गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)
Gandharva Tantra with Hindi Commentary
शिव-पार्वती संवाद द्वारा
चतुर्दशः पटलः । १४३ कनिष्ठानमिकायुग्मं परस्परयुतं कुरु ॥ ३१ ॥ धेनुमुद्रेयमाख्याता अमृतीकरणे प्रिये । अङ्गमन्त्रान् न्यसेद् देवि देव्याङ्गे साधकोत्तमः ॥ ३२ ॥ सकलीकरणं नाम मुद्रेयं व्याप्तिरूपिणी । अन्योन्यग्रथिताङ्गुष्ठा प्रसारितपराङ्गुलिः ॥ ३३ ॥ महामुद्रेयमाख्याता परमीकरणे शिवे । ततोऽवगुण्ठयेद् देवीमवगुण्ठनमुद्रया ॥ ३४ ॥ आवाहनं भवेद् देवि दूरादाह्वानमेव च । संस्थापनं भवेद् देवि निश्चलत्वोपपादकम् ॥ ३५ ॥ नैकट्यावस्थितित्वं च संनिधानमितीरितम् । अनन्यचित्ततया(च्छा?त्त्वा)संनिरोधनमुच्यते ॥ ३६ ॥ संपूर्णावस्थितेर्या(च्छा?त्त्वा)सकलीकरणं प्रिये । अयोग्यदृष्ट्यविषयपा(दो?द)नमवगुण्ठनम् ॥ ३७ ॥ आनन्दपूर्णाव(स्थिति?स्थ)त्वममृतीकरणं शिवे । सर्वापराधजातानां सहिष्णुत्वप्रकाशकम् ॥ ३८ ॥ परमीकरणं नाम संप्रार्थनमिहोच्यते । संमुखमुद्रया देवीं संमुखं प्रार्थयेत् ततः ॥ ३६ ॥ मुष्टिद्वयस्थिताङ्गुष्ठौ संमुखौ च परस्परम् । संश्लिष्टावुच्छ्रितौ कुर्या[च्छ्रेयः?त्सेयं]संमुखमुद्रिका ॥४०॥ मूलविद्यां समुच्चार्य महात्रिपुरसुन्दरी । श्रीपादुकां ततः पश्चात् पूजयामीति भक्तितः ॥ ४१ ॥ १ 'यता पा' क पाठ ।
१४४ गन्धर्वतन्त्रे । देवीपादाम्बुजद्वन्द्वे पुष्पाञ्जलित्रयं दिशेत् । तथैव^१ तर्पयाम्यन्ते मुद्रया तर्पयेत् त्रिधा ॥ ४२ ॥ प्रार्थनमुद्रया पश्चादभ्यर्थयेदनेन तु । प्रसादसंमुखे देवि प्रसन्ना भव सुन्दरि ॥ ४३ ॥ पूजाभागं गृहाणेमं मामकं भक्तवत्सले । अहं यद्यपि देवेशि दुर्बलोऽप्यल्पसाधनः ॥ ४४ ॥ भक्त्या करोमि पूजां ते कृपयानुगृहाण माम् । प्रसृताङ्गुलिकौ हस्तौ मिथःश्लिष्टौ च संमुखौ ॥ ४५ ॥ कार्यौ च हृदये सेयं मुद्रा प्रार्थनसंज्ञिका । संदर्शयेत् स्वस्वबीजपूर्वं मु(द्रां त?द्रास्त)तो नव ॥ ४६ ॥ संक्षोभद्रावणाकर्षवश्योन्मादमहाङ्कुशाः । खेचरीबीजयोन्याख्या नव मुद्रास्ततः क्रमात् ॥ ४७ ॥ एता मुद्रा महेशानि ब[न्ध?न्धू]ककुङ्कुमप्रभाः । खखमुद्रांकराः सर्वाः श्रीविद्यासंमुखी(:)स्मरेत् ॥ ४८॥ अथैवं परमेशान्या उपचारान् निवेदयेत् । भक्त्यैवैते कृता देवि साधकं देवसंनिधिम् ॥ ४६ ॥ चारयन्ति यतस्तस्मादुच्यन्ते चोपचारकाः । समीपे चारणाद्वापि[कला?बालि]कान्ते तथोदिताः ॥५०॥ नमोन्तमासनं दद्यात् स्वागतं दर्शनं भवेत् । नमोन्तं पाद्योः पाद्यमर्घ्य [शिवो?नमो]न्तमेव च ॥ ५१ ॥ स्वधेत्याचमनं [प्राज्ञि?प्रोक्तं] मधुपर्कस्तथैव च । १ 'द्रा' क पाठ ।
चतुर्दशः पटलः । १४५ तेनैव मनुनाचामं नमोन्तं स्नानमेव च ॥ ५२ ॥ नमोन्ते वाससी प्रोक्ते तथाङ्गाभरणानि च । नमोन्तमर्पयेत्(कुन्दं?गन्धं)पुष्पं चै¹ वौषडन्तकम् ॥ ५३ ॥ पुष्पं समर्पयेद् देव्यै मुद्रया ज्ञानसंज्ञया । अङ्गुष्ठतर्जनीयोगाज् ज्ञानमुद्रेयमीरिता ॥ ५४ ॥ नमोन्तं च तथा धूपं दीपं² मालां तथैव च । नैवेद्यं च ततो दद्याद्यथोक्तं वै चतुर्विधम् ॥ ५५ ॥ पानार्थं मधुरं वारि दद्यादाचमनं पुनः । कर्पूरसहितं देव्यै ताम्बूलं च निवेदयेत् ॥ ५६ ॥ तर्पणानि पुनर्दद्यात् त्रिपुरात्तत्वमुद्रया । अङ्गुष्ठानामिकायोगात्³ तत्त्वमुद्रेयमीरिता ॥ ५७ ॥ अङ्गुष्ठं शिवमित्याहुरनामा शक्तिरुच्यते । तर्पणं तु तयोर्गादमृतैर्वामपाणिना ॥ ५८ ॥ योनिमुद्रां प्रदर्श्याथ मुद्राः संदर्शयेत् क्रमात् । स्तुत्वा प्रणम्य विधिवज्जपेद्विद्यामनन्यधीः ॥ ५९ ॥ जपान्ते जुहुयादग्निं होमान्ते बलिमुत्सृजेत् । बलिदानावसाने तु निवेद्यानि निवेदयेत् ॥ ६० ॥ दशाङ्गाद्यैस्ततो धूपैः पुनर्देवीं प्रधूपयेत् । दीपमालाः प्रदर्श्याथ पादाङ्गललाटकावधि ॥ ६१ ॥ वीरेश्वराय वौषट् चै सिन्दूरं दापयेदथ । अङ्गरागेषु सिन्दूरं पानेषु मदिरां तथा ॥ ६२ ॥ १ 'च नास्ति' क पाठ । २ 'पमा' क पाठ । ३ 'ग' क पाठ । ४ 'पडिति' क पाठ ।
१४६ गन्धर्वतन्त्रे । वस्त्रेषु रक्तकौशेयं त्रिपुराप्रीतिदायकम् । नेत्राञ्जनं निवेद्याथ दर्शयेद् दर्पणं तथा ॥ ६३ ॥ मूर्ध्नि च्छत्रं निधायाथ वीजयेद्रक्तचामरैः । सितैर्वा परमेशानीं नतु कृष्णैः कदाचन ॥ ६४ ॥ वादयेच्छङ्खघण्टे च पुनःपुनः प्रधूपयेत् । ततः संतोषयेद् देवीं गीतवादित्रनिःस्वनैः ॥ ६५ ॥ वाद्यैर्नानाविधैर्देवि क्रीडाकौतुकमङ्गलैः । नटनर्तकसङ्घैश्च वेश्याभिरपि पार्वति ॥ आत्मना सर्वभावेन निवेद्य तन्मयो भवेत् ॥ ६६ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे बहिर्यागविधिनिरूपणं चतुर्दशः पटलः ॥ १४ ॥ १ 'षेय' क. पाठः । २ 'यञ्छ्र' क. पाठः । ३ 'है' क. पाठः ।
पञ्चदशः पटलः। ──────── 0 ──────── श्रीदेव्युवाच उपचारान् कथं देव फलं तेषां च कीदृशम् । यच्च प्रियतमं देव्यास्तत् सर्वं वद शंकर ॥ १ ॥ ईश्वर उवाच उपचारान् प्रवक्ष्यामि शृणु षोडश पार्वति । यैः साक्षात्¹ तुष्यते देवी विधानैर्विहितैर्वि[दुःभुः] ॥ २ ॥ सौवर्णं राजतं वस्त्रं तथा रत्नविनिर्मितम् । आसनं प्रथमं दद्यात् पौष्पं दारवमेव वा ॥ ३ ॥ न पत्रमासनं दद्यात् कदाचिदिह पूजने । यथोक्तविधिना देव्यै रक्तकम्बलमेव वा ॥ ४ ॥ सुमेरुपादपीठान्ते पद्मकल्पित आसने³ । भोगमोक्षप्रदे मातस्तिष्ठस्व परमेश्वरि ॥ ५ ॥ अनेनैवासनं देव्यै यो दद्याद्विहितं शिवे । भुक्तिमुक्ती करे तस्य सर्वत्र स्थानवान् भवेत् ॥ ६ ॥ पा(द्या?दा)⁵र्थमुदकं पाद्यं चन्दनागुरुसंयुतम् । सुशीतलं❄मया देवि सुखाय तव पादयोः ॥ ७ ॥ तत्तैजसेन पात्रेण शङ्खेनाथ प्रदापयेत् । धर्मार्थकाममोक्षाणां संस्थानं पाद्यमिष्यते ॥ ८ ॥ १ 'स्यात्' ख पाठ । २ 'रिडिनै' क पाठ । ३ 'स्व' क पाठ । ४ 'तमासनम्' ख पाठ । ५ 'द' क पाठ । ❄ निवेदितमितिशेष ।
१४८ गन्धर्वतन्त्रे । पाद्यमन्त्रो मया प्रोक्त(म?स्त्व)नेनैव निवेदयेत् । अर्घ्येण लभते कामानर्घ्येण लभते धनम् ॥ ६ ॥ पुत्रायुःसुखमोक्षा(शि?दि) ढानाढ(र्घ?र्घ्य)स्य वै लभेत् । पूर्वसंस्थापितेनैव शङ्खेन विधिना स्वयम् ॥ १० ॥ श्वेतसर्षपमुद्गाभ्यां तिलक्षीरैस्तथा यवैः । रक्तचन्दनपु(ष्पे च ?ष्पैश्च) त्रिपुरायै महेश्वरि ॥ ११ ॥ निधाय पुरतो दद्यादर्घ्यमन्त्रेण साधकः । अर्घ्यमर्घ्यमिदं देवि मया भक्त्या निवेदितम् ॥ १२ ॥ सजलं शङ्खपात्रस्थं गृहीत्वा मूर्ध्नि योजय । उदकं दीयते य[स्तु?त्तु] सगन्धं फेनवज्र्जितम् ॥ १३ ॥ आचमना(द्यं?र्थं)देवाय तदाचमनमुच्यते । कर्पूरवासितैर्वापि कालागुरुप्रधूपितैः ॥ १४ ॥ यथा तथा सगन्धैर्वा प्रसत्रैः [क?फे]नवर्जितैः । दद्यादाचमनीयं तु सगन्धसलिलैः शुभैः ॥ १५ ॥ तैजसेन तु पात्रेण शङ्खेनाप्यथवा प्रिये । आयुर्बलयशोवृद्धिं प्रदायाचमनीयकम् ॥ १६ ॥ लभते साधको नित्यं[स?का]मांश्चैव यथेप्सितान् । सगन्धाचमनं देवि मया भक्त्या निवेदितम् ॥ १७ ॥ आयुर्बलयशोवृद्धयै तदिदं प्रतिगृह्यताम् । दधि सर्पिर्जलं क्षौद्रं सितामिश्रापि[पञ्चभिः?सेत्तुभिः] १८ प्रोच्यते मधुपर्कस्तु देवीप्रीतिप्रदायक । १ 'तम्' क पाठ । २ 'के तु' क पाठ
पञ्चदशः पटलः। १४६ जलं च नारिकेलोत्थं सिता दधि घृतं समम् ॥ १९ ॥ सर्वेषामधिकं क्षौद्रं मधुपर्के प्रयोजयेत् । तद्दद्यात् कांस्यपात्रेण रोप्यपात्रेण वा पुनः ॥ २० ॥ ज्योतिष्टोमाश्वमेधादौ यत् पुण्यं लभते नरः । सर्वं तत् परमेशानि मधुपर्के प्रतिष्ठितम् ॥ २१ ॥ आज्यं दधि मधुन्मिश्रं जलं चापि सशर्करम् । मधुपर्कं रोप्यपात्रे गृहीत्वा भुङ्क्ष्व सुन्दरि ॥ २२ ॥ मधुपर्कं विना पूजा साधकक्षयकारिणी । मधुपर्क्रमदृष्ट्वैव साधकं भक्षयेत् परा ॥ २३ ॥ कर्पूरागुरुकस्तूरीरोचनाकुङ्कुमं तथा । नारिकेलजलं क्षौद्रं तथेक्षुरसमुत्तमम् ॥ २४ ॥ सितां च पञ्चगव्यं च सर्वौषधिगणं तथा । प्रान्ते तोयमिति प्रोक्तं स्नानीयं त्रिपुराप्रियम् ॥ २५ ॥ भृङ्गारेणाथवा शङ्खैस्त्रिपुरायै निवेदयेत् । साधकः स्नानदानात्तु हयमेधफलं लभेत् ॥ २६ ॥ दीर्घायुः कामभोगी च महापातकहा भवेत् । प्रत्येकं सर्ववस्तूनां सहस्रपलमानतः ॥ २७ ॥ महास्नानं भवेद्देवि मध्यं पलशतेन तु । कनिष्ठं वै भवेत् स्नानं प(लानां ? लैः) दशभिरीरितम् ॥ २८ ॥ मिश्रीकृतैस्तु सर्वेषां स्नानमानं न विद्यते । स्नपयेत् प्रथमं देवीं त्रिपादिति ऋचा पुनः ॥ २६ ॥ 'रौप्य' क पाठ । २ तां' क पाठः । ३ 'स्ना' क पाठः ।
१५७ गन्धर्वतन्त्रे । मूलेनापि ततः पश्चादमुना च निवेदयेत् । त्वमापः पृथिवी चैव ज्योति(स्तं?स्त्वं)वायुरेव च ॥ ३०॥ केवलं भक्तिभावेन देवि त्वां स्नपयाम्यहम् । स्नपयित्वा महादेवीं वस्त्र यदि न दापयेत् ॥ ३१ ॥ स निर्लज्जः परः पापः प्रपते(द्?द्वृ)जिनार्णवे । वस्त्राभावे ततो दद्याद्रक्तपद्मं तथा ज(वाः?पाः) ॥ ३२॥ स्नपयित्वा महादेवीं वस्त्रयुग्मं प्रदापयेत् । वस्त्रेण ह्रियते लज्जा वस्त्रेण ह्रियते त्वघम् ॥ ३३ ॥ सर्वभूषणवर्गेषु वस्त्रमुत्तममुच्यते । देवीप्रीतिकरं वस्त्रं चतुर्वर्गप्रदं शुभम् ॥ ३४ ॥ निर्दशं मलिनं जीर्णं छिन्नं गात्रावलिङ्गितम् । परकीयं ह्या²(थु?खु)दष्टं सूचीविद्धं तथोषितम् ॥ ३५ ॥ सत्पताका(रि?वि¹)तानादौ सूचीविद्धं प्रयोजयेत् । केशान्वितमधौतं च श्लेष्ममूत्रादिदूषितम् ॥ ३६ ॥ वह्निदग्धं कुचैलं च महादेव्यै न दापयेत् । चित्रवस्त्रं दुकूलं च देवीप्रीतिकरं परम् ॥ ३७ ॥ सर्वसिद्धिप्रदं वस्त्रं वह्निष्टोमफलप्रदम् । विद्यातन्तुसमायुक्ते मन्त्रवर्णसमन्विते ॥ ३८ ॥ विद्याविद्ये ज(वा?पा)शोणवाससी तव सुन्दरि । उद्यदादित्यसंकाशं वासोयुग्मं सुनिर्मलम् ॥ ३६ ॥ नूतनं गात्रसुखदं परिधत्स्व सुरेश्वरि ।
१ 'वी' क पाठ । २ 'स्त्रा' क पाठ ।
पञ्चदशः पटलः । १५१ किरीतं च शिरोरत्नं कुण्डलं च ललाटिका ॥ ४० ॥ तालपत्रं च हारेश्च ग्रैवेयकमथोर्मिका । सूत्रावली केशपाशे ता(ड?ट)ङ्कवलया(न्ददौ?ङ्गदाः) ॥४१॥ पादाङ्गु(री?ली)यकं सूत्रं नूपुरं क्षुद्रघण्टिकाः । अलङ्काराः समाख्याता अलङ्कारेषु षोडश ॥ ४२ ॥ चतुर्वर्गप्रदं नित्यं भूषणं सर्वसौख्यदम् । तुष्टिपुष्टिकरं देव्यै यथाशक्त्या निवेदयेत् ॥ ४३ ॥ नवरत्नसमायुक्ता द्रुतहाटककल्पिताः । गात्राणि शोभयन्त्येते अलङ्कारास्तु सुन्दरि ॥ ४४ ॥ कामेशि कामरूपे त्वं सर्वकामफलप्रदे । भूषणं गृह्ण चार्वङ्गि मया भक्त्या निवेदितम् ॥ ४५ ॥ चूर्णीकृतो वा घृष्टो वा दाहार्कर्षित एव वा । रसः संमर्दजो वापि प्रागयङ्गोद्भव एव वा ॥ ४६ ॥ गन्धः पञ्चविधः प्रोक्तो देवीप्रीतिप्रदायकः । प्रशस्तगन्धयु[क्ता ? क्त्या] तु गन्धचूर्णानि यानि च ॥ ४७॥ तानि गन्धाह्वयानि स्युः स गन्धः प्रथमः स्मृतः । घृष्टो मलयजो गन्धः [स ? श]बलश्च नमेरुणा ॥ ४८ ॥ अगुरुप्र[भू ? भृ]तिश्चापि यस्य पङ्कः प्रदीयते । अगुरुर्देवदार्व्वादि यो दग्ध्वा गृह्यते रसः ॥ ४९ ॥ स दाहार्कर्षितो गन्धस्तृतीयः परिकीर्तितः । सगन्धगन्धिनीबिल्वतिलकं शतपत्रिकाम् ॥ ५० ॥
१ 'र'क पाठ । २ 'नित्य' क पाठ । ३ 'समर्दज ' क पाठ । ४ 'रुदै' क पाठः ।
१५२ गन्धर्वतन्त्रे । निष्पीड्य गृह्यते योऽसौ संमर्द्जः स उच्यते । मृगनाभिसमुद्भूतस्तत्कोशोद्भव एव वा ॥ ५१ ॥ गन्धः प्राणयङ्गजः प्रोक्तः पञ्चमस्तु स उच्यते । गन्धस्य विस्तरो भेदो दिङ्मात्रं समुदाहृतम् ॥ ५२ ॥ सर्वेषु गन्धजातेषु प्रशस्तो मलयोद्भवः । तस्मात् सर्वप्रयत्नेन दद्यान्मलयजं सदा ॥ ५३ ॥ कुङ्कुमागुरुकस्तूरीकर्पूरमलयोद्भवैः । समीकृतैस्तु यो गन्धस्त्रिपुराप्रीतिदायकः ॥ ५४ ॥ कुचन्दनं [शि? सि]तं चैव कालीयकसमन्वितम् । अनुलेपनमुख्यं तु देव्याः प्रीतिकरं परम् ॥ ५५ ॥ अलक्तं नखरागेषु देवीप्रीतिकरं तथा । गन्धेन लभते कामान् गन्धो धर्मप्रदः सदा ॥ ५६ ॥ अ[श्वा? ङ्गा]नां साधको गन्धो मोक्षे चापि प्रतिष्ठितः । शरीरं ते न जानामि चेष्टां [चै? श्चै]व महेश्वरि ॥ ५७ ॥ मया निवेदितान् गन्धान् प्रतिगृह्य विलिप्यताम् । गन्धैः सुतोषिता देवी चतुर्वर्गप्रदा भवेत् ॥ ५८ ॥ अनेनैव महेशानि गन्धान् देव्यै निवेदयेत् । घृततैलादियोगेन स्वर्णादौ दीपवह्निना ॥ ५६ ॥ यदञ्जनं प्रजायेत कृत्वा कर्पूरमिश्रितम् । धर्मार्थकाममोक्षाय त्रिपुरायै निवेदयेत् ॥ ६० ॥ विधवा ना(च्छ? ञ्ज)नं कुर्यान्महामायार्थमद्रिजे । १ ‘पोद्भव’ क पाठ ।
पञ्चदशः पटलः । १५३ न मृत्पात्रे गतं कुर्यात् साधको नेत्ररञ्जनम् ॥ ६१ ॥ न पूजाफलमाप्नोति मृत्पात्रे विहिताञ्(लैः?नैः) । परकीयांस्तथा घ्रातान् स्तेयं कृ(त्या?त्वा)भिमर्दितान् ॥ ६२॥ पुष्पं धूपं च गन्धं च नोपच[रान्? रेत्] तथापरान् । घ्रातान् निवेद्य देवेशि नरो नरकमाप्नुयात् ॥ ६३ ॥ नैव पर्युषितैः पुष्पैः पत्रैश्चापि महेश्वरीम् । पूजयेत् परमेशानि महात्रिपुरसुन्दरीम् ॥ ६४ ॥ सर्वं पर्युषितं वर्ज्यं पत्रं पुष्पं फलं तथा । पद्मानि सितरक्तानि कुमुदान्युत्पलानि च ॥ ६५ ॥ एषां पर्युषिताशङ्का कार्या पञ्चदिनोर्ध्वतः । अन्येषां कुसुमानां च यावद्गन्धविपर्ययः ॥ ६६ ॥ बिल्वपत्रे महेशानि नास्ति पर्युषितात्मता । बकुलं केसरं वज्रं माल्यं कुन्दं च शाल्मलम् ॥ ६७ ॥ करवीरं चार्कपुष्पं बन्धूककमले तथा । मालती मल्लिका जाती यूथिका माधवी तथा ॥ ६८ ॥ तगरः कर्णिकारश्च द्रोणश्चोत्पलचम्पकौ । अशोकः कुमुदश्चैव शेफालिकाकदम्बकौ ॥ ६९ ॥ केतकी वनमाला च कुसुम्भर्किंशुकौ तथा । कह्लारबकुले चैव लवङ्गनागकेसरौ ॥ ७० ॥ सर्वेषु पुष्पजातेषु त्रिपुरायाः सदैव हि । एतान्येव प्रियाणि स्युर्न पत्रैरर्चयेच्छिवाम् ॥ ७१ ॥ पत्रेषु बिल्वपत्रं च तथा मदनपल्लवम् । १ 'र्ध्वत.' क पाठ । २ 'ला' ख पाठ ।
१५४ गन्धर्वतन्त्रे । दूर्वाङ्कुरं तथा प्रो(क्ता?क्तं) नान्यत् पत्रं प्रयोजयेत् ॥ ७२॥ मल्लिका मालती कुन्दो द्रोणश्चाथ सिताम्बुजम् । शुक्लपक्षे महादेवि त्रिपुरायै निवेदयेत् ॥ ७३ ॥ सर्वेषां पुष्पजातीनां रक्तपद्मं तथा ज(वा?पा) । देवीप्रीतिकरं प्राज्ञे सर्वकामफलप्रदम् ॥ ७४ ॥ रत्नपुष्पं च देवेशि तथा स्वर्णादिनिर्मितम् । रक्तपद्मेन वज्रेण तुलां नायाति कर्हिचित् ॥ ७५ ॥ एतेषां पुष्पजातानां येन केन विनिर्मिताम् । मालां कृत्वा महादेव्यै यत् फलं लभते नरः ॥ ७६ ॥ अपि वक्त्रसहस्रैस्तद्वक्तुं नालं ततः प्रभुः । पुष्पमूले वसेद् ब्रह्मा पुष्पमध्ये तु केशवः ॥ ७७ ॥ पुष्पाग्रेऽहं स्थितो नित्यं सर्वे देवाः स्थिता दले । चराचराश्च सकलाः सदा पुष्पवसाः स्मृताः ॥ ७८ ॥ परं ज्योतिः पुष्पगतं पुष्पेणैव प्रसीदति । भोगमोक्षप्रदं पुष्पं तुष्टिश्रीपुष्टिमोददम् ॥ ७६ ॥ पुष्पैर्देवी प्रसन्ना स्याद् धर्मकामार्थदायिनी । तस्मात् पुष्पैर्यजेद् देवीं नित्यं भक्तियुतो नरः ॥ ८० ॥ ब्रह्मविष्णुशिवादीनां पुष्पमेव सदा प्रियम् । तत्ते मातः प्रयच्छामि पवित्रं प्रतिगृह्यताम् ॥ ८१ ॥ उग्रगन्धमगन्धं च कृमिकेशादिदूषितम् । अशुद्धपात्रपाणिस्थं वासोभिः कुत्सितात्मभिः ॥ ८२ ॥ आनीतं नार्पयेद् देव्यै प्रमादादपि दोषकृत् । १ ‘स्तु’ ख पाठ ।
पञ्चदशः पटलः । १५५ स्ना(त्वा?ता)नीतैः पर्युषितैर्याचितैः कृष्णवर्णकैः ॥ ८३ ॥ स्वयं विका(शि?सि)तर्मुक्तेः स्वयं च पतितैर्भुवि । नार्चयेत् कलिकाभिश्च विना चम्पकपङ्कजैः ॥ ८४ ॥ पुष्पं वा यदिवा पत्रं फलं नेष्टमधोमुखम् । दुःखदं तत् समाख्यातं यथोत्पन्नतथार्पणम् ॥ ८५ ॥ चित्रपूजासु सर्वासु न विरुद्धं न दूषणम् । अधोमुखापर्णं नेष्टं पुष्पाञ्जलिविधिं विना ॥ ८६ ॥ किंचातिबहुनोक्तेन सामान्येनेदमुच्यते । उक्ता(न्मु?नु)कैस्तथा पुष्पैर्जलजैः स्थलजैरपि ॥ ८७ ॥ पत्रैः सर्वैर्यथालाभं भक्तिमान् सततं यजेत् । पुष्पाभावे यजेत् पत्रैः पत्रालाभे च तत्फलैः ॥ ८८ ॥ अक्षतैर्वा जलैर्वापि न पूजां व्यतिलङ्घयेत् । एतेषामप्यलाभे तु मानसीं भक्तिमाश्रयेत् ॥ ८९ ॥ दह्यमानस्य काष्ठादेर्निस्तापो यस्य जायते । नासादिरन्ध्रसुखदः सगन्धोऽतिमनोहरः ॥ ६० ॥ स धूप इति विज्ञेयो देवीप्रीतिप्रदायकः । पत्रं मुस्तं नखं कुष्ठं जटा मांसी च शैलजम् ॥ ६१ ॥ सरलं देवकाष्ठं च जतु सर्जसचन्दनम् । कपिलाघृत-कर्पूर-शर्करागरुमिश्रितम् ॥ ६२ ॥ षोडशाङ्गो महाधूपः षोडशीप्रीतिदायकः । न भूमौ वितरेद् धूपं नासने कलशे नतु ॥ ६३ ॥ यथा तथाधारगतं कृत्वा तं तु निवेदयेत् । १ 'पुत्र' क पाठ ।
१५६ गन्धर्वतन्त्रे । वनस्पतिरसोत्पन्नो गन्धाढ्यो गन्ध उत्तमः ॥ ६४ ॥ आघ्रेयः सर्वदेवानां धूपोऽयं प्रतिगृह्यताम् । अथ दीपं प्रवक्ष्यामि ज्योतिष्टोमफलप्रदम् ॥ ६५ ॥ घृतदीपस्तु प्रथमस्तिलतैलोद्भवस्ततः । सार्षपश्चाधमः प्रोक्तस्तदन्यो निन्दितः स्मृतः ॥ ६६ ॥ पद्मसूत्रभवा चाद्या कार्पाससंभवा परा । दर्भगर्भभवा चापि वर्तिका परिकीर्तिता ॥ ६७ ॥ को[ष?श]जं रोमजं वस्त्रं तूलं पर्युषितं तथा । वर्तिकार्थं न चादद्यात् साधको भूतिमिच्छुकः ॥ ६८ ॥ तैजसं पार्थिवं लौहं दीपपात्रं प्रशस्यते । दीपवृक्षाश्च कर्तव्यास्तैजसाद्याः पृथक् पृथक् ॥ ६६ ॥ वृक्षे दीपः प्रदातव्यो नतु भूमौ कदाचन । कुर्वन्तं पृथिवीतापं यो दीपमुत्सृजेन्नरः ॥ १०० ॥ तामिस्रं नरकं घोरमाप्नोत्येव न संशयः । नेत्राह्लादकरः स्वर्च्चिर्दूरतापविवर्जितः ॥ १०१ ॥ सशिखः शब्दरहितो निर्धूमो नातिह्रस्वकः । दीपवृक्षस्थिते पात्रे शुद्धस्नेहप्रपूरिते ॥ १०२ ॥ दक्षिणावर्तवर्त्या वै चारुदीप्तः प्रदीपकः । उत्तमः प्रोच्यते सोऽत्र त्रिपुराप्रीतिदायकः ॥ १०३ ॥ वृक्षेण वर्जिनो दीपो मध्यमः परिकीर्तितः । विहीनः पात्रतैलाभ्याम[ध्य?ध]मः परिकीर्तितः ॥ १०४ ॥ दीपमाला प्रकर्तव्या नैकदीपः कदाचन ।
- १ क पाठ । २ 'मलिन' क पाठ.।
पञ्चदशः पटलः । १५७ त्रयो दीपाः प्रदातव्याः पञ्च वा परमेश्वरि ॥ १०५ ॥ इतो न्यूनं न दातव्यं त्रिपुरायै कदाचन । नैव दीपः प्रदातव्यो विधूतः श्रीविवृद्धये ॥ १०६ ॥ न मिश्रीकृत्य दद्यात् तु दीपस्नेहान् घृतादिकान् । कृत्वा मिश्रीकृतस्नेहं रौरवं नरकं व्रजेत् ॥ १०७ ॥ नैव निर्वापयेद् दीपं देवार्थमपि कल्पितम् । दीपहर्ता भवे[द्व?द]न्धः का[नो?णो]निर्वापको भवेत् ।१०८। न तेन व्यवहारोऽपि कर्तव्यः साधकोत्तमैः । सूर्याचन्द्रमसोर्ज्योतिर्विद्यु[द?तोऽ]ग्रेस्तथैव च ॥ १०६ ॥ त्वमेव ज्योतिषां ज्योतिर्दीपोऽयं प्रतिगृह्यताम् । दीपं दक्षिणतो देव्याः पुरतो नतु वामतः ॥ ११० ॥ वामतस्तु तथा धूपमग्रे वा नतु दक्षिणे । निवेदयेत् पुरोभागे गन्धं पुष्पं च भूषणम् ॥ १११ ॥ नैवेद्यं दक्षिणे वामे पुरतो वा न पृष्ठतः । गात्रे दातुं च यद्योग्यं यन्त्रेष्वेव निवेदयेत् ॥ ११२ ॥ दद्याद्यथोग्यं पुरतो नैवेद्यं भोजनादिकम् । मदिरां पृष्ठतो दद्यादन्यपानं तु वामतः ॥ ११३ ॥ या विद्या चेह देवेशि श्रीविद्यायामनासवा । फलहीना समाख्याता साभिचाराय कल्पते ॥ ११४ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पूजोपचारतत्फलवर्णनं पञ्चदशः पटलः संपूर्णः ॥ १५ ॥ १_ 'बी' क पाठ ।
षोडशः पटलः ईश्वर उवाच इक्षुरसं समादाय पर्युषितं सुसंस्कृतम् । सहकाररसं तत्र निक्षिपेन्मधुना सह ॥ १ ॥ बादरं जाम्भवं चैव रसं खार्जूरमेव च । नारिकेलोद्भवं तत्र द्राक्षारसमनुत्तमम् ॥ २ ॥ मोहिनीफलजं चूर्णं जातीकोषरजस्तथा । कनकबीजचूर्णं च जातीफलसमुद्भवम् ॥ ३ ॥ त्रिजातं त्रिसुगन्धि च त्रिकटुं त्रिफलान्वितम् । तथान्येषां च द्रव्याणां सुगन्धीनां रजः शिवे ॥ ४ ॥ किंचित् किंचिच्च निक्षिप्य कर्पूरैरधिवासयेत् । स्वर्णे वा राजते पात्रे का(ट?च)पुटेऽथवा प्रिये ॥ ५ ॥ स्थापयित्वा सितां तत्र निक्षिपेत् परमेश्वरि । निक्षिप्य लोहितैर्देवि वस्त्रैराच्छाद्य यत्नतः ॥ ६ ॥ सप्तरात्रोषितं तत्तु जायते ह्यमृतोपमम् । चन्दनागुरुकर्पूरैर्धूपयित्वा निवेदयेत् ॥ ७ ॥ एषा सर्वोत्तमा प्रोक्ता देवीप्रियतमा सदा । मदिरेति समाख्याता परमानन्ददायिनी ॥ ८ ॥ एनां निवेद्य सुन्दर्यै सर्वसिद्धिमुपालभेत् । देवीलोके चिरं स्थित्वा ततो राजा क्षितौ भवेत् ॥ ६ ॥ १ 'श्रा' ख पाठः।
षोडशः पटलः । १५६ तत्रापि चानयाराध्यं कैवल्यं मुक्तिमाप्नुयात् । सविकल्पस्य देवेशि विहितैषा न चान्यथा ॥ १० ॥ निर्विकल्पस्य देवेशि सुरै(र?व)विहितागमे । अमृतं च तदेव स्यान्म(दां?द्यं)चापि तदेव हि ॥ ११ ॥ नापद्यपि द्विजो मद्यं दद्याद् देव्यै कदाचन । मोहाद्यदि ददेन्मद्यं ब्राह्मण्यदेव हीयते ॥ १२ ॥ ब्रह्मघाती स एव स्यात्तस्मान्मद्यं विवर्जयेत् । मद्यमेव पुरासेव्यमासीत् कमललोचने ॥ १३ ॥ पीत्वा मद्यं पुरा शुक्र आत्मानं चापि(विस्मृतः?व्यस्मरत्) । पीत्वा मत्तो निशानाथः पत्नीं तां जगृहे गुरोः ॥ १४ ॥ अतस्तेनापि मुनिना शापो दत्तः सुदारुणः । ब्रह्मा च मुनिभिः सार्धमिदमेव पुरा जगौ ॥ १५ ॥ महादेव्यै द्विजो मद्यं यो दद्याज्ज्ञानविह्वलः । पशुभावे स्थितो यश्च स महापातकी भवेत् ॥ १६ ॥ शेषयोर्विहितं मद्यं निर्विकल्पकयोः पुनः । नाद्यस्य विहितं तेन ब्रह्मघाती भवेच्च सः ॥ १७ ॥ तेनेदं पृथिवीक्षेत्रे वर्ज्यमासीत् सुलोचने । ज्ञानिनां सिद्धिदा चेयममृतत्वप्रदायिनी ॥ १८ ॥ ज्ञानेन संस्कृता चेयं महापातकनाशिनी । ब्रह्महत्या-सुरापान-स्वर्णस्तेयादिपातकान् ॥ १९ ॥ नाशयेत् पूजना(च्छेरि?द्देवि)निर्विकल्पो भवेद्यदि । १ 'क्या' क पाठ ।
३. पटल २१-३०: कुण्डलिनी-जागरण, षट्चक्र-भेदन एवं होम-विधान
१६० गन्धर्वतन्त्रे । निर्विकल्पो यदा मद्यं महादेव्यै निवेदयेत् ॥ २० ॥ अश्वमेधसहस्रस्य अंग्निष्टोमशतस्य च । राजसूयशतस्यापि फलमाप्नोत्यसंशयम् ॥ २१ ॥ अणिमाद्यष्टसिद्धीनां नायको जायतेऽचिरात् । सविकल्पो यदा देवि पापभाङ् नात्र संशयः ॥ २२ ॥ सुरे चानघधामासि स्वा(धा?हा)त्वं च दिवौकसाम् । स्वधा त्वं पितृमुख्यानां मनुष्याणां च सिद्धिदा ॥ २३ ॥ क्षीरा(ब्धि)मथने पूर्वमुद्धृता देवसंसदि । आनन्दभैरवी सार्धमानन्दभैरवेण तु ॥ २४ ॥ त्वयि प्र[सन्न? सादं]यातायां सिद्धिरेव न संशयः । विमुखी चेत्तदा तस्य कुलज्ञानविनाशिनी ॥ २५ ॥ प्रसन्ना खलु देवानां गन्धर्वाणां तथैव च । विमुखी त्वं च दैत्यानामसकृत् सर्वनाशिनी ॥ २६ ॥ त्वां(म?द्)द्यां व[द?र]दे देव्यै मयि चित्स्फुरणं कुरु । एवं स्तुत्वा सुरां देव्यै पूर्वोक्तेन च संस्कृताम् ॥ २७ ॥ त्रिपुरायै निवेद्यैव निग्रहानुग्रहक्षमः । चर्व्यं चोष्यं तथा लेह्यं पेयं चेति चतुर्विधम् ॥ २८ ॥ सर्वयज्ञमयं नित्यं नैवेद्यं सर्वतुष्टिदम् । ज्ञानदं कामदं पुण्यं बलारोग्यमयं तथा ॥ २९ ॥ नैवेद्येन लभेत् स्वर्गं नैवेद्येनामृतं भवेत् । धर्मार्थकाममोक्षाश्चँ नैवेद्येषु प्रतिष्ठिताँः ॥ ३० ॥ १ 'वह्निष्टो' क. पाठ । २ 'खने' क पाठ. । ३ 'रादूढ्यै' क पाठ । ४ 'तश्च' क पाठ' । ५ 'त 'क पाठ ।
षोडशः पटलः । १६१ तस्मात् सर्वप्रयत्नेन नैवेद्यं खलु दापयेत् । . मनसापि महादेव्यै नैवेद्यं दीयते यदि ॥ ३१ ॥ यो नरो भक्तिसंयुक्तो दीर्घायुः स सुखी भवेत् । हविः सुसंस्कृतं दिव्यमाज्ययुक्तं सशर्करम् ॥ ३२ ॥ शुद्धस्फटिकसंकाशं चन्द्रबिम्बसमप्रभम् । लसत्त(न्तु?ण्डु)लजं देवि चारुगन्धसहं मृदु ॥ ३३ ॥ सुगन्धिशा(द्वि?लि)जं चा(त्वं?रु) मधुमांससमन्वितम् । अपूपपायसं क्षीरमन्नं देव्याः प्रशस्यते ॥ ३४ ॥ बलिदानेषु विहिता य एव मृगपक्षिणः । तेषां मांसानि मत्स्यानि देयानि विविधानि च ॥ ३५ ॥ सर्वं सुरभिगन्धाढ्यं व्यञ्जनं सुमनोहरम् । यथा यथा भवेद्धद्यं यत्ने(द्रव्यं?देयं)तथा तथा ॥ ३६ ॥ संस्कृत्य वेशवाराद्यैर्महादेव्यै निवेदयेत् । यत्पूतिगन्धसंयुक्तं दग्धं भोगबहिष्कृतम् ॥ ३७ ॥ तदुक्तमपि(यो?न)दद्यात् त्रिपुरायै कदाचन । कालशाकं कलायं च पालकं चापि पोतिकाम् ॥ ३८ ॥ सार्षपं मूलकं चापि वास्तूकं च कलम्बिकाम् । शाकानेतान् महादेव्यै यो दद्याद्भक्तिसंयुतः ॥ ३६ ॥ सोऽतुलां श्रियमाप्नोति देवीलोके महीयते । माषमु(ग्द?द्र)मसूराद्यैर्व्यञ्जनं लवणान्वितम् ॥ ४० ॥ हिङ्गुजीरमरीचाद्यैरार्द्रकैश्चापि संस्कृतम् । १ 'यत्नात्' क पाठः । २ 'दुग्ध' क पाठः ।
१६२ गन्धर्वतन्त्रे । तिन्तिडीखण्डसंयुक्तं भक्तियुक्तो निवेद्य च ॥ ४१ ॥ ज्योतिष्टोमफलं लब्ध्वा देवीलोकमवाप्नुयात् । नानाविधानि पेयानि व्यञ्जनानि बहून्यपि ॥ ४२ ॥ क्षीरादीन्यथ गव्यानि माहिषाणि च सर्वशः आमिक्षां परमेशान्यै दधि चापि सशर्करम् ॥ ४३ ॥ पायसं शर्करापूपं कपिलाघृतसंयुतम् । पक्वान्नमतिमिष्टं च सिताकर्पूरसाधितम् ॥ ४४ ॥ शर्करालोलितान् कृत्वा वटकान् कुङ्कुमारुणान् । सशर्करं पक्वदुग्धं कदल्यादिफलान्वितम् ॥ ४५ ॥ सितोपदेशं मद्यं च स्वर्णपात्रे निवेदयेत् । अथवा रौप्यपात्रे च ताम्रपात्रेऽथवा पुनः ॥ ४६ ॥ अभावात् पद्मपत्रे वा अन्यथा नरकं व्रजेत् । आममन्नं महादेव्यै नैव दद्यात् कदाचन ॥ ४७ ॥ मन्त्रकालाविशुद्धानि नैवेद्यानि कदाचन देवेभ्यो नोपयुञ्जीत[गुरोर्वामे?पुरो वा स्व]हितेरतः॥ ४८॥ सितासंमिश्रितां दत्त्वा सुरां मधुसमन्विताम् । देवीलोके चिरं स्थित्वा कैवल्यं मुक्तिमाप्नुयात् ॥ ४६॥ आमिक्षया समं दत्त्वा सलिलं नारिकेलजम् । क्षीरा[द्य?ज्य]मधुकर्पूरसितादधिसमन्वितम् ॥ ५० ॥ त्रिजातत्रिकटूनां च लवङ्गेन द्वयोरपि । तथान्येषां च वस्तूनां चूर्णैर्गन्धवतीं शिवे ॥ ५१ ॥ साधयित्वा प्रकारेण वासि(त?तां) गन्धरेणुभिः ।