भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

सानुवाद-मिताक्षरावृत्तिसहितानि ९९

कस्मात्पुनरेवं राज्ञे देय इत्यत आह—

तद्रक्षणधर्मित्वात् ॥ २८ ॥

तेषां करदायिनां रक्षणरूपेण धर्मेण तद्वत्त्वात्तेषामयं रक्षक इति कृत्वेति ॥ २८ ॥

क्योंकि उन (करदाताओं) की रक्षा करना ही राजा का धर्म होता है ॥२८॥

तेषु तु नित्ययुक्तः स्यात् ॥ २९ ॥

तेषु कर्षकादिषु नित्ययुक्तः स्याद्रक्षणे नित्यमवहितः स्यात् । अपर आह—तेषु बल्यादिषु नित्ययुक्तः स्यात् । तात्पर्येणाऽऽददीत शुल्कं । ह्यस्यैतद्धनमिति ॥ २९ ॥

अतएव राजा उन ( कृषक आदि करदाताओं ) की रक्षा में नित्य सावधान होकर तत्पर रहे । अथवा करग्रहण में नित्य तत्पर रहे ॥ २९ ॥

अधिकेन वृत्तिः ॥ ३० ॥

राज्ञोऽधिकं रक्षणमिति यदुक्तं तद्वारेण यदागतं धनं तदधिकं तेनाऽत्मनः पोष्यवर्गस्य च हस्त्यश्वादीनां च वृत्तिः स्यान्न तु पूर्वैर्यत्संचित्य खातं कोशरूपेण तेन जीवेत् । आपदि तु तेनापि जीवेत् । तथा च व्याघ्रः—

कुटुम्बपोषणं कुर्यान्नित्यं कोशं च धारयेत् ।
आपदोऽन्यत्र कोशात्तु न गृह्णीयात्कदाचन ॥ इति ॥ ३० ॥

( अन्य द्विजातियों की अपेक्षा रक्षण करना राजा का ) अधिक कार्य होने से वह उस ( रक्षण कार्य ) द्वारा प्राप्त धन से अपनी (अपने आश्रितों एवं हाथी-घोड़े आदि की ) वृत्ति चलावे ( यदि आपत्काल न हो तो पूर्वकाल से सञ्चित कोश का व्यक्तिगत व्यय के लिए उपयोग न करे ) ॥ ३० ॥

शिल्पिनो मासि मास्येकैकं कर्म कुर्युः ॥ ३१ ॥

एकेनाह्ना साध्यमेकं कर्म । शिल्पिनो लोहकारादयः । तेऽपि प्रतिमासं राज्ञे स्वयमेकमहः कर्म कुर्युः । एष एषां शुल्कः ॥ ३१ ॥

कारीगर प्रत्येक मास में एक दिन राजा के लिए अपनी कर्म करें ( यह उनके लिए कर होता है ) ॥ ३१ ॥

एतेनाऽऽत्मोपजीविनो व्याख्याताः ॥ ३२ ॥

आत्मोपजीविनो ये शरीरायासेन जीवन्ति काष्ठवाहादयस्तेऽप्येते

१०० गौतमधर्मसूत्राणि

च शिल्पिषूक्तप्रकारेण व्याख्याता मासि मास्येकैकं कर्म कुर्युुरिति। नर्त- कादिष्वप्येषैव गतिः॥ ३२ ॥

शारीरिक श्रम करके जीविका निर्वाह करने वालों (लकड़हारा आदि) के लिए भी इसी प्रकार का नियम है॥ ३२ ॥

नौचक्रीवन्तश्च ॥ ३३ ॥

नौश्च चक्रं च नौचक्रे। चक्रशब्देन तद्वच्छकटं लक्ष्यते। तद्वन्तो नौचक्रीवन्तः। आसन्दीवदष्ठीवदित्यादिना कथंचिद्रूपसिद्धिः। नौवन्तो नौजीविनः। चक्र(क्री)वन्तः शकटजीविनः। तेऽपि राज्ञ एकमहस्त- त्कर्म कुर्युः॥ ३३॥

नौका एवं गाड़ी चलाकर जीविकानिर्वाह करने वाले भी (प्रतिमास एक दिन राजा के लिए कर्म करें)॥ ३३ ॥

भक्तं तेभ्यो दद्यात् ॥ ३४ ॥

शिल्पिनो मासि मासीत्यारभ्य येऽनुक्रान्तास्तेभ्यः कर्म कुर्वद्भ्यो भक्तमन्नं दिवा भोजनं दद्याद्राजा ॥ ३४ ॥

इनको राजा (जिस दिन वे उसके यहाँ श्रमदान करें उस दिन) भोजन दे॥ ३४ ॥

पण्यं वणिग्भिरर्थापचयेन देयम् ॥ ३५ ॥

मासि मास्येकैकमित्यनुवर्तते। विंशतिभागः शुल्कः पण्य इत्युक्तम्। ततः शुल्कादधिकमिदं मासि मास्येकं पण्यमर्थापचयेन प्राप्तस्य मूल्यस्य किंचिन्न्यूनतां कल्पयित्वा वणिजो राज्ञे दद्युः। तत्र बृहस्पतिः—

शुल्कं दद्युस्ततो मासमेकैकं पण्यमेव च।
अर्घावरं च मूल्येन वणिजस्ते पृथक् पृथक्॥ इति ॥ ३५ ॥

कर देने वाले व्यापारी (कर के अतिरिक्त) प्रतिमास अपनी विक्रय की एक वस्तु कम मूल्य पर राजा को अर्पित करें॥ ३५ ॥

प्रनष्टमस्वामिकमधिगम्य राज्ञे प्रब्रूयुः ॥ ३६ ॥

प्रनष्टं स्वामिसकाशात्प्रभ्रष्टम्। अस्वामिकमज्ञायमानस्वामिकम्। अधिगम्य भूमौ पतितमुपलभ्य जनपदपालने नियुक्ता एते राज्ञे प्रब्रूयुः। अन्ये वा केचिद् दृष्टवन्तस्तेऽपि ब्रूयुः॥ ३६॥

किसी की खोई हुई वस्तु या ऐसी वस्तु को पाकर जिसके स्वामी का पता न हो उस वस्तु के विषय में राजा को बतलाना चाहिए॥ ३६ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १०१

ततः किं कर्तव्यं राज्ञा—

विख्याप्य संवत्सरं राज्ञा रक्ष्यम् ॥ ३७ ॥

विख्याप्य—इदमेवंजातीयकं वस्त्वासादितं रक्ष्यते । यस्यैतत् स आगच्छतु, इति नगरे पटहेन घोषयित्वा संवत्सरं रक्ष्यम् प्राक्चेत्संवत्सरात्स्वाम्यागच्छति ततो लक्षणानि पृष्ट्वा साम्यं चेत्तत्तस्मै देयम् । वैषम्ये स दण्ड्यः । तथा च याज्ञवल्क्यः—

प्रनष्टाधिगतं देयं नृपेण धनिने धनम् ।
विभावयेन्न चेल्लिङ्गैस्तत्समं दण्डमर्हति ॥ इति ॥

एवमधिगम्याप्रब्रुवन्तो दण्ड्याः ॥ ३७ ॥

राजा उस वस्तु के मिलने की घोषणा करके एक वर्ष तक उसकी रक्षा करे ॥ ३७ ॥


अथ संवत्सरादूर्ध्वं किं कार्यमित्याह—

ऊर्ध्वमधिगन्तुश्चतुर्थं राज्ञः शेषः ॥ ३८ ॥

येनाधिगम्याऽऽख्यातं तस्मै चतुर्थमंशं दत्त्वा शेषो राज्ञा ग्राह्यः॥३८॥

एक वर्ष बाद उस वस्तु का चतुर्थांश उसके पाने वाले को देकर शेष राजा स्वयं ग्रहण करे ॥ ३८ ॥


स्वामी रिक्थक्रयसंविभागपरिग्रहाधिगमेषु ॥ ३९ ॥

रिक्थं पित्रादीनामभावे प्राप्तम् । क्रयो मूल्येन स्वीकारः । संविभागो भ्रात्रादीनां साधारणस्य परस्परविभागः । परिग्रहो वन्येष्वस्वामिकेषु वृक्षादिषु पूर्वस्वीकारः । अधिगमः प्रनष्टस्याज्ञातस्वामिकस्य निध्यादेः स्वीकारः । एतेषु कारणेषु द्रव्यस्वीकर्ता स्वामी भवति । तेन प्रनष्टेऽधिगते राज्ञोऽधिगन्तुश्च स्वाम्यनुपपन्नमिति प्रकरणसंगतिः । क्षेत्रेषूत्पन्नानि सस्यादीनि क्षेत्रवदेव क्षेत्रवतः स्वानि । एतेनाऽऽकरेत्पन्नं लवणादि व्याख्यातम् । एतानि सर्ववर्णसाधारणानि स्वाम्यकारणानि ॥ ३९ ॥

कोई भी व्यक्ति पैतृक सम्पत्ति, स्वयं खरीदी हुई वस्तु, भाइयों से बँटवारे से मिले हुए धन एवं स्वयं पाई हुई किसी की खोई हुई वस्तु ( जो पहले राजा को दी गई हो और राजा से चतुर्थांश के रूप में प्राप्त हो ) का स्वामी होता है ॥ ३९ ॥


ब्राह्मणस्याधिकं लब्धम् ॥ ४० ॥

यल्लब्धं दानरूपेण तद्ब्राह्मणस्याधिकं स्वाम्यमूलम् ॥ ४० ॥

१०२गौतमधर्मसूत्राणि

इनके अतिरिक्त दान में प्राप्त धन ब्राह्मण की अधिक सम्पत्ति होता है ॥ ४० ॥

क्षत्रियस्य विजितम् ॥ ४१ ॥

विजयेन लब्धं क्षत्रियस्याधिकं स्वम् ॥ ४१ ॥

युद्ध में जीता हुआ धन क्षत्रिय का अधिक धन होता है ॥ ४१ ॥

निर्विष्टं वैश्यशूद्रयोः ॥ ४२ ॥

निर्विष्टं कर्मणोपात्तम्। कृष्यादिना वैश्यस्य शुश्रूषादिना शूद्रस्य। तदधिकमनयोः ॥ ४२ ॥

अपने कर्म से उपार्जित धन वैश्य और शूद्र की अधिक सम्पत्ति होता है ॥ ४२ ॥

अथ प्रणष्टाधिगताधिगन्तुश्चतुर्थमित्यस्यापवादमाह—

निध्यधिगमो राजधनम् ॥ ४३ ॥

निधिश्चेदधिगतस्तद्राजधनमेव भवति। अधिगन्त्रेऽनुग्रहानुरूपं किंचिद्देयमिति ॥ ४३ ॥

पायी हुई वस्तु राजा का धन होती है ॥ ४३ ॥

ब्राह्मणस्याभिरूपस्य ॥ ४४ ॥

अभिरूपः षट्कर्मनिरतः। तस्य ब्राह्मणस्य चेन्निध्यधिगमो न तद्राजधनं किं तर्ह्यधिगन्तुर्ब्राह्मणस्यैवेति ॥ ४४ ॥

अपने छः कर्मों में रत रहने वाले ब्राह्मण को मिली हुई वस्तु उसीकी (अर्थात् ब्राह्मण की ही) सम्पत्ति होती है (राजा की नहीं) ॥ ४४ ॥

अब्राह्मणोऽप्याख्याता षष्ठं लभेतेत्येके ॥ ४५ ॥

अब्राह्मणोऽपि निधिमधिगम्य यद्याचष्ट इदमित्थमासादितमिति स तस्य निधेः षष्ठं लभेतेत्येके स्मर्तारो मन्यन्ते। ब्राह्मणेऽनभिरूपे कल्प्यः ॥ ४५ ॥

कुछ आचार्यों के मतानुसार ब्राह्मण से भिन्न वर्ण का व्यक्ति भी स्वयं पाकर राजा को अर्पित की गई वस्तु के षष्ठांश का स्वामी होता है ॥ ४५ ॥

चौरहृतमपजित्य यथास्थानं गमयेत् ॥ ४६ ॥

चौरैर्हृतं द्रव्यं तानपजित्य यथास्थानं गमयेत्। स्वामिन एव दद्यात्। जेतुस्तु जयफलं किंचित् ॥ ४६ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १०३

चुराई गई वस्तु को चोर से छीनकर जिसकी वस्तु हो उसी को देनी चाहिए ॥ ४६ ॥

कोशाद्वा दद्यात् ॥ ४७ ॥

यद्यन्विष्यापि चोरा न दृष्टास्त एव वा जित्वा गतास्तदा स्वकोशादादाय तावद्धनं स्वामिने दद्याद्यावदपहृतं चौरैरिति ॥ ४७ ॥

(यदि ढूंढने पर भी चोर न मिलें अथवा धन चुराकर भाग जायें तो) अपने कोश से उतना धन स्वामी को दे ॥ ४७ ॥

रक्ष्यं बालधनमा व्यवहारप्रापणात् ॥ ४८ ॥

बालोऽप्राप्तषोडशवर्षः। तस्य यदि हितैषिणो रक्षकाश्च पित्रादयो न सन्ति सन्तो वा मूर्खाश्चाधार्मिकाश्च तदा तद्धनं राज्ञा रक्ष्यम् । आ कुतः। व्यवहारप्रापणात्। यावदसौ व्यवहारप्राप्तः षोडशवर्षो भवति ॥ ४८ ॥

सोलह वर्ष से कम अवस्था वाले बालक के धन की उसके व्यवहार प्राप्ति तक (अर्थात् सोलह वर्ष की अवस्था प्राप्त करने तक) राजा रक्षा करे ॥ ४८ ॥

समावृत्तेर्वा ॥ ४९ ॥

आङनुवर्तते । अधीतवेदस्य गुरुकुलान्निवृत्तिः समावृत्तिः । आ वा तस्या इति ॥ ४९ ॥

अथवा उस बालक के समावर्त्तन तक (गुरुगृह से लौटने के समय तक रक्षा करे ) ॥ ४९ ॥

एवं राज्ञोऽधिकं स्वत्वमूलमुक्तम् । सांप्रतं वैश्यस्याऽऽह—

वैश्यस्याधिकं कृषिवणिक्पाशुपाल्यकुसीदम् ॥ ५० ॥

कृषिः प्रसिद्धा । वणिगिति वाणिज्यम् । पशुपालस्य कर्म पाशुपाल्यम् । कुसीदं वृद्ध्यर्थो धनप्रयोगः । कृष्यादिभिर्यल्लब्धं तदधिकं स्वं वैश्यस्य ॥ ५० ॥

कृषि, व्यापार, पशुपालन और व्याज से प्राप्त धन वैश्य का अधिक धन होता है ॥ ५० ॥

शूद्रश्चतुर्थो वर्ण एकजातिः ॥ ५१ ॥

चतुर्थो वर्ण इति । वर्णसामान्यत्त्वे सत्यपि चतुर्थग्रहणं पूर्वेषां त्रयाणां ब्राह्मणादिवर्णानां पृथग्वर्णत्वोपपादनार्थम् । त्रैवर्णिका इति सिद्धत्वादेकजातिरुपनयनं पूर्वेषां द्वितीयजन्म तदस्य नास्तीति । उपनयनप्रति-

१०४गौतमधर्मसूत्राणि

षेधात्तत्पूर्वकमध्ययनमपि न भवति। तद्विषये गृह्यकार आह— शूद्रस्यापि निषेकपुंसवनसीमन्तोन्नयन जातकर्मनामकरणान्नप्राशनचौळान्यमन्त्रकाणि यथाकालमुपदिष्टानि। इति विवाहोप्यमन्त्रको यथाचारं भवति ॥ ५१ ॥

शूद्र चौथा वर्ण होता है और वह एक जाति होता है (अर्थात् अन्य तीन वर्णों के समान उपनयन संस्कार द्वारा 'द्विज' नहीं होता) ॥ ५१ ॥

तस्यापि सत्यमक्रोधः शौचम् ॥ ५२ ॥

उपनयनाध्ययनरहितत्वेऽपि यथावृत्तित्वं मा भूदिति तस्यापि शूद्रस्य सत्यादयो धर्मा भवन्ति। सत्यं यथादृष्टार्थवादित्वम्। अक्रोधः परानभिद्रोहबुद्धिः। शौचं पूर्वोक्तद्रव्यशौचं मनःशौचमित्यादि।

वसिष्ठस्तु— सर्वेषां सत्यमक्रोधो दानमहिंसा प्रजननं चेति ॥ ५२ ॥

उसके लिए भी सत्य, अक्रोध और शौच के नियमों का विधान है ॥५२॥

आचमनार्थे पाणिपादप्रक्षालनमेवैके ॥ ५३ ॥

पूर्वेषां वर्णानां यत्राऽऽचमनमुक्तं तस्मिन्विषये शूद्रस्य पाणिपादप्रक्षालनमेव भवति नान्य आचमनकल्प इत्येके मन्यन्ते। मनुस्तु— सकृदम्बुपानमिच्छति स्त्रीशूद्रौ तु सकृत्सकृदिति। नित्यस्नानविषये तूशना— सच्छूद्रः स्नायादसच्छूद्रः पाणिपादं प्रक्षालयेत्। इति ॥ ५३ ॥

कुछ आचार्यों का मत है कि शूद्र (ब्राह्मणादि तीन वर्णों के लिए विहित) आचमन के स्थान पर केवल हाथ पैर धोने का विधान है ॥ ५३ ॥

श्राद्धकर्म ॥ ५४ ॥

अमावास्यायामित्यारभ्य यच्छ्राद्धकर्म वक्ष्यते तदपि शूद्रस्य कर्तव्यं मन्त्रवर्जम् ॥ ५४ ॥

श्राद्धकर्म भी शूद्र के लिए विहित है ॥ ५४ ॥

भृत्यभरणम् ॥ ५५ ॥

भृत्यो भरणीयः पोष्यवर्गः। तस्य च भरणं कर्तव्यम्। तेन तदनुरूपमर्थार्जनमप्यस्य कर्तव्यमिति ॥ ५५ ॥

आश्रित जनों का भरण पोषण (भी शूद्र करे) ॥ ५५ ॥

स्वदारवृत्तिः ॥ ५६ ॥

स्वेष्वेव दारेष्वस्य वृत्तिः। सजातीयेष्वपि परदारेषु वेश्यासु च प्रसञ्जन् दण्ड्य इति। अपर आह— स्वदारवृत्तिरेवास्य भवतिनाऽऽश्रमान्तरप्राप्तिरिति ॥ ५६ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १०५

अपनी ही पत्नियों से सम्बन्ध रखे ॥ ५६ ॥

परिचर्या चोत्तरेषाम् ॥ ५७ ॥

उत्तरेषां त्रयाणां वर्णानां परिचर्या शुश्रूषा च ॥ ५७ ॥
अपने से उच्च वर्णों की सेवा करे ॥ ५७ ॥
सैषा वृत्त्यर्थेत्याह—

तेभ्यो वृत्तिं लिप्सेत ॥ ५८ ॥

तेभ्यः परिचरितेभ्यो जीवनं लिप्सेत ॥ ५८ ॥
(उच्चवर्णों की सेवा करके) उन्हीं से जीविका निर्वाह की इच्छा रखे ॥ ५८ ॥

तत्र पूर्वं पूर्वं परिचरेत् ॥ ५९ ॥

तथा चाऽऽपस्तम्बः—पूर्वस्मिन्पूर्वस्मिन्वर्णै निःश्रेयसं भूय इति। तदेवं यथा याजनाध्यापनप्रतिग्रहेषु ब्राह्मणस्य प्रतिग्रहो मुख्या वृत्तिस्तथा शूद्रस्य परिचर्या। तत्रापि पूर्वस्मिन्पूर्वस्मिन्वर्ण इति ॥ ५९ ॥
उन वर्णों में भी यथासंभव पहले वाले वर्ण की सेवा करे। (अर्थात् ब्राह्मण की सेवा करे; ऐसा संभव न होने पर क्षत्रिय की सेवा करे, अन्यथा वैश्य की सेवा करे) ॥ ५९ ॥

जीर्णान्युपानच्छत्रवासःकूर्चादीनि ॥ ६० ॥

कूर्चं तृणादि। शेषं प्रसिद्धम्। जीर्णान्युपभुक्तान्युपानदादीनि परिचरते शूद्राय देयानि। अयं तु शुश्रूषावृत्तेः शूद्रस्य नियमो न गृहस्थवृत्तेः। तस्य तु वृत्त्यनपेक्षं सामान्याकारेण विशेषत्वम् ॥ ६० ॥
(द्विजों द्वारा दिये गये) पुराने जूते, छाते, वस्त्र और चटाई आदि का उपयोग करे ॥ ६० ॥
पुनः प्रकृतमनुसरति—

उच्छिष्टाशनम् ॥ ६१ ॥

भोजनपात्रे यद्भुक्तावशिष्टं तदस्याशनम्। नाब्राह्मणायोच्छिष्टं प्रयच्छेदित्येतत्तु दासविषयम्। गृहस्थशूद्रविषयमन्ये। तथा च व्याघ्रः—
उच्छिष्टमन्नं दातव्यं शूद्रायागृहमेधिने।
गृहस्थाय तु दातव्यमनुच्छिष्टं दिने दिने ॥ इति ॥ ६१ ॥
द्विजातियों का जूठा (पात्र में छोड़ा हुआ) भोजन खाये ॥ ६१ ॥

१०६गौतमधर्मसूत्राणि

शिल्पवृत्तिश्च ॥ ६२ ॥

शिल्पानि चित्रकर्मादीनि। तैरप्ययं वर्त्तेत। अत्र मानवो विशेषः—

अशक्नुवंस्तु शुश्रूषां शूद्रः कर्तुं द्विजन्मनाम्।
पुत्रदारात्ययं प्राप्तो जीवेत्कारुककर्मभिः ॥ इति ॥ ६२ ॥

शिल्पकर्म द्वारा भी जीविका निर्वाह करे ॥ ६२ ॥

यं चायमाश्रयेद्‍भर्त्तव्यस्तेन क्षीणोऽपि ॥ ६३ ॥

परिचर्यया वर्तमानः शूद्रो यदि क्षीणः कर्म कर्तुमसमर्थो भवति तथा (दा)ऽपि यमसौ पूर्वमाश्रितः कर्माण्यकरोत्तेनासौ भर्त्तव्यः। पूर्वकृतापेक्षया ॥ ६३ ॥

जिस व्यक्ति की शूद्र सेवा करता हो वह उस (शूद्र) के दुर्बल (सेवा करने में असमर्थ) होने पर भी उसका भरण-पोषण करे ॥ ६३ ॥

तेन चोत्तरः ॥ ६४ ॥

तेन च शूद्रेणोत्तरो वृत्तिक्षीणो भर्त्तव्यः शिल्पादिभिः। पूर्वकृतापेक्षयैव। अत्र जातूकर्ण्यः—

यो नोचमाश्रयेदार्य आत्मानं दर्शयेत्सदा।
आत्मानं दासवरकृत्वा चरेन्नोचोऽपि तं प्रति ॥
दरिद्रो ब्राह्मणो दान्तो वेदानां चैव पारगः।
शूद्रेणापि सदाऽप्येष भतव्योऽनाश्रितोऽपि सन् ॥
बिभृयाद्ब्राह्मणं नित्यं सर्वयत्नेन बुद्धिमान्।
अन्यं चाप्यानृशंस्यार्थं शूद्रोऽपि द्रव्यवान्भवेत् ॥ इति ॥ ६४ ॥

और वह शूद्र भी स्वामी के वृत्तिहीन या क्षीण होने पर उस स्वामी की सेवा करता रहे ॥ ६४ ॥

तदर्थोऽस्य निचयः स्यात् ॥ ६५ ॥

अस्य शूद्रस्य निचयोऽर्थसंचयस्तदर्थः स्यात्तस्योत्तरस्य पोषणार्थः स्यात्। पूर्वसूत्रस्य हेतुरयम् ॥ ६५ ॥

शूद्र द्वारा संगृहीत धन उस स्वामी के भरण के लिये हो ॥ ६५ ॥

अनुज्ञातोऽस्य नमस्कारो मन्त्रः ॥ ६६ ॥

अस्य शूद्रस्य वैश्वदेवादिषु तत्तद्देवतापदं चतुर्थ्यन्तं मनसा ध्यात्वा नमो नम इत्येवंरूपो मन्त्रोऽनुज्ञातो धर्मज्ञैः। अपर आह—

सानुवाद-मिताक्षरावृत्तिसहितानि १०५

देवताभ्यः पितृभ्यश्च महायोगिभ्य एव च ।
नमः स्वधायै स्वाहायै नित्यमेव नमो नमः ॥
इत्ययं मन्त्रो नमस्कारशब्देन विवक्षितः । स पित्र्येषु कर्मसु भवति । तच्चाऽऽह गृह्यकारः—ब्राह्मणानुपवेश्य देवतादिकं मन्त्रं जपेत् ॥ ६६ ॥

इस शूद्र के लिए ( वैश्वदेव आदि पूजा कर्म में तत्तत् देवता को 'नमो नमः' कहकर ) नमस्कार करना ही मन्त्र बताया गया है ॥ ६६ ॥

पाकयज्ञैः स्वयं यजेतेत्येके ॥ ६७ ॥

पक्वगुणकेष्वपक्वगुणकेषु च गार्ह्येषु कर्मसु पाकयज्ञशब्दः प्रसिद्धः । यथाऽहाऽऽपस्तम्बः—लौकिकानां पाकयज्ञशब्द इति ॥ ६७ ॥

कुछ आचार्यों का मत है कि शूद्र पाकयज्ञों द्वारा स्वयं यजन करे ॥ ६७ ॥

सर्वे चोत्तरोत्तरं परिचरेयुः ॥ ६८ ॥

सर्व एव वैश्यादयोऽप्युत्तरमुत्तरं वर्णं परिचरेयुर्न केवलं शूद्र एव ब्राह्मणस्य तूत्तरो नास्ति । मध्ये क्षत्रियवैश्यौ । तथाऽपि सर्वशब्दे बहुवचनमवान्तरप्रभवाणां ग्रहणार्थम् । अपर आह—समानेऽपि वर्णे यो योऽपि गुणत उत्तरस्तं तमवराऽवरः परिचरेदित्येवमर्थम् ॥ ६८ ॥

वैश्य आदि अन्य सभी वर्णों के लोग भी अपने से उच्च वर्ण वालों की परिचर्या करें ॥ ६८ ॥

आर्यानार्ययोर्व्यतिक्षेपे कर्मणः साम्यं [ साम्यम् ] ॥ ६९ ॥

आर्यस्त्रैवर्णिकः । अनार्यः शूद्रः । तयोः कर्मण आचारस्य व्यतिक्षेपे व्यत्यासे सति तयोः साम्यमेव भवति न परिचार्यपरिचारकभावः । ब्राह्मणादिरप्यनार्यकर्मा चेन्न शूद्रेण परिचरणीयः । शूद्रोऽप्यार्यकर्मा चेदना-र्यकर्मभिरितरैर्जात्यपकर्षेण नावमन्तव्य इति । एतेन ब्राह्मणक्षत्रियौ क्षत्रियवैश्यौ च व्याख्यातौ । [ अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ ६९ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां द्वितीयप्रश्ने प्रथमोऽध्यायः ॥ १ ॥

आर्य ( तीन द्विजातियों ) एवं अनार्य ( शूद्र ) के कर्मों में उलट-फेर होने पर वे सभी समान हो जाते हैं ( स्वामी और सेवक का भेद समाप्त हो जाता है ) ॥ ६६ ॥

द्वितीय प्रश्न में प्रथम अध्याय समाप्त ।

अथ द्वितीयप्रश्ने द्वितीयोऽध्यायः

आर्यानार्ययोर्व्यतिक्षेपे निवारयिता राजा । अतस्तद्धर्मानाह—

राजा सर्वस्येष्टे ब्राह्मणवर्जम् ॥ १ ॥

राजाऽभिषिक्तः सर्वस्य स्वजनपदवर्तिनो जनस्येष्टे निग्रहानुग्रहादिषु किमविशेषेण नेत्याह—ब्राह्मणवर्जं ब्राह्मणान्वर्जयित्वा । ततस्ते च्यवन्तोऽपि स्वधर्मात्सान्त्वेन स्थाप्याः । सर्वक्रियासु स्वातन्त्र्यख्यापनार्थं वचनम् । यथाऽऽह नारदः—
अस्वतन्त्राः प्रजाः सर्वाः स्वतन्त्रः पृथिवीपतिः ॥ इति ॥ १ ॥
राजा ब्राह्मणों के अतिरिक्त सबका स्वामी होता है ॥ १ ॥

शास्त्राविरुद्धेष्वेवास्य स्वातन्त्र्यमित्याह—

साधुकारी साधुवादी ॥ २ ॥

साधुकारी शास्त्राविरुद्धाचरणशीलः। साधुवादी व्यवहारकाले स्वपक्षापरपक्षसमवादी ॥ २ ॥
राजा को शास्त्रानुकूल आचरण करने वाला और ( पक्षपातरहित होकर ) साधु वचन बोलने वाला होना चाहिए ॥ २ ॥

त्रय्यामान्वीक्षिक्यां वाऽभिविनीतः ॥ ३ ॥

ऋग्यजुःसामात्मकास्त्रयो वेदास्त्रयी । अथर्वणश्च वेदस्तेष्वन्तर्भवति । तत्रापि हि मन्त्रा ऋचो यजूंषि वा भेदव्यवहारस्तु प्रवचननिमित्तः । शान्तिकपौष्टिकादिप्रमेयभेदनिबन्धना वा । आन्वीक्षिकी न्यायविद्या । तयोरभिविनीतो गुरुभिः सम्यक् शिक्षितः । मनुस्तु—
त्रैविद्येभ्यस्त्रयीं विद्यां दण्डनीतिं च शाश्वतीम् ।
आन्वीक्षिकीं चाऽऽत्मविद्यां वार्तारम्भं च लोकतः ॥ इति ॥ ३ ॥
वेदत्रयी एवं न्याय विद्या में ( गुरुओं द्वारा भलीभाँति ) शिक्षित होना चाहिए ॥ ३ ॥

शुचिर्जितेन्द्रियो गुणवत्सहायोपायसंपन्नः ॥ ४ ॥

शुचिः, अन्तः परद्रव्यादिष्वस्पृहः, बहिः स्नानादिपरः । जितेन्द्रियः स्त्रियोऽक्षा मृगया पानमित्यादिव्यसनरहितः । गुणाः शान्त्यादयः । तद्वद्भिस्त्रिसामादिभिः सहायैः संपन्नः समवेततः । सामादिभिश्चोपायैः संपन्नो

सानुवाद-मिताक्षरावृत्तिसहितानि १०९

देशकालावस्थानुरूपं तेषां प्रयोक्ता। सर्वत्र स्यादिति वक्ष्यमाणमपेक्ष्यते ॥ ४ ॥

वह पवित्र ( मन से पवित्र विचारों वाला और बाह्यतः स्नानादि द्वारा शुद्ध ), जितेन्द्रिय, गुणी ( शान्ति आदि गुणों अथवा उत्तम चरित्र वाले ) सहायकों से युक्त तथा साम दाम आदि उपायों से सम्पन्न हो ॥ ४ ॥

समः प्रजासु स्यात् ॥ ५ ॥

व्यवहारकाले द्वेष्ये प्रिये च समः स्यात् ॥ ५ ॥

न्याय करते समय सम्पूर्ण प्रजा के प्रति ( पक्षपात रहित होकर ) समान भाव रखे ॥ ५ ॥

हितमासां कुर्वीत ॥ ६ ॥

आसां प्रजानां योगक्षेमयोर्वाहितः स्यात् ॥ ६ ॥

यत्न पूर्वक प्रजा का हित करे ॥ ६ ॥

तमुपर्यासीनमधस्तादुपासीरन्नन्ये ब्राह्मणेभ्यः ॥ ७ ॥

तमेवंगुणं राजानमुपरि सिंहासनादावुच्चैरासीनमधस्ताद्भूमावेवाऽऽसीरन् । किमविशेषेण । न । अन्ये ब्राह्मणेभ्यो ब्राह्मणव्यतिरिक्ताः । अध उपासीरन्नित्येव सिद्ध उपर्यासीनमिति स्वभावानुवादः। सर्वदाऽयमुपर्यासीनो भवति न तु रहस्यपि भूमाविति ॥ ७ ॥

इस प्रकार के गुणों से युक्त राजा के सिंहासन आदि ऊँचे आसन पर बैठे रहने पर ब्राह्मणों के अतिरिक्त अन्य सभी उसके आसन की अपेक्षा नीचे आसन पर बैठें ॥ ७ ॥

तेऽप्येनं मन्येरन् ॥ ८ ॥

तेऽपि ब्राह्मणा एनं राजानं मन्येरन्नाशीर्वादादिभिः पूजयेयुः ॥ ८ ॥

ब्राह्मण भी राजा का ( आशीर्वाद द्वारा ) आदर करें ॥ ८ ॥

वर्णानाश्रमांश्च न्यायतोऽभिरक्षेत् ॥ ९ ॥

वर्णा ब्राह्मणादयः आश्रमा ब्रह्मचर्यादयः । तान्न्यायतो यथाशास्त्रं षष्ठांशादिभागस्वीकारेणाभिरक्षेद्भितो रक्षेत् । यथा वर्णाश्रमधर्मानुष्ठानेन निरपायास्ते भवेयुः अथवा न्यायत इति यथा देशादिधर्माणां भङ्गो न भवति तथा रक्षेद्दिति । अनुलोमादयोऽवान्तरप्रभवा वर्णा एष्वेवान्तर्भूताः । रक्षणं सर्वभूतानामिति चोरादिभ्यो रक्षणं पूर्वोक्तम् इदं तु वचनं वर्णाश्रमधर्मेषु संकरो मा भूदिति ॥ ९ ॥

११० गौतमधर्मसूत्राणि

राजा वर्णों एवं आश्रमों की न्यायपूर्वक (शास्त्र के अनुसार षष्ठांश लेकर) रक्षा करे (अर्थात् उनमें आने वाले विघ्नों को दूर करे) ॥ ९ ॥

चलतश्चैतान्स्वधर्मे स्थापयेत् ॥ १० ॥

ते यद्यालस्यादिना स्वधर्माच्चलेयुस्ततश्चलत एतान्स्वधर्म एव निगृह्य स्थापयेदिति ॥ १० ॥

जो अपने धर्म से भ्रष्ट हो रहे हों उनका निग्रह करके पुनः स्वधर्म के मार्ग पर स्थापित करे ॥ १० ॥

कस्मात्पुनरेवमसौ करोतीत्याह —

धर्मस्य ह्यंशभागभवतीति ॥ ११ ॥

विज्ञायते हि यस्माद्रक्षतो धर्मस्यांशो भवति । उपलक्षणमेतत् । अरक्षतोऽप्यधर्मस्यांशो भवतीति ज्ञेयम् । अत्र मनुः—

सर्वतो धर्मषड्भागो राज्ञो भवति रक्षणात् । अधर्मस्यापि षड्भागो भवत्यस्य ह्यरक्षतः ॥ इति ॥ ११ ॥

(इस प्रकार धर्म की रक्षा करने पर वह उन व्यक्तियों के) धर्म का षष्ठांश प्राप्त करता है। (अन्यथा उनके अधर्म का षष्ठांश उसे मिलता है) ॥ ११ ॥

ब्राह्मणं च पुरोदधीत विद्याभिजनवाग्रूपवयःशीलसंपन्नं न्यायवृत्तं तपस्विनम् ॥ १२ ॥

स एष बहुश्रुतो भवतीत्यारभ्योक्ता विद्या । विशिष्टकुले जन्मा- भिजनः । वाक्संस्कृता भारती । रूपं मनोहरम् । वयो मध्यमं नातिबालो नातिस्थविर इति । शीलमन्तःकरणशुद्धिर्बाह्यं वाऽनुष्ठानम् । एतैर्विद्या- दिभिः संपन्नं समृद्धम् । न्यायवृत्तं लोकाविरुद्धमाचारम् । तपस्विनमभोग- परम् । एवंभूतं ब्राह्मणं पुरोदधीत पुरोहितं कुर्वीत ॥ १२ ॥

विद्या सम्पन्न, श्रेष्ठकुल में उत्पन्न, वाणी और रूप से युक्त, प्रौढ आयु वाले, शीलवान् एवं लोकानुकूल आचरण वाले ब्राह्मण को पुरोहित बनावे ।

सर्वेषु कर्मसु पुरो धीयत इति पुरोहितस्तद्दर्शयति—

तत्प्रसूतः कर्माणि कुर्वीत ॥ १३ ॥

तेन पुरोहितेन प्रसूतोऽनुज्ञात इदमित्थं कर्तव्यमिति कृतोपदेशः कर्माणि श्रौतस्मार्तादीनि पौराणिकानि नित्यनैमित्तिकानि शान्तिकपौष्टि- कान्याभिचारिकाणि कुर्वीत । तत्प्रसूत इत्यस्य मूलत्वेन ब्राह्मण- माकर्षति ॥ १३ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि १११

उसकी आज्ञा से ( श्रौत एवं स्मार्त ) कर्म करे ॥ १३ ॥

ब्रह्मप्रसूतं हि क्षत्रमृध्यते न व्यथत इति च विज्ञायते ॥१४॥ ब्रह्म ब्राह्मणस्तेन प्रसूतमनुज्ञातं हि क्षत्रं क्षत्रियम्[ यजातिन्त्रं ]- ध्यते समृद्धं भवतीति न व्यथते न कुतश्चिद्विभेति । निरपायं स्यादि- त्यर्थः । इत्येवं प्रकारेण विज्ञायते परम्परया दृश्यते ॥ १४ ॥

ब्राह्मण की प्रेरणा से कर्म करने वाला क्षत्रिय ( राजा ) समृद्धिशाली ही होता है, दुःखी या त्रस्त नहीं होता, ऐसा परम्परा से हमें ज्ञात है ॥ १४ ॥

यानि च दैवोत्पातचिन्तकाः प्रब्रूयुस्तान्याद्रियेत ॥ १५ ॥ दैवचिन्तका ज्योतिर्विदः । उत्पातचिन्तकाः शकुनज्ञाः । उत्पातानां चाग्रे फलानि जानते । ते यत्प्रब्रूयुरिदमन्यग्रहवैकृतमिदमद्य दुःशकुन- मयमद्योत्पातोऽयमेषां परिहार इति च तान्यपि सर्वाण्याद्रियेत नोपेक्षेत ॥ १५ ॥

ज्योतिषी और शकुन बताने वाले जो कुछ कहें उसे राजा को मानना चाहिए ( उसकी उपेक्षा नहीं करनी चाहिए ) ॥ १५ ॥

किमर्थम्— तदधीनमपि ह्येके योगक्षेमं प्रतिजानते ॥ १६ ॥ न केवलं रक्षणादिविहितानुष्ठानं किं तर्हि तदधीनमपि दैवोत्पात- चिन्तकैर्गृहवैकृतादौ यत्कर्तव्यतया प्रोक्तं तदधीनमपि योगक्षेमं भवति । अलब्धस्य लाभो योगः । लब्धस्य रक्षणं क्षेमः । तयोः समाहारद्वंद्वः । आयोगप्रजा विन्देद्योगक्षेमो नः कल्पतामित्यादावेकविंशत्यादिवत्पर- वल्लिङ्गता । तद्यथा—एकश्च विंशतिश्चैकविंशतिः । तं योगक्षेमं प्रतिजानत एक आचार्या इति ॥ १६ ॥

कुछ आचार्य योग ( =अलब्धवस्तु की प्राप्ति ) और क्षेम ( प्राप्त वस्तु की रक्षा ) उन ( ज्योतिषी एवं शकुन बताने वालों द्वारा निर्दिष्ट कर्मों ) के अधीन भी मानते हैं ॥ १६ ॥

शान्तिपुण्याहस्वस्त्ययनायुष्मन्मङ्गलसंयुक्तान्याभ्युदयिकानि विद्वेषणसंवननाभिचारद्विषद्व्यृद्धियुक्तानि च शालाग्नौ कुर्यात् ॥ १७ ॥

तत्राऽऽपस्तम्बो राज्ञस्तु विशेषाद्वक्ष्याम इति प्रकृत्य वेश्माऽऽवसथः, सभेति त्रिस्थानान्यभिसंधायाऽऽह—सर्वेष्वेवाजस्रा अग्नयः स्युरग्निपूजा

११२ | गौतमधर्मसूत्राणि

च नित्या यथा गृहमेध इति । तेषामन्यतमोऽत्र शालाग्निर्नौपासनो नापि त्रेताग्निर्गार्ह्येषु श्रौतेषु कर्मसु तयोर्नियतत्वात् । शान्तिसंयुक्तं दैव्योत्पात-चिन्तकसूचितापचयनिवृत्त्यर्थं यत्क्रियते ग्रहशान्तिमहाशान्त्यादि । पुण्या-हसंयुक्तं दिनदोषनाशाय विवाहादौ यत्क्रियते । स्वस्त्ययनसंयुक्तं यात्रादौ यत्क्रियते । आयुष्मत्संयुक्तं जन्मनक्षत्रादावायुर्वृद्ध्यर्थं यत्क्रियते । दूर्वा-होमादि मङ्गलसंयुक्तं गृहप्रवेशादौ यत्क्रियते वास्तुहोमादि । एतान्याभ्यु-दयिकान्यभ्युदयनिमित्तानि । विद्वेषणसंयुक्तं येनास्य शत्रुः प्रकृतोनां विद्वेष्यो भवति । संवननसंयुक्तं येनास्य शत्रवो वश्याः प्रणिपतन्ति । अभिचार-संयुक्तं येनास्य शत्रवो म्रियन्ते । ऋद्धेरभावो व्यृद्धिः । द्विषतां व्यृद्धिर्द्विष-द्व्यूद्धिः । येनास्य शत्रवो विगतैश्वर्या भवन्ति । उच्चाटनादीन्येतानि च शालाग्नौ कुर्यात् । कः । राजा । तस्य च कर्तृत्वमिदमेव । यत्तत्संविधा-तृत्वमर्थसंप्रदानादिना । तद्यथा योऽप्येकान्ते तूष्णीमासीनो भक्तभोज-बलीवर्दैः प्रतिसंविधत्ते सोऽप्युच्यते पञ्चभिर्हलैः कृष्यतीति । अपर आह—आभ्युदयिकानि पुरोहितः स्वयं कुर्यादितराणि कारयेदिति । यस्मिन्नाग्नावभ्युदयिकानि न तन्नेतराणि कुर्वन्ति किन्त्वग्न्यन्तरे पूर्वो-क्तानामन्यस्मिन् ॥ १७ ॥

दैवी उत्पातों के शमन के लिए ग्रहशान्ति या महाशान्ति आदि शान्ति कर्म, दिन के दोष को दूर करने के लिए विवाह आदि में किया जाने वाला पुण्याह कर्म, यात्रा के आरम्भ में किया जाने वाला स्वस्त्ययन, आयु के लिए जन्म नक्षत्र पर किया जाने वाला आयुष्मन् कर्म, गृह प्रवेश आदि के समय वास्तुहोम आदि मंगलसंयुक्त कर्म—ये अभ्युदय के लिए किये जाने वाले कर्म, शत्रुओं के विरुद्ध किये जाने वाले विद्वेष्य कर्म, शत्रुओं को वश में किये जाने वाले संवनन, शत्रुनाश के लिए किए जाने वाले अभिचार संयुक्त कर्म, शत्रु की समृद्धि नष्ट करने के लिए किये जाने वाले कर्म (राजा) शालाग्नि में करे ॥ १७ ॥

यथोक्तमृत्विजोऽन्यानि ॥ १८ ॥

अन्यानि गार्ह्याणि श्रौतानि च तानि कर्माणि यथोक्तं यस्मिन्कर्मणि यावन्त ऋत्विज उक्तास्तावन्तः कुर्युः । तद्यथा—औपासने चाग्निहोत्रे चाध्वर्यु रेकः दर्शपूर्णमासयोश्चत्वारः । चातुर्मास्ये पञ्च । पशुबन्धे षट् । ज्योतिष्टोमादौ षोडश । अत्र मनुः—

पुरोहितं च वृणुयाद्वृणुयादेव चर्त्विजः ॥ इति ।

तत्र येष्वेव ऋत्विक्तत्र पुरोहितोऽध्वर्युर्ब्रह्मेत्यन्ये ॥ १८ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि ११३

अन्य गृह्य और श्रौत कर्मों को यथोक्त (जिस कर्म में जितनी संख्या में विहित हों उतने) ऋत्विज् करें ॥ १८ ॥

तस्य च व्यवहारो वेदो धर्मशास्त्राण्यङ्गान्युपवेदाः पुराणम् ॥ १९ ॥

व्यवहरन्त्यनेनेति व्यवहारः। तस्य राज्ञः प्रजापालनेऽधिकृतस्य वेदादीनि व्यवहारसाधनानि। यथा वेदादिष्वभिहितं तथा व्यवहरेदिति। व्यवहारो लोकमर्यादास्थापनम् ॥ १९ ॥

उस राजा के व्यवहार के साधन हैं :—वेद, धर्मशास्त्र, वेदांग, उपवेद और पुराण ॥ १९ ॥

देशजातिकुलधर्माश्चाऽऽम्नायैरविरुद्धाः प्रमाणम् ॥ २० ॥

देशधर्मेषु जातिधर्मेषु च प्रतिनियतमनुष्ठीयमानेषु यद्यपि वेदादि मूलभूतं नोपलभ्यते तथाऽपि यदि वेदादिभिर्विरोधो न भवति तथैव ते परिपालनीया न तु मूलानियोगेन विहन्तव्या इति। तत्र देशधर्माः— मेषस्थे सवितरि चौलेषु कुमार्यो नानावर्णै रजोभिर्भूमावादित्यं सपरिवारमालिख्य सायं प्रातः पूजयन्ति। मार्गशीर्ष्यां चालंकृता ग्रामे पर्यट्य यल्लब्धं तद्देवाय निवेदयन्ते। कर्कटस्थे सवितरि पूर्वयोः फल्गुन्योर्भगवतोमुमामाराध्य यथाविभवमरुद्रव्योऽङ्कुरितं मुद्रलवणं च प्रयच्छन्ति। मीनस्थे सवितर्युत्तरयोः फल्गुन्योर्गृहमेधिनः श्रियं देवीं पूजयन्ति। जातिधर्माः शूद्रा विवाहे मध्ये स्थूणां निखाय सहस्रवर्तिरेकस्यां स्थाल्यां विधाय प्रतिवर्ति दीपानारोप्य वधू हस्तै गृहीत्वा प्रदक्षिणयन्ति। अन्यदप्येवंजातीयकं द्रष्टव्यम्। कुलधर्माः—केचिन्मध्यशिखाः। केचित्पृष्ठशिखाः। प्रवचनादयस्तु कालभेदेनोभयतःशिखाः। संबन्धश्चैतैस्तैः स्ववर्गैरिति। ये त्वाम्नायविरुद्धा मातुलसुतापरिणयनम्, अनधीत्य वेदानन्यत्र श्रम इत्यादयो देशधर्मा नेह प्रमाणम् ॥ २० ॥

वेदादि के अनुकूल देश, जाति, कुल के धर्म भी प्रमाण हैं ॥ २० ॥

कर्षकवणिक्पशुपालकुसीदिकारवः स्वे स्वे वर्गे ॥ २१ ॥

कर्षकाः कृषिजीविनः। वणिजः क्रयविक्रयव्यवहारपराः। पशुपाला गोपालाः। कुसीदिनो वार्धुषिकाः। कारवस्तक्षरजकादयः। एते स्वे स्वे वर्गे स्ववर्गसंवेदे प्रमाणम् ॥ २१ ॥

अपने-अपने वर्ग में कृषक, व्यापारी, गोपालक, महाजन और शिल्पी प्रमाण होते हैं ॥ २१ ॥

८ गौ० ध०

११४ | गौतमधर्मसूत्राणि

ततश्च कर्षकादिषु धर्मविप्रतिपत्तौ सत्यां—

तेभ्यो यथाधिकारमर्थान्प्रत्यवहृत्य धर्मव्यवस्था ॥ २२ ॥

तेभ्यस्तत्तद्वर्गेभ्यो यथाधिकारं ये यत्र वर्गे व्यवस्थापकत्वेनाधिकृतास्तेभ्योऽर्थानाचारप्रकारान्प्रत्यवहृत्य श्रुत्वाऽवधार्य धर्मव्यवस्था कार्या । इत्थमस्माकं निकाम आचार इति तैरूक्ते तथैव व्यवस्थाप्यमिति ॥ २२ ॥

उन वर्गों के अधिकार के अनुकूल नियमों को समझकर धर्म की व्यवस्था ( राजा ) करे ॥ २२ ॥

अथ ते पक्षपातेन मिथ्या ब्रूयुस्तदा कथं तत्त्वं ज्ञातव्यम्—

न्यायाधिगमे तर्कोऽभ्युपायः ॥ २३ ॥

न्याययुक्तस्यार्थस्याधिगमेऽवधारणे तर्कोऽनुमानमभ्युपायः । अभिर्धातवर्थानुवादी । तत्र मनुः—

आकारैरिङ्गितैर्गत्या चेष्टया हर्षितेन च ।
नेत्रवक्त्रविकारैश्च गृह्यतेऽन्तर्गतं मनः ॥ इति ॥ २३ ॥

न्याययुक्त अर्थ का ज्ञान प्राप्त करने के लिए तर्क भी एक उपाय है ॥२३॥

ततश्च—

तेनाभ्यूह्य यथास्थानं गमयेत् ॥ २४ ॥

तेन तर्केणाभ्यूह्यैवमयमर्थो भवितुमर्हतीति निश्चित्य यथास्थानं यत्र पक्षेऽर्थस्तत्र गमयेत् ॥ २४ ॥

तर्क द्वारा विचार विमर्श करके यथोचित पक्ष में निर्णय करना चाहिए ॥२४॥

अथाऽऽत्मन एकाकिनस्तर्केणापि दुरधिगमत्वे सति—

विप्रतिपत्तौ त्रैविद्यवृद्धेभ्यः प्रत्यवहृत्य निष्ठां गमयेत् ॥ २५ ॥

विप्रतिपत्तौ सत्यां दुरधिगमत्वे सति त्रैविद्यवृद्धान्समानाय्य तैः सह विचार्यार्थतत्त्वं तेभ्यः प्रत्यवहृत्य निष्ठां गमयेत् । यत्र पक्षेऽर्थो निश्चितस्तं गमयेत् ॥ २५ ॥

कोई निर्णय करना कठिन हो तो त्रयी विद्या में निष्णात पुरुषों से परामर्श लेकर अर्थ का निर्धारण करे ॥ २५ ॥

किमेवं कुर्वतो भवति—

तथा ह्यस्य निःश्रेयसं भवति ॥ २६ ॥

एवमस्य निर्णयं कुर्वतो निःश्रेयसमुभयोर्लोकयोर्भवति । इह जनानुरागेणामुत्र धर्मप्राप्त्या चेति हेतोः ॥ २६ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि ११५

इस प्रकार निर्णय करने पर (राजा का दोनों लोकों में) कल्याण होता है ॥ २६ ॥

न केवलं राज्ञ एव सिद्धिः । किं तर्हि सह निर्णेतॄणां ब्राह्मणानामपीति दर्शयितुं श्रुतिमुदाहरति—

ब्रह्म क्षत्रेण संपृक्तं देवपितृमनुष्यान्धारयतीति विज्ञायते ॥२७॥

ब्रह्म त्रैविद्यलक्षणं क्षत्रेण संयुक्तं राज्ञा सह धर्मं विविञ्चद्देवपितृ-मनुष्यान्धारयतीति श्रुतिसिद्धम् । एवं निर्णये कृते यथोक्तं कर्मानुतिष्ठन्ति मनुष्याः । तच्च धर्म्यं कर्म देवा उपजीवन्ति पितरश्च न क्षीयन्त इति न्यायेन सर्वेषां धारणं भवतीति ॥ २७ ॥

क्षत्र अर्थात् राजा के साथ मिलकर ब्रह्म (अर्थात् विद्यात्रयी के ज्ञाता ब्राह्मण) देवताओं, पितरों और मनुष्यों का धारण करता है (उन्हें समृद्धि प्रदान करता है) ऐसा परम्परा से ज्ञात है ॥ २७ ॥

अथ दौःशील्याद् व्यवस्थां नानुमन्यन्ते ततः—

दण्डो दमनादित्याहुस्तेनादान्तान्दमयेत् ॥ २८ ॥

दमनयोगाद्दण्डशब्दस्य दण्डत्वमित्याहुर्धर्मज्ञाः । तेनादान्तानवश्या-न्दमयेद्वशं नयेत् । दण्डेनादान्तान्दमयेदित्येवं सिद्धे दण्डः—

धिग्दण्डं प्रथमं कुर्याद्वाग्दण्डं तदनन्तरम् । तृतीयं धनदण्डं तु वधदण्डं ततः परम् ॥ देवदानवगन्धर्वा रक्षांसि पतगोरगाः । तेऽपि भोगाय कल्प्यन्ते दण्डेनैव निपीडिताः॥ इति ॥२८॥

दमन करने के कारण ही दण्डविधि को दण्ड कहा गया है, उसके द्वारा (राजा) उच्छृङ्खल व्यक्तियों को अपने वश में करे ॥ २८ ॥

अथैवं शास्त्रवश्यतया राज्ञा च स्वधर्मे स्थाप्यमानानां वर्णानामाश्रमाणां च कथं सिद्धिरित्यत आह—

वर्णाश्रमाः स्वस्वधर्मनिष्ठाः प्रेत्य कर्मफलमनुभूय ततः शेषेण विशिष्टदेशजातिकुलरूपायुःश्रुतचित्र( वृत्त )वित्तसुखमे-धसो जन्म प्रतिपद्यन्ते ॥ २९ ॥

वर्णा ब्राह्मणादयः । आश्रमा ब्रह्मचर्यादयः । ते स्वधर्मनिष्ठा वर्णप्रयु-क्तानाश्रमप्रयुक्तानुभयप्रयुक्तांश्च धर्माननुष्ठितवन्तः प्रेत्य मरणेन लोकान्तरं गत्वा तस्य तस्य कर्मणः फलं स्वर्गादिकमनुभूय ततस्तदनन्तरं शेषेण भुक्तावशिष्टेन कर्मणा विशिष्टदेशादिकान्भुक्त्वा जन्म प्रतिपद्यन्ते । तत्र विशिष्टशब्दो देशादिभिः सर्वैः संबध्यते । विशिष्टो देश आर्यावर्तादिः ।

११६ गौतमधर्मसूत्राणि

विशिष्टजातिर्ब्राह्मणजातिः । विशिष्टकुलमध्ययनादिसंपन्नम् । विशिष्टरूपं कान्तिमत् । विशिष्टायुः सहषोडशं वर्षशतम् । सहषोडशं वर्षशतमजीवदिति दर्शनात् । रोगरहितत्वमप्यायुषो विशेषः । विशिष्ट श्रुतंब्राह्मणश्च बहुश्रुत इत्यत्र व्याख्यातम् । विशिष्टवृत्तमनुपाधि चारित्रम् । विशिष्टवित्तं धर्मार्जितं धर्मे प्रयुज्यमानं च । सुखं निरपायस्थानाधिष्ठानेनानिषिद्धसुखसेवनम् । विशिष्टमेधा ग्रन्थार्थयोर्ग्रहणशक्तिरिति । मेधाशब्दे सकारान्तत्वमार्षं सुमेधसो दुर्मेधस इत्यादिष्वेव दर्शनात् । कर्माणि भुज्यमानानि पुण्यान्यपुण्यानि च सशेषाण्येवं भुज्यन्ते । ऐहिकस्य शरीरग्रहणादेरपि पुण्यापुण्यनिबन्धनत्वात् ॥ २९ ॥

ब्राह्मणादि वर्णों और ब्रह्मचर्य आदि आश्रमों के लोग अपने-अपने धर्म में रत रहने पर मृत्यु के बाद अपने कर्मों के फल का भोग करते हैं और उसके अनन्तर शेष बचे हुए कर्म के अनुसार विशेष देश, जाति, कुल, आयु, विद्या, आचार, धन, सुख और बुद्धि से युक्त होकर जन्म लेते हैं ॥ २९ ॥

विष्वञ्चो विपरीता नश्यन्ति ॥ ३० ॥

ये वर्णाश्रमाः स्वानि कर्माणि यथावन्नानुतिष्ठन्ति ते विपरीता विष्वञ्चो नानायोनीर्गच्छन्तो नश्यन्ति । अनर्थपरम्परामनुभवन्तीति ॥ ३० ॥

इसके विपरीत आचरण वाले (अर्थात् स्वधर्म का पालन न करने वाले) अनेक योनियों में भटकते हुए नष्ट हो जाते हैं ॥ ३० ॥

तानाचार्योपदेशो दण्डश्च पालयते ॥ ३१ ॥

तान्विपरीतान्यथोक्तमकुर्वतो वर्णानाश्रमांश्चाऽऽचार्योपदेशस्तावत्पालयते । तत्राप्यतिष्ठतो राजदण्डः ॥ ३१ ॥

उन्हें (अर्थात् विपरीत आचरण वालों को) आचार्यों का उपदेश और राजा का दण्ड सँभालते हैं ॥ ३१ ॥

यत एवम्—

तस्माद्राजाचार्यावनिन्द्यावनिन्द्यौ ॥ ३२ ॥

तस्माद्धेतो राजाचार्यौ मान्यावनिन्द्याविति । यद्यपि नियमनकाले हितैषितया प्रमुखपुरुषौ भवतस्तथाऽपि तयोर्निन्दा न कार्या । [अभ्यासोऽध्यायसमाप्त्यर्थः ] ॥ ३२ ॥

इति श्रीगौतमयोवृत्तौ हरदत्तविरचितायां मिताक्षरायां
द्वितीयप्रश्ने द्वितीयोऽध्यायः ॥ २ ॥

अतएव राजा और आचार्य की निन्दा न करे ॥ ३२ ॥

द्वितीय प्रश्न में द्वितीय अध्याय समाप्त ।

अथ द्वितीयप्रश्ने तृतीयोऽध्यायः

दण्डेनादान्तान्दमयेदित्युकम् । तत्र कियत्यपराधे कियान्दण्ड इत्यत आह—

शूद्रो द्विजातीनभिसंधायाभिहत्य च वाग्दण्डपारुष्याभ्या- मङ्गमोच्यो येनोपहन्यात् ॥ १ ॥

शूद्रश्चतुर्थो वर्णः । स द्विजातीन्ब्राह्मणादींस्त्रीन्वर्णान् । वाक्पारुष्येणाभिसंधायाभिभूय दण्डपारुष्येणाभिहत्य च । अभिरभिसंधिपूर्वे बुद्धिपूर्वं ताडयित्वा । दण्डग्रहणं हस्तादेरप्युपलक्षणम् । एवं कुर्वन्नङ्गमोच्योऽवयवेन वियोजनीया येनाङ्गेनोपहन्यादपराधं कुर्यात्तदङ्गं मोच्यः । हस्तेन ताडने हस्तच्छेदः पादेन ताडने पादच्छेदो वाचा जिह्वाच्छेदः ।

अत्र मनुः—

येनाङ्गेनावरो वर्णो ब्राह्मणस्यापराध्नुयात् ।
तदङ्गं तस्य च्छेत्तव्यं तन्मनोरनुशासनम् ॥ इति ।

पारुष्यग्रहणात्परिहासेनाप्रियवचने परिहासादिना ताडने च नेदं भवति ॥ १ ॥

शूद्र के जान बूझकर वाणी द्वारा या प्रहार द्वारा द्विजातियों को कष्ट पहुँचाने पर जिस अंग द्वारा शूद्र ने अपराध किया हो उसे (राजा) कटवा ले ॥ १ ॥

आर्यस्त्र्यभिगमने लिङ्गोद्धारः स्वहरणं च ॥ २ ॥

शूद्र इति प्रकृतं षष्ठ्यन्तमपेक्षते । आर्यास्त्रैवर्णिकाः । तेषां चेत्स्त्रियं शूद्रोऽभिगच्छेत्तस्य लिङ्गोद्धारो लिङ्गोत्पाटनं कार्यं यच्च यावच्च स्वं तस्य च हरणं दण्डः । आर्याभिगमनमित्येव सिद्धे स्त्रीग्रहणम्, आर्यगृहीतायां शूद्रायामपीति सूचनार्थम् । तत्र वैश्यस्त्रियां स्वहरणं क्षत्रियायां लिङ्गोद्धारः । ब्राह्मण्यामुभयमिति ॥ २ ॥

द्विजाति स्त्री के साथ सम्भोग करने पर शूद्र की जननेन्द्रिय कटवाकर उसकी सारी सम्पत्ति छीन ले ॥ २ ॥

गोप्ता चेद्वधोऽधिकः ॥ ३ ॥

स यदि शूद्रस्तासां गोप्ता रक्षिता भवति तदा वधः कार्यः अधिकग्रहणात्पूर्वोक्तदण्डद्वयमपि भवति ॥ ३ ॥

११८गौतमधर्मसूत्राणि

यदि वह शूद्र उस द्विजाति स्त्री का रक्षक हो तो पूर्वोक्त दण्डों के अतिरिक्त उसे वध दण्ड भी दे ॥ ३ ॥

अथ हास्य वेदमुपशृण्वतस्त्रपुजतुभ्यां श्रोत्रप्रतिपूरणमुदाहरणे जिह्वाच्छेदो धारणे शरीरभेदः ॥ ४ ॥

अथ हेति वाक्यालंकारे । उपश्रुत्य बुद्धिपूर्वमक्षरग्रहणमुपश्रवणम् । अस्य शूद्रस्य वेदमुपशृण्वतस्त्रपुजतुभ्यां त्रपुणा जतुना च द्रवीकृतेन श्रोत्रे प्रतिपूरयितव्ये । उपश्रवणशब्देन यदृच्छया ध्वनिमात्रश्रवणे न दोषः । स चेद् द्विजातिभिः सह वेदाक्षराण्युदाहरेदुच्चरेत् । तस्य जिह्वा छेद्या । धारणे सति यदाऽन्यत्र गतोऽपि स्वयमुच्चारयितुं शक्नोति ततः परश्वादिना शरीरमस्य भेद्यम् ॥ ४ ॥

शूद्र के (अक्षर ग्रहण करने की इच्छा से) वेदपाठ सुनने पर (पिघलाये गए) सीसे और जस्ते से उसके कान भर दिये जाँय, (द्विजातियों के साथ) वेद के अक्षर का उच्चारण करने पर उसकी जीभ काट ली जाय तथा वेद मन्त्र धारण करने पर उसका शरीर काट डाला जाय ॥ ४ ॥

आसनशयनवाक्पथिषु समप्रेप्सुर्दण्ड्यः ॥ ५ ॥

शूद्रश्चेदासनादिषु द्विजातिभिः सह साम्यं प्रेप्सति तत्तुल्यभावं ततोऽसौ दण्ड्यः । दण्डश्चाऽऽपस्तम्बेन दर्शितः—

वाचि पथि शय्यायामासन इति समीभवतो दण्डताडनम् । इति ।

दण्डेनासौ ताड्य इति । अत्र मानवो विशेषः—

सहासनमभिप्रेप्सुरुत्कृष्टस्यापकृष्टकः ।
कट्यां कृताङ्को निर्वास्यः स्फिजौ वाऽप्यस्य कर्तयेत् ॥ इति ॥ ५ ॥

द्विजातियों के साथ आसन, शयन, वार्तालाप और मार्ग में समानता प्राप्त करने का यत्न करने वाला शूद्र दण्ड्य होता है ॥ ५ ॥

शतं क्षत्रियो ब्राह्मणाक्रोशे ॥ ६ ॥

क्षत्रियश्चेद् ब्राह्मणमाक्रोशेद्वाचा परुषया निन्देत्ततः शतं दण्ड्यः । दण्डप्रकरणे सर्वत्र ताम्रिकस्य कार्षापणस्य ग्रहणमिति स्मार्तो व्यवहारः । शतं कार्षापणानि दण्ड्यः । दण्डपारुष्ये द्विगुणम् । अथाऽऽह बृहस्पतिः—

वाक्पारुष्ये कृते यस्य यथा दण्डो विधीयते ।
तस्यैव द्विगुणं दण्डं कार्येन्मरणाहते ॥ १ ॥ इति ॥ ६ ॥

ब्राह्मण को कठोर वचन कहने पर क्षत्रिय को एक सौ (कार्षापण) दण्ड होता है ॥ ६ ॥