गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)
Gautama Dharmasutra Hindi
महर्षि गौतम द्वारा
स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)
सानुवाद-मिताक्षरावृत्तिसहितानि ६१
उत्कृष्ट वर्ण का अथवा ब्राह्मण होते हुए भी अश्रोत्रिय दूत राजा का नाम न ले ॥ १३ ॥
भो भवन्निति वयस्यः समानेऽहनि जातः ॥ १४ ॥
वयसा तुल्यो वयस्यः । समानेऽहनि जातः । अत्राहःशब्दः संवत्सरवाचकः । एकस्मिन्संवत्सरे जातः स भो भवन्नित्यनयोरन्यतरेण शब्देन संभाष्यः ॥ १४ ॥
एक ही दिन अथवा एक ही वर्ष में उत्पन्न हुए समवयस्क व्यक्ति को 'भो' अथवा 'भवन्' शब्द से बुलाया जाता है ॥ १४ ॥
दशवर्षवृद्धः पौरः पञ्चभिः कलाभरः श्रोत्रियश्चारणस्त्रिभिः ॥ १५ ॥
पुरे वसन्गुणहीनो दशवर्षवृद्धश्च तत्रापि कलाभरश्चतुःषष्टिकलास्वन्यतमया जीवन्पञ्चभिर्वर्षैर्वृद्धश्च । 'श्रोत्रियोऽधीतवेदः । चारणः सहाध्यायी । एते सर्वेऽपि भो भवन्निति संभाष्यः । आपस्तम्बस्तु सर्वत्राभिवादनमिच्छति—
दशवर्षं पौरसख्यं पञ्चवर्षं तु चारणम् ।
त्रिवर्षपूर्वः श्रोत्रियोऽभिवादनमर्हति ॥ इति ॥ १५ ॥
अपने से दस वर्ष बड़े पुरवासी, किसी कला द्वारा जीविका निर्वाह करने वाले अपने से पाँच वर्ष तक बड़े व्यक्ति को, तीन वर्ष बड़े श्रोत्रिय और चारण (समान वेदशाखा का अध्ययन करने वाले) को भी 'भो' या 'भवन्' कहकर सम्बोधित किया जाता है ॥ १५ ॥
राजन्यवैश्यकर्मा विद्याहीनाः ॥ १६ ॥
कर्मशब्दः प्रत्येकमभिसंबध्यते । राजन्यकर्मा वैश्यकर्मा । ब्राह्मणोऽपि राजन्यकर्मणा वैश्यकर्मणा वा जीवन्नत्यन्तवृद्धोऽपि भो भवन्निति संभाष्यः । विद्याहीनश्च वृद्धोऽपि विद्याधिकेन तथा भाष्यः ॥ १६ ॥
क्षत्रिय और वैश्य के कर्मों से जीविका चलाने वाले अत्यन्त वृद्ध होते हुए भी विद्याहीन ब्राह्मण को 'भो' या 'भवन्' कहकर संबोधित करे ॥ १६ ॥
दीक्षितश्च प्राक्क्रयात् ॥ १७ ॥
वयस्यविषयमिदम् । दीक्षितश्च वयस्यः सोमक्रयात्पूर्वं तथा भाष्यः । ततः परं वृद्धवन्मान्यः । उत्तमाश्रमविषय उशना—श्रोत्रियवत्प्रशितः सर्वेषां गुरुर्भवतीति ॥ १७ ॥
६२ | गौतमधर्मसूत्राणि
यज्ञ में दीक्षा लेने वाले समवयस्क व्यक्ति को सोमक्रय के पूर्व 'भो' या 'भवन्' से संबोधित करना चाहिए (सोमक्रय के बाद उनका सम्मान वृद्ध पुरुष के समान किया जाता है) ॥ १७ ॥
वित्तबन्धुकर्मजातिविद्यावयांसि मान्यानि परबलीयांसि ॥ १८ ॥
वित्तादीनां साक्षान्मान्यत्वासंभवात्तद्वन्तो मान्या इत्युपलक्ष्यन्ते। वित्तवानाढ्यः। बन्धुमान्विशिष्टैः सोदर्यादिभिर्युक्तः। कर्मवान्यथोक्तकर्मकारी। जातिमानभिजनयुक्तः। विद्यावानधीतवेदशास्त्रः। वयस्वान्वयसाऽधिकः। एतादृशा अतादृशैर्मान्याः। परस्परसमवाये तु परः परो बलीयान्प्रथममान्यः। मान्येऽभिवादनादिसंमानः ॥ १८ ॥
धनवान व्यक्ति, भाई बन्धु आदि जनों से युक्त, यथोक्त कर्म करने वाले, उत्तम जाति वाले, वेद और शास्त्रों के ज्ञाता तथा अपने से अधिक आयु वाले व्यक्ति मान्य होते हैं। इनमें बाद वाला क्रमशः अपने पहले वाले से अधिक सम्माननीय होता है (मान्य व्यक्तियों का अभिवादन करना चाहिए) ॥ १८ ॥
श्रुतं तु सर्वेभ्यो गरीयः ॥ १९ ॥
श्रुतं मन्त्रब्राह्मणविभागेन वेदार्थपरिज्ञानम्। तत्सर्वेभ्यो वित्तादिभ्यो गरीयो गुरुतरम्। पूर्वसूत्रे परबलीयांसीति श्रुतमपरमुपन्यस्तं तद्व्यावृत्त्यर्थं पृथक्सूत्रम् ॥ १९ ॥
वेद का ज्ञाता (उपर्युक्त धनवान आदि) सबसे श्रेष्ठ होता है ॥ १९ ॥
कुतः पुनः श्रुतं सर्वेभ्यो गरीय इत्यत आह—
तन्मूलत्वाद्धर्मस्य श्रुतेश्च ॥ २० ॥
श्रुतमूलमनुष्ठानमनुष्ठानमूलो धर्म इति श्रुतेश्चाप्यनुच्छिन्नसंप्रदायो मूलम्। तस्माच्छ्रुतस्य गरीयस्त्वम्। श्रुतस्य गरीयस्त्वं छान्दोग्ये प्रतिपादितम् ब्राह्मणं शैशवं भवति शिशुर्वै आङ्गिरसो मन्त्रकृतां मन्त्रकृदासी दिति। मनुरपि—
अध्यापयामास पितॄञ्शिशुराङ्गिरसः कविः।
पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ इति ॥ २० ॥
क्योंकि धर्म और श्रुति का मूल श्रुत अर्थात् वेदज्ञान ही है ॥ २० ॥
चक्रिदशमीस्थानुग्राह्यवधूस्नातकराजभ्यः पथो दानम् ॥ २१ ॥
चक्रि चक्रवच्छकटादि। तत्स्थश्चक्रिस्थः। दशम्यां दशायां स्थितो
सानुवाद-मिताक्षरावृत्तिसहितानि ६३
दशमीस्थो वृद्धः। अनुग्राह्यो रोगार्तः। वधूर्गर्भिणी। स्नातको विद्याव्रतस्नातः। राजाऽभिषिक्तः। पथि संगम एतेभ्योऽन्यैः पन्था देयः॥ २१ ॥
पहिये वाली सवारी (रथ आदि) पर बैठे हुए व्यक्ति, दशमी दशा में स्थित वृद्ध पुरुष, रोगी, गर्भवती स्त्री, स्नातक और राजा के लिए रास्ता दे देना चाहिए (अर्थात् इनके मार्ग में आने पर मार्ग छोड़ कर हट जाना चाहिए और उन्हें जाने देना चाहिए।)॥ २१ ॥
तत्र विशेषः—
राज्ञा तु श्रोत्रियाय श्रोत्रियाय ॥ २२ ॥
श्रोत्रियसमागमे राज्ञैव पन्था देयः। अभ्यासोऽध्यायसमाप्त्यर्थः॥ २२ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां प्रथमप्रश्ने षष्ठोऽध्यायः॥ ६ ॥
श्रोत्रिय व्यक्ति के लिए राजा को रास्ता दे देना चाहिए ॥ २२ ॥
अथ प्रथमप्रश्ने सप्तमोऽध्यायः ।
श्रुतं तु सर्वेभ्यो गरीय इति विद्याप्राधान्यमुक्तम् । सा विद्या ब्राह्मणादधिगन्तव्येति प्रथमः कल्पः । तदभावे विद्याया अवश्याधिगन्तव्यत्वादापत्कल्पमाह—
आपत्कल्पो ब्राह्मणस्याब्राह्मणाद्विद्योपयोगः ॥ १ ॥
अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः ।
पुराणं धर्मशास्त्रं च विद्या ह्येताश्चतुर्दश ॥
उपयोगो नियमपूर्वकं ग्रहणम् । अब्राह्मणः क्षत्रियो वैश्यश्च तस्माद्ब्राह्मणेन विद्योपयोगः कार्यः स आपत्कल्पः । आपद्विधिर्ब्राह्मणस्येत्युपलक्षणम् । तेन क्षत्रियेणापि वैश्याद्विद्योपयोगः कार्य इति सिध्यति । आपत्कल्प इत्यध्यायपरिसमाप्तेरधिक्रियते ॥ १ ॥
ब्राह्मण का ब्राह्मणेतर ( क्षत्रिय या वैश्य ) से विद्याग्रहण करना आपत्कालीन नियम है ॥ १ ॥
अनुगमनं शुश्रूषा ॥ २ ॥
तत्र यावदध्ययनकालमनुगमनमेव शुश्रूषा नान्यत्पादसंवाहनादि ॥ २ ॥
इस प्रकार के अध्ययन के समय ब्राह्मण द्वारा ( अब्राह्मण ) गुरु के पीछे पीछे चलना ही गुरुसेवा है ॥ २ ॥
समाप्ते ब्राह्मणो गुरुः ॥ ३ ॥
समाप्ते त्वध्ययने ब्राह्मण एव गुरुः ॥ ३ ॥
अध्ययन समाप्त होने पर ब्राह्मण ही गुरु होता है ॥ ३ ॥
याजनाध्यापनप्रतिग्रहाः सर्वेषाम् ॥ ४ ॥
याजनादयो ब्राह्मणस्य वृत्तयस्ता आपदि सर्वेषामनुज्ञायन्ते न तु ब्राह्मणस्यैवेति । अपर आह—आपदि सर्वे याजयितव्याः सर्वेऽध्याप्याः सर्वतश्च प्रतिग्राह्यं न तु गर्हादोषोऽस्तीति । तथा च मनुः—
नाध्यापनाद्याजनाद्वा गर्हिताद्वा प्रतिग्रहात् ।
दोषो भवति विप्राणां ज्वलनाम्बुसमो हि सः ॥ इति ॥ ४ ॥
यज्ञ कराना, अध्यापन और दान लेना ( ब्राह्मण के कर्म ) आपत्काल में सबके लिए ( सभी वर्णों के लिए ) विहित हैं । अथवा आपत्काल में ब्राह्मण
सानुवाद-मिताक्षरावृत्तिसहितानि ६५
सभी का ( अयोग्य व्यक्ति का भी ) यज्ञ करा सकता है, सबको पढ़ा सकता है और सबका दान ले सकता है ॥ ४ ॥
पूर्वः पूर्वो गुरुः ॥ ५ ॥
एतेषां याजनादीनां यो यः पूर्वनिर्दिष्टः स स उत्तरस्माद्गुरुर्ज्ञेयः । आपदि प्रतिग्रहेण जीवेत्तदसंभवेऽध्यापनेन तदसंभवे याजनेनेति ॥ ५ ॥
इन ( याजन, अध्यापन और प्रतिग्रह कर्मों ) में क्रमशः पहले निर्दिष्ट कर्म अपने उत्तरवर्ती कर्म की अपेक्षा बड़ा होता है । ( आपत्ति काल में पहले दान लेकर जीविका चलानी चाहिए, उससे जीविका न चले तो अध्यापन करे और उससे भी जीविका न चले तो याजन द्वारा जीविका निर्वाह करे ॥ ५ ॥
तदलाभे क्षत्रवृत्तिः ॥ ६ ॥
इदं ब्राह्मणविषयम् । गर्हितयाजनादेरप्यलाभे क्षत्रवृत्तिः स्यात् । ब्राह्मणः सेवादिना जीवेत् । आपदि निवृत्तायां नारदः—
आपदं ब्राह्मणस्तीर्त्वा क्षत्रवृत्त्या भृते जने । उत्सृजेत्क्षात्रवृत्तिं तां कृत्वा पावनमात्मनः ॥ इति ॥ ६ ॥
उपर्युक्त निन्दित याजन आदि कर्म से भी जीविका न चल सके तो ब्राह्मण क्षत्रिय का कर्म करके जीवन निर्वाह करे ॥ ६ ॥
तदलाभे वैश्यवृत्तिः ॥ ७ ॥
क्षत्रवृत्तेरप्यलाभे वैश्यवृत्त्याऽपि जीवेद्ब्राह्मणः । अलाभग्रहणं वृत्तिसंकरो मा भूदिति । क्षत्रियस्य वैश्यवृत्त्युपजीवनं दण्डापूपन्यायेन सिद्धम् ॥ ७ ॥
क्षत्रिय के कर्मों द्वारा भी कोई लाभ न हो तो वैश्य की वृत्ति अपनाकर जीवन निर्वाह करे ॥ ७ ॥
तस्यापण्यम् ॥ ८ ॥
तस्य वैश्यवृत्तेर्ब्राह्मणस्यापण्येन विक्रेयं वक्ष्यते । तस्येति वचनात्क्षत्रियस्य वैश्यवृत्त्युपजीविनो वक्ष्यमाणमपण्यं न भवति ॥ ८ ॥
आपत्काल में वैश्य वृत्ति से जीवन निर्वाह करने वाले ब्राह्मण को आगे निर्दिष्ट वस्तुएँ नहीं बेचनी चाहिए ॥ ८ ॥
गन्धरसकृतान्नतिलशाणक्षौमाजिनानि ॥ ९ ॥
गन्धश्चन्दनादिः । रसस्तैलघृतलवणगुडादिः । कृतान्नं मोदकापूपादि । तिलाः प्रसिद्धाः । शाणं शणविकारो गोण्यादिः । क्षौमं क्षुमोद्-
५ गौ० ध०
६६ गौतमधर्मसूत्राणि
भूतं पटटवस्त्रविशेषः । अजिनं चर्म कटादि । एतान्यविक्रेयाणि । शाणक्षौमयोर्विकारनिषेधात्प्रकृतेरप्रतिषेधः ॥ ९ ॥
गन्ध (चन्दन आदि), रस (तेल, घी, नमक, गुड़ आदि), बना हुआ भोजन (लड्डू आदि), तिल, सन से बने हुए पदार्थ, रेशमी वस्त्र, मृगचर्म और चटाई आदि अविक्रेय होते हैं ॥ ९ ॥
रक्तनिर्णिक्ते वाससी ॥ १० ॥
रक्तं लाक्षादिना विकृतम् । निर्णिक्तं रजकादिना धौतम् । एवंभूते अपि वाससी अपण्ये ॥ १० ॥
लाक्षा आदि रंगों से रंगे हुए और धोबी द्वारा धोए गये वस्त्र वैश्यवृत्ति वाला ब्राह्मण न बेचे ॥ १० ॥
क्षीरं सविकारम् ॥ ११ ॥
दध्यादिभिर्विकारैः सह क्षीरमपण्यम् ॥ ११ ॥
दही, घी आदि विकार के साथ दूध भी (वैश्यवृत्ति वाला ब्राह्मण न बेचे) ॥ ११ ॥
मूलफलपुष्पौषधमधुमांसतृणोदकापथ्यानि ॥ १२ ॥
मूलमार्द्रकहरिद्रादि । फलं पूगादि । पुष्पं चम्पकादि । औषधं पिप्पल्यादि । मधु माक्षिकम् । मांसतृणोदकानि प्रसिद्धानि । अपथ्यं विषादि । एतान्यपण्यानि । रसशब्देन पूर्वमेव निषिद्धेऽपि पुनर्मधुग्रहणं सर्वथा वृत्तिरशक्तावित्यादिपक्षे निषेधार्थम् ॥ १२ ॥
मूल (अदरख, हल्दी आदि), फल (पूग आदि), (चम्पक आदि) फूल, औषध, मधु, मांस, तृण, जल और विष आदि अपथ्य पदार्थ (वैश्यवृत्ति वाले ब्राह्मण को नहीं बेचने चाहिए) ॥ १२ ॥
पशवश्च हिंसासंयोगे ॥ १३ ॥
पशवोऽजादयः । हिंसासंयोगे सौनिकादिभ्यो हिंसार्थे न विक्रेयाः ॥ १३ ॥
हिंसा के लिए (बकरा आदि) पशु भी न बेचे ॥ १३ ॥
पुरुषवशाकुमारीवेहतश्च नित्यम् ॥ १४ ॥
पुरुषा दासादयः । वशा वन्ध्या गौः । कुमारी वत्सतरी । वेहद्गर्भोपघातिनी । एते नित्यमपण्याः । नित्यमित्युक्तत्वाद्विंसासंयोगादन्यत्रापि
सानुवाद-मिताक्षरावृत्तिसहितानि ६७
निषेधः। अपर आह—इह नित्यग्रहणात्पूर्वेषु तिलादिष्वनित्यः प्रतिषेध इति। तत्र वसिष्ठः—
कामं वा स्वयमुत्पाद्य तिलान्विक्रीणीरन्। इति ॥ १४ ॥
दास, दासी, वन्ध्या गाय, बछिया तथा गर्भ गिरा देने वाली गाय का विक्रय कभी भी (वैश्यवृत्ति वाला ब्राह्मण) न करे ॥ १४ ॥
भूमिव्रीहियवाजाव्यश्वऋषभधेन्वनडुहश्चैके ॥ १५ ॥
भूमिर्गृहम्। व्रीहियवाजाव्यश्वाः प्रसिद्धाः। ऋषभः सेचनसमर्थो गौः। धेनुः सकृत्प्रसूता। अनड्वान्नोवाहनयोग्यो बलीवर्दः। एते चापण्या इत्येके मन्यन्ते। एकशब्दाद्वयं त्वनुजानीमः। अत्राप्यजाविग्रहणं हिंसासंयोगविषयपरम् ॥ १५ ॥
कुछ आचार्यों का मत है कि भूमि, धान, जौ, बकरी, घोड़ा, साँड, एक बार ब्याई हुई गाय और बैल का विक्रय न करे ॥ १५ ॥
नियमस्तु ॥ १६ ॥
नियमो विनिमयः परिवर्तनं तुशब्देन नियमोऽनुज्ञायत इति ॥१६॥
किन्तु उपर्युक्त अविक्रेय पदार्थों का विनिमय (अदल बदल) कर सकता है ॥ १६ ॥
रसानां रसैः ॥ १७ ॥
तैलघृतगुडादीनां रसैरेव विनिमयः कार्यः। तद्यथा—
तैलं दत्त्वा घृतं ग्राह्यमिति रसैः समतो हीनतो वेति वसिष्ठः ॥ १७ ॥
रसों (तेल, घी, गुड आदि पदार्थों) का विनिमय रस से ही हो सकता है ॥ १७ ॥
पशूनां च ॥ १८ ॥
पशूनां चतुष्पदां पशुभिर्विनिमयः कार्यः ॥ १८ ॥
पशुओं का विनिमय भी पशुओं से ही करना चाहिए ॥ १८ ॥
न लवणकृतान्नयोः ॥ १९ ॥
लवणस्य कृतान्नस्य च विनिमयोऽपि प्रतिषिद्धः ॥ १९ ॥
नमक और बनाये हुए भोजन का विनिमय भी वर्जित है ॥ १६ ॥
तिलानां च ॥ २० ॥
तिलानां च विनिमयो न कार्यः। लवणकृतान्नतिलानां द्रव्यान्तरस्वो-
६८ गौतमधर्मसूत्राणि
कारेण प्रदानं निषिद्धम् । समानद्रव्यविषये प्रवृत्त्यसंभवात् ॥ २० ॥
तिल का भी विनिमय नहीं करना चाहिए ॥ २० ॥
समेनाऽऽमेन तु पक्वस्य संप्रत्यर्थे ॥ २१ ॥
समेन समपरिमाणेनाऽऽमेन तण्डुलेन संप्रत्यर्थे तादात्विकोपयोगार्थे पक्वान्नस्य नियमः कार्यः । मनुस्तु तिलधान्येन तत्समा इति समेन धान्येन तिलानां नियममनुजानाति । अपण्यमिति विक्रयनिषेधात्सर्वत्र यावदुपयोगक्रये निषेधो न स्यात् । रसादीनामपि नियमशब्देन प्रदानमेव विवक्षितम् । अन्यथा त्वविद्यमानेन रसान्तरादेर्द्रव्याण्यावृत्यसंभवात् ॥ २१ ॥
समान परिमाण के विना पकाये हुए (चावल आदि) से पके हुए अन्न का (तात्कालिक उपयोग के लिए) विनिमय हो सकता है ॥ २१ ॥
सर्वथा वृत्तिरशक्तावशौद्रेण ॥ २२ ॥
उक्तेन प्रकारेण कुटुम्बधारणस्यासंभवोऽशक्तिः । तस्यां सत्यां सर्वथा वृत्तिः । प्रकारवचने थाल्, उक्तेन सर्वप्रकारेण निषिद्धेनापि जीवेत् । तत्रापि न शौद्रेण कर्मणा जीवेदिति ॥ २२ ॥
उपर्युक्त किसी भी प्रकार से जीविकानिर्वाह संभव न हो तो द्विज शूद्र के कर्म के अतिरिक्त किसी भी कर्म से जीवन चला सकता है ॥ २२ ॥
तदप्येके प्राणसंशये ॥ २३ ॥
एके त्वाचार्याः प्राणसंशये सति तदपि शौद्रं कर्माप्यनुमन्यन्ते ।
यथाऽऽह व्यासः—
धर्मार्थकाममोक्षाणां प्राणाः संस्थितिहेतवः ।
तान्निघ्नता किं न हतं रक्षता किं न रक्षितम् ॥ इति ॥ २३ ॥
कुछ आचार्य प्राणसंकट की दशा में उस (शूद्र वृत्ति) को भी विहित करते हैं ॥ २३ ॥
तद्वर्णसंकराभक्ष्यनियमस्तु ॥ २४ ॥
नियमो वर्जनम् । शूद्रवृत्तिस्थितेनापि ब्राह्मणेन तेन शूद्रवर्णेन सहाऽऽसनाङ्गसंमेलनादिः संकरः । अभक्ष्यं च लशुनादि । तदुभयवर्जनं कर्तव्यं न तु शूद्रवृत्तिरस्मीति यथाकाम्यमिति ॥ २४ ॥
शूद्रवृत्ति अपनाने पर भी शूद्र वर्ण के व्यक्तियों के साथ बैठना, अङ्गों का स्पर्श आदि वर्णसंकर कर्म तथा लशुन आदि अभक्ष्य का भक्षण न करे ॥ २४ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ६९
प्राणसंशये ब्राह्मणोऽपि शस्त्रमाददीत ॥ २५ ॥
प्राणसंशये सति ब्राह्मणोऽपि रक्षार्थं शस्त्रमाददीत । तदलाभे क्षत्रवृत्तिरिति शस्त्रग्रहणे सिद्धे पुनरुपादानं ब्राह्मणवृत्तेः सतोऽप्यनिषेधार्थम् । अपिशब्दात्किं पुनर्वैश्यशूद्रौ ॥ २५ ॥
प्राणसंकट के समय ब्राह्मण भी शस्त्र ग्रहण कर सकता है ॥ २५ ॥
राजन्यो वैश्यकर्म [ वैश्यकर्म ] ॥ २६ ॥
प्राणसंशये राजन्यो वैश्यकर्माऽऽददीत । तेनाऽऽत्मानं रक्षेत् [ अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ २६ ॥
प्राण संकट के समय क्षत्रिय भी वैश्य का कर्म कर सकता है ॥ २६ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां प्रथमप्रश्ने सप्तमोऽध्यायः ॥ ७ ॥
अथ प्रथमप्रश्ने अष्टमोऽध्यायः
आपद्वृत्तिमाश्रितो यदि तत्रैव रमेत केनासौ निवार्यत इत्याह—
द्वौ लोके धृतव्रतौ राजा ब्राह्मणश्च बहुश्रुतः ॥ १ ॥
लोको राष्ट्रम्। वीप्सालोपश्चात्र द्रष्टव्यः। लोके लोके धृतव्रतौ व्रतानां कर्मणां धारयितारौ द्वौ राजा बहुश्रुतश्च ब्राह्मणः। तौ सर्वस्य सर्वापदो दण्डोपदेशाभ्यां निवारयितारौ ॥ १ ॥
राजा और वेद का विद्वान् ब्राह्मण—ये दोनों राज्य में व्रतों के कर्म को धारण कराने वाले होते हैं ॥ १ ॥
तयोश्चतुर्विधस्य मनुष्यजातस्यान्तःसंज्ञानां चलनपतनस-
र्पणानामायत्तं जीवनम् ॥ २ ॥
चतुर्विधस्य मनुष्यजातस्य चातुर्वर्ण्यस्यान्तरप्रभा (भ) वास्त्वनुलोमादयस्तन्मूलत्वात्पृथङ्नोक्ताः। अन्तःसंज्ञा वृक्षादयः स्थावरा वृद्धिक्षयवन्तः। येषामन्तःसंज्ञा न बहिस्ते तथोक्ताः। तथा च मनुः—
तमसा बहुरूपेण वेष्टिताः कर्महेतुना।
अन्तःसंज्ञा भवन्त्येते समदुःखसमन्विताः ॥ इति।
चलनाः पश्वादयः। पतनाः पक्षिणः। सर्पणाः सरीसृपा भुजगादयः। एषां मनुष्यादीनां जीवनं तयो राजब्राह्मणयोरायत्तं तदधीनम्। राजा तु परिपन्थिनिग्रहादिना तेषां जीवनहेतुः। इतरस्तु कथं बहुश्रुत इत्यत आह—
अग्नौ प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते।
आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः ॥
इत्यादिन्यायेन जीवने हेतुः ॥ २ ॥
चार वर्णों (तथा संकर जातियों) के मनुष्यों, वृक्ष आदि बढ़ने और घटने वाले लुप्त चेतना वाले स्थावर पदार्थों, पशु आदि चलने वाले जीवों, उड़ने वाले पक्षियों और सरकने वाले सर्पों आदि का जीवन इन्हीं दोनों (राजा और बहुश्रुत ब्राह्मण) के अधीन होता है ॥ २ ॥
न च जीवनमात्रमेव तदधीनं किं तर्हि—
प्रसूती रक्षणमसंकरो धर्मः ॥ ३ ॥
प्रसूतिरभिवृद्धिः। दण्डोपदेशाभ्यां यथोक्तकारितया वृष्ट्यादिद्वारेण रोगाद्युपद्रवशान्त्या चाभिवृद्धिर्भवति। चोरनिग्रहाद्रक्षणमपि। दण्डप्राय-
सानुवाद-मिताक्षरावृत्तिसहितानि ७१
श्चित्तोपदेशाभ्यां भवति वर्णानामसंकरोऽसंमेलनमपि। विहितोपदेशात्प्रतिषिद्धसेवायां दण्डधारणाच्च धर्मोऽपि भवति। एतत्सर्वं तयोरायत्तम् ॥३॥
( वृष्टि द्वारा तथा रोग आदि उपद्रवों की शान्ति द्वारा ) वृद्धि, ( चोरों को दण्ड देने से ) रक्षा, वर्णों के संकर का निरोध तथा ( विहित का उपदेश एवं अनुचित कर्म के निषेध तथा दण्डधारण द्वारा ) धर्म भी इन्हीं दोनों ( राजा और बहुश्रुत ब्राह्मण ) के अधीन होते हैं ॥ ३ ॥
बहुश्रुत इत्युक्तं प्रतिपादयति—
स एव( ष ) बहुश्रुतो भवति ॥ ४ ॥
स एष इति वक्ष्यमाणनिर्देशः ॥ ४ ॥
बहुश्रुत व्यक्ति इस प्रकार का होता है ॥ ४ ॥
लोकवेदवेदाङ्गवित् ॥ ५ ॥
लोकशब्देन लोकव्यवहारसिद्धा जनपदादिधर्मा उच्यन्ते। तेषां वेदाश्चत्वार ऋग्यजुःसामाथर्वाणः। अङ्गानि षट्। व्याकरणं शिक्षा छन्दो ज्योतिषं कल्पसूत्राणि निरुक्तमपि। तेषां वेत्ता पाठतोऽर्थतश्च ॥ ५ ॥
वह लोकव्यवहार, चारों वेदों तथा छह वेदाङ्गों का ज्ञाता हो ॥ ५ ॥
वाकोवाक्येतिहासपुराणकुशलः ॥ ६ ॥
वेदशास्त्रोपयोगोनि तर्कोक्तिप्रत्युक्तिरूपाणि वाक्यानि। यथा महाभारते—कःस्विदेकाकी चरति सूर्य एकाकी चरतीत्यादीनि वाकोवाक्यम्। भारतरामायणादीनीतिहासः। पुराणं विष्णुपुराणशिवपुराणाद्यष्टादशविधम्। तेषु कुशलः समर्थः ॥ ६ ॥
वाकोवाक्य ( वेदशास्त्र सम्बन्धी तर्कोक्ति के वचन ), इतिहास ( महाभारत और रामायण ) तथा पुराणों का पण्डित हो ॥ ६ ॥
तदपेक्षस्तद्वृत्तिः ॥ ७ ॥
यान्येतानि लोकादीन्यनूक्तानि तान्यपेक्षत इति। तद्वृत्तिस्तदभिहितानां कर्मणामनुष्ठाता ॥ ७ ॥
इन ( लोकव्यवहार, वेद शास्त्र आदि ) की अपेक्षा रखने वाला हो तथा इनके अनुकूल आचरण करने वाला हो ॥ ७ ॥
चत्वारिंशत्संस्कारैः संस्कृतः ॥ ८ ॥
चत्वारिंशत्संस्कारा गर्भाधानादयो वक्ष्यन्ते। तैः संस्कृतः ॥ ८ ॥
७२ गौतमधर्मसूत्राणि
जिसके ( गर्भाधान आदि ) चालीस संस्कार हुए हों ॥ ८ ॥
त्रिषु कर्मस्वभिरतः ॥ ९ ॥
इज्याध्ययनदानानि त्रीणि कर्माणि। तेष्वभिरतः। तेषां सातत्येना- नुष्ठाता। तद्वृत्तिरित्यनेनैव सिद्धे पुनर्वचनमतिदार्ढ्यार्थम् ॥ ९ ॥
( यजन, अध्ययन और दान इन ) तीन कर्मों में रत रहता हो ॥ ६ ॥
षट्सु वा ॥ १० ॥
याजनाध्यापनप्रतिग्रहैः सह षट् कर्माणि तेष्वभिरतः। वाशब्देन पूर्वोक्तेषु नियमः ॥ १० ॥
अथवा छः कर्मों ( उपर्युक्त तीन कर्मों के साथ याजन, अध्यापन और प्रतिग्रह ) में सदैव रत रहता हो ॥ १० ॥
सामयाचारिकेष्वभिविनीतः ॥ ११ ॥
पौरुषेयो व्यवस्था समयः। तन्मूला आचाराः समयाचारास्तेषु भवाः सामयाचारिकाः स्मार्ता धर्मास्तेष्वभिविनीतः पित्रादिभिः सम्यक्शि- क्षितः ॥ ११ ॥
सामयाचारिक ( स्मृति में विहित ) कर्मों में ( पिता आदि द्वारा ) सम्यक् रूप से शिक्षित किया गया हो ॥ ११ ॥
स एवंरूपो ब्राह्मणः—
षड्भिः परिहार्यो राज्ञा ॥ १२ ॥
षड्भिर्वक्ष्यमाणैर्वधादिभिः परिहार्यो राज्ञा भवति । परिहारो वर्जनम् ॥ १२ ॥
ऐसे बहुश्रुत ब्राह्मण को राजा छः प्रकार के ( वध आदि ) कष्टों से मुक्त रखे ॥ १२ ॥
तान्वधादीनाह—
अवध्यश्चावन्ध्यश्चादण्ड्यश्चाबहिष्कार्यश्चापरिवाद्यश्चा- परिहार्यश्चेति ॥ १३ ॥
वधस्ताडनम्। बन्धो निगडनम्। दण्डोऽर्थापहारः। बहिष्कारो ग्रामादिभ्यो निरसनम्। परिवादो दोषसंकीर्तनम्। परिहारस्त्यागः। षडेते वधादय एवंभूते बहुश्रुते ब्राह्मणे सत्यप्युद्धिपूर्वापराधे राज्ञा वर्ज्याः।
सानुवाद-मिताक्षरावृत्तिसहितानि ७३
बुद्धिपूर्वस्य तु प्रसङ्गाभावात् । इतिशब्दः प्रकारवचने । यच्चान्यदेवंरूपसंभाषादि तदपि वर्ज्यमिति ॥ १३ ॥
ऐसे बहुश्रुत ब्राह्मण वध (शारीरिक दण्ड), बन्धन, आर्थिक दण्ड, ग्राम से निष्कासन, दोष प्रचार द्वारा अपमान और त्याग के योग्य नहीं होते हैं ॥ १३ ॥
चत्वारिंशत्संस्कारैरित्युक्तं तानाह—
गर्भाधानपुंसवनसीमन्तोन्नयनजातकर्मनामकरणान्नप्राशनचौलोपनयनम् ॥ १४ ॥
समाहारद्वंद्वः । गर्भाधानमृतावुपैयादित्यादिकालनियमेन सूत्रकारोक्तविधाननिषेकः । गर्भाधानादयः संस्कारास्तत्तद्गृह्येषूक्ताः । इह तु संस्कारगणनार्थं स्वरूपनिर्देशमात्रं कृतम् ॥ १४ ॥
गर्भाधान, पुंसवन, सीमन्तोन्नयन, जातकर्म, नामकरण, अन्नप्राशन, चौल, उपनयन ॥ १४ ॥
चत्वारि वेदव्रतानि ॥ १५ ॥
एतानि प्रतिवेदं प्रतिशाखं च गृह्येषूक्तानि ॥ १५ ॥
वेदाध्ययन के चार व्रत ॥ १५ ॥
स्नानं सहधर्मचारिणीसंयोगः ॥ १६ ॥
स्नानं समावर्तनम् । सहधर्मचारिणीसंयोगो विवाहः ॥ १६ ॥
समावर्तन स्नान और विवाह ॥ १६ ॥
पञ्चानां यज्ञानामनुष्ठानं देवपितृमनुष्यभूतब्रह्मणाम् ॥ १७ ॥
पञ्चानां देवानां यज्ञास्तेषामनुष्ठानम् । एतत्पञ्चमहायज्ञानुष्ठानमहरहः कर्तव्यम् । न तु सकृत्कृतेन संस्कारसिद्धिः । पञ्चग्रहणात्पञ्चैते पृथक्संस्कारा न पुनः समुदिता एकः संस्कारः ॥ १७ ॥
देवयज्ञ, पितृयज्ञ, मनुष्ययज्ञ, भूतयज्ञ और ब्रह्मयज्ञ इन पाँच यज्ञों का अनुष्ठान ॥ १७ ॥
एतेषां च ॥ १८ ॥
वक्ष्यमाणानामष्टकादीनां च पाकयज्ञानामनुष्ठानं संस्कार इति ॥ १८ ॥
तथा इन (आगे बताये जाने वाले अष्टका आदि पाकयज्ञों) का अनुष्ठान ॥ १८ ॥
७४ . गौतमधर्मसूत्राणि
तानाह— अष्टका पार्वणः श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्त पाकयज्ञसंस्थाः ॥ १९ ॥
ऊर्ध्वमाग्रहायण्यास्त्रयोऽपरपक्षास्तेष्वेकैकस्मिन्नेकाऽष्टका भवतीतिच्छन्दोगाः । हेमन्तशिशिरयोश्चतुर्णामपरपक्षाणामष्टमीष्वष्टकैकस्यां चेत्याश्वलायनः । या माघ्याः पौर्णमास्या उपरिष्टान्मध्याष्टका तस्यामष्टमो ज्येष्ठया संपद्यते । तामेकाष्टकेत्याचक्षत इत्यापस्तम्बः । एवंभूताऽष्टका । पर्वणि भवः स्थालीपाकः पार्वणः । श्राद्धं मासि श्राद्धम् । श्रावणी सर्पबलिः । श्रावण्यां पौर्णमास्यां गृह्यमग्निमतिप्रणीयेत्यादिच्छन्दोगाभिहितः । श्रावण्यां पौर्णमास्यामस्तमिते स्थालीपाक इत्यापस्तम्बः । आग्रहायणो मार्गशीर्ष्यां पौर्णमास्यां क्रियमाणः सर्पबलिरुत्सर्गहोमः । हेमन्ते प्रत्यवरोहणाख्यं च कर्माऽऽग्रहायणीशब्देनोच्यते । चैत्री शूलगवः । ईशानबलिरित्यापस्तम्बीयानां प्रसिद्धः स चैत्र्यां पौर्णमास्यां भवति । अथ शूलगवः शरदि वसन्ते चेत्याश्वलायनः । आश्वयुजां रुद्राय स इति च्छन्दोगाः । आश्वयुज्यां पौर्णमास्यां तत्कर्म निवेशनमलंकृत्य स्नाताः शुचिवाससः पशुपतये स्थालीपाकं निरूप्य जुहुयुरित्याश्वलायनः । अनाहिताग्नेराग्रयणमपि तत्रैव भवति । तदिदं द्वयमाश्वयुजीशब्देन विवक्षितम् । पाकयज्ञ इति गार्ह्याणां कर्मणामाख्या । यथाऽऽहाऽऽपस्तम्बः—लौकिकानां पाकयज्ञशब्द इति । संस्थाविधाः पाकयज्ञविधाः समेत्यर्थः ॥ १९ ॥
अष्टका (आग्रहायणी के बाद तीन अपरपक्षों की अष्टमी तिथियों पर किया जाने वाला पाकयज्ञ अथवा हेमन्त और शिशिर ऋतुओं के चार अपरपक्षों की अष्टमी तिथियों को किया जाने वाला पाकयज्ञ), पार्वण (पर्वों पर किये जाने वाले स्थालीपाक कर्म), श्राद्ध (मासिक श्राद्ध), श्रावणी (सर्पबलि या श्रावण की पूर्णिमा को सूर्यास्त होने पर किया जाने वाला स्थालीपाक यज्ञ), आग्रहायणी (मार्गशीर्ष पूर्णिमा को किया जाने वाला सर्पबलि उत्सर्ग होम), चैत्री (चैत्र पूर्णिमा को किया जाने वाला शूलगव या ईशानबलि), आश्वयुजी (आश्विन पूर्णिमा को पशुपति के स्थालीपाक होम)—ये सात पाकयज्ञ संस्थाएँ हैं ॥ १९ ॥
अग्न्याधेयमग्निहोत्रं दर्शपूर्णमासावाग्रयणं चातुर्मास्यानि निरूढपशुबन्धः सौत्रामणीति सप्त हविर्यज्ञसंस्थाः ॥ २० ॥
अग्न्याधेयादयः श्रुतिसिद्धाः संस्कारेषु गण्यन्ते । सप्तग्रहणाद्दर्शपूर्ण-
सानुवाद-मिताक्षरावृत्तिसहितानि ७५
मासौ समुदायतयैकः संस्कारः। सोमसंबन्धाभावाद्धविर्यज्ञा इति ॥२०॥
अग्न्याधेय, अग्निहोत्र, दर्श और पूर्णमास, आग्रयण, चातुर्मास्य, निरूढपशु-बन्ध और सौत्रामणि—ये सात हविर्यज्ञ की संस्थाएँ ( भी संस्कार ) हैं ॥ २० ॥
अग्निष्टोमोऽत्यग्निष्टोम उक्थ्यः षोडशी वाजपेयोऽतिरात्रोऽप्तोर्याम इति सप्त सोमसंस्थाः ॥ २१ ॥
अग्निष्टोमो राजन्यस्य । षोडशिग्रहो गृह्यते यत्र सोऽत्यग्निष्टोमः । ब्राह्मणस्य कथमयं संस्कार इति चिन्त्यम् । अन्ये प्रसिद्धाः ॥ २१ ॥
अग्निष्टोम, अत्यग्निष्टोम, उक्थ, षोडशी, वाजपेय, अतिरात्र और अप्तोर्याम—ये सात सोमयज्ञ की संस्थाएँ ( भी संस्कार ) हैं ॥ २१ ॥
इत्येते चत्वारिंशत्संस्काराः ॥ २२ ॥
इत्युक्तोपसंहारः । चत्वारिंशद्ग्रहणादेव तावन्त एव संस्काराः । नान्यानि स्मार्तकर्मणि काम्यादीनि चेति ॥ २२ ॥
इस प्रकार ये सब मिलाकर चालीस संस्कार हुए ॥ २२ ॥
अथाष्टावात्मगुणाः ॥ २३ ॥
वक्ष्यन्त इति शेषः । अथशब्दः संभावनायाम् ॥ २३ ॥
अब आठ आत्मगुण बताये जा रहे हैं ॥ २३ ॥
दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो मङ्गलमकार्पण्यमस्पृहेति ॥ २४ ॥
आत्मवत्सर्वभूतेषु यद्धिताय शिवाय च ।
वर्तते सततं हृष्टः कृत्स्ना ह्येषा दया स्मृता ॥ १ ॥
आक्रुष्टोऽभिहतो वाऽपि न क्रोशेन्न च ताडयेत् ।
अदुष्टो वाङ्मनःकायैः सा तितिक्षा क्षमा स्मृता ॥ २ ॥
यो धर्ममर्थं कामं च लभते मोक्षमेव च ।
न द्विष्यात्तं सदा प्राज्ञः साऽनसूया स्मृता बुधैः ॥ ३ ॥
द्रव्यशौचं मनःशौचं वाचिकं कायिकं तथा ।
शौचं चतुर्विधं प्रोक्तमृषिभिस्तत्त्वदर्शिभिः ॥ ४ ॥
यदारम्भे भवेत्पीडा नित्यमत्यन्तमात्मनः ।
तद्वर्जयेद्धर्म्यमपि सोऽनायासः प्रकीर्तितः ॥ ५ ॥
प्रशस्ताचरणं नित्यमप्रशस्तविवर्जनम् ।
एतद्धि मङ्गलं प्रोक्तं मुनिभिस्तत्त्वदर्शिभिः ॥ ६ ॥
७६ गौतमधर्मसूत्राणि
आपद्यपि च कष्टायां भवेद्दीनो न कस्यचित् ।
संविभागरुचिश्च स्यात्तदकार्पण्यमुच्यते ॥ ७ ॥
विवर्जयेदसंतोषं विषयेषु सदा नरः ।
परद्रव्याभिलाषं च साऽस्पृहा कथ्यते बुधैः ॥ ८ ॥
इत्युक्तप्रकारेणाष्टावात्मगुणाः ॥ २४ ॥
सभी प्राणियों पर दया, क्षमाशीलता, अनसूया (दूसरे की समृद्धि में न जलना), पवित्रता, अनायास (जिस कार्य को करने से अपने को पीड़ा हो उसे न करना), मङ्गल (प्रशस्त कर्म का आचरण), अकार्पण्य (किसी से कुछ न माँगना) और अस्पृहा (दूसरे की वस्तु देखकर लालच न करना)—ये आठ आत्मगुण हैं ॥ २४ ॥
एषामुत्कर्षमाह—
यस्यैते चत्वारिंशत्संस्कारा न चाष्टावात्मगुणा न स ब्रह्मणः सायुज्यं सालोक्यं गच्छति ॥ २५ ॥
सालोक्यं समानलोकवासित्वम् । एकदेशसंयोगात्सालोक्यं समस्तयोगात्सायुज्यमिति ॥ २५ ॥
जिसमें चालीस संस्कारों से युक्त होने पर भी ये आत्मगुण नहीं होते वह ब्रह्म का सायुज्य और ब्रह्मलोक में निवास नहीं प्राप्त करता ॥ २५ ॥
यस्य तु खलु संस्काराणामेकदेशोऽप्यष्टावात्मगुणा अथ स ब्रह्मणः सायुज्यं सालोक्यं च गच्छति [ गच्छति ] ॥ २६ ॥
तुशब्दो विशेषवाची । खलुशब्दः प्रसिद्धौ । यस्य चत्वारिंशत्संस्कारेषु द्विजत्वमूलकतिपयसंस्कारसंबन्धेऽप्यष्टावात्मगुणाः सन्ति । अथशब्दो निर्धारणे ब्रह्मणः सायुज्यं सालोक्यं च गच्छत्येव [ अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ २६ ॥
किन्तु जो व्यक्ति इन चालीस संस्कारों में से थोड़े से भी संस्कारों से युक्त होता है और साथ ही आठ आत्मगुणों से अन्वित होता है वह ब्रह्म का सायुज्य एवं ब्रह्मलोक में निवास प्राप्त करता है ॥ २६ ॥
इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां प्रथमप्रश्नेऽष्टमोऽध्यायः ॥ ८ ॥
अथ प्रथमप्रश्ने नवमोऽध्यायः
स विधिपूर्वकं स्नात्वा भार्यामधिगम्य यथोक्तान्गृहस्थ-धर्मान्प्रयुञ्जान इमानि व्रतान्यनुकर्षेत् ॥ १ ॥
तच्छब्देन पूर्वाध्यायोक्तराजा ब्राह्मणश्च परामृश्यते । वैश्यस्य तु स्नातकविषये विशेषं वक्ष्यति । विधिपूर्वं विधिं पुरस्कृत्य स्नात्वा वेद-व्रतानि पारं नीत्वा समावर्तनं कृत्वा भार्यामधिगम्य विवाहं कृत्वा तद्-नन्तरं यथोक्तानतिथिपूजादिगृहस्थधर्माननुतिष्ठन्निमान्यपि वक्ष्यमाणानि व्रतान्यनुकर्षेत् । आत्मानं प्रापयेदनुतिष्ठेदिति ॥ १ ॥
वह (ब्राह्मण और क्षत्रिय) विधिपूर्वक समावर्तन स्नान करके विवाह करे और ऊपर कहे गये गृहस्थ धर्मों का पालन करते हुए इन व्रतों का आचरण करे ॥ १ ॥
स्नातकः ॥ २ ॥
चलोपो द्रष्टव्यः । स्नातकश्चैतानि गृहस्थव्रतान्यनुतिष्ठेत् । ब्रह्मचर्या-न्निवृत्तत्वाद्गार्हस्थ्यव्यतिरिक्ताश्रमान्तराभावाच्च भार्याधिगमादूर्ध्वमिति पूर्व-सूत्रमारब्धम् । स्नातकस्य तु भार्याधिगमासंभवे यावज्जीवं गृहस्थधर्मा एवानुष्ठेया इति सूत्रान्तरमारब्धम् । एतच्च राजब्राह्मणयोरेव स्नातक-व्रतानुष्ठानं तदतिक्रमे प्रायश्चित्तं च विधीयते । तथा च स्मृत्यन्तरम्— राजब्राह्मणयोरेव नेतरेषां कथंचनेति ॥ २ ॥
स्नातक भी इन नियमों का पालन करे (स्नातक विवाह न करने पर भी आजीवन गृहस्थ धर्म का ही पालन करे) ॥ २ ॥
कानि पुनस्तानि व्रतानि—
नित्यं शुचिः सुगन्धिः स्नानशीलः ॥ ३ ॥
आचमनादिना नित्यं शुचिः शक्तिविषये न मुहूर्तम्प्यप्रयतः स्यात् । सुगन्धिश्चन्दनाद्यनुलिप्तेन सुरभिताङ्गः । यद्वा गन्धः शीलं सुशीलः स्यादिति । स्नानशीलो नित्यस्नायी स्यात् । अत्र स्नातकविषये वसिष्ठः—
स्नातकानां तु नित्यं स्यादन्तर्वासस्तथोत्तरम् ।
यज्ञोपवीते द्वे यष्टिः सोदकञ्च कमण्डलुः ॥ इति ।
मनुः—
वैणवीं धारयेद्यष्टिं सोदकं च कमण्डलुम् ।
| ७८ | गौतमधर्मसूत्राणि |
|---|
यज्ञोपवीतं वेदं च शुभे रौक्मे च कुण्डले ॥ इति ।
वेदो दर्भमुष्टिः ॥ ३ ॥
( आचमन आदि द्वारा ) नित्य पवित्र रहे, सुगन्धित द्रव्यों का लेप करे और स्नान करे ॥ ३ ॥
सति विभवे न जीर्णमलवासाः स्यात् ॥ ४ ॥
विभवेऽन्यस्य संभवे सति जीर्णं मलवच्च वासो न धारयेत् ॥४॥
यदि दूसरे वस्त्र हों तो फटे हुए और मैले वस्त्र न पहने ॥ ४ ॥
न रक्तमुल्बणमन्यधृतं वासो बिभृयात् ॥ ५ ॥
कुसुम्भादिरागयुक्तमुल्बणं बहुमूल्यमन्यधृतं गुरुवर्जमन्यैः पूर्वधृतमेवंविधानि वासांसि न धारयेत् । सति विभव इत्यनुवर्तते ॥ ५ ॥
रंगे हुए, बहुमूल्य और दूसरे (गुरु के अतिरिक्त अन्य व्यक्ति) द्वारा पहले पहने गए वस्त्रों को न धारण करे ॥ ५ ॥
न स्रगुपानहौ ॥ ६ ॥
स्रगुपानहावप्यन्यधृते न धारयेत् ॥ ६ ॥
दूसरे व्यक्ति द्वारा पहनी हुई माला और दूसरे के जूते न पहने ॥ ६ ॥
निर्णेक्तमशक्तौ ॥ ७ ॥
अन्यस्यालाभोऽशक्तिः । अशक्तावन्यधृतं वासः स्रगुपानहौ च निर्णिज्य धारयेत् । तत्र वासोनिर्णेजनं ऊषरोदके पङ्के कार्यम् ॥ ७ ॥
स्वयं अभावग्रस्त होने पर दूसरे के पहने हुए (वस्त्र, माला, जूता आदि) को धोकर पहन सकता है ॥ ७ ॥
न रूढश्मशुरकस्मात् ॥ ८ ॥
श्मश्रुग्रहणं नखादीनामप्युपलक्षणार्थम् । अकारणान्न रूढश्मश्रुः स्यात् । कारणे सति रूढश्मश्रुः स्यात् । कारणं तु स्मृत्यन्तरे पठितम्—
षष्ठाब्दे षोडशाब्दे च विवाहाब्दे तथैव च ।
अन्तर्वत्न्यां च जायायां क्षौरकर्म विवर्जयेत् ॥ इति ।
वपनस्यापि गङ्गायां भास्करक्षेत्र इत्यादिना चोदितकालत्वात्कथं तर्हि स्यात्तत्र मनुः—
क्लृप्तकेशनखश्मश्रुरिति कल्पना कर्तनेन समीकरणम् । याज्ञवल्क्यश्च—शुक्लाम्बरधरो नोचकेशश्मश्रुनखः शुचिः । इति ॥ ८ ॥
अकारण दाढ़ी (और नाखून) न बढ़ावे ॥ ८ ॥
सानुवाद-मिताक्षरावृत्तिसहितानि ७९
नाग्निमपश्च युगपद्धारयेत् ॥ ९ ॥
एकेन हस्तेनाग्निमपरेणापश्च युगपन्न धारयेत् । अत्र व्याघ्रो विशेषमाह— न धारयेदपश्चाग्निमपश्चान्नं तथैव च । युगपत्स्नातको नित्यं तद्भार्याऽपि तथैव च ॥ इति ॥ ९ ॥
अग्नि और जल को एक साथ न ले। (अर्थात् एक हाथ में अग्नि और दूसरे हाथ में जल लेकर न चले) ॥ ९ ॥
नाञ्जलिना पिबेत् ॥ १० ॥
यत्किञ्चित्क्षीरोदकादि पेयमञ्जलिना न पिबेत् । संयुक्तौ हस्ता-वञ्जलिः ॥ १० ॥
(दूध, जल आदि पेय पदार्थ को) अञ्जलि से न पीये ॥ १० ॥
न तिष्ठन्नुद्धृतोदकेनाऽऽचामेत् ॥ ११ ॥
उद्धृतोदकेन तिष्ठन्नाऽऽचामेत् । आसीन एवाऽऽचामेत् । उद्धृतोद-केनेति वचनात्तटाकादिषु तीरप्रदेशस्याशुचित्वे जानुदध्ने जले तिष्ठतोऽ-प्याचमनमप्रतिषिद्धम् । आचारोऽप्येवमेव शिष्टानाम् ॥ ११ ॥
लाये गये जल से खड़े होकर आचमन न करे (बैठकर आचमन करे) ॥ ११ ॥
न शूद्राशुच्येकपाण्यावर्जितेन ॥ १२ ॥
शूद्रेण शुचिनाऽप्यस्पृश्यस्पर्शादिदूषितेन द्विजेनाप्येकेन पाणिना च यदावर्जितं तेनोदकेन नाऽऽचामेत् । स्वयं तु वामहस्तावर्जितेनोदके-नाऽऽचमनविषय एकपाण्यावर्जितत्वं समानमिति चेन्न । हस्तद्वयस्याप्या-चमनकर्मसम्बन्धात्तथा च शिष्टाचारदर्शनात् ॥ १२ ॥
शूद्र के स्पर्श से दूषित द्विज द्वारा एक हाथ से डाले जाने वाले जल से आचमन न करे ॥ १२ ॥
न वाय्वग्निविप्रादित्यापो देवता गाश्च प्रति पश्यन्वा मूत्र-पुरीषामेध्यान्व्युदस्येत् ॥ १३ ॥
अपूशब्दान्ते द्वन्द्व आर्षत्वात्समासान्तो न कृतः । अनित्याः समा-सान्ता इति केषांचित्पक्षः । देवताः प्रतिमाः । वाय्वादीन्प्रति सूत्रादीनि न व्युदस्येत्पश्यन्वा न कुर्यादिति प्रति पश्यन्वेत्यर्थः । प्रति न कुर्यादित्या-भिमुख्यवर्जनम् । पश्यन्न कुर्यादिति नियमादाभिमुख्ये सत्यप्यनवलो-
८० | गौतमधर्मसूत्राणि
कनम्। मूत्रपुरीषयोः पृथगुपादानादमेध्यशब्देन निष्ठीवनोच्छिष्टादि विवक्षितं तर्ह्यमेध्यशब्देनैवालम्। मूत्रपुरीषग्रहणं तु तयोरतिशयेन वर्जनार्थम् ॥ १३ ॥
वायु, अग्नि, ब्राह्मण, सूर्य, जल, देवता, गौ की ओर मुख करके अथवा उन्हें देखते हुए मूत्र और मल का त्याग न करे और न थूक, खकार, उच्छिष्ट फेंके ॥ १३ ॥
नैता देवताः प्रति पादौ प्रसारयेत् ॥ १४ ॥
एता वाय्वाद्या देवताः प्रति पादौ न प्रसारयेत्। पादावित्युपलक्षणं पादं च न प्रसारयेत्। गोषु विप्रेषु च देवतापदप्रयोगस्तद्वदपचारार्थः ॥ १४ ॥
इन देवताओं ( तथा गौ एवं ब्राह्मण ) की ओर पैर न फैलावै ॥ १४ ॥
न पर्णलोष्टाश्मभिर्मूत्रपुरीषापकर्षणं कुर्यात् ॥ १५ ॥
न पर्णादिभिर्मूत्रपुरीषयोरपकर्षणमपमार्जनं कुर्यात् । अन्यैस्तु कुर्यादिति ॥ १५ ॥
पत्ते, ढेला और पत्थर से मूत्र और मल न हटाये ॥ १५ ॥
न भस्मकेशनखतुषकपालमेध्यान्यधितिष्ठेत् ॥ १६ ॥
भस्मादीनि नाऽऽक्रामेत् । तुषा व्रीह्यादीनां त्वचः । अन्ये प्रसिद्धाः । तेषामुपरि न तिष्ठेत् । अधितिष्ठेदित्यनेन यादृच्छिकस्पर्शमात्रे न दोषः ॥ १६ ॥
भस्म, केश, नख, भूसी, कपाल और मेध्य ( अपवित्र पदार्थ ) पर न बैठे ॥ १६ ॥
न म्लेच्छाशुच्यधार्मिकैः सह संभाषेत ॥ १७ ॥
वर्णाश्रमधर्मरहिते देशे सिंहलद्वीपादौ ये वसन्ति ते म्लेच्छाः। अशुचय आर्या अपि विहितानि संध्यावन्दनादीनि ये न कुर्वन्ति ते तथोक्ताः। अधार्मिकाः पतितादयस्तैः सह न संभाषेत। संशब्दप्रयोगादेव सिद्धे सहग्रहणं तैः सहैककार्यो भूत्वा न संभाषेतेत्येवमर्थम्। तेन मार्गप्रश्नादौ न दोषः ॥ १७ ॥
( वर्णाश्रमधर्महीन ) म्लेच्छों, ( सन्ध्यावन्दन आदि न करने वाले आर्य जाति के ही ) अपवित्र व्यक्तियों एवं पतितों के साथ संभाषण न करे ॥ १७ ॥