अणुभाष्य (महाप्रभु वल्लभाचार्य - शुद्धाद्वैत वेदान्त ब्रह्मसूत्र महाभाष्य प्रकाश टीका सहित)
Anubhashya on Brahma Sutras by Mahaprabhu Vallabhacharya with Commentary
महाप्रभु वल्लभाचार्य (टीकाकार: गोस्वामी पुरुषोत्तम जी महाराज) द्वारा
ततश्चतुर्थे पादे पंचभिरधिकरणैः प्राप्तफलस्य ब्रह्मविदो व्यवस्था वक्तव्या । तत्र ब्रह्मविदो भक्तिज्ञानमार्गभेदेन द्विविधाः । भक्तिमार्गीया अपि मर्यादापुष्टिकेलपुष्टिभेदेन द्विविधाः । अवांतर- भेदास्त्वनेके । तत्र ज्ञानमार्गीयाः पुष्टिमर्यादामार्गीयाश्च प्रायशः क्रमेणैव मुच्यंते । अतिकृपया तु केचित् सद्योऽपि । पुष्टिमार्गीयास्तु सद्य एव । एवमेतेषु ब्रह्मवित्सु ज्ञानमार्गीया अक्षरोपासकत्वात्त- त्रैव पर्यवसन्नाः सद्यः क्रमेण वा तमेव प्रविशंति । पुष्टिमर्यादामार्गीयास्तु सद्यः क्रमेण वा नित्यं ब्रह्मलोकं प्राप्नुवंति । तेषां लौकिक्यामेव गुहायामक्षरम् । तत्र स्थितं पुरुषोत्तमं चानुभूय पुरुषोत्तम- स्वरूपे प्रविशंतीत्येतावत्पूर्वपादांते सिद्धम् । ये पुनः क्रमेण नित्यं भगवल्लोकं प्राप्नुवंति, ते तत्रैव भगवंतं भिन्नमीश्वरत्वेनानुभवंतो यथाधिकारं सेवौपयिकदेहं प्राप्नुवंतीत्यर्थात् सिध्यति । तदपि तृतीयस्कंधे ‘अथो विभूतिं मम मायाविनस्ता’मिति कपिलदेववाक्यादवसीयते । अतःपरं पुष्टिमार्गीयस्य प्राप्तफलस्य ‘सोऽश्नुते सर्वान् कामान्’ इति श्रुत्युक्ता व्यवस्थाव- शिष्यते । सा विशेषदर्शनसूत्रे संक्षेपेण सिद्धास्मिन्पादे प्रपंच्यते । ततः संपद्याविर्भाव इति चतुःसूत्रे प्रथमाधिकरणे प्रथमसूत्रे भगवत्स्वरूपे लीनस्य पुष्टिमार्गीयस्य स्वलीलानुभावनार्थं भगवता बहिराविर्भावः क्रियते, अनुगृहीतत्वात् । स चाविर्भावो भगवत्स्वरूपबलेनैव लीलाधिकरणे भवति, न तु प्रपंच इति श्रुतिबलादुक्तम् । ततो द्वितीये तस्यैवाविर्भावेपि मुक्तत्वं नापैतीत्युक्तम् । ततस्तृतीये एवं फलदातुः परमात्मत्वमेवे- त्युक्तम् । ततश्चतुर्थे ‘सत्यं ज्ञान’मित्यस्या ऋचः ‘ब्रह्मविदाप्नोती’त्यनेनैकवाक्यत्वं व्याख्यान- व्याख्येयभावादस्ति, तस्मादयमेवार्थ इति निर्धारितम् ॥ ततो द्वितीये अष्टसूत्रे ब्राह्मेणेत्यधिकरणे येन देहेनायं जीवो लीलानुभवं करोति तादृशो देह उपोद्घातेनावसरेण वा विचारितः । तत्र प्रथमसूत्रे सच्चिदानंदात्मकेनैव देहेन ब्रह्मणा सह भोगान् भुंक्त इति स देहस्तादृशो ब्रह्मणा संपादित इति साधितम् । तत्प्रकरणे ब्रह्मात्मकाना- मेवान्नमयादिविभूतीनामुपन्यासादिति जैमिनिमतकथनमुखेन तत्संपत्तिश्च प्रदर्शिता । ततो द्वितीय- सूत्रे प्रज्ञानघनश्रुत्या केवलज्ञानात्मको ब्रह्मणो विग्रहो बोध्यते । अतस्तादृशेन सह भोगकर्त्री ज्ञानात्मकेनैव भवितव्यम् । नचैवमानंदानुभवेन सर्वकामाशनबाधः शंकनीयः । भगवतः पूर्णानंदत्वात् तत्संबंधेनैवानंदानुभवः सिद्धः । तस्माद्विग्रहं विनैव केवलस्वरूपेण भुंक्त इत्यौडुलोमिमतमुक्तम् । ततस्तृतीये सूत्रे ‘सत्यं ज्ञान’मित्यस्यामृचि गुहाया उक्तत्वात् तस्याश्च विग्रह एव संभवात् श्रुतौ विग्रहत्वेनैवोपन्यासः । ते च विग्रहा भगवद्धाम्नि पूर्वमेव वर्तंते भगवद्धर्मरूपाः । तेषु कस्मिंश्चिदयं चिन्मात्र एवाविश्याभिमानं कृत्वा भगवदिच्छानुरूपलीलात्मकान् भोगान् भुंक्ते । तस्मान्न चिन्मात्र- त्वस्य नित्यविग्रहवत्त्वस्य च विरोध इति मतद्वयं संगृह्य तादृशविग्रहेणैव भुंक्त इति स्वमतमुक्तम् । ततश्चतुर्थे सूत्रे तादृशदेहप्राप्तौ भक्ते भगवदनुग्रह एव हेतुरित्युक्तम् । तेन तादृशो भोगो न सर्वेषाम्, किंत्वत्यंतभगवदनुगृहीतानामेवेति वरणश्रुत्या सिध्यति । ततः पंचमसूत्रे अतो हेतोः भगवाननन्याधिपतिः । अनन्याश्च त एव ये साधनत्वेन (फलत्वेन) च भगवंतमेवे जानंति । तस्मात्तदर्थमेवं भगवतः संकल्प इत्युक्तम् । तेन तदेकतानतया तदाश्रयतया च ते सर्वदा तिष्ठंतीति सिध्यति । ततः षष्ठे सूत्रे मुक्तस्य देहांगीकारप्रतिकूलं बादरिमतमाह । ‘यत्र हि द्वैतमिव भवती’- त्यादिश्रुतिर्मुक्तिदशायां द्वैतदर्शनमुक्त्वा ‘यत्र त्वस्य सर्वमात्मैवाभू’दित्यादिना , मुक्तस्य द्वैतदर्शनं 878
निवेषति । तथा सति द्वितीयदर्शनाभावे कामभोगवार्तैव दूरेति तदाक्षेप्त्यो देहोपि दूरतरः । एतन्मते 'ब्रह्मविदाप्नोति पर'मित्यादिश्रुतिः पूर्वपक्षाविश्रांता । ततः सप्तमे बादरिविरुद्धं जैमिनिमतमाह । जैमिनिस्तु मुक्तस्य देहसत्तां मन्यते । 'ब्रह्मविदाप्नोती'ति श्रुतिः पूर्वपक्षाविश्रांतेत्यत्र मानाभावान्न बादरिमतं साधीयः । अनेन श्रुतिविरोधापत्तेः । श्रुतौ हि 'ब्रह्मविदाप्नोती'त्यत्र ज्ञानस्य तत्प्राप्ति- साधनत्वमुच्यते, 'नायमात्मे'त्यत्र वरणैकप्राप्यत्वम् । अतः साधनबोधकश्रुत्योः परस्परविरोधः । 'सोश्नुत' इत्यादिना परप्राप्तिरूपन्यस्यते । 'ब्रह्मैव सन् ब्रह्माप्येती'त्यत्र ब्रह्मणि जीवस्य लय उच्यते । अतः फलबोधकश्रुत्योर्विरोधः । एवं विरोधे सति तदभावाय गतिरवश्यं कल्पनीया । तत्र पुष्टि- मर्यादाभ्यां मार्गभेदस्य सिद्धत्वात् तत्तन्मार्गीयस्य तत्तदेव फलं परमिति व्यवस्थितविकल्प एव ज्यायानिति नैकतरादरणं युक्तमिति । ततोष्टमे भगवान् व्यासः स्वसिद्धांतमाह । लोके हि शरीरं भूतजन्यं भोगायतनं च दृष्टम् । मुक्तस्य तु शरीरतदभावावाक्षेपलभ्यौ न निवारयितुं शक्यौ । अतः शरीरमेव तादृशं कल्पनीयं येन श्रुत्यविरोधः । तत्र भूमविद्याया'मात्मतः प्राण' इत्युपक्रम्य 'आत्मत एवेदं सर्व'मित्यंतेन भगवत एव सकाशाद्भोगोपयोगिसर्वसामग्रीश्रावणान्मुक्तस्य शरीरं न भूतजन्यम्, तस्मादशरीरम् । तत्रैव 'आत्मरतिरात्मक्रीड आत्ममिथुन आत्मानंद' इति श्रावणात्तच्छरीरं भोगा- यतनम् । तस्माच्छरीरमपि । एवमुभयविधत्व आस्थिते श्रुतीनां न कश्चिद्विरोधः ॥ ततस्तृतीये द्विसूत्रे तद्भावाधिकरणे गुणोपसंहारपादोक्तं निर्दोषपूर्णगुणं भगवत्स्व- रूपमेव फलमिति विचारितम् । तत्र पूर्वसूत्रे दोषरूपाणामङ्गत्वादीनां भगवति या प्रतीतिः, सा भ्रांता, स्वप्नवदर्थाभावेपि प्रतीयते । तस्माद् ब्रह्म निर्दोषमित्युक्तम् । ततो द्वितीये सूत्रे याः पौगंडाद्यो- वस्थाः, ये च गुणास्ते सर्वे संत एव मायापसारणाद्भक्तानां प्रतीयंते । तस्माद् ब्रह्मानंतगुणपूर्णमव- तारेपीत्युक्तम् । तथा चावसर एव संगतिरित्यर्थः ॥ ३ ॥ ततश्चतुर्थे द्विसूत्रे प्रदीपवदित्यधिकरणे फलानुभवोपकरणं प्रकृतत्वाद्दिचार्यते । पूर्वा- धिकरणयोः फलप्राप्त्युपकरणस्य फलस्वरूपस्य च विचारितत्वात् । अतोवसरोत्र संगतिः । तत्र प्रथ- मसूत्रे मुक्तस्य भगवत्कृपयाभिव्यक्ताभ्यां जैवज्ञानक्रियाभ्यां योगेपि न ताभ्यां भगवता सह काम- भोगकरणसमर्थो भवति, किंतु यथा प्राचीनः प्रकृष्टो दीपः स्नेहयुक्तायामर्वाचीनायां वर्त्यां प्रविष्टस्तां समानकार्यक्षमां करोति, तथा भगवानपि स्वदत्ते मुक्तदेहे जीवेन सह प्रविष्टस्तं देहं स्वभोगरूपकार्य- क्षमं करोति । यतो 'भर्ता स'न्निति भर्तृसूक्तारंभमंत्रे भगवतः क्रीडार्थं बहुधा आवेश उक्तः । तेनैवं ज्ञायते क्रीडोपयोगिभगवदावेश एव फलानुभवोपकरणमिति । ततो द्वितीयसूत्रे अस्थूलादिश्रुतेः सर्वकामभोगश्रुतेश्च यो विरोधः स सुषुप्तिमोक्षभेदेन भगवदाविर्भावप्रकारभेदात् परिहृतः ॥ ततः पंचमे षट्सूत्रे जगद्व्यापाराधिकरणे भोगप्रकारो विचारितः । तत्र प्रथमसूत्रे 'सोश्नुते सर्वान् कामान्'निति श्रुतिर्मुक्तिकरणस्था । तस्मात्तत्र न जगत्संबंधः । किंच, भगवल्लीला कालमायाव्यतीता । तेन प्राकृतं जगत् ततो दूरतरमिति न तत्संबंधः । अतो लौकिकव्यापाररहित- मेव मुक्तस्य भोगकरणमित्युक्तम् । ततो द्वितीयसूत्रे 'सर्वं हि पश्यः पश्यती'तिश्रुत्युक्तप्रत्यक्षोप- देशेन तस्य जगद्व्यापारसाहित्यमाशंक्य, श्रुतौ सर्वपदेन न जगदुच्यते, किंतु लीलास्थाः पदार्था एवोच्यंते । तेषामेव दर्शनम् । अतो न श्रुतिविरोधः । किंच, पूर्वोक्तश्रुत्यनंतरं 'स एकधा भवती'ति भक्तस्य नानारूपबोधिकाश्रुतिः पठ्यते । तेन नानारूपैर्नानालीलां भगवदनुभावितामनुभवतीति न
५२ वेदान्ताधिकरणमाला ।
लीलानामनित्यत्वम्, नापि काचिदन्यानुपपत्तिरित्युक्तम् । ततस्तृतीये सूत्रे 'आयास' इत्यागम- नभविष्यत्वबोधकभगवद्वाक्याल्लीलानां भक्तरूपाणां चानित्यत्वमाशंक्य, भगवल्लीला प्राकृतविलक्षणा भगवदिच्छयैवोपपद्यमाना न कुतकैरन्यथा भाव्या, किंतु श्रुत्या नित्यत्वेनोक्तत्वादलौकिकानुसरण- मेव कर्तव्यमित्युक्तम् । ततश्चतुर्थसूत्रे अस्मिन् सूत्रे कुतर्केणान्यथाभावनं न कर्तव्यमिति यदुक्तं तदेव श्रुतिप्रत्यक्षाभ्यां साधितम् । ततः पंचमसूत्रे जीवस्य भोगमात्र एव भगवत्साम्यम्, न तु सर्वथेति 'न तत्समश्चाभ्यधिकश्च दृश्यते' इतिश्रुतेर्न विरोध इत्युक्तम् । एवमत्र पंचसूत्र्या भगवतः परमफलत्वमर्थादुक्तं भवति । ततः षष्ठे ईदृशं परमफलं प्राप्य भक्तानां ज्ञानिनां चावृत्तिर्नास्ति । तत्र प्रमाणं च शब्दः श्रुतिरूपः स्मृतिरूपश्चेत्युक्तम् । एवं षड्भिः सूत्रैर्फलभोगप्रकारो विचारितः ॥ ५ ॥ वेदांतीयन्यायमालामणुभाष्यानुसारिणीम् । सौकर्यायार्थबोधस्य चकार पुरुषोत्तमः ॥ १ ॥ इति श्रीवल्लभाचार्यचरणदासस्य श्रीपीतांबरात्मजपुरुषोत्तमस्य कृतौ वेदान्ताधिकरणमालायां चतुर्थाध्यायस्य चतुर्थः पादः । चतुर्थोध्यायः समाप्तः ॥
880
श्रीकृष्णाय नमः । श्रीगोपीजनवल्लभाय नमः । श्रीमदाचार्यचरणकमलेभ्यो नमः । श्रीमद्ब्रह्मसूत्राणुभाष्यम् । भाष्यप्रकाश-रश्मि-परिवृंहितम् । अथ प्रथमोऽध्यायः । चतुर्थः पादः । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥ (१४१) एवं सर्वेषां वेदान्तानां ब्रह्मपरत्वे निर्णीते, केचिद् वेदार्थाऽज्ञानात् क्वचिद् वेदभागे कापिलमतानुसारिपददर्शनेन तस्यापि वेदमूलकत्वं वदन्ति । तन्निराकर- भाष्यप्रकाशः । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥ अतीतेषु पादेषु प्रथमेऽतिव्याप्तिजनकशब्दकृतसंदेहवारणाय कार्यनिरूपकाणि वाक्यानि विचार्य, द्वितीयतृतीययोश्च यथायथं जीवजडरूपार्थकृततत्संदेहवारणायान्तर्याम्युपास्यरूपनिरूपकाणि च वाक्यानि विचार्य सर्वेषां वेदान्तानां साक्षात् परंपरया च ब्रह्मणि समन्वयः प्रतिपादितः । स तदा दृढीभवति यदा श्रौतत्वेनाभिमन्यमानस्य मतान्तरस्य श्रौतता निराक्रियते । अतस्तदर्थं चतुर्थे पादे जीवजडसमुदायात्मकार्थनिरूपकतया मतान्तरश्रौतताभ्रमजनकानि प्रकीर्णानि वाक्यानि विचार्यन्त इत्युपोद्घातबोधनाय पूर्वपादत्रयसिद्धमर्थमनुवदन्त एतत्पादार्थमाहुः एवमित्यादि । तथा च तन्निराकरणं प्रयोजनं, तादृशवाक्यविचारश्चार्थ इत्यर्थः । नन्वदृश्यत्वाद्य- रश्मिः । आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतैर्दर्शयति च ॥ १ ॥ परंपरयेति जीवमुख्यप्राणलिङ्गादित्यत्र जीवमुख्यप्राणप्रतिपादकवेदान्तानां परंपरया समन्वय । उपोद्घात इति । तथाच प्रकृतः स च वेदान्तानां समन्वयः तत्सिद्ध्यर्थां चिन्तां मतान्तरनिराकरण- चिन्तामुपोद्घातं बुधा विदुरिति । ननु सांख्यमतनिराकरणमाकस्मिकमिति चेन्न, षट्सु शास्त्रेषु वेदवेदान्तयोरङ्गाङ्गिभावः परस्परं, स आरम्भ एव विचारितः । अधुना तृतीयशास्त्रस्य विचारः प्राप्तावसरः क्रियत इति योगः प्रत्युक्त एव । द्वितीयेऽध्याये पञ्चरात्रविचारः पाशुपतमतदूषणं 'येऽप्यन्यदेवता भक्ताः' इत्यादिना गीतायां स्पष्टमेव । नास्तिकादिमतानि दूष्यत्वेन पुराणप्रसिद्धानि द्वितीये द्वितीयपादे प्रतिवक्तव्यानीति ज्ञेयम् । तादृशेति प्रकीर्णकवाक्यविचारः प्रकीर्णकत्वं कापिलमतश्रौतताभ्रमजनकत्वं क्वचिद्वेदभागे कापिलमतेत्यादिभाष्यात् । समन्वयानुकूलः मतान्तर- श्रौतताभ्रमजनकवाक्यविचारः इत्यत्र विचारपदं तादृशसमन्वये लाक्षणिकं वा । समन्वयस्त्वध्यायार्थः। १०५ ब्र० सू० १०
८१० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १ णाय चतुर्थः पाद आरभ्यते । तत्र, ईक्षतेर्नाशब्दमिति सांख्यमतमशब्दत्वादिति निवारितम् । वेदेन प्रतिपादितमिति तत्राशङ्कते । आनुमानिकमप्येकेषाम् । एकेषां शाखिनां शाखासु सांख्यपरिकल्पितप्रकृत्यादि श्रूयते । ‘इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥’ भाष्यप्रकाशः । धिकरणे एतादृशमपि वाक्यं विचारितमेवेति, किमनेन विचारेणेत्याशङ्कां समादधानाः सूत्राक्ष- मवतारयन्ति तत्र ईक्षतेरित्यादि । तथाच यद्यपि तद्वाक्यं विचारितं, तथापि तन्मतस्य सर्वथा अश्रौतत्वमेवेति नोपपादितमतो विचार इत्यर्थः । एतेनास्य पादस्य, ईक्षतिसमन्वयसूत्रप्रपञ्च- रूपत्वं बोधितम् । नन्वत्र प्रकृतिनिराकरणमेवास्तु । मतस्य श्रौततानिराकरणे किं गमकमित्या- काङ्क्षायामानुमानिकपदमेव गमकमित्याशयेन व्याकुर्वन्ति एकेषामित्यादि । तथा च पूर्वग्रन्थे- ‘कामाच्च नानुमानापेक्षा,’ ‘नानुमानमतच्छब्दात्’ इत्यादौ केवलानुमानपदादत्र च संबन्धितद्धि- तान्तानुमानिकपदात् सांख्यप्रवचनीये, ‘संघातपरार्थत्वात् पुरुषस्य’ इति सूत्रेऽनुमानेन प्रकृतिसं- बन्धित्वेन सिद्धः पुरुषोऽपि संग्राह्यत्वेन गम्यते । तयोश्च निराकरणे तन्मतमेव निराकृतं भवतीति सौत्रं पदमेव गमकमित्यर्थः । केषां शाखायामित्याकाङ्क्षायां विषयवाक्यमुदाहरन्ति इन्द्रियेभ्य रश्मिः । एतादृशमिति ‘अथ परा यया तदक्षरमधिगम्यते यत्तदद्रेश्यमग्राह्यमगोत्रमवर्णमचक्षुःश्रोत्रम्’ इत्यादिकं वाक्यं मायाप्रकृत्यविद्यावादानां श्रौतताभ्रमजनकम् । अवतारयन्तीति इदमुपलक्षणं तन्मतं पूर्वपक्षे निवेश्य शंकराचार्यमतेनावतारयन्ति स्म विचारितमिति । नन्वीक्षत्यधिकरणे तु शब्दा- प्रतिपाद्यं न भवति ईक्षतेः श्रावणादित्युक्तं न प्रकृतिर्निवारिता शंकरभाष्ये तु निवारितेति चेन्न । प्रकृतिनिराकरणं सूचितार्थत्वेनाङ्गीकृत्य विचारितप्रायमित्यर्थः । नोपपादितमिति सूचितार्थपक्षे । एतेनेति सूचितार्थाङ्गीकारेण ‘सर्वेषामेव शब्दानां व्यञ्जकत्वमपीष्यते’ इति । बोधितमिति व्यञ्जनया बोधितं सूचितमिति यावत् । तथा चायं भाष्यार्थः । तत्रेति शांकरमतेऽसाकं सूचितार्थपक्षे । इतीति इत्येवं तयोः पक्षयोराशङ्कत इत्यर्थः । ननु शांकरमतपूर्वपक्षस्य पूर्वपक्षकरणे किं फलमिति चेन्न सिद्धान्तस्य पूर्वपक्षतुल्यत्वात् । तथा च शांकरभाष्यमेतत्सूत्रसमाप्तौ । तदेवं पूर्वापरालोचनायां नास्त्यत्र परपरिकल्पितस्य प्रधानस्यावकाश इति । परपरिकल्पितस्येति प्रधानविशेषणान्मायाङ्गीकार- ध्वननात् । पूर्वग्रन्थ इति आनन्दमयाधिकरणे द्युभ्वाद्यायतनाधिकरणे च । संबन्धीति अनुमानेन संबध्यत इत्यानुमानिकं ‘शेषे’ इति ठक् । इति सूत्रे प्रथमाध्यायस्थे । अनुमानेनेति । ननु आनुमानिकेनेति वक्तव्ये अनुमानपदं कुतः इति चेन्न । अनुमानेन प्रकृत्या सिद्धः पुरुषः संग्राह्यत्वेन काठके गम्यते । प्रकृतिसंबन्धित्वेन संघातपरार्थत्वेन सिद्धः पुरुषः संग्राह्यत्वेन मन्यते इत्यपि पदार्थात् । तथा च सूत्राणि ‘सत्त्वरजस्तमसां साम्यावस्था प्रकृतिः प्रकृतेर्महान् महतोऽहं- कारात्तन्मात्राणि उभयमिन्द्रियं स्थूलभूतानि पुरुष इति पञ्चविंशतिगुणाः’ ‘स्थूलात्पञ्चतन्मात्रस्य’ ‘शब्दाभ्यन्तराभ्यां तैरहंकारस्य’ ‘तेनान्तःकरणस्य’ ‘ततः प्रकृतेः’ ‘संघातपरार्थत्वात्पुरुषस्य’ तयो- रिति प्रकृतिपुरुषयोः । इन्द्रियेभ्य इत्यादीति तथा च काठकपदाद्यजुर्वेदे चरकाणाम् द्वादशविध 882
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८३१ महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः' इति काठके श्रूयते । तत्र बुद्धेरात्मा अहंकारः । ततो महान् महत्तत्त्वम् । ततोऽव्यक्तं प्रकृतिः । ततः पुरुष इति । न ह्यहंकारादयः पदार्था ब्रह्मवादे संभवन्ति । तस्मादेवंजातीय- केषु तन्मतपदार्थानां श्रवणान्मायाप्रकृत्यविद्यावादा अपि श्रौता इति चेन्न । भाष्यप्रकाशः । इत्यादि । कात्र प्रकृत्यादीत्यतो व्याकुर्वन्ति तत्र बुद्धेरित्यादि । बुद्धेरात्मा अहंकार इति । पर इत्यनुषज्यते । बुद्धेः सकाशादात्मा । 'सर्वात्मनोऽन्तःकरणं गिरित्रम्' इत्यन्तःकरणत्वेन सिद्धस्य गिरित्रस्य, 'चन्द्रो मनो यस्य दृगर्क आत्मा अहं समुद्रो जठरं भुजेन्द्राः' इति स्वस्मिन्ना- त्मपदप्रयोगादात्माऽहंकारः पर इत्यर्थः । शेषं स्फुटम् । तथा चैवमत्र सांख्यमतप्रत्यभिज्ञानात् तन्मतं श्रौतमिति तदाहुः नहीत्यादि । अपिशब्दार्थमाहुः तस्मादित्यादि । एवंजातीयके- ष्विति । वक्ष्यमाणेष्वजादिवाक्येषु । मायाप्रकृत्यविद्यावादा इति । मायां तु प्रकृतिं विद्यात्, पञ्चाब्रह्मवेदां पञ्चपर्वामघौम' इत्यादिवाक्येष्वभिमन्यमानाः । एवं पूर्वपक्षमनूद्य तद्दूषकं रश्मिः । भवन्ति चरकाह्वर्का कठोः प्राच्यैकठाः कपिष्ठलकठोश्वारायणीयाः वार्तन्तव्याः श्वेताः श्वश्वतराः औपमन्यवेः पांता ऐरिनेयौः मैत्रायणीयाश्चेति । श्वेताश्वतरोपनिषदिति प्रसिद्ध्याकारो न वाचनीयः षडालिखितपाठक इति हि भाष्ये पाठकाधमेषु गणनात् । अतो द्वादश । यद्वा चरका इत्युद्देश्यं अग्रे द्वादशविधेयानि । तथा चायं भाष्यार्थः । एकेषां मुख्येभ्यः सामान्यार्थशास्त्रिभ्योऽन्येषां यजुर्वेदशाखिनां शाखासु चरकादिनाम्नीषु यद्वा एकेषां चरकानां केवलानां शाखिनां शाखासु हरकादिषु इति । कठशाखायामित्यर्थः । कात्रेति अत्र श्रुतिषु सांख्यसिद्धप्रकृत्यादि केति प्रश्नः । सांख्य- सूत्रानुक्तान्येव । आत्मपदस्याहंकारवाचकत्वं बुद्धेः परत्वं च व्युत्पादयन्ति बुद्धेरिति । सर्वात्मनः पुरुषस्य । इदं द्वितीयस्कन्धेस्ति । अन्तःकरणत्वेनेत्यस्याहंकारत्वेनेत्यर्थः । चन्द्रो मनः । इदमुत्तरार्धं त्रिपष्टितमेध्याये शिवस्तुतावस्ति । अहं श्रीशिवः अहंकारः । आत्मेत्यात्मपदमहंकारवाचकम् । बुद्धेः परत्वमीश्वरस्य स्पष्टम् । 'यश्च मूढतमो लोके यश्च बुद्धेः परं गतः । तावुभौ सुखमेधेते क्लिश्यत्यन्तरितो जनः' ॥ इति । भुजा इन्द्रः । स्वस्मिन्निति श्रीकपर्दिनि ह्यहंकारे तथाच गिरित्रसाहंकारस्य चन्द्रो मन इत्याद्युक्तरीत्या वाचकं यदात्मपदं तस्य प्रयोगात् कस्मिन्नित्यतः स्वस्मिन्नहंकाररूपे श्रीशिवे इति पंक्तिकान्वयः । चैत्रस्य गुरुकुलममित्यस्यैकदेशान्वयः । सांख्येति तदिदं सांख्यमतं श्रुताविति सांख्यमतप्रत्यभिज्ञानम् । ननु वैदिकशब्दानां भिन्नत्वात्कथं श्रौतमिति चेन्न परमत ऐक्यात् अपपीति मायाविद्यासमुच्चये रूपम् । ननु मायावादः शांकराणां प्रकृतिवादो निरीश्वरसांख्यानां अविद्यावादः सैषाऽविद्या जगत्सर्वमिति श्रीनृसिंहतापनीयश्रुतेः तापनीयशाखिनामनिर्णयकर्तॄणामिति त्रयाणां भेद उक्तो भाष्ये तेषामैक्यं पूर्वपक्ष इति प्रमाणपूर्वकं तं पक्षमाहुः मायां स्थिति । पञ्च- पर्वाविद्या तासामभेदान्वयः आदिनाऽजादिवाक्यानि । श्रौता इति समख्या अभेदान्वयान् नामभेदेन प्रयुक्ता न्यख्या । अभीति अभिमन्यन्ते ये वादास्तेष्वभिमन्यमानाः 'लटः शतृशानचौ' 'बाने दृक्' । 883
८३२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १ शब्दसाम्यमात्रेण न तन्मतं सिध्यति । 'संदिग्धानां पदार्थानां पौर्वापर्येण निर्णयः । न तु संदिग्धवाक्येन सर्वव्याकुलतोचिता' ॥ अत्र हि पूर्वम् । 'आत्मानं रथिनं विद्धि शरीरं रथमेव तु । बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च ॥ इन्द्रियाणि हयानाहुर्विषयाँस्तेषु गोचरान् । आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' ॥ तदनु चत्वारि वाक्यानि । 'यस्त्वविज्ञानवान्' इत्यादि । तदनु 'इन्द्रियेभ्यः भाष्यप्रकाशः । हेतुमवतारयितुं निषेधं व्याकुर्वन्ति शब्देत्यादि । तन्मतमिति । अहंकारमहत्तत्त्वप्रकृतिपुरुषाणा- मुत्तरोत्तरं परत्वबोधकं सांख्यमतं कुतो न सिध्यतीत्यतः कारिकया तद्धेतुमाहुः संदि- ग्धेत्यादि । पौर्वापर्येणेति पूर्वापरसंदर्भेण । संदिग्धा ह्यस्मिन् वाक्ये पदवाच्या अर्थाः । पदानि वाक्यावयवभूतानि, वाक्यं च महावाक्यस्य । अतो महावाक्यानुरोधेन तदर्थो निर्णेयः । न तु संदिग्धपदघटितवाक्येनावयविभूतस्य महावाक्यस्य व्याकुलता युक्ता । तथा च तद्व्याकुलीभावा- देतन्मतं न सिध्यतीत्यर्थः । तदेतद् व्युत्पादयन्ति अत्र हीत्यादि । अत्रेति प्रकरणे । हिर्हेतौ । चत्वारीति । विज्ञानसारथिवाक्यस्य क्वचिदिन्द्रियेभ्यः परा इत्याद्यनन्तरं दर्शनाच्चत्वारि, विज्ञान- रश्मिः । ननु 'कर्तरि कृत्' इति चेन्न घञादौ कर्तरि कृदित्यस्याप्रवृत्तिवदत्राप्यप्रवृत्तेरिति वैयाकरणभूषणसारे सिद्धान्तनिर्णय उक्तत्वात् । निषेधमिति सौत्रनकारार्थम् । महेति अवयवभूतम् । व्याकुलतेति उक्तशरीरूपकविन्यस्तागृहीतिपरित्यागेन सूक्ष्मदर्शनपरित्यागेन च स्थूलदृष्ट्या शब्दपीडा युक्तेत्यर्थः । हिर्हेति । परा इतीति हेतोः इत्यग्रेन्वयः । चत्वारीति । 'यस्त्वविज्ञानवान् भवत्ययुक्तेन मनसा सदा । तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः' ॥ 'यस्तु विज्ञानवान् भवति युक्तेन मनसा सदा । तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः' ॥ 'यस्त्वविज्ञानवान् भवत्यमनस्कः सदाऽशुचिः । न स तत्पदमाप्नोति संसारं चाधिगच्छति' ॥ 'यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्भूयो न जायते' ॥ इति चत्वारि । वदतीति सूत्रे व्यासो वदति । 'भाष्ये । पूर्वमिति आत्मानं रथिनमित्यादि- संबद्धः । एवकारेण सांख्यमतव्यवच्छेदः । तमिति पूर्वसंबद्धार्थम् । प्रकृते । ननु प्रथमसुबोधिन्यां काव्यवद्रूपकनिरूपणे स्पष्टोर्थो भवति यद्यपि तथापि भागवते तथाकथनमनुचितं सर्ववेदसारीद्धार- त्वात् । रूपकादिकं तु बुद्धिपरिकल्पितमिति रूपककरणं भाष्ये कुतः इति चेन्न ईश्वरवद्वेदोपि कर्तु- मकर्तुमन्यथाकर्तुं समर्थ इति ज्ञापनाय कचिद्रूपककरणात् 'अत एव च नित्यत्वम्' इति व्याससूत्रात् 884
पराः' इति । तत्र पूर्वसंबन्ध एवार्थ उचितस्तमाह शरीररूपकविन्यस्तगृहीतेः । शरीरेण रूप्यन्ते ये शरीरेन्द्रियादयस्ते विन्यस्ता यत्र रूपकभावेन रथादिषु तेषा- मेवात्र गृहीतिर्ग्रहणम् । अन्यथा प्रकृतहानाप्रकृतपरिग्रहापत्तिः । जीवप्रकरणं ह्येतन्मुक्त्युपायोऽस्य रूप्यते । योग्यं शरीरमारुह्य गच्छेदिति हरेः पदम् ॥ तत्र जीवस्य ब्रह्मप्राप्तौ मुख्यं साधनं शरीरम् । स रथः । सर्वसामग्री- सहिताऽपराधीनयानत्वात् । रथस्तु ह्याधीनः । हयाश्च खलुबुद्ध्यधीनाः । सा च भाष्यप्रकाशः । सारथिवाक्यार्थस्त्वग्रे कारिकया वक्तव्यः । एवं संदर्मे यत् सिद्धं तद्वक्तुं हेतुं वदतीत्याहुः तत्रेत्यादि । तत्रेति इन्द्रियेभ्य इति वाक्ये । विष्णुधर्मोत्तरे तृतीयकाण्डे । 'उपमानेन तुल्यत्वमुपमेयस्य रूपकम्' इति रूपकलक्षणाद् रूप्यते यत् तद्रूपमिति कर्मणि घञि कृते, 'इवे प्रतिकृतौ' इति कनि च कृते रूपकमित्यलंकारनाम सिद्ध्यतीत्यभिसंधाय हेतुं व्याकुर्वन्ति शरीरेणेत्यादि । खस्य खज्ञापकत्वेऽपि दोषाभावाच्छरीरेण रूप्यन्ते ये शरीरेन्द्रियादयस्ते यत्र रश्मिः । यद्शेदं समाधानम् 'काव्यादीनामसत्यत्वाज्ज्ञोपयोगः कथंचन' इत्यनुपयोगाद्धर्मवाचकलोपोपमा रूपकमत्र न काव्योक्तमिति तदाहुः विष्णुधर्मेति । उपमीयतेऽनेन करणे ल्युट् । उपमानम् । उपमातुमर्हमुपमेयम् 'हंसीव कृष्ण ते कीर्तिः स्वर्गङ्गामवगाहते' इत्यत्र हंसी उपमानं तद्वाचकं 'इव' पदम् । कीर्तिरूपमेयं उपमानेन तुल्यत्वं स्वर्गङ्गावगाहनं उपमानोपमेयसाधारणधर्मः इयं पूर्णोपमा 'कर्पूरन्ती दृशोर्मम' इति धर्मवाचकलोपोपमा कर्पूरमिवाचरन्तीत्यर्थे विहितस्य कर्पूरपदा- नन्दात्मकाचारार्थस्य क्विप इवशब्देन सह लोपात् धर्मलोपस्त्वैच्छिकः दृशोरानन्दात्मकतयो कर्पूर- न्तीति तदुपादानस्यापि संभवात् तथा चोपमेयसंबन्धिनेरूपकमिति भावः । अत्र शरीरेन्द्रियादयः उप- मेयाः रथादीन्युपमानानि । घञीति कर्मणि घञि दीर्घत्वम् । रूप रूपकरणे चुरादिरिति । यद्वा रूपन्दः रूपते स्तूयते रूपं खप्नश्चित्येति सूत्रेण पप्रत्ययो दीर्घश्च निपातितः । ननु भाष्ये स्वार्थे कप्रत्ययो वक्ष्यते अत्रेवार्थे कृत उच्यते तत्राहुः अलमिति । अत्र भाष्ये शरीरेण पदेन ण्यन्तेऽऽस परोक्षवादः रूप्यन्ते शब्द्यन्ते शरीरेन्द्रियादयः । ननु विषयाः कथं शरीरेण शब्द्यन्ते सत्यम् । जीवप्रकरणे मोक्षे निरूपणीये विषयाणां मग्नत्वात् । 'सर्वेषां मग्नता ततः' इति सिद्धान्तरहस्यात् तथा चात्मपद- शक्तिर्विषयेषु । शरीरेन्द्रियादयः इत्यादादिपदेनानिन्द्रियं मनो वा आत्मन उपलक्षकम् । यद्वा सर्वे सर्वार्थवाचका इति शरीरस्य सर्ववाचकत्वेन शरीरेन्द्रियात्मवाचकत्वं यद्यपि तथापि अन्यावाचकत्वं दोषः स्यात् तद्वारणायात्मोपनिषदः शरीरस्यात्मत्वेन ग्रहणमिति शरीरेण त्रिविधात्मनापदेन रूप्यन्ते शब्द्यन्ते शरीरादयः शरीरद्वयात्मानः रथादिष्विति भाष्यात् । यत्रेत्यस्यार्थमाहुः रूपकेति रूपपदस्थले स्वार्थे कप्रत्ययेन सूच्यतेऽयमर्थः । तेषामिति रथादीनाम् । एतावतो हेतोः श्रुतौ सूत्रेण सांख्यमत- निराकरणाय प्रयुक्तेर्न विशेषणादिकृत्यमतिदुरूहम् । प्रकृते । एतदाहुः खस्येति । खस्य शरीरपदस्य स्वेषां प्रतिपाद्यत्वेन स्वीयानामर्थानां शरीरेन्द्रियादीनां ज्ञापकत्वेऽवबोधकत्वे अविवेकारार्थे अवबोधकत्व एवपदजन्यपदार्थोपस्थितिकत्वा । दोषः सर्वार्थवाचकत्वं तसाभावात् । शरीरेण
८१४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १ प्रग्रहाधीना । स च सारथ्यधीनः । स च स्वबुद्ध्यधीनः । सा च मार्गाधीना । स भाष्यप्रकाशः । वाक्ये रथादिषु रूपकभावेन अलंकारबोधितप्रतिकृतिभावेन विन्यस्ताः स्थापितास्तेषां सर्वेषां रथादिप्रतिकृतिभूतानामेवात्र गृहीतिर्ग्रहणम् । अतः शरीररूपा रूपकविन्यस्ताः । शरीररूपक- विन्यस्ताः । रूपकविन्यस्तानां व्यावर्तकं शरीररूपत्वमित्युपसर्जनत्वात् तस्य पूर्वनिपातः । शाकपार्थिवादेराकृतिगणत्वाद् रूपपदलोपश्च । अतः शरीररूपकविन्यस्तानां गृहीतिर्ग्रहणं शरीर- रूपकविन्यस्तगृहीतिस्तस्मादित्यर्थः । तथा च स्यात् सांख्यमतापरिचर्यादहंकारादीनां पदार्थानां तत्त्वेन गृहीतिः स्यात् सा तु नास्ति । यतः शरीरेण ये रूप्यन्ते शरीरेन्द्रियादयस्ते विन्यस्ता यत्र रश्मिः । शरीरपदेन रूप्यन्ते रूप्यन्ते रुशब्दे परोक्षवादात् । शब्द्यन्ते शब्दव्यापारोऽभिधा तद्विषयीक्रियन्ते ये शरीरेन्द्रियादयः । ननु काव्यनिषेधेन रूपकस्य । 'विषय्यभेदाताद्रूप्यरञ्जनं विषयस्य यत् । रूपकं तु त्रिधाधिक्यन्यूनत्वानुभयोक्तिभिः ॥ अयं हि धूर्जटिः साक्षाद्येन दग्धाः पुरः क्षणात् । अयमास्ते विना शंभुस्तार्त्तीयीकं विलोचनम् ॥ शंभुर्विश्वमवत्यद्य स्वीकृत्य समदृष्टिताम् । अस्या मुखेन्दुना लब्धे नेत्रानन्दे किमिन्दुना ॥ साध्वीयमपरा लक्ष्मीरसुधासागरोदिता । अयं कलङ्किनश्चन्द्रान्मुखचन्द्रोऽतिरिच्यते' ॥ विषय्युपमानभूतं पद्मादि विषयस्तु उपमेयं वर्णनीयं मुखादि । रूपकं द्विविधमभेदरूपकं ताद्रूप्यरूपकं च । अयं हीति सार्धेनाभेदरूपकाणि । अस्या मुखेन्दुनेति सार्धेन ताद्रूप्यरूप- काणि आधिक्यन्यूनत्वानुभयोक्त्युद्देशक्रमप्रतिलोम्येनोदाहृतानीत्येवंरूपस्य विवक्षां वारयितुमाहुः अलंकारेति अलंकारबोधितस्य सदृशभावेन धर्मवाचकलुप्तोपमात्वेन रूपकस्य विन्यस्ताः विशेषेण नितरामस्ताः प्रेरिताः स्थापिताः शरीरेन्द्रियादयः स्वाभेदसंबन्धेनान्यत्र गतिनिवृत्तियुक्ताः कृताः भवन्ति त इत्यन्वयः । एतेन तेषामिति भाष्यपदं व्याकृतम् । कीदृशामित्यत आहुः प्रतिकृतयः सदृशाः भूतानि शरीरेन्द्रियादीनि येषां तेषां रथादीनां तथा च रथादयश्च ते प्रतिकृतिभूता रथादिप्रतिकृतिभूतास्तेषां रथादिप्रतिकृतिभूतानां तेषामिति रथादीनाम् । समासमाहुः अत इति उक्तकारणात् । रूपकेति शरीरेन्द्रियादीनाम् । व्यावर्तकं विशेषणम् । ननु विशेषणं शरीररूपा इति न तु शरीररूपकत्वमि- तीति चेन्न कप्रत्ययेन स्वार्थिकेन शरीररूपा शरीररूपकाणीत्येतयोरेकार्थबोधकत्वेन विशेषाभावात् । ह्रस्वत्वं कप्रत्ययस्यालंकारनामत्वार्थं रूपकपदसूचितार्थनिबन्धनत्वात् । पूर्वेति 'उपसर्जनं पूर्वम्' इति पूर्वनिपातः सूत्रे व्यासपादैः कृतः । आकृतीति गणपाठे नास्ति काचित्कमाकृतिगणत्वम् । तत्र उपपदस्य रूपपदस्य लोपः । आकृतिगणत्वाभावे शरीररूपका विन्यस्ता यत्रेति भाष्यप्रोक्तो बहुव्रीहिः । तस्मादिति ननु तस्य इति वक्तव्ये तस्मादिति कुत इति चेन्न शरीररूपकविन्यस्त- ग्रहणादित्यर्थे तात्पर्यात् । गृहीतेर्ग्रहणादिति वक्ष्यन्ति तथा च सामान्ये नपुंसकमिति भावः । 886
च प्राप्याधीन इति । एवं ज्ञात्वा युक्तसामग्रीकस्तद्देशं प्राप्नोति । तत्रेन्द्रिया- णामात्मा विषयाः । भाष्यप्रकाशः । वाक्ये रूपकभावेन रथादिषु, आत्मानं रथिनं विद्धीत्यादिना, तेषामेवात्र गृहीतेर्ग्रहणात् । यदि ह्येवं नोपगम्येत तदा प्रकृतहानादिदोषावापद्येताम् । किंचेदं हीति निश्चयेन जीवप्रकरणम् । अत्रास्य मुक्त्युपायो, योग्यं शरीरमारुह्य हरेः पदं गच्छेदित्येवं विज्ञानसारथिमन्त्रेण रूप्यते । न ह्येतत् सांख्यमते संभवति । स्वरूपावस्थानातिरिक्तस्य भगवत्पदप्राप्तिरूपस्य मोक्षस्य तैरनङ्गीकारात् । अत इन्द्रियेभ्य इति वाक्ये अहंकारादितत्त्वरूपो नार्थः । किंतु वक्ष्यमाणप्रकारकः । तथाहि । तत्र मुक्त्युपायेषु बोधनीयेषु वक्तव्ये रूपके जीवः स्वतन्त्रत्वाद् रथी । जीवस्येत्यादिना विवृतं शरीरं रथः । तत्र हेतुः सर्वेत्यादि । सामग्री इन्द्रियादिरूपा । अपराधीन
ते च मनसा सम्यक्त्वेन भावितास्तथा भवन्ति । विरक्तेन्द्रियाणामतथा- त्वात् । बुद्धेरात्मा विज्ञानम्, तद् ब्रह्मविषयकं महत् भवति । ततः परमव्यक्तं, न प्रकटं, भगवत्कृपैव । सा तु भगवदधीना, न साधनान्तराधीना । स च भगवान् स्वाधीन इति । एवमेवार्थस्तस्योचितः । किंच, दर्शयति स्वयमेवेममर्थम् । 'एष सर्वेषु भूतेषु गूढोत्मा न प्रकाशते । दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः' ॥ इति । भाष्यप्रकाशः। तथापि नात्र तदभिप्रेतम् । मोक्षप्रकरणत्वादित्यभिप्रेत्याहुः ते चेत्यादि । तथाच मोक्षप्रकरणे यदिन्द्रियेभ्यः परत्वं विषयाणामुच्यते, तद् भगवदीयतया मनसा सम्यक्त्वेन भावितानामेव । यथा नवमस्कन्धादावम्बरीषादिचरिते, 'स वै मनः कृष्णपदारविन्दयोः' इत्यादिश्लोकत्रयोक्ता- स्तादृशाम् । न तु सामान्यानाम् । नापि ज्ञानीन्द्रियविषयविवक्षया । विरक्तेन्द्रियाणां विषयाणा- मदृष्टत्वात् । अतः 'तस्यारविन्दनयनस्य' इत्यादिवद् यत्र भगवदभिप्रायः सा बोधप्रणाड्यत्र विवक्षिता, न तु शुष्कज्ञानप्रणालीति बोधनाय तदुक्तिरित्यर्थः । एतेन अर्थेभ्यश्च परं मन इत्यपि व्याख्यातप्रायम् । मनसा सम्यक्त्वेन भावन एव तेषां तथात्वादिति । मनसस्तु परा बुद्धिरिति सारथिभावादेव स्पष्टम् । बुद्धेरात्मेत्यादिकं व्याकुर्वन्ति बुद्धेरात्मेत्यादि । विज्ञान- मिति तत्कार्यभूतं विशिष्टज्ञानम् । तस्य बुद्धिनियामकत्वं तु ब्रह्मविषयकत्वेन महत्त्वात्त्यर्थः। रश्मिः । इत्याहुः तथापीति । नात्रेति किं तु 'आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः' इति श्रुत्युक्त आत्मेन्द्रियमनोयुक्तं भोक्ता विषयग्रहणेन सुखदुःखसाक्षात्कारवानित्याकर्षकत्वमभिप्रेतम् । ननु तद्वाक्यं हानोपादानबुद्धौ तु विशेष इत्युक्त्वा प्रस्थानरत्नाकरे व्याकृतम् । अत्र मोक्षप्रकरणे आत्मो- पादानबुद्धौ विशेषापेक्षायां कुतो नाभिप्रेतमिति चेन्न विषयोपादानबुद्धौ मनसा सम्यक्त्वेनाभावितत्वस्य मोक्षप्रकरणे प्रतिबन्धकत्वात् । ते च मनसा सम्यक्त्वेन भाविताः इति भाष्यात् । भावितानामिति गुरूपदेशादिना भगवदीयत्वाद्विना वा स्मृतानाम् । तादृशामिति क्रियाकलापं 'सर्वात्मभावं विद- धन्महीमिमां तन्निष्ठविप्रामिहितः शशास ह' इति सर्वात्मभाववताम् । श्लोकत्रयार्थानुवादकोयं श्लोकः। 'एवं सदा कर्मकलापमात्मनः परेऽधियज्ञे भगवत्यधोक्षजे । सर्वात्मभावं विदधन्महीमिमां तन्निष्ठविप्रामिहितः शशास ह' ॥ इति । तस्यारविन्देति तृतीयस्कन्धे सनकादिप्रसङ्गेस्ति । भगवदिति श्रुत्यभिप्रायः भगवत्पदस्य श्रुतिवाचकत्वं ऋषिपदवत् । तदुक्तं कृष्णोपनिषदि 'तस्मान्न भिन्ना एतास्त्वा आभिर्भिन्ना न वै विभुः' इति । अत्रेति आत्मानं रथिनमित्यादिश्रुतिषु । तदुक्तिरिति साधनोक्तिः । तेषामिति आधिदैविकानामर्थविषयाणाम् । तथात्वात् युक्तपदार्थत्वात् । एतेनैव विरक्तेन्द्रियाणामिति भाष्यमपि विवृतम् । अतथात्वात् अयुक्तपदार्थत्वात् । ननु शमदमाद्युपेतसूत्रे भक्तिमार्गीयस्य स्वतः शमाद्युक्तेः कुतो विरक्तेन्द्रियाणामतथात्वादिति भाष्यमिति चेन्न 'ततो भूय एव तमो ये संभूत्या१रताः' इति शारीरभाष्योक्तात् । संभूत्यां विद्यायां पञ्चपर्वात्मिकायां वैराग्यादिरतौ सत्यां तमः प्रविशतीति कथनात् । महत्त्वात्त्विति व्यापकधर्मस्य व्यापकत्वनियमात् । ननु ज्ञाने गुणे परिमाणं नास्ति गुणे गुणानङ्गीकारादिति चेन्न प्रकाशाश्रयन्यायेन ब्रह्माभेदपक्षेऽगुणे सत्त्वात् । एकं रूपं रसात्पृथगिति- १. विषयोपादानबुद्धौ ।
सूक्ष्माया उपनिषद्वानुसारिण्या बुद्ध्या । भगवज्ज्ञाने हि तत्प्राप्तिरिति । चकारात्, 'ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम्' इति स्मृतिर्गृहीता । तस्मात्, साधनोपदेशान्न सांख्यमतमिह विवक्षितमिति ॥ १ ॥ भाष्यप्रकाशः । शेषं स्फुटम् । एवं हेतुं व्याख्याय दर्शनपदं व्याकुर्वन्ति किंवेत्यादि । इदमिति पूर्वोक्तम् कथं दर्शयतीत्यत आहुः सूक्ष्मेत्यादि । तथाच सूक्ष्मपदेन बुद्धेरुपनिषदनुसारित्वबोधनादुक्तरीत्या भक्तिप्रणाल्या प्राप्तिं दर्शयतीत्यर्थः । तेन श्रुतौ गम्यत इति गतिरिति प्राप्यत्वबोधनात्, स्मृतावपि, विशत इति पदेन तस्यैवार्थस्योपबृंहणादत्र प्राप्तिरूप एवार्थोऽभिप्रेतो दृश्यते, न तु रूढदर्शनरूपोऽतो नात्र सांख्यमतप्रत्यभिज्ञानमिति भावः ॥ १ ॥ रश्मिः । यद्वा । ब्रह्मगतपरिमाणस्य विज्ञाने भावात् ब्रह्मविषयकत्वमेव ज्ञाने वैशिष्ट्यम् । शेषमिति । ननु अव्यक्तपदस्य कृपायां शक्तिः कुत इति चेत्तत्राहुरभाष्ये । नेति तथा च योग इति भावः । सत्त्व- रजस्तमःसाम्यावस्थारूपा प्रकृतिः व्यक्ता स्वकार्यद्वारापि । ननु अव्यक्तोक्षर इति चेन्न पुरुषपदेनैव ग्रहणात् । पुरि शेते इति व्युत्पत्तेः । पूरक्षरः अस्फुटेप्यभिधेयवदिति विश्वः । तथा चान्यक्तमिति सामान्ये नपुंसकम् । अव्यक्तमित्यत्राजूविकारो वा अव्यक्ता आस् अङ्गीकारे । 'अव्यक्तं महदादिके' इति विश्वात् कृपायां वा । न चैवं मायावज्जगद्वीजेपि स्यादुपनिषद्भाष्ये तस्यापि महदादित्वादिति शङ्क्यम् । मायावादमसच्छास्त्रमिति तस्याकिंचित्करत्वात् । न च कृपापुल्यो मक्तोऽव्यक्तपदवाच्य इति वाच्यम् । अव्यक्तमिति नपुंसकलङ्गादत एव न विष्णुर्वाच्यः । तथा च विश्वः । 'अव्यक्तः शंकरे विष्णौ' इति अयं श्लोकः । 'अव्यक्तः शंकरे विष्णौ अव्यक्तं महदादिके । आत्मन्यपि स्यादव्यक्तमस्फुटेप्यभिधेयवत्' ॥ इति । ननु वरणमेवाव्यक्तमस्तु तस्य कार्येण स्पष्टत्वात् । ऋत्विग्वत् । तथा च कोशाच्छक्ति- ग्राहकात् शक्तिग्रहोऽव्यक्तपदस्य कृपायामित्युक्तम् । तथा हि अव्यक्तं न प्रकटं भगवत्कृपैवेति भाष्यम् । तत्राव्यक्तपदविग्रहः सूक्ष्मं त्विति सूत्रभाष्ये सर्वप्रकारेण न व्यज्यते तदव्यक्तमिति सूच्यते तत्र न व्यज्यते व्यक्तिकर्मत्वावच्छिन्नप्रतियोगिताकाभावोर्थः अत्र न प्रकटमित्यस्यान्ययः । अभावेन शब्दार्थाभावस्याभेदः संसर्गः कर्मणि ते प्रत्ययार्थभूते प्रकटस्याभेदान्वयः व्यक्तिकट- कर्मत्वावच्छिन्नप्रतियोगिताकोभावः स भगवत्कृपाभिन्न इति भाष्यार्थः । तेनाव्यक्तमिति कर्मप्रत्य- यान्तं कृपा न प्रकटे कर्तृप्रत्ययान्ते तेषां कथमन्वय इति कुचोद्यं निरस्तम् । न साधनेति । ननु साधनैः कृपा लोके दृष्टा कुतो न साधनाधीनेत्युच्यते इति चेन्न भक्तिहेतुग्रन्थे उपपादित- प्रायत्वात् । तस्येति श्रुतिसंदर्भस्य । एवं शेषं स्फुटमित्यर्थः । उपनिषदिति । ननु सांख्यानु- सारित्वं कुतो न बोधितमिति चेन्न शास्त्रान्तरे शास्त्रान्तरीयस्तुतेरनौचित्यात् । छन्दसः सा काष्ठा सा परा गतिरित्यत्र पुरुषविशेषणत्वेन कर्मणि क्तिन् इत्याहुः गम्यत इति । स्त्रियां क्तिन् भावे लोके वेदे विकल्पात् कर्मण्यपि कर्तरि तु न भावेन बाधात् । उपेति । गतिरिति गमनकर्म पुरुषः । मां विशते । इति विशेः कर्म पुरुष इत्युपबृंहणात् । अभ्रेति । आत्मा दृश्यत इत्यत्र । अभिप्रेति तथा चायूढ १०६ ब्र० सू० २० 889
८१८ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० २ सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥ नन्वव्यक्तशब्देन न भगवत्कृपा वक्तुं शक्या। धर्मिप्रवाहाद्विलाक्षण्याच्च परिहरति तुशब्दः। सूक्ष्मं तद् ब्रह्मैव। धर्मधर्मिणोरभेदात्। अव्यक्तशब्देन हि सूक्ष्ममुच्यते। तदेव हि सर्वप्रकारेण न व्यज्यते। अर्हत्वात्। तदेव अर्हं योग्यम्। उभयत्राप्ययं हेतुः। तस्माद्धर्मधर्मिणोरभेदाद् भगवान्नेव सूक्ष्ममिति तत्कृपैवा- ऽव्यक्तवाच्या ॥ २ ॥ भाष्यप्रकाशः। सूक्ष्मं तु तदर्हत्वात् ॥ २ ॥ उभयत्रेति अव्यक्तस्य ब्रह्मत्वे, भगवत्कृपात्वे च। अयमर्थः। 'बुद्धेरात्मा महान् परः' इत्यत्र, 'अथ परा यया तदक्षरमधिगम्यते' इति श्रुत्यन्तरोक्तं ज्ञानं बुद्धिनियामकत्वेन परामृष्टम्। तच्च नायमात्मेति श्रुत्यन्तराद्व
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८२९ तदधीनत्वादर्थवत् ॥ ३ ॥ ननु धर्मित्वे परत्वमनुपपन्नम् । अन्यथा पूर्वोक्तो दोष इत्यत आह अभे- देऽपि कृपायास्तदधीनत्वात् परत्वम् । तत्र दृष्टान्तः । अर्थवत् । अर्थः पुरुषार्थः फलं, तद्वत् । 'ब्रह्मविदाप्नोति परम्' इत्यत्र एकस्यैव ब्रह्मणः सच्चिद्रूपेण विषयत्व- मानन्दरूपेण फलत्वमिति । तथैवाक्षरपुरुषोत्तमविभागोऽपि । स्वधर्मा अपि स्वा- धीनाः । स्वयमपि स्वाधीन इति । तथा कृपाविशिष्टः साधनम्, आनन्दरूपः फलमिति । भाष्यप्रकाशः । तदधीनत्वादर्थवत् ॥ ३ ॥ उक्तं समाधिमाक्षिपति नन्वित्यादि । यदि पूर्वोक्तयुक्त्या कृपाया ब्रह्मत्वं, तदा धर्मित्वे तद्भिन्नत्वरूपं परत्वं युक्तिरहितम् । यदि कृपाविशिष्टस्य धर्मत्वं तदा धर्मिप्रायपाठविरोधरूपो दोष इति पूर्वोक्तः समाधिरसंगत इत्याशङ्कायामत्रापि समाधि- माहेत्यर्थः । समाधिं व्याचक्षते अभेदेऽपीत्यादि । तथाचाभेदे यथैकरूप्येण ग्रहणं युक्तिस्तथा भेदे नियम्यनियामकभावो युक्तिरित्युभयमुपपन्नमित्यर्थः । एकत्वेऽपि नियम्यनियामकभाव एव कथमित्यत आहुः तत्रेत्यादि । तथैवेति एकत्वेऽपि गणितानन्दत्वागणितानन्दत्वात्मकरूप- भेदेनैव तथाच रूपभेदेन सोऽप्युपपन्न इत्यर्थः । एतदेव निगमयन्ति स्वधर्मा इत्यादि, फल- रश्मिः । निर्धारणात्' इत्यत्र पुष्टिमार्गसद्योमुक्तिपरत्वेन वर्णितमत्र मर्यादाभक्तौ क्रममुक्तौ च कुत उपतिष्ठेत बुद्धेर्गुणिनियामकत्वं तु घ्राणं च गन्ध इति न्यायेनोपपन्नम् । कृपोपस्थितिस्त्वनुकूलधिकरणसिद्धा । अन्यथा इति भारतमाख्यानं कृपया मुनिः कस्मादनुकुर्यात् । 'स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा । कर्मश्रेयसि मूढानां श्रेय एवं भवेदिह । इति भारतमाख्यानं कृपया मुनिना कृतम्' ॥ इति वाक्ये मुनिकृपया भारतीयपदैः वाक्यैश्च भारतार्थविज्ञानं ह्यादीनां कृपया पदवाक्यैः भगवद्विज्ञानं भगवदीयमनुकरोतीति 'मदन्यत्ते न जानन्ति नाहं तेभ्यो मनागपि' इति भक्तविषयकं भगवदीयं ज्ञानमिति अन्यच्च व्यक्तं प्रपञ्चरूपमपि ज्ञानं भगवान् अव्यक्तं ईषच्छक्तस्तद्धर्मः तत्त्वत्वात् । अव्यक्तः परमात्मा 'ईश्वरः पुरुषोऽव्यक्तः परमात्मेति गीयते' इति वाक्यात् ॥ २ ॥ तदधीनत्वादर्थवत् ॥ ३ ॥ परत्वमिति 'अव्यक्तात्पुरुषः परः' इत्यत्र परनिष्ठम् । कृपेति तत्र सूर्यः प्रकाशः सूर्यस्य प्रकाश इति धर्मधर्मिणोर्भेदाभेदयोरनुभवसिद्धतया प्रकाशाश्रयन्यायेन । यथैवेति नीलोत्पलमिवैतत् । नियम्येति राज्ञः पुरुष इत्यत्र । एकत्व इति । ननु सच्चिद्रूपेणा- क्षरत्वमानन्दरूपेण फलत्वमिति भाष्योक्तः कुतो नार्थः भाष्यार्थोपलक्षणत्वादस्यार्थस्य । न चात्राद्ये विकृतत्वं निरवयवत्वशब्दकोपो वा स्यादिति वाच्यम् । विकृतत्वस्य समन्वयस्याधिकरणे वारणाद् द्वितीयस्य तु 'श्रुतेस्तु शब्दमूलत्वात्' इति सूत्रेणेति । निगमयन्तीति स्वधर्मा इत्यत्र तस्मादिति गुम्फित्वा एतद्भाष्यनिष्ठावयवविभाजकोपाधित्त्वं निगमनत्वं यथा तस्माद्वह्निमानित्यत्र । प्रतिज्ञा- हेतूदाहरणोपनयनिगमनानि पञ्चावयवा तन्निगमनं कुर्वन्तीत्यर्थः । स्वधर्माः सत्त्वादयः कृपादयश्च भक्तानां 'न रोधयति मां योगो न सांख्यं धर्म उद्धव' इत्यादिना सत्त्वं सर्वात्मभावश्चाधीनः । 891
८४० श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [ अ० १ पा० ४ अ० १ सू० १ अथवा अव्यक्तं सच्चिद्रूपमक्षरमेवास्तु । तस्मिन् सति विज्ञानस्य विषया- धीनत्वमर्थः । एतेनान्येऽपि सर्वसंप्लववादिनो निराकृता वेदितव्याः । असंबद्धा- भिलापाच्च । भाष्यप्रकाशः । मितीत्यन्तम् । अस्मिन् पक्षे अव्यक्तपदस्य यौगिकत्वाच्छैथिल्यं शङ्केतेत्यरुच्या पक्षान्तरमाहुः अथवेत्यादि अक्षरमेव, 'अव्यक्तोऽक्षर इत्युक्तः' इति गीतावाक्यादव्यक्तमस्तु । नच लिङ्गवि- रोधः । 'अक्षरं ब्रह्म परमम्' इति ब्रह्मत्वविवक्षायां तत्रापि नपुंसकलिङ्गप्रयोगात् तस्य च भगवतः सकाशाद् भेदाभेदौ, गीतायाम्, 'एवं सततयुक्ता ये' इति प्रभोत्तरसंदर्भे स्फुटौ । धामत्वाद्भग- वदधीनत्वं च स्फुटम् । अतस्तदधीनत्वादक्षरमेवाव्यक्तम् । अस्मिन् पक्षे यो दृष्टान्तस्तमाहुः तस्मिन्नित्यादि । तस्मिक्षक्षरे स्फुरिते सति, विज्ञानस्य बुद्धेर्यदक्षरात्मकविषयाधीनत्वं सोऽत्र दृष्टान्तभूतोऽर्थो ग्राह्यः । तथाच तद्विज्ञानं यथा अक्षरसारूप्येऽप्यक्षराद् भिन्नमक्षराधीनं च, तथा अक्षरमपि ब्रह्मस्वरूपं ब्रह्मणः परस्माद् भिन्नं तदधीनं चेत्येकत्वेऽपि न परतत्त्वानुपप- त्तिप्रवाहविरोधावित्यर्थः । एवं त्रिसूत्रीव्याख्यानेनैकदेशिकृतं व्याख्यानान्तरमपि निराकृतमित्याहुः एतेनेत्यादि । अयमर्थः । मायावादिनो ह्यानुमानिकसूत्रे अव्यक्तशब्देन रथरूपकविन्यस्तं शरीरमङ्गीकृत्य तस्य कथमव्यक्तशब्दितत्वमित्याकाङ्क्षायां द्वितीयसूत्रे भूतसूक्ष्मस्याऽव्यक्तशब्दार्हत्वात् तत्कार्यस्य शरीरस्याप्यव्यक्तशब्देन ग्रहणं यथा, 'गोभिः श्रीणीत मत्सरम्' इत्यत्र गोशब्देन पय इत्युक्त्वा, तृतीयसूत्रे, तद् भूतसूक्ष्मं न स्वतंत्रं येन प्रधानकारणवादः प्रसज्येत किंतु परमेश्वराधीनम् । तच्चावश्यकम् । शक्तिरहितस्य कर्तृत्वानुपपत्तेः । अतस्तदर्थवदित्युक्त्वा, अव्यक्तशब्दवाच्याम- विद्यां वदन्ति । यथोक्तं तेषां भाष्ये । अविद्यात्मिका हि सा बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिर्यस्यां स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवास्तदव्यक्तं कचिदाकाशशब्दनिर्दिष्टम् । 'एतस्मिन्नु खल्वक्षरे गार्ग्याकाश ओतश्च प्रोतश्च' इति श्रुतेः । कचिदक्षरशब्दोदितम् । 'अक्षरात् परतः परः' इति श्रुतेः । कचिन्मायेति कथितम् । 'मायां तु प्रकृतिं विद्यान्मायिनं तु महेश्वरम्' इति मन्त्रवर्णादिति । रश्मिः । यौगिकत्वादिति योगस्य वेदान्ते मुख्यत्वेन पक्षान्तररोत्थाने तुष्यतु दुर्जनन्यायेन दोष उक्तः । इतिहासमतमाहुः । भाष्ये । अथ वेति । भेदाभेदाविति भेदोविभक्तः 'अविभक्तं च भूतेषु विभक्तमिव च स्थितम्' इति गीतायाः । अत इति परत्वस्य नियामकत्वस्य प्रकरणात् । तदधीन- त्वात् प्रकृताधीनत्वात् । आर्थिकस्तदधीनत्वादिति सूत्रार्थ उक्तः । दृष्टान्तोऽर्थवदित्यंशं वक्तुमाहुः अस्मिन् पक्ष इति । ननु भाष्ये दृष्टान्तत्वबोधकपदाभाव इति चेन्न अर्थ इति पदस्य बोधकत्वात् । अर्थस्तद्वदिति भाष्यार्थात् । पक्षान्तरे संपूर्णसूत्रार्थ उक्तः । अत्रेतिहासपक्षे एकमेव सूत्रम् । तत्प्रख्यापि स्मृतेश्चेति सूत्रे कथनात् । कचिदेकार्थत्वेन कचित्पृथक्त्वेनेति । भूतेति शब्दरूपरसगन्धस्पर्शरूपस्य । तत्कार्येति पञ्चमहाभौतिकत्वाच्छरीरस्य । ग्रहणमिति लक्षणया । 892
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ४४१ भाष्यप्रकाशः । तदेतदसङ्गतम् । कारणग्रहणेनैव संभवति गत्यन्तरे कारणवाचिशब्देन कार्यग्रहणस्य लक्षणादोषयुक्तस्यानुचितत्वात् । 'द्वाविमौ पुरुषौ लोके' इति गीतोक्ते अक्षरे कारणत्वस्य श्रुत्यादिषु 'तन्मायाफलरूपेण' इत्याद्येकादशस्कन्धवाक्यैर्निर्धारणात् । अधीनत्वस्य धामत्वादेव सिद्धेश्च । तद्विहाय तत्प्रथमकार्यरूपमायापदवाच्यशक्तिग्रहणस्यानुचितत्वात् । 'यो वेद निहितं गुहायां परमे व्योमन्' 'ऋचो अक्षरे परमे व्योमन्' इत्यादिश्श्रुतावाकाशपदवाच्यत्वस्यापि तत्रैव स्पष्टत्वात् । 'अक्षरात् परतः परः' इत्यत्रापि परत इति विशेषणेन मायाशक्त्विावृत्त्या भगवद्धामरूपस्यैव तस्य सिद्धेः । अतो व्यासाशयविरुद्धत्वाद् अयमसंबद्धाप्रलाप एव । जगद्बीजं तु भगवान्येव । 'बीजं मां सर्वभूतानाम्' इति गीतावाक्यात् । अक्षरस्य कारणत्वं तु योनित्वात् । 'मम योनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम्' इति वाक्यात् । नच पुरुषत्वो- क्तिविरोधः । 'त्वं स्त्री त्वं पुमान्' इत्यादिश्रुत्या सर्वरूपत्वेन सिद्धत्वादिति । रश्मिः । शक्यसंबन्धो लक्षणा, संबन्धः कार्यता, गोभिः पयोभिः मत्सरं सोमं श्रीणीत मिश्रितं कुर्वीत । तथेति । तदधीनत्वं शक्त्यधीनत्वम् । शक्तिरहितस्य परमेश्वरस्य निलस्य शुद्धबुद्धमुक्तस्वभावस्य । तदर्थवत् तदविद्याख्यं बीजं अर्थवत् न तेन विना परमेश्वरस्य स्रष्टृत्वं सिध्यते शक्तिरहितस्य प्रवृत्त्यनुपपत्तेः । तदसन्निति असंबद्धाप्रलापेति भाष्यमर्थ उक्तः । कारणेति भूतसूक्ष्मग्रहणेन । कार्येति शरीरग्रहणस्य । निर्धारैरिति चतुर्विंशे । 'तन्मायाफलरूपेण केवलं निर्विकल्पितम् । वाङ्मनोगोचरातीतं द्विधा समभवद्बृहत्' ॥ इत्यत्र बृहत्त्वात् 'गणितानन्दकं बृहत्' इत्यक्षरपदसाक्षरे शक्तिः सिद्धान्तमुक्तावल्याम् । स्पष्टेति । व्योमन्नित्यत्र सप्तम्या लुक् व्योम्नि आकाश इत्यर्थः । परत इतीति अदृश्यत्वादिगुणकाधिकरणे मायावादिनोऽक्षरान्मायायाः परतः । परो भूतयोनिरिति व्याचक्रुः । स्वमते तु अक्षरात् कीदृशः परतः इदं विशेषणं सांख्ये प्रधानसाधारत्त्वात् तद्वारणायेत्यदृश्यत्वाधिकरण उक्तम् । सांख्यमत- सादृश्यान्मायावादेप्याहुः मायाशक्तीति । तथा चाक्षरमविद्यापरत्वं मायाप्रधानमिवत्वं तेनात्रैकः संप्लववादी । एतेनेति भाष्योक्तेतिहासमनाजीकारेणासंबद्धाप्रलापेन च निराकृतः 'सम्यक् पादप्रशंसयोः' इति विभ्रात् सम्यक् प्रशंसेोऽङ्गीकृतो वा 'येप्यन्यदेवता भक्ताः' इति गीतोक्तेः । प्लवः श्लम्भः तेन तैर्र्वां वदितुं शीलमेषां ते संप्लववादिनः सर्वेषां संप्लववादिनः सर्वसंप्लववादिनः सर्वे च ते संप्लववादिनो वा । स्वस्ववादेन स्वीयदेवताप्राप्तेः । तत्र मायावादेन मायादेवतासिः तन्नाधिकारिणां च कदाचित्कृष्णप्रसाद्युक्तस्य मुक्तिरपि । अयं निराकृतः । इतिहासमतेनाक्षरे- व्यक्तपदशक्तेर्मुख्ये संभवति गौणस्यान्याय्यत्वात् । असंबद्धाप्रलापस्तु कारणग्रहणेनैवेत्यादिना प्रकाश एव कृतः । कारिकार्थैक्यं यथा अनेकेति । अनेकेषां रूढेः शब्दानां व्यापारव्यापारिभावः संबन्धः षष्ठ्यर्थः । वाच्यं ब्रह्मेति ॐमित्येकाक्षरं ब्रह्म सर्वं तस्योपव्याख्यानमिति प्रस्थानरत्नाकरे स्पष्टम् । एवकारो विशेषणसंगतोऽयोगव्यवच्छेदकः यथा शङ्खः पाण्डुर एवेत्यत्र । ब्रह्मत्वायोव्यवच्छेदक- ङ्गम्यमिति । वाच्यं विशेष्यम् । ब्रह्म विशेषणं व्यावर्तकत्वात् । आर्थिकमाहुर्नापरमिति उत्तरार्ध 893
४७२ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० १ सू० १ अनेकरूढिशब्दानां वाच्यं ब्रह्मैव नापरम् । शाक्तास्तांश्चेत् तथा ब्रूयुस्ते सन्मार्गाद् बहिष्कृताः ॥ भाष्यप्रकाशः । तदेतत् सर्वमभिसंधायाहुः अनेकेत्यादि । शक्तित इति । जैमिन्युक्तं भाट्टप्रसिद्धं लोकवेदाधिकरणमाश्रित्य लौकिकशक्तितः । तथेति प्रकृतिवाचकत्वम् । शाक्तास्तां चेदिति- कश्चित् पाठः । तदा तु, तां प्रकृतिं तथा जगद्बीजभूतां ब्रूयुरित्येवं योजना । तथाच, ‘शिवः शक्त्या युक्तो यदि भवति शक्तः प्रभवितुं न चेदेवं देवो न खलु कुशलः स्पन्दितुमपि’ रश्मिः । व्याचख्युः जैमिन्युक्तमिति य एव लौकिकाः शब्दाः ते एव वैदिका इति वदन्ति तद्यदि जैमिन्युक्तं स्यात्तदा सर्वे विधयच्छन्दसि विकल्प्यन्ते इत्यादिपूर्वै व्याख्यातेः स्फुटा इति कारिकांशव्याख्याने खरा- दिना भेदोपपादनं विरुद्धमिव भायात् अतो हि उत्पत्तौ वेत्यादिप्रथमपादाधिकरणमन्यथा व्याकर- णीयं यल्लोकवेदाधिकरणमित्युच्यते । तर्हि शक्तितश्चेतया ब्रुवाणा मीमांसकाः के इत्यत आहुः भाट्टेति तथा चाहुः जैमिनिन्यायमालाविस्तरे तदेवमधिकरणत्रये व्युत्पादनाय भाट्टप्राभाकरमतभेद उक्तः । अद्य प्रायेण भाट्टमतमेवोपन्स्यते इति चतुर्थाधिकरणावतरणे सप्तमाधिकरणकारिके । ‘वेदवाक्यममानं स्यात् मानं वा नास्य मान्ता । पृथक्संकेतवीक्षायामनेपेक्षत्ववर्जनात् ॥ वेदेपि लोकवन्नैव वाक्यार्थे संगतिः पृथक् । ग्रहीतव्या ततो वाक्यं प्रमाणं नैरपेक्ष्यतः’ ॥ इति । तथा च वृद्धव्यवहारेण लोके शक्तिग्रहः गृहीतशक्तिकः शब्दो वेदेपि बोधक इति इदं भाट्टमतं भाट्टप्रसिद्धम् । लौकिकशक्तितो वेदे व्यक्तपदे तथा प्रकृतिवाचकत्वं ब्रूयुः ते सन्मार्गादुक्ता- दोमित्येकाक्षरं ब्रह्मेत्यादि श्रौतान्मार्गाद्बहिःकृताः पाषण्डिन इति भावः । अत्रेतिहासमते रूढि- शब्दान्तर्गतोव्यक्तशब्दोपि भवति । ननु पूर्वपक्षे यौगिकोव्यक्तशब्दः उक्तः वेदान्ते योगादरादिति- ह्रासे तु रूढिरव्यक्तपदस्याक्षरे । ननु योगोपि संभवीति चेन्न ज्ञानिनः प्रति व्यक्तत्वेन तदेव हि सर्वप्रकारेण न व्यज्यत इति भाष्यविरोधात् । अत एव न कोशोक्तशंकरादौ योगः । अत एव न योगरूढः शब्दः । ततो रूढ्यास्य वाच्यं ब्रह्माक्षरं ब्रह्मेत्यर्थः । विष्ण्वादयो वाच्या इति वदन्तः श्रौतान्मताद्बहिःकृताः विशिष्टाद्वैतवादिनोव्यक्तपदेनाक्षरग्रहणेनासंबद्धाभिलापेन च सर्वसंप्लववादिनो निराकरणं इदमयुक्तम् । ‘आचार्यचैत्यवपुषा स्वगतिं व्यनक्ति’ इति ‘आचार्यं मां विजानीया- न्नावमन्येत कंचन’ ‘सर्ववादानवसरं नानावादानुरोधि तत्’ इति निबन्धे । तथापि नानावादानुरोधेन क्रीडतः क्रीडाप्रकाशपूर्वकनिर्दृष्टक्रीडानिरूपणं ज्ञेयमेवं पूर्वत्राग्रेपि बोध्यम् । यथा शंकराचार्यमते- व्यक्तपदेन शरीररूपमाया सैवाविद्या सोच्यते । एते तु शरीरमव्यक्तपदार्थमाहुः तत्र कोशः प्रमाणं तदपेक्षया गीताप्रमाणं प्रबलमिति नाव्यक्तवाच्यं शरीरमपि त्वक्षरमित्येतेनेति भाष्यार्थकृतनिराकरणं ‘शरीरं रथमेव तु’ इत्यत्र शरीरग्रहणेनानन्यलभ्यो हि शब्दार्थः इत्यसंबद्धाभिलापश्च । भास्कराचार्य- मतेप्येवं अव्यक्तपदार्थः शरीरं असंबद्धाभिलाप भाष्यार्थकृतनिराकरणे पूर्ववत् । भिक्षुमतपि ज्ञेयम् । माध्वमते तु अव्यक्तपदार्थो विष्णुरक्षरः । सोपि सत्त्वगुणोपाधिरतः सच्चिदक्षरान्निष्ठा इति टीकाविरोधः 894
भाष्यप्रकाश-रश्मि-परिवृंहितम् । ८४३ तस्मादिन्द्रियेभ्यः परवाक्ये नानुमानिकं किंचिदस्ति ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ ४ ॥ पूर्वापरसंबन्धेनार्थः प्रतिपादितः । केवलैतद्वाक्यविचारेऽपि न तदभीष्टं प्रकृतिरूपमव्यक्तं सिध्यतीत्याह। अत्र हि वाक्ये अव्यक्तं ज्ञेयत्वेन नोक्तं, तेषां तु प्रकृतिपुरुषान्तरं ज्ञातव्यम् । न हि सिद्धवन्मात्रनिर्देशे तेषां मते पुरुषार्थः सिद्ध्यति। अपुरुषार्थसाधनत्वे वा असंबद्धार्थवाक्यत्वमेव स्यात् । परत्व- भाष्यप्रकाशः । इत्यादि स्वश्रद्धाजाड्याद् वदन्तो वेदान्तविरुद्धवादित्वाच्चेत्यर्थः । सिद्धमाहुः तस्मा- दित्यादि ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ ४ ॥ सूत्रमवतारयन्तः प्रयोजनमाहुः पूर्वेत्यादि । व्याकुर्वन्ति अत्र हीत्यादि । ज्ञातव्यमिति । 'गुणपुरुषान्तरज्ञानात् कैवल्यम्' इति प्रवचनसूत्रात् । विभूतिविशेषार्थे प्रधानस्यापि ज्ञेयत्वस्मरणाच्च तथेत्यर्थः । परत्वेत्यादि । परापरभावो हि रश्मिः । अक्षरस्य निर्गुणत्वात् मुख्यार्थस्य भाष्ये गीतोपन्यासेनोक्तवैष्णवमार्गस्यासंबद्धाभिलापत्वम् । शैवा- चार्यमतेप्येवं ज्ञात्वा वक्तव्यम् । सिद्धमाहुः तथा चेति । शिव इति । सौन्दर्यलहरीस्थं शिवपदं ब्रह्मपरं शक्तिर्माया । वेदान्तेति ॐमित्येकाक्षरं ब्रह्मेत्युक्तवेदान्तविरुद्धवादित्वात् तथा ते सन्मार्गा- द्वहिःकृतत्वेन प्रकारेण संपन्नाः । तस्मादितीति अत्र भाष्ये तस्मात् अव्यक्तपदस्याप्रधान- वाचकत्वात् । परस्य वाक्यं परवाक्यं 'इन्द्रियेभ्यः परा ह्यर्था' इति वाक्यं तस्मिन् । ननु कस्मात्पर- वाक्यमित्यत आहुः इन्द्रियेभ्य इति । ननु इन्द्रियेभ्यः परा इति वाक्ये इति वक्तव्ये इन्द्रियेभ्यः परवाक्य इति विलम्बोपस्थितिकप्रयोगः कुत इति चेन्न सर्वशब्दत्वात् । आचार्याणां प्रयोगेऽतार- तम्यात् ॥ ३ ॥ ज्ञेयत्वावचनाच्च ॥ ४ ॥ गुणेति गुणश्च प्रकृतिरूपः तदन्यः पुरुषश्च तयोर्ज्ञानात् । पुस्तकान्तरस्थं सूत्रं शंकरभाष्ये उक्तमिहोपन्यस्तं सूत्रं तु तदा सर्वावरणमलापगे तस्य ज्ञानस्यानन्त्यात् ज्ञेयमल्पमिति तदा पूर्वसूत्रोक्तसमाधिः ततः क्लेशकर्मनिवृत्तिः इति सूत्रं ततस्तदेति सूत्रमतस्तदा नाम समाध्यनन्तरं क्लेशकर्मनिवृत्तिकाले । विभूतीति 'मन्त्रौषधितपःसमाधिजाः सिद्धयः' इति सांख्यप्रवचनसूत्रात् । विभूतिविशेषाः परिणामत्रयसंयमादतीतानागतज्ञानमिति स्मरणम् । तथेति ज्ञातव्यत्वेन । परिणामत्रयसंयमो हि प्रधानरूपप्रधानकार्यज्ञानाधीनस्तस्यैव श्रीभागवते चैकादशस्य पञ्चदशेऽध्याये क्वचित्स्मर्यते । 'उदासीने मयि परे प्रकृतेर्गुणवृत्तिषु । चिन्मये धारयेच्चेतो द्वन्द्वैर्नैवाभिभूयते' ॥ इति । अत्र विभूतिविशेषो द्वन्द्वाभिभवाभावः । यद्वा गुण इत्यास्यायमर्थः सत्त्वादिगुणरूपात्प्रधाना- त्पुरुषस्यान्तरं भेदस्तज्ज्ञानादित्यर्थः । न हि शक्यमिति च वदद्भिः प्रधानं ज्ञेयत्वेन स्मर्यते इति । न केवलं प्रधानस्य भेदप्रतियोगितया ज्ञेयत्वं तैरिष्टं किं तु तत्सोपासनयाऽणिमादिप्राप्तयेपीत्याहुः विभूतीति । भाष्ये । ननु 'अव्यक्तात्पुरुषः परः' इति शाब्दज्ञानविषयत्वमस्त्येव समाध्यनन्तरं 895
८४४ श्रीमद्ब्रह्मसूत्राणुभाष्यम् । [अ० १ पा० ४ अ० १ सू० ३ वचनं चासंगतम् । श्लिष्टत्वादुभयोरिति चकारार्थः । अयं हेतुः पूर्वमुक्तोऽप्यव- सरे स्मारितः । तस्मादव्यक्तं न प्रकृतिः ॥ ४ ॥ भाष्यप्रकाशः । विश्लेषेऽवगन्तुं शक्यते, न तु संश्लेषे । इदानीमज्ञानदशायां तु श्लेष एवेत्युदासीनतयोक्तौ पुरुषस्य परत्ववचनमप्यसंगतं स्यादित्यर्थः । अयमिति । चकारसूचितः । पूर्वमिति अदृश्य- त्वाद्यधिकरणे ॥ ४ ॥ रश्मिः । सिद्धयोपि भवन्ति इति ज्ञेयत्वेनोक्तमेव प्रधानं कथं ज्ञेयत्वेन नोक्तं इति भाष्यमित्याशङ्कायामाहुः नहीति । मत इति तदुक्तं सांख्यप्रवचनसूत्रवृत्तौ 'प्रत्याहिकक्षुत्प्रतिकारवत् तत्प्रतिकारचेष्टनात् पुरुषार्थत्वम्' इति । 'निबन्धे 'वामा शाक्ताश्च योगे
वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ ननु ज्ञेयत्वावचनमसिद्धम् । पूर्वं निर्देशमात्रमुक्त्वाऽग्रे ज्ञेयत्ववचनात् । 'अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् । अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात् प्रमुच्यते' ॥ इत्युत्तरवाक्ये वदतीति चेन्न । प्रकरणस्य नियामकत्वेनैकवाक्यत्वे द्वयोः सर्वैकवाक्यत्वेन प्राज्ञः परमात्मैव निचाय्यः । न तु द्वयोरेवैकवाक्यत्वं वक्तुं शक्यम् । तस्मात् प्रकरणस्य नियामकत्वे अशब्दवाक्यमपि भगवत्परमेव ॥ ५ ॥ भाष्यप्रकाशः । वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ प्रकरणस्येत्यादि अव्यक्तश्रुतेः परत्वलिङ्गस्य तद्धटितवाक्यस्य च साधारणत्वात् प्रकरणस्य निर्णायकत्वं वक्तव्यम् । अतस्तस्य नियामकत्वेनैकवाक्यत्वे वाच्ये, 'महतः परमव्यक्तम्' इति, 'अशब्दमस्पर्शम्' इति द्वयोरेवैक- रश्मिः । वाक्यमाशङ्क्य समाधातुं प्रसङ्गसंगत्या षष्ठं द्विसूत्रमनुकूलधिकरणम् । ततः प्रसङ्गसंगत्या जीवस्य मुक्तिदशायां ब्रह्माविर्भावेन विरुद्धधर्माश्रयत्वं फलितुं सप्तमं द्विसूत्रं 'शब्दादेव प्रमितः' इत्यधिकरणम् । ततः प्रसङ्गसंगत्या देवादीनां ब्रह्मविद्याधिकारं विचारयितुमष्टममष्टसूत्रं तदुपर्यपीत्यधिकरणम् । ततोऽनु प्रसङ्गसंगत्या शूद्राणां ब्रह्मविद्याधिकारं निराकर्तुं नवमं पञ्चसूत्रं शुगस्येत्यधिकरणम् । ततः प्रसङ्गसंगत्या- वतारदशायामपि भगवतो दण्डपाणित्वं बोधयितुं दशममेकसूत्रं कम्पनाधिकरणम् । ततः प्रसङ्गसं- गत्या उपसंपत्तव्यत्वोपसंपन्नस्वरूपामिनिष्पादकत्वपूर्ववाक्यगतहृदयत्वोत्तरवाक्यगतसत्यपदोक्तमर्त्या- मृतनियामकत्वरूपाणां चतुरो धर्मान् निष्क्रष्टुमेकादशमेकसूत्रं ज्योतिर्दर्शनाधिकरणम् । ततः प्रसङ्ग- संगत्यान्यवाचकपदवाच्यस्य यत्रैवान्तर्धर्मातिरिक्तधर्मकथनं तत्रान्यवाचकपदस्य ब्रह्मपरत्वमिति न्यायं बोधयितुं द्वादशमेकसूत्रमर्थान्तरव्यपदेशाधिकरणम् । ततः प्रसङ्गोपोद्धातान्यतरसंगत्या मुक्तिदशायामपि जीवस्यानुकारित्वमेव तदात्मकत्वात् न त्वत्यन्ताभेदः सर्वथा तौल्यं वेति ब्राह्मणद्वये विचारयितुं त्रयोदशं द्विसूत्रं सुषुप्त्युत्क्रान्त्योरित्यधिकरणम् । एवं निरूपणेन परापरभावासंगतिनिरूपणे प्रतिबन्धकीभूतायाः कथमदृश्यत्वादिगुणकस्याक्षरस्य परमात्मत्वादिकमित्यस्यानिवृत्ताववश्यवक्तव्यत्वं चकारार्थहेताववसर इत्युक्तं भाष्ये । स्मारितो व्यासपादैश्चकारप्रयोगेण । तस्मादिति ज्ञेयत्वावचनाच्चकारसूचितहेतोश्च ॥ ४ ॥ वदतीति चेन्न प्राज्ञो हि प्रकरणात् ॥ ५ ॥ भाष्ये । पूर्वमिति महतः परमव्यक्त- मित्यत्र । वदतीति महतः परमित्यव्यक्तमुक्त्वा तन्निचाय्य ज्ञात्वेति वदति । प्रकरणापेक्षया श्रुत्यादीनामुपन्यासः सूत्र उचित इत्याशङ्क्य तेषां साधारण्येनाप्रयोजकत्वमाहुः अव्यक्तेति । महतः परमव्यक्तमित्यव्यक्तश्रुतिः निरपेक्षस्वरूपा महतः परं ध्रुवमिति परपदश्रुतिरिति अक्षरप्रकृत्योः साधारण्यं श्रुतेः परत्वरूपपरशब्दसामर्थ्यस्य । तद्धटितेति लिङ्गघटितवाक्यस्य पदानां वाक्यानां वा एकवाक्यता रूपस्य वाक्यस्य साधारण्यं तत्र लिङ्गघटितत्वं वाक्यद्वये पूर्वमीमांसोक्तवाक्यलक्षण- घटनायोग्यत्वाय । तदित्थं वाक्यद्वयं महतः परमव्यक्तमिति महतः परं ध्रुवं निचाय्य तमिति च । अत्र परत्वलिङ्गघटितत्वं तेनोभयोः पदानां वाक्यानां चैकवाक्यताघटनायोग्यत्वम् । वाक्यं नाम १०७ ब्र० सू० २०