भारतकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

२४८ गन्धर्वतन्त्रे । दिव्यैर्द्रव्यैस्तु संपूर्णं वासोयुग्मेन वेष्टितम् ॥ ९ ॥ नूतनं नेत्ररम्यं च पुष्पमालाद्यलंकृतम् । दधिचन्दनसंलिप्तं द्वि(प्ता?प्त्वा)न्तर्नवरत्नकम् ॥ १० ॥ मदयन्तीं सहदेवीं दूर्वां भस्म तथैव च । मृत्तिकाः सप्त विन्यस्तं पल्लवैः पञ्चभिर्युतम् ॥ ११ ॥ परितो वेष्टितं सूत्रै रक्तैश्चातिमनोहरैः । यवानास्तीर्य पुष्पाणि[स?सु]रद्रुमधिया गुरुः ॥ १२ ॥ मूलमन्त्रेण संस्थाप्य यजेदाधारपूर्वकम् । वह्निमण्डलरूपं तं कलाभिः सह पूजयेत् ॥ १३ ॥ तथा सूर्यमयं कुम्भं कलाभिस्तत्र पूजयेत् । जलं सोममयं तद्वत् कलाभिश्च समर्च्चयेत् ॥ १४ ॥ तेजस्त्रयमिदं प्रोक्तं ज्वलत्तदात्मकं स्मृतम् । पुष्पैर्(आल?अलि)मापूर्य तस्मिन्नेव प्रदापयेत् ॥ १५ ॥ पश्चिमोत्तररुद्रेन्द्रे पुष्पपातः शुभोऽशुभे । अष्टोत्तरशतं शान्त्यै जुहुयादस्त्रमन्त्रतः ॥ १६ ॥ अथ प्रागुक्तविधिना यथाक्रममनुत्तमम् । कृत्वा संपूज्य विधिवदिष्ट्वा देवधिया गुरुः ॥ १७ ॥ अङ्गावृतीः समभ्यर्च्य श्रपयित्वा चरुं ततः । भागमेकं महादेव्यै शेषमग्नौ हुनेत्ततः ॥ १८ ॥ अष्टोत्तरशतं साज्यं मधुरत्रितयान्वितम् । समिद्धेऽग्नौ महादेवीं ध्यात्वा सम्यक् प्रधानतः ॥ १६ ॥ योऽनर्चिषि जुहोत्यग्नावसमिद्धे च मानवः ।

सप्तविंशः पटलः । २४६ स मन्दाग्निः सामयो वा अल्पायुश्चोपजायते ॥ २० ॥ तस्मात् समिद्धे होतव्यं नासमिद्धे कथंचन । आरोग्यमिच्छतायुश्च श्रियमात्यन्तिकीं तथा ॥ २१ ॥ तथाबुधः सधूमे च जुहुयाद्यो हुताशने । यजमानो भवेदन्धः सपुत्रश्च विनश्यति ॥ २२ ॥ अ(थ?प्र)दीप्ते न होतव्यं मध्यमे नाप्यनेधिते । प्रदीप्ते लेलिहानेऽग्नौ होतव्यं कर्मसिद्धये ॥ २३ ॥ हुत्वा सा(ज्ञा?ङ्गां) महेशानीं समाप्य तदनन्तरम् । कर्म पूर्वोक्तमा(चा?च)र्य्य तरुणोल्लासवान् गुरुः ॥ २४ ॥ शिष्यमाहूय यत्नेन वाससाच्छाद्य तन्मुखम् । विशे(ष्या?षा)र्घ्योदकेनैव तमवोक्ष्य विधानतः ॥ २५ ॥ कारुण्या(विनये?म्बुनिधे)देवि सर्वसंपत्तिसंश्रये । शरण्ये वत्स(लो?ले)मातः कृपामस्मिन् शिशौ कुरु ॥ २६ ॥ (अशि?आण)वप्रमुखैः पाशैः पाशितस्य सुरेश्वरि । दीनस्यास्य दयाधारे कुरु कारुण्यमीश्वरि ॥ २७ ॥ ऐहिकामुष्मिकैर्भोगैरभिसं(बु?ब)द्ध्यतामसौ । स्वभक्तिः सकला चास्मै दीयतां निष्कलाश्रये ॥ २८ ॥ एवं प्रार्थ्य महादेवीमु(द्रा?द्वा)स्य हृदयाम्बुजे । शिष्याय श्रावयेद् दिव्यः शिवोऽहमिति भावयन् ॥ २९ ॥ अन्तस्तमोपहं दिव्यं सिद्धान्तं श्रावयेद् गुरुः । (यत् ? षट्)त्रिंशत्तत्त्वभ(वि?रि)तं विश्वं स्थावरजङ्गमम् । ३०। १ ‘त्रे’ क. पाठ. ।

२५० गन्धर्वतन्त्रे । शरीरं चापि त(त्रो?त्वो)त्थं तस्मिन्नेव द्विधा शिवः । कञ्चुकितः शिवो जीवो निष्कञ्चुकः परः शिवः ॥ ३१ ॥ आत्मज्ञानमात्मविद्भिः पुरुषार्थः समीरितः । वर्णात्मकं महेशानि नित्याः शब्दाः प्रकीर्तिताः ॥ ३२ ॥ अचिन्त्यस्त्विह मन्त्राणां प्रभावः समुदाहृतः । संप्रदायपरिज्ञानं गुरूणां सिद्धिदायकम् ॥ ३३ ॥ विश्वासाद्गुरुवाक्यानां सर्वसिद्धिरीरिता । प्रामाण्यं चात्र स्वनिष्ठं विश्वासः समुदाहृतः ॥ ३४ ॥ गुरूणां चैव मन्त्राणां देवानामापि पार्वति । मनःपवनयोश्चैवमेकत्वेन विभावनात् ॥ ३५ ॥ अन्तरात्मपरिज्ञानमिति जानीहि पार्वति । आनन्दं ब्रह्मणो रूपं तच्च देहे³ विभावयेत् ॥ ३६ ॥ तस्याभिव्यञ्जकाः पञ्च मकाराद्याः प्रकीर्तिताः । तैरेव यजनं तस्य गुप्त्या सिद्धिर्नचान्यथा ॥ ३७ ॥ प्राकट्यांच्च(व?भ)यं यस्माद् गोपयेन्मातृजारवत् । अभेदभावनादार्थ्यादाज्ञासिद्धिः समीरिता ॥ ३८ ॥ न निन्देद् दक्षिगं वामं न निन्देद् दर्शनानि च । निन्दाद्रोहादिकर्तॄणां गणनां नैव कारयेत् ॥ ३६ ॥ रहस्यकथनं देवि सच्छिष्यैएव नापरे । सदा विद्यानुसंधानं शिवभावेन तत्परः ॥ ४० ॥ कामं क्रोधं तथा लोभं मदमोहौ तथैव च । १ ‘ह’ क पाठः । २ ‘प्रक्टा’ च क पाठ । ३ ‘ध्यायै’ ख पाठ. ।

सप्तविंशः पटलः । २५२ हिंसां स्तेयं च मात्सर्यं यल्लोकेषु विगर्हितम्¹ ॥ ४१ ॥ स्त्रीविद्वेषादिकं चैव वर्जयेन्मतिमान् सदा । एक एव गुरुर्देवस्तस्यैवोपासनं सदा ॥ ४२ ॥ असंशयस्तु सर्वत्र निष्परिग्रहता मता । फलविरहितं कर्म त्यजेदनित्यमेव तत् ॥ ४३ ॥ पञ्चानामप्यलाभे तु नित्यं क्रमविम[र्ष?र्श]नम् । निर्भयत्वं च सर्वस्माज्ज्ञेयं सर्व ह[रि?विः]प्रिये ॥ ४४ ॥ स्वयमेव हि होतात्र आत्मा शिवस्तु पावकः । आत्मलाभात्परं नास्ति फलं क्वापि च सुव्रते ॥ ४५ ॥ सैषाङ्गा परमा शैवी कथिता तव पार्वति । वेदादिसकला विद्या वेश्या इव प्रकाशिताः ॥ ४६ ॥ सर्वेषु दर्शनेष्वेव विद्येयं खलु गोपिता । धीमांस्तत्रैव दीक्षेत सर्वथात्मविभूतये ॥ ४७ ॥ अथ शिष्यशिरोदेशे [वरु?चर]णां रक्तशुक्लयोः । भावयित्वा वपुस्तस्य क्षालितं मांसबृंहितम् ॥ ४८ ॥ तदमृतैः[श्र?स्र]वद्भिश्च कुर्याद् गुरुरुदारधीः । मूलादिब्रह्मरन्ध्रान्तं ज्वलन्तीं ज्वलनच्छविम् ॥ ४९ ॥ प्रतीषषहरीं[?]कोटिसूर्यप्रकाशिनीं पराम् । चन्द्रकोटिप्रभां शुद्धामज्ञानेन्धनदाहिकाम् ॥ ५० ॥ तत्तद्रश्मिभिरेवास्य पापपाशांस्तु संदहेत् । शिवोऽहमिति निश्चित्य वीक्षेत करुणया दृशौ³ ॥ ५१ ॥ १ 'श' क पाठ । २ 'मा' ख पाठ. । ३ 'त्तं करुणादृशा' ख पाठ । १

२५२ गन्धर्वतन्त्रे । सर्वपापविनिर्मुक्तं सर्वदोषविवर्जितम् । पुनः स्वयं शिवो भूत्वा असंदिग्धमना गुरुः ॥ ५२ ॥ शिवहस्तेन शिष्यस्य मन्त्रं शिरसि संस्पृशेत् । जपोक्तक्रमतो योगी शिष्यदेहं प्रविश्य तु ॥ ५३ ॥ गृहीत्वा तस्य चात्मानमात्मना योजयेद् गुरुः । स्वयं मन्त्रतनुर्भूत्वा संक्रामेन्मन[सा]दरात् ॥ ५४ ॥ ह्रूसौःवर्णकर्णिके शि[ष्य? ष्यं]स्वरद्वन्द्वाष्टकेसरे । दिगष्टकस्थितवंठावर्गाष्टयुक्तदिग्दले ॥ ५५ ॥ चतुरस्रासने शुद्धे मातृकायन्त्रराजके । निवेश्य सादरं देवि कलशामृतधारया ॥ ५६ ॥ स्नपयेन्मूलविद्याभिस्त्रि[भङ्गो? रङ्गेः] देशिकोत्तमः । परिधाप्य दुकूले च चन्दनाद्यैर्विलेपयेत् ॥ ५७ ॥ अलंकृत्य यथालाभं समानं शिष्यपुत्रकम् । प्रसन्नं शान्तचित्तं च पार्श्वे निवेश्य देशिकः ॥ ५८ ॥ तदङ्गे मातृकां न्यस्य विद्याङ्गन्यासमाचरेत् । विमुक्तमुखवस्त्रस्य हस्ते तस्य गुरुः स्वयम् ॥ ५६ ॥ यथाधिकारमालोच्य द्रव्यभेदान् प्रकाशयेत् । अन्यथा सर्वहानिः स्यादयोग्येषु प्रकाशनात् ॥ ६० ॥ भोजनं तत्त्वमन्त्रैस्तु कारयेद् ग्रा[म? स]मुद्रया । अथ गुरुः प्रसन्नात्मा पूर्वोक्तामात्मनः पराम् ॥ ६१ ॥ बालान्वितां विधायादौ पादुकां विनिवेदयेत् । १ 'का' क. पाठः । २ 'स्त्रा' क पाठ ।

सप्तविंशः पटलः । २५३ दक्षकर्णे दिशेद्बालां पश्चादिष्टं निवेदयेत् ॥ ६२ ॥ स्वकीयचरणं मूर्ध्नि शिशोर्निधाय पार्वति । सर्वान् मन्त्रान् सकृद्वापि क्रमेणैव यथाविधि ॥ ६३ ॥ यथाधिकारमावर्त्य स्वाङ्गेषु च शिशोः करम् । स्पर्शयित्वा किमप्यङ्गं तदङ्गमातृकादिकम् ॥ ६४ ॥ द्व्यक्षरं त्र्यक्षरं वापि चतुरक्षरमेव वा । आनन्दनाथशब्दान्तं नाम कुर्याद्गुरुः पिता ॥ ६५ ॥ आचाराननुशिष्यार्थं हृच्चैतन्यं परामृ(ष?शे)त् । त्रिभिः कूटैस्तदङ्गं च त्रिः^२ प्रमृज्य गुरुः स्वयम् ॥ ६६ ॥ परिरभ्य तथा मूर्ध्नि समुपा[घ्रा?ग्रा]य सादरम् । आत्मरूपं ततः कृत्वा शिष्यं पूर्णं विभावयेत् ॥ ६७ ॥ अष्टोत्तरसहस्रं स्वशक्तिहान्यनवाप्तये । प्रसन्नात्मा जपेद्विद्यां ततो गुरुरुदारधीः ॥ ६८ ॥ कृतार्थः कृतकृत्यस्तु यथाविभवविस्तरैः । वित्तशाठ्यं परित्यज्य दम्भमोहौ च जि[म्भ?ह्म]ताम् ॥ ६६ ॥ हस्त्यश्वरथयानाद्यैर्दासदासीभिरेव च । गोभूमिहिरण्यवस्त्राद्यैस्तोषयेद् गुरुमात्मनः ॥ ७० ॥ कुम्भादिकर्णे यद् द्रव्यं सर्वमण्डप एव च । अर्थं प्राणांश्च शरीरं च सर्वं तस्मै निवेद्य च ॥ ७१ ॥ पतित्वा पादयोर्मूले दण्डवद् भुवि मानवः । नमस्ते भगवन्नाथ शिवाय गुरुरूपिणे ॥ ७२ ॥ १ 'न्वाशिष्यर्थं क. पाठ' । २ 'विप्र' क पाठ । ३ 'ष्य, पूणी' क पाठ ।

२५४ गन्धर्वतन्त्रे । प्रसीद करुणाधाम[न्]मयि दीनत्वतापिते । कायेन मनसा वाचा त्वत्तो नान्या गतिर्मम ॥ ७३ ॥ प्रसन्नास्तु परा देवी भोगमोक्षविधायिनी । तन्मना भव हे पुत्र [त्वा?ता]मेव त्वं सदा स्मर ॥ ७४ ॥ द्वैतभाव च ते मास्तु पूर्णानन्दमयो भव । (वक्तैः?उक्त्वो)त्तिष्ठेति पीयूषवचोभिरभि(व?न)न्द्य तम् ७५ हस्ताभ्यां च समुत्थाप्य प्रसन्नोऽहं सदा प्रिये । सिद्धयः सकलास्तूर्णं सन्तु ते मत्प्रसादतः ॥ ७६ ॥ प्रसन्नात्मा तथा शिष्यो विदिताखिलवेद्यकः । भक्तिश्रद्धासमायुक्तो भोजयेद् वै (द्वमावि?कुमारि)काः७७ ब्राह्मणान् परितोष्याथ दीनान्धकृपणानपि । पक्वान्नैरातिमिष्टैश्च ज्ञातीनापि च भोजयेत् ॥ ७८ ॥ गन्धैर्नानाविधैः पुष्पैर्माल्यैरपि च तोषयेत् । तेभ्य आशिष आदाय समर्थीयाँ जयावहाँः ॥ ७९ ॥ सद्गुरोराहितदीक्षो महाविद्याधरो महान् । सर्वमन्त्राधिकारी स्यात् सर्वज्ञो भुवि जायते ॥ ८० ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे दीक्षाविधानानिरूपणं सप्तविंशः पटलः ॥ २७ ॥ १ 'प्रदा' ख पाठ । २ 'ये' ख पाठ । ३ 'यान्' क पाठ । ४ 'ह' क पाठ ।

अष्टाविंशः पटलः । देव्युवाच —=:!!:— पुरश्चर्याविधिं ब्रूहि विद्यासिद्धिर्भवेद्यथा । ईश्वर उवाच अथ वक्ष्ये विधानानि पौरश्चरणके विधौ ॥ १ ॥ विना येन न सिद्धः स्यान्मन्त्रो वर्षशतैरपि । यथाविधि गुरोर्दीक्षां गृहीत्वा साधकोत्तमः ॥ २ ॥ तथैव तु यजेद् देवीं नित्यं प्रातरनन्यधीः । आत्मानं तन्मयं स्मृत्वा भक्तिश्रद्धासमन्वितः ॥ ३ ॥ अष्टोत्तरसहस्रं वा लक्षार्धं यावदेव हि । तावदेव मनुं जप्त्वा पुरश्चर्यां समाचरेत् ॥ ४ ॥ न्यूनातिरिक्तदोषाणां शान्तावष्टाधिकं जपेत् । गुरोराज्ञां समादाय शुद्धान्तःकरणो नरः ॥ ५ ॥ यत्नात् पुरस्क्रिया॑ कुर्यात् स्वविद्यासिद्धिकाङ्क्षया । सर्वेषामेव मन्त्राणां विद्यानां चैव पार्वति ॥ ६ ॥ गुरोराज्ञैव मूलं स्यात् सिद्धिर्यस्मात् तदाज्ञया । अश्रद्धा चैव नास्तिक्यं पूर्वजन्मकृतोशुभम् ॥ ७ ॥ १ 'ता' ख, पाठः ।

२५६ गन्धर्वतन्त्रे । प्रतिबन्धत्रयं देवि मन्त्रसिद्धौ निगद्यते । यत्नात् पुरश्चरेन्मन्त्री प्रतिबन्धविनाशने ॥ ८ ॥ लक्ष्मीमदादनादृत्य मन्त्रं भोगपरायणः । नैवार्चां कुरुते मन्त्री तथा नैव पुरस्क्रियाम् ॥ ६ ॥ स मन्त्रस्य ऋणी ज्ञेयो भेजनं तस्य शान्तये । जीवहीनो यथा देहः सर्वकर्मसु न क्षमः ॥ १० ॥ पुरश्चरणहीनोऽपि तथा मन्त्रः प्रकीर्तितः । तत् कुर्यात् सर्वथा मन्त्री गुरुं वा कारयेद्बुधः ॥ ११ ॥ गुरोरभावे विप्रोऽस्य सर्वप्राणिहिते रतः । शुद्धान्तःकरणः स्निग्धो वासोभिश्च विशेषतः ॥ १२ ॥ कुलज्ञः कुलशास्त्रज्ञः पुनर्गुरुः पुरस्क्रियाम् । कारयित्वा पुनर्विद्यां लब्ध्वा तैं विनियोजयेत् ॥ १३ ॥ आदौ पुरस्क्रियां कर्तुं पुण्यक्षेत्रं समाश्रयेत् । चतुर्दश्यामथाष्टम्याममावस्यामुहूर्तके ॥ १४ ॥ देव्याः पुरस्क्रियारम्भः कर्तव्यः साधकोत्तमैः । अथ पूर्वमुपोष्यथ कृतनित्यक्रियः शुचिः ॥ १५ ॥ द्विजान् देवान् गुरून् भक्त्या संपूज्य परमेश्वरि । गणेशं मातृकांश्चैव पितॄंश्चैव प्रपूजयेत् ॥ १६ ॥ ग्रामे वा नगरे देशे पुरे वा पत्तने तथा । क्षेत्राधिपस्य नाम्ना तु दीपस्थानं विचारयेत् ॥ १७ ॥ १ 'य' ख पाठ । २ 'हो' क. पाठः । ३ 'ति' क पाठ । ४ 'म.' क पाठः । ५ 'का चै' क पाठ ।

अष्टात्रिंशः पटलः । २५७ शक्तिक्षेत्रे शिवक्षेत्रे दीपस्थानं विचिन्तयेत् । वर्त्तुलं रचयेद् देवि कूर्म्माकृति सुलोचने ॥ १८ ॥ तन्मध्ये नव कोष्ठानि कृत्वा वर्णान् समालिखेत् । स्वरान् युग्मक्रमेणैव दिक्षु चाष्टदलेषु च ॥ १९ ॥ अवर्गः कथितो देवि कवर्गादिकसप्तकम् । पूर्वादिक्रमतो देवि कुबेरान्तं लिखेत्ततः ॥ २० ॥ ळक्षवर्णं शंभुकोणे विलिखेत् कूर्मसंज्ञके । यस्मिन् कोष्ठे क्षेत्रनाम तन्मुखं विद्धि पार्वति ॥ २१ ॥ अङ्गेषु पार्श्वयोः पाणियुग्मं जानीहि सुन्दरि । ततः पार्श्वद्वयं देवि कुक्षिस्थानं निगद्यते ॥ २२ ॥ ततः पादद्वयं देवि चान्ते पुच्छं प्रकीर्त्तितम् । मुखे कार्याणि सिध्यन्ति मनोरथशतानि च ॥ २३ ॥ कण्ठस्थाने महेशानि सर्वकार्यविनाशकृत् । उदरे दुःखदारिद्र्यं पादयोर्हानिरुच्यते ॥ २४ ॥ पुच्छे तु धनहानिः स्यादित्येवं कथितं मया । दीपस्थानं समाश्रित्य जपपूजां समाचरेत् ॥ २५ ॥ पूर्वोक्तविधिसंपन्नं गुरुं नत्वा विधानतः । अक्षमालां समाश्रित्य मातृकां वर्णरूपिणीम् ॥ २६ ॥ मन्त्रसिद्धिप्रदां शुद्धां सर्वपापौघनाशिनीम् । प्रणवो मातृका देवी माया चैवामृतत्रयम् ॥ २७ ॥ अमृतत्रयसंयोगाद् दुष्टमन्त्रोऽपि सिध्यति ।

२५८ गन्धर्वतन्त्रे । अथ मुक्ताफलमयी वाञ्छोत्फलदायिनी ॥ २८ ॥ सर्वसिद्धिप्रदा नित्यं सर्वलोकवशंकरी । यथा मुक्ताफलमयी स्फाटिकी च तथा भवेत् ॥ २९ ॥ रुद्राक्षमालिका भोगमोक्षानन्तफलप्रदा । प्रवालमाला वश्ये तु सर्वकार्यार्थसाधिका ॥ ३० ॥ [मलिना?माणिक्य]रचिता माला साम्राज्यफलदायिनी । पुत्रजीवोद्भवा माला पुत्रपौत्रप्रदायिनी ॥ ३१ ॥ पद्माक्षमालया लक्ष्मीर्जायते महती यशः । रक्तचन्दनमाला तु वश्ये सर्वसमृद्धिदा ॥ ३२ ॥ महाशङ्खमयी माला मारणोच्चाटनादिषु । वीराणां शस्यते सा हि शेषयोर्न शुभप्रदा ॥ ३३ ॥ पञ्चाशद्भिः शतैः कुर्यादष्टाविंशति [रेव?भिश्च] वा । न न्यूनैर्नाधिकैः कार्या बीजायैर्न विभूतये ॥ ३४ ॥ एको मेरुस्तत्र देयः सर्वेभ्यः स्थूलसंभवः । आद्यं स्थूलं ततो न्यूनं न्यूनं न्यूनतरं ततः ॥ ३५ ॥ विन्यसेत् क्रमतस्तस्मात् सर्पाकारा [वि?प्ये]नायता । ब्रह्मग्रन्थियुतं कुर्यात् प्रतिबीजं तथास्थितम् ॥ ३६ ॥ अन्यथा विफला माला संस्कृता जपकर्मणि । रुद्राक्षैर्यदि जप्येत इन्द्राक्षैः स्फाटिकैस्तथा ॥ ३७ ॥ नान्यन्मध्ये प्रयोक्तव्यं पुत्रजीवादिकं तु यत् । १ 'ततस्तस्मात्' ख पाठः । २ 'च सा यत' क पाठ ।

अष्टाविंशः पटलः । २५६ यदोन्यत्तु प्रयुञ्जीत मालायां जपकर्मणि ॥ ३८ ॥ मिश्रीभावं तदा याति चण्डालैः पापकर्मभिः । एकजातीयबीजेन यः कुर्यान्मालिकां सदा ॥ ३९ ॥ जन्मान्तरे जायते स वेदवेदाङ्गपारगः । पूर्वोक्तेन विधानेन गृहीत्वा दिव्यमालिकाम् ॥ ४० ॥ जपं समारभेत् पश्चात् प्रोक्तयोगसमन्वितः । तत्र स्थित्वा जपेद्विद्यां लक्षमात्रं सदा शुचिः ॥ ४१ ॥ दधि क्षीरं घृतं गव्यमैक्षवं गुडवर्जितम् । तिलाश्चैव सिता मुद्गाः कन्दः केमुकवर्जितः ॥ ४२ ॥ नारिकेलफलं चैव कदली लव(र्गा?ली)तथा । आम्रमामलकं चैव पनसं च हरीतकी ॥ ४३ ॥ व्रतान्तरप्रशस्तं च हविष्यं मन्यते बुधैः । अवैष्णवमलभ्यं च यदशस्तं व्रतान्तरे ॥ ४४ ॥ त्याज्यमेव तु तत् सर्वं यदीच्छेत् सिद्धिमात्मनः । क्षारं च लवणं मांसं गृञ्जनं कांस्येभोजनम् ॥ ४५ ॥ माषाढकीमसूरांश्च कोद्रवांश्चणकानपि । ताम्बूलं च द्विभक्तं च दुःसंवादं प्रमत्तताम् ॥ ४६ ॥ श्रुतिस्मृतिविरुद्धं च जपं रात्रौ विवर्जयेत् । भूशय्या ब्रह्मचारित्वं मौनं चाप्यननसूयता ॥ ४७ ॥ नित्यं त्रिषवणस्नानं क्षुद्रकर्मविवर्जनम् । नित्यपूजा नित्यदानं देवैतास्तुतिकीर्तनम् ॥ ४८ ॥

२६० गन्धर्वतन्त्रे । नैमित्तिकार्चनं चैव विश्वासो गुरुदेवयोः । जपनिष्ठा द्वादशैते धर्माः स्युर्मन्त्रसिद्धिदाः ॥ ४९ ॥ स्त्रीशूद्रपतितव्रात्य[पतितो?नास्तिको]च्छ्लिष्टभाषणम् । असत्यभाषणं जि(ह्म?ह्य)भाषणं परिवर्जयेत् ॥ ५० ॥ स(त्यै?भ्यै)रपि न भाषेत जपहोमार्चनादिषु । अन्यथानुष्ठितं सर्वं भवत्येव निरर्थकम् ॥ ५१ ॥ वाङ्मनःकर्मभिर्नित्यं निःस्पृहावान् भवेत् सदा । वर्जयेद् गीत[नृत्या?वाद्या]दिश्रवणं नृत्यदर्शनम् ॥ ५२॥ माल्यं च गन्धलेपं च पुष्पधारणमेव च । मैथुनं तत्कथालापं तद्गोष्ठीं परिवर्जयेत् ॥ ५३ ॥ कौटिल्यं चौरमभ्यङ्गमनावेदितभोजनम् । प्राणिहिंसां न कुर्वीत पुरश्चरणकृन्नरः ॥ ५४ ॥ अस्नातांश्च द्विजाञ् शूद्रान् स्त्रियो नैव स्पृशेत्तथा । असंकल्पितकृत्यं च वर्जयेन्मर्दनादिकम् ॥ ५५ ॥ त्यजेदुष्णोदकस्नानं सुगन्धामलकादिकम् । शिवाङ्गं पञ्चगव्येन क्षालयेद् बहिरन्तरम् ॥ ५६ ॥ स्नायाच्च पञ्चगव्येन केवलामलकेन वा । १अपवित्रकरो नग्नः शिरसि प्रावृतोऽपिवा ॥ ५७ ॥ निरासनः शयानो वा गच्छन्नुत्थित एव वा । रथ्यायामशिवे२स्थाने न जपेत् तिमिरालये ॥ ५८ ॥ १ 'अपत्रकरलग्नो वा शि' क पाठ । २ 'माशब्द' क पाठ ।

अष्टाविंशः पटलः । २६१ प्रलपन् वा जपेद् यावत् तावन्निष्फलमुच्यते । सकृदुच्चारिते शब्दे प्रणवं समुदीरयेत् ॥ ५९ ॥ प्रोक्ते पामरशब्दे तु प्राणायामं सकृच्चरेत् । बहुप्रलापे चाचम्य न्यस्याङ्गानि ततो जपेत् ॥ ६० ॥ पतितानामन्त्यजानां दर्शने भाषणे श्रुते । क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सृजेत् ॥ ६१ ॥ कृत्वाचम्य जपेच्छेषं यद्वा सूर्यादिदर्शनम् । शयीत कुशशय्यायां शुचिवस्त्रधरः सदा ॥ ६२ ॥ प्रत्यहं चालयेच्छय्यामेकाकी निर्भयः स्वपेत् । एवमादींश्च नियमान् पुरश्चरणकृच्चरेत् ॥ ६३ ॥ एवमुक्तविधानेन विलम्बत्वरितं विना । उक्तसंख्याजपं कुर्यात् पुरश्चरणसिद्धये ॥ ६४ ॥ देवतागुरुमन्त्राणामैक्यं संभावयन् धिया । जपेदेकमनाः प्रातःकालान्मध्यंदिनावधि ॥ ६५ ॥ यत्सं(ख्यामा?ख्यया)समारब्धं तच्च कुर्याद्दिने दिने । यदि न्यूनाधिकं कुर्याद् व्रतभ्रष्टो भवेन्नरः ॥ ६६ ॥ नैरन्तर्यविधिः प्रोक्तो न दिनं व्यतिलङ्घयेत् । दिवसातिक्रमात् (तेषां?पुंसः) सिद्धिहानिः प्रजायते ॥६७॥ मन्त्रं जप्त्वाम्बु पानीयैः सुलोचनमभोजनम् (?) । कुर्याद्यथोक्तविधिना त्रिसंध्यं देवमर्चयेत् ॥ ६८ ॥ एकसंध्यं द्विसंध्यं वा न मन्त्रं केवलं जपेत् ।

२६३ गन्धर्वतन्त्रे । एकग्रामे स्थितो गत्वा वन्देत केवलं गुरुम् ॥ ६९ ॥ प्रणामोऽष्टाङ्ग एवात्र देवतावन्दनं तथा । नित्यं नैमित्तिकं कुर्यात् सङ्गं च साधुभिः सह ॥ ७० ॥ शक्तौ त्रिषवणस्नानं द्वे सकृद्वा तथा चरेत् । परकीयतरे तोये स्नानं पूर्वं समाचरेत् ॥ ७१ ॥ संख्यापूर्तौ निजैर्द्रव्यैर्जपसंख्यादशांशतः । यथोक्तविहिते कुण्डे जुहुयात् संस्कृतेऽनले ॥ ७२ ॥ अथवा प्रत्यहं जप्त्वा जुहुयात्तद्दशांशतः । तथा होमदशांशं तु जले संपूज्य देवताम् ॥ ७३ ॥ तर्पयामीति मन्त्रान्ते प्रोक्ताद्भिर्मूर्ध्नि तर्पयेत् । जपो होमस्तर्पणं च (पू?मृ)जा ब्राह्मणभोजनम् ॥ ७४ ॥ पूर्वपूर्वदशांशेन कुर्यात् पञ्चाङ्गसंयुतम् । स्वाभिषेकाघमर्षौ च सूर्यार्घ्यं जलपानकम् ॥ ७५ ॥ प्राणायामं ततः कुर्यात् पूर्वपूर्वदशांशतः । दशाङ्गोपासनं भक्त्या पुरश्चरणमुच्यते ॥ ७६ ॥ तत्पुरश्चरणं नाम मन्त्रसिद्ध्यर्थमात्मनः । यथोक्तं नियमं कृत्वा स्वकल्पोक्तजपस्य हि ॥ ७७ ॥ करणं विजयान्तं तत्प्रोक्तं देशिकसत्तमैः । तदन्ते महतीं पूजां कुर्याद् ब्राह्मणभोजनम् ॥ ७८ ॥ गुरुं संतोषयेदेवं मन्त्राः सिध्यन्ति मन्त्रिणः ।

अष्टाविंशः पटलः । २६३ होमकर्मण्यशक्तानां विप्राणां द्विगुणो जपः ॥ ७६ ॥ इतरेषां तु वर्णानां त्रिगुणादिः समीरितः । एकमङ्गं विहीयेत ततो नेष्टमवाप्नुयात् ॥ ८० ॥ अङ्गहीनं भवेद्यद्यत् तत्तन्नेष्टार्थसाधनम् । सर्वथा भोजयेद्विप्रान् कृतसाङ्गत्वसिद्धये ॥ ८१ ॥ विप्राराधनमात्रेण व्यङ्गं साङ्गं भवेद्यतः । न्यूनातिरिक्तकर्माणि न फलन्ति मनोरथान् ॥ ८२ ॥ तान्येवं पूर्णतां यान्ति समस्तानि भवन्ति चेत् । अतो यत्नेन विदुषो भोजयेत् सर्वकर्मसु ॥ ८३ ॥ नियतान्यपि कर्माणि हीनानि द्विजभोजनैः । निरर्थकानि तानि स्युर्बीजान्यूषरगाणि च ॥ ८४ ॥ अथवान्यप्रकारेण पुरश्चरणमुच्यते । ग्रहणेऽर्कस्य चेन्दोर्वा शुचिः पूर्वमुपोषितः ॥ ८५ ॥ नद्यां समुद्रगामिन्यां नाभिमात्रोदके स्थितः । ग्रहणादिविमोक्षान्तं जपेन्मन्त्रं समाहितः ॥ ८६ ॥ अनन्तरं दशांशेन क्रमाद्धोमादिकं चरेत् । होमस्य तु दशांशेन तर्पणं समुपाचरेत् ।१॥ ८७ ॥ अभिषेकदशांशेन कुर्याद् ब्राह्मणभोजनम् । तदन्ते महतीं पूजां कुर्यात् साधकसत्तमः ॥ ८८ ॥ गुरवे दक्षिणां दद्याद्भक्त्या विप्रान् प्रतर्पयेत् । १ 'स' क. पाठ. । २ 'ज्ञ' क. पाठ. । 'क' ख. पाठ. ।

२६४ गन्धर्वतन्त्रे । ततश्च मन्त्रसिद्धिः स्याद् देवता च प्रसीदति ॥८९॥ ततस्तु मन्त्रसिद्ध्यर्थं गुरुं संपूज्य तोषयेत् । अथवा देवतारूपं गुरुं भक्त्या प्रतोषयेत् ॥ ९० ॥ पुरश्चरणहीनोऽपि मन्त्रसिद्धिरसंशयः । इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पुरश्चर्याविधिनिरूपणं अष्टाविंशः पटलः ॥ २८ ॥

४. पटल ३१-४२: सिद्धि-लक्षण, कुलधर्म एवं तन्त्र-उपसंहार

एकोनत्रिंशः पटलः । —=::❀::=— ईश्वर उवाच पूर्वोक्तविधिना देवि लक्षार्धं प्रजपेत् तथा । रात्रौ ताम्बूलपूर्णास्यस्तथैवोक्तविधानतः ॥ १ ॥ कामरूपं वपुः कृत्वा कामिन्येवै महानिशि । कुलयुक्तो जपेल्लक्षं निशाया मध्यभागतः ॥ २ ॥ अत्र यत् क्रियते कर्म तदनन्तफलप्रदम् । मूलाधारे महादेवि लिङ्गं स्वयंभूवाचकम् ॥ ३ ॥ ज्योतीरूपं तु योनिस्यं तत्रैव मनसा जपेत् । ध्यायेत् कुण्डलिनीं देवि तद्विद्यान्तररूपिणीम् ॥ ४ ॥ हृदि त्रिकोणमध्ये च बाणलिङ्गे च तेजसि । तत्र संचिन्त्य मनसा जपेल्लक्षं समाहितः ॥ ५ ॥ मूर्ध्नि त्रिकोणमध्ये तु इतरं पश्चिमामुखम् । तत्र स्थित्वा जपेल्लक्षं यत्र कुत्र समाहितः ॥ ६ ॥ एवं लक्षत्रये सिद्धे यद्भावस्तूपजायते । तमुपाश्रित्य भावेन यथा देवस्तथा (रवे?भवेत्) ॥७॥ नवलक्षं जपेद्विद्यामिह भोगसमृद्धये । न ध्यानं नच विन्यासो न पूजा न पुरस्क्रिया ॥८॥


१ 'रास्य.' ख. पाठ. । २ 'नी' ख. पाठ. ।

२६६ गन्धर्वतन्त्रे । केवलं जपमात्रेण सिद्धयः सिद्धिकाङ्क्षिणाम् । कोटिजापे तु संपूर्ौ मनो मन्त्रात्मकं भवेत् ॥ ६ ॥ यावत्तावद्धि जप्तव्यं मनसैव नचान्यथा । मन्त्रमात्रस्वरूपे च सिद्धे मनसि पार्वति ॥ १० ॥ ध्यानमात्रं मनः कृत्वा ध्यानं ब्रह्मणि चार्पयेत् । विदिते ब्रह्मणः नेत्रे विदितः सर्ववित् प्रभुः ॥ ११ ॥ नव स्थानानि कथ्यन्ते शृणु सावहिता प्रिये । ज्योतीरूपं तदाधारे मेढ्रस्थाने शिखाप्रभम् ॥ १२ ॥ नाभिस्थं सूर्यविम्बाभं तरुणादित्यवर्च्चसम् । हृदि ज्योतिःशिखाकारं कण्ठे दीपशिखाप्रभम् ॥ १३॥ भ्रूमध्ये रत्नसङ्काशं तदूर्ध्वं भास्करप्रभम् । लम्बिके चन्द्रबिम्बाभं ततो वैदूर्यसंनिभम् ॥ १४ ॥ नवमे विश्वतेजा हि घण्टावैदूर्यसंनिभः । लिङ्गरूपी ह्यहं देवि नव लिङ्गानि यानि च ॥ १५ ॥ नव स्थानानि मन्त्रेण क्रमात् संभिद्य कुण्डलीम् । विसंज्ञाममृतं पीत्वा पुनराधारमानयेत् ॥ १६ ॥ मूलस्थानगतं मन्त्रं स्मरेदेवं क्रमेण तु । नवलक्षप्रमाणं तु जप्त्वा त्रिपुरसुन्दरीम् ॥ १७ ॥

एकोनत्रिंशः पटलः । २६७ विधिवज्जायते देवि रुद्रमूर्त्तिरिवापरः । मन्त्राणां नव लक्षाणि कृत्वा लिङ्गानि वै नव ॥१८॥ नवैव परिजप्याथ नवलक्षफलं लभेत् । जातसूतकमादौ स्याद् वृत्ते च मृतसूतकम् ॥१९॥ सूतकद्वयसंयुक्तो यो मन्त्रः स न सिध्यति । स्वयं तद्रहितं कृत्वा मन्त्रं यावज्जपेद्धिया ॥२०॥ सूतकद्वयनिर्मुक्तः स मन्त्रः सर्वसिद्धिदः । सत्कुलस्थानजातीनां शुचीनां श्रीमतां सताम् ॥ २१ ॥ नियतमग्निहोतॄणां भिक्षाशिनो(शना) ग्रजन्मनाम् । एषां मध्ये तु यः कश्चिद्गुरुर्वा शिष्य एव वा ॥२२॥ मन्त्रार्थं मन्त्रचैतन्यं योनिमुद्रां न वेत्ति च । कथितं सूतकं तस्य जपात् सिद्धिर्न जायते ॥२३॥ गुप्तवी(जा?र्या)श्च ये मन्त्रा न दास्यन्ति फलं प्रिये । मन्त्राश्चैतन्यसंयुक्ताः सर्वसिद्धिकराः स्मृताः ॥२४॥ चैतन्यरहिता मन्त्राः प्रोक्ता वर्णास्तु केवलम् । फलं नैव प्रयच्छन्ति लक्षकोटिजपादपि ॥ २५॥ मन्त्रोच्चारे कृते यादृक् स्वरूपं प्रथमं भवेत् । शते सहस्रे लक्षे वा कोटिजापे न तत्फलम् ॥ २६ ॥