नैष्ठिकं धर्मं यस्तु प्रच्यवते पुनः । प्रायश्चित्तं न पश्यामि येन शुध्येत् स आत्महे'ति स्मृतिव- दिति । मध्यमपदलोपी समास इत्याहुः पतनेति । देवपूजको ब्राह्मणो देवब्राह्मण इतिवत् । शेषेति । तदयोगादित्यस्य योजना भाष्ये स्फुटेत्यर्थः । दत्तवानिति । अपुनरावृत्त्यादि यावदधिकारं दत्तवान् । उक्तत्वेनेति । ज्ञानवत्त्वात् । मुमुक्षुतायां हेतुः नैच्छन्निति । ध्रुवः मुक्तिपतेर्मुक्तिं नैच्छदित्यर्थः । तस्मात् सपत्न्या वा वाक्स्मरणात् । पश्चादितिपाठे स्मरणात् पश्चात् । तस्येति । ध्रुवस्य । तामिति । मुक्तिम् । तस्यापीति । ध्रुवस्यापि । न दोष इति । ध्रुवायापुनरावृत्त्यादिदानदोषो न । भाष्ये । पतनायोगादिति । भगवद्भावाच्च्युतिः पतनम् । अग्रिमसूत्रे वक्ष्यन्ति । फलाना- मिति । अधिकारसम्बन्धिफलानामपुनरावृत्त्यादीनाम् ॥ ४० ॥ 2096
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४१७ उपपूर्वमपि त्वेके भावमशनवत्तदुक्तम् ॥ ४१ ॥ एके भक्ता आधिकारिके फले पतनमात्रं न हेयत्वप्रयोजकमिति वदन्ति, अपि तु उपपूर्वं पतनमेव तदिति वदन्ति, भक्तिभावाच्युतेः । अधिकारसमाप्तौ भगवदनुग्रहाशापि कदाचित् सम्भवतीत्युपपतनं तत् । मुक्तौ त्वपुनरावृत्तेर्भक्ति- रसाशापि नेति महापतनमेव सेति भावः । तेन निषिद्धकर्मफलतुल्यत्वं ज्ञापितं भवति । अत एव श्रीभागवते 'नारायणपरा लोके न कुतश्चन बिभ्यति । स्वर्गाप- वर्गनरकेष्वपि तुल्यार्थदर्शिन' इति गीयते । भक्तिमार्गे तु साक्षात्सङ्गाभावेपि तदीयं भावमात्रमप्यशनवत् साक्षाद्भगवत्स्वरूपभोगवदेव मन्यन्ते । तदुक्तं श्रीभागवते, 'अथ ह वा व तवे'त्यादिना । साक्षाद्भगवद्भोगो जीवस्यासम्भावित इति शङ्कानिरासायाह, तदुक्तमिति । 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चिते'ति, 'अन्नं ब्रह्म समश्नुत' इत्यादिश्रुतिषु साक्षाद् ब्रह्मस्वरूप- रसाशनमुक्तमित्यर्थः ॥ ४१ ॥ इति तृतीयाध्याये चतुर्थपादे पञ्चमं न चाधिकारिकमित
यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण दिया गया है:
३९८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ६ सू० ४२. त्यागः कर्तव्योन वेति, फलस्य सिद्धत्वाच्चेति पक्षव्यवच्छेदार्थ, 'मद्वार्तायातयामानां न बन्धाय गृहा मता' इति वाक्याद् बन्धकत्वेन त्याज्य इति पक्षव्यवच्छेदार्थ च तुशब्दः भावमात्रे साक्षात्प्रभुसम्बन्धे वा, उभयथापि गृहाद्बहिर्गमनं गृह- त्याग इति यावत् । स आवश्यकः । तत्र प्रमाणमाह स्मृतेरित्यादि । 'त्वं तु सर्वं परित्यज्य स्नेहं स्वजनबन्धुषु । मय्यावेश्य मनः सम्यक् समदृग्विचरस्व गा'- मित्यादिस्मृतिर्भगवद्भाववतस्तत्सङ्गविशिष्टस्यापि बहिर्गमनमाह । तदाचारोपि तथैव श्रूयते, अतस्तथा । अत्रायामाशयः । आश्रमधर्मत्वेन गृहत्यागो 'यदहरेवे'त्यादिश्रुतिभ्यः पूर्वमु- पपादितोपि यदधुना पुनरुच्यते, तेन तदतिरिक्तोऽयमिति ज्ञायते। तथा चोक्तवा- क्यान्मुमुक्षुस्तुतिप्रतिबन्धकत्वाभावेपि व्यासङ्गस्य तत्रावश्यकत्वादुक्तयोरप्य- नवरतं प्रभुरसास्वादे प्रतिबन्धकत्वेन तस्य तस्यागस्य विप्रयोगरसानुभावकत्वेन च स कर्तव्यः । यद्यपि स्नेहान्तरायत्वेन स्वत एव तस्यागो भावी, तथापि'आश्र- मादाश्रमं गच्छे'दितिवाक्याद्नाश्रमान्तरत्वाभावेन त्यागस्याविहितत्वशङ्का- भावायेयमुक्तिरिति ॥ ४२ ॥ भाष्यप्रकाशः । त्यादि । अथ भक्तिमार्गीयमध्यमजघन्ययोः फलविचारोत्तरं मध्यमस्य त्यागरूपं साधनं चिन्त्यत इत्यर्थः । मध्यमत्वं विशदयन्तः संशयादिकमाहुः प्रभुरित्यादि । अत्राधिकारिद्वयसोक्तत्वा- द्विविधपूर्वपक्षव्यवच्छेदार्थस्तुशब्द इत्याशयेनाडुः फलस्येत्यादि मद्रार्तेत्यादि च । अतस्तथेति उक्तप्रमाणप्राप्तत्वात्त्यागः कर्तव्य इत्यर्थः । उद्धवस्य मध्यमाधिकारित्वं तु 'उद्धवादिमध्यमभावबोधकाय नम' इति नामावल्यां स्फुटम् । पुनरुक्तिपरिहाराय तदाशय- माहुः, अत्रेत्यादि । पूर्वमिति ऊर्ध्वरेतःसूत्रे । उक्तवाक्यादिति । 'मद्वार्तायातयामाना'मिति वाक्यात् । तस्येति गृहस्य । इयमुक्तिरिति अनेन सूत्रेणानुज्ञा । तथा चाश्रमान्तररूप- त्वाभावेन स्मृत्यन्तरोक्तत्वाभावेपि एकादशस्कन्धेऽष्टादशाध्याये 'यदा कर्मविपाकेषु लोकेषु निरयात्मसु । विरागो जायते सम्यङ् न्यस्ताग्निः प्रव्रजेत्तत' इत्यादिषोडशभिः श्लोकैस्त्रिदण्डं सन्यासमुक्त्वा, ततो, 'ज्ञाननिष्ठो विरक्तो वा मद्भक्तो वानपेक्षकः । सलिङ्गानाश्रमांस्त्यक्त्वा रश्मिः । जगाम, तं गत्वोवाच भगवन् केन कर्मण्यशेषतो विसृजानी'ति प्रश्ने 'दण्डमाच्छादनं कौपीनं परि- ग्रहेत् शेषं विसृजेच्छेषं विसृजेदि'त्युत्तरम् । सन्न्यासोपनिषदि च, 'गर्भवासभयाद् भीतः शीतोष्णाभ्यां तथैव च । गुहां प्रवेष्टुमिच्छामि परं पदमनामय'मिति 'सन्न्यासाग्नीन् न पुनरावर्तये'दित्युक्तम् । तज्ज्ञान- मार्गे ज्ञानकाण्डत्वात् । भक्तिमार्गे तु तन्मध्ये भगवतोक्तं नारदं प्रति । नारदस्य भक्तत्वात् । तदुक्तं 'सच्चितं तत्सदा मध्येवावतिष्ठते तस्मादहं च तस्मिन्नेवावस्लीय' इति भगवता नारदं प्रत्युक्तं परम- हंसोपनिषदि । तथा च ज्ञानमार्गीयसन्यासस्य प्रसिद्धत्वेपि भक्तिमार्गीयमोक्षसन्यासनिरूपणं प्रयोजन- मित्यर्थः । यद्यपि गीतोक्तचतुर्थपञ्चमाध्याययोरप्येवं निरूपयितुं शक्यम्, तथापि ज्ञानमार्गीयत्वात् तद्विहायाष्टादशाध्यायोक्तः सङ्गृहीतः, भक्तिमार्गीयत्वात् । अधिकारद्वयस्येति प्रभुरित्यादिभाष्यो- 2098
भाष्यप्रकाश-रश्मि-परिवृंहितम्। ४९९ स्वामिनः फलश्रुतेरित्यात्रेयः ॥ ४३ ॥ पुष्टिमार्गीयभक्तस्य विहितत्वाविज्ञानमप्रयोजकम् । तत्र हेतुः । तस्य भक्तिमार्गस्वामिनः श्रीगोकुलेशादेव फलस्य श्रुतेः । अतो बहिर्गमनं न साधन- त्वेनात्र कार्यमिति भावः । अत्र, 'यमेवैष वृणुत' इति श्रुतिरनुसन्धेया । एतदनु- पदमेव पठ्यते 'नायमात्मा बलहीनेन लभ्य' इति । अत्र भगवद्वरणानन्तरमपि जीवबलं कतमं, यदपेक्ष्य भगवल्लाभ इति जिज्ञासायां सर्वात्मभाव एव बल- मिति निर्णीयते । तस्यैव मर्यादावलोपमर्दकत्वाद्वगवद्वशीकारहेतुत्वाच्च । ब्रजसी- मन्तिनीनां प्रभुवचनातिक्रममपि कृत्वा स्वरूपपरिग्रहस्तन्मूलेनैव यत इत्यात्रेय आचार्यो मनुते । भाष्यप्रकाशः। चरेद्विधिगोचर' इत्यादिभिरेकादश
९०० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ६ सू० ४४. इदमत्राभिप्रेतम् । सर्वात्मभावस्य यद् बलम्, तत्तदात्मकस्य प्रभोरेव, तस्य चायं स्वभावो यदन्यन्न रोचते । अत एव व्रजपरिवृढवदनेन्दुवचनकिरण- प्रचारप्रोच्छलत्केवलभावाम्भोधिवचनवीचयो गीयन्ते 'यर्ह्यम्बुजाक्ष तव पादत- लमस्माक्षम तत्प्रभृति नान्यसमक्षं स्थातुं पारयाम' इत्यादयः । अतस्त्यागः पृष्ठ- लग्न एवायातीति न तदर्थं यतनीयमिति । विष्ण्ववतारत्वेन पुरुषोत्तमभावस्वरूप- ज्ञोऽयमिति तथा ॥ ४३ ॥ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४४ ॥ सर्वत्यागपूर्वकं यद् बहिः प्रभुसमीपगमनं भक्तस्य तद् आर्त्विज्यमृत्विक्- कर्मैवेत्यौडुलोमिराचार्यो मन्यते । भाष्यप्रकाशः। दशमस्कन्धीयवाक्याभ्यां तथात्वादित्यर्थः । तदात्मकस्येति सर्वात्मभावात्मकस्य । अन्यदिति भगवदतिरिक्तम् । सिद्धमाहुरत इत्यादि । तथा चोभयस्य स्वत एव गृहत्यागः सम्भव- तीत्यतो नोक्त इत्यर्थः । नन्वात्रेयस्य कथमेवं भक्तिमार्गीयभावस्वरूपज्ञानं येन गृहत्यागयत्नं निषेधतीत्यत आहुः विष्ण्ववतारेत्यादि । 'अत्रेःपत्यमभिकाङ्क्षत आह तुष्टो दत्तो मयाहमिति यद्भगवान् स दत्त' इति द्वितीयस्कन्धवाक्यादवतारत्वेन तथेत्यर्थः ॥ ४३ ॥ रश्मिः। सर्वात्मभाव एव बलमिति बलं भक्तिरिति भाष्ये, भक्तिः सर्वात्मभाव इति भावः । तथा च श्रुतौ बलहीनेन सर्वात्मभावहीनेन । मुख्ये कार्यप्रत्ययात् । सर्वात्मभावलिङ्गं च 'तपसो वाप्यलिङ्गा'दिति । तपो विरहतापः, विरह एव सर्वात्मभावस्य सम्यग् ज्ञानात् सर्वात्मभावलिङ्ग- मिन्नात् । प्रभुवचनेति । अत्रायं भावः । गुरुवाक्योल्लङ्घनं महापराध इति प्रभुवचनातिक्रमलेन स्वरूपपरिग्रहत्वेन कार्यकारणभाव उक्तः, स न मुख्यः, किं तु तद्बलेनैवेति भाष्येण प्रभुवचनातिक्र- मयोगव्यवच्छेदपूर्वकसर्वात्मभावबलेनेत्युक्तत्वात् सर्वात्मभावबलेन स्वरूपपरिग्रहेत्वेन कार्यकारणभाव इति । एवं च प्रभुवचनातिक्रमस्य स्वरूपपरिग्रहकारणत्वं सर्वात्मभाववत्कृतस्यैव । तथापि कथमिति चेत् । न । 'सोऽश्नुते सर्वान् कामान् सह ब्रह्मणे'त्यत्र तासां स्वातन्त्र्यम्, ब्रह्मणो गौणत्वमिति । ब्रह्मणो गौणत्वेऽप्यतिक्रमः कथमिति चेत्, 'दुर्लभो दुर्घटश्चैव युष्माकं सुमनोरथ' इति भगवद्वाक्यगत- दुःखांशत्वात् । तेन स्वरूपं विद्वन्मण्डननित्यलीलावादावक्षबृहद्वामनपुराणोक्तं गोपीजनवल्लभं तस्य परिग्रह एतादृशतो न गुर्विच्छया कृतो गुरुवाक्यातिक्रमो नापराधः लीलान्तःपातात् । भाष्ये । ब्रजेति ब्रजस्य परिवृढः प्रभुः । प्रभौ परिवृढः इति पाणिनीयसूत्रात् । तस्य वदनं परमैश्वर्ययुक्तं तस्य वचनानि 'स्वागतं वो महाभागा' इत्यादीनि तेषां किरणाः वचनानां वीचित्वात्, तेषां प्रचारः प्रचरणं तच्च पुष्टिमार्गीयाणामनुग्रहजन्यमिति अनुग्रहजप्रचारेण तद्व्यापारभूतेन प्रोच्छलन् श्रुति- रूपाणां सुखाजन्यज्ञानाधिकभावं कुर्वन् केवलभावाम्भोधिः साधनरहितपुष्टिभावाम्भोधिर्यासां ता ब्रजपरिवृढवदनेन्दुवचनकिरणप्रचारप्रोच्छलत्केवलभावाम्भोधयः । तासां वचनानि 'मैवं विभोऽर्हति भवान् गदितुं नृशंसं सन्त्यज्य सर्वविषयांस्तव पादमूलं प्राप्ता' इत्यादीनि । तान्येव वीचयस्तरङ्गाः । पृष्ठलग्न इति पृष्ठे प्रस्वेदादिना लग्नः पदार्थः । तदर्थं त्यागार्थम् । प्रकृते तथेति भगवद्भावज्ञ आत्रेयः । विष्णोः पुराणे मत्समानधर्मवत्त्वोक्तेः ॥ ४३ ॥ 2100
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५०१ तस्यायमभिसन्धिः । यजमानो हि स्वेष्टसिद्ध्यर्थमृत्विज आदौ वृणुते । प्रकृते च, 'यमेवैष वृणुत' इति श्रुतेः 'तस्मादेकाकी न रमत' इति श्रुतेश्च स्वक्री- डार्थं भगवान् स्वचिकीर्षिततत्तल्लीलानुरूपान् जीवान् वृणुते । 'यूनः स्थविरान् वे'ति विकल्पादेकरूपाणां यथा सोमादिषु वरणम्, तथा सर्वात्मभाववत्त्वेनैकरूपाणा- मेवात्र वरणम् । तत्र यथा स्वीयस्वीयतत्तदङ्गमात्रकरणं तेषाम्, तथेतरसम्बन्धनिवर्त्तनपूर्वकं तद्योग्यसमर्पकत्वमन्न । तदुक्तं भगवता 'यदा पुमाँस्त्यक्तसमस्तकर्मा निवेदितात्मा विचिकीर्षितो म' इति । अत्र पूर्वपदेनेतरसम्बन्धनिवर्त्तनोक्त्या सर्वात्मभाव उक्तो भवति । तदनन्तरमात्मनिवेदने सति तद्विषयकलीलाकरणे- च्छाविषयः सम्भवति । अन्तरङ्गलीलाप्रवेशनमिच्छायां विशेषः । तस्मात् सुष्ठूक्त- मार्त्विज्यमिति । एतेन, 'न वदति न पश्यती'त्यादिश्रुतेर्यथा सोमादौ दीक्षितस्य तथागेतरधर्मनिवृत्तिः, स एव परमो धर्मो यतः, तथा पुरुषोत्तमस्योक्तभक्तैः सह रमणमेव सार्वदिकम्, एतदेव च महन्महत्त्वमिति सूचितं भवति । प्रकृते भक्ता- भाष्यप्रकाशः। आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४४ ॥ औडुलोम्याशयमाहुः तस्यायमित्यादि। यूनः स्थविरान् वेति। सर्वान् यूनः सर्वान् स्थविरान् वा । तत्रेति सोमादियागे । अत्रेति भक्तिमार्गीयलीलायाम् । तत्र सम्मतिमाहुः । तदुक्तमित्यादि 'यदा पुमा'निति वाक्यमेकादशस्कन्धे उनत्रिंशाध्यायेऽस्ति । तद् व्याकुर्वन्ति अत्रेत्यादि। पूर्वपदेनेति 'त्यक्तसमस्तकर्मे'तिपदेनेतरसम्बन्धनिवर्त्तनोक्त्या भक्तिमार्गीयो विगाढभावैकदेशः सर्वात्मभाव उक्तो भवति । न चायं ज्ञानमार्गीय इति वक्तुं शक्यः । अग्रे निवेदितात्मपदात् । तदनन्तरमात्मनिवेदने सति विचिकीर्षितो, निवेदितात्मजीवविषयकलीलाकरणेच्छाविषयः, स निवेदितात्मा जीवो भवति, विचिकीर्षितपदे व्युपसर्गेण अन्तरङ्गलीलाप्रवेशनरूपो विशेष, इच्छायां बोध्यते । एतदुत्तरार्धे तु 'तदामृतत्वं प्रतिपद्यमानो मयात्मभूयाय च कल्पते वै' इत्यस्ति । तदर्थस्तु, यदैवं भवति, तदा अमृतत्त्वं ब्रह्मभावं बह्रद्ययोगोलकन्यायेन प्रतिपद्यमानः सन् मया सह कल्पते, कामाशनसमर्थो भवति च पुनः आत्मभूयाय 'स्वरूपेणावतारेये'ति न्यायेन मदामत्त्वाय कल्पत इति। क्वचित्तु, 'यदा पुमा'नित्यत्र 'मर्त्यो यदे'ति मूले पाठः, तदाऽप्यर्थे न कोपि विशेषः । तदेतत्सूत्रार्थत्वेन निगमयन्ति तस्मादित्यादि । आर्त्विज्यपदमेवं व्याख्याय तत्सूचित- मर्थमाहुः एतेनेत्यादि । एतदेव च महत्त्वमिति । रमणे सार्वदिकत्वमेव च भक्तिमार्गे उत्कर्षः । रश्मिः। आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रीयते ॥ ४४ ॥ त्यक्तसमस्तेति । अभि- प्रेयेति ज्ञेयम् । भक्तीति । कामशाकीयसर्वात्मभावव्यावर्त्तकं विशेषणम् । विगाढेति । विगाढभावः 'ता नाविद'न्नितिश्लोकोक्तः तदेकदेशस्तद्धरमवृत्तिरूपः । उक्त इति तात्पर्यवृत्त्योक्तः । आत्म- निवेदन इति 'श्रवणं कीर्त्तनं विष्णो'रित्यस्मिन् श्लोके पाठक्रमेण कृतात्मनिवेदने । अन्तरङ्गेति भाष्यं विवृण्वन्ति स्म विचिकीर्षितपद इति । इच्छायामिति विषयसप्तम्या इच्छाविषय इत्यर्थः । स्वरूपेणेति अयं न्यायः । निगमयन्तीति । तस्मात्पर्वतो वह्निमान् इति निगमनं यथा तथा निगमयन्ति । आर्त्विज्यपदमिति । वेदान्ते लीलाधर्म आर्त्विज्यम् । ऋतौ यजतीति ऋत्विगिति सूत्रेण साधुः । भाष्ये । सोमादाविति । यागे तथागेतरधर्मा दानपचनादयः तेषां निवृत्तिः। एतदेव च महत्त्वमिति भाष्यप्रतीकम् । अत्र महन्महत्त्वमिति भाष्यपाठः । तत्र 2101
Here is the precise, line-by-line Devanagari transcription of the page:
५०२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० ३ पा० ४ अ० ६ सू० ४५. मायुक्तिवत्त्वेन निरूपणे हेतुत्वेन तात्पर्यान्तरमप्याह । तस्मै यजमानारब्धकर्म- साङ्गत्वाय ऋत्विक् परिक्रीयते वरणेन स्वकार्यमात्रोपयोगित्वाय स्वीयः क्रियते, तथा प्रकृतेऽपि । न च 'कचित् कल्याप्यो दक्षिणा' इति प्रैषवचनात्तदर्थैव तत्प्र- वृत्तिः, अत्र तु स्वतः पुरुषार्थत्वेन भगवदर्था प्रवृत्तिः, अतो वैषम्यमिति वाच्यम् । वीरागस्यापि वरणसमये तत्प्रभस्यावश्यकत्वात्, तथैव दक्षिणादानमपि, अन्य- था निरङ्गत्वापत्तेः । प्रकृतेऽपि भक्तानां स्नेहादेव प्रवृत्तिर्भगवान् स्वानुभवार्थमेव ताननुभावयतीति न वैषम्यम् ॥ ४४ ॥ श्रुतेश्च ॥ ४५ ॥ अथर्वणोपनिषत्सु पठ्यते 'भक्तिरस्य भजनं तदिहामुत्रोपाधिनैराश्येनामुष्मिन् मनःकल्पनमेतदेव च नैष्कर्म्य'मिति । भक्तिमार्गप्रचारैकहृदयो बादरायणः । मानं भागवतं तत्र तेनैवं ज्ञेयमुत्तमैः ॥ ४५ ॥ इति तृतीयाध्याये चतुर्थपादे षष्ठं बहिस्तूभयथेत्यधिकरणम् ॥ ६ ॥ भाष्यप्रकाशः । सूत्रशेषं व्याकुर्वन्ति प्रकृत इत्यादि । तथा प्रकृत इति । चिकीर्षितलीलासाङ्गत्वाय तत्तद्भक्त- वरणमित्यर्थः । स्मृतिषु याजनस्य वृत्तिमध्ये गणनादार्त्विज्ये स्वार्थमेव प्रवृत्तेर्यजनस्य च भगवद- र्थत्वेन तदभावात् तद्वैषम्यमाशङ्कय परिहरन्ति न चेत्यादि । नीरागस्येति याजनेन वृत्तिमनिच्छतः। आवश्यकत्वादिति वैधत्वेनावश्यकत्वात् । तथैवेति वैधत्वेन । अनुभावयतीति लीला अनुभावयति । तथा च यथा तत्र वैधत्वमेव तादृशप्रैषादिप्रवृत्तिप्रयोजकम्, एवमत्र निरुपधिस्नेहः, यथा तत्र तद्भावेन कर्मसाङ्गता, तथात्र स्वलीलानुभावनमतो न वैषम्यमित्यर्थः । तथा च भगवदि- च्छायां सत्यामुद्यमस्य गृहत्यागः कर्तव्यः, अन्यथा तु न कर्तव्यः, यजमानाधीनर्त्विग्वत्तादृशस्य केवलं प्रम्पषीनत्वादिक्षा चानियता, अतो नोक्त इत्यौडुलोमेराशय इति बोध्यम् ॥ ४४ ॥ रश्मिः । महत्त्वे महत्त्वपरिमाणं नास्तीति महत्पदं बाहुलकमित्याशयः । महतो महत्त्वं पूजकत्वं सन्माननमिति षष्ठीतत्पुरुषे तु न बाहुलकम् । वृत्तिमध्य इति अध्ययनमध्यापनदानप्रतिग्रहयजनयाजन- ब्राह्मणवृत्तय इति वृत्तिमध्य इत्युक्तम् । स्वार्थमेवेति । न च यजमानकर्मार्था प्रवृत्तिरिति वाच्यम् । याजनाय स्ववृत्तये प्रवृत्त्यङ्गीकारेण यजमानकर्मार्थत्वाभावात् । तदभावादिति स्वार्थत्वाभावात् । तद्वैषम्यं दृष्टान्तवैषम्यम् । न चेत्यादीति । क्वचित् 'कल्याप्यो दक्षिणा' इति याजने प्रैषवचनात् । सार्थदक्षिणार्यैव तत्प्रवृत्तिः ऋत्विक्प्रवृत्तिः । अत्र तु दार्शन्तिके तु । वैषम्यं दृष्टान्तवैषम्यम् । भाष्ये तत्प्रभस्येति । कल्यापदक्षिणाविषयकप्रैषस्य । निरङ्गत्त्वेति यागस्येति बोध्यम् । प्रकृते । अनुभावयतीति ते लीला अनुभवन्ति तान् लीला अनुभावयतीति हेतुमण्णिच् । स्वलीलेति सप्रतियोगिनिःप्रतियोगिलीलयोर्मध्ये सप्रतियोगिखलीलानुप्रावनं तेन सप्रतियोगिलीलासाङ्गतेत्यर्थः । न वैषम्यं न दृष्टान्तवैषम्यम् ॥ ४४ ॥ 2102
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५०३ भाष्यप्रकाशः । श्रुतेश्च ॥ ४५ ॥ व्याकुर्वन्ति अथर्वणेत्यादि । तथा चात्र विहिताया भक्तेः सन्न्यास- रूपताया उक्तत्वाद् बुद्धिपूर्वकं तत्करणमावश्यकम्, न तु त्यागस्यापि, श्रुतौ तावन्मात्रस्यैव कथना- दिति व्यासमतमित्यर्थः । तेनात्र भक्तिमार्गे साधनपरिपाकदशायां द्विविधः सन्न्यासः अत्यन्त- सिद्धानां विगाढभावस्वाभाव्यादेव प्राप्तः, यथा व्रजभक्तानामतः सोऽवैधः । तत ईषन्न्यूनानां तु विरहानुभवार्थं कर्तव्यः, यथा श्रीमदुद्धवानाम् । स वैधः । 'त्वं तु सर्वं परित्यज्ये'ति, 'मद्भक्तो- वाऽनपेक्षश्च, सलिङ्गान्नाश्रमाँस्त्यक्त्वा चरेदविधिगोचर' इत्यादिवाक्यतः प्राप्तत्वात् । द्वावप्येतौ नाश्रमरूपाविति तूपपादितम्, अतो न कोपि सन्देहः । नन्वत्रान्यैः 'परामर्शा'दि सूत्रेष्व
सा->तद्गत-orतद्गत्-? It is तद्गतसाधनान्तरं(the ga has a ta subscript, or just ga-ta:तद्गतसाधनान्तरं). Wait, look at तद्गत: त द्ग त सा-> wait,द्गfollowed byत्? It says तद्गतसाधनान्तरं: wait, look closely: त द्ग त्सा->तद्गत्साधनान्तरं? No, तद्गत+साधनान्तरं->तद्गतसाधनान्तरं. Let's look at the character: तद्गतसाधनान्तरं. * Then: शमादिरूपमप्यायातीति तत्व्यवस्थांorतद्व्यवस्थां? * Look at तत्व्यवस्थां: त त्त्यorतद्व्य? It's तद्व्यवस्थां! Look at द्व्य: दwithवsubscript:तद्व्यवस्थां! * Line 16: करणमित्याशयेन तदवतारयन्ति ननु यमेवेत्यादि । व्याकुर्वन्ति मर्यादेत्यादि । नान्यापेक्षेति * Line 17:'नायमात्मा बलहीनेन
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५०५ कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४७ ॥ ( ३-४-८ ) ननु 'बहिस्तूभयथे'त्यादिना भगवदीयस्य गृहत्याग आवश्यक इति निरूपि- तम् । छान्दोग्ये तु 'आचार्यकुला'दित्यपक्रम्य, छान्दोग्योपनिषदन्ते 'आचार्य- कुलाद्वेदमधीत्य गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शुचौ देशे स्वाध्यायमधी- यानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्य अहिꣳसन् सर्वाणि भाष्यप्रकाशः। कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४७ ॥ पूर्वाधिकरणोक्तं दृढीकर्तुं किञ्चिदाक्षिप्य समाधत्ते, इत्याशयेन सूत्रमवतारयन्ति ननु बहिरित्यादि । तात्पर्यमाहेति । उक्तश्रुतेस्तात्पर्य- माहेत्यर्थः । श्रुत्यर्थस्तु, आचार्यकुलाद् गुरुगृहात्, गुर्वभावे तत्पत्न्यां तत्पुत्रे तद्गोत्रे वा ब्रह्मचर्य- मिति ज्ञापयितुं कुलपदम् । वेदमधीत्य गुरोः कर्मातिशेषेण गुरोः सेवारूपं यत्कर्म तत् कृत्वा, ततोऽतिशेषोऽवशेषो यः कालस्तेन कालेन वेदाध्ययनं साङ्गं सरहस्यार्थज्ञानपुरःसरं कृत्वा, अभिसमावृत्य जिज्ञासाङ्गयज्ञसमापनोत्तरमाचार्यकुलाद्भिगत्य दारानाहृत्य कुटुम्बे स्थित्वा, गार्हस्थ्यविहिते कर्मणि तिष्ठन्, शुचौ देशे स्वाध्यायमधीयानो विविक्ते स्वाध्यायब्राह्मणोदितप्रकारे पवित्रे देशे यथावदासीन आवृत्तिसधीतस्य कुर्वन्, धार्मिकान् विदधत् पुत्रान् शिष्यांश्च शिक्षणेन धर्मशीलान् कुर्वन्, आत्मनि सर्वेन्द्रियाणि सम्प्रति- ष्ठाप्य हार्देऽन्तर्यामिणि परे ब्रह्मणि बाह्याभ्यन्तरेन्द्रियाणि सम्यक् स्थापयित्वा, 'ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठती'ति न्यायेन तमेव शरणत्वेन ज्ञात्वा कर्माणि तत्र सन्न्यसेदिति यावत् । अहिं- रश्मिः । कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ४७ ॥ पूर्वेति । बहिस्तूभयथेत्यधिकरणोक्तम् । साङ्गमियादि । 'साङ्गो वेदोऽध्येयो ज्ञेयश्चे'ति श्रुतेरुक्तम् । यद्वा । आचार्यपदादार्याचर्यलक्षणनिविहर- हस्तदङ्गेऽधीतेतिशब्देनोपलक्ष्यते । जिज्ञासाङ्गयार्थगमनरहितं समावर्तनमभिसमावर्तनम् । गार्हस्थ्यविहित इति कुटुम्बविशेषणम् । सम्प्रतिष्ठाप्येत्यत्र समुपसर्गार्थमाहुः हार्द इति । जीव उपासनानिषेधान् मानसीन इत्युक्तम् । हार्दपदेन 'यो मनसि तिष्ठन् मनसोऽन्तरो यं मनो न वेद यस्य मनः शरीरं यो मनोऽन्तरो यमयति स त आत्मान्तर्याम्यमृत' इतिश्रुत्युक्तेऽन्तर्यामिणि । तत्रापि प्रत्येकपर्यवसितरूपव्यावृत्त्यर्थं ब्रह्मणीति तद्व्यावृत्त्यर्थं पर इति । अत्र हार्द इति विशेष्यम् । इदं हार्दं प्रकटं बोध्यम् 'धार्मिकान् विदध'दित्युक्तत्वात् धर्मेण चित्तशुद्धौ भक्त्याविर्भावात् । सम्यगिति । निरोधलक्षणग्रन्थोक्तरीत्या । अनिरुद्धैस्तु सिद्धान्तमुक्तावत्युक्तरीत्या । तथा च श्रुतिः 'इन्द्रियाणि जुह्वती'ति । गीतापि । यद्यप्येव मुख्यत्वात् तथापि निरोधस्य दानसाध्यत्वादाचार्य सन्दर्शितागमप्रकारेनाडुः । ईश्वर इति । शरणत्वेनेति । 'शुद्धाश्च सुस्खिनश्चैव ब्रह्मविद्या- विशारदाः । भगवद्भजने योग्या नान्य इत्यर्थतः फल'मिति प्रथमसुबोधिनीकारिकायां 'ब्रह्मविद्या- विशारदा' इत्युक्तेरुक्तशमदमादिसूत्रोक्तशमदममुमुक्षावैराग्यप्राप्त्या मुमुक्षुकार्य शरणगमनं श्रुतत्वादत्र १. छान्दोग्य इत्यारभ्य इदं विषयवाक्यमित्यन्तं श्रीहस्ताक्षरलेखितमूलपुस्तके नास्ति, तथापि प्रकाशकारैर्व्याख्यात- त्वादस्मदन्वेषणावसरेऽनु दृश्यमानत्वाच्चात्र निवेशितम् । ६४ ब्र० सू० २ ० 2105
५०६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० ३ पा० ४ अ० ८ सू० ४७. भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते । न स पुनरावर्तते न स पुनरावर्तते' । इदं विषयवाक्यम् । 'ब्रह्मलोकमभिसम्पद्यत' इति गृहिणोपसंहारः कृतः । वाजसनेयिशाखायां वै 'तद्ध स्म वै तत्पूर्वे ब्राह्मणा अनूचाना विद्वांसः प्रजां न कामयन्त' इत्युपक्रम्य 'अथ भिक्षाचर्यं चरन्ती'ति पठ्यते । एवं सति विकल्पे सम्भवत्युपसंहारस्य तात्प- र्यग्राहकत्वाद् गृहिण एव यथोक्तकर्तुर्ब्रह्मसम्पत्तिरिति श्रुतेस्तात्पर्यम् । त्यागोक्तिस्तु ऽसौ तादृशो यदर्थं सर्वं त्यज्यत इति स्तुतिपरेति प्राप्ते, गृहिणोपसंहारे हेतुत्वेन ता- त्पर्यमाह कृत्स्नेति । त्यागे वाङ्मनसोरेव भगवति विनियोगः, न सर्वेन्द्रियाणाम
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ५०७ कृतकृत्यता भवतीति तेनोपसंहारः कृत इत्यर्थः । अत एव 'आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्ये'त्युच्यते । अत्र, आत्मपदं भगवत्परमिति ज्ञेयम् । कर्ममार्गीणगृहि- व्यवच्छेदार्थ तुशब्दः । अत्रेदमाकूतम् । 'भक्तिमार्गो बहुविध' इति कपिलदेववाक्यात् केचन भक्ताः स्वगृहेष्वेव स्नेहेन भगवदाकारे विविधोपचारैः सेवां कुर्वन्तस्तथैव निर्वृत्या मुक्ति- मपि तुच्छां मन्यन्ते । तदुक्तं 'मधुद्विट्सेवानुरक्तमनसामभवोऽपि फल्गु'रिति । तेन भगवद्भजन एव, तत्रापि पुष्टिमार्ग एव, श्रुतेर्भर इति ज्ञायते । पूर्वमुक्तद्भग- वद्भाववतां तदर्थं त्यागं निरूप्य, गृहिणोपसंहारतात्पर्यं पश्चाद् यन्निरूपितवान्, तेन तादृग्भाववतैव त्यागः कार्यः, तद्रहितेन तु गृह एवोक्तरीत्या प्रभुभजनं कार्यम्, तेनैव तल्लाभ इति व्यासहृदयमिति ज्ञायते । उक्तभावाभावे त्यागधर्मानिर्वाहा- दिति । केचन भक्ता भाषणादिलीलादर्शनं विना स्थातुमशक्ताः प्रादुर्भावविव- क्षाशाया गृहाँस्त्यक्त्वा वनं गच्छन्ति । आत्रेयौडुलोमिभ्यां तु भगवदवतारसाम- भाष्यप्रकाशः। च सार्थक्यम् । तेनेति । गृहिणा । एवं तात्पर्यं गमकमाहुः अत एवेत्यादि । कर्ममार्गी- णेति । जैमिनीयेतन्त्रविचारितेत्यर्थः । ननु पूर्वाधिकरणे त्यागं निरूप्य, यदत्र गार्हस्थ्यं प्रशंसति, तत्किमित्याकाङ्क्षायामाहुः अत्रेदमित्यादि । भक्तिमार्गो बहुविध इति कपिलदेववाक्यादिति । 'भक्तियोगो बहु- विधो मार्गैर्भामिनि भाव्यते । स्वभावगुणभेदेन पुंसां भावो विभिद्यत' इति कपिलदेववाक्याद्- भक्तिमार्गो बहुविध इत्यन्वयः । तदुक्तमिति 'यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्राच्यां श्रियं सुरवरैः सदवावलोकाम् । नैच्छन्नृपस्तदुचितं महतां मधुद्विट्सेवानुरक्तमनसामभवोपि फल्गु'रिति पञ्चमस्कन्धे भवाटवीसमाप्तौ शुकेनोक्तम् । तथा च भरतस्य राज्ञद्दशायां तथाभावस्योक्त- त्वाद्वन्यस्यापि गृहिणस्तथाविधत्वे तथात्वमित्यर्थः । तेनेति । गृहिणोपसंहारे आत्मनि सर्वे- न्द्रियसम्प्रतिष्ठापनादिकथनेन । श्रुतितात्पर्यं निरूप्य व्यासतात्पर्यं निरूपयन्ति पूर्वमित्यादि । तल्लाभ इति । भगवत्प्राप्तिः । उक्तभावाभावे त्यागधर्मानिर्वाहादिति । विगाढभावाभावे 'स एवावस्ता'दित्यादिनोक्तस्य सर्वत्र तद्द्वानरूपस्य त्यागधर्मस्य मध्ये विच्छेदेन सर्वदा स्थैर्या- रश्मिः। न पुनरावर्तत' इत्यस्य । जैमिनीयेति । पूर्वतन्त्रविचारितगृहिण्व्यवच्छेदार्थ । यद्याहुः महाभाष्ये 'दम्पत्योः सहाधिकार' इति । पाठान्तरमाहुः भक्तियोगो बहुविध इति । भगवदाकार इति । भगवत्स्मरणं त्रैधा भवति, 'यमादिभिर्योगपथैरान्वीक्षिक्या च विद्यया । मदर्चोपासनाभिर्वा नान्यैर्योोग्यं स्मरेन्मन' इत्येकादशे विंशाध्यायवाक्यात् । अत्र 'शङ्खचक्रे मृदा यस्तु कुर्यात् तप्तायसेन वा । स शूद्रवद्बहिष्कार्यः सर्वस्माद्द्विजकर्मण' इत्यत्र शङ्खचक्रनिषेधस्य तप्तायसे पर्यवसानवद् योग्यस्म- रणस्य भगवदर्चोपासनायां पर्यवसानात् । तथात्वमिति । उक्तभाववत्त्वम् । गृहिणोपसंहार इति । गृहिणा विद्योपसंहारे । पूर्वमित्यादीति । बहिस्तूभयथेत्यधिकरणे । तदर्थमिति । भगवद- र्थम् । मर्यादां सहलात् त्यक्त्वा पुष्टिमाहुः । विगाढेति । इदं लिङ्गभूयस्त्वाधिकरणे स्पष्टम् । त्यागधर्मस्येति । त्यागः सर्वात्मभाव इति श्रीहरिरायजितः । तस्य धर्मश्चरमधूचिस्तस्य । 2107
यिकभक्तदशोक्ता । एते सर्वे फलमार्गीयाः । वाजसनेय्युक्तास्तु साधनमार्गीया इति नानुषपत्तिः काचित् ॥ ४७ ॥ मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥ किञ्च । सन्न्यासिन आवश्यका ये धर्मास्ततोऽधिकास्ते गृहिणः सिद्ध्यन्ती- भाष्यप्रकाशः। भावात् । ननु यद्येवं दौर्लभ्यम्, तदा तत्कथनमाशक्योपदेशरूपत्वादप्रयोजनकं, अतो न वक्तव्य- मेवेति किमित्युक्तमत आहुः केचनेत्यादि । तथा च दौर्लभ्येपि तत्सत्तास्तीत्यतस्तदनूदितम् । अतस्तादृशाधिकारे भगवत्कृपया सम्पन्ने तत्कर्तव्यताबोधनार्थं तत्कथनमित्यर्थः । नन्वात्रेयौ- डुलोमिभ्यामेतादृशदशासम्पत्तौ गृहत्याग उच्यते, वाजसनेयके तु 'किं प्रजया करिष्यामो येषां नो एवायमात्मा नायं लोक' इति श्रावणादात्मलोककामनामात्रे बोध्येते इति ताभ्यामुक्तं श्रुति- विरुद्धम्, किञ्च, ये लीलादर्शनार्थं वनं गच्छन्ति, ते भगवदागमने पुनरायान्ति, न तु वन एव स्थित्वा सन्न्यासिसिधर्मानतिष्ठन्तीत्यतोपि तच्छ्रुतिविरुद्धम्, अतः कथं श्रौते विचारे एवं तन्मतो- पन्यास इत्यत आहुः । आत्रेयेत्यादि । एते सर्वे यदीया दशा ताभ्यामुक्ता, ते सर्वे भक्ताः फलमार्गीयाः, मार्ग उपायः । फलमेव मार्गो यत्रासौ मार्गः फलमार्गस्तत्सम्बन्धिनः । यथा गोपालतापनीयोक्ता गान्धर्वीप्रभृतयः । तथा च फलरूपो भगवान्नेव स्वस्वरूपं ताननुभावयतीति भगवत्कृपाविशिष्टयैवेच्छया तेषां सर्वेन्द्रियव्यापाराः । वाजसनेयिनां कहोडब्राह्मण उक्तास्तु साधनमार्गीयाः । साधनं शमादिविशिष्टं ज्ञानमेव मार्ग उपायः फलप्राप्तौ यत्रासौ साधनमार्गस्त- त्सम्बन्धिन इति तत्तदधिकारिभेदेन तथा तथा कथनान्न पूर्वोक्ता श्रुतिविरोधरूपा काप्यनुप- पत्तिरित्यर्थः ॥ ४७ ॥ मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥ सूत्रमवतारयन्ति किञ्चेत्यादि । व्याकुर्वन्ति मौनपदमित्यादि । यद्यपि मुनेर्भावो मौनमिति योगेन विचारात्मकं ज्ञानमप्यादातुं शक्यते, रश्मिः। अतोऽवक्तव्यमिति । अतः अवक्तव्यमिति छेदः । आत्मेति । आत्मा च लोककामना चात्म- लोककामने ते एवात्मलोककामनामात्रे बोध्येत । तन्मतेति । आत्रेयौडुलोमिमतोपन्यासः। फलसा- धनयोः सामानाधिकरण्यमाहुः मार्ग उपाय इति । फलमार्ग इति । प्रमेयबलमिति यावत् । गान्धर्वीति । प्रभृतिपदेन व्रजस्त्रियः । 'तासां मध्ये श्रेष्ठा गान्धर्वी ह्युवाचे'ति श्रुतेः । एते प्रमेयबलेन युक्ता इति प्रमेयबलरूपफलमार्गसम्बन्धिनः, तदाहुः तथा चेति । भगवानेवेति । फलमेव, एवकारेण तदतिरिक्तसाधनव्यवच्छेदः । भगवत्कृपेति । भगवदिच्छा, फले साधनांश इति शेषः । कृपाविष्ठः साधनमित्याचार्योक्तेः । भगवत्कृपाविशिष्टयेच्छयेति न समस्तं पदम् । इच्छायां कृपाविशिष्टत्वाभावात् । विशिष्टयेति । ब्रह्मह्रदं नीतानामपि सर्वेन्द्रियव्यापारा भवन्त्विति विशिष्टेच्छा तया । एवकारेण साधारणेच्छायोगव्यवच्छेदः क्रियते । भक्तमनोरथपूरकत्वेन रूप- भेदात् । वाजसनेयीति भाष्यं विवृण्वन्ति स्म वाजसनेयिनामिति । साधनमित्यादि । 'ब्रह्मविदाप्नोति पर'मित्यत्र ब्रह्मविदित्यत्र ज्ञानम् । तत्सम्बन्धिन इति । प्रमाणबलिनः । पूर्वो- क्तेति । सूत्रारम्भोक्ता । श्रुतिस्तु 'एतद्ध स्म वै' इति ॥ ४७ ॥ मौनवदितरेषामप्युपदेशात् ॥ ४८ ॥ रूढमिति । यौगिकमित्युक्ते विचारात्मकज्ञान-
स्यपि हेतोस्तेनोपसंहारः कृत इत्याशयेनाह मौनवदित्यादि । मौनपदमनीहा- निलायामादित्रिदण्डधर्मोपलक्षकम् । यथा वागिन्द्रियमात्रदेहमात्रवित्तमात्रनि- यामकास्ते धर्मा उक्ता न्यासिनः, तथेतरेषामपीन्द्रियनियामकानां धर्माणां 'आत्मनि सर्वेन्द्रियाणि सम्प्रतिष्ठाप्ये'ति श्रुत्या गृहिण उपविश्यन्त इति युक्तो गृहिणोपसंहार इत्यर्थः । तत्र नियमनमात्रम्, अत्र तु भगवति विनियोगात् आधिक्यमिति भावः । वस्तुतस्तु केवलनियमनस्याप्रयोजकत्वात् तत्रापि भग- वति विनियोग एव तात्पर्यमिति ज्ञेयम् ॥ ४८ ॥ अनाविष्कुर्वन्नन्वयात् ॥ ४९ ॥ ननु भगवति सर्वेन्द्रियविनियोगात् गृहिणोपसंहार इति न युज्यते, 'शुचौ देशे स्वाध्यायमधीयान' इत्यादिकर्ममार्गीयसाधनश्रुतेरित्याशङ्क्य, तत्तात्पर्यमाह अनाविष्कुर्वन्निति । भगवद्भावस्य रसात्मकत्वेन गुप्तस्य