भारतकोश
संग्रह पर लौटें

अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)

Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा

DevanagariHindipublished2,600 पृष्ठ

४८० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ८

रश्मिः ।

प्रकृतिजन्यबोधे प्रकारो भावः इति वृत्तिस्थानापन्नग्रन्थातिक्रमः शङ्क्यः । सत्ताया एव प्रकृतिजन्यबोधे प्रकारत्वात् । न च विशेषत्वघटत्वादीनां प्रकृतिजन्यबोधे प्रकारत्वं न सत्ताया इति वाच्यम् । भावे त्वतलोर्विधानाद्विशेषत्वघटत्वादीनां विशेषघटादिसत्तानतिरेकात् । अनवच्छिन्नत्वं विशेष इति न ध्याकृतम् । मायिनं तु महेश्वरमिति श्रुतेः, 'विद्याविद्ये मम तनू विद्ध्युद्धव शरीरिणाम्' इति वाक्याच्च मायानवच्छिन्नत्वाभावात् । 'इन्द्रो मायाभिः पुरुरूप ईयते' इति श्रुतौ मायेन्द्रियाणि इति निबन्धेस्ति । न चेन्द्रियानवच्छिन्नत्वं विशेषः प्रकृतेस्त्विति शङ्क्यम् । चक्षुषश्चक्षुरित्यादिश्रुतेः । अत्र चक्षुराद्यभिन्नं ब्रह्मेति प्रथतया प्रतिपादनादनवच्छिन्नत्वं सुस्थिरमिति शङ्क्यम् । कर्णशष्कु- ल

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८१ भोगाभाव एव । अग्रिमाधिकरणविरोधात् । यथेन्द्रियाधिष्ठातृदेवानाम् । तत्त्व- मस्यादिवाक्येन जीवस्यापि तथात्वे तस्यापि तद्द्देव भविष्यति ॥ ८ ॥ इति प्रथमाध्याये द्वितीयपादे द्वितीयं शब्दविशेषाधिकरणम् ॥ २ ॥ भाष्यप्रकाशः । यथेत्यादि । तथाचानुमानमेव मानमिति भोगप्राप्तावपि न जीवतौल्यापत्तिरित्यर्थः । नन्वेवं सति जीवस्य कुत उभयभोग इत्यत आहुः तत्त्वमसीत्यादि । तथाच ब्रह्मभावाभावेन कामकर्मा- दिवशगतत्वाद् बन्धदशायां तथेत्यर्थः । तथाच तदभावायैव साधनानां विधानमिति भावः । तदेतत्रासङ्गिकमुक्तम् । अन्यच्च पूर्वाधिकरणेऽन्तर्हृदयवर्तमानस्यान्तर्यामित्वे निश्चायितेऽपि पुनरस्मिन्नधिकरणे यत्तत्तात्वप्रतिपादनं तत्तदाकारनिश्चायनार्थम् । यथा कौण्डपायिनां सत्रे, मासमग्निहोत्रं जुहोतीत्य- त्राग्निहोत्रशब्देन नित्याग्निहोत्रधर्मा अतिदिश्यन्ते । तथा, हिरण्मयः पुरुष इति शब्दाभ्यामन्तस्त- रश्मिः । इति वाक्यात्तथा च नृसिंहोत्तरतापनीयश्रुतिः आनन्दभुग् इति । बृहदारण्यकेपि 'यद्य- देवास्सृजत तत्तदत्तुमप्रियत सर्वं वा अत्तीतीति नैवेह किंचनाग्र आसीत् मृत्युनैवेदमावृतमासीत्' इत्युपक्रमेऽग्रपदेन 'कालोस्मि लोकक्षयकृत्प्रवृद्धः' इति गीतोक्तकालेऽभावसत्त्वं नासीदित्यनेनोक्तवे- दपदवाच्याश्रयश्चोक्तः । तन्मनोकुरुतेति श्रुतौ त्यदादीनामुत्सर्गत्तः प्रधानपरामर्शकत्वात् 'ॐतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः' इति श्रीगीतातोग्रपदवाच्यकालात्मकं ब्रह्म तत्पदेनोच्यते इह पदवाच्याश्रयो वोच्यते न मृत्युरूपतृण्वार्थग्रहणाच्च । अपेक्षित एवेत्यादीति । इदं न प्रती- कम् । नियम इति । अपेक्षित एवेत्यवधारणे । यथेत्यादीति 'अन्तर्याम्यधिदैवादिषु तद्धर्म- व्यपदेशात्' इति वक्ष्यमाणाधिकरणे इन्द्रियाधिष्ठातृदेवानां भोगो वक्ष्यते । तथा चेति वैशेष्यादिति हेतुप्रकारेण यथेत्यादिभाष्योक्तदृष्टान्तप्रकारेण चेत्यर्थः । प्रकारवचने थाल् तच्छब्दात् । अनुमानं तु ब्रह्म अपेक्षितभोगवत् सर्वरूपादिमत्त्वात् इन्द्रियाधिष्ठातृदेववदित्यत्र पक्षे साक्षाद्धेतुस्साध्ये दृष्टान्ते तु इन्द्रियाधिष्ठातृदेवेषु परंपरयेति विवेकः । एवं सतीति हृदयदेशे वर्तमानत्वे ब्रह्मां- शत्वे च सति उभयसापेक्षितानपेक्षितस्य । व्यतिरेकमुखेन भाष्यं व्याचख्युः तथा चेति । तथेति उभयभोगवत्त्वप्रकारेण । जीवस्यापि तथात्वे ब्रह्मभावे ब्रह्मवदेव भोगो भविष्यतीति भाष्यार्थः । तदभावायेति बन्धदशाभावाय । अधिकरणार्थमुपसंहरन्ति स्म तदेतदिति । अधिकरणम् । वाक्यान्तरेपीदं सूत्रं योज्यम् । यत्पूर्वसूत्रसमासावेवं चाणुत्वबोधकैरित्यादिना सूत्रस्य पूर्वशेषत्वमुक्तं तदन्येषां सूत्राणामुभयाधिकरणशेषत्वमाह नाधिकरणप्रयोजनमाहातस्तदाहुः अन्यच्चेति । पूर्वाधिकरण इत्यन्तस्तद्धर्मोपदेशादित्यधिकरणे । तत्तदेति तस्यान्तर्यामिण आकारनिश्चा- यनार्थम् । कौण्डपायिनामिति अन्तस्तद्धर्माधिकरणविषयवाक्योक्तस्य हिरण्मयपुरुषस्य य आकारस्त- स्यातिदेशार्थम् । एतच्च सप्तमस्य तृतीयपादे पूर्वतन्त्र उक्तम् । 'क्रियाभिधानं तच्छ्रुतावन्यत्र विधिप्रदेशः स्यात्' इत्यधिकरणे चिन्तितम् । अग्निहोत्रशब्दो न नामधेयं किं तु प्राथमिकामिहोत्रधर्माणामतिदेशक इति अग्नये होत्रं यस्मिन् कर्मणि तत्कर्माग्निहोत्रम् । अत्राकारसमर्पकं तु पूर्वाधिकरणभाष्यमेव तस्मादानन्दरूपप्राणशरीररूपो वाक्यार्थ इति । अन्तस्तद्धर्मोपदेशादित्यधिकरणभाष्यं च । अनन्त- 481

४८२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ८ भाष्यप्रकाशः । धर्माधिकरणविषयवाक्योक्तहिरण्मयपुरुषाकारातिदेशार्थमिदमधिकरणमिति मम प्रतिभाति । यदत्र शैवः, प्रसिद्धोपदेशाधिकरणं द्विसूत्रमङ्गीकृत्य अविनाभावरूपादैतोपगमेन विशिष्टा- द्वैतवादं चानुसृत्य, सर्वं खल्विदं ब्रह्मेति वाक्येक्तोपासनायां ब्रह्मणः सर्वात्मकत्वोपपादनायाऽथ- र्वशिरोवाक्यानि 'अहमेकः प्रथममासं वर्तामि च भविष्यामि च, नान्यः कश्चिन्मत्तो व्यतिरिक्तः' इत्यादीन्युदाहृत्य ब्रह्माहमित्यादिना विश्वरूपत्वमात्मन प्रपञ्चयित्वा विश्वरूपत्वे सोऽन्तरादन्तरं प्राविशदित्यनुप्रवेशमेव हेतुत्वेनाह । तदसङ्गतम् । एको ह वै नारायण आसीन्न ब्रह्मा न ईशान इति रश्मिः । मित्यनन्तमूर्तिता च प्रतिज्ञातेति । शैव इति भगवानिति शेषः । अविनेति 'अहमेकः प्रथममासे' इत्यादिश्रु- तिविचारेण सिद्धमविनाभावरूपादैतं तस्योपगमेन । 'अस्मान्मायी सृजते विश्वमेतत् तस्मिंश्चान्यो मायया सन्निरुद्धः' 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' । इत्यादिश्रुतिषु अचिद्वस्तुचिद्वस्त्वीश्वराणां यथायथं भोग्यत्वभोक्तृत्वनियन्तृत्वैः स्वरूपविवेकात्त्रयोपि भिन्नाः, माया च तमोरूपा । तमः परे देव एकीभवतीत्यविभागापत्तिदशायां विभागव्यपदेशानर्हरूपेण ब्रह्मण एवावस्थानाद् विशिष्टाद्वैतवादं चानुसृ- त्येत्यर्थः । तृतीयाधिकरणे प्रथमपादे रामानुजमतनिरूपण उक्तम् । तथापि शैवस्तु रामानुजमतसैव चौरो माध्वमतस्य क्वचित्क्षुद्रुद्रांशामेव श्रुतिमुदाहरन् भिन्नं प्रस्थानमभिमन्यते इति चतुर्थाधिकरणप्रकाशादे- तन्मतेप्यविरुद्धम् । विरुद्धा वा श्रुतिस्तद्भाष्ये द्रष्टव्या आसमासीदिति क्वचित्पाठः वर्तामीति पदव्य- त्ययश्छान्दसः अत्र धातुत्रयमुत्पत्त्यर्थकमिति प्रहस्ते मध्यमवादे इत्यादीनीति । आदिपदेन इति सोन्तरादन्तरं प्राविशत् दिशोन्तरं प्राविशदिति श्रुतिसंग्रहः । ब्रह्माहमित्यादिनेति । नन्वयं प्रकाशो- शोभनः । अथर्वशिरसि सोहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्माब्रह्मेतिश्रुतौ अब्रह्मेतिपदच्छेदादिति चेन्मैवम् । अत्राब्रह्माहमित्यकाराभावो लेखकप्रमादात् अब्रह्माहमित्यादि सोहं नित्यानित्यो व्यक्ता- व्यक्तो ब्रह्मेति तदब्रह्माहमित्यादि । अब्रह्माहमित्यादि यस्य तदब्रह्माहमित्यादि तदब्रह्माहमित्यादि च तदब्रह्माहमित्यादि च तयोः समाहारः तदब्रह्माहमित्यादि तेन तदब्रह्माहमित्यादिना सरूपैक्यशेषः तस्मात् । यद्वा सोहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्मा अत्र ब्रह्म आ इति च्छेदः अब्रह्मपदार्थस्याभावात् । न च प्रायपाठविरोधः । सावित्र्यहमित्यादौ मिथुनाभावात् न च आ ब्रह्मेति पदच्छेदः 'आब्रह्म- भुवनाल्लोकाः पुनरावर्तिनोर्जुन' इतिवाक्ये तादृशपददर्शनादिति वाच्यम् । तथा सति ब्रह्मव्याप्या- हमित्यर्थो भवति तदर्थस्याङोऽभावेपि प्रत्ययाद्गौरवात् । ब्रह्माहमित्यादिनेति भाष्यप्रकाशाच्च । तथा च सोहं यः प्रवेशकर्ता सोहं नित्यो सोऽपि अनित्यश्च तथा सोऽ व्यक्तः ब्रह्म आ । नित्यः स्वरूपतः अनित्य आविर्भावतिरोभाववान् 'आविर्भावतिरोभावौ शक्ती वै मुरारिणः' इति वाक्यात् व्यक्तो भक्तेच्छया प्रकटागणितानन्दः 'अव्यक्तोक्षर इत्युक्तः' इतिगीतावाक्यात् अक्षरवाचकाव्यक्त- पदसमभिव्याहारात् 'अक्षरादपि चोत्तम' इतिवाक्याच्च अव्यक्तोक्षर उक्तवाक्यात् ब्रह्म आ इति श्रुतिस्मरणे आ तदुक्तं श्रीभागवते 'सत्यं ज्ञानमनन्तं यद्ब्रह्म ज्योतिः सनातनम्' 'इति रसो वै सः' इति श्रुतिश्च । एतद्विश्वरूपत्वपृथक् । 'यथोर्णनाभिः सृजते गृह्णते च यथा पृथिव्यामोषधयः संभवन्ति । यथा सतः पुरुषात्केशलोमानि तथाक्षरात् संभवतीह विश्वम्' ॥ इति । मुण्डकेऽक्षरस्योर्णनाभिदृष्टान्तैरुक्तरूपत्वात् वक्ष्यते चादृश्यत्वादिगुणको धर्मोक्तेरित्यधिकरणे । ननु सोहमित्यभेदमभ्यन्तरा भूतग्रामवदिति सूत्रविरुद्धसोपादानात् ज्ञानमार्गीयाक्षररतस्य विस्रम्भिस- 482

महोपनिषदि सृष्टिप्राक्काले ईशानासत्तानिषेधेनाऽत्रत्यास्तित्वर्ततिभवतीनां ससार्थकत्वस्य वक्तुम- शक्यतया, 'यस्याहं हृदयादासं स ईशो विदधातु मे', 'ततो युद्धमवर्तत', 'नन्दपत्न्यां भविष्यसि' इत्यादिविभजनार्थस्यैव प्राप्तत्वेन प्रतिकल्पं प्रथमोत्पत्तिबोधकतया, नान्यः कश्चिन्नचो व्यतिरिक्त इत्यस्यापि, नासीद्वर्तते भविष्यति चेति पुरुषविपरिणामेन तास्वेव क्रियास्वन्वयस्य युक्तत्वेन रुद्राविनाभावरूपार्थेताबोधकतया वक्तुमशक्यत्वात् । नच, सोऽहं नित्यानित्यो व्यक्ताव्यक्तो ब्रह्माहमित्यग्रिमसंदर्भ विश्वरूपत्वस्य खस्मिन् प्रपञ्चनात् तत्सिद्धिरिति वाच्यम् । महोपनिषदु- क्तनिषेधेन सिद्धे तत्रासद्भावे वामदेववच्छास्त्रदृष्ट्या ब्रह्मदृष्ट्या वाहंपदप्रयोगाद्रुद्ररूपेणाविनाभाव- स्यासिद्धेः । नापि, सोऽन्तरादन्तरं प्राविशदिति प्रवेशोक्त्या तत्सिद्धिः शङ्क्या । स प्रसिद्धः इतिश्रुतिव्याख्यानमस्तु इति चेन्न ज्ञानेन भक्त्येति श्रुत्योक्तसूत्रभेदेप्यभेदस सत्त्वात् । 'व्यतिहारो विशिंषन्ति हि' इतिसूत्रात् । ननु तथापि भक्त्याविरहेण कुतः संयोगं विहायेति चेन्न । विरहे आन्तरस्य परमफलत्वात् तथा चेश्वरो भक्त्येति भक्तिर्मुख्या युक्ता सर्वात्मभावरूपा तस्यां योहं- कारादेशो 'लिङ्गभूयस्त्वात्तद्धि बलीयस्तदपि' इत्यधिकरणे सोपि युक्तः । एवं च ब्रह्माहमित्यादिना विश्वरूपत्वभात्मनः प्रपञ्चयित्वेति भाष्यप्रकाशः शोभनोस्त्येवेति । भावाद्वैतविरुद्धमिव मन्यमानाः 'सदेव सोम्येदमग्र आसीत्' इति श्रुतिविरोधं मत्वा ज्ञानेन भजत्यनुगृह्णाति चेति श्रुतिविरुद्धं च जानन्ते ईक्षत्यधिकरण इदमित्यतया निरूपणाविषयतयेनोक्तादन्यं रुद्राधिकधर्मवन्तं श्रीविष्णुं नारायणं निरूपयामासुः एको हेत्यादिना । अत्रत्येति अत्रत्यानां अस्तित्वर्तति भवतीनामत्रोत्तरपदे इक्शितिपौ धातुनिर्देशे इति सूत्राद्धातुनिर्देशे इक्शितिपौ कृतद्धितसमासाश्चेति सूत्रेण प्रातिपदिकसंज्ञायां द्वन्द्वः । मन्येति जन्मप्रकरणेस्ति । इत्यस्या इतिश्रुत्याः । युक्तत्वेनेति अध्याहारदोषाभावायेति भावः । अशक्यत्वादिति अविभक्तं च भूतेषु विभक्तमिव च स्थितमिति त्रयोदशाध्यायगीतात् । 'कार्यकारणवस्त्वैक्यमर्पणं पटतन्तुवत् । अवस्तुत्वाद्विकल्पस्य भावाद्वैतं तदुच्यते' ॥ इति सप्तमस्कन्धाच्च तथा । विश्वरूपत्वमिति । 'भूतं आदिर्मध्यं भुवस्ते खस्ते शीर्ष विश्वरूपोसिमग्न' इतिश्रुत्या खस्मिन् प्रपञ्चनात् तस्याविनाभावस्य सिद्धिः । तस्येति श्रीरुद्रस्यासद्भावं सर्वप्रथमसत्ताकत्वं ब्रह्मत्वं तदभावोऽब्रह्मत्वं तस्मिन् । वामदेवेति शास्त्रदृष्ट्या तूपदेशो वामदेववत् इतिसूत्रे प्राणस्तथानुगमादित्यधिकरणे स्पष्टम् । शास्त्रदृष्ट्या ज्ञानावेशात् सर्वधर्मस्फूर्तिः वामदेवस्य । ब्रह्मदृष्टिस्तु अहं ब्रह्मेत्याद्यैक्यं ज्ञानम् । तदत्र सोहमिति । असिद्धेरिति ननु तदेतद्रुद्रचरितमिति श्रुतेः रुद्ररूपेणाविनाभावोस्त्वन्यथा श्रुतिविरोध इति चेन्न । श्रुतावेतत्पदात्समीपतरवर्तिनोर्यस्य रुद्रचरित- त्वात् । तथा च श्रुतिः अथ कस्मादुच्यते भगवान् महेश्वरो यस्माद्भक्त्या ज्ञानेन भजन्त्यनुगृह्णाति च वाचं संसृजति विसृजति च यः सर्वान् भावान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान् महेश्वरः तदेतद्रुद्रचरितमिति । अथाथशब्दो भिन्नप्रक्रमे इत्येतच्छब्दो रुद्रचरितत्वं भक्तचरिते नियमयति । ननु 'समीपतरवर्तिनि चैतदो रूपम्' इति कोशे तरप्प्रत्ययान्तं समीपपदं न तमप्प्रत्ययान्त- मिति रुद्रचरितत्वं भक्तचरिते ततोन्यत्रापि भवतु इति चेन्न एवमप्यहमेकमासमित्यादिप्रश्रुत्युक्तस्य रुद्र- चरितस्याश्रवणात् दूरत्वेन चरितस्य प्राप्तत्वात् । स इति यद्यपि देवैः पृष्टो रुद्रस्तत्पदेन परामर्शं योग्य-

४८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ८ भाष्यप्रकाशः। परमात्मा अन्तरादन्तरं दहरपुण्डरीकं प्राविशदतस्तद्भेददृष्टित्वात् तथेत्यर्थात् । अन्यथा प्रथम- पुरुषादिप्रयोगविरोधापत्तेरिति । किंवाविनाभावरूपाङ्गतोपगमस्य चिदचिदीश्वरभेदसिद्धिसापेक्ष- त्वेन, 'सदेव सौम्येदमग्र आसीत्' इत्यादि श्रुतिविरुद्धत्वस्य प्रागेवोपपादितत्वेन तदादरस्याप्यसंग- तत्त्वमेवेति दिक् । यदप्यनुपपत्तेस्तु न शारीर इत्यादिकं षट्सूत्रमधिकरणान्तरमङ्गीकृत्य बृहन्नारायणोपनिषदो महोपनिषदिति नामान्तरं चाभिधाय, तत्रत्ये 'पतिं विश्वस्यात्मेश्वर ५ शाश्वत ५ शिवमच्युतं नारायणं महाज्ञेयम्' इत्यादिवाक्ये, किं परमेश्वरमूर्त्यात्मा तद्विभूतिर्नारायणो विश्वपतित्वादिल- क्षणकतया प्रतिपाद्यते ? किं वा परमेश्वरः शिवः ? इति संदिह्य सहस्रशीर्षं देवमित्यारभ्य सहस्र- शीर्षादिविशिष्टत्वेन नारायणस्यैवोद्दिष्टतया अभ्यासात्, समुद्रेऽन्तमिति समुद्रशायित्वरूपतल्लिङ्गात् तद्वाचकाच्युतहर्यादिशब्दप्रयोगाच्च नारायण एव विश्वपतित्वादिलक्षणकत्वेन प्रतिपाद्यत इति पूर्वपक्षमभिधाय सिद्धान्तमाह । अत्र नारायणान्तर्यामी परमेश्वर एव प्रतिपाद्यते । कुतः । विश्वपतित्वादीनां परमेश्वरधर्माणां पदार्थान्तरे नारायणेऽनुपपत्तेः । पशूनां पतये वृक्षाणां पतये जगतां पतये नम इत्यादिना शिव एव परमेश्वरे निखिलभुवनाधिपत्यमभ्यस्यते । एको रुद्रो न द्वितीयाय तस्थुर्य इमांल्लोकानीशत ईशिनीभिरिति रुद्रव्यतिरिक्तस्य जगदीश्वरत्वं निषिध्यते । विश्वाधिको रुद्रो महर्षिरिति विश्वाधिकत्वं तस्यैव श्रूयते । अतो विश्वपतित्वादिल- क्षणो नारायणात्मा परमेश्वर एवेत्याह । अग्रिमसूत्रे च पद्मकोशप्रतीकाशमित्यादिना नारायणहृदय- रश्मिः। स्तथापि भागत्यागलक्षणापत्त्या ब्रह्माभेददृष्टिरैव परामृष्टः। अन्तरा ब्रह्मपुरात् गुह्याद्गुह्यतरं प्राविशत् प्रविष्ट इति प्रहस्ते । तदभेददृष्टित्वात् ब्रह्माभेददृष्टित्वात् । प्रथमेत्यादि प्रथमपुरुषः प्राविशदिति तस्य प्रयोगस्य विरोधापत्तिः। न च स शिवः प्राविशदिति श्रुतिवाक्यमस्त्विति शङ्क्यम् । सोहं नित्यानित्य इत्यस्य शिववाक्यत्वात् तन्मध्यपातिन एतस्य शिववाक्यत्वार्थं सोहं प्राविशदित्यर्थात् । अत्र च प्रथमपुरुष- श्रुतिविरोधापत्तेः स शिवरूपः प्रसिद्धः परमात्मेत्यर्थस्य शोभनत्वात् । आदिपदेन ब्रह्माहमित्यत्र सुवर्णे कुण्डलतावद्ब्रह्मण्यहंताविरोध इत्यस्मत्पदप्रयोगविरोधः संगृह्यते । चिदिति चिच्चाचिच्च ईश्वरश्चैषां समाहारः चिदचिदीश्वरं तस्मिन् । समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यादिति नपुंसकता । प्रागिति । तृतीयाधिकरणे एवं शैवमतस्याप्यसंगतिर्बोध्येत्यादिना । नामान्तरमिति तथा च श्रुतिः एतद्वै महो- पनिषदं देवानां गुह्यमिति । समुद्र इति महानारायणोपनिषदीयम् । अन्तं स्वरूपं 'अन्तः स्वरूपे मनोहरे' इति विश्वात् । समुद्रे तमिति पाठे तु तं श्रीनारायणं प्रसिद्धम् । अत्रेति नारायणस्य अन्तर्यामी परमेश्वर इत्यर्थः । पूर्वं षष्ठीतत्पुरुषं विधाय पश्चात्कर्मधारयः । नारायणान्तर्यामिणः परमेश्वरत्वस्य विधेयत्वात् । एवं च सूत्रस्य शारीरो नारायणो विश्वपतित्वादिगुणको न अनुपपत्तेरित्यर्थः । एक इति । द्वितीया इति सोर्डा द्वितीयः । येति वर्णागमः । इ अ इत्यव्यये । इको यणचि । य इत्यस्मात् सोर्लोपो न य इमामीत्यत्र य इत्यस्य श्रवणात् । तस्थुरिति स्थाणुः । सूर्य आत्मा जगतस्तस्थुषश्च इति श्रुतेः । तस्थौ ईशनीभ्य इति च पाठे स्पष्टोर्थः । इतीति इत्यथर्वशिरःश्रुत्या । नारायणेति षष्ठी- तत्पुरुषः। कर्मकर्तृव्यपदेशाच्चेति सूत्रार्थमाहुः अग्रिम इति । पद्मेति पद्मकोशप्रतीकाशं हृदयं चाप्यधो- मुखमित्यादिना ध्येयं कर्म ध्याता नारायणः कर्ता तयोर्व्यपदेशान्न पद्मकोशेत्यादिश्रुताविति सूत्रार्थः । 484

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८५ भाष्यप्रकाशः । मेवोच्यत इत्यङ्गीकृत्य शिवनारायणयोर्ध्येयध्यातृभावमाह। शब्दविशेषसूत्रे च, नारायणपरं ब्रह्मेति मन्त्रे नारायणात् परमिति समासमङ्गीचकार । स्मृतेश्चेति सूत्रे, 'एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम्' ॥ इति गीतावाक्यम्, 'अहं यथावदाराध्यः कृष्णेनाकृष्टकर्मणा । तस्मादिष्टतमः कृष्णादन्यो मम न विद्यते' ॥ इति भारतीयमश्वत्थामानं प्रति शिववचनं च स्मृतित्वेनोदाजहार । तत्सर्वमसङ्गतमेव । द्वापरादिस्थलोकव्यामोहनाय पाद्मवाराहादिप्रसिद्धस्य, त्वामाराध्य तथा शंभो ग्रहीष्यामि वरं सदेत्यादिवरदानस्य यथावत्पदेनात्र बोधनात् कृष्णाराध्यत्वेऽपि शिवस्य परमभक्तवासिद्ध्या, गीतोक्तरूपस्याप्यनुगीतोत्तरमुत्तङ्गोपाख्याने । 'ततः स तस्मै प्रीतात्मा दर्शयामास तद्वपुः । शाश्वतं वैष्णवं धीमान् ददृशे यद्धनञ्जय' ॥ इत्यारभ्य, 'तद् दृष्ट्वा परमं रूपं विष्णोर्वैष्णवमद्भुतम् । विस्मयं च ययौ विप्रस्तत् दृष्ट्वा रूपमैश्वरम्' ॥ इति पूर्वं अर्जुनेनेदानीमुत्तङ्केन च दृष्टस्य रूपस्य वैशम्पायनेन कण्ठत एव वैष्णवत्व- प्रतिपादनादुत्तङ्केनापि, विश्वकर्मन्नमस्तेऽस्तु यस्य ते रूपमीदृशमिति निगमनाच्चोपपादन- मन्तरेणैव वैष्णवत्वसिद्ध्याऽनुगीतायामपि विष्णोरेवेश्वरत्वसिद्ध्या शैवमतानुपष्टम्भकत्वात् । रश्मिः । अङ्गीचकारेति तथा च शब्दविशेषो नारायणपरं तस्मादिति सूत्रार्थः । अहमिति शिवः । अकृष्टेत्यत्र कृष विलेखनेनिङ् । प्रातिलोम्येन दूषणान्याहुः द्वापरेति । 'द्वापरादौ युगे भूत्वा कलया मानुषादिषु' इति शिवं प्रति केशववाक्यात् । अतथ्यानि वितथ्यानि मोहशास्त्राणि कारय इतिवाक्यात् तत्स्रलोकानां व्यामोहाय । एवं पाद्मप्रसिद्धिरुक्ता । वाराहादिप्रसिद्धिरपि द्रष्टव्या । यथावदिति यथेत्यव्ययाद् द्वितीयाया लुक् यं प्रकारमर्हामि यथावत् तदर्हमिति सूत्रेण वतिः प्रकारश्च पूर्वोक्तवरदानं वरदातृत्वरूपं लघूपात्तं तसिलादयः प्राक्पाशपः इत्यव्ययत्वे सोर्लुक् अव्ययादाप् सुप इति सूत्रात् । तत्पदे- नेत्यर्थः । अतिदेशकं पदमुक्तम् । मासमग्निहोत्रं जुहोतीत्यत्राग्निहोत्रपदवत् । अत्रेति भारतीये । ननु त्वामाराध्य तथेति पदैः अहं यथावदाराध्य इत्याराधनस्य कुतो न बोधनं पुराणे इति चेन्न 'अष्टादशपुराणानां कर्ता सत्यवतीसुतः' 'चक्रे भारतमाख्यानं वेदार्थैरुपबृंहितम्' इतिवाक्यात्पुराणोत्तरं भागताख्यानेन पुराणे भारतीयाराधनसम्प्राप्तेः । तत इति वैशंपायनवाक्यम् । स भगवान् तस्मा उत्तङ्गाय । विष्णोरिदं वैष्णवं विराड्रूपम् । ऐश्वरं ईश्वर उपसंहारतः प्रधानत्वेन गृह्यते यत्र तदैश्वरम् । शैषिकप्रत्ययः । विश्वकर्मन्निति निरुक्तौ देवपत्नीनामसु पठितम् । वैष्णवत्व्वेति ईश्वरप्रधानविराडूपत्व- सिद्धा । विष्णोरेवेति यद्यपि मूलरूपे सर्वे शब्दा वाचकतां भजन्ते तथापि प्रकृते व्यवहारमनुरुध्य प्राप्तितमत्रानूदितम् । तथा चामरः 'ईश्वरः शर्व ईशानः शंकरश्चन्द्रशेखरः' इति । न चेश्वरस्य विष्णुत्वम- 485

४८६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० २ सू० ८ भाष्यप्रकाशः । नारायणपरं ब्रह्मेत्यस्यापि प्रथमाप्रायपाठपतितत्वेन तत्र पञ्चमीसमासनिवेशस्याशक्यवचन- तया पदभेदपक्षेऽपि, सुपां सुलुकिति सूत्रेण सोर्लोपे मुखेन तथा पाठसिद्ध्या पुरुषसूक्त एव सहस्रशीर्षत्वादिविशिष्टरूपेण जगदुपादानतायाः श्रूयमाणतया च, नारायणपरं ब्रह्मेत्यनेनापि शब्दविशेषेण तदनुपष्टम्भात् । सहस्रशीर्षं देवमित्यनुवाके कर्मत्वबोधकद्वितीयाया नारायण एवाभ्यासात्'नारायणपरं ब्रह्मेत्यादिप्रथमान्तप्रायपाठपतितस्य, नारायणपरो ध्यातेत्यस्य, ध्यानं नारायणः पर इत्येतत्सभिव्याहृतस्य वस्तुपरिच्छेदनिवर्तकतायाः स्फुटत्वाच्च तस्य कर्तृत्वे पर्यवसानं वक्तुमशक्यमिति तेनापि तन्मतानुपष्टम्भात् । इतः पूर्वस्मिन्ननुवाके, अणोरणीयानिति मन्त्रे ईशान्यस्य शिवस्य प्रस्तुतात्ममहिमरूपत्वेनैव सिद्धत्वान्मध्येऽपि, यो देवानां प्रथममिति मन्त्रे महर्षित्वादिलिङ्गैर्यस्यविभूतितया सिद्धत्वाच्च, दहरं विपापमित्युपान्त्यमन्त्रेऽपि तज्जुष्टया- काङ्क्षस्यैय ग्राह्यत्वात् । रश्मिः। न्वये क्लिष्टत्वादित्येवकारः । अशे आद्यजन्तं वेश्चरपदम् । स्मृतेश्चेति सूत्रार्थसंगतिं व्युत्पाद्य शब्द- विशेषसूत्राणार्थसंगतिमाहुः नारायणेति । प्रथमेति अस्य चतुर्थचरणं 'तत्त्वं नारायणः परः' अग्रे च नारायणः परो ज्योतिरात्मा नारायणः परः' इति । न च द्वितीयाप्रायपाठः शङ्क्यो नारायणं महाज्ञेयं विश्वात्मानं परायणम् । इतिपूर्वार्धात् नारायणं परं ब्रह्मेति पाठानङ्गीकारात् । उत्तरार्धे तत्त्वं नारायणः परः इति प्रथमाप्रायपाठात् प्रथमाप्रायपाठः । अशक्येति । ननु तत्त्वं नारायणः परः नारायणपरो ज्योति- रिति समासप्रायपाठविरोध इतिचेन्न । कर्मधारयैरप्युभयसामञ्जस्यात्कचित्पुस्तकादौ नारायणः परं ब्रह्मेत्या- दिभेदनिर्देशाच्च । अपदभेदेति नारायणपरं ब्रह्म तत्त्वं नारायणः परः, नारायणपरो ज्योतिरित्यापद्- भेदप्रकृते इत्यर्थः । सोर्लोप इति तत्त्वनारायणपदोच्चरीभूतस्य सोर्लोपे । तथेति अपदभेदत्वेन पाठ- सिद्ध्य । श्रूयमाणेति 'ततो विराडजायत' इतिश्रुत्या इत्यर्थः । कर्मकर्तृसूत्राणार्थसंगतिमाहुः सहस्रेति । एवेति एतेनान्यस्य शिवस्य व्यवच्छेदात् कर्मत्वनिबन्धनं यद्ध्येयत्वं तन्निरस्तम् । ननु नारायणपरो ध्यातेति श्रुतिप्रामाण्यात् कर्मधारयमाश्रित्य कर्तृत्वमप्यस्तु ततश्च पञ्चमीसमासोस्तु नारायणपरमित्यत्र ध्यातृत्वमप्यस्तु ततश्च शंभुवमिति सहस्रशीर्षानुवाकस्थपदेन शिवे ध्येयत्वमप्यस्तु इति चेत्तत्राहुः नारायणेति । प्रथमान्तेति तथा च नारायणपरमित्यत्र सोर्लुगिति भावः । इत्येतदिति इत्येतत् संनिहितस्य एतस्य सांनिध्यतः उक्तस्य एतद्विशेषणप्रयोजनमाहुः वस्त्विति । वस्तूनां ध्येयध्यातृध्याना- दीनां परिच्छेदः एतेषामेकतमत्वं तन्निवर्तकतायाः सर्वरूपत्वसमर्पकताया इति फलितम् । तस्येति नारायणपरो ध्यातेत्यस्य श्रुतिवाक्यस्य कर्तृत्वे ध्यानकर्तृत्वमात्रेऽशक्यं किं तु सर्वरूपत्वे । अग्रे 'यच्च किंचिज्जगत्सर्व दृश्यते, श्रूयतेपि वा । अन्तर्बहिश्च तत्सर्व व्याप्य नारायणः स्थितः' ॥ इतिश्रुतेः । 'अनुपपत्तेस्तु न शारीरः' इतिसूत्रासंगतिमाहुः इत इति । प्रस्तुतेति प्रस्तुतस्य अन्भसपारे इतिश्रुत्या नारायणस्यात्मनो महिमा मुख्यविभूतिस्याद्भूतत्वेन । प्रशस्ते उपपाद्यमानेष्वकारः । महर्षित्वेति । आदिशब्देन 'यो देवानां प्रथमं पुरस्ताद् विश्वाधिको रुद्रो महर्षिः । हिरण्यगर्भ पश्यत जायमानं स नो देवो शुभया स्मृत्या संयुनक्ति' ॥ 486

यहाँ प्रस्तुत पृष्ठ का देवनागरी में पंक्ति-दर-पंक्ति लिप्यन्तरण है:

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८७ भाष्यप्रकाशः। 'सत्त्वं विशुद्धं वसुदेवशब्दितं यदीयते तत्र पुमानपावृतः । सत्त्वे च तस्मिन् भगवान् वासुदेवो ह्यधोक्षजो मे मनसा विधीयते' । इति चतुर्थस्कन्धे सतीं प्रति शिववाक्येन, अहं ध्यायामि तं विष्णुं परमात्मानमीश्वर- मित्यादिना, विष्णोराराधनार्थं मे व्रतचर्या पितामहेत्यन्तेन गारुडद्वितीयाध्याये ब्रह्माणं प्रति शिववाक्येन च तदुपबृंहणादपि रुद्रस्य ध्यातृत्वेनैव सिद्धत्वाच्च । इदं यथा तथा मया प्रहस्ते निपुणतयोपपादितमित्युपरम्यते प्रकृतमनुसरामः ॥ ८ ॥ इति द्वितीयं शब्दविशेषाधिकरणम् ॥ २ ॥ रश्मिः। इत्यत्रोक्तानि हिरण्यगर्भत्वजायमानत्वदेवत्वानि । विश्वाधिक इत्यत्र विश्वाधिप इतिपाठान्तरम्। तदपेक्ष्यार्थः । शास्त्रदृष्ट्या ब्रह्मदृष्ट्या वार्थः पूर्वत्र अधिकं तु भेदनिर्देशादिति सूत्रे आधिक्यस्य ब्रह्मधर्मत्वात् । उपक्रमस्यासंजातविरोधित्वेन दश्मित्यादौ शिवादिप्रतिहृदयाकाशस्यैव ग्राह्यत्वात् । उपक्रमार्थकरणादेवकारः । ननु यतीनां भक्तानां हृदयाकाशः तत्र न शिवस्य 'न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः' । 'परेण नाकं निहितं गुहायां विव्राजदेतद्यतयो विशन्ति' । इत्यादिश्रुतिभ्यामिति चेत्तत्राहुः तत्त्वमिति। मनसेति नमसेति पाठान्तरम् । मे मम शिवस्य । अहं शिव इत्यर्थः । इदमिति इदं पूर्वोक्तमुपपादितम् । ननु भवत्वेवं तथापि शिवस्य भगवन्महिम- रूपत्वं यदत्रोबोध्यते तत्कुत्रोक्तमिति चेदुच्यते तैत्तिरीयाणां नारायणोपनिषदीत्यादिनोपपादितम् । ननु यमन्तःसमुद्रे इति तच्चरणेशपदस्यानोरणीयान् इतिश्रुतिस्थसाकृतुपदवाच्यनारायणमहिमवाच्यसा- मानाधिकरण्यं पूर्वानुवाके तथास्तूत्तरस्मिन् समुद्रे तमिलनुवाके विश्वंशंभुवमितिपदात् 'अणोरणीयान् महतो महीयानात्मा गुहायां निहितोस्य जन्तोः । तमक्रतुं पश्यति वीतशोको धातुः प्रसादान्महिमानमीशम्' ॥ इति शिवस्य भगवन्महिमरूपत्वोद्बोधकश्रुतेः । तथा विश्वपतित्वादीनां परमेश्वरधर्माणां पदार्थान्- न्तरे नारायणेनुपपत्तिरूपं दूषणमिति चेदुच्यते । यदन्तः समुद्रे कवयो वदन्ति यदक्षरे परमे प्रजा इत्यादिश्रुतिषु शंभुवाचकपदाभावात् पूर्वानुवाके नारायणोक्ति उत्तरानुवाके च समुद्रे तं विश्व- शंभुवमिति समुद्रशायित्वलिङ्गेनोक्तं वस्तु विष्णुरूपं ब्रह्मरूपं 'रुद्रोरुद्रश्च दन्तिश्च नन्दिः षण्मुख एव च । गरुडो ब्रह्म विष्णुश्च नारसिंहस्तथैव च आदित्योमिश्र दुर्गिश्च क्रमेण द्वादशाम्भसि' ॥ इतिश्रुत्या द्वादशानां समुद्रशायित्वात् ततश्च विश्वं च शं च भुव च विश्वशंभुवम् । अमोलुक् । पद्मद्वयमुखच्छन्दोरोधात् । प्रहस्ते पद्मत्रयस्य व्याप्य नारायणः स्थित इत्यनेनान्वयमनादृत्य अनन्तमव्ययं कविंसमुद्रे तं विश्वशंभुवं विश्वपुरुपमुपजीवतीति योजना प्रहस्तटीकायां स्वीकृता । अन्यथा 'व्याप्य नारायणः स्थित' इतिवाक्यादनन्तमव्ययमित्यादिवाक्यस्य भेदापत्तिः । न च नारा आपस्ता अयनं यस्येति नारायणयोरुपं रुद्ररपोपीति शङ्क्यम् । विष्णुर्वाराहयः कृष्णो वैकुण्ठो विष्टरश्रवाः ६२ ब्र० सू० २० 487

४८४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० २ अ० १ सू० ९ अत्ता चराचरग्रहणात् ॥ ९ ॥ (१-२-३) कठवल्लीषु पठ्यते । 'यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः। मृत्युर्यस्यो- भाष्यप्रकाशः। अत्ता चराचरग्रहणात् ॥ ९ ॥ पूर्वाधिकरणे परमात्मनः पुलह्रदप्रवेशवत्स्थित्यवधारणे जीववत् सुखदुःखभोगप्राप्तिमाशङ्क्य समाप्तौ परिहृता । स परिहारस्तदा युज्येत, यदि तस्य भोगः सिद्धः स्यात् । अतस्तत्साधनायोपोद्घातेनेदमधिकरणमारभ्यत इत्याशयेन विषयवाक्यमाहुः कठवल्लीषु पठ्यते इति द्वितीयवल्लीसमाप्तौ पठ्यते । अत्र शंकराचार्यादयोऽस्यामुपनिषद्यग्नि- जीवपरमात्मनां प्रकृतत्वात् त्रिकोटिकं संशयमुपगच्छन्ति । तदयुक्तम् । अग्रेः कोटिपातस्सा- रश्मिः। इति कोशेन पातते योगनिश्चयात् । पतिं विश्वस्यात्मेश्वरं शिवमच्युतमिति श्रुत्युक्तेषु शिवेश्वरत्वयोर्ना- रायणेऽनुपपत्तिः तां चैवं परिजहुः अथर्वशिरसि यत्सर्वान् परित्यज्यात्मज्ञानेन योगैश्वर्येण महति महीयते तस्मादुच्यते भगवान् महेश्वर इति श्रुतिः सर्वान् विषयान् त्याजयित्वा देवमुपदिश्य तदर्थशोधनद्वारा विषयवैरस्यमुत्पाद्याधिकारिणं कृत्वा दत्तेनात्मज्ञानेन मनःस्थिरतायै चाष्टाङ्गयोगजन्यैश्वर्येण च भक्तान् महति भूयादिति न्यायो नेदं निर्वचनमिति व्याख्यानं च । अष्टाष्टाङ्गयोगजन्यैश्वर्यवानीश्वरो भक्तान् महति भूयान्नेन्महेश्वरः । ईश ऐश्वर्ये, ईशितुं शीलमस्य लोममासेति वरच् । एवं (निषाद्ध) सिद्धान्तसे- श्वरखण्डनेऽश्वरे प्रवृत्तिनिमित्तमैश्वर्यं परं तु योगजन्यमिति तेन व्यवच्छिद्यते तस्य नारायणे प्रवृत्ति- निमित्तं तु स्वाभाविकमैश्वर्यम् । श्रुतेरमत्स्य निर्बलत्वात् । एवं नारायणविश्वपत्यादिपदानां बहूनामनुग्रहे न्याय्ये शिवपदमपि 'वेदः शिवः शिवो वेदः' इतिवाक्याद्वाचकानां वेदानां नारायणे वाच्यवाचका- भेदोपचाराद्युक्तमिति । एवं 'अनुपपत्तेस्तु न शारीरः' इतिसूत्रार्थस्थङ्क प्रहस्ते किंचिदुक्तम् । कर्मकर्तृसूत्रार्थस्थूङ्क प्रहस्ते किंचिदुच्यते । निरुपाख्यविठेयां गुहां पञ्चकोशेत्यादिभिर्महाम्नारायणोपनिषदि विद्युत्त्वापिष्ठातारमाह तस्या शिखाया मध्ये इत्यनेनेति न शिवनारायणयोर्व्येप्यव्याप्तृभावरूपं दूषणमिति । यद्वा । किंचायं मन्त्रः पूर्वतापनीयप्रथमोपनिषदीत्यादिना परब्रह्मणि शिवशंभुरुद्रादिशब्दानां शक्ति- रुक्ता । तथा च प्रहस्तः । एवं च शिवशंभुरुद्रेशानमहेश्वरादिशब्दा अपि मुख्यवृत्त्या तत्रैव प्रवर्तन्ते । 'नारायणः शिवो विष्णुः शंकरः परमेश्वरः । एतैस्तु नामभिर्ब्रह्म परं प्रोक्तं सनातनम्' ॥ इतिवाराहेमोपबृंहणाच्चेति । न च नारायणे शिवादिमन्त्राणां शक्तिर्नोक्ता किं तु परब्रह्मणीति शक्यम् । परब्रह्मण इदमित्थतया ज्ञानागोचरत्वेन नारायणे इदमित्थतया पर्यवसानात् । ईश्वरशब्दस्य शक्तेः पृथगपि विचारः कृतः यत्तु ज्ञानघनापरनामा सुदर्शनाचार्य इत्यादिना ॥ ८ ॥ इति द्वितीयाधिकरणम् ॥ २ ॥ अत्ता चराचरग्रहणात् ॥ ९ ॥ संगतिं वक्तुं वृत्तमनुवदन्ति स्म पूर्वाधीति । परि- हृतेति संभोगप्राप्तिसूत्रे परिहृता । सिद्ध इति पूर्वतन्त्रे निषेधस्य प्राप्तिपूर्वकत्वादिति भावः । उपरोद्घातेनेति 'चिन्तां प्रकृतसिद्धयर्थामुपोद्घातं विदुर्बुधाः' इति व्युत्पन्नेन । चिन्तां योग- 488

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४८९ षसेचनम् । क इत्था वेद यत्र सः' इति । अत्र वाक्ये ब्रह्मक्षत्रयोरदनत्वं वदन् यच्छब्दार्थस्य भोक्तृत्वमाह । तत्र संशयः । किं जीवो, ब्रह्म वेति । सच्चिदानन्द- रूपत्वं सर्वोपास्यत्वं पूर्वाधिकरणद्वयेन सिद्धम् । सर्वभोक्तृत्वं साधयति । भाष्यप्रकाशः । संगतत्वादित्याशयेनाहुः अग्रेत्यादि । ओदनस्य चेतनाभोग्यत्वेन तत्समभिव्याहृतयच्छब्दार्थभूतस्य भोक्तुरचेतनतायातस्तत्समभिव्याहारेणैव निवृत्तेस्तेषामस्तथात्वाज्जीवब्रह्मकोटिक एव संशयो युक्त इत्यर्थः । नन्वेतस्मिन् विचारे का वा संगतिरित्याकाङ्क्षायां तामाहुः सच्चिदेत्यादि । तथाच ब्रह्मजिज्ञासाप्रतिज्ञावाक्ये ब्रह्मण इति संबन्धषष्ठ्या ब्रह्मधर्माणामावश्यकानां संगृहीतत्वादुपासने ज्ञाने चापेक्षितेषु धर्मेषु द्वयोः सिद्धौ तृतीयास्याप्यु

ब्रह्मक्षत्रयोरशक्यभक्ष्ययोः सर्वमारकस्य च मृत्योर्भक्षयिता जीवो न भवत्येवेति कथं संदेह इति चेदुच्यते । ओदनोपसेचनरूपकत्वाज्जीवधर्मत्वम् । स्थानाज्ञानाच्च .न हि सर्वगतस्य स्वहृदयेऽपि प्रतिभासमानस्य, क इत्था वेद यत्र स इत्यज्ञान-

भाष्यप्रकाशः। सर्वं खल्विद१त्र सद्रूपतायाः, सत्यसङ्कल्पादिपदैश्चिद्रूपताया, अनादरत्वेनानन्दरूपतायाश्च बोधनेन तत्सिद्धेरिति । एवं द्वितीयाधिकरणे विषयवाक्येऽप्यन्तरात्मन्नित्यधिकरणनिर्देशात् तस्य च स्थानस्य सर्वसाधारण्यात् सर्वोपास्यत्वसिद्धिः स्फुटेवेति न कोऽपि शङ्कालेशः । तस्यैवान्तिमे सूत्रे भोगस्य स्मरणात् तस्यालौकिकत्वनिश्चायनायैतदधिकरणमित्युपोद्घातोऽपि संगतिरित्यापि बोधि- तम् । अधिकरणवैयर्थ्यमाशङ्क्य समादधते ब्रह्मक्षत्रेत्यादि । स्थानाज्ञानादिति विवृण्वन्ति नहीत्यादि । तथाच पूर्वाधिकरणद्वये सर्वगतत्वादिरूपेण सिद्धौ स्थानाज्ञानस्य वक्तुमशक्यत्वाद- ज्ञातस्थानकत्वं जीवधर्म एवेत्यर्थः । नन्वेवं ब्रह्मवाक्यत्वसाधकपदार्थानां रूपकाज्ञानाभ्यामन्य-

रश्मिः। स्मिन् पादे मुख्यवृत्तिस्फोरणेनार्थसंदेहवारणस्यावश्यकत्वादित्यपि लिङ्गं बोध्यम् । सद्रूपेति । नन्विदं परिदृश्यमानं सद्ब्रह्मेति वचनव्यक्तेः कथं ब्रह्मणः सद्रूपताया बोधनेन तत्सिद्धिरिति चेन्न । मृत् संदित्यप्रयोगः सद्घट इत्यप्रयोगवत् । तस्मात्सदिदं ब्रह्मेत्युक्तावपि ब्रह्मणः सद्रू- पता मन्तव्येत्याशयात् । सत्येति आदिपदेन भारूपादि । स्पष्टम् । अनादरेति न विद्यते आदरः संभ्रमो यस्येत्यनादरस्तत्त्वेनेत्यर्थः । आप्तकात्वात् सर्वानपेक्षत्वेनेति यावत् । सर्वस्यानन्दापे- क्षित्वेनानन्दस्य सर्वानपेक्षितत्वम् । अन्यापेक्षानन्देपि अन्यस्यानन्दानतिरेकात् सर्वानपेक्षितत्वम् । स- च्चिदेपेक्षितत्वेपि जीवानामन्यापेक्षितत्वं नानन्दस्य द्वैताभावात् । तत्सिद्धेरिति सच्चिदानन्दरूपत्वसिद्धेः । एवं द्वितीयेति शब्दविशेषादित्यधिकरणे । सर्वेति हृदये ब्रह्मोपासकानां सर्वेषामुपास्यत्वसिद्धिः । श्लोक्ताया उपोद्घातसंगतेः भाष्यसूचितत्वमाहुः तस्यैवेति । द्वितीयाधिकरणस्यैव । एवकारेण प्रथमाधिकरणव्युदासः । भोगस्य भोगेऽपेक्षितत्वस्य भाष्ये स्मरणात् । अपेक्षितभोगस्यालौकिकत्व इत्यर्थः । न चापेक्षितपदार्थो रश्मौ तत्रैव विवृत इति स एतद्विरोधीति शङ्क्यम् । प्रपञ्चवद्भक्तिमार्ग- स्यापि स्वप्राप्तये सृष्टत्वेन भक्तिमार्गापेक्षितालौकिकभोगस्य रश्मौ विवृतत्वात् प्रपञ्चरूपापेक्षितालौकि- कत्वाविवरणात् । उपोद्घातस्तु उक्तलक्षणकः । अधीति विषये संशयस्याधिकरणसार्थक्ये प्रयोजक- त्वासदभावेनाधिकरणवैयर्थ्यमाशङ्क्य । भाष्ये । ओदनेति । रूपकमभेदरूपकम् । ब्रह्मक्षत्रं च ओदन इति ब्रह्मक्षत्रयोरोदनाभेदोक्तेः अयं हि धूर्जटिः साक्षादित्यत्राभेदरूपकम् । अयमपरः शंभुरित्यादौ ताद्रूप्यरूपकम् । रूपकस्याभेदरूपकताद्रूप्यरूपकभेदेन द्वैविध्यात् । जीवधर्मत्वम् निषिद्ध- कर्तृजीवधर्मत्वम् । 'काव्यादीनामसत्यत्वान्नोपयोगः कथंचन' इति निबन्धे एषामनुपयोगकथनात् । तथा चौदनं चोपसेचनं चौदनोपसेचने तयो रूपकमभेदः स एषां ब्रह्मक्षत्रमृत्यूनां ते ओदनोपचनरूप- कास्तेषां भावः ओदनोपसेचनरूपकत्वं तत्त्वात् । तेषाम् ब्रह्मक्षत्रमृत्यूनामत्तृत्वस्य निषिद्धात्तृत्वस्य ब्रह्मण्यभावात् जीवधर्मत्वं जीवधर्मवृत्तान्तं श्रुतिर्वक्तीति भाष्यार्थः । स्थानाज्ञानादितीति श्लोक्त- मित्यर्थः । सर्वगतस्येति । सर्वं खल्विदं ब्रह्मेति सर्वगतत्वमाकाशस्येव घटादौ । आदिपदेनान्त- रात्मन्निति श्रुत्युक्तं स्वहृदयेन्यहृदये च प्रतिभासमानत्वम् । ब्रह्मवाक्येति अपरब्रह्मसूत्ररूपं


१. इदमिति ।

मुपपद्येत । अलौकिकसामर्थ्याच्च संदेहः । तत्र निषिद्धत्वालौकिकभोजनवन्निरूप्यमाणत्वात् स्थानाज्ञानाच्च कश्चिदु- पासनोपचितालौकिकसामर्थ्यो महादेवादिरेवात्ता भविष्यति । न तु तद्विरुद्धधर्मा भगवान् भवितुमर्हति, अक्लिष्टकर्मत्वादिधर्मवान् । तस्माज्जीव एवोपासनो- पचितमहाप्रभावो वाक्यार्थ इत्येवं प्राप्तेऽभिधीयते । भाष्यप्रकाशः । धात्वस्य वक्तुमशक्यत्वात् कथं संदेह इत्यत आहुः अलौकिकेत्यादि । ननु जीवे कथम- लौकिकसामर्थ्यसंभव इत्याकाङ्क्षायां तत्साधयन्त एव पूर्वपक्षमाहुः तत्रेत्यादि । 'न हिंस्यात् सर्वा भूतानि' इतिश्रुत्या स्वपरप्राणवियोजनरूपाया हिंसाया निषिद्धत्वादत्र च ओदनरूपकेण तस्याः लौकिकतौल्याच्च सूचनात् तथा । महादेवादिरीत्यादिपदेन रुद्रवतोऽग्नेः संग्रहः । महादेवस्य निषि

४९२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ३ सू० ९ अत्ता चराचरग्रहणात् ॥ अत्ता भगवान्नेव । कुतः । चराचरग्रहणात् । चरं सर्वप्राणिबधार्थं परिभ्रमन्मृत्युः । अचरं ब्रह्मक्षत्ररूपं कल्याप्यचाल्यम् । तयोरत्ता न जीवो भवितुमर्हति । 'यत्राप्यतिशयो दृष्टः स स्वार्थानतिलङ्घनात्' इति न्यायात् । असवादि- प्रतिपत्त्यर्थं तु लौकिकवद्वचनं भोक्तृत्वञ्च । प्रलयकर्तृत्वाच्चायुक्तत्वम् । सर्वत्र भाष्यप्रकाशः । मितिच्छिद्रापरिहाराय ब्रह्मक्षत्रपदं चराचरोपलक्षकमिति लाक्षणिकव्याख्यानस्यासंगतत्वबोधनाय चाहुः चरमत्यादि । अचाल्यमिति प्रबाहनित्यत्वादचाल्यम् । श्रुतौ चकारद्वयेन वर्णान्तर- स्यापि संग्रहः । तेषामपि भक्तावधिकारेण मुक्तियोग्यत्वात् । देवोऽसुरो मनुष्यो वेति वाक्यात् एवं सति पूर्वोक्तस्यान जीवो भवितुं नार्हति । असुर्जीवभावे तदाप्तानां मोक्षासंभवात् । ननु मृत्युञ्जयत्वेन संहारकत्वेन ज्ञानदातृत्वेन च तस्य प्रसिद्धत्वान्मृत्य्वविभूतिरूप एव सोऽस्तु, न जीवो, न वा परः। बाधकानाममुक्तत्वादित्याशङ्कायामाहुः यत्रेत्यादि । यथा अमात्यो युवराजो वा राजकार्यं कुर्वन्नप्यन्येभ्योऽतिशयवानपि, न राजभोग्यं भुङ्क्ते तदसाधारणं कार्यं वा करोति । अत उपासनोपचयादिना जातेऽपि सामर्थ्ये न तस्य तादृशमत्तृत्वं युक्तवचनमित्यर्थः । ननु तादृश भोक्तृत्वेऽसत्त्वे बाधकानामुक्तानां का गतिरित्यत आहुः असदादीत्यादि । तुः शङ्कानिरासे । तथाच यथा सदेव सोम्येदमग्र आसीदित्यत्र ब्रह्मणः केवलस्वेऽभिसंहितेऽप्यग्रपदेन कालोपरञ्जन- मसदादिप्रतिपत्त्यर्थं, तथात्र भोजने लौकिकवद्वचनमपि । नचात्र निषिद्धत्वं बाधकम् । निषेधस्य जीवेऽपि देहसंबन्धानन्तरमेव प्रवृत्तेरनुज्ञापरिहारसूत्रे वक्ष्यमाणत्वादशरीरे ब्रह्मणि तदप्रवृत्तेस्तं प्रति निषिद्धत्वाभावात् । अन्यथा प्रलयेऽपि हिंसायास्तौल्यात् तत्कर्तृत्वमप्ययुक्तं स्यात् । तथा सति प्रलय एव न भवेदतस्तन्नेव भोक्तृत्वेऽपि नायुक्तत्वम् । नापि ज्ञानाज्ञानं बाधकमित्याहुः । सर्वत्रे- त्यादि सर्वत्र विद्यमानस्वेऽपि, हन्त तिरोशानीति श्रुतेः सृष्ट्यनन्तरं तिरोधानेनाऽज्ञायमानत्वात् रश्मिः । तत उक्तं वाक्यं विषयं यस्य तत्त्वं तद्विषयत्वम् । इति लाक्षणिकेति शंकराचार्यरामानुजाचा- र्याभ्यां कृतस्य । अचाल्यमविकम्प्यम् । वर्णान्तरेति च पुनः क्षत्रं च वर्णद्वयं वैश्यशूद्ररूपं भोजन इत्यर्थः । एवं सतीति शंकराचार्यभाष्यानुरोधेन वर्णद्वये संगृहीते सति । तदेति तदा प्रलय- कालेप्तानां भक्षितानामभिसंविशन्तीत्युक्तमोक्षासंभवात् । प्रसिद्धेति अमरे श्रीभागवतेऽप्यर्धशि- रसि चेत्यर्थः । स महादेवः । राजभोग्यमिति क्ष्यादीत्यर्थः । तदसाधारणमिति पनेषु निष्क- याकुरादिरूपम् । यत्र महादेवादावतिशयो दृष्टः एतादृशात्तृत्वरूपः सः स्वं शिवादियदं तदर्थः शिवा- दिरूपत्वासानतिलङ्घनात् । अतिलङ्घनमनतिशय्ये दृष्टे भवति शिवायार्थाभावात्परमद्वाधोऽस्त्यतिशयादिति भाष्यार्थः । उक्तानामिति पूर्वपक्षग्रन्थ उक्तानाम् । पूर्वपक्षोक्तनिषिद्धत्वरूपं दूषणं परिहरन्तः प्रलयेत्यादिभाष्यमवतारयन्ति स्म न चात्रेति । अनुज्ञेति । इदं सूत्रं द्वितीयाध्यायतुतीयपादे 'अनुज्ञा- परिहारौ देहसंबन्धाज्ज्योतिरादिवत्' इति । न भवेदिति न च मा भूतप्रलय इति शङ्कम् । स्वाप्य- यादिति पूर्वोक्तसूत्रविरोधात् । नापि रूपकं बाधकं 'आनुमानिकमप्येकेषां शरीररूपकविन्यस्तगृ- हीतेर्दर्शयति च' इति सूत्रे रूपकसानिविद्धकर्तृजीवविषये स्वीकारात् । सर्वत्रेति भाष्यं विवरी- तुमत्तुः नापीति । भवतीति क्रियापदम् । सर्वत्रेति पदः सर्वत्रेति पदस्याहारः कर्तव्यः भवेद्वा इति 492

विद्यमानस्याप्यज्ञायमानत्वात् फलतः स्थानाज्ञानमुक्तम् । ब्रह्मक्षत्रयोरपि मोक्षा- पेक्षित्वान्मृत्युसंबन्धमात्रेण भगवति भोक्तरि प्रवेशार्थं योग्यरूपत्वमेवौदन- त्वम् । प्राणानां तत्रैव समवल्यान्मृत्युपि तत्रैव लीनोऽग्रे जन्ममरणाद्यभा- वाय भगवत्येव प्रविशति । तस्मादस्मिन् वाक्ये ब्रह्मक्षत्रमृत्यूनां भोग्यत्वेन ग्रहणादत्ता भगवानवेति सिद्धम् ॥ ९ ॥ भाष्यप्रकाशः । प्रत्यक्षरूपस्य फलस्याभावेन तदमिसंधाय स्थानाज्ञानमत्रोक्तं, न तु स्थानविषयकं परोक्षज्ञानम- प्यभिसंधायातो न दोषः । ननु भवत्वेवं, तथापि क्लिष्टकर्मत्वं कथं निवर्तेतामित्यत आहुः ब्रह्मक्षत्रेत्यादि । मोक्षापेक्षिणो ह्यन्नादनीयत्वेनाभिप्रेयन्ते । ते च देहसंबन्धे निवृत्ते मुच्यन्ते, न तु सदेहाः । अतो यथा तण्डुलानां वह्न्यादिसंबन्धेनावयवशैथिल्येन विकृता चौदनत्वं; तथात्र मोक्षापेक्षिणां भोक्तरि भगवति प्रवेशार्थं कथंचिन्मृत्युसंबन्धमात्रेण योग्यरूपत्वमेवौ- दनत्वम् । यथा कंसादीनां, कुरुपाण्डवसैन्यानां च । अत एव, तदेव रूपं दुरवापमप, 'यस्मिन्स्व- र्दर्शनमलं बलभीमपार्थव्याजाव्हयेन हरिणा निलयं तदीय'मित्यादीनि वाक्यानि । न चैवं मृत्योरुप- सेचनत्वासंभवः । अत्रात्र वै मृत्युर्जायत इत्यनेकमृत्युपक्षे, अशनया मृत्युरेवेत्येकमृत्युपक्षेऽपि मुच्यमानब्रह्मक्षत्रप्राणानामत्रैव समवनीयन्ते प्राणा इति श्रुतेस्तस्मिन्नेव लयेन तद्धर्मात्मकोशनाया- रश्मिः । दर्शनात् । फलस्येति चक्षुरादिफलस्य प्रत्यक्षरूपफलस्याभावमभिसंधाय । परोक्षेति शाब्दज्ञान- मित्यर्थः । न च शब्दादपरोक्षमस्त्वेवेति शांकराशङ्का प्रभवत्यत्रेति शङ्क्यम् । सिद्धान्तानुसारेण शाब्द- प्रत्यक्षानङ्गीकारात् । दोषो ब्रह्मपरत्वे स्थानाज्ञानरूपः । क्लिष्टेति कृष्णायाक्लिष्टकारिणे इति श्रुति- प्रसिद्धमिदं प्रतियोगिक्लिष्टकारिरूपक्लिष्टकर्म रूपं तस्य भावः क्लिष्टकर्मत्वम् । अधीतेवेदान्तानां ब्रह्म- जिज्ञासादर्शनात् ब्रह्मपदेनैव तद्धर्मस्फूर्तिः । कथंचिन्मृत्युस्त्विति मृत्युरत्यन्तविस्मृतिरिति वाक्यात् कथंचित्प्रलयकालाद्यनुसंधानप्रकारेण देहविस्तरजमात्रेण । कंसेति अत्रादिपदेन प्रलम्बजरासंधौ तयोः कालानुसंधानं बलभीमरूपैः प्रकारैः मृत्युसंबन्धमात्रेण योग्यरूपत्वं कुरुसैन्यानां युयुधानो विराट- श्चेत्यादिगीतोक्तानां पाण्डवसैन्यानां भवान् भीष्मश्च द्रोणश्चेत्याद्युक्तानां पार्थान्योऽन्यप्रकारैस्तथा । अत एवेति मोक्षार्थं मृत्युसंबन्धादेवेत्यर्थः । हरिणेति आविशेन प्रथमस्कन्धे तृतीयाध्याये ह्यो- रावेशित्वं भीमस्य तु नरः फाल्गुनः इत्याद्या विशेषावेशिनो हरेरिति वैष्णवतन्त्राद्बोध्यम् । अन्येषां 'यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा । तत्तदेवावगच्छ त्वं मम तेजोऽशसंभवम्' ॥ इति वाक्यात्तेजोऽशसंक्रमो बोध्यः । इत्यादीनीति । 'पश्यतां सर्वलोकानामलोकं समप- द्यत' इत्यादीनि । मृत्युर्विस्मरणात्मकस्य ब्रह्मणि सर्वज्ञतया प्रवेशासंभवात् उपसेचनत्वासंभवमा- शङ्कमानस्य शङ्कामपनुदन्तः न चैवमिति । स्वयमत्सम्वानं सदन्यस्सादनहेतुरुपसेचनं सिच्यतेऽनेन करणाधिकरणयोश्चेति ल्युट् । अत्रात्रेति स्थाने स्थाने । अनेकेति शतपत्युपक्षे अनिलो मृत्युरन्नं पश्चे वायत इति श्रुतेः। अशानयेति वर्णविकारः अशनाया अशनायानित्यर्थः । छान्दसः प्रत्ययः । एकमृत्यूपक्षेति नित्यमृत्यूपक्षेऽपि 'प्रलप्य मृतवे पुत्रान्' इत्यस्य सुबोधिन्यां दशमे प्रथमाध्याये स्पष्ट- मिदम् । मुच्यमानयोर्ब्रह्मक्षत्रयोः प्राणानामित्यर्थः । मृत्युरपीति भाष्यं विवृण्वन्ति स्म तद्धर्मेति । अशनायेति वैदिकं पदं पूर्वमुपपादितम् । अशनाया इति वर्णविकारपरित्यागः अशनाया हि

वहमन्नमुपष्टभ्य शिवरूपत्वात् ।" - "हुतवहमन्नमुपष्टभ्य" (हुतवह = Agni as food/fuel, or हुतवहम् अन्नम् उपष्टभ्य)!

Let's look at the quotation in L29-30: "'अथ कस्मादुच्यते रुद्रो यस्मादृषिभिर्नान्यैर्भक्तैर्भुक्तमन्नं रूपमुपष्टम्भते तस्मादुच्यते रुद्र' इति ।" Look at "भुक्तमन्नं": भृ [bhṛ] or भु [bhu] क्त [kta] म [ma] न्नं [nnaṃ] -> "भुक्तमन्नं"! Then: "रूपमुपष्टम्भते" (or "रूपमुपष्ठम्भते") -> "रूपमुपष्टम्भते तस्मादुच्यते रुद्र' इति ।"

Now look at L30: "भाष्ये एवकारेण महादेवादिब्यावृत्तिः" -> "महादेवादिव्यावृत्तिः" (printed महादेवादिव्यावृत्तिः or महादेवादिब्यावृत्तिः, Devanagari often uses व/ब interchangeably, here 'व्यावृत्तिः'). "सूत्रार्थस्तु अत्ता भगवान् चराचरग्रहणात् ।" L31: "चराचराणामन्तःप्रवेशनादिति । भाष्ये न्यायचर्चा नोरीकृ

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९५ प्रकरणाच्च ॥ १० ॥ प्रकरणं हीदं ब्रह्मणः । न जायत इत्यारभ्याऽऽसीनो दूरं व्रजतीत्यादिना माहात्म्यं वदन्नन्ते, यस्य ब्रह्म च क्षत्रं चेत्याह । अतः प्रकरणानुरोधात् पूर्वो- क्तप्रकारेण ब्रह्मवाक्यत्वमिति । अन्यथा प्रकृतहानाप्रकृतकल्पने स्यातामिति चकारार्थः ॥ १० ॥ इति प्रथमाध्याये द्वितीयपादे तृतीयं अत्ता चराचराद्यधिकरणम् ॥ ३ ॥ भाष्यप्रकाशः । पदाभावेऽपि चराचरदिपदैर्मृत्य्वादिगतं धर्ममादाय योगवृत्त्या तानि बोधयित्वा तेषां ब्रह्मणश्च लिङ्गत्वं च कल्पयित्वा निर्बन्धेन ब्रह्मवाक्यत्वकल्पनापेक्षया पूर्वपक्षोक्तानां निषिद्धत्वादीनां शीघ्रं बुद्ध्यारोहात् तेन न्यायेन जीव एवात्र ग्रहीतुमुचितः । स चेत् साधारणो न समर्थस्तदा संहारेऽधिकृतो यमो देवतारूपं मृत्युं, देवतारूपो मृत्यु

[अ० १ पा० २ अ० ३ सू० १०] ४९६ श्रीमद्ब्रह्मसूत्राणुभाष्यम् ।

भाष्यप्रकाशः। तामुक्त्वा एतद्ध्येवाक्षरं ब्रह्मेति मन्त्रद्वये सर्वफलदायकत्वादिना तत्प्रशंसामुक्त्वा तत्प्रतिपाद्यस्य ब्रह्मणो माहात्म्यं, न जायत इत्यादिभिरिमैर्मन्त्रैर्वदन्नन्ते तस्यैवात्तृत्वं मृत्युरेवाह । तथाहि यमो देवतारूपो मृत्युर्वाणृत्वेनाभिप्रेतः स्यात् तदा, न जायत इति मन्त्रे तस्य जननमरणाभावं न वदेत् । पुराणादिषूभयोरपि जन्यत्वस्मरणात् । यमो यमी भ्रातृदेव इति, तन्नाऽपानस्ततो मृत्यु- रिति । वेदेऽपि न मृत्युरासीदमृतं न तर्हीति । जन्यत्वं च नश्वरत्वव्याप्तम् । तथा आसीनमन्त्रे,

रश्मिः। चकारार्थत्वात् । तथा च भाष्यम् । 'क इत्था वेद यत्र सः' इति च दुर्विज्ञानत्वं परमात्मलिङ्गमिति । रामानुजभाष्यं प्रकरणं चेदं परस्यैव ब्रह्मणः 'म

रश्मिः । 'एकां रात्रिं विहृत्वैवं ते वीरास्ताश्च योषितः । आमन्त्र्यान्योन्यमालिङ्ग्य ततो जग्मुर्यथागतम्' ॥ इत्यादिकाव्योक्तविहारादीनां विरोधापत्तेः । तच्चाकृतकस्यनिवर्तनेनापि वैय्यर्थ्यापत्तेश्च । न च ध्वंसादिसम्बन्धाभिलापबाधः । कार्यकारणादिसम्बन्धवदेतेषामपि सापेक्षवृत्तिकत्वेनावस्थामपेक्ष्या- भिलापोपपत्तेः । तस्माद् ध्वंसो नावस्थातिरिक्तः । एवं कार्योत्पत्त्यनुकूला कारणावस्था दृश्यत एवेह कपाले घटो नास्तीति प्रत्ययात् न प्रागभावोप्यतिरिक्तः । अत्र प्राञ्चः । उत्पन्नस्य घटादेः पुनरुत्- पत्त्यापत्त्या प्रागभावोतिरिक्तः । तन्न । कालोपाधीनां क्रमिकत्वेन निमित्तसामग्रीप्रविष्टस्य कालोपाधे- स्तदानीमभावात् । जन्यद्रव्यत्वावच्छिन्नं प्रति जनकतया क्लृप्तस्य समवायसंबन्धावच्छिन्नप्रतियोगिताक- द्रव्याभावस्याभावाच्च तदापत्तिः । यदि जन्यद्रव्याभावस्य जन्यद्रव्योत्पत्तिकालिकौत्पत्तिकध्वंसाभावस्य वा हेतुत्वमित्यत्र विनिगमनाविरहात्तादृशद्रव्याभावस्य तादृशाभावानां च कारणताकल्पनापेक्षया लाघवादेक एव प्रागभावो हेतुः कल्प्यते इति विभाव्यते तदापि तत्कालोत्पत्तिकानन्तपदार्थप्रति- योगिकानामनन्तानां प्रागभावानां विनिगमनाविरहेण हेतुत्वकल्पनावश्यकत्वात् प्रागभावरूप- धर्मिकल्पनाधिकेति न प्रागभावो युक्तिसह इत्यपि वदन्ति । केचित्तु स्वानधिकरणतन्तुषु पटोत्पत्ति- वारणाय सर्वेषां तन्तूनां तत्संयोगादीनां च तत्तद्व्यक्तित्वेन हेतुत्वकल्पनं सहस्रतन्तुकपटस्थले आवश्यकमिति तदपेक्षया प्रागभावस्यैव लघुत्वेन हेतुत्वौचित्यात् । न चैवं द्वित्रिचतुर्षु तन्तुषु सहस्रतन्तुकपटोत्पत्तिः स्यादिति वाच्यम् । चरमसंयोगयुक्तेस्तद्व्यक्तित्वेन हेतुत्वोपगमात् । न चैवं स्वानधिकरणतन्तुष्वपि पटोत्पत्तिर्न भविष्यति चरमसंयोगाभावात् तथाच प्रागभावकल्पनमनुचित- मिति शङ्क्यम् । चरमसंयोगस्य यद्धेतुत्वं तच्च समवायघटितसामानाधिकरण्यप्रत्यासत्त्या तथा सति इतरेष्वपि तन्तुषु समवायेन पटोत्पत्तिदर्शनात् तत्र च समवायेन चरमसंयोगाभावेन व्यभिचारादतः कालिकसंबन्धेन तत्पटत्वावच्छिन्नं प्रति कालिकसंबन्धेन चरमोत्पन्नसंयोगव्यक्तेर्हेतुत्व- मावश्यकम् । एवं च कालिकसंबन्धेन स्वानधिकरणतन्तुष्वपि चरमसंयोगस्य सत्त्वेन पटोत्पत्ति- निवृत्त्यर्थं प्रागभावस्य हेतुतौचितेत्याहुः । कश्चित्तु पूर्वोक्तयुक्त्या भवतु प्रागभावोतिरिक्तस्तथापि न तस्य संप्रतियोगित्वं मानाभावादित्याह तदपि न । पूर्वोक्तरीत्या निमित्तसामग्रीप्रविष्टकालोपाधेः स्वान- धिकरणतन्तुषु चरमसंयोगस्य कालिकसंबन्धेन सत्त्वेप्यभावात् । ननु पक्वे घटे स्पर्शरूपरसगन्धानां पाकजानामुत्पत्तिः तत्रोपादानस्य निमित्तसामग्र्याश्च सत्त्वेन विलक्षणस्पर्शरूपादिप्रागभावं विना न निर्वाह इति चेत्तत्तत्परिणामिसत्त्वविशेषाभावादेव सिद्धेः । ननु यत्र पाके स्वभावस्य धर्मत्वेन तत्क- ल्पनेपि प्रागभावापेक्षया लाघवात् । एवमव्याप्यवृत्तिसंयोगाद्यवच्छेदेनोत्पत्तौ स्वभावस्यैव निया- मकत्वं ज्ञेयम् । न चेह कपाले घटो नास्तीति प्रतीतेर्निर्विषयत्वापात इति वाच्यम् । तस्या घटत्वाव- च्छिन्नप्रतियोगिताकाभावविषयतयात्यन्ताभावविषयत्वात् । नापीह कपाले घटप्रागभाव इति प्रतीतिस्तन्नि- बन्धनं तस्या एवाभावात् । तथाग्रहेपि प्रतिपत्ति१र्नादरणीया असार्वजनीनत्वात् । किंचोक्तरीत्या आपा- द्यमानः प्रागभावः किं घटत्वावच्छिन्नप्रतियोगिताक एक उत तत्तद्धटप्रतियोगिकोनेकः । नाद्यः, सर्वेषु घटोपादानेषु तत्सत्त्वात् सर्वेभ्यः कपालेभ्यः सर्वघटोत्पत्त्यापत्त्या नियमभंगापत्तेः । न द्वितीयः । १. अव्यवाये गड्डु । 497

४९४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० २ अ० ३ सू० १० भाष्यप्रकाशः। कस्तं मदामदं देवं मदन्यो ज्ञातुमर्हतीति स्वस्य तस्य च भेदेन ज्ञातृज्ञेयभावं च न वदेत् । अत इदं मृत्यादिदेवताव्यतिरिक्तस्य ब्रह्मण एव प्रकरणम् । तथा सत्यासीनादिमन्त्रेषु यथा विरुद्ध- धर्माधारत्वादिरूपं तन्माहात्म्यमवदत्तथात्रोक्तविधातृत्वस्वरूपमपीति तथेत्यर्थः । शेषं स्पष्टम् । रश्मिः। अभावज्ञानस्य धर्मिप्रतियोगिज्ञानाधीनतया तदानीं प्रतियोगिज्ञानाभावेन तत्प्रतीत्यनुदयापत्तेः । न च प्रतियोगिज्ञानस्य घटत्वेन रूपेण सत्त्वात् प्रत्ययो निर्बाध इति वाच्यम् । तथा सतीह घटत्वाव- च्छिन्नप्रागभावः इति तस्या आकारात् प्रागभावस्यापि सामान्यापत्त्या पूर्वकल्पीयदोषापत्तेः । ननु प्रागभावानङ्गीकारे कारणशरीरप्रविष्टस्य पूर्ववर्तित्वस्य कथं ग्रहणम् । तस्य प्रागभावावच्छ

भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४९९ भाष्यप्रकाशः। अत्र चात्तृत्वस्य ब्रह्मणि निधानात् प्रलयकर्तृत्वनिर्वाहक सामर्थ्यमवसरसंगत्योक्त्वा तदसंभवो निवारितः । सर्वे वेदाः, एतद्ध्येवाक्षरमित्युपक्रमात् सर्वरूपत्वात्मकं वैशेष्यमपि जीवतुल्यभोगा- भावार्थं सूचितं ज्ञेयम् । माध्वास्तु, स यद्यदेवाऽसृजत तत्तदत्तुमध्रियत सर्वं वा अत्तीति सर्वमदितेरदिति- त्वमिति बृहदारण्यकीयाग्निब्राह्मणस्थश्रुतिं विषयवाक्यत्वेनोदाहरन्ति । विज्ञानभिक्षुस्तु, 'य इमं मध्वदं वेद आत्मानं जीवमन्तिकात् । ईशानं भूतभव्यस्य ततो न विजुगुप्सते' ।। इति कठवल्लीस्थाम् । अत्तृत्वरूपस्य विषयस्य तत्र स्फुटत्वात् । अत्तृत्वं च प्रलयकर्तृत्वमेव सर्वे व्याकुर्वन्ति । रश्मिः। इत्याहुः अत्र चेति । अवसरेति जन्मादिसूत्रे जगज्जन्मादिकर्तृत्ववचनसमये स्फुरितोपि प्रल- यकर्तृत्वरूपोऽसंभावितोर्थोऽविचारित एव स्थितः। जगज्जन्मादिकर्तृत्वं निमित्तमुत समवायित्वं ब्रह्मणि शब्दरूपप्रमाणसंचारः कथं सदसतः परस्मिन्निति जिज्ञासायाः प्रतिबन्धकीभूतायाः सत्त्वात् । तन्नि- वृत्तौ प्रथमपादेन सत्यां द्वितीयपादेन 'जन्माद्यस्य यतः शास्त्रयोनित्वात्' इत्यधिकरणविषयवाक्ये यच्छब्दार्थो मुख्यवृत्त्यानन्दप्राणशरीररूपो वाक्यार्थ इति भाष्यान्मनोमयप्राणशरीरभारूपादिविशेषण- प्रतिपाद्यं ब्रह्मेति भवत्यवधृतिः । शब्दविशेषादित्यधिकरणेन पञ्चाधिकरणानन्तरमन्तस्तद्धर्मोपदेशादित्य- धिकरणोक्तस्य 'स्मृतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् । एतैः सर्वैरादित्यमण्डलं विभासते' इत्यारणश्रुतेः प्रसङ्गाद्धिरण्यपदस्य स्मृत्यादिसिद्धान्तसिद्धे हिरण्मयेर्थे यथा ब्रीहिर्वा यवो वेतिश्रुत्युक्ते मुख्यवृत्तिरि- त्युच्यते । एवमन्याधिकरणेषु आकाशादिमुख्यवृत्तिः सिद्धैवेति प्रलयकर्तृपदस्य मुख्यवृत्तिः कथे- मित्याकाङ्क्षायामवश्यवक्तव्यप्रलयकर्तृत्वनिर्वाहक सामर्थ्यमवसरसंगत्योक्त्वा तदसंभवः प्रलयकर्तृत्वा- संभवो निवारित इत्यर्थः । अत्तृत्वं मोक्षदातृत्वम् । इदमेव गलाधःसंयोगानुकूलव्यापारवत्त्वं तदन्य- मतानुक्तमुपपादयितुं माध्वादिमतान्याहुः माध्वास्त्विति । सर्वमदितेरिति तददितेरदितित्वमिति पाठः । कठेति चतुर्थवल्लीस्थाम् । श्रुत्यर्थस्तु मध्वदं कर्मफलभुखानं यद्यपि तथापि प्रलयानुपयोगान्मधु- ब्राह्मणस्थाः पृथ्व्यादयः पदार्थाः मधूनि तान्यत्तीति मध्वदः कर्मण्यण् । तं वेद, जीवम् । 'जीवो जीव- मजीवयत्' इतिवाक्यात् । विजुगुप्सत इति रक्षितुमिच्छति अभयस्य प्राप्तत्वादात्मानं देहं न रक्षितुमिच्छतीति । सर्व इति शंकराचार्यप्रभृतयः । स्वसिद्धान्तोपयोगित्वेन पूर्वं ब्रह्मक्षत्रमोक्षदातृत्व- रूपमत्तृत्वं संपन्नि स्म अत्र तदिति । कठवल्ल्यां प्रलयकर्तृत्वप्रसङ्गादर्शनात् । तच्चिन्त्यम् । प्रथमवल्ल्यां तावत् त्रयाणामग्निजीवब्रह्मणां प्रश्ना उत्तराणि च तत्र द्वयोः प्रश्नोत्तराणि ब्रह्मप्रश्नोत्तरे तु द्वितीयवल्ल्यां तत्र समाप्तौ यस्य ब्रह्म च क्षत्रं चेति श्रुतिः । अत्र मोक्षोपदेश उचितो न प्रलयस्य । तृतीयवल्ल्याम् ऋतं पिबन्ताविति प्रक्रम्यात्मानं रथिनं विद्धीति मोक्षोपायनिरूपणात् । यत्तु रामानुजाचार्याः न केवलं कर्मनिमित्तं भोक्तृत्वमपि तु जगज्जन्मस्थितिलयहेतुभूतस्य ब्रह्मणो विष्णोः संहर्तृत्वं 'सोऽध्व