भारतकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

अस्यार्थः । अस्मिन्प्रस्तुते कर्मणि । पूज्यमानाभ्यो 'देवताभ्यः' । ता अपे- क्ष्य(१) 'प्रथमो' मुख्यः 'अग्निः' 'एतु' आगच्छतु । आगत्य च 'सः' अग्निः । 'अस्यै' अस्याः । षष्ठ्यर्थे चतुर्थी । (पा० २।३।६२) 'प्रजां' भाविनीं 'मृत्युपा- शात्' 'मुञ्चतु' मोचयतु(२) । 'तद्' एतन्मृत्युपाशविमोचनमग्नेः । 'अयं' 'राजा' अधिपतिरपां 'वरुणः' तदाख्योदेवः 'अनुमन्यताम्' अनुजानातु । 'यथा' येनानुज्ञानेन । प्रकारेण वा (भगवतः शुभानुध्यानेन वा) 'इयं स्त्री' (३)भूता सती 'पौत्रं' पुत्रभवम् (तत्सम्बन्धि) 'अघं' दुःखं यमबन्धनात् । "दुःखौघव्यसनेष्वघम्" इत्यमरः । "प्राप्ये" तिशेषः । 'न रोदात्' न रुद्यात्(४) । ताभ्यामग्नीवरुणाभ्यां 'स्वाहा' सुहुतमस्तु ॥ १० ॥ “इमामग्नित्रायतां गार्हपत्यः प्रजामस्यै जरदष्टिं कृणोतु । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभि विबुध्यतामियᳪस्वाहा ॥११॥ 'गार्हपत्यः' तदाऽऽख्यः 'अग्निः' योऽसौ (५)भार्य्यः । 'इमां' कन्याम् (अग्निहोत्रिणीं कृत्वा) 'त्रायताम्' पालयतु । किञ्च 'अस्यै' अस्याः । पूर्वव- च्चतुर्थी षष्ठ्यर्थे । 'प्रजां' (६)सन्ततिम् । 'जरदष्टिं' जराव्यापिनीम्(७) (चिर- स्थायिनीम्) 'कृणोतु' करोतु "कृविहिंसाकरणयोश्च" (स्वा० प०) इत्यस्य लोटि रूपम् । किञ्च 'अशून्योपस्था' नित्यं सुतपूर्णोत्सङ्गा । भर्तुः सङ्गता वा सती 'जीवतां' दीर्घायुषाम् । 'माता' जनयित्री 'अस्तु' भवतु । अतः 'इयं' 'पौत्रं' पुत्रसम्बन्धिनम् । 'आनन्दम्' सुखम् । 'अभि' अधिगत्य(१०) 'विबुध्यताम्' विविधं-सुख-मनुभवतु । तस्मै अग्नये 'स्वाहा' सुहुतमस्तु ॥ ११ ॥ ( १ ) "ल्यब्लोपे कर्मण्यधिकरणे च" (पा० १।४।२१ वा०) इति पञ्चमी । ( २ ) अन्तर्भावितण्यर्थः । आशिंसायां ङित्त्वान्न लोट् । ( ३ ) स्त्यायेते संहीभवतः शुक्रशोणिते अस्यामित्यर्थे "स्त्यैशब्दसंघातयो"रिति धातोर्ड्रट् प्रत्ययऔणादिकः । डित्त्वाट्टिलोपे ङीप् । ( ४ ) लिडर्थे लेट्" (पा० ६।४।७) तस्याडागमः (पा० ३।४।९४) । ( ५ ) “गृहपतिना संयुक्तेञ्यः” (पा० ४।४।९०) इति ञ्यप्रत्ययेन निष्पन्नोगार्हपत्य- शब्दः गृहपतिसंयोगप्रवृत्तिनिमित्तकः । गृहपतित्वं च दारसम्बन्धमन्तराऽसम्भवि “न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते” इति स्मरणात् । ( ६ ) “प्रजा स्यात्सन्ततौ जने” इत्यमरः । ( ७ ) “अशूव्याप्तौ” (स्वा० आ०) इत्यस्मात्कर्तरि क्तिच् । जरदवस्थामश्नुते या स जरदष्टिस्ताम् । ( ८ ) “उपस्थः शेफसि क्रोडे तथा सदनमन्दिरे” इति मेदिनी । ( ९ ) “जनयित्री प्रसूर्माता” इत्यमरः । ( १० ) अभिलक्ष्य विबुध्यतां विबोधं प्रबोधं लभतामिति वार्थः । अत्र “सविशेषणे हि विधिनिषेधौ सति विशेष्येऽन्वयबाधे विशेषणमुपसंक्रामतः” इति न्यायानानन्दमानं पुत्रमिति पौत्रमानन्दमित्यस्यार्थोबोध्यः । “निष्ठन्तपञ्चजन्यः श्रुत” इतिवत् ।

39 is "सुपां सुलुक्..." which allows substitution of case endings in the Veda (व्यत्यय)! So "अत्र शसःसुः’ ( पा० ७।१।३९ )"! Wait, is there an opening quote? Look before श: there is a single quote! ‘शसःसुः’ or अत्र ‘शसःसुः’? Wait, look at the space: "( १ ) अत्र शसःसुः’" - the opening quote is missing or very faint. And then: “स्तने चेटोनासिकायां ध्मश्चेति वाच्यम्” ( पा० ३।२।२९ वा० ) इतिखसि नुमागमः । Yes, Pāṇini 3.2.29 is "नासिकस्तनयोर्ध्माधेटोः", and the Varttika is "स्तने चेटो नासिकायां ध्मश्चेति वाच्यम्", giving the affix खश् (or खस्), which gets नुम्-आगम to form "स्तनन्धय"! This makes 100% complete grammatical sense!

Line 25: ( २ ) “माङि लुङ्” ( पा० ३।३।१७५ ) इति लोङर्थेलुङ् । “न माङ्योगे” ( पा० Wait, is it ३।३।१७५? Yes, Pāṇini 3.3.175 is

१४४ विवाहविधिः । [ २ प्रपाठके- अथवा 'अघम्'दुःखम् (१) । एतत्सर्वं 'शीर्ष्णः' मूर्ध्नः शकासात् 'स्रजमिव' मालाम् इव 'उन्मुच्य' ऊर्ध्वं त्वत्तोऽपसार्य ( पृथक्कृत्य ) 'पाशम्' मृत्युपाश- भूतमेतत्सर्वं ते 'द्विषद्भ्यः' (२) शत्रुभ्यः तानुद्दिश्य 'प्रतिमुञ्चामि' तद्गलेषु स्थापयामि (३) । इदमग्नये 'स्वाहा' सुहुतमस्तु । अत्र "सर्वे विधयश्छन्दसि विक- ल्पन्ते” इति नियमाद्-वा अघमित्यत्र सन्ध्यभाव आर्षः । अविवक्षया वा ॥१४॥ "परैतु मृत्युरमृतम्म आगाद्वैवस्वतो नोऽअभयं कृणोतु । परम्मृत्योऽनुपरेहि पन्थां यत्र नो अन्य इतरीदेवयानात्” ॥ चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषोमोतवीरान्स्वाहा ॥१५॥ कन्यकैवाशास्ते—“मृत्युः' (४) मरणम् । मत्तः 'परैतु' दूरङ्गच्छतु । 'अमृ- तम्' अमरणम् । 'मे' मम 'आगात्' आगच्छतु (५) । तथा 'वैवस्वतः' यमः । (६) 'नः' अस्माकम् (७) । 'अभयम्' भयाभावम् (८) । 'कृणोतु' करोतु । एवम्प- रोक्षमुक्त्वा प्रत्यक्षीकृत्य मृत्युरेवाभ्यर्थ्यते-हे 'मृत्यो ! मत्तः 'परम्' अन्यं 'पन्थां' पन्थानम् (९) । 'अनुपरेहि' कमप्यनुगत्यापसर । यत्र 'नः' अस्माकम् 'अन्यः' परः शत्रुरस्ति । कोऽसौ पन्थाः ? 'देवयानात्' देवपथात् 'इतरः' अन्यः (१०)पि- तृपथः । यत्र गत्त्वा पुनरावर्त्तते मृत्युवशमापन्नः । किञ्च 'चक्षुष्मते शृण्वते' 'ते' तुभ्यं 'ब्रवीमि' प्रार्थये । यत् 'नः' अस्माकं 'प्रजां' सन्ततिम् । 'उत' अपि च 'वीरान्(११)' विक्रान्तान् पुरुषान् पतिपुत्रादीन् 'मा रीरिषः' मा हिंसी.(१२) तस्मै मृत्यवे 'स्वाहा' सुहुतमस्तु । अत्र “प्रकृत्यान्तः पादमव्यपरे" ( पा० ६।१।११५ ) इति नो इत्यस्य प्रकृतिभावात्पूर्वरूपाभावः ॥ १५ ॥ महाव्याहृतिभिश्च पृथक् ॥ २७ ॥ महाव्याहृतिभिर्भूर्यादिभिस्तिसृभिः । पृथक्-प्रत्येकं, क्रियानुषङ्गार्थश्चका- रः ॥ १५ ॥


( १ ) “अंहोदुःखव्यसनेष्वघम्” इत्यमरः ॥ ( २ ) "रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः" इत्यमरः ॥ ( ३ ) प्रतिपूर्वकोमुञ्चतिर्निधापने वर्त्तते । एवमाङ्पूर्वोऽपि । इति बोध्यम् ॥ ( ४ ) "मृत्युर्मरणं निधनेऽस्त्रियाम्” इत्यमरः ॥ ( ५ ) लोडर्थे लुङ् ( पा० ३।४।६) ॥ ( ६ ) "यमः । कालोदण्डधरः श्राद्धदेवोवैवस्वतोऽन्तकः” इत्यमरः ॥ ( ७ ) “अस्मदोद्वयोश्च” ( पा० १।२।६९ ) इत्येकत्वे बहुवचनम् ॥ ( ८ ) अर्थाभावेऽव्ययीभावः ( पा० २।१।६ ) समासः ॥ ( ९ ) नलोप आर्षः ॥ ( १० ) "इतरस्त्वन्यनीचयोः" इत्यमरः ॥ ( ११ ) "वीरविक्रान्तौ" [ चु० आ० ] पचाद्यच् ( पा०३।१।१३४ ) णिलोपः ॥ ( १२ ) "रिषहिंसायाम्" स्वार्थेणिजन्तान्माङि लुङ् (पा० ३।३।१७५ ) इति लुङ् "न माङ्योगे" ( पा० ६।४।७४ ) इत्यडभावः ॥

३. तृतीय प्रपाठक: नामकरण, निष्क्रमण, अन्नप्राशन, चूड़ाकरण एवं उपनयन संस्कार

२ कण्डिका ] गोभिलगृह्यसूत्रे— १४५ समस्ताभिश्चतुर्थीम् ॥ २६ ॥ इति श्रीम० गो० गृ० द्वि० प्र० स्य प्रथमा कण्डिका ॥२॥ १ ॥ ॐ ॥ भूर्भुवः स्वः स्वाहेति समस्ताभिः चतुर्थीमाहुतिं जुहुयात् । होमस्य खल्व- स्याज्यहविष्कतयाऽऽज्यतन्त्रविहितोमहाव्याहृतिहोमः पुरस्तादपि भवति । आ- ज्यभागौ स्विष्टकृच्च न भवन्ति । परन्तास्तिस्र एवाज्यतन्त्रोपक्रमविहिताः पुर- स्तात् । परस्तात्तु चतस्र इदानीमेव तथोपदेशादिति बोध्यम् ॥ २६ ॥ इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां मृदुलाख्यायां मुकुन्दशर्म्मसङ्कलितायां द्वितीयप्रपाठकस्य प्रथमा कण्डिका ॥ २ ॥ १ ॥ ॐ ॥ अथ द्वितीया कण्डिका । हुत्वोपोत्तिष्ठतः ॥ १ ॥ उपेति-संहतहस्तत्वमुच्यते । हुत्वा संहतहस्तौ (१)दम्पती उत्तिष्ठतः । मुरा- रिमिश्रास्तु-उप-अग्निसमीपे होमानन्तरमेवाग्निसमीपे दम्पती उत्तिष्ठतइति- व्याचख्यौ । अत्रानन्तरमेवेत्यनेनानन्तर्यमात्रं क्त्वार्थो न तु समानकर्त्तृकत्व- मपीत्युच्यते । दृश्यते चासमानकर्तृकेऽपि कर्म्मणि क्त्वाश्रुतिः । “आज्या- हुतिं हुत्वा मुख्यं धनं दद्यात्” इत्येवमादौ बहुलम् । अत्र खलु ऋत्विग्जु- होति यजमानोददाति । होमकुर्वाणस्य पत्युरंसमन्वारम्भमाणा वधूरपि कयाचिद्विवक्षया होमानुकूलचेष्टावती भवति । इत्यस्ति समानकर्त्तृत्वमिति तत्त्वकारः । केचित्तु उपेत्याञ्जलिं वध्वेत्याहुः ॥ १ ॥ अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते वध्वञ्जलिङ्गृहीत्वा ॥ २ ॥ पतिश्चानुपृष्ठं-(२)वधूं पृष्ठेन परिक्रम्य वधूदक्षिणतः । उदङ्मुख उत्तराभि- मुखोभूत्वा वध्वञ्जलिं-वध्वास्तस्या एवाञ्जलिं दक्षिणेन पाणिना गृहीत्वा अव- तिष्ठेतेत्यर्थः(३) । स खल्वयमञ्जलिः पाणिग्रहणपर्यन्तं स्थास्यति । पतिश्च तावन्तं कालममुमञ्जलिमनापत्सु न त्यजेत् । तथाच गृहान्तरम्— “हुत्वाऽऽज्यमथ जायाया अन्वारभ्याञ्जलिम्पतिः । न विमुञ्चेदनापत्सु यावत्पाणिग्रहो जपः” ॥ इति ॥ २ ॥

( १ ) एतच्च भट्टभाष्यानुसारि व्याख्यानम् ॥ ( २ ) अत्रानुपूर्व्येऽव्ययीभावः ( पा० २।१।६। ) ॥ पृष्ठेनेति प्रकारित्वं तृतीयार्थः । ( पा० २।३।१८ वा० ) । “प्रकृत्यादिगणजाता तृतीया तु तदात्मताम् । अवच्छेदकता- बुद्धिप्रकारित्वादि शंसती”ति ह्युक्तेः । ( ३ ) ऊर्ध्वस्तिष्ठेत् । विधौ लेटि रूपमेतत् । अत्र “किं कृत्वा ? वध्वञ्जलिङ्गृहीत्वा १९ गो० गृ० सू०

पूर्वा माता लाजानादाय भ्राता वा वधूमाक्रामयेदश्मानं दक्षिणेन प्रपदेन ॥ ३ ॥ पूर्वा-पूर्वदिगवस्थिता । माता-प्रकृतत्वाद्वध्वाः । भ्राता वा तस्या एव । पूर्वदिगवस्थित एव सव्यहस्तेन लाजानादाय लाजपूर्णं शूर्पं कृत्वा-आदाय । दक्षिणहस्तेन वधूं दक्षिणेन प्रपदेन पादाग्रेण(१) । अश्मानं-शिलापुत्रकम् आक्रामयेत् । केचित्तु-पूर्वा वह्वीनां मातृणां प्रथमेति व्याचक्षते तन्न मातृबहु- त्वस्यासार्वत्रिकत्वात् ॥ ३ ॥ पाणिग्राहोजपति “इममश्मानमारोहे”ति ॥ ४ ॥ (मं०ब्रा०२।१।१) स्पष्टार्थम् । मन्त्रस्तु— “इममश्मानमारोहाश्मेव त्वं स्थिरा भव । द्विषन्तमपबाधस्व मा च त्वं द्विषतामधः” ॥ ३ ॥ इति । अस्यार्थः—हे कन्यके! त्वम् ‘इमं’ पुरःस्थम् ‘अश्मानं’ दृषत्पुत्रम् । ‘आ- रोह’ आक्राम । किञ्च ‘अश्मेव’ पाषाणवत् ‘त्वं स्थिरा भव’ । ततश्च ‘द्विष- न्तम्’(२) शत्रुम् ‘अपबाधस्व नितान्तं पीडय । ‘त्वञ्च’ ‘द्विषताम्’ ‘अधः’ पादतले ‘मा’ “भू”रिति शेषः(३) ॥ ४ ॥ सकृत्संगृहीतं लाजानामञ्जलिं भ्राता वध्वञ्जलावावपति ॥ ५ ॥ सकृत्-एकवारं संगृहीतम्-सम्यग्गृहीतम् । अविकिरन्निति यावत् । लाजानामञ्जलिम् अञ्जलिपरिमितन् लाजान् । भ्रातेत्यनन्तरं “माता(४) वे”ति शेषः ॥ ५ ॥ तमुं सोपस्तीर्णाऽभिघारितमग्नौ जुहोत्यविच्छिन्दत्यञ्जलिम् “इय- न्नार्युपब्रूते” इति ॥ ६ ॥ (म० ब्रा० २।१।२) [L2

शक्यत्वात्" or "परिहर्तुमशक्यत्वात्"? Look at 'र्त्तु' in 'कर्त्तृक' (L13): exactly the same ligature! So: "परिहर्त्तुमशक्यत्वात्".

Line 18: "त्वादिति । एवञ्च सकलमैथिलाचारोऽपि सङ्गच्छते । पद्धतिरप्येवं लिखित-"

Line 19: "( गृ० सं० ) वाक्यं विशेषविषयबोधितपरमतो न विरोधइतिमुरारिमिश्राःप्राहुः ।" Wait, is it "( गृ० सं० )" or "(गृ०सं०)"? There is a space: "( गृ० सं० )". And "विरोधइतिमुरारिमिश्राःप्राहुः ।" - no spaces between विरोध, इति, मुरारिमिश्राः, प्राहुः. Wait, look at "विरोधइतिमुरारिमिश्राःप्राहुः": "विरोधइति" is joined, "मुरारिमिश्राः" is joined, "प्राहुः" is joined.

Line 20: "मन्त्रोयथा—"इयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती ।"

Line 21: "दीर्घायुरस्तु मे पतिः शतं वर्षाणि जीवत्वेधन्तां ज्ञातयोमम स्वाहा" ॥२॥ इति ॥" Wait, look at "

१४८ विवाहविधिः । [ २ प्रपाठके इति । किञ्च 'मम' 'ज्ञातयः' बान्धवाः । 'एधन्ताम्' वर्द्धन्ताम्, धनधान्यपुत्रा- दिभिः । इदञ्चास्मा अग्नये 'स्वाहा' सुहुतमस्तु ॥ ३ ॥ ६ ॥ "अर्यमणन्तु देवं" "पूषणम्"-त्युत्तरयोः ॥ ७ ॥ ( म० ब्रा० १ । २ । ३-४ ) उत्तरयोर्लाजहोमयोर्यथा "अर्यमणन्तु देवं" "पूषणन्तु देवम्" इति मन्त्रौ विनियोक्तव्यावित्यर्थः । तौ यथाक्रमम्— "अर्यमणन्तु देवं कन्या अग्निमयक्षत । स इमान्देवाऽअर्यमा प्रेतोमुञ्चातु माऽमुतः स्वाहा" ॥ ३ ॥ इति । अस्यार्थः—नुशब्दोऽत्र चार्थे । 'कन्याः' कत्र्र्यः । 'अर्यमणं' तदाख्यं 'देवम्' अभिमत दानादिगुणयुक्तम् । 'अग्निं' च 'अयक्षत' इष्टवत्यः । ( पूजितवत्यः ) 'स' च ( अर्यमा अग्निश्च ) इष्टः सन् 'इमां' कन्यां परिणी- यमानाम् । 'इतः' पितृकुलात् 'प्रमुञ्चातु' प्रमुञ्चतु-प्रमोचयतु । 'मा' न 'अमुतः' अमुष्मात्पतिकुलात् । तदेतत् ताभ्यां 'स्वाहा' सुहुतमस्तु । अत्र पूर्वा- र्द्धेन विशेषोपसंहार इति गुणविष्णुः । मुञ्चात्विति दीर्घश्छान्दसः । अन्तर्भावि- तण्यर्थश्चैवमग्रेऽपि ( पा०६।३।१३७ ) एवमग्रेऽपि । "पूषणन्तु देवं कन्या अग्निमयक्षत । स इमान्देवः पूषा प्रेतो मुञ्चातु मा पतेः स्वाहा" ॥ ४ ॥ इति । अर्थः प्राग्वत् । अत्र पतेरिति-पतिशब्दो न मुख्यार्थकः(१) । ला- जहोमकर्मण आसमाप्तेस्तथात्वाभावादितिगुणविष्णुः ॥ ४ ॥ हुते पतिर्यथेतं परिक्रम्य प्रदक्षिणमग्निं परिणयति मन्त्रवान्वाब्राह्मणः "कन्यला पितृभ्य" इति ॥ ८ ॥ ( मं० ब्रा० १।२।२ ) हुते-वध्वा (२)लाजहोमे कृते पतिः यथेतं यथाऽऽगतं(३) परिक्रम्य पुन- रागम्य प्रदक्षिणं यथा भवति तथा पत्नीमग्निं परिणयति परिसर्बतोभावेन न येत् । अग्निप्रादक्षिण्येने भ्रामयेदित्यर्थः । "कन्यला पितृभ्य" इति-अनेन मन्त्रेण । मन्त्रोयथा— "कन्यला पितृभ्यः पतिलोकं यतीयमप दीक्षामयष्ट । कन्या उत त्वया वयं धारा उदन्या इवाऽतिगाहेमहि द्विषः" ॥५॥ ( १ ) किन्तु-पतिरित्याख्यातः पतिः । "नष्टे मृते प्रव्रजिते क्लीबे तु पतिते पतौ" इति- वत् । आख्यानणिजन्तात्कर्मणि क्विपि टिलोपे णिलोपे च कृते "इन्सर्वधातुभ्य" इत्यौणा- दिकडन् प्रत्ययः । "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः" इतिन्यायेन "पतिःसमास एवे" ( पा० १।४।८ ) ति नियमोन प्रवर्त्ततेऽत्र ॥ ( २ ) हुत इत्येकवचनसम्बन्धादेकस्मिन्नेव लाजाञ्जलौ हुते इत्यर्थः । अन्यथैतदनर्थकं स्यादिति चन्द्रकान्तः । (३) यथा वध्वाऽनुपृष्ठमितमागमनं कृतं पत्नीदक्षिणस्यान्तथैव ।

२ कण्डिका ] गोभिलगृह्यसूत्रे— १४६ इति । अस्यार्थः । 'इयं' 'कन्यला' कन्या(१) । 'पितृभ्यः' पितृकुलात्(२) 'पतिलोकं' पतिगृहं(३) 'यती' (४)गच्छन्ती । 'अपदीक्षां' दीक्षां वर्जयित्वा(५) 'अयष्ट' इष्टवती । दीक्षापदेनाऽत्रवैवाहिकं(६) व्रतमुच्यते । 'उत' अपि च । 'कन्या' हे कन्ये ! (७)'त्वया' सहिता(८) 'वयं' 'द्विषः' शत्रून् कामादीन् 'अतिगाहेमहि' अतिक्रामेमहि(९) । अत्र दृष्टान्तः—'धाराः' जलस्य ( सुसी- तलाः ) कर्त्र्यः 'उदन्याः' (१०)पिपासाः कर्म्मभूताः 'इव' । ता ( धाराः ) यथा ताः ( पिपासाः ) शमयन्ति तद्वत् ॥ ५ ॥ “यतीयमि”ति मन्त्रलिङ्गान्मन्त्रं पठन्परिणयतीति गम्यते । सोऽयम्पतिर- [L10

१५० विवाहविधिः। [ २ प्रपाठके प्रदक्षिणाऽन्तर्भावः । तद्वारकस्य वहिर्भावश्चोपपद्यत इति ध्येयम् । एवम- न्यत्र ॥ ८॥ परिणीता तथैवाऽवतिष्ठते, तथा क्रामति, तथा जपति, तथाऽऽ वपति, तथा जुहोति ॥ ९॥ परिणीता-वधूः । तथैवानुपृष्ठगमनेन दक्षिणस्यामुदङ्मुखाऽवस्थितेन पत्या गृहीताऽञ्जलिः प्राङ्मुखः । अवतिष्ठते-ऊर्ध्वस्तिष्ठति । तथेति । अश्मा- रोहणादि परिणयनान्तङ्कर्म उक्तेनैव प्रकारेण वारत्रयङ्कुर्यात् । जपति-पठति (“पाणिग्राह” इति शेषः ) आवपति-अञ्जलौ लाजान् । माता-भ्रातावा ॥९॥ एवन्त्रिः ॥ १०॥ एवमुक्तप्रकारेणानन्तरोक्तं सर्वं त्रि-र्वारत्रयङ्कर्त्तव्यमित्यर्थः । एवञ्च-“इम- मश्मानमि"ति "कन्यला पितृभ्य"इति च मन्त्रावावर्त्तनीयौ । तत्रोत्तरयोर्म्म- न्त्रविशेषावुक्तावेवेति ॥ १० ॥ चतुर्थ्यां वेलायाम्- शूर्पेण शेषमग्नावोप्य प्रागुदीचीमभ्युत्क्रामयन्ति-“एकमिष” इति ॥ ११ ॥ ( म० ब्रा० १।२।६ ) शूर्पेण-शूर्पकुष्ठेन(१) । शेष-लाजशेषम्(२) । अग्नौ समिद्धेऽवोप्य(३) ( १ ) तथाच पारस्करगृह्यम्-“चतुर्थं शूर्पकुष्ठेने"ति । कुष्ठं-जिह्वास्य । तथाच गृ- ह्यसङ्ग्रहे-“यथा लाजाञ्जलिर्वध्वा हूयतेऽङ्गुलिपर्वभिः । एवं लाजहविःशेषो हूयते शूर्पजिह्वये"ति । यत्तु शूर्पकोणेनेति चन्द्रकान्तस्तन्न-“अग्रे च विधवा नारी कोणे चैव मृतप्रजा । जुहुयाच्छूर्पकुष्ठेन न चाग्रेण न कोणयोः” इति परिशिष्टान्तरदर्शनात् । सौक- र्यार्थमेतत् । एवं हि सर्वेषां लाजानामावापः सुकरो भवति । इतरथा विकीर्णानामनग्ना- वपि पातः स्यात् ॥ ( २ ) अत्रोपस्तीर्णाभिघारितमिति भवदेवभट्टादयः । शेष इति वचनात्सर्वावापो- ऽवगम्यते । न किञ्चिदवशेष्यमित्यर्थः । ( ३ ) अत्रोप्येति वचनात्तूष्णीमस्य प्रक्षेपः । मन्त्रदेवतयोरनुपदेशात् । तस्मादत्र स्विष्टकृन्निवर्त्तते । इत्थमेव शेषस्योपक्षयात् । तथाच गृह्यान्तरम् “शूर्पपुटेनाभ्यात्मं तू- ष्णीञ्चतुर्थम् ।” इति । अत्र तूष्णीमिति वचनं प्राजापत्यज्ञापनाथमिति गार्ग्यनारायणः । युक्तञ्चैतत् । “आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजाप- तिरिति स्थिति"रिति छन्दोगपरिशिष्टात् । “त्रिःपरिणीता प्राजापत्ये जुहोती"ति च गृ- ह्यान्तरम् । तस्माद्वधूः शेषञ्जुहोति वरश्च प्रजापतिं ध्यायतीति सिद्धम् । स्मरन्ति च- “शूर्पाग्रेणैव होतव्यं तूष्णीं निरवशेषतः । तस्मात्तूष्णीन्तु जुह्वत्यां वरोऽध्यायत्प्रजाप- तिम् ।” इति । “प्रजापतिञ्चतुर्थ्यन्तं स्वाहायुक्तं वरःस्मरेत् ।” इति चैवमादि । “त- स्मादग्नये स्विष्टकृते स्वाहे”ति लाजशेषं जुहुयादिति भवदेवरघुनन्दनादिमतमसङ्गतं, प्रमाणविशेषाभावाच्च । एतदनन्तरं वामदेव्यगानम् इति सरलाकारकल्पनायामपि प्रमा- णान्तरमपश्यामः । “वामदेव्यं गणेष्वन्ते” इति कर्म्मप्रदीपविरोधात् ॥

२ कण्डिका ] गोभिलगृह्यसूत्रे- १५१ प्रक्षिप्य । शेषहोममकृत्वाऽवस्थितां वधूं(१) प्रागुदीचीमैशानीं दिशम् । अभि वराभि(२)मुखीम् । उत्क्रामयन्ति—दक्षिणपादाङ्गुष्ठमुन्नाम्य वामञ्चानु(३)गम- यन्ति “एकमिषे” इत्येवमादिभिः सप्तभिर्मन्त्रावयवैः । प्रतिमन्त्रमेकैकः पाद- न्यास इत्यर्थः । बहुवचनादनियतः कर्त्ता । मन्त्रा यथा— “एकमिषे विष्णुस्त्वा नयतु १ द्वे ऊर्जे वि० २ त्रीणि व्रताय वि० ३ चत्वा- रि मायोभवाय वि० ४ पञ्च पशुभ्यो वि० ५ षड्रायस्पोषाय वि० ६ सप्तसप्त- भ्योहोत्राभ्योविष्णुस्त्वा नयतु ७॥ ६॥ अस्यार्थः—हे कन्ये ! 'विष्णु'र्विश्वव्यापकोनारायणः । 'त्वा' त्वाम् 'इषे' अन्नाद्यर्थलाभाय ( नि० २।७।१४८ ) 'एकं' पदम् । 'आनयतु । १ । एवम् 'ऊर्जे' बललाभाय(४) । २ । 'व्रताय' यज्ञकर्मणे(५) ( निघं०२।१।१७ ) । ३ । 'मायोभवाय' सुखप्राप्तये(६) । ( निघं० ३।६ । ७ ) । ४ । 'पशुभ्यः' (७)पशु- प्राप्तये । ५ । 'रायस्पोषाय' धनपुष्ट्यै(८) । ६ । 'सप्तभ्यो' 'होत्राभ्यः' अच्छा- वाकादिभ्यः(९) । ७ । इति ॥ ११ ॥ दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत् ॥ १२ ॥ दक्षिणेन-पादेन । प्रक्रम्य-गत्वा । अनु-पश्चात् । सव्येन-वामेन । क्रामेत् । गच्छेत् । क्रममाणा सव्यं (१०)पादमग्रतो न कुर्यात् । इत्यर्थः ॥ १२ ॥ ताञ्च क्रामन्तीं पतिः— “मा सव्येन दक्षिणमतिक्रामे”ति.ब्रूयात् ॥ १३ ॥ अत्र “पतिर्वधूमिति शेषः । सव्येन-वामेन । दक्षिणं-पादं माऽतिक्राम । अग्रतोवामपादममा कार्षीरित्येवं ब्रूयात् । अत्र “सखा सप्तपदी भवे”ति मन्त्र- ( १ ) वाक्योपपत्तये स्थितमित्यध्याहृतं वेदितव्यम् ॥ ( २ ) वरन्तिर्यक्पश्यन्ती पृष्ठतोऽग्रेऽपादप्रक्षेपङ्कुर्यात् । इति भावः । ( ३ ) पश्चात्प्रक्षेपयन्ति । अत्रायमाशयः । वामाङ्गी जाया सा सर्वदा पश्चात्पत्युर- वतिष्ठेत । इत्येतस्या दृष्टान्तभूतयाऽऽवृतेति । ( ४ ) “ऊर्जंबलप्राणनयोः” ( चु० प० ) किप् ॥ ( ५ ) तथाच निरुक्तम् “व्रतमिति कर्मनाम वृणोतीति सतः” इति ( २।१३।८ ) ॥ ( ६ ) मय इति सुखनाम ( निघं० ३।६।७ ) दीर्घ आर्षः । ( पा० ६।३।१३७ ) मा यसोऽअवने मायोभवः । भवतेः “ऋदोरप्” ( पा० ३।३।५७ ) इति भावेऽप्रत्ययः ॥ ( ७ ) तादर्थ्ये चतुर्थी ( पा० २।४।४४वा० ) तादर्थ्यमुपकार्योपकारकभावः । ( ८ ) रै इति धननाम ( निघं० २।१०।१६ ) ततः षष्ठी । पोषणं पोषोघञ् । षष्ठ्याः पतिपुत्रे०” ( पा० ८।३।९३ ) त्यादिना सत्वम् “अर्थे रैविभवाअपो”त्यमरोऽपि ॥ ( ९ ) होत्राशब्द ऋत्विग्वाचीति “होत्राभ्यश्छन्दसी” ( पा० ५।१।१३५ )ति सूत्रे वृत्तिकृतः प्राहुः ॥ ( १० ) सव्यपादस्याग्रे निधानं गमने स्त्रीस्वभाव इति प्रतिषिध्यते ।

१५२ विवाहविधिः । [ २ प्रपाठके- स्याशंसने पद्धतिकृता विनियोग उक्तः । युक्तश्च तथा मन्त्रलिङ्गात् । इतिमुरा- रिमिश्राः शुभकर्म्मनिर्णये प्राहुः । मन्त्रो यथा— “सखा सप्तपदी भव सख्यन्ते गमेयम् । सख्यन्ते मा जोषाः । सख्यन्ते मा योष्ठाः ॥ ७ ॥ (मं० ब्रा० १।२।७ ) इति । अस्यार्थः । पतिः कन्यां प्रार्थयते—हे कन्ये ! त्वं मम ‘सखा’ सखी(१) सती ‘सप्तपदी’ सप्तपदाऽऽक्रान्तेष्वर्थेषु सहचारिणी ‘भव’ अहं ‘ते’ तव ‘सख्यं’ (२)मैत्रीं ‘गमेयं’ तव(३) सखा भवेयमित्यर्थः । किञ्च ‘ते’ तव । मया सह यत् ‘सख्यं’ तत् अन्याः ‘योषाः’ स्त्रियः । ते सपत्न्यः ‘मा’ “छिन्दन्तु” इतिशेषः । किञ्च ‘मायोष्ठाः’(४) सुखकारिण्यः स्त्रियः । ‘ते’ त्वया(५) सह । ‘सख्यं “कुर्व्वन्त्व—”ति शेषः ॥ ७ ॥ ईक्षकान्प्रतिमन्त्रयेत “सुमङ्गलीरियं वधूरि-“ति ॥ १४ ॥ ( मं० ब्रा० १।२।८ ) ईक्षकान्-वधू प्रेक्षितुमागतान् । प्रतिमन्त्रण-मनुमन्त्रण-मित्यनर्थान्तर- म् । तच्चात्रेक्षकानवलोकयता कर्त्तव्यम् । योग्यत्वात् । तदाह कर्म्मप्रदीपः— “स्पृशन्ननामिकाग्रेण क्वचिदालोकयन्नपि । अनुमन्त्रणीयं सर्वत्र सर्वदैवाऽनुमन्त्रयेत् ॥” इति । मन्त्रोयथा— “सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरेत न ॥” ८ ॥ इति ॥ इति । अस्यार्थः—हेप्रेक्षकाः ! ‘इयं वधूः’ ‘सुमङ्गलीः’(६) प्रशस्तमङ्गल- वती परिणीता यतोऽतो यूयं ‘समेत’ समागच्छत । समागत्य च ‘इमां’ ‘पश्यत’ । ‘अथ’ अनन्तरम्। ‘अस्यै’ वध्वै ‘सौभाग्यं’ सुभगत्वं ‘दत्त्वाय’ दत्त्वा। (७)यूय- म् ‘अस्तं’ स्वगृहम् (निघं० ३।४।५) ‘विपरेतन’ विपरेत(८) । गच्छत । यद्वा- ( १ ) “सख्यशिश्वोति भाषायाम्” ( पा० ४।१।६२ ) इतिस्मरणाद्वेदे सखेत्येव- भवति ॥ ( २ ) “सख्युर्यः” ( पा० ५।१।१२६ ) इति भावे यप्रत्ययः । ( ३ ) अत्र “लिङ्याशिष्यङ्” ( पा० ३।१।८६ ) इत्यडागमः । अत्र गमेयमित्यु- क्त्यात्वद्विरुद्धं नाचरेयमित्यपि गम्यते ॥ ( ४ ) मय एव मायः। सुखम् ( निघं० ३।६।७ ) दीर्घ आर्षः । ( पा० ६।३।१३७ ) तस्य स्थानं मायोष्ठम् । तत्र भवा मायोष्ठ्याः । “भवेच्छन्दसि” ( पा० ४।४।११० ) इतियत्प्रत्ययः ॥ ( ५ ) तृतीयार्थे षष्ठी ( पा० २।३।६८ ) बाहुलकात् । ( ६ ) “छन्दसीवनिपौ च वक्तव्यौ” ( पा० ५।२।१२२ ) इति मत्वर्थे ईप्रत्ययः । ( ७ ) “क्तो यक्” ( पा० ७।१।४७ ) इति यगागमः । ( ८ ) “तप्तनप्तनथनाश्च” ( पा० ७।१।४५ ) इति तस्य तनबादेशः ।

२ कण्डिका ] गोभिलगृह्यसूत्रे— १५३ दत्त्वा-याथ । यात(१) 'नविपरीत' विमुखतया न परा-इत ( नापगच्छत ) किन्तु-पुत्रादिमङ्गलमाशास्य पुनरागमनाय व्रजतेत्यर्थः ॥ ८ ॥ १४ ॥ अपरेणाग्निमौदकोऽनुसंव्रज्य पाणिग्राहं मूर्द्धदेशेऽवसिञ्चति । तथेतरां "समञ्जन्त्वे"—तयर्चा ॥१५॥ (म०ब्रा०२।२।६) अपरेणाऽग्निम्(२) । अग्नेः पश्चिमाया दिशा । औदक उदककलशधारी (३)पुरुषः । अनुसंव्रज्य संवृतगतिरेत्य “सप्तपदीस्थानमि”तिभवदेवभट्टः । पूर्वा- वस्थितः । पाणिग्राहं वरं मूर्द्धदेशे शिरसि । अवसिञ्चति-अभिषिञ्चति कलशस्थाभिर्ध्रुवाभिरद्भिः । तथा--तेनैव प्रकारेण इतरां-वधूमप्यभिषिञ्चतीत्य- र्थः । तत्र मन्त्रमाह- "समञ्जन्त्वि"तियत

१५४ विवाहविधिः । [ २ प्रपाठके- 'दधातु'(१) । तथा 'धाता' प्रजापतिः 'सं' दधातु । 'देष्ट्री' धर्म्माद्युप(२) देष्ट्री- (वाग् देवता) 'सं' दधातु । सुस्थिते करोतु। अत्र नौ इतिपुनः प्रयोग आदरार्थः। उः पादपूरणः । यद्वा पलोप एवार्षः ( पा० ३।४।८५ ) ॥ इति ॥ ९ ॥ ऋगेषा पुरस्तादपि ( २।१।१८ सूत्रे ) उपात्ता पद्धतिक्रमेण । स एष पुनरुपन्यासोऽस्या वरस्यानेन कन्याऽभिमुखीकरणाय । येन पश्चाद्वरोनानुतपेत् । अतएवात्रापि कन्यावरयोः सम्मुखीकरणं पद्धतिषूक्तम् ॥ अत्र वरवध्वोरभिषे- कमन्त्रस्याभ्यासः । "तथेतराम्"ति भेदेनोपन्यासादितरथा समासः स्यात् । तथाच सूत्रान्तरम्-"भेदे मन्त्रावृत्तिः सम्पातिष्वादि"ति । तथा चोक्तम्-"क- र्म्मावृत्तौ तु मन्त्रस्याप्यावृत्तिर्गृह्यकर्मणि" इति । गृह्यसंग्रहे- "अभिषिक्तन्तु विधिना पाणिग्राहन्तु प्राजनी । रक्षार्थमनुगच्छेत् सप्ताहान्त्यहमेव वा ॥" इति ॥ प्राजनी-प्राजन-( प्रतोद-) वान् । पूर्वन्निर्द्धारितः स्वङ्कार्यमिदमनुतिष्ठे- दित्यर्थः । मत्वर्थे इनिः । ( पा० ५।२।१२५ ) ॥ १५ ॥ अवसिक्तायाः सव्येन पाणिनाऽञ्जलिमुपोद्गृह्य दक्षिणेन पाणिना दक्षिणम्पाणिँ साङ्गुष्ठमुत्तानङ्गृहीत्वैताः षट् पाणिग्रहणीया जपति"गृभ्णामित"इति ॥ १६ ॥ ( मं० ब्रा० १।२।१०-१५ ) अत्र सेकस्थानस्थाया एवाञ्जलिग्रहणप्राप्त्यर्थमवसिक्ताया इति निर्देश इति भाष्यकृतः । अवसिक्तायाः कृताभिषेकायाः । उपेतिसामीप्ये । तथाच म- णिवन्धप्रदेशे उत्तानं गृहीत्वेत्यर्थः । (३)पाणिग्रहणीयाः पाणिग्रहणकर्मणि नियुक्ताः(४) । जपति-प्रकृतत्वाद्वरः । "गृभ्णामित"इत्यादिका ऋचः । ता यथा- "गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । भगोअर्यमा सविता पुरन्धिर्मह्यन्त्वादुर्गार्हपत्याय देवाः"॥ १० ॥ हे कन्ये ! 'ते' तव 'हस्तं' साङ्गुष्ठं करमहं 'गृभ्णामि' गृह्णामि(५) । 'यथा' ( १ ) व्यवहितोपसर्गप्रयोगः ( पा० १।४।८२ ) आर्षः ॥ ( २ ) उपसर्गेण धातुरिव धातुनोपसर्गोऽप्यध्याहार्य इति । ( ३ ) "उत्तानेनोत्तानं गृह्णाति । नीचेन चोत्तानम्" इति शाखान्तरदर्शनात् । अ- त्रोत्तानेनेति सव्याभिप्रायं, नीचेनाधोवदनेनेति दक्षिणाभिप्रायम् । तथाच सव्येन कर- स्य पृष्ठग्रहणं प्रतीयत इति रघुनन्दनवर्णनं शोभनमेव ॥ ( ४ ) पाणिग्रहणार्थबोधिका इति यावत् । शैषिकश्छस्तस्येयादेशः ॥ ( ५ ) "हृग्रहोर्भश्छन्दसि" ( पा० ३।१।८४ वा० ) इति हस्य भत्वम् ।

२ कण्डिका ] गोभिलगृह्यसूत्रे— १६५ येन हस्तग्रहणप्रकारेण । 'पत्या' 'मया' सह त्वं 'जरदष्टिः' जर(१)च्छरीरा 'आसः' भवेः(२) । हस्तग्रहणे कुतस्तवाधिकार इत्याकाङ्क्षायामाह-'भग' इत्या- (३)दयः'देवाः' 'त्वां' त्वाम् 'मह्यम्' 'अदुः' दत्तवन्तः । किमर्थम् ! 'गार्हपत्या- य' गृहस्वामित्वाय । भाविगार्हस्थ्यं सेवितुं वा । गार्हपत्याग्निसंसेवायै वा । किञ्च 'सौभगत्वाय' सुभागानां समूहः सौभगं तस्याभावः सौभगत्वम् तस्मै ( तदर्थम् ) निरतिशयानन्दावाप्तये । इत्यर्थः । यद्वा-किमर्थं हस्तं ते गृह्णामि ? सौभगत्वाय सुभगात्वाय । ( सौभाग्याय ) मया गृहीतहस्तायास्ते सुभगत्वं-सुवासिनीत्वं भविष्यतीति स्वार्थेऽत्राणप्रत्ययः ॥ १६ ॥ “अघोरच

१५६ विवाहविधिः। [ २ प्रपाठके वत्यः । सायणस्तु-अदुर्मङ्गलीः । दुर्मङ्गलरहिता सुमङ्गलीस्त्वमिति व्याचख्यौ । ( ऋ० सं० ८।३।२८।३ ) । अतस्त्वम् । 'पतिलोकम्' पतिगृहम् । 'आविश' प्राप्नुहि । अथ च 'नः' अस्माकं 'द्विपदे' चतुष्पदे' च 'शं' भवेत्युक्तार्थकम् ॥१२॥ “इमान्त्वमिन्द्र मीढ्वः सुपुत्रां सुभगां कृधि । दशास्यां पुत्रानाधेहि पतिमेकादशं कृधि ॥ १३ ॥ अस्यार्थः-हे 'इन्द्र' ! 'त्वं' 'मीढ्वः' सेचकः । ( निषेक्ता ) रसाधिष्ठातृ- त्वात्(१) । 'इमां' वधूं 'सुपुत्रां' शोभनपुत्रवतीं 'सुभगां' सौभाग्यवतीञ्च 'कृधि' (२)कुरु । किञ्च 'अस्यां' वध्वां 'दश' दश संख्याकान् 'पुत्रान्' 'आधेहि' गर्भी- कुरु । 'पतिं' भर्तारञ्चास्या माम् 'एकादशम्' एकादशानां संख्यानां (३) पूरकम् 'कृधि' कुरु ॥ १३ ॥ इति प्रार्थ्यते । “सम्राज्ञी श्वशुरे भव सम्राज्ञी श्वश्राम्भव । ननान्दरि सम्राज्ञी भव स- म्राज्ञी अधि देवृषु ॥ १४ ॥ अस्यार्थः-हे कन्ये ! त्वं 'श्वशुरे' पत्युर्मम पितृविषये 'सम्राज्ञी' प्रधान सुवासिनी(४) 'भव' । एवं 'श्वश्रां' श्वश्रूविषये 'सम्राज्ञी' उक्तवदर्थिका 'भव' आदरार्थं पुनर्वचनम् । तथा 'ननान्दरि' पत्युर्मम भगिन्याम् । 'सम्राज्ञी भव' एवं 'देवृषु' देवरेषु(५) 'अधि' अधीश्वरी(६)सती 'सम्राज्ञी' भव ॥१४॥ “मम व्रते ते हृदयन्दधातु मम चित्तमनु चित्तन्तेऽस्तु । मम वाचमेकमना जुषस्व वृहस्पतिस्त्व

२ कण्डिका ] गोभिलगृह्यसूत्रे- १५७ 'मम चित्तमनु' मच्चित्तानुकूलं 'ते' तव 'चित्तं' मनः 'अस्तु' भवतु । 'एकमनाः' अनन्यचित्ता त्वम् 'मम वाचं' 'जुषस्व' सेवस्व(१) । हृष्टचित्ताऽऽदरेण कुरु । 'त्वा' त्वां स 'मह्यम्' मदर्थं ( माम्प्रसादयितुम् ) 'नियुनक्तु' नियोजयतु अन्तर्भावितण्यर्थो युजिरत्र ॥ इति ॥ १५ ॥ समाप्तासूहन्ति(२) ॥ १६ ॥ इति श्रीमद्गोभिलीये गृह्यसूत्रे द्वि० प्र० स्य द्वितीया कण्डिका ॥ २ ॥ २ ॥ ॐ ॥ समाप्तासु पाणिग्रहणक्रियासु वरसहाया वधूं विद्यादिसम्पन्नं ब्राह्मणकुलं यत्र तत्र उद्वहन्ति—उद्वहेयुर्नयेयुरित्यर्थः । तथाच गृह्यसंग्रहे— “यत्र विद्या च वृत्तञ्च सत्यं धर्मः शमोदमः । अभिरूपः स विज्ञेयः स्वाश्रमे यो

बुधे रम्ये” इति मेदिनी । अत्राभिरूप्यं ब्राह्मणकुलं विशिंषदस्य गुणोभवति । स चेदुपादीयमानः प्रधानमुपरुणद्धि, गुणत्वमस्य नावकल्पते । गुणोहि प्रधान- मुपकर्तुं व्याप्रीयते नैतदुपरोद्धुम् । अतएव वेद्यामेवान्ततः कर्म्म कर्त्तव्यम् । कर्म्मणः प्रधानत्वात् । तथाच गृहान्तरम्--“अथोत्तरविवाहः प्रागुदीच्याम- न्यत्र(१) वा ब्राह्मणकुले मन्त्रवति, वेद्यां वा”इति । अस्मादप्यवगम्यते । इतः प्रभृति “उत्तरविवाह”समाख्यं कर्म्मेति ॥ १ ॥ अत्राग्निरुपसमाहितोभवति ॥ २ ॥ अत्रोक्तविधे ब्राह्मणकुले । उपसमाहितः-लक्षणं कृत्वा स्थापितः । लक्षणं कृत्वेति सूत्रशेषतयैव केचित्पठन्ति । वेद्याञ्च करणे प्रधानमात्रस्यैव कर्त्तव्यता, आवृच्च तन्त्रेणैव स्यात् “गणेष्वेकम्परिसमूहनमि-”ति वचनात् । एवञ्च वेद्या- ङ्करणपक्षे एतस्यापि कर्म्मणोऽनन्तरमेव मन्त्रसमापनं न तु पाणिग्रहणकर्म्मणः परत एवेति बोध्यम् ॥ २ ॥ अपरेणाऽग्निमानडुहं रोहितञ्चर्म्म प्राग्ग्रीवमुत्तरलोमास्तीर्णम्भवति॥३॥ अपरेणाऽग्निम् । अग्नेः पश्चात् । आनडुहं-वार्षभं रोहितं लोहित(२)व- र्णं, तदभावेऽन्यदपि “गुणलोपेन प्रधानस्ये-”ति न्यायात् । चर्म्म-शुष्कम् । प्राग्ग्रीवम्-पूर्वशिरस्कम् । उत्तरलोम-उत्तरे उपरिष्टालोमानि सन्त्यस्येति तथा- विधं यथाभवति तथा । आस्तीर्णं प्रसारितम्भवति । उपवेशनार्थं वध्वाः । क- र्तुरनियमः ॥ ३ ॥ तस्मिन्नेनां वाग्यतामुपवेशयन्ति ॥ ४ ॥ तस्मिंश्चर्म्मणि । एनां वधूं वाग्यतां-नियमितवचनाम् । ( कृतमौनाम् ) उपवेशयन्ति । य एव केचित्कन्यापक्षीयाः ॥ ४ ॥ सा खल्वास्त एवानक्षत्रदर्शनात् ॥ ५ ॥ सा वधूः । नक्षत्रदर्शनं यावदुपविष्टैव तत्र तिष्ठेत् । अन्यत्रात्ययिकादि- त्यर्थः । एवशब्दादधुनाऽपीत्यर्थ इति भाष्यकारः । दिवा विवाहविषयमेतद्व- चनम् ॥ ५१ ॥ प्रोक्ते नक्षत्रे षडाज्याहुतीर्जुहोति “रेखासन्धिष्वे”-तत्प्रभृतिभिः॥६॥ ( मं० ब्रा० १।३।१-६ ) प्रोक्ते-इति । केनापि नक्षत्रमुदितमित्युक्ते इत्यर्थः । अत्राज्यतन्त्रविहितो- ( १ ) उक्तविध्युक्तब्राह्मणगृहे । तदलाभे वेद्यामपीत्यर्थः ॥ ( २ ) “रोहितोलोहितोरक्तः” इत्यमराद्रक्तवर्णमित्यर्थः ॥ एष आचारोयुगान्तर- विषयः ।

२ कण्डिका ] गोभिलगृह्यसूत्रे- १५६ महाव्याहृतिहोमः पुरस्ताच्चोपरिष्टाच भवति । आज्यभागौ स्विष्टकृच्च न भवन्तीत्यवगन्तव्यम् ॥ ६ ॥ मन्त्रा यथा- “रेखासन्धिषु पद्मस्वावर्त्तेषु च यानि ते । तानि ते पूर्णाहुत्या सर्वाणि शमयाम्यह ँस्वाहा ॥ १ ॥ “केशेषु यच्च पापकमीक्षिते रुदिते च यत् । ” ” ॥ २ ॥ “शीले यच्च पापकम्भाषित हसिते च यत् । ” ” ॥ ३ ॥ “आरोकेषु च दन्तेषु हस्तयोः पादयोश्च यत् । ” ” ॥ ४ ॥ “ऊर्वोरुपस्थे जङ्घयोः सन्धानेषु च यानि ते । ” ” ॥ ५ ॥ यानि कानि च घोराणि सर्वाङ्गेषु तवाभवन् । पूर्णाहुतिभिराज्यस्य सर्वाणि तान्यशीशम ँ स्वाहा ॥ ६ ॥ एषामर्थाः । हे कन्यके ! ‘ते’ तव ‘रेखासन्धिषु’ हस्तादिरेखासन्धिस्यानेषु । ‘पद्मषु’-नेत्रपिधानस्यानेषु । ‘आवर्त्तेषु’ ककुदावर्त्ताद्यभिधेषु लोमसन्निवेश- विशेषेषु । ककुन्दरादिद्वारेषु वा ।(१) ‘च’ कारः समुच्चयार्थः । एवमनेकधा ‘यानि’ अलक्षणानि ‘ते’ तव सन्ति । ‘तानि’ ‘सर्वाणि’ अशेषारिण ‘अहं’ पाणिग्राहः ‘शमयामि’ शान्तिङ्गमयामि । तदेतत् ‘स्वाहा’ सुहुतमस्तु ॥ १ ॥ हे कन्ये ? ‘यत्’ ‘ते’ तव ‘केशेषु’ चिकुरेषु ‘ईक्षिते’ दर्शने । ‘च’ ‘यत्’ ‘रुदिते’ अश्रुविमोचने यत् किञ्चित् ‘पातकम्’ अलक्षणमस्ति । ‘तानि’ ‘सर्वाण्य’पि ‘ते’ तवसम्बन्धीनि‘पूर्णाहुत्ये’-त्यादि गतार्थम् ॥ २ ॥ हे कन्यके! ‘यत्’ ‘ते’ तव ‘शीले’ वृत्ते (चरित्रे) ‘च’ कारादामिरूप्ये ‘भा- षिते’ वचने ‘हसिते’ हसने ‘च’ काराद्गमने ‘यत्पापकम्’ अलक्षणमस्ति । ता- नि सर्वाणी” त्यादि गतार्थम् ॥३॥ हे कन्यके ? ‘यत्’ ‘ते’ तव ‘आ’ समन्तात् ‘रोकेषु’ दन्तच्छिद्रेषु ‘छिद्रं निर्व्यथनं रोकं रन्ध्रं श्वभ्र”-मित्यमरः । ‘दन्तेषु’ ‘यच्चहस्तयोः पाद्योः’ ‘च’ कारादङ्गुलफयोः ‘पापकम्’ अलक्षणमस्ति । तानि सर्वाणीत्यादि गतार्थम् ॥ ४ ॥ एवं ‘सन्धानेषु’ रेखासन्धिव्यतिरिक्तेषु सन्धि- स्थानेषु ‘च’ कारान्मुखे यान्यलक्षणानीत्यादिगतार्थम् ॥ ५ ॥ ‘यानि’ प्रकृतान्य- प्रकृतानि च ‘कानि च’ कानिचित् । ‘घोराणि’ क्रूराणि लक्षणानि ‘तव सर्वा- ङ्गेषु’ अभवन्’ । तानि सर्वाणि’ ‘आज्यस्य पूर्णाहुतिभिः’ ‘अहम्’ ‘अशीशमम्’ अनाशयम् । तदेत‘स्वाहा’ सुहुतमस्तु ॥ ६ ॥ आहुतेराहुतेस्तु सम्पातं मूर्द्धनि वध्वा अवनयेत् ॥ ७ ॥ आहुतेराहुतेरिति । प्रत्याहुति शेषं स्रुवलग्नमाज्यं वधूरशिरसि दद्यात । ( १ ) नितम्बस्थौ ( पृष्ठवंशाधोभागे विद्यमानौ ) कूपकौ ( गतौ ) कुकुन्दरे उच्ये-

? Wait, look at the end of the verb: त, then space, then इ, त, ि = इति! Wait, why does it end in 'त' and not 'ते'? Wait, let's zoom in on that word: मन्त्रपाठो वि रु द् ध य त (with an 'े'? No, wait! Look at the top line: is there an 'े' on त? No, the 'े' is on च: चेन्न!) Wait, let's look at the letter before इति: य followed by त: Wait, is it "विरुद्धयत" or "विरुद्धयते"? Look above 'त': there is nothing above 'त'! Wait, is it "विरुद्ध्यत इति"? Or is it "विरुद्धयत इति"? Let's check the letters: वि - रु - द्ध - य - त. Wait, is it 'द्' + 'ध'? Yes, द्ध. Then य? No, wait! Could it be: "विरुद्ध इति चेन्न"? Wait, count the syllables between 'रु' and 'इति': There are two letters:

  1. द्ध (or द्ध ?)
  2. य ? No! Is it 'ध'? Wait, look at "प्रतिषिद्धेऽपि" in line 13: 'द्' + 'ध' = द्ध. Now look at this word in line 12: व ि

२ कण्डिका ] गोभिलगृह्यसूत्रे- २६१ अथैनामनुमन्त्रयते-“ध्रुवा द्यौरि-”त्येतयर्चा ॥ १२ ॥ ( मं०ब्रा० १।३।८ ) अथानन्तरमेष एनां—वधूं प्रकरणाद्धरः । अनुमन्त्रणोक्तेरनामिकाग्रेण स्पृशन्निति गम्यते । उक्त-( २।२।१४ सू० )-वचनात् । मन्त्रोयथा— “ध्रु॒वाद्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वं विश्व॑मि॒दञ्जग॑त् । ध्रु॒वासः॒ पर्व॑ता इ॒मे ध्रु॒वा स्त्री प॑तिकु॒ले इ॒यम्” ॥ ८ ॥ इति । अस्यार्थः । अत्र यथा—तथेत्यध्याहायमर्थसाङ्गत्यार्थम् । 'यथा' 'द्यौः' अन्त- रिक्षम् । 'ध्रुवा' स्थिरा 'पृथिवी' च 'ध्रुवा' स्थिरा । 'विश्वं' सर्वम् 'इदञ्जगत्' सचराचरं 'ध्रुवम्' । सद्रूपेणाऽवस्थितम् । यथा च 'इमे' 'पर्वताः' 'ध्रुवासः' ध्रुवाः(१) । तथा 'इयं स्त्री' पतिकुले' पतिगृहे(२) 'ध्रुवा' स्थिरा "भवत्वि"-ति शेषः ॥ ८ ॥ इति ॥ २१ ॥ अनुमन्त्रिता गुरुं गोत्रेणाभिवादयते ॥ १३ ॥ अनुमन्त्रितैव(३) वधूरभिवादयते । न तु तन्त्रसमापनानन्तरम् । गुरुं पतिम् । तथाच याज्ञवल्क्यः-“पतिरेको गुरुः स्त्रीणामि”-ति । गोत्रेण-पति- गोत्रेण । सान्निध्यात्(४) । स्मृत्यन्तरसंवादाच्च । तदानीमेव तद्गोत्रत्वात्तस्याः । तथाच लघुहारीतः— “स्वगोत्राद्भ्रश्यते नारी विवाहात्सप्तमे पदे । पतिगोत्रेण कर्त्तव्या तस्याः सर्वक्रिया ततः ॥” इति । एवञ्च— “चतुर्थीहोममन्त्रेण त्वङ्मासहृदयेन्द्रियैः । भर्त्रा संयुज्यते नारी तद्गोत्रा तेन सा भवेत् ॥” इति बृहस्पतिवचनं शाखान्तरविषयम् ॥ तन्मन्त्रलिङ्गसंवादात् । तदुक्तं बृहस्पतिनैव । “पाणिग्रहणिका मन्त्राः पतिगोत्रप्रदायकाः ।” इति । एवञ्च प्रवरसापिण्ड्ययोरपि इदानीमेव प्राप्तिः । गोत्रसमानत्वात् । अत्राभिषेकपाणिग्रहणमन्त्राणा(५)मेव शरीरैक्यनिमित्तत्वाच्चेति बोध्यम् ॥ ( १ ) “आजसेरसुकू” ( पा० ७।१।५० ) इत्यसुगागमः ॥ ( २ ) “कुले जनपदे गोत्रे सजातीयगणेष्वपि । भवने च तनो क्लीबमि”ति मेदिनी । ( ३ ) अनुमन्त्रितैतिश्लोपादानमेवानुमन्त्रणानन्तरमेवाभिवादनप्राप्त्यर्थमिति भा- ष्यकारः ॥ ( ४ ) गुरुं गोत्रेणेति पदयोः । अतएव पद्धतिकृतोबारेेश्वरादयः “अनुमन्त्रिता सती प्राज्ञेन गोत्रेण पाणिग्राहमभिवादयेत्” इत्येवं लिखन्ति स्म ॥ ( ५ ) अनुमन्त्रण-मन्त्रेणाऽप्ययमर्थोऽभिनिसरति “ध्रुवा स्त्री पतिकुले इयमि”ति । कुलशब्दो-गोत्रार्थकोऽपि मेदिन्यामुक्त इत्यनुपदमेवोपदर्शितम् ॥ २१ गो० गृ० सू