भारतकोश
संग्रह पर लौटें

आयुर्वेद प्रकाश (माधव उपाध्याय - रसशास्त्र, पारद शोधन व धातु भस्म निर्माण सटीक)

Ayurveda Prakasha of Madhava Upadhyaya with Commentary

माधव उपाध्याय (सम्पादक: यादवजी त्रिकमजी आचार्य) द्वारा

DevanagariHindipublished232 पृष्ठ

१२.] । आयुर्वेदप्रकाशः । १४७ तापीजं द्विरुदाहरन्ति विमलामाक्षीकभेदादिह त्रेधाऽऽद्या तु सुवर्णकांस्यरजतच्छायानुकारादमूः । तिस्रोऽप्यस्रयुताश्चतुस्त्रिफलकावृत्ताः स्वनामश्रियो मध्योक्ता सफला तु शुध्यति दिनं वासाजशृङ्गीरसे २५ स्विन्ना जम्भीरसेऽपि तालवलिना वस्वंशकेनाम्भसा जम्भस्यैव परिप्लुता दशपुटैर्जीवेन्न योगानुगाः ॥ २६ ॥ व्याख्या—तापीजं माक्षिकं द्विविधमुक्तं, विमलामाक्षि- कभेदात् । इह द्विविधभेदमध्ये, आद्या विमला, सा तु त्रेधा त्रिविधा । विमलाशब्दस्तु त्रिलिङ्गः । एका विमला सुवर्ण- च्छायानुकारात्; द्वितीया कांस्यच्छायानुकारात्, तस्सात्कां- स्यविमलाऽप्यस्तीति सूचितं; तृतीया रजतच्छायानुकारात्; तत्तन्नामपूर्विका विमला भवन्ति । यथा—स्वर्णविमला, कांस्य- विमला, रजतविमला चेति । तत्र स्वर्णविमला स्वर्णमाक्षिक- भेदः, कांस्यविमला कांस्यमाक्षिकभेदः, एतद्वचनसामर्थ्यादेव कांस्यस्यापि माक्षिकोऽस्तीति गम्यते, रजतविमला रजतमाक्षि- कभेदः । अथैषां माक्षिकेभ्यो भेदकानि लक्षणान्याह— अमूस्तिस्रोऽपि; अस्रं धारा, फलकं चिपिटं, वृत्तत्वं वर्तुलत्वं; स्वनामश्रिय इत्यनेन स्वर्णादिप्रभा उक्ताः, मध्या कांस्यवि- मला सफला उक्ता सचिपिटोक्ता । त्रयाणामपि शोधनमार- णमाह—शुध्यन्तीति । दिनं चतुर्यामम् । वासा अटरूषः, अजशृङ्गी मेषशृङ्गी, अनयो रसे चूर्णीकृत्य वस्त्रबद्धं कृत्वा स्विन्नास्तथा निम्बुरसे स्विन्नाः शुध्यन्ति। पश्चात्तालकः शुद्धः, बलिर्गन्धकः सोऽपि शुद्धः, तेन समुचितेन अष्टमांशेन जम्भा- म्भसा त्रिवारं भाविता दशपुटैर्न जीवेत् म्रियते । पुटे च प्रत्येकं भावना देया । तद्रस योगानुगं भवति यत्र रसे उक्तं तत्र प्रयोज्यम् । उक्तं च—

१४८ आयुर्वेदीयग्रन्थमाला । [ अध्यायः त्रेधा स्याद्विमलः स्वर्णपूर्वको रूप्यपूर्वकः । कांस्यपूर्वश्च विख्यातस्तत्तत्कान्त्या स लक्ष्यते ॥ २७ ॥ विमलस्तपतीतीरवर्तिन्यद्रिविभागके । उत्पद्यते परैः कांस्यमाक्षिकोऽयमिति स्मृतः ॥ २८ ॥ आद्यो हेमक्रियासक्तश्चरमः श्वेतकर्मसु । मध्यो रजतनामा यः स प्रोक्तो वै रसादिषु ॥ २९ ॥ अथ लक्षणगुणाः— वर्तुलः कोणसंयुक्तः स्निग्धश्च फलकान्वितः । मरुत्पित्तहरो वृष्यो विमलश्च रसायनः ॥ ३० ॥ अनुपानमपि रसपद्धत्याम्— वेल्लव्योषवराज्येन विमलः सेवितो यदि । भगन्दरादिकान् रोगान्नृणां जयति दुस्तर rank... दुस्तरान् ॥ ३१ ॥ अथ रसपद्धत्याम्— माक्षीको द्विरहादिमः कनकरुग्दुर्वर्णवर्णोऽपरः कांस्यश्रीकमुशन्ति

१२.] आयुर्वेदप्रकाशः । १४९ त्यर्थः । विमलाभ्यो भेदकं लक्षणमाह-निष्कोणा धारार- हिताः, गुरवो भारयुक्ताः, करे हस्ते घृष्टाः कालिकां किरन्ति । शुद्धिमाह-खिन्ना इति । रुबुतैलमेरण्डतैलं, लुङ्गं मातुलुङ्गं तत्सलिलैः, कर्कोटिका खेखसा, तस्याः कन्दं मूलं, तयो रम्बुना जलेन पक्वाः शुध्यन्ति । स्वेदनं तु चूर्णीकृत्य दोलायन्त्रेण । पश्चाल्लुङ्गाम्बु मातुलुङ्गरसः, गन्धकश्च, आभ्यां भाविताः, कूर्मपुटैस्त्रिभिर्दग्धा भस्मानि स्युः । ते च व्युत्क्र- मेण कांस्यतारसुवर्णसंज्ञकाः जघन्यमध्यमोत्तमा उदिताः । वृष्या शुक्रप्रदाः । पाण्डुपटीयसः पाण्डुघ्नाः । तथा बलकराः योगे उपयुक्ताः सन्तो बलकरा भवन्ति । इति माक्षीकविम- लानिर्णयः ॥ अथ तुत्थोत्पत्तिनामलक्षणशोधनगुणाः । गरुडेनामृतं पीत्वा पश्चात्पीतं विषं पुरा । वान्तं मरकताद्रौ तु तद्धनं शिखिदुत्थकम् ॥ ३४ ॥ तुत्थं वितुन्नकं चापि शिखिग्रीवं मयूरकम् । तुत्थं ताम्रोपधातुः स्यात्किञ्चित्ताम्रेण तद्भवेत् ॥ ३५ ॥ किंचित्ताम्रगुणं तत्स्याद्वक्ष्यमाणगुणं च तत् । तुत्थस्यैव भवेद्भेदः खर्परं तद्गुणं च तत् ॥ ३६ ॥ शिखिकण्ठसदृकछायं भाराढ्यं तुत्थकं च यत् । गुणवत्तत्परिशेयमन्यद्धीनगुणं मतम् ॥ ३७ ॥ गुणाः- तुत्थं तु कटुकं क्षारं कषायं वामकं लघु । लेखनं भेदनं शीतं चक्षुष्यं कफपित्तहृत् ॥ ३८ ॥ विषाश्मंकुष्ठकण्डूघ्नं खर्परं चापि तद्गुणम् । वान्तिं भ्रान्तिमशुद्धं तत् कुरुते, शोधितं शुभम् ॥ ३९ ॥ १ 'विषापस्मारकण्डूघ्नं' ग. ।

[ १५० आयुर्वेदीयग्रन्थमाला । [ अध्यायः शोधनम्— विष्ठया मर्दयेत्तुत्थं मार्जारककपोतयोः दशांशं टङ्कणं दत्त्वा पचेल्लघुपुटे तथा ॥ पुटं दध्ना पुटं क्षौद्रैर्देयं तुत्थविशुद्धये ॥ ४० ॥ इति तुत्थशुद्धिः । प्रकारान्तरम्— ओतोर्विशा समं तुत्थं सक्षौद्रं टङ्कणाङ्घ्रियुक् । त्रिधैव पुटितं शुद्धं वान्तिभ्रान्तिविवर्जितम् ॥ ४१ ॥ प्रकारान्तरम्— अम्लवर्गेण लुलितं स्नेहसिक्तं हि तुत्थकम् । दोलायां वाजिगोमूत्रे दिनं पक्वं विशुध्यति ॥ ४२ ॥ इति तुत्थशुद्धिः । क्वचिन्मारणमप्युक्तं तुत्थकस्य— गन्धाश्मटङ्कणयुतं लकुचद्रावमर्दितम् । अन्धमूषागतं द्वित्रिकुकुटैर्मृतिमाप्नुयात् ॥ ४३ ॥ अथ तुत्थसत्त्वाकृष्टिः— तुत्थकं टङ्कणयुतं निम्बूद्रवविमर्दितम् । अन्धमूषागतं ध्मातं सत्त्वं मुञ्चति ताम्रकम् ॥ ४४ ॥ अथात्र मुद्रिकोपयुक्तत्वेन भूनागस्वरूपं सत्त्वाकृष्टिश्च प्रोच्यते भूनागः क्षितिनागश्च भुजङ्गो रक्तजन्तुकः । क्षितिजः क्षितिजन्तुश्च भूमिजो रक्ततुण्डकः ॥ ४५ ॥ गुणाः— भूनागो वज्रमारः स्यान्नानाविज्ञानकारकः । रसस्य जारणे प्रोक्तं तत्सत्त्वं तु रसायनम् ॥ ४६ ॥ वर्षासु वृष्टिसंक्लिन्नभूगर्भे संभवन्ति हि । जन्तवः कृमिरूपा ये ते भूनागा इति स्मृताः ॥ ४७ ॥ चतुर्विधास्तु भूनागाः स्वर्णादिखनिसंभवाः । स्वर्णभूमिभवाः पीता रूप्यभूमिभवाः सिताः ॥ ४८ ॥

१२.] । आयुर्वेदप्रकाशः । १५१ ताम्रभूमिभवास्ताम्राः कृष्णा लोहमयीभवाः । रसेन्द्रप्राणरूपास्ते भूनागाः सिद्धसंमताः ॥ ४९ ॥ स्वर्णादिभूमिसंभूता दुर्लभास्ते प्रकीर्तिताः । ताम्रभूमिभवा प्रायः सुलभा गुणवत्तराः ॥ ५० ॥ उक्तं च— ताम्रभूभवभूनागान्नि शापिष्टान् समेन तान् । गुडगुग्गुलुलाक्षोर्णामत्स्यपिण्याकटङ्कणैः ॥ ५१ ॥ दृढमेतैश्च संयोज्य मर्दयित्वा धमेत्सुखम् । मुञ्चन्ति ताम्रवत्सत्त्वं ते, पक्षा अपि बर्हिणाम् ॥ ५२ ॥ ते भूनागाः ॥ भूनागसत्त्वं शिशिरं सर्वकुष्ठव्रणप्रणुत् । तद्युक्तजलपानेन स्थावरं चापि जङ्गमम् ॥ ५३ ॥ विषं नश्यति, तत्पात्रगतः सूतोऽग्नितो दृढम् । एवं मयूरपक्षोत्थसत्त्वस्यापि गुणा मताः ॥ ५४ ॥ दृढं बध्यते इत्यर्थः । इति भूनागसत्त्वमयूरपक्षसत्त्वगुणाः ॥ प्रकारान्तरेण तुत्थसत्त्वम्— तुत्थस्य टङ्कणं पादं चूर्णयेन्मधुसर्पिषा । तुत्थेन मिश्रितं ध्मातं कोष्ठीयन्त्रे दृढाग्निना । ध्मापितं द्रवते सत्त्वं कीरतुण्डसमप्रभम् ॥ ५५ ॥ इति तुत्थसत्त्वम् । रसपद्धत्यां तुत्थसत्त्वभूनागसत्त्वयोर्मि- लितयोर्मुद्रिकायाः फलमुक्तम्— घस्रं पूतिकरञ्जतैलनिहितं पादांशसौभाग्यकं ध्मातं तुत्थरजोऽथ पात्रपिहितं दीप्तैरलातचयैः । यद्वा मानुषनीलकेशनिहितं मुञ्चेत्क्षणात्तुत्थकं ताम्रं शोणितविन्दुवन्धुरमदो भूनागसत्त्वं तथा ॥५६॥ १ 'सामिकरञ्ज' ख. ।

एताभ्यां रविवासरे रचितया संप्लावितं मुद्रया पीतं वारि विषद्वयग्रहहरं सद्यः प्रसूतिप्रदम् । तद्वत्तत्परिमृष्टसप्ततिलजस्नेहोऽमुना मन्त्रितो मन्त्रेणाशु निहन्ति शूलमतुलं दृग्दोषभूतग्रहम् ॥ ५७ ॥ सद्यः स्त्रीप्रसवप्रदो निगदितः सद्यो व्रणारोपणो लिप्तो लोचनयोर्हितो विनिहितः प्राग्भालुकिप्रोदितः ॥ व्याख्या—घस्रमित्यादि । दुर्गन्धिकरञ्जतैले दिनं निहितं पश्चात्पादांशटङ्कणयुतं पश्चात्तुत्थरजो मर्दितमन्धमूषायां नि- हितं दीप्तकाष्ठत्रयैर्ध्मातं सत्त्वं मुञ्चति । प्रकारान्तरमाह—यद्वा मानुषकेशैरेकीकृत्य ध्मातं क्षणात्ताम्रं शोणितबिन्दुबन्धुरं सत्त्वं मुञ्चेत् । अथैवमेव भूनागसत्त्वं ग्राह्यमित्याह—अदो भूनागेति एवमेव भूनाग

१२.] आयुर्वेदप्रकाशः । १५३ श्लिष्टमृत्तिकां वा रजनीतोयेन प्रक्षाल्य, क्षुधितं कुक्कुटं मयूरं वा क्रमेण चारयित्वा, तद्विष्ठां कुडवमात्रां गृहीत्वा, क्षाराम्लैः सह पेषयित्वा, विशोष्य, खर्परे दत्त्वा, भर्जनं कुर्यात् । तां मषीं द्रावणवर्गेणैकीकृत्य, मूषामध्ये निवेश्य, घटिकाद्वयं धमेत् । तस्मिन् शीतीभूते खोटकमाहृत्य प्रक्षाल- यित्वा रवकान् संगृह्य टङ्कणं दत्त्वा सुवर्णवद्धमेत् । तस्यैकीभू- तस्य भूनागताम्रस्य मयूरतुत्थताम्रस्य च मिश्रणेन मुद्रिका कार्या, सा प्रोक्तगुणा भवति । सुवर्णेन युक्ताऽपि वा मुद्रिका कार्या, साऽप्यचिन्त्यसामर्थ्या भवति । अथ तदुत्पत्तिमृत्तिकादिकं तु भृङ्गनिर्गुण्डीद्रवैर्द्रावणवर्गेण चैकीकृत्य मर्दयेत्, पश्चाद्दृढ- मूषायां वटकीकृतं प्रक्षिप्य घटीद्वयं धमेत् । तत्पक्वं विचूर्ण्य रवकान् भारवत्तरानणून् द्वादशांशताम्रयुक्तान् कृत्वा धामयित्वा रवकान् कुर्यात् । तेन वज्रादिद्रावणं कुर्यात् । इदं वारद्वयं त्रयं वज्रे दत्तं द्रुतं भवति । इदं तु वज्रस्य पारदस्य (?) द्रावणार्थे परमतेजो भवति । गुणास्तु प्रागुक्ताः । इति भूनागसत्त्वनि- रूपणम् ॥ विशुद्धं तुत्थकं योज्यमञ्जनादौ भिषग्वरैः । अथ कांस्यपित्तलयोरुत्पत्तिनामलक्षणगुण- शोधनमारणानि । अष्टभागेन ताम्रेण द्विभागं कुटिलं युतम् । एकत्र द्रावितं तत्स्यात्कांस्यं सौराष्ट्रजं शुभम् ॥ ५९ ॥ ताम्रं त्रपुजमाख्यातं कांस्यं घोषं च कंसकम् । उपधातुर्भवेत्कांस्यं द्वयोस्तरणिरङ्गयोः ॥ ६० ॥ कांस्यस्य तु गुणा ज्ञेयाः स्वयोनिसदृशा बुधैः । संयोगजप्रभावेन तस्यान्येऽपि गुणाः स्मृताः ॥ ६१ ॥

१५४ आयुर्वेदीयग्रन्थमाला । [ अध्यायः यथा— कांस्यं कषायं तिक्तोष्णं लेखनं विशदं सरम् । गुरु नेत्रहितं रूक्षं कफपित्तहरं परम् ॥ ६२ ॥ कांस्यं च द्विविधं प्रोक्तं पुष्पतैलिकभेदतः । पुष्पं श्वेततमं तत्र तैलिकं कपिशप्रभम् । एतयोः प्रथमं श्रेष्ठं संसेव्यं रोगशान्तये ॥ ६३ ॥ अथ पित्तलम्— पित्तलं त्वारकूटं स्यादारो रीतिश्च कथ्यते । राजरीतिर्ब्रह्मरीतिः कपिला पिङ्गलाऽपि च ॥ ६४ ॥ रीतिरप्युपधातुः स्यात्ताम्रस्य यशदस्य च । पित्तलस्य गुणा ज्ञेयाः स्वयोनिसदृशा बुधैः ॥ ६५ ॥ संयोगजप्रभावेन तस्यान्येऽपि गुणाः स्मृताः । रीतिका द्विविधा प्रोक्ता तत्राद्या राजरीतिका ॥ ६६ ॥ काकतुण्डी द्वितीया स्यात्तयोराद्या गुणाधिका । संतप्ता काञ्जिके क्षिप्ता ताम्रा स्याद्राजरीतिका ॥ ६७ ॥ काकतुण्डी तु कृष्णा स्यान्नासौ सेव्या विजानता । श्वेतं दीप्तं मृदुज्योतिः शब्दाढ्यं स्निग्धनिर्मलम् ॥ ६८ ॥ घनाग्निसहसूत्राङ्गं कांस्यमुत्तममीरितम् । शुद्धा स्निग्धा मृदुः शीता सुरङ्गा मूत्ररूपिणी । हिमोपमा शुभा स्वच्छा राजरीतिः प्रकीर्तिता ॥ ६९ ॥ गुणाः— रीतिकायुगलं रूक्षं तिक्तं च लवणं रसे । शोधनं पाण्डुरोगघ्नं क्रिमिघ्नं नातिलेखनम् ॥ ७० ॥ एतस्य भस्म तु निम्बाष्टकचूर्णेन सह भल्लाततिलब्रह्मबीजा- जमोदाग्निभिः सेवितं जन्तुघ्नं भवति श्वेतकुष्ठहरं च भवति ।

१२.] आयुर्वेदप्रकाशः । १५५ सुवर्णरीतिचूर्णमन्नादिना छागेन भक्षितं तद्विष्ठां खर्परे लिप्त्वा पश्चात्तत्खर्परं दग्धं रीतिं मुञ्चति । तां रीतिमेकीकृत्य, आवर्त्य, मुद्रिकां कृत्वा धारयेत् । सा सुवर्णचतुर्दशवर्णतुल्या भवति । अथोभयोः शोधनमारणम्— पत्तलीकृतपत्राणि कांस्यरीत्योः प्रतापयेत् । निषिञ्चेत्तप्ततप्तानि तैले तक्रे च काञ्जिके ॥ ७१ ॥ गोमूत्रे च कुलत्थानां कषाये च त्रिधा त्रिधा । एवं कांस्यस्य रीतेश्च विशुद्धिः संप्रजायते ॥ ७२ ॥ विशेषशोधनं यथा— गोमूत्रेण पचेद्यामं कांस्यपत्राणि बुद्धिमान् । दृढाग्निना विशुध्यन्ति पक्वान्यम्लद्रवेऽपि वा ॥ ७३ ॥ रीतिस्तप्ता तु निर्गुण्डीरसे श्यामारजोन्विते । निषिक्ता शुद्धिमायाति पक्वा वाऽम्लद्रवेऽपि च ॥ ७४ ॥ अथ मारणम्— अर्कक्षीरेण संपिष्टो गन्धकस्तेन लेपयेत् । समेन कांस्यपत्राणि शुद्धान्यम्लद्रवैर्मुहुः ॥ ७५ ॥ ततो मूषापुटे धृत्वा पुटेद्गजपुटेन च । एवं पुटद्वयात्कांस्यं रीतिश्च म्रियते ध्रुवम् ॥ ७६ ॥ अन्यच्च— कांस्यकं राजरीतिं च ताम्रवच्छोधयेद्भिषक् । ताम्रवन्मारणं चापि तयोरुक्तं भिषग्वरैः ॥ ७७ ॥ अथ भर्तसंज्ञं पञ्चलोहं पञ्चरत्ननामकमधि- कोपधातुर्भवति । यथा— कांस्यं रीतिस्तथा ताम्रं नागो वङ्गश्च पञ्चमः । एकत्र द्रावितैरेतैः पञ्चलोहं प्रजायते ॥ ७८ ॥

१५६ आयुर्वेदीयग्रन्थमाला । [ अध्यायः नामानि— पञ्चलोहं पञ्चरसं वर्तुलं भर्तमित्यपि । व्यञ्जनं सूपमन्यच्च तद्भाण्डे साधितं शुभम् ॥ ७९ ॥ आदौ तैलादिके शोध्यं पश्चात्तप्त्वाऽजमूत्रके । निषिक्तं शुद्धिमायाति पञ्चलोहं न संशयः ॥ ८० ॥ अर्कक्षीरेण संपिष्टगन्धतालकलेपनात् । पञ्चकुम्भिपुटैर्भर्तं म्रियते योगवाहकम् ॥ ८१ ॥ इति भर्तमारणम् ॥ घृतवर्जं बुधैः सर्वं पाच्यं कांस्यस्य पात्रके । भोजनं तु प्रशस्तं स्याद्रीतिका मध्यमा स्मृता ॥ ८२ ॥ अथ सिन्दूरम् । सिन्दूरं रक्तरेणुश्च नागगर्भं च सीसकम् । सीसोपधातुः सिन्दूरं गुणैस्तत्सीसवन्मतम् ॥ ८३ ॥ संयोगजप्रभावेण तस्याप्यन्ये गुणाः स्मृताः । सिन्दूरमुष्णं वीसर्पकुष्ठकण्डूविषापहम् । भग्नसन्धानजननं व्रणशोधनरोपणम् ॥ ८४ ॥ अथ शोधनं; तत्र शोधनयोग्यसिन्दूरलक्षणम्— सुरङ्गोऽग्निसहः स्निग्धः सूक्ष्मः स्वच्छो गुरुर्मृदुः । सुवर्णकिरजः शुद्धः सिन्दूरो मङ्गलप्रदः । दुग्धाम्लयोगतस्तस्य विशुद्धिर्गदिता बुधैः ॥ ८५ ॥ मतान्तरम्— सिन्दूरं निम्बुकद्रवैः पिष्ट्वा घर्मे विशोषयेत् । ततस्तण्डुलतोयेन तथाभूतं विशुद्ध्यति ॥ ८६ ॥ सिन्दूरस्य प्रयोगो हि न दृष्टः कुत्रचित् पृथक् । तस्मादुक्तस्थले योज्यमुपदेशो गुरोरिति ॥ ८७ ॥

१२.] आयुर्वेदप्रकाशः । १५७ अथ शिलाजतोरुत्पत्तिनामलक्षणगुणशोधनानि । शिलाजतु द्विधा प्रोक्तं तत्राद्यं गिरिसंभवम् । द्वितीयं स्यात्क्षारभूम्यां मृत्तिकाजलयोगतः ॥ ८८ ॥ आद्यं यथा— निदाघे घर्मसंतप्ता धातुसारं धराधराः । निर्यासवत्प्रमुञ्चन्ति तच्छिलाजतु कीर्तितम् ॥ ८९ ॥ सौवर्णं राजतं ताम्रमायसं च चतुर्विधम् । शिलाजतु हि विज्ञेयं तत्तल्लक्षणलक्षितम् ॥ ९० ॥ सौवर्णं तु जपापुष्पवर्णं भवति शैलजम् । मधुरं कटु तिक्तं च शीतलं कटुपाकि च ॥ ९१ ॥ राजतं पाण्डुरं शीतं कटुकं स्वादुपाकि च । ताम्रं मयूरकण्ठाभं तीक्ष्णमुष्णं च जायते ॥ ९२ ॥ लौहं जटायुपक्षाभं तत्तिक्तं लवणं भवेत् । विपाके कटुकं शीतं सर्वश्रेष्ठमुदाहृतम् ॥ ९३ ॥ अन्यच्च— गोमूत्रगन्धि यत्कृष्णं स्निग्धं मृदु तथा गुरु । तिक्तं कषायं शीतं च सर्वश्रेष्ठं तदायसम् ॥ ९४ ॥ लक्षणान्तरम्— यत्तु गुग्गुलुसंकाशं तिक्तं च लवणान्वितम् । विपाके कटु शीतं च सर्वश्रेष्ठं तदायसम् ॥ ९५ ॥ वातपित्ते तु सौवर्णं श्लेष्मपित्ते तु राजतम् । ताम्रजं कफरोगेषु लोहजं तन्त्रिदोषनुत् ॥ ९६ ॥ विन्ध्याद्रौ बहुलं तेषु तत्र लौहं यतोऽधिकम् । तच्छोधनमृते व्यर्थमनेकमलमेलनात् ॥ ९७ ॥ विशेषगुणाः— शिलाह्वं कटु तिक्तोष्णं कटुपाकं रसायनम् । १४

१५८ आयुर्वेदौयग्रन्थमाला । [अध्यायः छेदि योगावहं हन्ति कफमेहाश्मशर्कराः ॥ ९८ ॥ मूत्रकृच्छ्रं क्षयं श्वासं वातास्राशांसि पाण्डुताम् । अपस्मारं तथोन्मादं शोथकुष्ठोदरकृमीन् ॥ ९९ ॥ अथाशुद्धशिलाजतुगुणाः- अशुद्धं दाहमूर्च्छार्यभ्रमपित्तास्रशोफकृत् । शिलाजतु प्रकुरुते मान्द्यमग्नेश्च विड्रहम् ॥ १०० ॥ अथ शोधनम्- शिलाजतु समानीय लोहजं लक्षणान्वितम् । वहिर्मलमपाकर्तुं क्षालयेत्केवलाम्बुना ॥ १०१ ॥ अथ तस्यान्तर्मलविनाशोपायमाह हारीतः- लोहस्थितं निम्बगुडूचिसर्पिर्यवैर्यथावत्परिभावयेत्तत् । संतानिकाकीटपतङ्गदंशदुष्टौषधीदोषनिवारणाय ॥ १०२ ॥ सन्तानिका अन्तःसंमिश्रिता दुष्टमृत्तिका । अत्र भावनार्थं क्वाथकल्पनामाह वाग्भटः- तुल्यं गिरिजेन जले वसुगुणिते भावनौषधं क्वाथ्यम् । तत्क्वाथे पादांशे पूतोष्णे प्रक्षिपेद्गिरिजम् ॥ १०३ ॥ तत्समरसतां यातं संशुष्कं प्रक्षिपेद्रसे भूयः । स्वैः स्वैरेवं क्वाथैर्भाव्यं वारान् भवेत्सप्त ॥ १०४ ॥ अथैवं भावनां दत्त्वा, संशोष्य, केवलेन जलेन शोधनं कर्तव्यम्। तत्प्रकारमाहाग्निवेशः- उष्णेऽथ काले रवितापयुक्ते व्यभ्रे निवाते समभूमिभागे । चत्वारि पात्राण्यसितायसानि न्यस्यातपे तत्र कृतावधानः १०५ शिलाजतु श्रेष्ठमवाप्य पात्रे प्रक्षिप्य तस्माद्द्विगुणं च तोयम् । उष्णं तदर्धं कथितं च दत्त्वा विशोधयेत्तन्मृदितं यथावत् १०६ सुवस्त्रपूतं प्रविधाय तन्तु संस्थापनीयं पुनरेव तत्र । ततस्तु यत्कृष्णमुपैति चोर्ध्वं संतानिकावद्रविरश्मितप्तम् १०७

१२.] आयुर्वेदप्रकाशः । १५९ पात्रे तदन्यत्र ततो विदध्यात्तस्यान्तरे कोष्णजलं निधाय । ततश्च तस्साद्परत्र पात्रे तस्साच्च पात्रादपरत्र भूयः ॥ १०८ ॥ पुनस्ततोऽन्यत्र निधाय कृष्णं यत्संहतं तत्पुनराहरेच्च । यदा विशुद्धं जलमच्छमूर्ध्वं प्रसन्नभावान्मलमेत्यधस्तात् १०९ तदा त्यजेत्तत्सलिलं मलं च शिलाजतु स्याज्जलशुद्धमेवम् । चतुर्थपात्राद्गलितं हि सर्वं परीक्षणं तस्य वदामि भूयः॥११०॥ यथा— वह्नौ क्षिप्तं तु निर्धूमं पक्त्वा लिङ्गोपमं भवेत् । तृणाग्रेणाम्भसि क्षिप्तमधो गलति तन्तुवत् । गोमूत्रगन्धि मलिनं शुद्धं ज्ञेयं शिलाजतु ॥ १११ ॥ एवं शुद्धस्य गुणाः प्रागुक्ताः । अथ नामानि— शिलाजत्विन्द्रजतु च शैलनिर्यास इत्यपि । गैरेयमश्मजं चापि गिरिजं शैलधातुजम् ॥ ११२ ॥ अथ शीघ्रकार्यवशात्संक्षिप्तशोधनं यथा— गोदुग्धत्रिफलाभृङ्गद्रवैः पिष्टं शिलाजतु । दिनैकं लोहजे पात्रे शुद्धिमायात्यसंशयम् ॥ ११३ ॥ इति संक्षिप्तशुद्धिः । अथैवं शुद्धस्य गुणोत्कर्षाय भावना प्रोक्ता— त्रिफलावारिगोदुग्धमूत्रैर्भाव्यं शिलाजतु । स्वल्पं स्वल्पं विधानेन स्थापयेत्काचपात्रके ॥ ११४ ॥ अगुर्वादिशुभैर्धूपैर्धूपयेत्तत्प्रयत्नतः । मात्रया शीलयेत्पश्चात्स्निग्धशुद्धो यथाविधि ॥ ११५ ॥ एकत्रिसप्तसप्ताहं कर्षमर्धपलं पलम् । हीनमध्योत्तमो योगः शिलाजस्य क्रमान्मतः ॥ ११६ ॥ क्षीरेणालोडितं कुर्याच्छीघ्रं रसायनं फलम् । हन्याद्रोगानशेषांश्च जीर्णे हितमिताशनः ॥ ११७ ॥

१६० आयुर्वेदौयग्रन्थमाला । [अध्यायः व्यायामातपमारुतचेतःसंतापगुरुविदाह्यादि । उपयोगादपि परतो द्विगुणं परिवर्जयेत्कालम् ॥ ११८ ॥ कुलत्थान् काकमाचीं च कपोतांश्च सदा त्यजेत् । पिवेन्माहेन्द्रमुदकं कौपं प्रास्रवणाम्बु वा ॥ ११९ ॥ न सोऽस्ति रोगो भुवि साध्यरूपो जत्वश्मजं यं न जयेत्प्रसह्य । तत्कालयोगैर्विधिवत्प्रयुक्तं स्वस्थस्य चोर्जां विपुलां दधाति १२० सर्वानुपानैः सर्वेषु रोगेषु विनियोजितम् । जयत्यभ्यासतो नूनं तांस्तान् रोगान्न संशयः ॥ १२१ ॥ रसोपरससूतेन्द्ररत्नलोहेषु ये गुणाः । विशन्ति ते शिलाधातौ जरामृत्युजिगीषया ॥ १२२ ॥ अस्य भस्मप्रकारो रसपद्धत्याम्— शिलया गन्धतालाभ्यां मातुलुङ्गरसेन च । पुटितं हि शिलाधातु म्रियतेऽष्टगिरिण्डकैः ॥ १२३ ॥ सत्त्वप्रकारस्तु— पिष्टं द्रावणवर्गेण साम्लेन गिरिसंभवम् । रुद्ध्वा मूषोदरे ध्मातं कोकिलैः सत्त्वमृच्छति ॥ १२४ ॥ अथ द्वितीयं शिलाजतु रसपद्धत्याम्— द्वितीयं सोरकाख्यं स्याच्छ्वेतवर्णं शिलाजतु । अंग्रिवाणोपयुक्तं तद्धितं मूत्रामयेषु च ॥ १२५ ॥ उक्तं च— पाण्डुरं सिकताकारं कर्पूराभं शिलाजतु । मूत्रकृच्छ्राश्मरीमेहकामलापाण्डुनाशनम् ॥ १२६ ॥ १ रसपद्धत्यामेवं पठ्यते,—“वह्न्युत्तेजनमुज्ज्वलं यदपरं मूत्रामयिभ्यो हि- तम्”—इति; “वह्न्युत्तेजनमिति यदपरं श्वेतं शिलाजतु तद्वह्न्युत्तेजकं वह्निप्रदी- पकं; अत्र जठराग्निर्न ग्राह्यः, किंतु अग्निशस्त्राणि, तन्नाग्नेः प्रदीपकः, 'सोरा' इति लोके प्रसिद्धः, अग्निवाणेषु (अग्न्यस्त्रेषु ‘दारु-वारुद Gunpowder’ इति प्रसिद्धपदार्थनिर्माणार्थे ) प्रयुज्यते” इति रसपद्धतिटीकायां महादेवः ।

१२.] आयुर्वेदप्रकाशः । १६१ एलातोयेन संभिन्नं सिद्धं शुद्धिमुपैति तत् । नैतस्य मारणं सत्त्वपातनं विहितं बुधैः ॥ १२७ ॥ उत्पत्तिस्तु मृत्तिकाविशेषाज्जलविशेषाज्जायते ॥ इत्युपधातुनिरूपणम् ॥ अथ चपलाख्य उपधातुरधिकोऽस्ति । तद्यथा रसपद्धत्याम्— चत्वारश्चपला सितासितहरिच्छोणप्रभेदैः पुन- र्मोधौ शोणितशोणकज्जलनिभौ लाक्षावदाशुद्रवात् । शेषौ तु द्रवताश्चिरेण सुभगौ तौ शुध्यतः सप्तधा कर्कोट्यार्द्रकजम्भलस्य सलिले संस्वेदितौ वा प्लुतौ १२८ प्राथम्याद्रसबन्धिनौ तदुपरि स्यातां तु योगानुगौ वृष्यौ दोषहरौ बुधैर्निगदितौ माक्षीकभूम्युद्भवौ । मोघौ निष्फलौ । शेषौ हरितसितौ । सुभगौ गुरुतरौ । प्राथ- म्यात्प्रथमतस्तु रसबन्धकौ भवतः । शेषं स्पष्टम् । अन्यत्रापि— चतुर्धा चपलः प्रोक्तः श्वेतः कृष्णोऽरुणो हरित् । वङ्गवत्प्लुवते वह्नौ चपलस्तेन कीर्तितः ॥ १२९ ॥ गुणाः— चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः । त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः ॥ १३० ॥ अयं तूपरसे कैश्चित्पठितोऽन्यै रसेषु च । विषोपविषधान्याम्लैर्मर्दितश्चपलस्ततः । अन्धमूषागतो ध्मातः सत्त्वं मुञ्चति कार्यकृत् ॥ १३१ ॥ इति चपलः ॥ इति श्रीसौराष्ट्रदेशोद्भवसारस्वतकुलावतंसोपाध्यायश्रीमाधवविरचिते आयु- र्वेदप्रकाशे द्वादशोऽध्यायः ॥ १२ ॥

१६२ आयुर्वेदauthor ग्रंथमाला । [ अध्यायः अथ त्रयोदशोऽध्यायः । अथ रत्नोपरत्नानामुत्पत्तिनामलक्षणगुणशोधनमारणानि । उक्तं च— मणयोऽपि च विज्ञेयाः सूतबन्धस्य कारकाः । देहस्य धारका नृणां जराव्याधिविनाशनः ॥ १ ॥ रत्ननिरुक्तिः— धनार्थिनो जनाः सर्वे रमन्तेऽस्मिन्नतीव यत् । [हस्तलिखित: मृच्छकटिक से] अतो रत्नमिति प्रोक्तं शब्दशास्त्रविशारदैः ॥ २ ॥ अथ रत्ननामानि स्वरूपनिरूपणं च— रत्नं क्लीवे मणिः पुंसि स्त्रियामपि निगद्यते । तत्तु पाषाणभेदोऽस्ति वज्रादि च तदुच्यते ॥ ३ ॥ रसपद्धत्याम्— वज्रं विद्रुममौक्तिके मरकतं वैडूर्यगोमेदके माणिक्यं हरिनीलपुष्पदृषदौ रत्नानि नाम्ना नव । यान्यन्यान्यपि सन्ति कानिचिदिह त्रैलोक्यसीम्नि स्फुटं नाम्ना तान्युपरत्नतान्युपगतान्याहुः परीक्षाकृतः ॥ ४ ॥ वज्रं हीरकः, विद्रुमं प्रवालं, मौक्तिकं मुक्ता, मरकतं गरुडोद्गारः 'पन्ना' इति भाषा, वैडूर्यं विदुरमणिः, गोमेदः अनेनैव नाम्ना प्रसिद्धः, माणिक्यं पद्मरागः, हरिनीलः इन्द्र- नीलः, पुष्पदृषत् पुष्परागः । शेषं स्पष्टम् ॥ विष्णुधर्मोत्तरेऽपि— मुक्ताफलं हीरकं च वैडूर्यं पद्मरागकम् । पुष्परागं च गोमेदं नीलं गारुत्मतं तथा । प्रवालयुक्तान्येतानि महारत्नानि वै नव ॥ ५ ॥ इति ॥ उपरत्नान्यन्यत्र— वैक्रान्तः सूर्यकान्तश्च चन्द्रकान्तस्तथैव च । राजावर्तो लालसंज्ञः पेरोजाख्यस्तथाऽपरः ॥ ६ ॥

१३.] आयुर्वेदप्रकाशः । १६३ मुक्ताशुक्तिस्तथा शङ्खकर्पूराश्माऽथ काचजाः । नीलपीतादिमणयोऽप्यन्ये विषहरा हि ये ॥ ७ ॥ वह्न्यादिस्तम्भका ये च ते सर्वे हि परीक्षकैः । उपरत्नेषु गणिता मणयो लोकविश्रुताः ॥ ८ ॥ अथ रत्नानां नामानि— हीरकः पुंसि वज्रोऽस्त्री चन्द्रो मणिवरश्च सः । गारुत्मतं मरकतमश्मगर्भो हरिन्मणिः ॥ ९ ॥ माणिक्यं पद्मरागः स्याच्छोणरक्तं च लोहितम् । पुष्परागो मञ्जुमणिः स्याद्वाचस्पतिवल्लभः ॥ १० ॥ इन्द्रनीलं च नीलं च, गोमेदः पीतरक्तकम् । वैडूर्यं दूरजं रत्नं स्यात्केतुग्रहवल्लभम् ॥ ११ ॥ मौक्तिकं शौक्तिकं मुक्ता तथा मुक्ताफलं च तत् । पुंसि क्लीबे प्रवालः स्यात्पुमानेव तु विद्रुमः ॥ १२ ॥ शुक्तिः शङ्खो गजक्रोडः फणिर्मत्स्यश्च दर्दुरः । वेणुश्चाष्टौ समाख्याता सुज्ञैर्मौक्तिकयोनयः ॥ १३ ॥ अथ हीरकोत्पत्तिलक्षणानि । दधीच्यस्थ्नः समुत्पन्नः पविस्तस्य कणाः क्षितौ । विकीर्णास्ते तु वज्राख्यां भजन्ते तच्चतुर्विधम् ॥ १४ ॥ श्वेतं द्विजाभिधं रक्तं क्षत्रियाख्यं तदीरितम् । पीतं वैश्याख्यमुदितं कृष्णं स्याच्छूद्रसंज्ञकम् ॥ १५ ॥ विप्रो रसायने प्रोक्तः सर्वसिद्धिप्रदायकः । क्षत्रियो व्याधिविध्वंसी जरामृत्युहरः परः ॥ १६ ॥ वैश्यो धनप्रदः प्रोक्तस्तथा देहस्य दार्ढ्यकृत् । शूद्रो नाशयति व्याधीन् वयःस्तम्भं करोति च ॥ १७ ॥ स्त्रीपुंनपुंसकाश्चैते लक्षणीयाश्च लक्षणैः । सुवृत्ताः फलसम्पूर्णास्तेजोयुक्ता बृहत्तराः ॥ १८ ॥

१६४ आयुर्वेदग्रन्थमाला । [ अध्यायः पुरुषा हीरकास्ते वै रेखाविन्दुविवर्जिताः । रेखाविन्दुसमायुक्ताः षडस्रास्ते स्त्रियः स्मृताः ॥ १९ ॥ त्रिकोणाश्च सुदीर्घाश्च विज्ञेयास्ते नपुंसकाः । सर्वेषु पुरुषा श्रेष्ठा वेधका रसबन्धकाः ॥ २० ॥ स्त्रियः कुर्वन्ति कायस्य कान्तिं स्त्रीणां सुखप्रदाः । नपुंसकास्त्ववीर्याः स्युरकामाः सत्त्ववर्जिताः ॥ २१ ॥ स्त्रियः स्त्रीभ्यः प्रदातव्या क्लीवान् क्लीवे प्रयोजयेत् । सर्वेभ्यः पुरुषा योज्या बलाढ्या वीर्यवर्धनाः ॥ २२ ॥ अथ रसपद्धत्यां हीरकोत्पत्तिरन्यथोक्ता । यथा— जातः प्राग्बलनामको दितिसुतोऽवध्यस्त्रिलोक्यां पुन- दैवैर्देहमयं मखे मणितनुः सर्वात्मना याचितः । दत्त्वाऽथ स्वशरीरमव्यथमयं धीरः सुराणां पुर- स्तस्थौ तैः स तु सप्ततन्तुभुजिभिः स्वर्गेश्वरायार्पितः २३ चिच्छेदाथ शिरोऽस्य वज्रशिरसो वज्रेण वज्री पुन- र्भूतो रत्नसमुच्चयो बल इति स्माहुः पुराणर्षयः । मूर्ध्न वा वदनादमुष्य पवयो ये जज्ञिरे ते द्विजा बाहुभ्यामुरसोऽस्य ये समभवंस्ते संस्मृताः क्षत्रियाः २४ नाभीतः कटितश्च ये निपतितास्ते नाम भूमिस्पृशो जानुद्वन्द्वपदद्वयप्रपतितास्ते नाम शूद्रा मताः ॥ २५ ॥ प्राक् कृतयुगे । मखे तत्कृतयज्ञे । अजेयत्वाच्छत्रोरयं देहयाचनावसर इति भावः । सप्ततन्तुभुजिभिर्यज्ञभुग्भिः । शेषं स्पष्टम् । पुनः प्रकारान्तरेण हीरकोत्पत्तिः— पूर्वं मन्दरमथ्यमानजलधिप्रत्युत्थिता या सुधा तां प्रायः पिबतः सुरासुरगणस्यास्यादिमे बिन्दवः । ये भूमौ पतिता विकर्तनकरव्रातैः पुनः शोषिता- स्ते वज्राण्यभवञ्जनुर्ननु पवेरित्यूचिरे केचन ॥ २६ ॥ १ विकर्तनः सूर्यः, तत्करव्राताः किरणसमूहाः, तैः ।

१३.] आयुर्वेदप्रकाशः । १६५ स्पष्टम् । अत्र युगभेदेन व्यवस्था; अस्तु वा त्रिभ्य उत्पत्तिः, तथा सति किं बाधकम् । अथैवमुत्पत्तिमुक्त्वा हीरकस्याष्ट- प्रकारकं विज्ञानमाह— उत्पत्तिर्गुणदोषजातिखनयो हस्ताङ्गुलीचालनं मूल्यं मण्डलिकेति रत्नदृपदां ज्ञानं वरं चाष्टधा । अत्रैकप्रसरेण नोक्तमपि तत्तत्परीक्षास्थल- श्लोकश्लोकितमेकशः खलु विदांकुर्वन्तु वैज्ञानिकाः॥२७ मण्डली रत्नपरीक्षकाणां सभा । उत्पत्त्यादिकं भिन्नभिन्न- श्लोकोक्तमपि परीक्षावसरे एकशः एकत्र विदांकुर्वन्तु जानन्त्वि- ति । एतेन समस्तश्लोकैर्व्यस्तश्लोकैरपि एकीभूतैरिव हीरकप- रीक्षा कर्तव्येति भावः । भूमिं प्रतिपाद्य पवेर्भेदानाह— ब्रह्मक्षत्रियवैश्यशूद्रविभिदा ज्ञेयाश्चतुर्धा पवेः पुंस्त्रीक्लीवविभागतः पुनरसौ प्रत्येकमुक्तस्त्रिधा । तत्र श्वेतरुचिर्द्विजः स्फटिकवद्रक्तस्तु किंचिन्नृपो वैश्यः पीतरुगङ्घ्रिजस्त्वसितभास्तत्राप्ययं पूरुषः ॥२८॥ रेखाविन्दुविवर्जितोऽष्टफलकः स्वच्छच्छवियों भवे- त्सा स्त्री या तु षडस्रबिन्दुसहितो रेखान्वितोदाहृतः । निष्कोणाश्विपिटास्त्रिकोणवपुषो दीर्घा विपुंस्त्वा पुन- र्धेयाः स्त्रीनृनपुंसकैर्युवतिपुंषण्डाभिधानाः क्रमात् २९ व्याख्या—यः स्फटिकवच्छ्वेतरुचिः स द्विजः, यः किंचि- द्रक्तः स नृपः क्षत्रियः, शेषं स्पष्टम् । अथोत्तमपवेः संधार- णादिभिर्धर्मार्थौ भवत इत्याह— यद्वेदाध्ययनात्क्रतोरपि कृतेर्दानस्य वा यत्फलं तत्प्राप्नोति पुमानतो वरतनोर्वज्रस्य संधारणात् । १ 'वदन्त्यष्टधा' ग. । २ 'अथैकप्रसरेण' ग. । ३ 'तज्ज्ञानं' ग. ।

१६६ आयुर्वेदियग्रन्थमाला। [अध्यायः चातुर्वर्ण्यपरिग्रहादपि चतुर्वर्णाश्रयश्रेयसा संयुक्तामुररीकरोतु न कथंकारं स भूतिं पराम् ॥३०॥ अथ शूद्रवर्णोऽपि पविर्द्विजवर्णात्पवेरधिक इत्याह— शूद्रादप्यधमो द्विजो यदि गुणैर्हीनः पविर्ब्राह्मणा- दप्युच्चैरयमर्घमर्हति पुनः शूद्रो गुणैर्गौरवात् । आधिव्याधिसरीसृपानलरिपुव्याघ्रापमृत्युग्रहा- स्तं नैवाभिभवन्ति यस्य सदने तिष्ठेत्पवित्रः पविः ३१ अथ पवेर्दोषांनुपदिशति— बिन्दुः काकपदं यवः किल मलो रेखेति नाम्नोदिता दोषाः पञ्च पवेरथात्र कथिता बिन्दुः समो बिन्दुना । कृष्णो रक्त इति क्रमेण स पुनर्द्वेधा मतो वर्तुला- वर्ताकारभिदा ग्रहीतुरफलः शस्तो न सर्व