गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)
Gobhila Grihyasutram of Samaveda with Commentary
महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा
प्राप्तिस्थानम्— चौखम्बा संस्कृत पुस्तकालय बनारस सिटी ।
- श्रीः * अथ- गोभिलगृह्यसूत्रे- श्रीमदाद्यापदाम्भोजद्वन्द्वन्नत्वा सताम्मुदे । गोभिलीये गृह्यसूत्रे सद्याख्याम्मृदुलाम्ब्रुवे ॥ १ ॥ महाराजाऽधिराजश्री५रमेश्वरसुपालिता । नित्यं विजयते ह्येषा मिथिला कर्म्मठाऽऽवृता ॥ २ ॥ तत्र ग्रामे हरिपुरे हाटीतप्पान्तरेऽभवम् । श्रीमत्कृष्णपदाम्भोजद्वन्द्वेन्दिन्दिरमानसात् ॥ ३ ॥ नन्दलालाद्योगमायादेव्याङ्कुरमहान्वये । गोभिलः श्रीमुकुन्दोऽहम्प्रार्थितोऽकरवं पुरः ॥ ४ ॥ प्रकाशङ्कर्म्मकाण्डस्य मन्त्रार्थानान्निजैर्मुहुः । अन्तेवसद्भिः सुमना इमाङ्कुर्वेऽत्र (१)तन्मुदे ॥ ५ ॥ सूत्रोपन्यस्तमन्त्रार्थाश्छायया विवृता मया । अत्र, तत्रावशिष्टास्तु(२) कर्म्मकाण्डप्रदीपके ॥ ६ ॥ अस्य पूर्वैः कृता व्याख्या नैकधा याऽस्फुटाशया । ततोऽपि प्रामाणिकार्था उद्धृताः पूर्वसम्मताः ॥ ७ ॥ अथ तत्रभवान्भगवान्सामगाचार्य्यः ( पारस्करापराभिधानस्य कात्याय- नस्य पिता ) गोभिलः कृतसमावर्त्तनानाङ्कौथुमशाखिनाङ्कर्म्मकाण्डं यथाश्रुति- स्मृति दर्शयञ्छास्त्रमिदमारेभे । यस्येदमादिमं सूत्रम्- अथातोगृह्या-कर्म्माण्युपदेक्ष्यामः ॥ १ ॥ इति । अत्राथशब्दोग्रन्थारम्भार्थद्योतकोनिपात इति कश्चित् । आनन्तर्य्य- वचनोमङ्गलप्रयोजन(३)कश्चेति राद्धान्तिकाः ॥ ( १ ) गोभिलीये गृह्यसूत्रे तेषामन्तेवसतां श्रौतस्मार्त्त-कर्म्मकाण्ड-परीक्षादित्सूना- न्तदर्थमधिजिगांसमानानां निरवशेषेण सताञ्चान्येषाङ्कर्म्मकाण्डतत्त्वबुभुत्सूनां मुद इत्युक्तार्थस्यैव विशदीकृतोऽर्थः पुनरुपनिबद्धः । ( २ ) मन्त्रा-अर्था-स्तद्विशेषाश्च । तत्र-प्रसिद्धे कर्म्मकाण्डमन्त्रार्थप्रदीपे मयैव वि- वृता इत्यन्वितोऽर्थः । ( ३ ) यथा यात्राकाले दधि-मत्स्यादि-दर्शनम्मङ्गलं, यथा वा मृदङ्गादिध्वनिश्रव- णम् । तथैतदुच्चारणस्मरणे महतेऽभ्युदयाय ग्रन्थारम्भेऽवकल्पेत इति भावः । अनुपदमुप- दर्शयिष्यमाणस्मृतौ माङ्गलिकावित्यस्य मङ्गलप्रयोजनकावित्यर्थ (पा० ५।१।१०९) ठका साधनात् । एतद्द्योतकत्ववाचकत्वे उभावपि पक्षौ निपातेषु व्यवस्थितावित्येवमवधृतम् ।
२ सर्वकर्मसाधारणविधयः । [ १ प्रपाठके- “मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ” इत्यमरात् । ॐ कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा । कण्ठं भित्त्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ” ॥ इति स्मरणाच्च ॥ अथ—वेदाध्ययन-तदर्थावगमानन्तरम् यतोयथावद्विचारशास्त्र(१)मधिग- त्य स्थितानां स्नातकानां गार्हस्थ्यानुसरणं शास्त्रार्थः । “अतः परं समावृत्तः कुर्याद्दारपरिग्रहम्” इति । “वेदानधीत्य वेदौ वा वेदं (२)वापि यथाक्रमम् । अविप्लुतब्रह्मचर्योगृहस्थाश्रममावसेत्” ।। इति चैवमादिस्मरणात् । यतश्च— “यस्मात्त्रयोऽप्याश्रमिणो ज्ञानेनान्नेन चान्वहम् । गृहस्थेनैव धार्यन्ते तस्माच्छ्रेष्ठोगृहाश्रमी” ॥ इत्यादिसमृ
१ कण्डिका ] गोभिलगृह्यसूत्रे— ३ लमहाभाष्यम् ॥ तदनेन सूत्रेणाभिधेयादीनि (१) शिष्यप्रवृत्त्युपयोगीनि स्वर- सतोदर्शितानि । तत्राभिधेयः कर्म्म यथोक्तम् । श्रेयः प्रयोजनम् । सम्बन्धोऽपि यथायथं सुखबोधः प्रतिपाद्यप्रतिपादकभावादिः । अथशब्देनानन्तर्यावगमादधिकार्यपि प्रतिपादितकल्प एवेत्यास्तां विस्तरः ॥ १ ॥ तत्र तावत्साधारणकर्म्माङ्गभूताः केचन धर्म्माः परिभाष्यन्ते— यज्ञोपवीतिनाऽऽचान्तोदकेन च कृत्यम् ॥ २ ॥ यज्ञार्थं—(२)मुपवीतं-ब्रह्मसूत्रंयँथावद्विहितयँस्यास्ति स यज्ञोपवीती मत्वर्थे इनिः प्रत्ययः । ( पा० ५।२।११५ ) तेन यज्ञोपवीतिना । आचान्तमा- चमनविधिनेष(३)दृच्छित(म्पीत)मुदकँयेनासावाचान्तोदकस्तेन । चकाराद्वद्ध- शिखेन । कृत्यम्-कर्म्म “कर्त्तव्यमि”ति सूत्रशेषः । तथाचच्छन्दोगपरिशिष्टम्— “सदोपवीतिना भाव्यं सदा बद्धशिखेन च । विशिखोव्युपवीतश्च यत्करोति न तत्कृतम्” ॥ १ ॥ इति । यज्ञोपवीताचमनयोः स्वरूपमुपरिष्टाद्वक्ष्यति—“यज्ञोपवीतं कुरुते” (१।२।१) इत्यादिना । इदानीङ्कर्म्माङ्गेषु वक्तव्येषु कालमेव तावत्परिभाषते-- उदगयने पूर्वपक्षे पुण्येऽहनि प्रागावर्त्तनादह्नः कालं विद्यात् ॥ ३ ॥ उदगयनं मकरादिषण्मासपर्यांवत्सूर्यस्योद्गमनात्प्रसिद्धं ज्यौतिषे । तत्र पूर्वपक्षे “पक्षौ पूर्वापरौ शुक्लकृष्णौ मासस्तु तावुभौ” इत्यमराच्छुक्लपक्षे । पुण्ये- पुनीते (शोभने) विष्ट्यादि-दोषरहिते यथोक्ते । अहनि-दिवसे । तत्रापि अह्नो- वासरस्याऽऽवर्त्तनाच्छायायाः परिवर्त्तनात् । प्राक्-पूर्वम्पूवाह्न इत्येतं कालं वि- द्यात्-जानीयात् । प्रकृतस्य कृत्यस्य ( गृह्यकर्म्मणः ) इत्यर्थः । स्मरन्ति च— “आवर्त्तनन्तु पूर्वाह्नोह्यपराह्नस्ततः परम्” इति । अत्र पूर्वाह्न इत्येव वक्तव्ये प्रागित्याद्यभिधान “पूर्वाह्नोवै देवानाम्मध्य- ( १ ) एतच्चतुष्टयमेवानुबन्धपदप्रतिपाद्यं यद्विना ग्रन्थादौ मङ्गलमुपनिबद्धमपि न शस्यते इत्युक्तमभियुक्तैः । यथा — “विना विषयसम्बन्धौ तथैवार्थाधिकारिणौ । अव्याख्येयोभवेद्ग्रन्थः स्यादग्रन्थे तच्चतुष्टयम्” इति ॥ “विनाऽनुबन्धं ग्रन्थादौ मङ्गलं नैव शस्यते” इति चैवमादि । तल्लक्षणञ्च “ग्रन्थाऽध्य- यनप्रवृत्तिप्रयोजकज्ञानविषयत्त्वम्” इति । प्रवृत्तिजनकश्चेष्टसाधनताज्ञानं, कृतिसाध्यता- ज्ञानञ्च । तज्जनकञ्चानुबन्धज्ञानम् । विशिष्टबुद्धौ विशेषणज्ञानं कारणम् । इति ॥ ( २ ) अत्र तादर्थ्यचतुर्थ्या समासः । ( ३ ) आ-इतीषदर्थेऽव्ययम् ।
४ सर्वकर्म्मसाधारणविधयः ।' [ १ प्रपाठके न्दिनं मनुष्याणामपराह्णः पितॄणाम्” इति श्रुत्युक्तदिनप्रथमतृतीयभागात्मक- पूर्वाह्णव्यवच्छे(१)दायेति बोध्यम् ॥ ३ ॥ एवन्तर्ह्युद्गयनाद्यभावे शास्त्रबलादप्यनुष्ठीयमानस्य पिण्डपितृयज्ञादेः स- मयवैगुण्यं स्यादत आह— यथाऽऽदेशञ्च ॥ ४ ॥ कालं विद्यादित्यनुवर्त्तते । आदेश आज्ञा शास्त्रस्य । तमनतिक्रम्येत्यर्थः । आदिशति च शास्त्रं किञ्चित्कर्म्मोद्गयनाद्यभावेऽपीति तत्राऽनङ्गतैवामीषा,— मङ्गता च यथोक्तानाम् ॥ ४ ॥ सर्व्वाण्येवान्वाहार्य्यवन्ति ॥ ५ ॥ अनुपश्चादाह्रियते प्रकृतकर्म यस्मादिति, अनुपश्चादाह्रियते यत्प्रस्तुतात्क- र्मणः । इति चान्वाहार्यं नान्दीमुखश्राद्ध(२)न्दक्षिणा चोच्यते । अत एव गृ- ह्यान्तरम्— “यच्छ्राद्धङ्कर्मणामादौ या चान्ते दक्षिणा भवेत् । अमावास्यान्द्वितीयञ्चैद्द्वन्वाहार्य्यन्तदुच्यते” इति ॥ तद्विद्यते येषान्तानि । तदयमर्थः । सर्वाण्येव प्रकृतत्वाद् गृह्यकर्म्माणि । अन्वाहार्यवन्ति तत्पूर्वकाणि । एवकारोऽयोगव्यवच्छे(३)दार्थः । अतो गृह्या- नुक्तेष्वपि अन्नप्राशनादिषु शाखान्तराच्छ्राद्धं ( नान्दीमुखं ) दक्षिणा च न विरुद्ध्यते । क्वचित्तु-निषिध्यतेऽपि यथोक्तं कर्म्मप्रदीपे— “नाष्टकासु भवेच्छ्राद्धं न श्राद्धे श्राद्धमिष्यते । न शोष्यन्ती-जातकर्म-प्रोषितागतकर्म्मसु ॥” इत्यादि । अमावास्यामिति । अमावास्यां प्रकृत्य (प्रतिपदि) मासिकं श्राद्धं ( साग्नीनाम् ) अन्वाहार्यम्(४) । यथाह मनुः— ( १ ) वस्तुतस्तु-कर्म्माणोवृद्धिश्राद्धपूर्वकत्वाच्छ्राद्धस्य चोदयसन्निधौ— “रात्रौ श्राद्धन्न कुर्वीत राक्षसी कीर्त्तिता हि सा । सन्ध्ययोरुभयोश्चैव सूर्ये चैवाचिरोदिते” ॥ इति मनुना प्रतिषिद्धत्वात् । तथाभूत एव कालोऽनायत्या कर्म्मोपयिक इति बोध्यम् । विसमासकरणमेकैकस्य बाहुगुण्यद्योतनार्थम् । समुच्चितोपलब्धौ तु महानभ्यु- दय इति गृह्यभाष्यकारः । ( २ ) याज्ञिकप्रसिद्धिरेशा आभ्युदयिकश्राद्धस्य नान्दीमुखस्यनामेदमिति । एतच्च श्राद्धम्मातृकापूजापूर्वकं स्यात्तथा च छन्दोगपरिशिष्टम् । “कर्मादिषु तु सर्वेषु मातरः स- गणाधिपाः । पूजितव्याः प्रयत्नेन पूजिताः पूजयन्ति ताः” इति । तद्विधिश्च वक्ष्यते ( ४।१।१० ) ॥ ( ३ ) यथा—“शङ्खः पाण्डुर एवे”—त्यत्र पाण्डुरवर्णायोगोव्यवच्छिद्यते । ( ४ ) अनु-पश्चादमावास्याया एतदाह्रियत इति ।
१ कण्डिका ] गोभिलगृह्यसूत्रे— ५ “पिण्डान्वाहार्यकं श्राद्धं कुर्यान्मासानुमासिकम्” । इति । गोभिलोऽपि-अमावास्यायां पिण्डपितृयज्ञमभिधाय “इतरदन्वाहार्यं मा- सीनम्” ( ३।५।३ ) इत्याह । तदेतत्साग्निना प्रतिपदि आद्रियते ॥ ५ ॥ अपवर्गेऽभिरूपभोजनं यथाशक्ति ॥ ६ ॥ क्रियापरिसमाप्तिरपवर्गस्तस्मिन् । अभिरूपोविद्वान् कृतबुद्धिरनुष्ठाता चे- त्याहुः(१) । तादृशस्याभिरूपस्याभिरूपयोरभिरूपाणां वा भोजनम् । यथाश- क्ति-शक्तिमनतिक्रम्य वित्तशाठ्यमन्तरा “गृह्यकर्म्मसु विद्यादि”ति वाक्यशे- षः । तथा च शक्तिसत्त्वेऽन्यथाकरणं निषेधति मनुः— “प्रभुः प्रथमकल्पस्य योऽनुकल्पेन वर्त्तते । न साम्परायिकन्तस्य दुर्मतेर्विद्यते फलम् ॥” इति । साम्परायिकं (२)पारलौकिकम् ॥ ६ ॥ इति सर्वकर्म्मसाधारणविधयः ॥ ❀ ॥ ( अथाग्न्याधानविधिः ) एवं सर्वकर्म्मसाधारणं परिभाष्य प्रायेणाग्निसाध्यत्वात्कर्मणामग्न्याधान- कालन्तावदाह(३)— ब्रह्मचारी वेदमधीत्यान्ताꣳसमिधमाधास्यन् ॥ ७ ॥ ब्रह्म वेदस्तदध्ययनार्थं व्रतमपि ब्रह्म, तच्चरत्यनुतिष्ठतीति ब्रह्मचारी । ता- च्छील्ये णिनिः । ( पा० ३।२।७८ ) उपधावृद्धिः । उपकुर्वाण एव न नैष्ठिकः । तस्य ह्यामरणाद्गुरुकुल एवावस्थानानुज्ञानम् ।। स वेदमिति जात्येकवचनम्— “वेदानधीत्य वेदौ वा वेदं वापि यथाक्रमम् । अविप्लुतब्रह्मचर्यो लक्षण्यां स्त्रियमुद्वहेत् ॥” ( १ ) तथाचामरः “प्राप्तरूपसरूपामिरूपा बुधमनोज्ञयोः” इति । “अभिरूपोबुधे रम्ये” इति मेदिनी च। सर्व्ववेदमृपनिबद्धं गृह्यासङ्ग्रहे-“यत्र विद्या च वित्तञ्च सत्यं धर्म्मः शमोदमः । अभिरूपः स विज्ञेयः स्वाश्रमे योव्यवस्थितः” । इति । ( २ ) “युद्धायत्योः सम्परराय” इत्यमरादायतिशब्देन परलोकमुच्यते । ततो “वि- मथादित्वात् ( पा० ५।४।३४ ) ठक् । ठस्येकः ( पा० ७।३।५० ) आदिवृद्धिः । ( पा० ७। २।११८ ) इति भानुजिदीक्षिताः । वस्तुतस्तु—“उत्तरः काल आर्यातिरित्यमरादायति- शब्दउत्तरकालवचन इति कालाट्ठञ्” ( पा० ४।३।११ ) इति ठञेवात्रेति बोध्यम् । ( ३ ) अन्ये तु व्याचक्षते—उक्तं गृह्यकर्म्माणीति तत्र कोऽसौ गृह्योऽग्निः ? इति प्रथमन्तावत्स एवोपदिश्यते—“ब्रह्मचारी”त्यारभ्य “स एवास्य गृह्योऽग्निर्भवती”ति ( १।१।२१ ) एतदन्तेन सूत्रसन्दर्भेणेति ।
ऽसीदिति (with two avagrahas).
Line 11: “यस्य दत्ता भवेत्कन्या वाचा सत्येन केन चित् । Wait, "केन चित्" - space between केन and चित्.
Line 12: सोऽन्त्यां समिधमाधास्यन्नादधीतैव नान्यथा ॥” इति ॥ ७ ॥
Line 13: अथाधानस्य कालान्तरमाह—
Line 14: जायाया वा पाणिं जिघृक्षन् ॥ ८ ॥
Line 15: यदि ब्रह्मचर्यसमापकान्त्यसमिदाधानकाले दैवादग्निग्रहणं न कृतम्भवेत्तदा Wait, "कृतम्भवेत्तदा" or "कृतं भवेत्तदा"? It is printed together: "कृतम्भवेत्तदा".
Line 16: पूर्वपूर्वदिनवद्गुरोरग्नावेव तामन्त्यां समिधमादधीत ॥ पुनः कोऽग्निग्रहण-
Line 17: कालः ? इत्याह जायायावेति । वा-अथवा । जायाया जायात्वेनाभि(३)संहि- Wait, "जायायावेति" -> "जायाया वेति" or "जायायावेति"? In line 17: "जायायावेति" (one word, without space). Then: "वा-अथवा । जायाया जायात्वेनाभि(३)
१ कण्डिका ] गोभिलगृह्यसूत्रे- ७ अथाग्न्याधानविधिः अनुगुप्ता अप आहृत्य प्रागुदक्प्रवणन्देशं समं वा परिसमुह्योपलिप्य मध्यतः प्राचील्लेिखामुल्लिख्योदीचीञ्च संहतां पश्चात् मध्ये प्राची- स्तिस्र उल्लिख्याऽभ्युक्षेत् ॥ ६ ॥ अनुगुप्ता आच्छादिताः “कुशैर्-”ति शेषः । “कुशैराच्छादिता अप आ- नयन्ती-”ति गृह्यान्तरसंवादात् । प्रच्छादनञ्च पतितादिभिरुदकदर्शनं मा भू- दित्येतदर्थम् । अदृष्टाश्च वा । अप उदकम् आहृत्य-अनिषिद्धजलाशयादानी(१) य । प्रागुदक्प्रवणम्-प्राग्वा उदग्वा प्रागुद्गवा(२) प्रवणं क्रमनिम्नम् । “प्रवणं क्रमनिम्नोर्व्याम्” इत्यमरः । देशं-भूमिभागं, समं-अपाङ्नीचादिरहितम् । वाशब्दो विकल्पार्थः । तद्व्यवस्थामाह-गृह्यासङ्ग्रहः “प्राङ्नीचं ब्रह्मवर्चस्यमुदङ्नीचं यशोन्नतम् । पित्र्यन्दक्षिणतोनीचं प्रतिष्ठासम्भकं समम्” ॥ इति । प्रतिष्ठासम्भकम्-प्रतिष्ठाप्रापकम् ॥ परिसमुह्य-परि-सर्वतः । समुह्य- कुशैः पांश्वादिकमपसार्य । तथाच भरद्वाजः- “कुशैः संमार्जयेद्भूमिं शुद्धामादौ, शुचिस्ततः । हस्तमात्राञ्चतुरस्राङ्गोमयेनोपलेपयेत्” ॥ इति । यद्वा “परिसमुह्य वितस्तित्रये उत्तरत उत्करं करोती”ति गृह्यान्तरदर्शना- दुत्तरस्यान्दिशिवितस्तित्रयोपरिदेशे प्रक्षिप्य । वितस्तिर्द्वादशाङ्गुलः । अत्र-मान कर्त्तारमाह कर्म्मप्रदीपः- “मानक्रियायामुक्तायामनुक्ते मानकत्तरि । मानकृद्यजमानः स्याद्विदुषामेष निर्णयः” ॥ इति । परिसमूहनकुशानाञ्च परित्यागोविधेयः । अन्यत्र तथादृष्ट- त्वात् । यथा “सम्मार्जनान्यपास्यती”ति । परित्यागश्चैशान्यम् “द्वारमेव हि द्रव्याणां प्रागुदीच्यान्दिशि स्मृतम्” इति वचनात् । प्रागुदीची-ऐशानी ॥ उपलिप्य-गोमयोद(३)केनेति वाक्यशेषः । “गोमयोदकेन समन्तं (स्तं) पर्यु-
(१) अत्र “ताभिः प्रक्षालितपाणिपादः” इति भट्टभाष्यन्त“दाचान्तोदकेने”ति (१।१।२) सूत्रेण गतार्थम् । (२) अत्र“दिङ्नामान्यन्तराले” (पा०२।२।२६) इति बहुव्रीहिणा ऐशानीति तदर्थः । (३) गोमय मिश्रितोदकेनेति मध्यमपदलोपी समासः (पा०२।१।६० वा०) एतेन गो- मयोदकाभ्यामिति वक्तव्ये “सर्वोद्वन्द्वोविभाषैकवद्भवतीत”ति परिभाषाम्रयणं मुरारिमिश्रा- णामपार्थकम्वोध्यम् । तथा चोक्तम्भारद्वाजवचने “गोमयेने”ति सवारिणेत्येतदाक्षिपति । तथा च शौनकः “गोमयेन सवारिणा । उपलिप्य स्थण्डिलन्तु चतुरस्रन्तु सर्वतः” इति ।
' in Devanagari is just त्. Wait, त् has a stem? त् is half of त! In old fonts, final त् is often written as a full त with a halanta, or a special final form. Wait, look at line 33 again: "इत्युपसंहारदर्शनात् ।" Wait, why did I think it was 'व'? Look at the character: It's an avagraha? No, it's after 'दर्शना': द - र्श - ना - त् Wait, it has a virama underneath! Yes, it's definitely 'त्'! Wait, why does it look a bit like a 'व' to a quick glance? Because the virama connects to the curve. But grammatically and visually, it's त् with virama: "दर्शनात् ।"
Let's check line 33-34: "स्थूलत्वात्ता-" "भ्यामङ्गुलित्रयस्थलव्यापनात् षडङ्गुलांस्त्यक्तेत्येव युज्यते । अत एव षडङ्गुलान्तरालाः" Wait, "स्थूलत्वात्ताभ्यामङ्गुलित्रयस्थलव्यापनात्": Line 33 ends with: "स्थूलत्वात्ता-" Line 34 starts with: "भ्यामङ्गुलित्रयस्थलव्यापनात्" Yes: ताभ्यां (by them) + अङ्गुलित्रयस्थलव्यापनात्.
Let
तायाः संलग्नां, पश्चात्-पश्चिमे-प्राग्गताया इत्यादिः । मध्ये-अनन्तरोक्तत्वादु- द्गतायाः । संलग्नाः प्राचीः प्राग्गतास्तिस्रोलेखाः । तत्र मध्ये द्वे प्रादेशप्रमाणे । अन्त्या द्वादशाङ्गुला । सर्वाः षडङ्गुलान्तराला(१) दक्षिणात उपक्रमदर्शनादु- त्तरोत्तरा उल्लिख्य । आसाञ्च तिसृणां लेखानामेका प्राजापत्या कृष्णवर्णा, द्वितीया चैन्द्री नीलवर्णा, तृतीया सौमी शुक्लवर्णेत्यवगन्तव्यम् ।। तदेतत्सर्वं छन्दोगपरिशिष्टवचनात्स्मृत्यन्तरसंवादाच्चावसीयते । तथाचा- ङ्गिराः— “प्राग्गता(२) पार्थिवी ज्ञेया चाग्नेयी चाप्युदग्गता । प्राजापत्या तथा चैन्द्री सौमी च प्राक्कृता(३) स्मृता ॥ पृथिवी पीतवर्णा स्यादाग्नेयी लोहिता भवेत् । प्राजापत्या भवेत्कृष्णा नीलामैन्द्रीं विनिर्दिशेत् ॥ श्वेतवर्णा च सौमी स्याद्रेखाणां वर्णलक्षणम् ॥” इति । रेखाणां-लेखानाम् । “लेखा लिपिराजिकयोर्म्मता” इति मेदिन्यां “लेखास्त राजयः” इत्यमरे च लादित्वस्यैव श्रवणात् । रलयोरैक्याद्रे- खामुलिखेदिति पाठः । आसां वर्णांश्च यथोद्दिष्टा ध्येया एव न तु द्रव्या- न्तरेण तद्वर्णकरणम् । “विनिर्दिशेद्”िति वचनस्वरसादिति शुभकर्मनिर्णये मुरारिमिश्राः । अतएव ध्येयपीतवर्णा लेखा लिखितव्येति पद्धतिकृतः ( महामहत्तकवीरेश्वरादयः ) पठन्ति । एतच्च लेखोल्लेखनं यावदग्निस्थापनं सव्यहस्तं भूमौ निधाय कर्त्तव्यम् इत्याहाङ्गिराः- “सव्यं भूमौ प्रतिष्ठाप्य प्रोल्लिखेद्दक्षिणेन तु । तावन्नोत्थापयेत्पाणिं यावदग्निं निधापयेत्” ॥ ( १ ) तथाचाङ्गिराः—“पार्थिवीं चैव सौमीञ्च लिखेद्द्वे द्वादशाङ्गुले । एकविंशति- राग्नेयी प्रादेशिन्यावुभे स्मृते ॥ षडङ्गुलान्तराः कार्या आग्नेयी संहतास्तु याः । पार्थिव्या- श्चैव रेखाया-स्तिस्रस्ता उत्तरोत्तराः” ॥ इति ॥ ननु-“शेषाः प्रादेशमात्रिकाः” इति कात्यायनवचनेन सौम्या अपि प्रादेशप्रमाणकत्वबोधनाद्विरोध इति चेन्नैवम् । तस्य न्यूनसंख्याव्यवच्छेदमात्रपरत्वात् । अन्यथा विरोधस्य परिहर्तुमशक्यत्वात् । अत एव “द्वादशाङ्गुलप्रमाणा सोमदेवताका” इति निर्विचिकित्सितं स्वस्वपद्धतौ वीरेश्वरादयो- लिखितवन्तः । यद्वा ऐच्छिको विकल्पः । फलभूमा व्यवस्थितैति दिक् । द्वादशाङ्गुलत्वा- दिकन्तु यजमानाङ्गुलिबृहत्पर्वभिः कार्यम् । तथाच कात्यायनः— “मानक्रियायामुक्तायाम्”इत्याद्युक्तवचनान्ते “अङ्गुष्ठाङ्गुलिमानन्तु यत्र यत्रोपदि- श्यते । तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात्सदा” ॥ इति ॥ [
? Look at केषाञ्चिद्वयाख्यानम्: केषाञ्चिद्व्याख्यानम्! Wait, in केषाञ्चिद्व्याख्यानम्: द्+व+या->द्वयाख्यानम्! And what about the first word: अवाहरणाभ्युक्षणान्तमितिorअबाहरणाम्युक्षणान्तमिति? Look at भ्यु: it has म्यwithु? No, भ्यु! Wait, it has a loop: भ्यु. Wait, look at अवाहरण: could it be उद्धरण? No, starts with अ`.
Footnote 4:
Line 27:
( ४ ) यत्र यत्राग्निप्रणयनं क्रियते तत्र तत्र भुवः संस्कारविधानाद्भूसंस्कारकम् ।
Let's check:
( ४ ) यत्र यत्राग्निप्रणयनं क्रियते तत्र तत्र भुवः संस्कारविधानाद्भूसंस्कारकम् ।
Yes!
Line 28:
अनुगतेऽग्नौ संस्कृताया अपि भूमेः पुनः संस्कारविधानादग्निसंस्कारकम् ॥
Let's check:
अनुगतेऽग्नौ संस्कृताया अपि भूमेः पुनः संस्कारविधानादग्निसंस्कारकम् ॥
Yes!
Footnote 5: Line 29:
:
First letter: पो
Second letter: रि (it's र with ि matra)
Third letter: प्र
Fourth letter: मि
Fifth letter: ति
पोरिप्रमिति!
Combined with रे- at the end of line 11:
रे- / पोरिप्रमिति -> रेपो रिप्रमिति!
Brilliant! Nirukta 4.21: "रेपो रिप्रमिति पापनामनी भवतः"!
In line 11, the end is: निरुक्तम् “रे- (Wait, let's look at रे-: yes, it has an e-matra: रे-).
And line 12 starts with: पोरिप्रमिति पापनामनी भवतः” ( ४।२१ ) इति । अत्राङ्गिराः-
* Line 13:
`“सर्वतः पाणिपादश्च सर्वतोऽक्षिशिरोमुखः । विश्वरूपो महानग्निः प्रणीतः सर्वकर्मसु”`
* Line 14:
`इति । इदञ्च ध्यानपरम् । स्वरूपाख्यानस्य प्रयोजनान्तराभावादिति द्रष्टव्यम् ॥ यथाहुः`
Wait, is there a space: `यथाहुः` or `यथाहुः-`? Just `
१२ अग्न्याधानविधिः। [ १ प्रपाठके पादानमाह—गृह्यसङ्ग्रहः— “कपालैर्भिन्नपात्रैर्वा न त्वास्मैलौमयेन वा । अग्निप्रणयनङ्कार्यं यजमानभयावहम् ॥ अल्पः प्रणीतोविच्छिन्नोऽसमिद्धश्चापरिश्रुतः । त्वरया पुनरानीतोयजमानभयावहः ॥ तस्माच्छुभेन पात्रेण अविच्छिन्नाङ्कुशं बहु । अग्निप्रणयनं कुर्याद्यजमानसुखावहम् ॥ शुभं पात्रन्तु कांस्यं स्यात्तेनाग्निं प्रणयेद्बुधः । तस्याभावे शरावेण नवेनाभिमुखञ्च तम् ॥” इति । यत्तु—“शरावे भिन्नपात्रे वा कपाले वोन्मुखेऽपि वा । नाग्निप्रणयनं कुर्याद्व्याधिहानिभयावहम्” ॥ इति स्मृत्यन्तरन्तदुदाहृतवचनविरोधात्कौथुमादिव्यतिरिक्तविषयम् । कांस्यादिपात्रसद्भावे शरावनिषेधकमिति राघवभट्टप्रभृतयः ॥ ११ ॥ एवं लक्षणादिकर्म्माभिधायाथान्यानपि आधानकालानुपदिशति— त्रिभिः सूत्रैः प्रेते वा गृहपतौ परमेष्ठिकरणम्॥ १२ ॥ वा-अथवा गृहपतौ गृहस्वामिनि पितरि । अत्र वा शब्दोवैकल्पिकत्वमस्य ( आधानकालस्य ) दर्शयति(१) । प्रेते-इति प्रपूर्वा “इण्गताविति (अ० प०) धातोः “गत्यर्थाकर्मके”—( पा० ३।४।७२ )-त्यादिना कर्त्तरि क्तः । प्रक- र्षेण इते गते अस्माल्लोकाल्लोकान्तरं , मृते इति तदर्थः । भ्रातृमतस्तु ज्येष्ठेन सर्वानुमतेन पैतृकधनविभागकाले(२) परमेष्ठिकरणम् । परमे श्रेष्ठे स्थाने ति- स्वीयमधिकारं प्रकर्षेण जानानः । देवेभ्योऽस्मत्प्रत्तं हव्यं हवनीयं ( हविः ) वहतु- प्रापयतु । इति ॥ ( १ ) वस्तुतस्त्वनास्थायाम् । अग्रिम-( १।१।२० )-सूत्रदर्शनेन कालद्वयस्यैव मुख्यत्वेन सूत्रकृतोपसंहृतत्वावगमात् ॥ ( २ ) एतच्च गौतममतम् । वस्तुतस्त्वेतज्ज्येष्ठक्रमन्नानुरुन्धे । पृथक् पृथक् धन- स्वाम्यात् । यद्येकत्र तिष्ठेत्तदा तत्र—“ज्येष्ठः कुर्यात्तथाधानम्” इति कात्यायनस्वरसः । तथाच गौतमः । “भार्यादिरग्निर्दायादिर्वा” इति । “दायाद्यकाल एकेषाम्” इति च गृह्या- न्तरम् । दायः पैतृकन्धनम् । परेते हि गृहस्वामिनि दायसम्बन्धः पुत्राणामिष्यते । “ऊर्ध्वम्पितुश्च मातुश्च समेत्य भ्रातरस्समम् । भजेरन्पैतृकमृक्थमनीशास्ते हि जीवतोः ॥ इति“पितर्युपरते पुत्रा विभजेयुर्धनं पितुः । अस्वाम्यं हि भवेदेषां निर्दोषे पितरि स्थिते”इति चैवमादि । तच्चैकादशेऽहनि स्यात्प्रागनधिकारात् । दोषश्चाऽयथाविनियोक्तृत्वादिः । तथाच याज्ञवल्क्यः “अयथा विनियोक्ता च न विभागे पिता प्रभुः”इति । कर्कोपाध्याया- स्त्वाहुः व्यवस्थितोऽयं गौतमाद्युक्तोविकल्पः । अभ्रातृकस्य दारकालः । भ्रातृमतोदायाद्य-
१ कण्डिका ] गोभिलगृह्यसूत्रे- १३ ष्टतीति परमेष्ठी अग्निरुतस्य करणं यथोक्तेन विधिना स्वीकरणं समाधानं "कर्त्तव्यमि"ति वाक्यशेषः । अन्येत्वाचक्षते—क्रियाविशेषणमेतत् । परमेष्ठि- तयाग्नेः स्वीकरणं यथा स्यात्तथाऽग्निसमाधानं कुर्वीत ( १।२।१४) इति । त- न्मते तु परमेष्ठीकरणमिति पाठः । एतच्चैकादशेऽहनि स्यात्प्रागनधिकान् । इति भट्टभाष्यम् ॥ कात्यायनस्तु— "एतद्गृहपतौ प्रेते कुर्यादेकादशेऽहनि । प्रागेवैकादशाच्छाद्धात्सद्योजागरणादिकम्" इत्यभिधाय— "ज्येष्ठः कुर्यात्तथाधानं कनीयांश्च विवर्जयेत् । सैकादशेऽह्निकुर्वीत द्वादशे वा विचक्षणः" ॥ इत्याह । तदत्र वृद्धिश्राद्धन्न भवति-- "न तत्पूर्वयतः प्रोक्तः सपिण्डनविधिः क्वचित् । वृद्धिश्राद्धस्य लोपः स्यादुभयोरपि पक्षयोः" ॥ इति कर्म्मप्रदीपदर्शनात् ॥ १२ ॥ तथा तिथिनक्षत्रपर्वसमवाये ॥ १३ ॥ तथेति । अग्न्याधाने यथाऽन्त्यसमिदाधानादिः (१)कालोऽपेक्षितस्तद्वदित्य- र्थः । तिथिनक्षत्रपर्वणान्त्रयाणामेवैषां शुभानां यथोक्तानां समवाये-संयोगे सति अग्निसमाधानङ्कुर्वीते-( १।२।१४ )-ति परेणाभिसम्बन्धः । केचित्तु व्याचक्ष- ते-तथेति वैकल्पिकत्वं दर्शयति । नक्षत्रशब्दश्चैकौन्नप्रवद्द्बूह्वण्यः(२) ति काल इति । तेषामयमाशयः विभागमन्तरेण साधारणधनस्य परित्यागासम्भवादनधि- कार एवाविभक्तानां धनसाध्येष्वाधानादिषु । अतो भ्रातृमतोविभागकाले एवाधि- कारः । स एव कालोदायाथकाल इत्युच्यते । इति । गोभिलाचार्यैस्तु-"प्रेते वा गृह- पतावि"-ति द्वितीयवाशब्देन त्रिविध एव कालोऽनुमन्यते । तत्राद्यौ मुख्यावन्त्योगौणः । न चाविभक्तधनस्य कथं परित्याग इतिवाच्यम् । स्वस्वत्वस्य तथाप्यविशेषात् । निर्- दोषे पितरि स्थिते पुत्राणामस्वाम्यमिति स्मरन्मुनिः प्रेते पितरि स्वाम्यमेषामनुमन्यते । नारदोऽपि स्मरति- "यद्येकजाता बहवः पृथग्धर्माः पृथक्क्रियाः । पृथक् कर्म्मगुणोपेता न चेत्कार्येषु सम्मताः ॥ स्वभागाद्यदि दद्युस्ते विक्रीणीथुरथापि वा । कुर्युर्यथेष्टन्तत्सर्वमीशास्ते स्वधनस्य व ॥" इति ॥ ( १ ) आदिना जायापरिग्रहेच्छा-पितृमरणे । यत्तु- "आधानस्य तु चत्वार उक्ताः कालाः पृथक् पृथक् । अन्त्या समिद् १ विवाहंश्च २ विभागः ३ परमेष्ठिनः४ ॥" इति गृह्यसंग्रहवचनम् । तत्र तृतीयः कालोगौतमीयानाम् । तदितरे राणायनीयकौथुमानाम् ॥ ( २ ) तन्त्रान्वृत्तिन्यायेन सोऽन्नाथैवशादुज्ञेयः । तिथिनक्षत्रपर्व्वणामेकत्र समवाया-
१४ अग्न्याधानविधिः । [प्रपाठके १
थिश्च नक्षत्रं च तिथिनक्षत्रे । नक्षत्रञ्च पर्व च नक्षत्रपर्वणी । तयोस्तयोश्च समवायः संयोगस्तस्मिन् । तिथिरत्र पर्वेतरा(१)पर्वेति पुनः करणात् । नक्षत्रं (२)मघामृगशिरोहस्तादि । तयोः समवाये । पर्वाणि तु(३)— “चतुर्द्दश्यष्टमीचैव अमावास्या च पूर्णिमा । पर्वाण्येतानि राजेन्द्र ! रविसंक्रान्तिरेव च” ॥ इत्यन्यत्रोक्तानि । अत्र रविसङ्क्रान्तिरित्येकम्पदम् । “पञ्च पर्वाणी”ति पृथक् स्मृतेः । ततश्च तिथिनक्षत्रयोः, नक्षत्रपर्वणोश्च समवाये इत्यर्थः । उपलक्ष- ञ्चैदम्— “वह्निग्रहं कुज-गुरु-ज्ञ-दिनेश-वारे माघादिषट्सु च मृदुध्रुववाह्रभेषु । कुम्भान्तभांशकविलग्नमशुद्धकालं लभ्नस्थशीतगुसितौ च विहाय कुर्यात्” इत्यादे र्ज्योतिःशास्त्रोक्तकालविशेषस्य ॥ १३ ॥ तादृशः समयः शीघ्रं न घटेत चेत्तत्राह— दर्शे वा पौर्णमासे वाऽग्निसमाधानङ्कुर्वीत ॥१४॥ वा-अथवा दर्शे-अमावास्यायाम् । पौर्णमासे-पूर्णिमायां वा अग्नि समाधानम् । अग्नेः सम्यक्(४) ( यथाशास्त्रम् ) आधानम्-आभिमुख्येन स्था-
सम्भवात् । एवमर्थकरणं युज्यत एव । भट्टभाष्येतु-“नक्षत्रशब्दः काकाक्षिगोलक न्याया- दुभयत्र संबध्यते” इत्युक्तम् । वाशब्दोल्लुप्तवद्द्रष्टव्य” इतिच ॥ ( १ ) “पौर्वापर्ये सति पूर्वदौर्बल्यम्” इतिन्यायात् । एषन्यायः “विप्रतिषेधे परं कार्यम्” ( १।४।२ ) इति पाणिनिस्मृतिमूलकः ॥ ( २ ) अत्र नक्षत्रं माससंज्ञानिमित्तं चित्रादिकमितिचन्द्रकान्तभाष्यम् । वसन्तर्त्तो- रेवाग्न्याधानकालत्वेन विप्रेषु प्रसिद्धेश्चित्रायाः स्वोपलक्षितमासस्य वर्षादिज्ञापकत्वात् । वस्तुतस्तु न चित्राया एवस्वोपलक्षितमासान्तस्य वर्षादिज्ञापकत्वम् । अतएवाग्रहायणिक इतिसमाख्या कोशेषु वर्षादिमासस्योपपद्यते । मघाद्यानामेवाधानत्वंज्योतिषे । यथा- चोपरिष्टाद् व्यक्तीभविष्यति ॥ ( ३ ) अत्रपर्व पौर्णमासम् । तयोः समवाये वाऽग्निसमाधानं कुर्वीतेति चन्द्रकान्त- भाष्यम् । यद्वाऽत्र (उत्तरवाक्ये) नक्षत्रपदं श्रुत्युक्तनक्षत्रपरं, तथाच “कृत्तिकासु रोहिण्यां मृगशिरसि फल्गुनीषु विशाखयोरुत्तरयोः प्रौष्ठपदयोरेतेषां कस्मिंश्चित्” इतिश्रौताश्व- लायनयोः “या वैशाखस्यामावास्या रोहिण्या सम्बध्यते तस्यामादधीत” इति श्रुत्यु- क्तयोर्वा समवाये इत्यर्थः । तदिदमाधानकालद्वयं, यच्च तिथिनक्षत्रसमवायः । यश्च नक्षत्र- पर्वसमवायः । इति ।। भट्टभाष्येतु तिथिया पौर्णमास्या यानि नक्षत्राणि समाख्या- यन्ते तानि तिथिनक्षत्राणि मघादीनि द्वादश । तेषामन्यतमस्य पर्वेणा पौर्णमासेन सम- वायः संयोगस्तिथिनक्षत्रपर्वसमवायस्तस्मिन् इत्युक्तम् । अस्मिंश्च नयेऽनेन सूत्रेणैक एवाधानकालोऽभिहित इत्यवगन्तव्यम् ॥ ( ४ ) अन्ये तु व्याचक्षते—समेत्य मिलित्वा आधानं समाधानम् । अन्यथाऽन्वा- धानं कुर्वीतेत्युक्त्यापि प्रकृतार्थसिद्धिसम्भवात्समिति व्यर्थं स्यादिति । केनेति सहका-
१ कण्डिका ] गोभिलगृह्यसूत्रे- १५ पनं तदनु पोषणं (रक्षणं) (१) च कुर्वीत । इदञ्चाधानमग्रजे क्लीबत्वादिदोषरहिते तदैव कार्यं, यदासौऽनुमन्यते नान्यथा । तथा चोक्तं शङ्खेन-- अग्रजः स्याद्यदाऽनग्निरधिकार्यनुजः कथम् ? । अग्रजानुमतः कुर्यादग्निहोत्रं यथाविधि” ।। इति पितर्य्यनग्नावपि पुत्रस्याधानाधिकारोन विहन्यते तथाचोक्तं तेनैव(श०) “पितुर्यस्य न चाधानं कथम्पुत्रस्तु कारयेत् ? । अग्निहोत्राधिकारोऽस्ति शङ्खस्य वचनं यथा” ।। आधानपरिपाटी चाचार्य्येणानुक्ताऽपि- “परिधायाऽहतं वासः प्रावृत्य च यथाविधि” इत्येवमादिकर्म्मप्रदीपवच- नेभ्य एवावगन्तव्यन्त्रत्वध्वर्य्युभ्योगृहीतव्यम् । परोक्त(२)त्वात् । वा शब्दद्वयं तुल्यवद्विकल्पार्थम् । इति भाष्यकृतः । वस्तुतस्तु । कालविलम्बस्य सोढुमयो- ग्यत्वात् यदा तदा वा झटिति समाधान(३)मग्नेः कुर्वीतेति-अनास्थायामप- रोवाशब्दः ॥ १४ ॥ र्य्याकाङ्क्षायामाह कर्मप्रदीपः--“नैकयाऽपि विना कार्य्यमाधानं भार्यया द्विजैः । अकृत- न्तद्विजानीयात्सर्वा न त्वारभन्ति यत्” इति । अत्र विशेषमाह-कात्यायनः-- “वर्णज्यैष्ठ्येन बह्वीभिः सवर्णाभिश्च जन्मतः । कार्यमग्निच्युते नाभिः साध्वीभिर्मन्थनं पृथक् ।। नात्र शूद्रां नियुञ्जीत न द्रोहद्वेषकारिणीम् । नाशासनस्थां नान्येन पुंसा च सह संगताम् ।। ततः शक्तिवरा पश्चादासांमान्यतमैव या । उपेतानाञ्चान्यतमा मन्थेद्वाग्निं निकामतः ॥” इति ॥ ( १ ) दधातेर्द्धारणपोषणोभयार्थत्वस्मरणात् । पोषणमत्र संरक्षणन्दधातेरर्थः । ( २ ) परोक्तत्वेनाक्रियात्वात् । तथाचच्छन्दोगपरिशिष्टम्- “अक्रिया त्रिविधा प्रोक्ता विद्वद्भिः कर्म्मकारिणाम् । अक्रिया च परोक्ता च तृतीया चायथाक्रिया ।। स्वशाखाश्रयमुत्सृज्य परशाखाश्रयञ्च यः । कर्त्तुमिच्छति दुर्मेधा मोघन्तत्तस्य चेष्टितम् ।।” इति ॥ ( ३ ) दश वा पौर्णमासे वा यस्मिन्कस्मिन्नप्येकस्मिन् तु नक्षत्रयोगाद्यपेक्षया करणविलम्बी स्यात् । “न श्वः श्वरुपासीत कोहि मनुष्यस्य श्वोवेद” इति श्रुतेः । “श्वः कार्यमद्य कुर्वीत पूर्वाह्ने चापराह्निकम् । नहि प्रतीक्षते मृत्युः कृतं वाऽस्य न वाकृतम्” इति स्मृतेश्च । कालाऽतिक्रमेऽप्यग्न्याधानस्य प्रायश्चित्तमाहकात्यायनः “यावन्त्यब्दान्यती तानि निरग्नेर्विप्रजन्मनः । तावन्ति कृच्छ्राणि चरेद्धोम्यन्दद्याद्यथाविधि” ॥ इति । तथा चातिक्रान्तसंव्वत्सरसंख्यया प्राजापत्यव्रतरूपं प्रायश्चित्तम्मुख्यविधिना चरित्वा तद- शक्तौ प्रतिप्राजापत्यन्धेनुं तन्मूल्यं वा दत्त्वा द्वादशब्राह्मणभोजनमयुतगायत्रीजपं वा गायत्र्या तिलाज्यसहस्रहोमं वा शक्त्यपेक्षयाऽन्यतमं विधाय होम्यं-सायम्प्रातर्होमद्रव्यं प्रत्यहमाहुतिचतुष्टयपर्याप्तमतिक्रान्तदिवसान्गणयित्वा ब्राह्मणेभ्योदद्यात् । अत्र प्रशंसा
१६ अग्न्याधानविधिः । [ १ प्रपाठके- अथ कुतोऽग्निरुपादेय इत्यग्नियोनयस्त्रिभिः सूत्रैरभिधीयन्ते— वैश्यकुलाद्वाऽम्बरीषाद्वाऽग्निमाहत्याऽभ्यादध्यात् ॥ १५ ॥ वैश्योद्विजेषु तृतीयोवर्णः शुद्ध एवाभिजनतस्तस्य कुलाद्गृहात् “कुलञ्ज- नपदे गोत्रे सजातीयगणेष्वपि । भवनेऽपि तनौ क्लीबं कटकटार्यार्बधे कुली” इति मेदिनी । वा-अथवा । अम्बरीषात्-भ्राष्ट्रात् । (यवादिभर्जनसाधनात्) “अम्बरीषञ्च भ्राष्ट्रोना”इत्यमरः । अग्निमाहृत्यानीय अभि-आभिमुख्येनादध्या- त्स्थापयेत् - वा शब्दौ(१) व्याख्यातौ । स खल्वयमग्निर्हुतोच्छिष्टः संस्कृतोवा गृह्यते । अविशेषादिति कर्कोपाध्यायाः ॥ १५॥ अपिवा बहुयाजिन एवागाराद्ब्राह्मणस्य वा राजन्यस्य वा ॥१६॥ अपिवा-अथवा । इत्यम्बरीषात्पक्षान्तरमुपदिशति । बहुभिः (सोमैः) येनेष्टं स बहुयायीत्युच्यते । तस्यैवेत्येवकारस्तदितरं व्यवच्छिनत्ति । (२)अगा- रात्-गृहात् । “गृहङ्गेहोद्वसितं + + + भवनागारमन्दिरम्” इत्यमरः । अग्निमाहत्याभ्यादध्यादिति गतेनाभिसम्बध्यते । कस्य बहुयाधिन इत्यपेक्षाया- माह ब्राह्मणस्य वेत्यादि । तदयमर्थः । बहुयाजिनोऽग्न्याहरणं विधेयम् । स च त्रयाणामन्यतमोयः कश्चन भवेन्नाम । वाशब्दत्रयं तुल्यवद्विकल्पार्थम् । वैश्य- कुलादिति सामान्यतोऽभिधाय तस्यैव बहुयाजित्वविशेषेण पुनरुपादानमपुन- रुक्तिरेव । पूर्वत्रानुपादाने बहुयाजिन एव ततोऽग्निराधेयः स्यान्नाबहुयाजिनो- पीत्यत उभयत्रोपादानम् ॥ १६ ॥ अपिवाऽन्यं (३) मथित्वाऽभ्यादध्यात् ॥ १७ ॥ अपिवा-अथवा मथित्वा । “अरणिद्वयमि”-ति शेषः । तल्लक्षणन्तु- “अश्वत्थोत्थः समीगर्भः प्रशस्तोर्वीसमुद्भवः । तस्य या प्राङ्मुखी शाखा वोदीची वोर्ध्वगाऽपिवा । वाक्यं तत्र गृह्यकाण्डे— “नावसथ्यात्परोधर्मोनावसथ्यात्परन्तपः । नावसथ्यात् परन्दानं नावसथ्यात्परन्धनम् ॥ नावसथ्यात्परं श्रेयोनावसथ्यात्परोयशः । नावसथ्यात्परा सिद्धिर्नावसथ्यात्परा गतिः ॥ नावसथ्यात्परं स्थानं नावसथ्यात्परं व्रतम् ।” इत्यावश्यकत्वाच्चित्यम् । श्रुतिरपि— “यावज्जीवमग्निहोत्रञ्जुहुयादि”ति । तस्मा- त्तदकरणे प्रत्यवाय इति तत्क्षयार्थम्प्रायश्चित्तमुचितम् ॥ ( १ ) अनुपदे १४ सूत्रे ॥ ( २ ) कथंनाम यद्योनिकः प्रथमाधानेऽग्निराहितोऽनुगतोऽपि पुनस्तस्या एव योने- राहार्थ इति । तथाच शाखान्तरम् “पूर्व वाऽनुगतेऽग्नौ योनिः पुनराधेये”-ति । ( ३ ) परिशिष्टप्रकाशे तु “अपिवाऽरणिम्” इति पाठः ॥
curve, but wait, 'र्द्धु' is on the next letter! Let's transcribe faithfully. It looks like नादूर्धुकः or नानर्द्धुकः. Wait, look closely: it's नादूर्धुकः - wait, the loop goes down, like 'दूर्धुकः'.
Line 29:
आरणेयः स्वनिष्ठद्धिसाधनहोमैः शक्नोति प्रणाल्या ऋद्धिं साधयितुमित्यदोषः । अतए-
Wait, "स्वनिष्ठद्धिसाधनहोमैः" or "स्वनिष्ठर्द्धिसाधनहोमैः"?
स्वनिष्ठ + ऋद्धि = स्वनिष्ठर्द्धि! Look at the text:
'स्व', 'नि', 'ष्ठ', 'र्द्धि'! Yes, "स्वनिष्ठर्द्धिसाधनहोमैः".
Line 30:
वाह कर्म्मप्रदीपः-“पुण्यमेवादधीताग्निं स हि सर्वैः प्रशस्यते । अनर्द्धुकत्वं यत्तस्य का-
Line 31:
म्यैस्तन्नीयते शमम्” इति ॥
Footnote (2):
Line 32:
( २ ) तदेतदनुपदमुक्तं गृह्यान्तरव्याख्यायाम् ।
Footnote (3): Line 33: `( ३ ) राजन्यात्तत्कुलादेवमग्रेऽपि व्याख्ये
१८ अग्न्याधानाविधिः । [ १ प्रपाठके- स-यथोक्तः कर्त्ता। यदेव(१) यस्मिन्नेवाग्नौ-अन्त्यां समिधमादधाति। यस्मिन्नेव वा जायायाः पाणिञ्जिघृक्षुञ्जुहोति। लाजादिकमित्यर्थवशादुन्नेयम्। तमग्निमभिसयँच्छेत्-यत्नेनरक्षेत् ॥ २० ॥ स एवास्य गृह्योऽग्निर्भवति ॥ २१ ॥ स यथोक्त एव न पुनरन्य इत्यन्यस्मिन्नग्नावस्य होमस्य प्रतिषेधोगृह्याग्निसं- पाद्यकर्म्मसु, अन्याहिते गृहेऽपीति विज्ञायते(२)। अस्य-आधातुः गृह्यः गृहाय हितः। गृहकर्म्मोपयोगी (३)गृहनामा वा ऽग्निर्भवति। सोऽयमग्निरस्याधातुुरेव गृह्योभवति। न पुनरन्यस्येति वा सूत्रार्थः। तदेतत्सर्वमाह कात्यायनः— “नह्याहिताग्नेः स्वङ्कर्म्म लौकिकेऽग्नौ विधीयते” इति। तथा— “यस्याग्नावन्यहोमः स्यात्स वैश्वानरदैवतम्- चरूं निरुप्य जुहुयात्प्रायश्चित्तन्तु तस्य तत्॥” इति। “परेणाग्नौ हुते स्वार्थे परस्याग्नौ हुते स्वयम्”॥ इति चैवमादि। अस्य चापवादः पुरस्तादेवोक्तः(४) ॥ २१ ॥ अपिच— तेनैवास्य प्रातराहुतिर्हुता भवतीति ॥ २२ ॥ तेनैव अन्त्यसमिदाधानेन लाजहोमेन वा अस्याग्नेराधातुः प्रातरा- हुतिः हुता दत्ता भवति। तद्दिने अपरा प्रातराहुतिर्नापेक्ष्यते(५) इतिभावः। अयमर्थः। दिवा रात्रौ वा विवाहे तद्दिनेऽपरदिने वा सायमेवाहुतिर्भवति नापरेद्युः प्रातरिति। तथाचोक्तम्— “यदा अह्नि विवाहहोमस्तदा सायं काले- होमारम्भः। यदा तु रात्रौ विवाहहोमस्तदोत्तरेद्युः सायङ्काल एव होमारम्भः” इति। तथाच स्मृत्यन्तरम्— “यस्मिन्नह्नि विवाहः स्यात्सायमारभ्य तस्य तु। परिचर्य्या विवाहाग्नेर्विदधीत स्वयं द्विजः॥ (१) चन्द्रकान्तस्तु—एवकारादितिकर्त्तव्यतान्तरं व्यवच्छिनत्ति। तथाच तमेवा- ग्निमाभिमुख्येन (पूर्णाहूत्या संस्कृतम्) सयँच्छेद्धारयेत् (रक्षेत्) नान्यामिति कर्त्त- व्यतामपेक्षेतेति तदर्थः॥ आधानं प्रत्यविलम्बितत्वज्ञापनाय हि पुनर्वचनम्। इति। अत्र यदितियस्मिन्नर्थेऽव्ययम्॥ (२) एवकारस्वरसात्। (३) गृहपदमत्र गृहस्थपरं तदाश्रमस्थस्य सायम्प्रातराहुत्यादिसकलश्रौतस्मार्त्त- कर्म्मोत्र गृहकर्म्माभिधीयते। न लौकिकाग्निसाध्यम्पाकादीति बोध्यम्॥ (४) ब्रह्मचार्यांत्यादिसूत्रे (१।१।७)॥ (५) तत्कार्य्यस्य तेनैव निष्पत्त्यभ्युपगमात्॥
१ कण्डिका ] गोभिलगृह्यसूत्र — १६ यदि रात्रौ विवाहाग्निरुत्पन्नः स्यात्तथा सति । उत्पन्नस्योत्तरस्याह्नः सायं परिचरेदमुम्” ॥ इति । इति शब्द आधानप्रकरणसमाप्तिद्योतकः ॥ २२ ॥ ( इत्यग्न्याधानप्रकरणम् ) उक्तमर्थमनुवद्-नित्यहोमकालारम्भ उच्यते— सायमाहुत्युपक्रम एवात ऊर्ध्वं गृह्येऽग्नौ होमोविधीयते ॥ २३ ॥ अतः यथोक्ताग्निपरिग्रहात् । ऊर्ध्वम् अनन्तरम् । प्रातराहुत्युपक्रमः । प्रातरा- हुत्या य उपक्रम्यत आरभ्यते स तथाविध एव होमो(१)गृह्येऽस्मिन् अग्नौ । विधीयते-उपदिश्यते(२) । आचार्येण । एवकारेणैतद्दर्शयति यत्केषाञ्चिच्छा- खिनामग्निहोत्रं यथाप्रातराहुत्याऽऽरभ्यते सायमाहुत्या च सन्तिष्ठते(३) न तथा कौथुमादीनामिति । तदत्र सायमाहुत्युपक्रमं प्रातराहुत्यन्तमेकङ्कर्मेति विज्ञा- यते । यथाह कात्यायनः— “सायमादिप्रातरन्तमेकङ्कर्म प्रचक्षते” इति ॥ २३ ॥ पुरा प्रादुष्करणवेलायाः सायम्प्रातरनुगुप्ता अप आहरेत्परिचरणीयाः ॥ २४ ॥ प्रादुष्करणवेलायाः “पुरस्तादग्निमप्रादुष्कृत्ये”—( १-१-२२८ )-त्या- दिसूत्राभ्यां वक्ष्यमाणायाः पुरा पूर्व सायं प्रातश्च(४) अनुगुप्ता अप आहरेत् काः ? परिचरणीयाः परिचर्यन्ते निर्वर्त्यन्ते आचमनादीनि याभिरिति बाहुल- कात् ( पा० ३।३।११३ ) करणेऽनीयर् ॥ २४ ॥ अपि वा सायम् ॥ २५ ॥ अपि वा-अथवा सायम् । पुनर्वचनात्सायमेव अप आहरेत्परिचरणीया इति सम्बध्यते । सायमाहृताभिरेवाद्भिः सायम्प्रातश्च परिचरेदित्यर्थः ॥ २५ ॥ अपि वा कुम्भाद्वा मणिकाद्वा गृह्णीयात् ॥ २६ ॥ ( १ ) देवतोद्देशेन समन्त्रं द्रव्यत्यागोहोमः । स च येनैव हविषा कृतेनाकृतेन वा दध्ना पयसा वा सायं होमः कृतस्तेनैव प्रातर्होमोऽपि समापनीयोऽन्यत्र प्रतिनिधिः । प्रति- निधिश्च कात्यायनेनोक्तः । “यथोक्तवत्सत्वसम्पत्तौ ग्राह्यन्तदनुकारियत् । यवानामित्र गोधूमाः व्रीहीणामिव शालयः ॥” इति ॥ ( २ ) अत्राऽपवर्गविहितमप्यभिरूपभोजनं प्रातराहुत्यनन्तरमेवेति बोध्यम् ॥ अनु- पदं प्रदर्शयिष्यमाणकात्यायनवचनात् । उपदेशश्च तत्प्रकारस्यानन्तरसूत्रैः पञ्चभिः ॥ ( ३ ) समाप्तिङ्गच्छति । “संस्थाऽऽधारे स्थितौ मृतौ” इत्यमरः ॥ ( ४ ) आदिना राणायनीयपरिग्रहः ॥ ( ५ ) विनाऽपि चं समुच्चयो द्योत्यते “गामश्वं पुरुषं पशुम्” इत्यत्र यथा ।