बौधायन शुल्बसूत्रम् (आचार्य बौधायन - प्राचीन वैदिक रेखागणित, ज्यामिति एवं वेदी-निर्माण सटीक)
Baudhayana Shulbasutram with Commentary by Vibhutibhushan Bhattacharya
आचार्य बौधायन (सम्पादक: विभूतिभूषण भट्टाचार्य) द्वारा
ऽध्यायः ] बौधायनीयं १३१ मत्वान्यथोपधानमाहुः । तत्र त्सर्वग्रे चतस्रोऽर्धेष्टका उदगायताः । ततश्चतस्रस्तु षष्ठ्यः । ततश्चतस्रो रीतयः प्रत्येकं द्वादशाध्यर्धेष्टकाः प्रागायताः । ततः त्सरु- श्रोण्यन्तयोर्द्वादश द्वादश प्रागायताध्यर्ध्याः । ततः पार्श्वयोः प्रागायताभिर- ध्यर्धाभिः षट् षड् रीतयो दश दशेष्टकाः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे चतस्रः षष्ठ्यः, अष्टषष्टिशतमध्यर्धाः, अष्टाविंशतिरर्ध्याः ॥११२॥ तासामिति । अध्यर्धाभिः प्राचीभिः प्रागायताभिः प्रच्छादयेत् । षोडशही- यन्ते । तत्र अर्थ इति । भेदपरिहारेण उभयस्मिन् पार्श्वे चतस्रश्चतस्रोऽध्यर्धा उद्धृत्य द्वादश द्वादश अध्यर्ध्या निधेयाः । एवमुपधाने भेदं सम्भवं मत्वा अन्यथो- पधानमाहुः । तत्र त्सर्वग्रे चतस्रोऽर्धेष्टका उदगायताः । ततश्चतस्रः षष्ठ्यः । ततश्च- तस्रो रीतयः प्रत्येकं द्वादश अध्यर्धेष्टकाः प्रागायताः । त्सरुश्रोण्यन्तयोर्द्वादश द्वादश प्रागायता अध्यर्ध्याः । ततः पार्श्वद्वये प्रागायताभिरध्यर्धाभिः षड्रीतयो दशेष्टकाः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे चतस्रः षष्ठ्यः । अष्टषष्टिशतमध्यर्धाः । अष्टा- विंशतिरर्ध्याः ॥ ११२ ॥ अपरस्मिन् प्रस्तारे दक्षिणेऽंसेऽध्यर्धामुदीचीमुपदध्यात् । तथोत्तरे । पूर्वस्मिन्ननीके षड्भागीया उपदध्यात् । दक्षिणोत्तर- योश्चतुर्भागीयाः । त्सरोः पुरस्तात् पार्श्वयोर्द्वे चतुर्भागीये उपदध्यात् । तयोरवस्तादभितो द्वे द्वे अध्यर्धे विषूची । तयोरवस्तान्मध्यदेशे षष्ठ्यौ प्राच्यौ । शेषमग्निं वृहतीभिः प्रच्छादयेत् । अर्धेष्टकाभिः सङ्ख्यां पूरयेत् ॥ ११३ ॥ अपरस्मिन्निति । आत्मनो दक्षिणेऽंसे । उदीचीमुदगायताम् । तथो- त्तर इति । अध्यर्धामुदीचीमित्येव । पूर्वस्मिन्निति । आत्मपूर्वान्ते अंसयोः पूर्वोपहिताध्यर्धयोर्मध्ये । अर्थात् त्रयोदश षड्भागीयाः । दक्षिणोत्तरयो- रिति । अनीकानुवृत्ते दक्षिणोत्तरयोरनीकयोरर्थाद्दश दश चतुर्भागीयाः । त्सरोरिति । त्सरोः पूर्वान्ते द्वयोः पार्श्वयोरेकैका चतुर्भागीया । तयोर- वस्तादिति । तयोरुपहितयोश्चतुर्भागीययोः पश्चादभितः पार्श्वयोर्द्वे द्वे अध्यर्धे विषूची दक्षिणोत्तरायते उपदध्यात् । तयोरवस्तादिति । तयोः पूर्वोक्तचतुर्थ्योः पश्चाद्भूतप्रदेशे । मध्यदेशे त्सरुमध्यदेशे । त्सरुमध्यपश्चिमा- न्तादारभ्य षष्ठीद्वयमुपदध्यादित्यर्थः । शेषमग्निमिति । त्सरुणि(?)
यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति देवनागरी पाठ्यान्तर दिया गया है:
१३२ शुल्बसूत्रम् [तृतीयो- चतुर्थ्योर्मध्ये एका बृहती श्रोण्योर्द्वे । एवं त्सरौ नवेष्टकाः । आत्मनि त्रिंशच्छतमध्यर्धाः प्राच्यः न्यूनाः षड्विंशतिः । अर्धेटका- भिरिति । आत्मनि पुरस्ताद्भागे मध्ये वा त्रयोदश बृहतीरुद्धृत्य एकोनचत्वारिंशदर्थ्याः निधेयाः । अस्मिन् प्रस्तारे भेदपरिहारं दुःशकं मत्वान्यथोपधानमाहुः । त्सरौ पूर्ववत् नवेष्टकाः । आत्मनि दक्षिणत उत्तर- तश्च दश दश चतुर्थ्यः । अंसयोर्द्वे अध्यर्धे उदीची । आत्ममध्ये प्राच्यास्त्रयो- दशरीतयस्तास्वेकैकस्यमादितो नव नवाध्यर्धाः प्रागायताः । तत एकैकार्धेटका उदीची । तत एकैका षष्ठी । ततो द्वे द्वे अर्धेटके तिरश्च्यौ । एवं त्रयोदशेष्टकाः त्रयोदश रीतयः । एवं द्विशतः प्रस्तारः । अस्मिन् प्रस्तारे पञ्चदश षष्ठ्यः । चतुर्विंशतिशतमध्यर्धाः । एकोन- चत्वारिंशदर्थ्याः । द्वाविंशतिः चतुर्थ्यः । अयमत्रसूत्रभंगिनोऽभिप्रायः—सूत्रानुसारेण प्रथमप्रस्तारे इष्ट- कोपधानं कृत्वा वक्ष्यमाणसूत्रोक्तप्रकारेणेष्टकोपधाने सन्धिदर्शनात् असि...त्प्रसंगेनान्यथैवोपधानमिति । अयन्तु सर्वथानुपन्रः । सूत्रोक्तोपधान- पक्षे सत्यपि सन्धिदर्शने सूत्रकारवचनप्रामाण्येन तस्यादोषत्वात् । ननु भेदान् वर्जयेत्, अधरोत्तरयोः पार्श्वसन्धानं भेदा ( २।९ ) इत्युपहितसन्धि- पिधानस्यासिधर्मत्वेनोपन्यासात् कथं सन्धिदर्शनमदोष इति ? न, तदन्यन्तेषु न विद्यते, न सक्तिपार्श्वयो(२।९)रित्यस्य उपलक्षणत्वेन चतुरश्रदोणचयन- व्यतिरिक्तचयनविषयत्वेनापि भेदवर्जनवचनोपपत्तेः । यदि च सन्ध्यपिधान- मभिहितं स्यात् तदापि सूत्रोक्तप्रकारेण प्रथमद्वितीयप्रस्तारयोः अन्यतरोप- धानं कृत्वा तदनुरोधेन यथा सन्ध्यपिधानं भवति तथा एकप्रस्तारकल्पना- मात्रेणापि तदुपपत्तौ प्रस्तारद्वयान्यथाकरणास्यात्यन्तायुक्तत्वात् । तस्मादेवं हि सूत्रार्थः । तथाहि तस्येष्टकाः कारयेत् , तस्य द्रोण- स्येत्यर्थः । पुरुषस्य षष्ठ्यः सर्वतो विशत्यङ्गुलप्रमाणकाः समचतुरश्रा इष्टका इत्यर्थः । ता एवैकतोध्यर्धाः, पूर्वोक्ता एवेष्टका एकेन पार्श्वेनार्धाधिकाः त्रिंशदङ्गुलदीर्घा विशत्यङ्गुलपार्श्वाः । तासां, अध्यर्धानां चेत्यर्थः । पुरुषस्य
चतुर्थ्य इति, सर्वतस्त्रिंशदङ्गुलप्रमाणका इत्यर्थः । तासां त्सरुश्रोण्यन्तरालयोः षट् षट् षष्ठीरुपधाय शेषमग्निं बृहतीभिः प्रच्छादयेदर्धेष्टकाभिः संख्यां पूरयेत् । तासां पूर्वोक्तानामिष्टकानां मध्ये त्सरुश्रोण्यन्तरालयोः त्सरुश्च श्रोण्यौ च त्सरुश्रोण्यः, तस्य च तयोश्चान्तराले त्सरुश्रोण्यन्तरालयोः षट् षट् षष्ठीरुपधायान्तरालद्वये प्रत्येकं षड्भागीया उपदध्यादित्यर्थः । अयमत्र प्रकारः—त्सरुक्षेत्रं तावत्प्राक् प्रत्यक् सप्तत्यङ्गुलं दक्षिणो- दगशीत्यङ्गुलम् आत्मनः क्षेत्रन्तु विंशत्यधिकत्रिशताङ्गुलचतुरश्रम् । तत्रात्म- चतुरश्रे पश्चिमपार्श्वे मध्ये त्सरुक्षेत्रम् अव्यवहिततया यथा दक्षिणो- दग्दीर्घचतुरश्रं भवति तथा योजयेत् । एवञ्च त्सरोः दक्षिणां- सादारभ्यात्मनः दक्षिणश्रोणिपर्यन्तं विंशत्युत्तरशताङ्गुलमस्यैव क्षेत्रस्य त्सरुश्रोण्यन्तरालत्वम् अस्मिन्नन्तराले आत्मदक्षिणपश्चिमपार्श्वे षट् षड्भा- गीया उपदध्यात् । एवं त्सरोरुत्तरप्रदेशेऽपि षट् षड् भागीया उपदध्यात् । आहत्य द्वादश आत्मनि पश्चिमपार्श्वे । प्राक्-प्रत्यक् विंशत्यङ्गुलं दक्षिणो- त्तरम् अशीत्यङ्गुलमुपहितेष्टकासंनिहितक्षेत्रं निदध्यात् । ततः प्राक् त्रिंशताङ्गुलं दक्षिणोत्तरं विंशत्युत्तरत्रिशताङ्गुलं वर्तते । ततः पश्चान्निहित- क्षेत्रादारभ्य त्सरुपश्चिमक्षेत्रपर्यन्तं नवत्यङ्गुलं दक्षिणोत्तरम् अशीत्यङ्गुलं दीर्घचतुरश्रं विद्यते । उभयत्रापि काभिरिष्टकाभिरुपधानमित्याकाङ्क्षाया- माह-बृहतीभिरिति । अध्यर्धष्टका पक्षे या (च ?)चतुर्थीनां बृहतीत्वात् ताभि- रुपधानं स्यादित्याशङ्क्याह--प्राचीभिरिति । सर्वत्रापि प्रागायताभिर- ध्यर्धाभिरिष्टकाभिरुपधानं कुर्यादित्यर्थः । एवञ्च पूर्वोक्तात्मक्षेत्रे षष्ठ्युत्तर- शतेष्टका अध्यर्धाः यथा प्रागायता भवन्ति तथोपदध्यात् । निहितक्षेत्र- सहितत्सरुक्षेत्रे द्वादशेष्टका अध्यर्धा यथा प्रागायता भवन्ति तथोपदध्यात् । आहत्य चतुरधिकाशीत्युत्तरशतेष्टकाः सम्पन्नाः । अर्धेष्टकाभिः सङ्ख्यां पूरयेत् । तत्र द्विशतसङ्ख्यापूरणार्थं षोडश योजनीयाः । आत्मनि प्राक् पार्श्वे द्वितीयायाम् अध्यर्धेष्टकारीत्यां मध्यदेशे अष्टावध्यर्धा एकैकां तिर्यक् त्रेधा विभजेत् । एवञ्चैकैकस्यां अध्यर्धायां तिस्रस्तिस्रोऽर्ध्याः सम्पन्नाः । आहत्य चतुर्विंशतीष्टकाभिः द्विशतसङ्ख्यां पूरयेदित्यर्थः ।
१३४ शुल्बसूत्रम् [ तृतीयो- अपरस्मिन् प्रस्तारे आत्मनः दक्षिणेऽंसे प्राग्दक्षिणकोणप्रदेशे एकामध्यर्धामुपदध्यात् । पूर्वस्मिन्ननीके षड्भागीया उपदध्यात् । उपहितयोरध्यर्धयोर्मध्ये षष्ठ्युत्तरद्विशताङ्गुलं वर्तते । तत्र त्रयोदश षड्भागीया विंशत्यङ्गुलप्रमाणकाः पूर्वस्मिन्ननीकेऽग्रे प्रदेशे अध्यर्धसहिततया उपदध्यादित्यर्थः । दक्षिणोत्तरयोश्चतुर्भागीयामुपद- ध्यात् । तत्राप्यनीकानुवृत्ते आत्मनो दक्षिणोत्तरयोरग्रप्रदेशयोः पूर्वोपहिताध्यर्धयोः पश्चात्ताभ्यां सहिताः दश दश चतुर्थ्य उपदध्या- दित्यर्थः । त्सरोः पुरस्ताद् द्वे (द्वे) चतुर्भागीये उपदध्यात् । त्सरोः पुरस्तात्प्राक् प्रदेशे पार्श्वयोः दक्षिणोत्तरयोः पार्श्वयो द्वे (द्वे) चतुर्भागीये उपदध्यादित्यर्थः । तयोरवस्तादभितो द्वे द्वे अध्यर्धे विषूची तयोश्चतुर्थ्योरव- स्तात् पश्चाद्देशेऽभितः दक्षिणोत्तरपार्श्वद्वये द्वे द्वे अध्यर्धे विषूची दक्षिणो- दगूदीर्घे उपदध्यादित्यनुषङ्गः । तयोरवस्तात्तयोश्चतुर्थ्योः पश्चिमदेशे पूर्वो- पहितानां चतसृणामध्यर्धानां मध्ये द्वे षष्ठ्यौ प्राच्यौ प्राक् प्रत्यग्दीर्घे उपदध्यादित्यनुषङ्गः । शेषमंसि बृहतीभिः प्रच्छादयेत्, त्सरुगतचतुर्थ्योः मध्ये एका अध्यर्धा । आत्मनि पश्चिमदेशादारभ्याध्यर्धानां प्राक् प्रत्यग्दीर्घानां प्राक् प्रत्यक् (त्रयोदश ?) रीतयः । दक्षिणोत्तरमष्टा (दश ?) रीतयः । उपहितानामध्यर्धानां प्राग्देशगतानाम् अष्टानां पुरस्ताद् अध्य- र्धानां पञ्चदशाङ्गुलव्यासां विंशत्यङ्गुलदीर्घामैकामध्यर्धां दक्षिणोत्तरदीर्घा- मुपदध्यात् । पुनरुपहितानामुपरि अष्टावध्यर्धाः प्रागायता उपदध्यात् । पुनस्तासामुपरि अध्यर्धानामर्धाः पूर्ववदष्टा उपदध्यात् । एवञ्च दक्षिणपार्श्वे दक्षिणोत्तरं चत्वारिंशदङ्गुलं वर्तते । तत्राध्यर्धार्ना- मुद्गायतानां दक्षिणोत्तरं रीतिद्वयं (दक्षिणोत्तरं रीतिशतकं) उत्तरपार्श्वेऽपि षष्ठ्यङ्गुलं वर्तते । दक्षिणोत्तर ? तत्राध्यर्धानां दक्षिणोदग् (प्राक्प्रत्यक् ?) रीतित्रयं प्राक्प्रत्यक् रीतिशतकम् (?) आहत्य शतकमशीतिः द्वे इष्टकाः सम्पन्नाः । तत्राष्टादश योजनीयाः । दक्षिणपार्श्वस्थितचतुर्थीभ्यां उत्तरतः विद्यमानासु दशसु मध्ये प्रागायताम् एकां विधाय इतरा नवेष्टकाः
प्रत्यक् तिर्यक् त्रेधा विभजेत् । एवं सप्तविंशतिरिष्टकाः संपन्नाः । तत्र पूर्वसङ्ख्यार्थं नवधा अष्टादशभिरिष्टकाभिः द्विशतसङ्ख्यां पूरयेदि- त्यर्थः ॥ ११३ ॥ अपरस्मिन्निति । आत्मनो दक्षिणेंऽसे । उदीचीमुद्गायताम् । तथविति । अध्य- र्धामुदीचीमित्येव । पूर्वस्मिन्निति । आत्मपूर्वान्ते अंसयोः पूर्वोपहिताध्यर्धयोर्मध्ये । अर्थात् त्रयोदश षड्भागीयाः। दक्षिणोत्तरयोरिति। अनीकानुवृत्तेर्दक्षिणोत्तरयोर्नीकयोः। अर्थात् दश दश चतुर्थागीयाः । त्सरोरिति । त्सरोः पूर्वान्ते द्वयोः पार्श्वयोरेकैका चतुर्थागीया । तयोरिति । तयोरुपहितयोश्चतुर्भागीययोः पश्चादभितः पार्श्वयो द्वे द्वे अध्यर्धे विपुची दक्षिणोत्तरायते उपदध्यात् । तयोरिति । तयोः पूर्वोक्तचतुर्थ्योः । पश्चाद्भूतप्रदेशे । मध्यदेशे त्सरुमध्यदेशे । प्राच्यौ प्रागपवर्गे । त्सरुमध्यपश्चिमा- न्तादारभ्य षष्ठीद्वयमुपदध्यादित्यर्थः । शेषमिति । त्सरुणि चतुर्थ्योर्मध्ये एका बृहती । श्रोण्योर्द्वे । एवं त्सरौ नवेष्टकाः। आत्मनि त्रिंशच्छतं अध्यर्धाः प्राच्यः । न्यूनाः षड्विं- शतिः । अर्ध इति । आत्मनि पुरस्ताद्भागे मध्ये वा बृहतीरुद्धृत्य एकोनचत्वारिंशद् अर्ध्द्या निधेयाः । अस्मिन् प्रस्तारे भेदपरिहारं दुःशकं मत्वा अन्यथोपधानमाहुः । त्सरौ पूर्ववत् नवेष्टकम् । आत्मनि दक्षिणत उत्तरतश्च दश दश चतुर्थ्यः। अंस- योर्द्वे अध्यर्धे उदीची । आत्ममध्ये प्राच्यस्त्रयोदश रीतयः । तासु एकैकस्यां आदितो नव नव अध्यर्धाः प्रागायताः । तत एकैका अर्धेष्टका उदीची। तत एकैका षष्ठी । ततो द्वे द्वे अर्धेष्टके तिरश्च्यौ । एवं त्रयोदशेष्टकाः त्रयोदशीतयः । एवं द्विशतः प्रस्तारः। अस्मिन् प्रस्तारे पञ्चदशषष्ठ्यः । चतुर्विंशतिशतं अध्यर्धाः एकोनचत्वारिंशद् अर्ध्याः। द्वाविंशतिः चतुर्थ्यः ॥ ११३ ॥ [ इति चतुरस्रद्रोणचित्पधानप्रकारः । ] अथापरः ॥ ११४ ॥ अथ चतुरस्रद्रोणचयनानन्तरं परिमण्डलद्रोणचयनप्रकारमाह— अथापर इति ॥ ११४ ॥ अथेति । अनन्तरमपरो द्रोणचिदुच्यते ॥ ११४॥ पुरुषस्य षोडशीभिर्विंशशतं सारत्निप्रादेशः सप्तविधः संपद्यते । तासामेकामपोद्धृत्य शेषाः परिमण्डलं करोति । तत्पूर्वेण रथचक्रचित्ता व्याख्यातम् ॥ ११५ ॥ पुरुषस्येति । पुरुषस्य षोडशीभिः सर्वतस्त्रिंशदङ्गुलप्रमाणाभिरिष्ट- काभिः । विंशशतमिति । विंशत्युत्तरशतेष्टकाक्षेत्र इत्यर्थः । शेषा इति । एकोनविंशत्युत्तरशतेष्टकाः यथा परिमण्डलं भवति तथा कुर्यादित्यर्थः ।
तत्पूर्वेणेति । तत्परिमण्डलं पूर्वेण प्रधियुक्तरथचक्रचिता । पूर्ववच्च- तुरश्रस्य परिमण्डलकरणं परिमण्डलमध्ये चतुरश्रकरणमेतत्सर्वं व्याख्या- तमित्यर्थः ॥ ११५ ॥ पुरुषस्येति । षोडशीभिः सर्वतः त्रिंशदङ्गुलाभिः । विंशत्यधिकं शतम् । तासा- मिति । तासां षोडशीनां मध्ये एकां षोडशीमपोद्धृत्य शेषा एकोनविंशत्यधिकं शतं षोडशीः परिमण्डलं करोति । तत्र सारत्निप्रादेशस्य सप्तविधस्याग्नेः क्षेत्रं लक्षमष्टौ सहस्राण्यङ्गुलयः । तस्मात् षोडशीपरिमितं नवशताङ्गुलक्षेत्रमुद्धृत्य शिष्टं लक्षं सप्त सहस्राणि शतञ्च । तस्य मूलमानीय नवतिलसहितसप्तविंशत्यङ्गुलसहितशतत्रयाङ्गुल- प्रमाणेन समचतुरश्रं कृत्वा अक्ष्णयार्ध ( ११४७ ) मित्यादिना मण्डलं करोतीत्यर्थः । तत्पूर्वेणेति । तत् द्रोणचित उपधानम् । पूर्वेण प्रधियुक्तेन रथचक्रचिता । व्याख्यातं तस्मिन् यावत् सम्भवेत् तावत् समचतुरस्र ( ३।९१ ) मित्यादि । तद्वत् कर्त्त- व्यम् ॥ ११५ ॥ षोडशीं पुरस्ताद् विशये उपधाय तया सह मण्डलं परिलिखेत् । यदवस्तादपच्छिन्नं तत् पुरस्तादुपदध्यात् । प्रधीनां सप्तधा विभागः । प्रधिमध्यमाः प्रक्रमण्यासा भवन्ति । चतुर- श्रणामभ्याभिः सङ्ख्यां पूरयेत् ॥ ११६ ॥ षोडशीमिति । प्राक्प्रदेशविशये मध्ये अव्यवहिततया उपधाय तया षोडश्या सह आत्ममण्डलमूलभूतचतुरश्रं परिलिखेत् । यदवस्तादिति । षोडश्याः पुरस्ताद्यथा धनुराकारतया षोडश्या संमितं भवति तथोपदध्या- दित्यर्थः । अयमत्र प्रकारः—विंशत्युत्तर ( शतं ? ) षोडश्यात्मकं सार्धसप्तविधस्याग्नेः क्षेत्रं तावत् लक्षमष्टौ सहस्राण्यङ्गुलयः । तत्राप्येकैकस्याः षोडश्याः क्षेत्रं नवशताङ्गुलं (क्षेत्रं)। तत्रैकां षोडशीमपोद्धृत्यावशिष्टाभिरेकोन- विंशत्युत्तरशतेष्टकाभिः षोडशीभिश्चतुरश्रं कुर्यात् । नवतिलाधिकसप्तविंशत्य- धिकशतत्रयाङ्गुलेन समचतुरश्रं कुर्यादित्यर्थः । अस्य चतुरश्रस्य पुरस्ता- न्मध्यदेशे निहितां षोडशीमव्यवहिततया योजयेत् । अस्मिन् चतुरश्रे “चतुरश्रं परिमण्डलम्”त्यादि (१।४७) न्यायेन परिमण्डलं कुर्यात् । एवं परि- मण्डले क्रियमाणे एतत्परिमण्डलगतां षोडशीपश्चिमदेशक्षेत्रं यदवशिष्टं तत् षोड- श्याः पुरस्ताद् धनुराकारतया योजयेत् । एवञ्चास्य क्षेत्रस्य सार्धसप्तविधत्वं
सम्पन्नम् । अस्मिन् परिमण्डले यावत्समचतुरश्रं कर्तुं शक्यते तावत् कतंव्यम् । द्वादशेनेष्टकाः कारयेत् तासां षट् प्रधावुपधाय (३।६१,६२)इत्यादि प्रधि- युक्तरथचक्रचयनवत् । तथाहि अस्मिन् परिमण्डले चतुस्तिलोनैकषष्टिशतद्व- याङ्गुलेन चतुरश्रं कर्तव्यम् । तिलषष्ठांशसहितपञ्चविंशतितिलाधिकैकविंशत्य- ङ्गुलप्रमाणेने समचतुरश्रा इष्टकाः कारयेत् । चतुश्चत्वारिंशदधिकशतेष्टकाभिः परिमण्डलमध्यगते चतुरश्रे उपधानं कुर्यात् । प्रधियुक्तरथचक्रचयनापेक्ष- या अत्र प्रधिषु विशेषमाह-प्रधीनामिति । चतुर्षु प्रधिषु प्रधिमूलोपहितेष्ट- कानां पार्श्वेषु द्वे द्वे मध्ये तिस्रस्तिस्र इष्टका यथा भवन्ति, यथा चतुर्षु प्रधिषु चतस्रो मध्यमाः प्रक्रमव्यासा भवन्ति, तथा विभजेदित्यर्थ ओष्ठ उपधाय (३।११७) इति वक्ष्यमाणत्वात् । अस्मिन् प्रस्तारे चतुरश्रसक्तयः महा- दिक्ष्विति ज्ञायते परिकर्षणवेलायां मण्डलद्वयप्रतिपादनेनेष्टकाद्वयं व्याख्यात- मिति अत्र पृथङ्नोक्तम् । आहत्य द्विन्यूनशतद्वयेष्टकाः सम्पन्ना । अवशि- ष्टेष्टकाद्वयसम्पत्तिप्रकारमाह-अर्घ्याभिरिति । अत्र यद्यपि द्वयोश्चतुर- श्रेष्टकयोरर्ध्याभ्यां सङ्ख्या शक्यते पूरयितुमिति बहुवचनानुपपत्तिः। तथापि प्रस्तारद्वयाभिप्रायेण तदुपपत्तिरिति ध्येयम् ॥ ११६ ॥ परिमण्डलकरणे विशेषमाह-षोडशीमिति । अपोद्धृतां षोडशीं चतुरस्रस्य पुरस्तात् विशये उपधाय तया सह मण्डलं परिलिखेत् । तत्र मण्डलकरणे द्वाविंशतितिलसहितचतुरशीतिशताङ्गुलो विष्कम्भार्धः। तेन मण्डलकरणे विशय उपहितषोडशी मध्ये तिलसहितैकविंशत्यङ्गुलप्रमाणे मण्डलं प्रवर्त्तते । यदिति । यन्मण्डलादवस्तात् पश्चात् मण्डलान्तर्भूतं षोडश्यपच्छिन्नं तन्मण्डलाद् बहिर्भूतषोडशीखण्डस्य पुरस्तात् त्रिंशदङ्गुलपार्श्वसङ्गतमुपदध्यात् । एवमुपहिते षोडशी खण्डद्वयात्मिका परिमण्डलाग्रा मण्डलसन्धौ धनुर्वक्रा भवति । प्रधीनामिति । मण्डलमध्ये चतुस्तिलाधिकैकषष्टिशतद्वयाङ्गुलेन समचतुरस्रं कृत्वा तस्य करण्या द्वादशेन इष्टकाः कृत्वा मध्ये चतुश्चत्वारिंशच्छतमिष्टका उपधाय तासां षट् प्रधावुपधाय शेषमष्टधे ( ३।९२) त्यत्र सप्तधा विभागः। ततः प्रधिमूलमध्ये उपहितानां षण्णां पार्श्वेषु द्वे द्वे मुखेषु तिस्रस्तिस्रः । प्रधीति । द्वितीये प्रस्तारे प्रधिमध्यमामोष्ठ उपधाये ( ३।११७) ति वक्ष्यमाणत्वात् प्रथमे प्रस्तारे महादिक्षु सक्तयः । चतुरश्राणामिति । आत्मनि चतुश्चत्वारिंशच्छतम् । प्रधि- मूलेषु चतुर्विंशतिः। ओष्ठे द्वे इष्टके। एवम् द्व्यूनशतद्वयं भवति । तत्र पश्चात् पुरस्तात् चतुरस्रसक्तिगतयोश्चतुरस्रयोरक्षणया भेदः ॥ ११६ ॥ १८
१३८ शुल्बसूत्रम् [ तृतीयोऽध्यायः अपरस्मिन् प्रस्तारे प्रधिमध्यमामोष्ठ उपधाय यदवस्तात्तद् द्वेधा विभजेत् । स एष नवकरणो द्रोणचित् परिमण्डलः ॥ ११७ ॥ अपरस्मिन्निति । दक्षिणोत्तरयोः प्रधिमध्यमां(नां) पूर्वोक्तां क्रम- विस्तारां स्वसन्निहितमण्डलान्तर्गतैकदेशयुक्ते उपधायोपहितेष्टकायाः पश्चाच्चतुरश्राणां पुरस्ताद् यत्क्षेत्रं तद्दक्षिणोत्तरभागेन द्वेधा विभजेत् । एवं करणेन च युक्त (?) मण्डलाकारो द्रोणचितोऽग्निर्निष्पद्यते इत्यर्थः । अयमत्र प्रकारः—पूर्ववत् परिमण्डलं कृत्वा तस्मिन् यथा महादिक्षु स्रक्तयो भवन्ति तथा चतुरश्रं कुर्यात् । तस्मिन् पूर्ववच्चतुश्चत्वारिंशच्छतेष्ट- काभिरुपधानं कुर्यादित्यर्थः । अ (यम) त्र पूर्ववच्चतुर्षु प्रधिषु प्रत्येकष्टा- विष्टका उपदध्यात् । पूर्ववत् त्रीन् परिधीन् (प्रधीन् ?) सप्तधा विभजेत् । पूर्वस्मिन् प्रधौ तु विशेषोऽस्ति । इष्टकाचयसंमिते ओष्ठे धनुराकारक्षेत्रे प्रधि- मध्यमामेकां बृहतीमात्मनिवेशितामुपदध्यात् । अस्याः पश्चात् प्रधिगतानामिष्ट- कानां पुरस्ताद् ओष्ठक्षेत्रसंमितं यदस्ति तद्दक्षिणोत्तरभागेन द्वेधा विभजेत् । अस्या दक्षिणत उत्तरतश्च द्वे तयोर्दक्षिणत उत्तरतश्च द्वे द्वे । एवं च द्विन्यू- नद्विशतेष्टकाः सम्पन्नाः । तत्र द्विशतसंख्यापूरणार्थं द्वयोश्चतुरश्रयोर्द्वाभ्यां द्विशतसङ्ख्यां पूरयेत् । द्वितीयप्रस्तार इति प्रथमप्रस्तार एवोक्तं सूत्रकारेणे- त्यस्माभिर्वर्णितं अत्रैव । स एष इति । नव करणानि आत्मगतानां चतुर- श्राणां प्रधिगतानां चतुरश्राणां (च १) एकं करणं । शिरसीष्टकाद्वयस्य करणद्वयं । प्रधिमध्यगतानां प्रक्रमविस्ताराणां चतसृणामेकं करणम् । तत्पा- र्श्वोपधेयानामेकं करणम् । प्रध्युपान्त्यानामेकं करणम् । प्रध्यन्त्यानामेकं करणम्, अर्ध्यानामेकं करणम् । आहत्य प्रथमे प्रस्तारेऽष्टौ करणानि । द्वितीयप्रस्तारे ओष्ठोपहितेष्टकापश्चिमक्षेत्रोपहितेष्टका तस्या एकं करणम्। एवं नव करणानीति । सर्वतः षड्विंशतितिलसहितैकविंशत्यङ्गुल- प्रमाणफलं चतुरश्रेष्टकानामेकं करणम् ॥ ११७ ॥ अपरस्मिन्निति । विधिवक्ष्यते । ओष्ठस्य प्रक्रमविस्तारत्वात् तया पूर्येते । प्रधिमध्यमायाः प्रक्रमादधिकं तिलोनाङ्गुलित्रयं मण्डले विशति । तस्मादोष्ठसन्धौ
भेदाभावः। यदवस्ताद् (तद् ?) द्वेधा विभजेत्। प्रधिमध्यमायाः पश्चात् चतुरस्राणां पुरस्तात् यत् क्षेत्रं प्रक्रमपरिमितं तद् द्वेधा अविशेषात् समं विभजेत्। अत्रापि चतुरस्राः चतुश्चत्वारिंशच्छतम्। प्रधिमूलेषु चतुर्विंशतिः। प्रधिषु अष्टाविंशति। ओष्ठे एका। तामभितः पश्चाद् द्वेधा भेदेन संगता एका। एवं द्व्यूनशतद्वयम्। दक्षिणोत्तरस्रक्तिगतयोः चतुरस्रेष्टकयोः पूर्ववद् भेदः। एवं द्विशतसम्पत्तिः। अयमत्र प्रकारः। अग्निक्षेत्रमध्ये शङ्कं निहत्य द्वाविंशतितिलसहितचतुरशीति- शताङ्गुलया रज्ज्वा मण्डलं परिलिख्य मण्डलमध्यशङ्कोः पुरस्तात् त्रिंशदङ्गुले विंशतितिलो नचतुरशीतिशताङ्गुले शङ्कु निहत्य द्वयोः पौरस्त्यशङ्कोः पुरस्तात् प्रक्रमप्रमाणं चतुरस्रं ओष्ठार्थं विहृत्य नाभेः पौरस्त्यमध्यमे शङ्कौ पाशं नियम्य विष्कम्भार्धेन ओष्ठचतुरस्रस्य उत्तरांसमारभ्य आ दक्षिणांसात् परिलिखेत्। मण्डलमध्ये चतुस्तिलो नैकषष्टिशतद्वयाङ्गुलप्रमाणेन महादिक्षु यथा स्रक्तयस्तथा चतुरस्रं कृत्वा तस्य करण्या द्वादशेन षड्विंशतितिलसहितेनैकविंशत्यङ्गुलेन प्रमाणे- नेष्टकाः कुर्यात्। प्रधीष्टकानां चत्वारि करणानि। आद्यं प्रध्यन्तं त्रिकोणम्। तस्य मण्डलमध्यचतुरस्रसंहितं पार्श्वं द्वादशतिलोनं त्रयस्त्रिंशदङ्गुलम्। षड्विंशत्यङ्गुलं अन्य- त्पार्श्वम्। सपञ्चविंशतितिलमेकचत्वारिंशदङ्गुलं तृतीयं कर्णरूपं धनुरिव तक्षेत्। षड्- तिलयुक्ताङ्गुलिः शरः। द्वितीयस्यापि पार्श्वद्वयं पूर्ववदेव। द्विचत्वारिंशदङ्गुलं साष्टतिलं तृतीयम्। षट्त्रिंशत् सषोडशतिलं पार्श्वान्तरं कर्णरूपं धनुरिव तक्षेत्। त्रिंशत्तिलाः शरः। तृतीयस्य प्रधिसंगतं पार्श्वं सदशतिलं पञ्चाशदङ्गुलम्। सार्धविंशत्यङ्गुलमेकं पार्श्वम्। सपञ्चविंशतितिलमेकत्रिंशदङ्गुलं पार्श्वान्तरम्। अष्टादशतिलमेकपञ्चा- शदङ्गुलं चतुर्थं कर्णरूपं धनुरिव तक्षेत्। सप्ततिलोनमङ्गुलिद्वयं शरः। प्रधिमध्यमाया व्यासो द्वात्रिंशदङ्गुलम्। सप्तपञ्चविंशतितिलमेकत्रिंशदङ्गुलं पार्श्वद्वयम्। बाह्यफलकं धनुराकारम्। द्विचत्वारिंशत्तिलाः शरः। ओष्ठेष्टकयोः प्रथमप्रस्तारार्थं करणद्वयम्। तयोः प्रथमस्य तिलहीननवाङ्गुलं पार्श्वद्वयम्। त्रिंशदङ्गुलमितरत् पार्श्वद्वयम्। तयोः पश्चिमफलकं अन्तर्वक्रम्। द्विच- त्वारिंशत्तिलाः शरः। यथैवमिष्टकारूपं सौष्ठमण्डलसन्धौ उपधेया (?)। ओष्ठेष्टकयो- र्द्वितीयास्याः सैकतिलमेकविंशत्यङ्गुलं पार्श्वद्वयम्। इतरद्वयं त्रिंशदङ्गुलम्। तस्य बाह्य- फलकं धनुरिव तक्षेत्। द्विचत्वारिंशत्तिलाः शरः। यथैवमिष्टकारूपं सौष्ठामे उपधेया। द्वितीयप्रस्तारे प्रधिमध्यमस्थानेष्टकयोः एकैकं करणम्। त्रिंशदङ्गुलं पार्श्व- द्वयम्। पञ्चदशाङ्गुलं पार्श्वद्वयम्। ते ओष्ठे उपहितप्रधिमध्यमायाः पश्चादुपधेये। संख्यापूरणार्थमक्षणया भेदेन चतुरस्रार्धेष्टकार्थमेकं करणम्। तस्या द्वे पार्श्वे चतुर- स्रवत् पञ्चदशतिलं त्रिंशदङ्गुलम्। तृतीयं कर्णरूपम्। एवं नव करणानि।
१४० शुल्वसूत्रम् [ तृतीयो- प्रथमे प्रस्तारे चतुरस्रगताः चतुश्चत्वारिंशच्छतम् । प्रधिमूलगताः चतुर्विं- शतिः । प्रधिगता अष्टाविंशतिः । ओष्ठाथंकयोरिष्टकयोः ह्रस्वेष्टकां मण्डलसन्धावुपद- ध्यात् । बृहतीं तस्याः पुरस्तात् । पश्चात् पुरस्ताच्च चतुरस्रसक्तिगते उद्धृत्य द्वे द्वे अर्धेष्टके । एवं द्विशतः प्रस्तारः । द्वितीयेऽपि प्रस्तारे पूर्ववत् प्रधिवर्जमेव उपधानम् । अत्र अवान्तरदिक्षु सक्तयः । पूर्वस्मिन् प्रधौ मध्यसामुद्धृत्य ओष्ठे प्राग् धनुर्वक्रामुपदध्यात् । तस्याः पश्चात् प्रधिमध्यस्थाने द्वितीयप्रस्तारार्थकपणेष्टके उपधेये । मण्डलमध्य- चतुरस्रसक्त्योर्दक्षिणत उत्तरतश्च द्वे चतुरस्रे उद्धृत्य द्वे द्वे अर्धेष्टके । एवमपरः प्रस्तारः । स एष इति । स्पष्टार्थं वचनम् । कूर्मस्यान्ते तनुपुरीषमुपदध्यात्, मध्ये बहुलं, एतदेव द्रोणे विपरोत (३।१४१) मिति वक्ष्यमाणं स्मर्त्तव्यम् । अत्र कल्पोक्तो विधिरनुसन्धेयः । तत्रैवमुक्तम् । द्रोणचितं चिन्वीत अन्नकाम इत्येतस्यैव सतो त्रिमात्रेण प्रागोष्ठमिव निरूहति । अथ मध्ये निम्नमिवेष्टकाया आयातयति । स एष द्रोणचिदन्नकामस्य परिकृष्यते ( बौ० श्रौ० सू० १७।२९ पृ० ३०८) इति ॥ ११८ ॥ [ इति परिमण्डलद्रोणचित्उपधानप्रकारः । ] समूद्यपरिचाय्यौ पूर्वेण रथचक्रचिता व्याख्यातौ ॥ ११८ ॥ परिमण्डलद्रोणचयनप्रकारमुक्त्वा समुह्यपरिचाय्यचयनप्रकारमाह- समूद्यपरिचाय्याविति । समूह्ये परिचाय्ये च प्रधियुक्तरथचक्र- चयनधर्माः परिमण्डलकरणधर्माः चतुरश्रकरणेष्टकानिर्माणोपधानादयः सर्वेऽपि प्राप्नुवन्तीत्यर्थः ॥ ११८ ॥ समूह्येति । यावानग्नि ( ३।९१ ) रित्यादि परिमण्डलान्तं कुर्यात् ॥ ११८ ॥ समूह्यस्य दिक्षु चात्वालान् खानयित्वा तेभ्यः पुरीषं समूद्यो- पदध्यात् ॥ ११९ ॥ ननूक्तरीत्या समूह्ये सर्वधर्मप्राप्तौ को विशेषस्तमाह-समूह्यस्येति । समूह्यस्य वाग्नेर्महादिक्षु चात्वालान् खानयित्वा तेषु च नामातिदेशतः सर्वधर्मान् (?) चात्वालेभ्यः पुरीषं समूह्य गृहीत्वा अग्निक्षेत्रे मन्त्रैः क्रमाद यथा पञ्चप्रस्तारा भवन्ति तथोपद्ध्यादित्यर्थः । अयमत्र प्रकारः-प्रधियुक्तरथचक्रचयनवत् सार्धसप्तपुरुषप्रमाणं चतु- रस्रं विहृत्य "चतुरश्रं परिमण्डल" (१।४७) मिति न्यायेन परिमण्डलं कर्त्तव्यम् । तस्मिन् परिमण्डलमध्ये यावत्समचतुरश्रं कर्तुं शक्यते तावत्
अध्यायः ] बौधानीयं १४१ कृत्वा तस्योत्तरतः यथास्थाने चात्वालं कृत्वा दक्षिणतः एकं तथा यूपस्य पुरस्तादेकं शालामुखीयवेद्योर्मध्ये एकम् एषु चात्वालेषु लोकाग्न्याहरणादीनां धर्माणां नामातिदेशतः कर्त्तव्यत्वम् । एभ्यश्चात्वालेभ्यः पुरीषं गृहीत्वा तैः पुरीषैरसिक्षेत्रे सर्वतः प्रचिनुयात् । एतदुपरि प्रधियुक्तरथचक्रचयनवत्सर्वा इष्टका लिखित्वा आसु लिखितासु इष्टकासु मन्त्रोपधानं कर्तव्यम् । अपरस्मिन् प्रस्तारे पुनरपि पुरीषैरग्निक्षेत्रे सर्वतः परिचिनुयात्। अस्मिन् मण्डले यथा स्रक्तय अवान्तरदिक्षु भवन्ति तथा चतुरश्रं कृत्वा तस्मिन् पूर्ववदिष्टका लेखनीयाः । अवान्तरदिक्षु विद्यमानेषु प्रधिषु अपीष्टका लेखनीयाः । आस्विष्टकासु मन्त्रैरुपधानं कर्त्तव्यम् । एवं क्रमेण पुरीषैर्जानु- दघ्नं यथा भवति तथा पञ्चप्रस्ताराः कर्त्तव्याः ॥ ११९ ॥ समूह्यस्य विशेषः । नान्या सर्वचात्वालेषु धर्मप्राप्तिः । शालामुखीयमहावेद्यो- रन्तरा पश्चिमचात्वालः । एवं चात्वालेभ्यः पुरीषं समूह्य गृहीत्वा इष्टकास्थानेषु उप- दध्यात् । यावत् सम्भवेत् तावत् चतुरस्रमित्यादि (३।९१) शुल्बेष्टकान्यायेन अग्नि- क्षेत्रे तत्रैवोपधेया । इष्टकाः सर्वा लिखित्वा उपधानकाले तैस्तैर्मन्त्रैस्तेषु तेषु स्थानेषु पुरीषमुपदध्यात् । अपरस्मिन् प्रस्तारे प्रध्यनीकेष्वि ( ३।९३ ) त्यादि तुल्यम् । जानुदघ्नं पञ्चचि- तीकमिति च । तत्र कल्पोक्तो विधिरप्यनुसन्धातव्यः । तत्रैवमुक्तम् । समूह्यं चिन्वीत पशुकाम इति विज्ञायते । पुष्करपर्णं कूर्मं हिरण्मयं पुरुषं स्रुचावित्येतल्लक्ष्माणीत्याचक्षते । कुरुत एवैतदपो पुरीष्यस्यैवेष्टका आयातयति । आ स्वयमातृण्णायाः। अथाभितः स्वयमातृष्णा इष्टकाः परिचिनोति स एष समूह्यः पशुकामस्य परिकृष्यत इति ( बौ० श्रौ० सू० १७।२९ पृ० ३०८) पुष्करपर्णादीनामुपधानस्थानेषु तत्तद्रूपेण चिह्नानि कुर्यादि- त्यर्थः ॥ ११९ ॥ परिचाय्य इष्टकानां देशभेदः ॥ १२० ॥ समूह्यपरिचाय्यौ प्रधियुक्तरथचक्रचयनवत् कर्त्तव्यावित्युक्त्या सर्व- धर्माणामुभयत्रापि प्राप्तौ समूह्येषु पुरीषैरुपधानविधानादिष्टकोपधान- बाधः । परिचाय्ये तु तथा विशेषविधानाभावात् तथैवेष्टकोपधाने प्राप्ते
१४२ शुल्बसूत्रम् [तृतीयो- देशादिभेदमाह - परिचाय्येति । परिचाय्यचयने इष्टकानां देशभेदः देशभेदेनोपधानमित्यर्थः ॥ १२० ॥ परिचाय्य इति । इष्टकानां स्थानभेदो न रथचक्रचिद्वत् । तस्मिन् यावत् सम्भवेद् (३।९१) इत्यादि कर्त्तव्यमित्यर्थः ॥ १२० ॥ तं सर्वाभिः प्रदक्षिणं परिचिनुयात् ॥ १२१ ॥ अमुमर्थं स्वयमेव विवृणोति - तं सर्वाभिरिति । तं सार्धसप्तपुरुष- प्रमाणमण्डलरूपमग्निं सर्वाभिर्द्विशतेष्टकाभिः प्रदक्षिणं यथा भवति तथा परिचिनुयादुपधानं कुर्यादित्यर्थः । अपरस्मिन् प्रस्तारे यथा सन्धिपिधानं भवति तथैव परिचिनुयात् । एवं क्रमेण पञ्चप्रस्ताराः कर्त्तव्याः ॥ १२१ ॥ देशभेदं स्वयमेवाह - तमिति । तं अग्निम् । सर्वाभिरिष्टकाभिः । प्रदक्षिणं सर्वतः चिनुयात् । छन्दश्विदध्यायेऽप्युक्तम् । परिचाय्यचितं चिन्वीत ग्रामकाम इति । अनु- शर्करमन्तःशर्करमिष्टकाः परिचिनोति । अथानन्तरतोऽथान्तरत एवमेव करोति । स एष परिचाय्यो ग्रामकामस्य परिकृष्यत इति (बौ० श्रौ० सू० १७।२६ पृ० ३०८) । तत्र अनुशर्करमिति सावित्राग्निवत् परिमण्डलाकारं अग्निक्षेत्रं विहृत्योपदध्या- दित्यर्थः । परिकृष्यत इति । द्वादशसीताः परिमण्डलाः कर्षणीया इत्यर्थः । अयमत्र प्रकारः । अग्निक्षेत्रे समान्तरालानि षण्मण्डलानि कृत्वा नाभिमष्टधा विभजेत् । नाभिमण्डलादारभ्य द्वितीयतृतीयमण्डले प्रत्येकं षोडशधा विभजेत् । चतुर्थं द्वात्रिंशधा विभजेत् । पञ्चमषष्ठमण्डले प्रत्येकं चतुःषष्टिमिष्टकाः कुर्यात् । एवं द्विशतपूर्तिः । प्रतिमण्डलं करणभेदः । एवं षट् करणानि । अपरस्मिन् प्रस्तारे पूर्वोक्तमण्डलमध्येषु मध्यवर्जितेषु परिलिखेत् । एवं अत्रापि षण्मण्डलानि संपद्यन्ते । पूर्वप्रस्तारवदेव यथा भेदो न भवति तथा विभागः । मध्यम- मष्टधा पूर्वलेखान्तरालेषु विभजेत् । द्वितीयतृतीयमण्डले षोडशके । द्वात्रिंशकं चतुर्थम् । पञ्चमषष्ठे चतुःषष्टिद्वयम् । सर्वत्र भेदपरिहारेण लेखनीयाः । एवं द्विशतः प्रस्तारः । अत्रापि षट् करणानि । स एष द्वादशकरणः परिमण्डलः परिचाय्यचित् ॥ १२१ ॥ स एष द्वादशकरणः परिमण्डलः परिचाय्यचिदिति ॥१२२॥ स एष इति । अयं परिचाय्यचिद् द्वादशकरण इत्युक्त इत्यर्थः । प्रधि- युक्तरथचक्रचयनवदिदं कर्त्तव्यमित्युक्तत्वाद अग्नेर्मण्डलाकारत्वं सिद्धमिति
ऽध्यायः ] बौधायनीयं १४३ परितो मण्डलानि यस्येति व्युत्पत्त्या मण्डलान्तराणि कर्तव्यानीति सूचयति । तानि च द्वादशकरणानि इत्युक्त्या प्रतिप्रस्तारं षण्मण्डलानि इति विज्ञायते । अयमत्र प्रकारः—सार्धसप्तपुरुषप्रमाणं चतुरश्रं विहृत्य तत्र “चतुरश्रं परिमण्डल”(१।४७)मिति न्यायेन परिमण्डलं कृत्वा तस्मिन् परिमण्डले षट् परिमण्डलानि कृत्वा मध्यपरिमण्डलमष्टधा विभजेत् । द्वितीयञ्च तृतीयञ्च प्रत्येकं षोडशधा विभजेत् । चतुर्थं द्वात्रिंशद्धा विभजेत् । पञ्चमं षष्ठञ्च प्रत्येकं चतुःषष्टिधा विभजेत् । आहत्य द्विशतेष्टकाः । अस्मिन् प्रस्तारे एकमेकं करणम् । आहत्य षट् करणानि । अपरस्मिन् प्रस्तारे मध्यमध्येषु षण्मण्ड- लानि कृत्वा पूर्ववद्विभजेत् ॥ १२२ ॥ १२२ संख्यकं सूत्रं द्वारकानाथेन न पठितम् । [ इति समूह्यपरिचाय्यचितोरुपधानप्रकारः । ] श्मशानचितं चिन्वीतेति विज्ञायते ॥ १२३ ॥ समूह्यपरिचाय्यचयनप्रकारमुक्त्वा श्मशानचयनप्रकारमाह— श्मशानचितमिति ॥ १२३ ॥ सर्वमग्निं चतुरश्रान् पञ्चदशभागान् कृत्वा तेषामाख्यातमु- पधानम् ॥ १२४ ॥ सर्वमग्निमिति । सार्धसप्तविधपुरुषप्रमाणं चतुरश्रान् समानपञ्चद- शभागान् कुर्यादित्यर्थः । सार्धसप्तविधपुरुषप्रमाणं क्षेत्रं तावल्लक्षमष्टौसह- स्राण्यङ्गुलयः । एकैकस्य पञ्चदशभागस्य क्षेत्रं सप्तसहस्राणि द्वे शते अङ्गु- लयः । एवंभूतैः पञ्चदशभागैः अग्निक्षेत्रं कुर्यादिति यावत् । नन्वेतत्सू- त्रानुसारेण क्षेत्रनिर्माणं कथं स्यादित्याशङ्क्याह—तेषामिति । तेषां पञ्चदशधा विभक्तानां भागानामेकतोऽणिमद्दीर्घचतुरश्राकारतयोपधानं क्षेत्रनिर्माणमाख्यातमुक्तमित्यर्थः । तदुक्तं कल्पसूत्रे—श्मशानचितं चिन्वीत यः कामयेत पितृलोकमा-
१४४ शुल्बसूत्रम् [ तृतीयो- प्नुयामिति । षट् प्राञ्चः पुरुषाख्यः पुरस्तात्तिर्यञ्चौ द्वौ पश्चात्तिर्यञ्चौ स आत्मेति । अस्यायमर्थः—पुरुषशब्देन पञ्चदशभागा एवोच्यन्ते, षट् पञ्चदशभागायामं प्राक् प्रत्यग् भागत्रयव्यासं पुरस्ताद्, भागद्वयव्यासं पश्चा- देकतोऽणिमद्दीर्घचतुरश्रं कुर्यात् । स इदृग्रूपविशिष्टः आत्मेत्यर्थः ॥ १२४ ॥ सर्वमग्निमिति । सर्वमग्निक्षेत्रं पञ्चदशधा विभज्य समचतुरस्रान् कृत्वा । किम् ? कल्पे छन्दश्चिदध्याये तेषां चतुरस्रीकृतानां पञ्चदशधा विभक्तानां भागानां उपधान- विनियोगः तैः क्षेत्रक्रियेत्यर्थः । आख्यातमुक्तम् । तत् तत्रैवानुसन्धेयम् इत्यर्थः । श्मशानचितं चिन्वीत यः कामयेत पितृलोक ऋध्नुयामिति ( बौ० श्रौ० सू० १७।३० पृ० ३०९ षट् प्राञ्चः पुरुषाख्यः पुरस्तात् तिर्यञ्चौ तौ ( ? ) द्वौ । स आत्मेति । तत्र पुरुषशब्देन पञ्चदशधा विभक्ता भागा एवोच्यन्ते । अस्यायमर्थः । अग्निक्षेत्रं सर्वं लक्षमष्टौसहस्राण्यङ्गुलयः । ताः पञ्चदशधा विभज्य लब्धं सप्त- सहस्राणि द्वे शते चाङ्गुलयः । तस्य भागस्य समचतुरस्रकरणी षट्तिलोनपञ्चा- शीत्यङ्गुला । एवं पुरुषशब्दितैर्भागैः षट् प्राञ्चः पुरुषाः । षड्भागप्रमाणायामा इत्यर्थः । स च षट्त्रिंशतितिलोनदशाधिकपञ्चशताङ्गुलयः । त्रयः पुरस्तात् पार्श्वे तिर्यञ्चो दक्षिणोत्तराः । सार्धपञ्चाशच्छतद्वयाङ्गुलयः पुरस्तात् तिर्यगित्यर्थः । द्वौ पश्चात् तिर्यञ्चौ द्वादशतिलोनसप्ततिशताङ्गुलयः पश्चात् तिर्यगित्यर्थः । स आत्मा ! ईदृग् विशिष्टरूप आत्मा । नान्यदङ्गमस्तीत्यर्थः । एवं कल्पोक्तप्रकारेण क्षेत्रकरणमुक्तम् ॥ १२३-१२४॥ त्रिभिर्भागैर्भागार्धव्यासं दीर्घचतुरस्रं विहृत्य पूर्वस्याः कर- ण्या मध्याच्छ्रोणी प्रत्यालिख्यान्तावुद्धरेत् । तस्य दशधा विभागः। तानि विंशतिः सर्वोऽग्निः संपद्यते ॥ १२५ ॥ क्षेत्रकरणमुक्त्वा इष्टकाकरणमाह—त्रिभिर्भागैरिति । भाग- त्रयायामं एकतिलोनसार्धचतुःपञ्चाशच्छतद्वयाङ्गुलायामं भागार्धव्यासं चतुर्दशतिलाधिकद्विचत्वारिंशदङ्गुलव्यासम्, एवं दीर्घचतुरश्रं विहृत्य पूर्वस्याः करण्यास्तिर्यङ्मान्या मध्यदेशादारभ्य द्वे श्रोणी प्रत्यालिख्यान्ता- वुद्धरेत् । बहिःस्पन्द्यमपच्छिन्द्यात् । एवञ्च प्रउगः संपद्यते । तस्य दशधेति । तस्य प्रउगस्य दशधा विभागः प्रकारः । अस्मिन् प्रउगे चुबुके एकमुभयतः प्रउगम्, ततो द्वे उभयतः प्रउगे तत्संयुक्ते, ततश्रोणि उभयतः प्रउगानि,
अध्यायः ] बौधायनीयं १४५ पृथ्वनीके चत्वारि प्रउगानि, षडुभयतःप्रउगानि आहत्य दश संपद्यन्ते । तानि विंशतिरिति । हंसमुखीश्चतस्रश्चतसृभिः पादेष्टकाभिः संयोजयेत्त- तिर्यक् स्वयमातृण्णावकाश उपदध्यादितीति (?) । तानि दशधा विभक्तानि प्रउगान्यङ्गक्षेत्रे विंशतिः संपद्यन्ते । एवञ्च द्विशतेष्टकाः संपन्नाः । उभयतः प्रउगाकारेष्टका विंशतिशतं, प्रउगेष्टका अशीतिः । तत्र प्रउगेष्टकाप्रमाणं सार्धविंशतितिलाधिकदशाङ्गुलं पृथ्वनीकमुभयपार्श्वे सार्धविंशतितिलाधिक- त्रिषष्ट्यङ्गुले । ते द्वे पृथ्वनीकदेशाभ्यां सङ्गते उभयतः प्रउगम् । अत्रैवमुपधानप्रकारः । पूर्वस्मिन्ननीके चतुर्विंशतिः प्रउगेष्टकाः प्रत्यगग्राः, ततः पश्चादुभयतःप्रउगास्त्रयोविंशतिः, ततः पश्चात् द्वाविंशतिः, तत एकविंशतिः, ततः पश्चात् प्रागग्रा विंशतिः प्रउगाः, ततः पश्चात् प्रत्यगग्रा विंशतिः प्रउगाः, ततः पश्चात् उभयतःप्रउगा एकोनविंशतिः, ततः पश्चात् अष्टादश, ततः सप्तदश, ततोऽपरस्मिन् अनीके प्रत्यगग्राः षोडश प्रउगाकाराः । एवमुदीच्यो दश रीतयः । एवं द्विशतः प्रस्तारः ॥१२५॥ इदानीं इष्टकोपधानविधिरुच्यते—त्रिभिर्भागैरिति । त्रिभिर्भागैरायामभूतैः । भागार्धंव्यासं सार्धचतुःपञ्चाशच्छतद्वयाङ्गुलायामं सचतुर्दशतिलद्विचत्वारिंशदङ्गुल- व्यासम् दीर्घचतुरस्रं विहृत्य पूर्वस्यास्तिर्यङ्मान्या मध्यादारभ्य श्रोणी प्रत्यालिख्य प्रउगाकारं कृत्वा अन्तावुद्धरेत् । तस्येति । कर्त्तव्य इति शेषः । तस्य प्रउगस्य । प्रउगा- कारा उभयतःप्रउगाकारा इष्टका यथा भवन्ति तथा दशधा विभागः । अन्यथा- विभागे करणबहुत्वं स्यात् । तत्रैवं विभागः । प्रउगपृथ्वनीके समान्तराणि त्रीणि चिह्नानि कृत्वा चतुरो विभागान् कृत्वा प्रउगपार्श्वयोरपि तथा कृत्वा पृथ्वनीकप्रथमचिह्नादारभ्य इतरपार्श्व- प्रथमचिह्नं प्रत्यालिखेत् । एवं द्वितीयचिह्नादारभ्य पार्श्वद्वितीयम् । एवं तृतीयचिह्नादा- रभ्य तथा तृतीयम् । तथा तृतीयचिह्नादारभ्य इतरपार्श्वप्रथमचिह्नं प्रत्यालिखेत् । एवमितरयोः । एवं विभक्ते पृथ्वनीकस्थाः प्रउगाकाराश्चतस्र इष्टकाः । ततः तिस्र उभयतःप्रउगाकृतयः । ततो द्वे । तत एका चुबुकान्ता । एवं षड् उभयतःप्रउगाः । चतस्रः प्रउगाः । एवं दशेष्टका एकस्मिन् प्रउगे भवन्ति । हंसमुखीश्चतस्रश्चतसृभिः पादेष्टकाभिः संयोजयेत् । तत् तिर्यक् स्वयमातृण्णा- वकाशे उपदध्यादिति । तथा बहिर्देशेष्टकं प्रउगमापाय अग्निक्षेत्रे उपहितानि विंशतिः १९
प्रउगाणि सर्वोऽग्निः संगृह्यीयादिति । अत्र आत्मनि मध्ये दक्षिणोत्तरां लेखामलिख्य पूर्वार्धे प्रत्यगग्राणि षट् प्रागग्राणि पञ्च । पश्चिमार्धे प्रत्यगग्राणि पञ्च प्रागग्राणि चत्वारि एवं विंशतिः । एवं शतद्वयसम्पत्तिः । अयम्प्रकारः । अग्निक्षेत्रं तिलद्वयोननवपञ्चशताङ्गुलायां सार्धचतुः पञ्चाशच्छतद्वयाङ्गुलं पुरस्ताद् व्यासं द्वादशतिलोनसप्ततिशताङ्गुलपश्चिमतिर्यङ्मानीकं एकतोऽणिमदीर्घचतुरस्रं विहृत्य इष्टकाः कुर्यात् । तत्र द्वे करणे प्रउगमुभयतः प्रउग- मिति । प्रउगस्य पृथ्वनीकं दशाङ्गुलं सार्धविंशतितिलम् । उभे पार्श्वे सार्धविंशतितिले त्रिषष्ट्यङ्गुले । ते द्वे पृथ्वनीकप्रदेशाभ्यां सङ्गते उभयतः प्रउगम् । प्रथमेन करणेन अशीतिरिष्टकाः । द्वितीयेन विंशशतम् । उपधाने पूर्वस्मिन् अनीके चतुर्विंशतिः प्रउगेष्टकाः प्रत्यगग्राः । ततः पश्चाद् उभयतःप्रउगाः त्रयोविंशतिः। ततः पश्चाद् द्वाविंशतिः । तत एकविंशतिः । ततः पश्चात् प्रागग्रा विंशतिः प्रउगाः । ततः पश्चाच्च विंशतिः प्रत्यगग्राः । ततः उभयतःप्रउगा एकोनविंशतिः । ततः पश्चादष्टादश । ततः सप्तदश । ततः अपरस्मिन् अनीके प्रागग्राः षोडश प्रउगाः । एवं उदीच्यो दश रीतयः । एष द्विशतः प्रस्तारः ॥ १२५ ॥ अपरस्मिन् प्रस्तारे प्रउगं मध्येऽनूचीनं विभजेत् । तस्य षड्धा विभागः । ते द्वे पार्श्वयोरुपदध्यात् । भागतृतीयायामा- श्चतुर्थन्यासाः कारयेत् । तासामर्ध्यास्तिर्यग्भेदाः । ता अन्तयो- रुपधाय शेषमग्निं बृहतीभिः प्राचीभिः प्रच्छादयेत् । अर्धैष्टकाभिः सङ्ख्यां पूरयेत् ॥ १२६ ॥ अपरस्मिन् प्रस्तार इति । अग्निक्षेत्रे प्रागग्रे द्वे प्रउगे प्रत्यग्- ग्राणि त्रीणि प्रउगाणि । एवं पञ्च समानि कृत्वा तत्रैकं प्रत्यगग्रं प्रउगं मध्येऽनूचीनं प्राक्प्रत्यग्दीर्घं यथा भवति तथा द्वेधा विभजेत् । अयमर्थः—पञ्चानां प्रउगाणां मध्ये एकस्य प्रउगस्य पृथ्वनीकमध्यादारभ्य प्रउगाग्रपर्यन्तमार्जवेन लिखेदिति । तस्येति । तस्य दलद्वयात्मकस्य द्वेधा विभक्तस्य एकस्य प्रउगस्य षड्धा षोढा विभागः प्रत्येकं कर्त्तव्यः । विभागप्रकारः । अत्राप्यनूचीनमित्यस्यानुवर्तमानत्वाद द्वयोः खण्डयोः पृथ्वनीकमध्यादारभ्य खण्डद्वयाग्रपर्यन्तं पूर्ववदार्जवम् । अयमत्र विभागप्रकारः—एकस्मिन् खण्डेऽर्धप्रउगे पृथ्वनीके समान्तराले द्वे चिह्ने कृत्वा पश्चादर्धप्रउगं समं तिर्यक् त्रेधा विभजेत् । तत्र
प्रथमे पृथ्वनीकपार्श्वखण्डे पूर्वकृतचिह्नाभ्यामारभ्यार्जवेनापरतिर्यङ्मान्या सह त्रेधा लिखेत् । एवञ्चास्मिन् खण्डे दक्षिणपार्श्वे एका अध्यर्धप्रउगाकारेष्टका तत उत्तरपार्श्वे प्राक्प्रत्यग्दीर्घे चतुररश्रेष्टके मध्यखण्डे दक्षिणे एका अर्ध- प्रउगेष्टका पार्श्वे एका दीर्घचतुरश्रेष्टका तृतीयखण्डे चुबुकप्रदेशे एका अर्धप्रउगाकारेष्टका आहत्यास्मिन् खण्डे षट्, एव मुत्तरखण्डेऽपि षडिष्टकाः कुर्यादिति । यद्यपि सूत्रे पञ्च प्रउगाणि कृत्वा तेष्वेकामनूचीनां द्वेधा विभज्य तयोरुपधानमिति न प्रतीयते तथापि प्रउगखण्डयोः पार्श्वयोरुपधान मुक्त्वा मध्यक्षेत्रे चतुरश्रस्य बृहतोभिर्दीर्घचतुरश्राभिस्तदर्धाभिश्चोपधान- विधानाद् दीर्घचतुरश्रत्वं गम्यते । तच्च पञ्च प्रउगकरणे उपपद्यते, नान्य- थेति । ते द्व इति। ते षडिष्टकाः। ते द्वे खण्डे प्रत्यगग्रे पार्श्वयोः दक्षिणोत्तर- पार्श्वयोरुपदध्यादित्यर्थः । एवञ्च भागद्वयव्यासं षड्भागायामं दीर्घचतुरश्रं- मध्ये संपद्यते । तत्रोपधानार्थमिष्टकाकरणमाह—आगतृतीयायामा इति । भागृतीयायामाः तिलतृतीयांशसहिताष्टाविंशत्यङ्गुलायामाः, चतुर्थव्यासाः सप्ततिलाधिकैकविंशत्यङ्गुलव्यासाः दीर्घचतुरश्रा इष्टकाः कारयेत् । तासामिति । तासां बृहतीनामर्ध्यास्तिर्यग्भेदाः आसामर्धे भिन्नाः सप्ततिलाधिकैकविंशत्यङ्गुलदीर्घाः । (सार्धचतुस्तिलदीर्घाः सार्धचतु- स्तिलचतुर्दशाङ्गुलदीर्घाः) सार्धचतुस्तिलचतुर्दशाङ्गुलव्यासाः अर्धेष्टकाः कार्या इत्यर्थः । ता अन्तयोरिति । ता अर्धेष्टकाः अन्तयोः पूर्वापराग्र- प्रदेशयोः दक्षिणोत्तरदीर्घा अष्टावष्टावुपधाय शेषमग्निं बृहतीभिः प्रच्छाद- येत् । उपहितेष्टकानां मध्ये क्षेत्रं षट्त्रिंशच्छतेष्टकाभिः प्रागायताभिः प्रच्छादयेदित्यर्थः । आहत्य चतुःषष्टिशतेष्टकाः सम्पन्नाः । तत्र द्विशतसंख्या- पूरणार्थमाह--अर्धेष्टकाभिरिति । श्रोण्यंसेषु नव नव बृहतीश्चतुरश्रकृता उद्धृत्याष्टादशाष्टादशार्ध्या उपदध्यात् । एष द्विशतः प्रस्तारः ॥१२६॥ अपरस्मिन्निति । विधिवक्ष्यते । अग्निक्षेत्रे भागप्रमाणव्यासानि षड्भागप्रमा- णायतानि पञ्च महाप्रउगाणि शेरते । तत्र प्रत्यगग्राणि त्रीणि । प्रागग्रे द्वे । तेषां महा- प्रउगाणां प्रउगद्वयमिह विवक्षितम् । अनूचानमिति प्रउगविशेषणम् । षड्भागायत-
मित्यर्थः । दक्षिणतः प्रत्यगग्रस्थितप्रउगमध्ये भागप्रमाणपृथ्वनीकमध्याद् आरभ्य आपश्चिमसूक्ष्माग्राद् आलिखेत् । एवं उत्तरस्मिन्नपि पार्श्वे स्थितं विभजेत् । ते द्वे पार्श्वयोरुपधायेति वक्ष्यमाणत्वात् । प्रउगमिति च तस्येति च जात्येकवचनम् । तस्येति । तस्य प्रउगावयवस्य । षड्धा पोढा । अनूचीनं विभागः कार्यः । तत्र प्रकारः । प्रत्यगग्रं षड्भागायतं महाप्रउगार्धं तिर्यक् त्रिधा विभजेत् । तत्र पूर्वखण्डस्य पूर्वतिर्यङ्मान्यां समान्तराले द्वे चिह्ने कृत्वा प्रथमचिह्नादारभ्य आर्जवेन अपरतिर्यङ्मानीं प्रत्यालिखेत् । एवं द्वितीयचिह्नाद् आरभ्य । एवं मध्यखण्डस्य पूर्वान्तन्मध्याद् आरभ्य आर्जवेन अपरान्तात् लिखेत् । एवं विभक्ते प्रथमे खण्डे बाह्यपार्श्वतः अर्धप्रउगाकारा एकेष्टका । मध्यतो द्वे दीर्घचतुरस्रे । मध्यमखण्डस्य बाह्यत एका प्रउगार्धा । अन्तरत एका दीर्घचतुरस्रा । अपरोभागः प्रउगार्धरूप एव । एवं षड्धा विभागः । एवं उत्तरतः । ता द्वाद- शेष्टकाः । तासु प्रउगार्धाकाराः षट् । दीर्धेष्टकाकाराः षट् । ते द्वे इति । ते षड्धा विभक्ते । द्वे प्रउगार्धे । पार्श्वयोः षड्भागायामप्रमाणस्य द्विभागप्रमाणतिर्यङ्मानी- कस्य चतुरस्रस्य पार्श्वयोर्दक्षिणोत्तरयोः प्रत्यगग्रे बहिर्भूतकर्णपार्श्वं उपदध्यात् । एवं द्वादशेष्टका उपहिता भवन्ति । एवं उपहितयोः प्रउगार्धयोर्मध्यभूतचतुरस्रस्योप- धानविधिः । भागत्तृतीयेति । इष्टका इति शेषः । भागस्य षट्तिलोनपञ्चाशीत्यङ्गुल- प्रमाणस्य तृतीयो नवतिलाष्टविंशत्यङ्गुलायामः । चतुर्थव्यासाः सप्ततिलैकविंशत्य- ङ्गुलव्यासाः कारयेत् = ता बृहतीसंज्ञिताः । तासामिति । आयामस्य मध्ये भिन्नाः सप्ततिलैकविंशत्यङ्गुलदीर्घाः सार्धचतु- स्तिलचतुर्दशाङ्गुलव्यासा अर्धेष्टकाः कार्या इत्यर्थः । ता अन्तयोरिति । ता अर्धेष्टका दक्षिणोत्तरायतः । अन्तयोः पूर्वापरयोः । इष्टका अष्टावष्टावुपधाय शेषमग्निं बृहती- भिरित्यादि तुल्यम् । अर्धेष्टकाभिरिति । पार्श्वयोरुपहितप्रउगार्धयोर्द्वादशेष्टकाः । मध्य- भूतचतुरस्रपूर्वापरान्तयोः षोडशार्धेष्टकाः । मध्ये षट्त्रिंशच्छतं बृहत्यः प्रागायताः । एवं चतुःषष्टिशतमिष्टकाः । षट्त्रिंशन्न्यूना भवन्ति । श्रोण्यंसेषु नव नव बृहतीः चतुरस्रकृता उद्धृत्य अष्टादशाष्टादशार्ध्या निधेयाः । एवं द्विशतः प्रस्तारः । द्वितीय प्रस्तारे चत्वारि करणानि । प्रउगार्धानामेकं करणम् । तस्य तिर्यङ्मानी सपञ्चतिलचतुर्दशाङ्गुला । साष्टतिलसप्ततिशताङ्गुला कर्णरूपा बाह्यपार्श्वमानी । सद्वा- विंशतितिला नवषष्टिशताङ्गुला अभ्यन्तरऋजुपार्श्वमानी । अनेन षडिष्टकाः । दीर्घचतुरस्राणां द्वितीयम् । तस्य प्रउगार्धतिर्यङ्मान्येव तिर्यङ्मानी । तस्यैव अभ्यन्तर- पार्श्वमान्येव पार्श्वमानी । अनेनापि षडिष्टिकाः । बृहतीनां तृतीयम् । सनवतिलाष्ट- विंशत्यङ्गुला पार्श्वमानो । ससप्ततिलैकविंशत्यङ्गुला तिर्यङ्मानी । अनेन शत- मिष्टकाः । अर्धेष्टकानां चतुर्थम् । सार्धचतुस्तिलचतुर्दशाङ्गुला तिर्यङ्मानी । सप्त- तिलैकविंशत्यङ्गुला पार्श्वमानी । अनेन करणेन अष्टाशीतिरिष्टकाः ।
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF ध्यायः ] बौधायनीयं १४९ उपधाने पूर्वस्मिन् अनीके पार्श्वयोर्द्वे प्रत्यगग्रे बाह्यकर्णपार्श्वप्रउगार्धे। तयोरभ्यन्तरतः प्रागायते द्वे द्वे दीर्घचतुरस्रे। तासां पश्चात् पूर्ववद् द्वे प्रउगार्धे। तयोरन्तरत एकैका दीर्घचतुरस्रा। तयोर्युगलयोः पश्चाद् द्वे प्रत्यगग्रे प्रउगार्धे। एवं द्वादशेष्टकाः। मध्यचतुरश्रस्य पूर्वापरयोरनीकयोरुदगायता अष्टावष्टावर्धेष्टकाः। तयोरन्तरत अष्टाभिरष्टाभिः प्रागायताभिः बृहतीभिरुदीच्यः सप्तदश रीतयः। तत्र श्रोण्यंसेषु बृहतीनां नवचतुष्कमुद्धृत्य द्वा सप्ततिरर्ध्या निधेयाः। एवं द्विशतः प्रस्तारः। अत्र कल्पोक्तो विधिरनुसन्धातव्यः। तत्रैवमुक्तम्। तस्य मात्रा यदि ग्रीवदध्नं पुरस्तान्नाभिदध्नं पश्चात्। यदि नाभिदध्नं पुरस्ताज्जानुदध्नं पश्चात्। यदि जानुदध्नं पुरस्ताद् गुल्फदध्नं पश्चात्। यदि गुल्फदध्नं पुरस्तात् समं भूमेः पश्चात्। स एष श्मशानचित् पितृलोककामस्येति (बौ० श्रौ० सू० १७।३० पृ० ३०९)। हस्तिपृष्ठवत् चिन्वीतेति तस्यार्थः॥ १२६॥ ऊर्ध्वप्रमाणमग्नेः पञ्चमेन वर्धयेत्। तत्सर्वं त्रेधा विभज्य द्वयोर्भागयोश्चतुर्थेन नवमेन वा चतुर्दशेनवेष्टकाः कारयेत्। ताभिश्चतस्रो वा नव वा चतुर्दश वा चितोरुपधाय शेषमवाञ्च- मदणयापच्छिन्द्यादर्धमुद्धरेत्॥ १२७॥ सर्वचयनापेक्षया श्मशानचयनोर्ध्वप्रमाणे विशेषोऽस्ति। तत्करणी- भूतेष्टकाकरणाद्युपायप्रकारमाह- ऊर्ध्वप्रमाणमिति। अग्नेर्जानुदध्नस्य नाभिदध्नस्य ग्रीवदध्नस्योर्ध्वप्रमाणं जानुप्रमाणं नाभिप्रमाणं ग्रीवप्रमाणं वा पञ्चमेनैकोर्ध्वप्रमाणेनेष्टकाद्वयोर्ध्वप्रमाणेने वा वर्धयेद् योजयेत्। अयमर्थः-प्रकृताग्न्यूर्ध्वप्रमाणं पञ्चधा विभज्य तादृशमेकं भागं योजयेत्। तत्सर्वमिति। तत्सर्वं भागषट्कं त्रेधा विभज्य त्रेधा कृत्वा द्वयोर्भागयोश्चतुर्थेन चतुर्थभागप्रमाणेन जानुदध्ने, द्वयोर्भागयोः नवमेन नवप्रमाणेने नाभिदध्ने द्वयोर्भागयोश्चतुर्दशेन चतुर्दशप्रमाणेन ग्रीवदध्ने इष्टकाः कारयेत्। अयमर्थः-षष्ठभागसहितं त्रेधा विभज्यैकं निधाया- वशिष्टभागद्वयं चतुर्थे नाभिदध्ने नव जानुदध्ने चतुर्दशधा ग्रीवदध्ने विभज्ये- ष्टकाः कुर्यादिति। ताभिरिति। ताभिरेवं कृतेष्टकाभिश्चतस्रश्चितिः प्रस्तारान् जानुदध्ने उपधाय, नवचितिर्नाभिदध्ने उपधाय, चतुर्दशचितीः ग्रीवदध्ने उपधाय, शेषमवशिष्टं तृतीयेन भागेन पञ्चमं दशमं Nepal Sanskrit University, Balmeeki Campus, Kathmandu
१५० शुल्बसूत्रम् [ तृतीयो- पञ्चदश वा प्रस्तार उपधायाऽवाञ्चं प्रत्यक्प्रवणं अक्ष्णया प्रागुपरितनदेश- मारभ्य प्रत्यगधोदेशपर्यन्तमपच्छिन्द्यात् उद्धरेत् । अपच्छिन्नयोरुपरितनभाग- मुद्धरेत् विसृजेत् ॥ १२७ ॥ तदेवाह—ऊर्ध्वेति । उच्छ्रायप्रमाणमग्नेः श्मशानचितः । ऊर्ध्वप्रमाणां रज्जुं मीत्वा पञ्चधा संभज्य षष्ठं भागं प्रक्षिपेत् । श्मशानचितो द्विपाहस्रत्रिपाहस्रावपि भवतः । यदि ग्रीवदघ्नमित्यादि ( बौ० श्रौ० सू० १७।३० पृः ३०९ ) दर्शनात् । साहस्र एकष्टकोच्छ्रायप्रमाणम् । द्विपाहस्र इष्टकाद्वयोच्छ्रायप्रमाणम् । त्रिपाहस्र इष्टकात्रयोच्छ्रायप्रमाणम् । तत्सर्वमिति । प्रक्षिप्तेन सह त्रेधा संभुज्यैकभवशिष्य शिष्टयोश्चतुर्थेन भागेनोर्ध्वप्रमाणभूतेन पञ्चमीं, नवमेन दशमीं, चतुर्दशेन पञ्चदशीञ्च कारयेत् । वा शब्दश्च शब्दार्थे । उत्तरस्मिन्नपि वाक्ये तथा । ताभिरिति । ताभिश्चतुर्थेन नवमेन चतुर्दशेनेत्युक्ताभिश्चतस्रः साहस्त्रे, नव द्विपाहस्रे, चतुर्दश त्रिपाहस्रे चितीः प्रस्तारान् उपधाय शेषं तृतीयं भागमवाञ्चं पश्चात्प्रवणं अक्ष्णयापच्छिन्द्यात् । अर्धं तस्य भागस्योद्धरेत् । एवं प्रक्षेप उद्धृतो भवति । तत्र प्रयोगः । इदमुपधानमार्गेण कचित् प्रस्तार्य पूर्वस्मिन् अन्ते ऊर्ध्वप्रमाणान्ते स्पन्द्यां नियम्य प्रस्तारस्य पश्चिमान्त अधस्तात् स्पन्द्याया इतरान्तं स्पन्द्यायाः पार्श्वे निधाय अनुस्पन्द्यं प्रस्तारं अक्ष्णया अपच्छिन्द्यात् । इष्टकानामेव लक्षणमुक्तम् । उच्छ्रायप्रमाणौ द्वौ दण्डौ प्रस्तारायामप्रमाणयोरधरोत्तरयोरूर्ध्वौ स्थापयित्वा पूर्वस्य दण्डस्य शिरसि पाशं प्रतिमुच्य पश्चिमस्य दण्डस्य अपरमन्तं निधाय पश्चिमदण्डा- भावेऽपि समायां भूम्यां प्रस्तारायामान्तं निधाय तेनेदृशं कृत्वा इष्टकारूपाणि वितर्क्य कारयेत् । गणितनिपुणानामेतत् सुकरम् । इतरेषामशक्यमेव ॥ १२७ ॥ तस्य नित्यो विभागः । यथायोगमिष्टकानां ह्रासवृद्धी ॥ १२८ ॥ एवं कृतेऽपच्छेदे नित्यः यथायोगमिष्टकानां ह्रासवृद्धी ! अयमर्थः—प्राक् कृताभिरिष्टकाभिश्चतुरो नव चतुर्दश वा प्रस्तारा- नुपधायाऽवशिष्टतृतीयभागपरिमितां तदुपरि निक्षिप्य प्राक् उपरितनदेश- मारभ्य प्रत्यगधोदेशपर्यन्तं स्पन्द्यां नियम्य प्राक्प्रवणमक्ष्णयाऽपच्छिन्नं भागमुपरितनमुद्धरेत् । प्रस्तारान्तरेष्टकापेक्षया पञ्चम-दश-पञ्चदशप्रस्तारेष्टकाकरणे विशेष- माह—यथायोगमिति । यथायोगं यथासंभवमिष्टकानां ह्रासः, निम्नता प्रत्यग्देशे, उच्छ्रयो वृद्धिः प्राग्देशे यथा भवति तथा कुर्यादित्यर्थः ॥ १२८ ॥