आश्वलायन गृह्यसूत्र (अनाविला टीका व हिन्दी व्याख्या सहित)
Ashvalayana Grihyasutra Hindi
महर्षि आश्वलायन (टीकाकार: हरदत्त आचार्य) द्वारा
स्रोत: Asvalayana Grihya Sutram with Anavila Commentary by Haradatta (उद्गम)
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
विषयानुक्रमणी ।
प्रथमोऽध्यायः ।
१ — २१. खण्डाः । स्थालीपाकाद्युपाककर्मान्तानि कर्माणि ।
प्रथमः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | गृह्यप्रतिज्ञानम् । |
| २. | पाकयज्ञप्रकारः । |
| ३. | पाकयज्ञानां हुतप्रहुतादिभेदत्रयम् । |
| ४. | पाकयज्ञानां यज्ञवन्नित्यत्वम् । |
| ५. | पाकयज्ञप्रशंसा । |
द्वितीयः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | सायंप्रातः सिद्धहविष्यहोमः । |
| २. | भूतयज्ञाख्यबलिहरणम् । |
| ३. | पितृयज्ञः । |
तृतीयः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | वक्ष्यमाणकर्मणां होमविधिः । |
| २. | पवित्राभ्यामाज्यस्योत्पवनम् । |
| ३. | पवित्रलक्षणम्, उत्पवनप्रकारस्तन्मन्त्रश्च । |
| ४. | आज्यहोमेषु परिस्तरणस्य वैकल्पिकत्वम् । |
| ५. | पाकयज्ञेष्वाज्यभागयोर्वैकल्पिकत्वम् । |
| ६. | पाकयज्ञेषु ब्रह्मणो वैकल्पिकत्वं, धन्वन्तरियज्ञशूलगवयdisplayो-र्ब्रह्मणो नित्यत्वं च । |
| ७. | देवतामात्रोपदेशे देवतापदैरेव होमः । |
| ८. | अनादेशे देवतानिर्णयः । |
३
| सूत्रम्. | विषयः. |
|---|---|
| ९. | समानदेवत्येषु तुल्यकालेषु बर्हिरादीनां तन्त्रत्वेऽपि प्रधानाहुतीनामतन्त्रता। |
| १०. | पूर्वोक्तार्थस्य प्रामाण्यसिद्धये यज्ञगाथोदाहरणम्। |
चतुर्थः खण्डः।
| सूत्रम्. | विषयः. |
|---|---|
| १. | चौलादिकर्मणां कालविधानम्। |
| २. | केषाञ्चिन्मते विवाहस्य सार्वकालिकत्वम्। |
| ३. | आज्यहोमः। |
| ४. | ऋग्भिर्व्याहृतिभिश्च होमविधानम्। |
| ५. | केषाञ्चिन्मते अष्टानामाहुतीनां समुच्चयविधानम्। |
| ६. | अनादेशाहुतिविधानम्। |
| ७. | विवाहे 'त्वमर्यमा अवसी'त्यादिमन्त्रेण चतुर्थ्या आहुतेर्विधानम्। |
| ८. | प्रथमं कुलपरीक्षा। |
| ९. | वरगुणः। |
| १०. | कन्यागुणः। |
| ११. | लक्षणानां दुर्ज्ञेयत्वम्। |
| १२. | क्षेत्राद्याहृतैरष्टभिर्मृत्पिण्डैः कन्यापरीक्षणम्। |
| १३–२०. | कन्यया मृत्पिण्डानां ग्रहणे प्रत्येकं फलकथनम्। |
| २१. | ब्राह्मविवाहः। |
| २२. | ब्राह्मोढायां जातस्योभयकुलपञ्चविंशतिपुरुषोत्तारकत्वम्। |
| २३. | दैवविवाहः। |
| २४. | दैवोढायां जातस्यैकविंशतिपुरुषोत्तारकत्वम्। |
| २५. | प्राजापत्यविवाहः। |
| २६. | प्राजापत्योढायां जातस्य सप्तदशपुरुषोत्तारकत्वम्। |
| २७. | आर्षविवाहः। |
| २८. | आर्षोढायां जातस्य पञ्चदशपुरुषोत्तारकत्वम्। |
सूत्रम् . | विषयः .
३
| सूत्रम् . | विषयः . |
|---|---|
| २९. | गान्धर्वविवाहः । |
| ३०. | आसुरविवाहः । |
| ३१. | पैशाचविवाहः । |
| ३२. | राक्षसविवाहः । |
पञ्चमः खण्डः ।
१. विवाहे नानाविधजनपदादिधर्माणां ज्ञात्वानुष्ठानम् । २. समानधर्मप्रतिज्ञा । ३. पाणिग्रहणविधिः, कामनाभेदेन पाणिग्रहणप्रकारः । ४. अग्न्युदकुम्भयोस्त्रिः परिणयनं जपश्च । ५. परिणयनमन्त्रः । ६. अश्मारोहणम् । ७. अश्मारोहणमन्त्रः । ८. वध्वा अञ्जलावुपस्तीर्य द्विलाजावापः । ९. जमदग्नीनां त्रिरवदानम् । १०. अवत्तस्य हविःशेषस्य च प्रत्यभिघारणम् । ११. सर्वत्रावदानेषूपस्तरणमवदानं प्रत्यभिघारणं चेत्यवदानधर्मः । १२. लाजहोमप्रकारस्तन्मन्त्राश्च । १३. शूर्पपुटेन तूष्णीं चतुर्थहोमप्रकारः । १४. केषाञ्चिन्मते लाजहोमात् परं परिणयनम् । १५. अस्मिन् पक्षे उत्तमाहुत्योरसन्निपातः । १६. समनन्तरमेव वध्वाः शिखयोर्विमोकः । १७. ऊर्णासूत्राभ्यां केशपक्षयोर्बन्धनम् । १८. दक्षिणपक्षसूत्रस्य ‘प्रत्वा मुञ्चामि’ति मन्त्रेण विमोकः । १९. उत्तरपक्षसूत्रस्य ‘प्रेतो मुञ्चामि’ति मन्त्रेण विमोकः । २०. सप्तपदी । २१. दम्पत्योः शिरस्युदकुम्भेनावसेकः । गृहान्तरगमने नियमविशेषः ।
४
| सूत्रम्. | विषयः. |
|---|---|
| २२. | ध्रुवारुन्धत्योर्दर्शनं, दम्पत्योर्मन्त्रवद्वाग्विसर्गः । |
षष्ठः खण्डः ।
१. यानारोहणम् ।
२. नावारोहणम् ।
३. उदकादुत्तारणम् ।
४. वध्वा रोदने जपः ।
५. ध्रियमाणस्य विवाहाग्नेर्नयनम् ।
६. प्रशस्तदेशवृक्षचतुष्पथेषु मन्त्रजपः ।
७. प्रतिवसति मन्त्रेणेक्षकप्रेक्षणम् ।
८. मन्त्रेण गृहप्रवेशः ।
९. दम्पत्योरग्नेः पश्चाच्चर्मण्युपवेशनं मन्त्रैर्होमो दधिप्राशनं च ।
१०. हुतशिष्टस्याज्यस्य तेनैव मन्त्रेण हृदयेऽञ्जनं वा ।
११. विवाहात् प्रभृति ब्रह्मचर्यनियमः, गृहप्रवेशनीयादूर्ध्वं त्रिरात्रं द्वादशरात्रं संवत्सरं वा चरितब्रह्मचर्यस्य ऋषिकल्पपुत्रजननम् ।
१२. सूर्याख्यमन्त्रतत्त्वज्ञायाचार्याय वधूवस्त्रदानम् ।
१३. ब्राह्मणेभ्योऽन्नदानम् ।
१४. स्वस्तिवाचनम् ।
सप्तमः खण्डः ।
१. विवाहात् प्रभृति गृह्याग्निपरिचरणम् ।
२. दम्पत्योरन्यतरेणाग्निसमीपे उदयास्तमययोर्नियमेनावस्थानम् ।
३. अग्नेरुपशमे पुनरग्न्युत्पत्तिप्रकारः उपवासोपदेशश्च ।
४. तस्याग्नेरग्निहोत्रविधानेन परिग्रहणम् ।
५. प्रज्वलनं होमकालश्च ।
६. होमार्हद्रव्यकथनम् ।
५
| सूत्रम्. | विषयः. |
|---|---|
| ७. | उक्तद्रव्यालाभे द्रव्यान्तरपरिग्रहणम् । |
| ८. | सायम्प्रातर्होमः । |
अष्टमः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | पार्वणः स्थालीपाकः । |
| २. | दर्शपूर्णमासयोः पूर्वस्यां रात्रावुपवासनियमः । |
| ३. | इध्माबर्हिषोः सन्नहनम् । |
| ४. | देवताः । |
| ५. | काम्यदेवताः । |
| ६. | देवताभ्यः प्रत्येकं चतुर्मुष्टिनिर्वापः । |
| ७. | निर्वापप्रकारस्तन्मन्त्रश्च । |
| ८. | निर्वापक्रमेण प्रोक्षणम् । |
| ९. | त्रिरवहननफलीकरणप्रक्षालनपूर्वं पृथक्पात्रेषु श्रपणम् । |
| १०. | एकस्मिन् पात्रे वा श्रपणम् । |
| ११. | पृथक्श्रपणे प्रकारकथनम् । |
| १२. | एकत्र श्रपणे प्रकारकथनम् । |
| १३. | शृतस्य हविष उदगुद्वासनं परिध्याघारानूयाजसमिधां परिधानम् इध्महोमस्तन्मन्त्रश्च । |
| १४. | तूष्णीमाघारहोमानन्तरमाग्नेयसौम्ययोराज्यभागयोर्होमविधिः । |
| १५. | पूर्वोक्ताज्यभागयोर्देशविधिः । |
| १६. | आज्यभागयोर्यज्ञचक्षुष्ट्वरूपणम्, आज्यभागयोः प्रथममुत्तरतः पश्चाद् दक्षिणतश्च होमे उपपत्तिकथनम् । |
| १७. | आज्यभागयोर्मध्ये प्रधानाहुतिहोमः । |
| १८. | प्रत्यक्तरं वा प्रधानाहुतिहोमः । |
| १९. | प्राक्संस्यमुदक्संस्थं वा हविर्होमः । |
| २०. | अग्नेरुत्तरपूर्वभागे सौविष्टकृतहोमः । |
| २१. | चतुरवत्तिनामवदानक्रमः । |
| २२. | पञ्चावत्तिनां जमदग्नीनामवदानक्रमः । |
६
| सूत्रम्. | विषयः. |
|---|---|
| २३. | हविष उत्तरार्धात् सौविष्टकृतमेकमवदानं, पञ्चावत्तिनो द्विरवदानं, सर्वेषां द्विरभिघारणम् इत्यवदानसम्पत्तिः । |
| २४. | प्रधानावदान इव सौविष्टकृतेऽवदाने हविषां न प्रत्यभिधारणम् । |
| २५. | सौविष्टकृतस्य हविषो होमे मन्त्रोपदेशः । |
| २६. | स्तीर्णे बर्हिषि प्रणीतापात्रनिनयनम् । |
| २७. | पाकयज्ञेषु पूर्णपात्रनिनयनस्यावभृथत्वरूपणम् । |
| २८. | उपदिष्टस्याङ्गजातस्य सर्वपाकयज्ञतन्त्रत्वम् । |
| २९. | हविशेषस्य दक्षिणात्वम् । |
नवमः खण्डः ।
| १. | पशुकल्पाधिकारः । |
| २. | शामित्रस्याग्नेरुत्तरतः संस्कृत्य प्रत्यङ्मुखमवस्थापितस्य पशोः समन्त्रकमार्द्रपलाशशाखया पश्चादुपस्पर्शः । |
| ३. | व्रीहियवमतीभिरद्भिः पुरस्तात् समन्त्रं प्रोक्षणम् । |
| ४. | तास्वप्सु किञ्चित् पाययित्वा तस्य पशोर्दक्षिणे बाहौ शेषस्य निनयनम् । |
| ५. | अमन्त्रकं त्रिः प्रदक्षिणं पर्यग्नि कृत्वा पशोरुदङ्नयनम् । |
| ६. | नीयमानस्य पशोः पुरस्ताद् दीप्ताग्रस्य काष्ठस्य हरणम् । |
| ७. | उल्मुकाग्निरेव शामित्र इति तस्य तस्मिन्नायतने प्रतिष्ठापनम् । |
| ८. | वपाश्रपणीभ्यां पशोरन्वारम्भणमध्वर्युस्थानीयस्य । |
| ९. | तस्यान्वारम्भणं यजमानस्य । |
| १०. | पशोः संज्ञपनवपोद्धारवपाश्रपणप्रकाराः, शामित्रौपासनाग्न्योः पर्यावर्तनेन प्रधानाग्नौ वपाहोमः । |
| ११. | अत्रैवाग्नौ स्थालीपाकश्रपणम् । |
| १२. | पशोरेकादशावदानानि । |
| १३. | अवदानक्रमः, अवदानेभ्यः प्राक् स्थालीपाकहोमः । |
| १४. | अवदानैः सह स्थालीपाकहोमो वा । |
७
| सूत्रम्. | विषयः. |
|---|---|
| १५. | प्रत्यङ्गं द्विर्द्विरवदानम् । |
| १६. | तूष्णीं हृदयशूलचरणम् । |
दशमः खण्डः ।
१. चैत्ययज्ञे स्विष्टकृतः प्राग्बलिहरणम् ।
२. विदेशस्थस्यापि चैत्यस्य यागः ।
३. तदा पलाशवृक्षेण दूतं कारयित्वा तेन बलिहरणम् ।
४. समन्त्रकमुभौ पिण्डौ कृत्वा वीवधस्य शिक्ययोरभ्याधाय तस्य वीवधस्य दूतस्कन्धे निधानम् ।
५. इमं बलिं चैत्याय हरेति पिण्डमेकमभिमृश्य निर्देशः ।
६. अयं तुभ्यमिति दूतपिण्डमभिमृश्य वचनम् ।
७. अन्तरा भयसम्भावनायां दूताय खड्गादिदानम् ।
८. अन्तरा नौतार्याया नद्याः सत्त्वे प्लवरूपमलावुपात्रादिकं दूताय दत्वानेन तरितव्यमित्युपदेशः ।
९. धन्वन्तरिनामकचैत्ययज्ञे ब्रह्माग्न्योरन्तरा पुरोहिताय प्रथमं बलिहरणं पश्चाद् धन्वन्तरये । होमस्तु धन्वन्तरिमात्रस्य । विदेशस्थत्वे तु धन्वन्तरये सपुरोहितायैकः पिण्डो दूताय द्वितीयः ।
एकादशः खण्डः ।
१. शाखान्तरोपनिषदाम्नातानां गर्भलम्भनपुंसवनानवलोभनानामनुष्ठेयत्वम् ।
२. उपनिषदनध्ययने तृतीये मासि तिष्ये पुंसवनं — पूर्वेद्यू रात्रावुपोषिताया भार्याया द्वौ द्वौ माषौ यवं च प्रक्षिप्य प्रसृतेन त्रिर्दधिप्राशनम् ।
३. किं पिवसीति पुंसवनमिति च भर्तृभार्ययोस्त्रिरुक्तिप्रत्युक्तयः ।
४. अनवलोभनं — दूर्वां रसीकृत्य तूष्णीं नस्तःकरणम् ।
८
| सूत्रम्. | विषयः. |
|---|---|
| ५. | एकेषां मते द्वाभ्यामृग्भ्यां नस्तःकरणम् । |
| ६. | पुंसवनानवलोभनयोः प्राजापत्यः स्थालीपाकः । तत्राज्यभागान्ते नस्तःकरणं, ततः शृतहविष्यहोमः समन्त्रं पत्न्या हृदयदेशस्पर्शश्च । |
द्वादशः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | सीमन्तोन्नयनस्य चतुर्थे मासि कर्तव्यता, आधारसंस्कारत्वान्नास्य प्रतिगर्भमावृत्तिः, पूर्वयोस्तु गर्भसंस्कारत्वादावृत्तिः । |
| २. | सीमन्तोन्नयनस्य शुक्लपक्षे पुंनक्षत्रेषु कर्तव्यत्वम् । |
| ३. | तस्य षष्ठेऽष्टमे वापि मासे कर्तव्यता । तत्र समन्त्रकं होमविधानम् । |
| ४. | शलादुस्तवकेन त्रिषु स्थानेषु श्वेतवर्णया शलल्या कुशस्तम्बैश्च समन्त्रकं सीमन्तव्यूहनं त्रिश्चतुर्वा । |
| ५. | वीणागाथिनोः संशासनं, |
| ६. | प्रैषक्रमः । |
| ७. | गेयगाथावर्णनम् । |
| ८. | यां नदीमुपजीवन्ति, तस्याः सम्बोधनं गेयगाथासु । |
| ९. | पतिपुत्रवतीनां ब्राह्मणीनामुपदेशस्य यथावदनुष्ठानम् । |
| १०. | वृषभस्य दक्षिणात्वम् । |
त्रयोदशः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | जातकरणम् । |
| २. | जातस्योभयोः कर्णयोर्मेधाजननजपः । |
| ३. | समन्त्रकमंसयोरभिमर्शनम् । |
| ४. | नामकरणं, नामकरणकालश्च । |
| ५. | नामलक्षणम् । |
सूत्रम् . | विषयः.
९
| सूत्रम् . | विषयः. |
|---|---|
| ६. | कामनाभेदेन नाम्नोऽक्षरनियमः । |
| ७. | पुंसो नाम्नि युग्माक्षरत्वनियमः । |
| ८. | स्त्रिया अयुग्माक्षरत्वम् । |
| ९. | अस्मिन्नेव कालेऽभिवादनीयस्य नाम्नः समीक्षणं, तस्य चोपनयनपर्यन्तं मातापितृव्यतिरिक्तस्याज्ञेयत्वम् । |
| १०. | प्रोष्यागते पितरि पुत्रे वा पुत्रस्य शिरः परिगृह्य मूर्धनि त्रिरवघ्राय समन्त्रकं पितुर्जपः । |
| ११. | कुमार्यां त्विदं सर्वममन्त्रकम् । |
चतुर्दशः खण्डः ।
१. अन्नप्राशनम् ।
२. अन्नाद्यकामनायां व्यञ्जनत्वेनाजमांसप्राशनम् ।
३. ब्रह्मवर्चसकामनायां तथा तित्तिरिमांसप्राशनम् ।
४. तेजस्कामस्य घृतसंस्कृतौदनप्राशनम् ।
५. अकामस्य दधिघृतमधुमिश्रान्नप्राशनम् ।
६. अन्नप्राशनमन्त्रः ।
७. कुमार्यां अमन्त्रकमन्नप्राशनम् ।
पञ्चदशः खण्डः ।
१. चौलकालः ।
२. उक्तकालेन सह यथाकुलधर्मं विकल्पः ।
३. व्रीहियवमाषतिलैः पृथक् पूर्णानां चतुर्णां पात्राणामग्नेरुत्तरतः स्थापनम् ।
४. अग्नेः पश्चान्मातुरुत्सङ्गे कुमारस्योपवेश्यत्वम् ।
५. आनडुहं गोमयं शमीपर्णानि च पश्चादग्नेर्नवे शरावे उपनिधातव्यानि ।
६. मातुर्दक्षिणतः कुशस्तम्बान्यादाय पितुरासनम् ।
१०
| सूत्रम्. | विषयः. |
|---|---|
| ७. | पक्षान्तरे ब्रह्मणः कुशपिञ्जूलधारणम् । |
| ८. | मन्त्रेण शीतोष्णजलमिश्रणम् । |
| ९. | नवनीतं दधिकणान् वा गृहीत्वा तेन जलेन कुमारस्य शिरसखिः क्लेदनम् । |
| १०. | क्लेदनमन्त्रः । |
| ११. | त्रयाणां त्रयाणां कुशपिञ्जूलानां दक्षिणे केशपक्षे निधानं, सकुशस्तम्बानां केशानां लौहेन क्षुरेण समन्त्रकं सन्धानं च । |
| १२. | तेन क्षुरेण सपिञ्जूलानां केशानां समन्त्रकं प्रच्छेदः प्रथमः । |
| १३. | प्रच्छिन्नानां प्रागग्राणां सकुशपिञ्जूलानां केशानां शमीपर्णैः सह मात्रे प्रदानं मात्रा तेषामानडुहे गोमये निधानं च । |
| १४. | एवं समन्त्रं द्वितीयतृतीयौ प्रच्छेदौ । |
| १५. | उक्तैः सर्वैर्मन्त्रैश्चतुर्थः प्रच्छेदः । |
| १६. | एवमुत्तरेऽपि केशपक्षे प्रागुक्तैर्मन्त्रैस्त्रयः प्रच्छेदाः । एवं सप्तसु प्रच्छेदेष्वेकविंशतेः कुशपिञ्जूलानां विनियोगः । |
| १७. | समन्त्रकं क्षुरधाराया नीचीनं मार्जनम् । |
| १८. | वपनं प्रति नापितस्य शासनम् । |
| १९. | यथाकुलधर्मं केशसन्निवेशनम् । |
| २०. | कुमार्यास्तूष्णीं वपनम् । |
षोडशः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | षोडशे वर्षे गोदानं चौलवत् । |
| २. | मन्त्रेषु केशशब्दस्थाने श्मश्रुशब्दप्रक्षेपः । |
| ३. | इह श्मश्रुमात्रक्लेदनम् । |
| ४. | अत्र मन्त्रे मुखशब्दस्याधिकस्य प्रवेशनम् । |
| ५. | केशश्मश्रुनखलोम्नामुदक्संस्थताकरणाय नापितस्य शासनम् । |
११
| सूत्रम् . | विषयः. |
|---|---|
| ६. | आप्लुत्य वाग्यमनेनाहःशेषनयनम्, अनन्तरमाचार्यसकाशे वरदानाय वाग्विसर्गः । |
| ७. | गोमिथुनमाचार्यदक्षिणा । |
| ८. | अपरेद्युरहनि संवत्सरं व्रतादेशः । |
सप्तदशः खण्डः ।
| सूत्रम् . | विषयः. |
|---|---|
| १. | अष्टमे वर्षे ब्राह्मणस्योपनयनम् । |
| २. | गर्भाष्टमे वा । |
| ३. | जन्मनो गर्भाद्वैकादशे क्षत्रियस्य । |
| ४. | तथा द्वादशे वैश्यस्य । |
| ५. | त्रैवर्णिकानामुपनयनकालेष्वनुकल्पः । |
| ६. | तस्य व्यतिक्रमे तेषां पतितत्वम् । |
| ७. | तेषां प्रायश्चित्ताकरणे उपनयनादिनिषेधः । |
| ८. | त्रैवर्णिकानामजिनभेदः उपनयनं यज्ञोपवीतधारणं च । |
| ९. | वर्णभेदेन वस्त्रभेदः । |
| १०. | वर्णभेदेन मेखलाभेदः । |
| ११. | वर्णभेदेन दण्डभेदस्तत्प्रमाणभेदश्च । |
| १२. | दण्डेषु कामचारो वा । |
| १३. | समन्वारब्धवति कुमारे होमानन्तरमग्नेरुत्तरत आचार्यस्यावस्थानम् । |
| १४. | कुमारस्य चाचार्याभिमुख्येनावस्थानम् । |
| १५. | उदकपूर्णे कुमारस्याञ्जलौ स्वाञ्जलिस्थमुदकं समन्त्रकमवक्षार्य समन्त्रकं कुमारस्य साङ्गुष्ठपाणिग्रहणं प्रथमम् । |
| १६. | एवं द्वितीयं तृतीयं च समन्त्रकं पाणिग्रहणम् । |
| १७. | समन्त्रकं कुमारस्य सूर्यप्रदर्शनम् । |
| १८. | परिदानमन्त्रजपः । |
| १९. | कुमारस्य 'युवा सुवासा' इत्यर्धर्चेन प्रदक्षिणावर्तनम् । |
CC-0. Agamnigam Digital Presevation Foundation, Chandigarh
१३
| सूत्रम्. | विषयः. |
|---|---|
| २०. | कुमारस्यांसदेशयोः पाणी गमयित्वा 'तं धीरास' इत्यर्धर्चेन हृदयदेशस्पर्शः । |
| २१. | पुनरप्यग्निं परिसमूह्य तूष्णीं समिदाधानम् । |
| २२. | ब्रह्मचारिणस्तूष्णींहोमस्य च प्राजापत्यत्वेन प्रशंसा । |
अष्टादशः खण्डः ।
| १. | एकेषां मते समन्त्रकं समिदाधानम् । |
| २. | समिदाधानात् परमग्न्युपस्पर्शे मुखनिमार्जनं च । |
| ३. | समिदाधानप्रशंसा । |
| ४. | समन्त्रकमग्नेरुपस्थानम्, आचार्याभिवादनं सावित्र्युपदेशप्रार्थना च । |
| ५. | सावित्र्युपदेशप्रकारः । |
| ६. | यथाशक्ति सावित्रीं वाचयित्वा कुमारस्य हृदयदेशे समन्त्रकमूर्ध्वाङ्गुलेः पाणेरुपनिधानम् । |
एकोनविंशः खण्डः ।
| १. | कुमारस्य ब्रह्मचर्यादेशनम् । |
| २. | प्रतिवेदं द्वादशवार्षिकं ब्रह्मचर्यम् । |
| ३. | ग्रहणान्तं वा । |
| ४. | सायम्प्रातर्भिक्षाचरणम् । |
| ५. | सायम्प्रातः समिदाधानम् । |
| ६. | अप्रत्याख्यायिनि प्रथमभिक्षणम् । |
| ७. | अप्रत्याख्यायिन्यां वा । |
| ८. | भिक्षामन्त्रः । |
| ९. | भिक्षान्तरग्रहणे मन्त्रविशेषः । |
| १०. | लब्धं भैक्षमाचार्याय निवेद्याहःशेषं यावत् स्थितिः । |
| ११. | अनुप्रवचनार्थं ब्रह्मोदनं श्रपयित्वाचार्याय निवेदनम् । |
| १२. | 'सदसस्पतिमिति मन्त्रेण प्रथमहोमः । |
१३
| सूत्रम्. | विषयः. |
|---|---|
| १३. | सावित्र्या द्वितीयहोमः । |
| १४. | तथा महानाम्न्यादिहोमः । |
| १५. | ऋषिभ्यस्तृतीयहोमः । |
| १६. | सौविष्टकृतश्चतुर्थहोमः । |
| १७. | ब्राह्मणभोजनानन्तरं वेदसमाप्तिवाचनम् । |
| १८.- | व्रतस्य कालनियमः । |
| १९. | व्रतान्ते मेधाजननाख्यकर्मकरणम् । |
| २०. | पलाशस्य कुशस्तम्बस्य वा त्रिः परिषेके मन्त्रवाचनम् इत्युपनयनसमाप्तिः । |
| २१. | उपनयनेन व्रतादेशनव्याख्या । |
| २२. | एवमनुपनीतस्योपनयनम् । |
| २३. | प्रतिवेश्मुपनयनपक्षे द्वितीयाद्युपनयने वक्ष्यमाणो विशेषः । |
| २४. | तत्र केशवपनस्य मेधाजननस्य च पाक्षिकत्वम् । |
| २५. | निरुक्तपरिदानाभावः । |
| २६. | निरुक्तकालस्य चाप्यभावः । |
| २७. | प्रकारान्तरेण सावित्र्या अनुवचनम् । |
विंशः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | प्रमाणपरिमाणाभ्यामन्यूनानतिरिक्तानामृत्विजां वरणम् । |
| २. | एकेषां मते कर्मसमर्थानामृत्विजां वरणम् । |
| ३. | चतुर्षु ऋत्विक्षु प्रथमं ब्रह्मणो वरणमन्येषां पौर्वापर्यनियमश्च । |
| ४. | सर्वेषां वरणस्य पाक्षिकत्वम् । |
| ५. | शाखाविशेषे सदस्यस्य सप्तदशस्य वरणम् । |
| ६. | तस्य कर्मोपद्रष्टृत्वम् । |
| ७. | पक्षान्तरे होतुरेव प्राथमिकं वरणम् । |
| ८. | होतुर्वरणमन्त्रः । |
| ९. | ब्रह्मणो वरणमन्त्रः । |
| १०. | अन्येषां सदस्यान्तानां वरणमन्त्राः । |
१४
| सूत्रम्. | विषयः. |
|---|---|
| ११. | सर्वेषाम् ऋत्विजां वरणसमनन्तरं जप्यो मन्त्रः । |
| १२. | जपानन्तरं होतुः प्रतिज्ञा । |
| १३. | ब्रह्मणः प्रतिज्ञा । |
| १४. | इतरेषामपि यथादेशं प्रतिज्ञा । |
| १५. | याजयिष्यतः प्रतिज्ञानात् पूर्वं जपविशेषः । |
| १६. | अन्यस्मै दत्तस्य प्रतिश्रुतस्य वार्त्विज्यस्याकर्तव्यता । |
| १७. | अहीनक्रतोरप्यार्त्विज्यस्याकर्तव्यत्वम् । |
| १८. | नीचदक्षिणस्य बहुवित्तस्याप्यार्त्विज्याकरणम् । |
| १९. | व्याधितादीनामार्त्विज्याभावः । |
| २०. | सोमप्रवाकं प्रति प्रश्नाः । |
| २१. | कल्याणेषु याज्यादिषु कर्मणः कर्तव्यत्वम् । |
| २२. | ऋत्विजां क्षीमांसयोः प्रतिषेधः । |
| २३. | ऋत्विजां क्रत्वन्ते दक्षिणाग्निहोमानन्तरं गमनम् । |
| २४. | अनाहिताग्नेः ऋत्विजो मन्त्रान्तरेण गृह्याग्नौ होमः । |
एकविंशः खण्डः ।
१. वरणानन्तरमृत्विजां मधुपर्काहरणम् ।
२, ३, ४. उपस्थितस्य स्नातकस्य राज्ञ आचार्यादीनां च मधुपर्काहरणम् ।
५. मधुपर्के द्रव्यमिश्रणप्रकारः ।
६. आसनादिद्रव्येष्वेकैकस्य त्रिस्त्रिनिवेदनम् ।
७. उदगग्रे विष्टरे मधुपर्क्यस्य जपित्वोपवेशनम् ।
८. प्रक्षालनार्थं विष्टरमाक्रम्य स्थित्वा वा पादप्रसारणम् ।
९. ब्राह्मणाय प्रथमं दक्षिणपादप्रसारणम् ।
१०. शूद्राय सव्यपादप्रसारणम् इतरयोर्यथेच्छम् ।
११. अर्घ्यग्रहणमाचमनीयं गन्धमाल्यादिपरिग्रहश्च ।
१२. आह्रियमाणं मधुपर्कं दृष्ट्वा मन्त्रजपः ।
१५
| सूत्रम्. | विषयः. |
|---|---|
| १३. | समन्त्रमञ्जलिना मधुपर्कग्रहणं तदवेक्षणमनामिकाकनिष्ठिकाभ्यां त्रिः प्रदक्षिणमालोडनं पुरस्तान्निमार्जनं च । |
| १४. | एवं दक्षिणपश्चिमोत्तरभागेषु निमार्जनम् । |
| १५. | मन्त्रेण मध्यात् त्रिरुद्गृह्य प्रथमं प्राशनम् । |
| १६. | मन्त्रान्तरेण द्वितीयं प्राशनम् । |
| १७. | तथा तृतीयं प्राशनम् । |
| १८. | सर्वप्राशनप्रतिषेधः । |
| १९. | आ तृप्तेः पानप्रतिषेधः । |
| २०. | मधुपर्कोच्छिष्टस्योदङ्मुखतया ब्राह्मणाय दानम् । |
| २१. | ब्राह्मणालाभे मधुपर्कस्याप्सु त्यागः । |
| २२. | सर्वप्राशनं वा । |
| २३. | आचमनीयजलेनान्वाचमनं प्रथमम् । |
| २४. | मन्त्रान्तरेण द्वितीयम् । |
| २५. | आचान्ताय गोर्निवेदनम् । |
| २६. | वधाभ्यनुज्ञायां जपित्वोङ्कुरुतेति वचनम् । |
| २७. | उत्स्रष्टुकामस्य जपित्वोत्सृजतेति वचनम् । |
| २८. | मधुपर्के भोजनस्यामांसत्वनिषेधः । |
द्वितीयोऽध्यायः ।
प्रथमः खण्डः ।
१. प्रतिसंवत्सरं श्रावणपौर्णमास्यां सर्पबलिः ।
२. अक्षतसक्तुभिः पूर्णस्य नवकलशस्य दर्व्याश्च नवे शिक्ये निधानम् ।
३. अक्षतान् धानाः कृत्वा तदर्धांशेऽसंस्कृतेन सर्पिषाञ्जनम् ।
४. अस्तमिते श्रपितस्य स्थालीपाकस्य होमचतुष्टयम्, एककपालस्य च पुरोडाशस्य सकृत् सर्वहोमः ।
५. अस्य पुरोडाशस्य घृतनिमज्जनमाविःपृष्ठता वा ।
१६
| सूत्रम्. | विषयः. |
|---|---|
| ६. | तस्य पुरोडाशस्य तेन घृतेन सह होमः । |
| ७. | अक्तानां धानानां समन्त्रकमञ्जलिना होमः । |
| ८. | अनक्तानां धानानां पुत्रादिभ्यो दानम् । |
| ९. | कलशाद् दर्व्या गृहीतानां सक्तूनां गृहस्य प्राच्यां दिशि शुचौ देशे प्रक्षेपः । |
| १०. | बलिं प्रदक्षिणीकृत्य पश्चाद्भाग उपविश्योपांशु मन्त्रजपः । |
| ११. | समन्त्रमानुपूर्व्येण पुत्रादीनां परिदानम् । |
| १२. | अन्तत आत्मनः परिदानम् । |
| १३. | कर्तृबल्योरन्तरा गमनप्रतिषेधः । |
| १४. | प्रत्यवरोहणपर्यन्तं सायम्प्रातर्बलिहरणम् । |
| १५. | एकेषां मते सर्वासामाहुतीनां तस्मिन्नेव दिने उपहरणीयत्वम् । |
द्वितीयः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | आश्वयुजपूर्णमास्यामाश्वयुजीकर्मणः कर्तव्यता । |
| २. | उक्तविधिना गृहमलङ्कृत्य पशुपतये स्थालीपाकं श्रपयित्वा होमः । |
| ३. | अञ्जलिना पृषातकहोमः स्विष्टकृतादि च । |
| ४. | सजूरित्यादिभिस्त्रिभिर्मन्त्रैराहिताग्नेराग्रयणस्थालीपाकहोमः । |
| ५. | अनाहिताग्नेरपि शालाग्नौ होमः । |
तृतीयः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | प्रत्यवरोहणकालः । |
| २. | गृहं पूर्ववदलङ्कृत्य पायसं श्रपयित्वा द्वाभ्यां मन्त्राभ्यां होमः । |
| ३. | अत्र होमे स्विष्टकृदभावः । |
| ४. | अग्निं समीक्ष्य मन्त्रजपो हेमन्तध्यानं च । |
१७
| सूत्रम्. | विषयः. |
|---|---|
| ५. | अग्नेः पश्चाद्भागे पलाशदिभिरलङ्कृतायां शय्यायामुपविश्य जपित्वा भार्यापुत्रादिभिः सह प्राक्शिरस उदङ्मुखत्वेन संवेशनम्। |
| ६. | यथावकाशमितरेषां संवेशनम्। |
| ७. | गृहिणः समीपे ज्येष्ठस्य तदनन्तरं तत्कनिष्ठस्येति वा संवेशनक्रमः। |
| ८. | मन्त्रविदां सौर्यस्वस्त्ययनादिमन्त्रजपः। |
| ९. | शयनादुत्थाय प्रतिदिशं सकृन्मन्त्रजपः। |
| १०. | चतुर्थसंहानात् परं सौर्यादिजपो ब्राह्मणभोजनं स्वस्तिवाचनं च। |
चतुर्थः खण्डः।
| सूत्रम् | विषयः |
|---|---|
| १. | हेमन्तशिशिरयोः कृष्णाष्टमीषु चतसृष्वष्टकाकरणम्। |
| २. | एकस्यां वाष्टम्यामष्टका। |
| ३. | पूर्वेद्युः सप्तम्यां पितृभ्यो दानम्। |
| ४. | ओदनकृसरपायसैश्चतुःशरावपारिमिततण्डुलकृतापूपैर्वा होमः। |
| ५. | पशुना स्थालीपाकेन वाष्टकाकरणम्। |
| ६. | उभयोरसम्भवे बलीवर्दस्य यवसमुष्टिप्रदानम्। |
| ७. | त्रयस्यासम्भवेऽग्निना कक्षदाहः। |
| ८. | यवसदाने कक्षदहने चैषा मेऽष्टकेति मनसा ध्यानम्। |
| ९. | उक्तैः कल्पैः शास्त्रान्तराविहितैर्वाष्टकाया अवश्यकर्तव्यत्वम्। |
| १०. | अस्या अष्टकाया एकेषां मते देवता विश्वेदेवाः। |
| ११. | आग्नेयी वा। |
| १२. | सौर्या वा। |
| १३. | नक्षत्राणि वा। |
| १४. | रात्रिर्वा। |
| १५. | ऋतवो वा। |
१८
| सूत्रम्. | विषयः. |
|---|---|
| १६. | पितरो वा । |
| १७. | प्रजापतिर्वा । |
| १८. | पशुकल्पे प्रोक्षणोपाकरणवर्जं पशुं संज्ञप्य वपाहोमः । |
| १९. | पश्वङ्गस्थालीपाकस्यावदानानां स्थालीपाकान्तरस्य च सप्त होममन्त्राः । |
| २०. | अष्टमी स्विष्टकृत आहुतिः । |
| २१. | नवावराणां ब्राह्मणानां भोजनम् । |
पञ्चमः खण्डः ।
१. नवम्यामन्वष्टक्यम् ।
२. अष्टकार्थमुपाकृतस्य मांसस्यैकदेशेन संस्कृतेनात्र ब्राह्मणभोजनम् ।
३. अग्निप्रतिष्ठापनं परिस्तृते बर्हिषि नानाविधाना हविषामासादनं च ।
४. अस्य कर्मणः पिण्डपितृयज्ञकल्पेन कर्तव्यत्वम् ।
५. मधुमन्थवर्जमवसादितानां हविषां होमो मधुमन्थेन सह पितृभ्यो दानं पिण्डनिपरणं च ।
६. तैरेव द्रव्यैः पिण्डरूपेण मातृपितामहीप्रपितामहीभ्यो दानम् ।
७. स्त्रीपिण्डेषु सुरायवाग्वोरधिकतया दानम् ।
८. पिण्डद्वयपक्षे आयते द्वे लेखे, पिण्डषट्कपक्षे मण्डलाकाराः षड् लेखाः ।
९. पूर्वस्यां रेखायां पूर्वांसु वा तिसृषु रेखासु पित्रादीनां पिण्डदानम् ।
१०. अपरस्यामपरासु वा स्त्रीणाम् ।
११. वर्षतौ कृष्णत्रयोदश्यां माघावर्षनाम्नः कर्मणः कर्तव्यत्वम् ।
१२. प्रतिमासमपरपक्षत्रयोदश्यां पूर्ववत् कर्मणः कर्तव्यत्वम् ।
१३. पितृभ्यो देयस्य गन्धमाल्यादेर्युग्मसङ्ख्याकत्वम् ।
१९
| सूत्रम्. | विषयः. |
|---|---|
| १४. | अष्टकादिषु नवावराणां ब्राह्मणानां भोजनम् । |
| १५. | यथाशक्त्ययुग्मसङ्ख्यानां वा । |
| १६. | आभ्युदयिकश्राद्धेषु युग्मसङ्ख्यानां ब्राह्मणानां भोजनम् । |
| १७. | अन्येषु श्राद्धेष्वयुग्मानां ब्राह्मणानां भोजनम् । |
| १८. | वृद्धिश्राद्धेषूपचारस्य प्रदक्षिणत्वमन्यत्राप्रदक्षिणत्वम् । |
| १९. | आभ्युदयिकेषु तिलस्थाने यवाः । |
षष्ठः खण्डः ।
| १. | रथारोहणाय समन्त्रकं पाणिभ्यामुभयोश्चक्रयोः पृथगभिमर्शः । |
| २. | तथा समन्त्रकमक्षाभिमर्शः । |
| ३. | आरोहणमन्त्रस्तत्क्रमश्च । |
| ४. | समन्त्रकं रश्मिसम्मर्शः । |
| ५. | गमनसमये मन्त्रजपः । |
| ६. | शकटाद्यारोहणेऽप्येवम् । |
| ७. | शकटाद्यङ्गस्पर्शनमन्त्रः । |
| ८. | नावारोहणमन्त्रः । |
| ९. | नवरथारोहणे प्रसिद्धं वृक्षमविदाहिनं हृदं वा प्रदक्षिणीकृत्य फलवत्याः शाखाया आहरणम् । |
| १०. | कुटुम्बोपकारकस्यान्तरस्य वाहरणम् । |
| ११. | व्यवहारार्थित्वे व्यवहारस्थानगमनम् । |
| १२. | रथावरोहणक्रमो मन्त्रजपश्च । |
| १३. | प्रत्यर्थ्यभिक्रमणे मन्त्रजपः । |
| १४. | सूर्यास्तमये मन्त्रजपः । |
| १५. | उषःकाले मन्त्रजपः । |
सप्तमः खण्डः ।
| १. | गृहपरीक्षणम् । |
| २. | प्रशस्तभूमिलक्षणम् । |
२०
| सूत्रम्. | विषयः. |
|---|---|
| ३. | ओषधिवनस्पतिमत्याश्च भूमेः प्रशस्तत्वम् । |
| ४. | कुशादिमत्याश्च प्रशस्तत्वम् । |
| ५. | वास्तुगतानां कण्टकिक्षीरिवृक्षाणां समूलोत्पाठ्यत्वम् । |
| ६. | अपामार्गादीनामपि समूलोत्पाठ्यत्वम् । |
| ७. | सर्वत उच्छ्रितायां मध्ये निम्नायां भूमौ गृहनिर्माणस्य प्रशस्तत्वं तत्र प्राच्यां दिशि शयनीयस्य कर्तव्यता । |
| ८. | पूर्वोक्तलक्षणसम्पन्नस्य वास्तुनः सर्वसमृद्धत्वम् । |
| ९. | शयनीयस्योत्तरतो महानसम् । |
| १०. | एवं कृतस्य महानसस्य बह्वन्नता । |
| ११. | उदीच्यां दक्षिणाप्रवणे देशे सभानिर्माणं तत्फलं च । |
| १२. | अस्यां सभायां यूनां दोषावहत्वम् । |
| १३. | गृहमध्यदेशे कृतायाः सभायाः सर्वशुभावहत्वम् । |
अष्टमः खण्डः ।
| सूत्रम्. | विषयः. |
|---|---|
| १. | वास्तुपरीक्षाक्रमः । |
| २. | जानुमात्रं खातैः पांसुभिर्गर्तपूरणम् । |
| ३. | आधिक्ये प्रशस्तत्वम् । |
| ४. | समे निर्दोषत्वम् । |
| ५. | न्यूने गर्हितत्वम् । |
| ६. | अस्तमिते सूर्ये खातस्य गर्तस्य जलेन पूरणम् । |
| ७. | उदिते सूर्ये किञ्चिच्छिष्टोदकं गर्तमुत्तममार्द्रं मध्यमं शुष्कं त्वधमम् । |
| ८. | ब्राह्मणवास्तुप्रकारः । |
| ९. | क्षत्रियवास्तुप्रकारः । |
| १०. | वैश्यवास्तुप्रकारः । |
| ११. | एवं परीक्षितस्य वास्तुनो हलेन बहुशः कृष्ट्वा समचतुरश्रीकरणम् । |
| १२. | दीर्घचतुरश्रीकरणं वा । |