जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
राजयोगाध्यायः ॥ ७ ॥ २२१ लाभे सुखे वा दशमे समन्दश्चन्द्रमा यदि । जातो नृपकुले राजा तत्समो वा धनी भवेत् ॥ ५३॥ लाभ इति । स्पष्टम् ॥ ५३ ॥ यदि शनिके सहित चन्द्रमा लाभमें, वा सुखमें, अथवा दशवेंमें हो तो राज- कुलमें उत्पन्न होने वाला राजा हो, अन्य राजाके सदृश धनी हो ॥ ५३ ॥ [प्रथम चक्र: लग्न: ल. | चतुर्थ भाव: I. चं. श. | दशम भाव: राजा वा धनी, चं. श. II. | एकादश भाव: III. चं. श.] जातश्चोपचयस्थिते तनुपतौ चन्द्रे तपःस्थानगे केन्द्रस्थाः शुभवर्गा यदि शुभा वीर्यान्विता भूपतिः । जीवेन्दू वृषभस्थितौ बलयुतः कोणस्थितो लग्नपः शन्यारेक्षणवर्जितो यदि तदा जातोऽवनीशो भवेत् ॥ ५४ ॥ जातश्चेति । तनुपतौ=जन्मलग्नेशे,
२२२ सटीकजातपारिजाते- सूर्य मीन राशिका हो, कर्क लग्नमें चन्द्रमा हो ऐसे योगमें जायमान नर राजा होता है। उपर्युक्त जितने राजयोग कारक ग्रह हैं वे अपने शत्रु और नीचगत ग्रहसे देखे जावें तो राजयोग नहीं करते। (सु० शा० कार) ॥ ५५ ॥ जनयति नृपमेकोऽप्युच्चगो मित्रदृष्टः प्रचुरगुणसमेतं मित्रयोगाच्च सिद्धम् । विवसुविसुखमूढंव्याधितो बन्धुतप्तो वधदुरितसमेतः शत्रुनिम्नर्क्षगेषु ॥ ५६॥ जनयतीति । एकः अपि उच्चगः = स्वकीयोच्चराशिस्थो ग्रहो मित्रदृष्टः = मित्रग्रहेणा- वलोकितश्च यदि भवेत्तदा एकोऽप्यसौ ग्रहो जातं प्रचुरगुणसमेतं नृपं = भूपतिं जनयति करोति । मित्रयोगाच्च = उच्चस्थ एकोऽपि ग्रहो मित्रग्रहेण युक्तो भवेत्तदा सिद्धं = सिद्धियुक्तं नृपं जनयति । विवसु-इति । उक्तयोगकारकेषु ग्रहेषु, शत्रुनिम्नर्क्षगेषु = शत्रुराशिगतेषु, [L
राजयोगाध्यायः ॥७॥ २२३ मालव्य-चारुशशेति योगकरा भवन्ति । अर्थात् बलवान् भौमो मूलत्रिकोणोच्चगृहं गतः केन्द्रवर्ती स्यात्तदा रुचको योगः स्यात् । तथाभूतेन बुधेन भद्रयोगः । एवं गुरुणा हंस- योगः । शुक्रेण मालव्ययोगः । शनिना चारुशशयोगो वाच्य इति । तथा च जातकाभरणे— “स्वगेहतुङ्गाश्रयकेन्द्रसंस्थैरुच्चोपगैर्वावनिसूनुमुख्यैः । क्रमेण योगा रुचकाख्य-भद्र-हंसाख्य-मालव्य-शशाभिधानाः ॥ इति ॥५६॥ यदि बलवान् मंगल मूलत्रिकोण, स्वगृह, उच्चगृहमें प्राप्त होकर केन्द्रमें स्थित हो तो “रुचक” योग होता है । बुध हो तो “भद्र” योग होता है । बृहस्पति हो तो “हंस” योग होता है । शुक्र हो तो “मालव्य” योग होता है और शनि हो तो “शश” योग होता है ॥५९॥ अथ रुचक-योगफलम् । जातः श्रीरुचके बलान्वितवपुः श्रीकीर्तिशैलान्वितः शास्त्री मन्त्रजपाभिचारकुशलो राजाऽथवा तत्समः । लावण्यारुणकान्तिकामलतनुस्त्यागी जितारिर्धनी सप्तत्यैब्दमितायुषा सह सुखी सेनातुरङ्गाधिपः ॥ ६० ॥ श्लोकेनानेन रुचकयोगे जातानां फल- मुच्यते—जात इति । सरलार्थः ॥ ६० ॥ रुचक योगमें उत्पन्न होने वाला मनुष्य बलयुक्त शरीरवाला, कीर्ति और शीलसे युक्त, शास्त्री, मंत्रके जप और अभिचारमें कुशल, राजा, वा उसके सदृश धनी, सौन्दर्ययुक्त लाल कान्ति, कोमल शरीर, त्यागी, शत्रु- जित् , धनी और ७० वर्षकी आयु तक सुखी, सेना और घोड़ोंसे युक्त होता है ॥ ६० ॥
+-----------------------------+
| \ १० / |
| \ मं. ल. / |
| \ / |
| १२ > ।. < ८ |
| / रुचकयोगः \ |
| / \ |
| / \ |
|-----+ +-----|
| | | |
| १ | | ७ |
| | | |
|-----+ +-----|
| \ / |
| \ / |
| \ / |
| २ > ४ < ६ |
| / \ |
| / \ |
| / ३ \ |
+-----------------------------+
धर्मेशालाभेशधनेश्वराणामेकोऽपि शीतद्युतिकेन्द्रवर्ती । स्वयं च लाभाधिपतिर्गुरुश्चेदखण्डसाम्राज्यपतित्वमेति ॥ ६१ ॥ धर्मेशेति । धर्मेश-लाभेश-धनेश्वराणां= नवमेशैकादशेशद्वितीयेशप्रहाणां मध्ये एकः अपि कश्चित्, शीतद्युतेश्चन्द्रात् केन्द्रवर्ती (चन्द्रतः १।४।७।१० भवने) भवेत् , गुरुः= बृहस्पतिश्चेद्यदि लाभाधिपतिः=एकादशभावे- शो भवेत्तदा जातः स्वयं स्वपराक्रमेणाख- ण्डसाम्राज्यपतित्वमेति=चक्रवर्तित्वं प्राप्नोति ॥
+-----------------------------+
| \ ११ / |
| १२ \ ल. चं. / १० |
| \ / |
|---------+---------+---------|
| १ | | ९ |
| | अखण्ड- | |
|---------| साम्राज्य |---------|
| २ बृ. | पतिः | ८ |
| | | |
|---------+---------+---------|
| / ५ \ |
| ३ / \ ७ |
| / ४ \ |
| / \ ६ |
+-----------------------------+
नवमेश, लाभेश, धनेश, उनमें एक भी चन्द्रमासे केन्द्रमें हो और लाभाधिपति खास बृहस्पति हो तो जातकको अखंड राज्यका पति बनावे ॥ ६१ ॥ अथ भद्रयोगफलम् । शार्दूलप्रतिमाननो गजगतिः पीनोरुवक्षःस्थलो लम्बापीनसुवृत्तबाहुयुगलस्तत्तुल्यमानोच्च्छ्रयः । मानी बन्धुजनोपकारनिपुणः श्रीभद्रयोगोद्भवो राजाऽशीतिमितायुरेति विपुलप्रज्ञायशोवित्तवान् ॥ ६२ ॥ 16
२२४ सटीकजातकपारिजाते- इदानीं भद्रयोगे जातस्य फलमाह— शार्दूलेति । स्पष्टम् ॥ ६२ ॥ भद्र योगमें जायमान मनुष्य शेरके समान मुख, मत्तवाले हाथीके सदृश गति, मोटे जंघा, छाती, लम्बा-मोटा और गोला दोनों बाहु उसीके समान ऊंचा, मानी, बन्धु- जनोंके उपकारमें निपुण, विशेष बुद्धिवाला, तथा यश-धन-वाला और ८० वर्षकी आयु प्राप्त करनेवाला राजा होता है ॥ ६२ ॥
[कुण्डली - II. भद्रयोगः]
- लग्न (प्रथम भाव): ३ ल.
- द्वादश भाव: ४
- एकादश भाव: ५
- दशम भाव: ६ बु.
अथ हंसयोगफलम् । रक्तास्योन्नतनासिकः सुचरणो हंसस्वरः श्लेष्मको गौराङ्गः सुकुमारदारसहितः कन्दर्पतुल्यः सुखी । शास्त्रज्ञानपरायणोऽतिनिपुणः श्रीहंसयोगे गुणी जातोऽशीतिकमायुरेति सयुगं ८४ साधुक्रियाचारवान् ॥ ६३ ॥ इदानीं हंसयोगफलमाह-रक्तास्येति सरलार्थः ॥ ६३ ॥ हंस योगमें उत्पन्न होनेवाला मनुष्य लाल मुख, ऊंची नासिका, सुन्दर चरण, हंस स्वर, कफ प्रकृति, गौरांग, सुकुमार स्त्रीयुत, कामदेवके तुल्य सुन्दर, सुखी, शास्त्रज्ञानमें परायण, अत्यन्त निपुण, गुणी, अच्छी क्रियाका आचारवाला और ८४ वर्षकी आयुवाला होता है ॥ ६३ ॥
[कुण्डली - III. हंसयोगः]
- लग्न (प्रथम भाव): १ ल.
- द्वादश भाव: २
- एकादश भाव: ३
- चतुर्थ भाव: ४ वृ.
अथ मालव्ययोगफलम् । स्त्रीचेष्टो ललिताङ्गसन्धिनयनः सौन्दर्यशाली गुणी तेजस्वी सुतदारवाहनधनी शास्त्रार्थवित्पण्डितः । उत्साहप्रभुशक्तिमन्त्रचतुरस्त्यागी परस्त्रीरतः सप्तत्यब्दमुपैति सप्तसहितं (७७) मालव्ययोगोद्भवः ॥ ६४ ॥ इदानीं मालव्ययोगफलमाह-स्त्रीति । स्पष्टम् ॥ ६४ ॥ मालव्य योगमें जायमान प्राणी स्त्री- की तरह स्वभाववाला, सुन्दर शरीरकी सन्धि और नेत्रवाला, सुन्दर, गुणी, तेजस्वी, पुत्र-स्त्री-वाहन-वाला, धनी, शास्त्रार्थज्ञ पंडित, उत्साही, प्रभुशक्ति- वान् , मन्त्रज्ञ, चतुर, त्यागी, परस्त्रीरत और ७७ वर्षकी आयुवाला होता है ॥६४॥
[कुण्डली - IV. मालव्ययोगः]
- लग्न (प्रथम भाव): ल. १
- सप्तम भाव: शु. ७
अथ शशयोगफलम् । भूपो वा सचिवो वनाचलरतः सेनापतिः क्रूरधी- र्धातोर्वादविनोदवञ्चनपरो दाता सरोपेक्षणः ॥
राजयोगाध्यायः ॥ ७ ॥ २२५ तेजस्वी निजमातृभक्तिनिरतः शूरोऽसिताङ्गः सुखी जातः सप्ततिरायुुरेति शशके जारक्रियाशीलवान् ॥ ६५ ॥ इदानीं शशयोगफलमाह-भूपो वेति । स्पष्टार्थकम् ॥ ६५ ॥ शशक योगमें उत्पन्न होनेवाला पुरुष राजा वा राजमंत्री हो, वन और पर्वत में रत, सेनानायक, क्रूरबुद्धि, धातुके वादमें विनोदी, ठगहारीमें निरत, दानी, रोषा- न्वित दृष्टि-वाला, तेजस्वी, अपनी मातृ- भक्तिमें निरत, पराक्रमी, श्यामाङ्ग, सुखी, जारक्रिया (छिनारी) में तत्पर होता है और ७० वर्ष आयु पाता है ॥ ६५ ॥
[चक्र १: शशकयोगः]
- लग्न (१): ८ ल.
- द्वितीय (२): ९
- तृतीय (३): १०
- चतुर्थ (४): ११ श.
- केन्द्र: ४. शशकयोगः
गर्गहोरायाम् । श्लोकेनानेनोक्तानां वक्ष्यमाणानाञ्च योगानां फलप्राप्तिकालमाह— यस्य योगस्य यः कर्ता बलवान् जितदृग्युतः । अधियोगादियोगेषु स्वदशायां फलप्रदः ॥ ६६ ॥ यस्येति । बलवान् = स्वस्थानादिबलयुक्तो, वा जितदृग्युतः = जितेन ग्रहेण दृष्टो युतश्चा- र्थात् क्षीणबलो भवेत् । अत्र जितलक्षणम्— “दक्षिणदिक्स्यः पुरुषो वेपथुरप्राप्य सञ्चिवृत्तोऽणुः । अधिरूढो विकृतो निष्प्रभो विवर्णश्च यः स जितः” इति ॥ एतादृशो यो ग्रहो यस्य योगस्य कर्त्ता = कारको भवति, तथा चाधियोगादियोगेषु वक्ष्यमाणचन्द्रलग्नाधियोगेषु (अस्यैवाध्यायस्य ११३-११५ श्लोका द्रष्टव्याः ) यो ग्रहः कर्त्ता भवति स स्वदशायां फलप्रदो भवति । बलवतो ग्रहस्य दशायां तदधिष्ठितयोगस्य । प्रातिरेवं जितदृग्युतस्य नीचारिगृहगतस्य न दशायां तदधिष्ठितभावस्य (यद्भावस्यासौ कार- कस्तस्येति) हानिश्च भवतीति वाच्यम् ॥ ६६ ॥ किसी भी योगका जो ग्रह कारक होवे वह यदि बली और बली ग्रहसे दृष्ट या युत हो तो वह ग्रह अपनी दशामें उस उस विशिष्ट योगका फल देता है । एवं वह कारक ग्रह यदि निर्बल हो, नीचमें या शत्रुगृहमें प्राप्त और निर्बल ग्रहसे दृष्ट हो तो वह अपनी दशामें अपने भाव और योगको नष्ट करता है। (सु० ज्ञा० कार) ॥ ६६ ॥ अथ भास्करादियोगाः । भानोर्र्थेऽनंगते बुधे शशिसुताल्लग्नेऽभिस्थितश्चन्द्रमा- श्चन्द्रात्कोणगतैः पुरन्दरगुरुर्योगस्तदा भास्करः ॥ शूरो भास्करयोगजः प्रभुसमः शास्त्रार्थविद्रूपवान् गान्धर्वश्रुतिवित्तवान् गणितविद्धीरः समर्थो भवेत् ॥ ६७ ॥ इदानीं भास्करादीन कांस्र्चिद्योगान् विव- क्षुरादौ सफलं भास्करयोगमाह—भानोरिति । श्लोकः सरलार्थ एवेति । स्पष्टार्थं चक्रं द्रष्टव्यम् ॥ ६७ ॥ Notes-अत्रेदं फलितं-सूर्याद् द्वितीये बुधो द्वादशे चन्द्रश्चतुर्थेऽष्टमे वा गुरुर्भवेत्तदा भास्करयोगः स्यादिति । यदि सूर्यसे दूसरेमें बुध हो, बुधसे ग्यार-
[चक्र २: भास्करयोगः]
- द्वितीय: चं.
- चतुर्थ: सू.
- पञ्चम: बु.
- सप्तम: बृ.
- नवम: बृ.
- केन्द्र: भास्करयोगः
२२६ सटीकजातकपारिजाते- हवेंमें चन्द्रमा हो, चन्द्रमासे कोणमें वृहस्पति हो तो भास्कर योग होता है। भास्कर योग में उत्पन्न होनेवाला मनुष्य पराक्रमी, प्रभुके सदृश, शास्त्रार्थवित्, रूप- वान्, गान्धर्व विद्याका ज्ञाता, धनी, गणितज्ञ, धीर और समर्थ होता है॥ ६७ ॥ अथ इन्द्रयोगः । चन्द्राद्विक्रै³मगः कुजोऽवनिसुताद्दंस्ते शनिः सूर्यजा- दँस्ते दैत्यगुरुः सितान्मदनँगो जीवो यदीन्द्राह्वयः । ख्यातस्तत्रभवः सुशीलगुणवान् भूपोऽथवा तत्समो वाग्मी वित्तविचित्रभूषणयशोरूपप्रतापान्वितः ॥ ६८ ॥ इदानीं सफलमिन्द्रयोगमाह—चन्द्रादिति । स्पष्टार्थः श्लोकः ॥ ६८ ॥ Notes—अत्रेदं फलितम्—चन्द्रात् तृतीये मङ्गलशुक्रौ, नवमे शनिगुरू च भवेतां तदा इन्द्रयोगो भवतीति । यदि चन्द्रमासे तीसरेमें मंगल हो, और मंगलसे सातवेंमें शनि हो, शनिसे सातवें शुक्र हो और शुक्रसे सातवें गुरु हो तो "इन्द्र" संज्ञक योग होता है। इन्द्र योगमें उत्पन्न होनेवाला मनुष्य विख्यात, शीलवान्, गुणवान्, राजा वा राजा के तुल्य धनी, वाचाल, अनेक प्रकारके धन-भूषण-यश-रूप-प्रतापसे युत होता है ॥ ६८ ॥ [कुण्डली १ (इन्द्रयोगः): लग्न: चं. | तृतीय: मं. शु. | नवम: बृ. श. | केन्द्र: इन्द्रयोगः] अथ मरुद्योगः । शुक्रात् कोर्णगै¹तो गुरुः सुरगुरोः पु²त्रे शशी शीतगोः केन्द्रस्थानसमाश्रितो दिनकरो योगो मरुत्संज्ञकः । वाग्मी वायुभवो विशालहृदयः स्थूलोदरः शास्त्रवित् सम्पन्नः क्रयविक्रयेषु कुशलो राजाऽथवा तत्समः ॥ ६६ ॥ इदानीं सफलं मरुत्-योगमाह-शुक्रादिति । स्पष्टार्थ एव ॥ ६६ ॥ Notes—अत्रेदं फलितम्-शुक्रात्- नवमे वा प्रथमे चन्द्रः, १।३।४।६।७।९।१०। १२ भावान्यतमे सूर्यः, पञ्चमे वा नवमे गुरु- र्भवेत्तदा मरुन्नामको योगो भवतीति । यदि शुक्रसे कोणमें गुरु हो, गुरुसे पांचवें चन्द्रमा हो, चन्द्रमासे केन्द्रमें सूर्य हो तो “मरुत” योग होता है । इस मरुत् ( वायु ) योगमें उत्पन्न होने बाला मनुष्य वाचाल, विशाल हृदयवाला, स्थूल उदरवाला, शास्त्रका ज्ञाता, धन सम्पन्न, क्रय-विक्रयमें निपुण, राजा वा राजाके सदृश धनी होता है ॥ ६९ ॥ [कुण्डली २ (मरुद्योगः): लग्न: शु. चं. | तृतीय: १० बु. | पञ्चम: चं. बृ. | नवम: बृ. | एकादश: सू. | द्वादश: सू. | केन्द्र: मरुद्योगः] अथ बुधयोगः । लग्नेऽथ्यो गुरुक्रेन्द्रगो हिमकरश्चन्द्राद्विहिंर्वित्तगः सौर्यस्थानगतौ च भानुरुधिरौ योगो बुधः कीर्तितः ।
राजयोगाध्यायः ॥ ७ ॥ २२७ राजश्रीबुधयोगजोऽतुलबलप्रख्यातनामा विदुः शास्त्रज्ञानकरक्रियासु चतुरो धीमानशत्रुर्लवेत् ॥ ७० ॥ इदानीं सफलं बुधयोगमाह-लग्नेष्विति । स्पष्टम् ॥ ७० ॥ Notes-गुरुर्लग्ने, चन्द्रः लग्नात् १। ४।७।१० एतदन्यतमे, राहुः लग्नात् २।५। ८।११ एतदन्यतमे, सूर्य्यभौमौ लग्नात् ३।६। ९।१२ एतदन्यतमे भावे सति बुधनामको योगो भवतीति । यदि लग्नमें गुरु, गुरुसे केन्द्रमें चन्द्रमा हो, चन्द्रमासे दूसरे राहु हो, पराक्रमके ३ रे स्थानमें सूर्य और मंगल हों तो बुधयोग होता है । [कुण्डली चक्र: लग्न (१)-बृ. ल.; २-१; ३-१२; ११-११; १०-मं. सू.; ९-रा.; ७-चं.; केन्द्र-बुधयोगः] इस बुध योगमें उत्पन्न होनेवाला मनुष्य राजश्रीसे युक्त, विशेष बली, बड़ा नामी, शास्त्र- ज्ञाता, व्यापारमें चतुर, बुद्धिमान् और शत्रुरहित होता है ॥ ७० ॥ अथ सुनफा-अनफा-धुरन्धुरा-केमद्रुमयोगाः । लग्नस्थिते हिमकरे यदि वा मदस्थे केमद्रुमो भवति जीवदृशा विहीने । अत्यल्पबिन्दुसहिता यदि खेचरेन्द्राः केमद्रुयोगफलदा विबलाश्च सर्वे ॥ ७१ ॥ द्वितीये द्वादशे पार्श्वे द्वये खेचरसंयुते । शीतांशोः सुनफायोगस्त्वनफानाम कीर्तितः ॥ ७२ ॥ योगो धुरन्धुराख्यः स्याद्विना सर्वत्र भास्करम् । एतद्योगत्रयाभावे केमद्रुमफलं वदेत् ॥ ७३ ॥ इदानीं केमद्रुमयोगमाह-लग्नस्थित इति । लग्नस्थिते, यदि वा मदस्थे = सप्तमस्थे हिमकरे = चन्द्रे, जीवदृशा = गुरुदृष्ट्या विहीने सति केमद्रुमो योगो भवति । अथ च यदि सर्वे ग्रहाः, अत्यल्पबिन्दुसहिताः = अष्टकवर्गेऽल्पशुभचिह्नकास्तथा विबलाः = बलहीनाश्च भवेयुस्तेऽपि केमद्रुमयोगफलदा भवन्ति । केमद्रुमयोगफलं वक्ष्यते ८२ तमे श्लोके ॥७१॥ अथ सुनफाऽनफाधुरन्धुराकेमद्रुमयोगानाह-द्वितीयेतिश्लोकयुग्मेन । शीतांशोः = चन्द्रात्, द्वितीये स्थाने, खेचरसंयुते = सूर्येतरग्रहयुक्ते ( विना सर्वत्र भास्करमित्युक्तेः ) सुनफा नाम योगो भवति । चन्द्राद् द्वादशे स्थाने सूर्येतरग्रहयुते अनफा नाम योगः सुधी- भिः कीर्तितः । चन्द्राद् द्वये पार्श्वे = द्वितीये द्वादशे च भावे सूर्येतरखेचरसंयुते धुरन्धुराख्यः ( दुरुधुरेति ग्रन्थान्तरे ) योगो भवति । एतत्पूर्वोक्तयोगत्रयाभावे = चन्द्राद् द्वितीये द्वादशे च स्थाने शून्ये सति केमद्रुमयोगस्य फलं वदेदर्थात्तदानीं केमद्रुमो योगो भवति । तथा च लघुजातके वराहः— रविवर्ज्यं द्वादशगैरनफा चन्द्राद् द्वितीयगैः सुनफा । उभयस्थितैर्दुरुधुरा केमद्रुमसञ्ज्ञकोऽतोऽन्यः । इति ॥ इदमप्यवधेयम् । चन्द्राद् द्वितीये वा द्वादशे सूर्यो भवतु न वा भवतु किन्तु न स योगकारको भवति । भौमादयः पञ्च ( मं. बु. बृ. शु. श. ) ग्रहाः एकैकाः सम्मिलिता वा चन्द्राद् द्वितीये सुनफायोगकराः, द्वादशे अनफायोगकरा भवन्ति । एवं पञ्चभिर्ग्रहैः ३१ भेदाः अनफाः सुनफाश्च भवन्ति । एवमेव चन्द्राद् द्वितीयद्वादशगतैः पञ्चभिर्ग्रहैः एकाकिभिः सम्मिलितैश्चाशीत्यधिकशत ( १८० ) भेदा दुरुधुराः ज्ञेयाः । तेषां विवरणं बृहज्जातके उत्प- लकृतटीकायां द्रष्टव्यम् । ग्रन्थस्तम्भयादत्र न लिखितमिति । बृहज्जातके तद्वचनम्—
२२८ सटीकजातकपारिजाते- त्रिंशत्स्वरूपाः ( ३१ ) सुनफानफाख्याः षष्टित्रयं ( १८० ) दौरुधरे प्रभेदाः । इच्छाविकल्पैः क्रमशःऽभिनीया नीते निवृत्तिः पुनरन्यनीतिः ॥ इति ॥ ७३ ॥ Notes—अत्रोक्तसुनफादिप्रभेदानां विवरणं अग्रे ( ८३ श्लोके, भाषाचक्रेषु ) द्रष्टव्यम् । [चक्र १ (सुनफा): द्वितीय भाव में मं., लग्न में चं.] [चक्र २ (अनफा): द्वादश भाव में बु., लग्न में चं.] [चक्र ३ (दुरधुरा): द्वितीय में मं., लग्न में चं., द्वादश में बु.] [चक्र ४ (केमद्रुमः): लग्न में चं.] यदि लग्नमें या सप्तममें चन्द्रमा हो उसे बृहस्पति न देखता हो तो 'केमद्रुम' योग होता है । ग्रह यदि अष्टक वर्गमें अल्प बिंदुके हों और विकल हों तो केमद्रुम योगके फल देनेवाले होते हैं ॥ ७१ ॥ सूर्यके अतिरिक्त ग्रह चन्द्रमाके दूसरे और बारहवें स्थानोंमें हो तो “सुनफा” “अनफा” ‘धुरन्धरा’ योग होते हैं । वे तीनों योग न हों तो केमद्रुम योग होता है, अर्थात् चन्द्रमासे दूसरे सूर्यके अतिरिक्त ग्रह हों तो सुनफा, बारहवें हों तो अनफा, दोनों जगह ( २।१२ ) ग्रह हों तो धुरन्धरा योग होते हैं। यदि चन्द्रमासे दूसरे, बारहवें कोई ग्रह न हो तो केमद्रुम ( दरिद्र फलद ) योग होता है ॥ ७२-७३ ॥ इदानीमन्येऽपि केमद्रुमफलदा दरिद्रयोगा उच्यन्ते— चन्द्रे समानौ यदि नीचदृष्टे पापांशके याति दरिद्रयोगम् । क्षीणेन्दुलग्नान्निधने निशायां पापेक्षिते पापयुते तथा स्यात् ॥ ७४ ॥ चन्द्रेति । समानौ = सूर्यसहिते, चन्द्रे नीचगतग्रहेण दृष्टे, पापांशके = पापग्रहनवांशे विद्यमाने सति दरिद्रयोगं ( केमद्रुमतुल्यं ) याति = प्राप्नोति जातक इति । क्षीणेन्द्विति । निशायां = रात्रिसमये जन्मनि क्षीणेन्दुलग्नात्-क्षयिष्णु-( कृष्णपक्षीय ) चन्द्रगतलग्नात् , निधने = अष्टमे भावे, पापेक्षिते = पापग्रहेण दृष्टे, पापग्रहेण युते च तथा स्यादर्थाद् दरि- द्रयोगः स्यादिति ॥ ७४ ॥ चन्द्रमा सूर्यके साथ नीच गत ग्रहसे दृष्ट पापांशक में हो तो दरिद्र योग होता है। रातके जन्ममें लग्नगत क्षीण चन्द्रमासे ८ वें पापग्रहकी दृष्टि हो, या पापग्रह बैठा हो तो दरिद्रयोग होता है ॥ ७४ ॥
राजयोगाध्यायः ॥७॥ २२६ विधुन्तुदादिग्रहपीडितेन्दौ पापेक्षते चाशु दरिद्रमेति । लग्नाच्चतुष्केन्द्रगृहे सपापे निशाकराद्वाऽऽशु दरिद्रमेति ॥ ७५ ॥ विधुन्तुदादीति । विधुन्तुदादिभिर्ग्रहैः = राहादिपापग्रहैः पीडिते, इन्दौ=चन्द्रे पापेक्षिते च जात आशु = शीघ्रमेव दरिद्रयोगमेति । लग्नादिति । लग्नात् चतुष्केन्द्र-( १।४।७।१० ) गृहे, वा निशाकरात् = चन्द्रात् चतुष्केन्द्रगृहे = चतुर्षु केन्द्रेषु सपापे = पापग्रहयुक्ते जातो नर आशु दरिद्रमेति ॥ ७५ ॥ राहु आदि उपग्रहसे निपीडित चन्द्रमा पापग्रहसे देखा जाता हो तो जल्द दरिद्र बनता है । लग्नसे वा चन्द्रसे चारों केन्द्रोंमें पापग्रह हों तो भी जल्द दरिद्र बनावै ॥ ७५ ॥ चन्द्रे पराजितशुभग्रहदृष्टियुक्ते राहादिपीडिततनौ तु दरिद्र एव । नीचारिवीक्षणयुते रिपुराशिवर्गे च
·२३० सटीकजातकपारिजाते- नीचमें, या शत्रुगृहमें, या पापग्रहके वर्गमें प्राप्त शनि और शुक्र इन दोनोंमें परस्पर दृष्टि हो या दोनों एक राशिमें हों तो राजकुलमें उत्पन्न होनेपर भी दरिद्रताको प्राप्त होवे॥७८॥ चन्द्रे पापयुते तु पापभवने पापांशके वा निशि व्योमेशेन निरीक्षिते गतबले केमद्रुयोगो भवेत् ॥ भाग्यस्थानपवीक्षिते खलयुते नीचांशकेऽब्जे तथा चन्द्रे नीचयुते निशि क्षयतनौ जातस्य केमद्रुमः ॥ ७६ ॥ चन्द्र इति । गतबले = निर्बले, चन्द्रे पापग्रहेण युक्ते, तु ( तु पक्षान्तरे ) पापग्रहस्य भवने वा पापग्रहस्य नवांशे स्थिते, निशि = रात्रौ, व्योमेशेन दशमेशेन = निरीक्षिते सति केम- द्रुयोगो भवेत् । अथ खलेन = पापग्रहेण युते, अब्जे = चन्द्रे, नीचराशिनवमांशके गतवति भाग्यस्थानपेन = नवमेशेन वीक्षिते = दृष्टे सति तथाऽर्थात्केमद्रुमो भवेत् । अथ च क्षयतनौ क्षयिष्णौ ( कृष्णपक्षीये ) चन्द्रे निशि = रात्रौ जन्मनि नीचयुते = स्वनीचराशि गते जातस्य केमद्रुमो योगो भवेदिति ॥ ७९ ॥ यदि चन्द्रमा पापग्रहसे युक्त हो, पापग्रहकी राशिमें हो, वा पाप-नवांशमें हो, रात्रिके जन्ममें दशमेशसे देखा जाता हो, निर्बल हो तो केमद्रुम योग होता है । चन्द्रमा खल ग्रहसे युत नीचांशकमें हो, भाग्येश उसे देखता हो, वा रात्रिमें क्षीण चन्द्रमा नीचगत हो, उस समय उत्पन्न होनेवालोंका केमद्रुम योग होता है ॥ ७९ ॥ अथ केमद्रुमयोगापवादः । निशाकरे केन्द्रगते भृगौ वा जीवेक्षिते नैव दरिद्रयोगः । शुभान्विते वाऽशुभमध्यगेन्दौ जीवेक्षिते नैव दरिद्रयोगः ॥ ८० ॥ चन्द्रेऽतिमित्रनिजतुङ्गगृहांशकस्थे जीवेक्षिते यदि दरिद्रतया विहीनः । पूर्णे तनौ शुभयुते दिवि तुङ्गयाते जीवेक्षिते हिमकरे न भवेद्दरिद्रः ॥ ८१ ॥ इदानीमुक्तानां केमद्रुमयोगानां कदा भङ्गो भवतीत्याह—निशाकरे, चन्द्र इति श्लोक- द्वयेन । निशाकरे = चन्द्रे, वा भृगौ = शुक्रे, केन्द्र-( १।४।७।१० भाव-) गते तस्मिन् जीवने=गुरुणा, ईक्षिते = दृष्टे सति दरिद्रयोगो नैव भवति । अथ च शुभान्विते = शुभग्रहेण सहिते, शुभमध्यगेन्दौ = शुभग्रहद्वयस्यैकैकर्क्षगस्य मध्ये विद्यमाने चन्द्रे, जीवेक्षिते = गुरुणा दृष्टे दरिद्रयोगो नैव भवति । ईदृगलक्षणे पूर्वोक्तलक्षणव्याप्तावपि केमद्रुमयोगो न भवति ॥८०॥ अतिमित्र-निजतुङ्गगृहे वा तन्नवांशे गतवति चन्द्रे जीवेक्षिते यदि पूर्वोक्तलक्षणं स्यादपि तथापि दरिद्रतया = केमद्रुमफलेन विहीनो भवति जातकः । पूर्णबिम्बे चन्द्रमसि शुभग्रहेण संयुक्ते दिवि = दशमे भावे निजोच्च-( वृष ) गते जीवेक्षिते च दरिद्रो केमद्रुमफलवान् न भवेज्जातक इति ॥ ८१ ॥ केमद्रुम योगके लक्षण होनेपर भी यदि चन्द्रमा वा शुक्र केन्द्रमें हो बृहस्पतिसे देखा जाता हो तो दरिद्र ( केमद्रुम ) योग नहीं होता है । चन्द्रमा शुभ ग्रहसे युक्त हो वा शुभग्रहोंके मध्यमें हो उसको बृहस्पति देखता हो तो दरिद्र योग नहीं होता है ॥ ८० ॥ चन्द्रमा अतिमित्रके गृहमें, अपनी उच्चराशिमें, अपने गृह या नवांश में हो उसे बृह- स्पति देखता हो तो दरिद्रतासे हीन होता है अर्थात् केमद्रुमका भङ्ग होता है। पूर्ण चन्द्रमा
ा, द (da), श (śa) with ai-matra and repha = शैर् (śair) ! Wait! Is there a repha? द्वा-द-शै-र-न-फा: द्वादशैः + अनफा = द्वादशैरनफा! Yes, exactly द् (d) + वा (vā) + द (da) + शै (śai) + र (ra) + न (na) + फा (phā) = द्वादशैरनफा! Then: ज्ञे (jñe) + यो (yo) = ज्ञेयो. Then: ग्रहैर् (grahair) Then: विद्वान्द्वयस्थितैः (vidvāndvayasthitaiḥ) or विद्वन्द्वयस्थितैः: Look at the characters: वि (vi) द्वा (dvā) with anusvara or न्? It is विद्वान् (vidvān) followed by द्वयस्थितैः: "ग्रहैर्विद्वान्द्वयस्थितैः ।" Then: "प्रोक्तो दुरुधुरा योगोऽन्यथा केमद्रुमः स्मृतः ॥"
Everything is very consistent and clear now. I will produce the output directly as requested.लग्नमें हो शुभ ग्रहसे युत हो, या १० वें भावमें उच्चका हो उसे गुरु देखता हो तो दरिद्र नहीं होता है । ( सु. शा. कार ) ॥ ८१
२३२ सटीकजातकापारिजाते- परचैतन्मतं नाचार्गाभिमतम् । अत एवाह-उक्तप्रसिद्धा न ते । येषामिदमभिमतं 'केन्द्रनवांशकेष्विति' ते आचार्याः, उक्तप्रसिद्धाः=उक्तापदेशे प्रसिद्धा मान्या न सन्तीति ॥ ८३॥ सूर्यको छोड़कर भौमादिकमें से कोई ग्रह चन्द्रमासे दूसरे हो तो सुनफा योग होता है । सूर्यके अतिरिक्त चन्द्रमासे १२ वें कोई ग्रह हो तो अनफा योग होता है । चन्द्रमासे दूसरे और बारहवें सूर्यको छोड़कर कोई ग्रह हों तो दुरुधुरा योग होता है। यदि चन्द्रमासे २ रे और १२ वें कोई भी ग्रह न हो तो केमद्रुम योग होता है। यदि केन्द्रमें चन्द्रमा हो वा अन्य कोई ग्रह हो तो केमद्रुम योगका भंग हो जाता है । किसी का मत है कि चन्द्रमासे केन्द्र और नवांशमें भी वे योग होते हैं । परन्तु यह मत प्रसिद्ध नहीं है । संस्कृत टीका देखिये ॥ ८३ ॥ यहां प्रसंगवश बृहज्जातकोक्त- “त्रिंशत् सरूपाः सुनफान्फाख्याः षट्त्रिंशयं धौग्धरे प्रभेदाः । इच्छाविकल्पैः क्रमशोऽभिनीय नीते निवृत्तिः पुनरन्यनीतिः ।” इस वचनका स्पष्टीकरण दिखलाता हूं-सुनफा, और अनफा योगके ३१ भेद हैं । दुरुधुरा योगके १८० भेद हैं । इच्छाविकल्पसे उन विकल्पोके बनानेसे निवृत्ति होती है और रीति स्थानान्तर चालानकी होती है । यथा-सुनफा और अनफा योग मङ्गल-बुध-बृहस्पति-शुक्र-शनि इन पाँच ग्रहों से होते हैं। अतः इच्छा विकल्प पांच | ५ | ४ | ३ | २ | १ | हुए । अतः प्रस्तारकी रीतिसे १।५।१०।१०।५।१ इन अङ्कोंके भेद प्रथम | १ | २ | ३ | ४ | ५ | विकल्प ५, द्वितीय १०, तृतीय १०, चतुर्थ ५, पञ्चम १, इस प्रकारसे योग ३१ हुए । प्रथम विकल्प-चन्द्रमासे २ रे-मं. बु. बृ. शु. श. ये ग्रह एक १ हों तो प्रथम विक- ल्पके पांच भेद हैं । द्वितीय विकल्प-मं. बु., मं. बृ., मं. शु., मं. श. । बु. बृ., बु. शु., बु. श. । बृ. शु., बृ. श. । शु. श. । इस प्रकार दूसरा विकल्प १० प्रकारके हुए । तृतीय विकल्प-मं. बु. बृ., मं. बु. शु., मं. बु. श., मं. बृ. शु., मं. बृ. श., मं. शु. श. । बु. बृ. शु., बु. बृ. श., बु. शु. श. । बृ. शु. श. इस प्रकार तीसरा विकल्प १० प्रकारके हुए । चतुर्थ विकल्प-मं. बु. बृ. शु., मं. बु. बृ. श., मं. बृ. शु. श., मं. बु. शु. श., बु. बृ. शु. श. इस प्रकार चौथे विकल्पके पाँच भेद हुए । पञ्चम विकल्प-मं. बु. बृ. शु. श. इस प्रकार पाँचवें विकल्पका १ भेद हुआ । इन पांच विकल्पोंसे सुनफा योगके ३१ भेद हुए । इसी प्रकार ३१ भेद अनफा योगके भी होते हैं । दुरुधुरा योगके २० भेद एक स्थानमें एक ग्रह रहनेसे-
| चन्द्रसे २ रे स्थानमें | चन्द्रसे १२ वें स्थानमें | भेद संख्या | चन्द्रसे २ रे स्थानमें | चन्द्रसे १२ वें स्थानमें | भेद संख्या |
|---|---|---|---|---|---|
| मं. | बु. | १ | बु. | शु. | ११ |
| बु. | मं. | २ | शु. | बु. | १२ |
| मं. | बृ. | ३ | बु. | श. | १३ |
| बृ. | मं. | ४ | श. | बु. | १४ |
| मं. | शु. | ५ | बृ. | शु. | १५ |
| शु. | मं. | ६ | शु. | बृ. | १६ |
| मं. | श. | ७ | बृ. | श. | १७ |
| श. | मं. | ८ | श. | बृ. | १८ |
| बु. | बृ. | ९ | शु. | श. | १९ |
| बृ. | बु. | १० | श. | शु. | २० |
राजयोगाध्यायः ॥ ७ ॥ २३३ एक ग्रह दूसरेमें दो ग्रह १२ वें, दो ग्रह दूसरे और एक ग्रह १२ वें के ६० भेद—
| चन्द्रसे २ रे स्थान में | चन्द्रसे १२ वें स्थान में | भेद सं. | चन्द्रसे २ रे स्थान में | चन्द्रसे १२ वें स्थान में | भेद सं. | चन्द्रसे २ रे स्थान में | चन्द्रसे १२ वें स्थान में | भेद सं. |
|---|---|---|---|---|---|---|---|---|
| मं. | बु. बृ. | १ | बु. | बृ. श. | २१ | शु. | मं. श. | ४१ |
| मं. बृ. | बु. | २ | बु. श. | बृ. | २२ | शु. श. | मं. | ४२ |
| बृ. | बु. शु. | ३ | बु. | शु. श. | २३ | शु. | बु. बृ. | ४३ |
| मं. शु. | बु. | ४ | बु. श. | शु. | २४ | बृ. शु. | बु. | ४४ |
| मं. | बु. श. | ५ | बृ. | मं. बु. | २५ | शु. | बु. श. | ४५ |
| मं. श. | बु. | ६ | बु. बृ. | मं. | २६ | शु. श. | बु. | ४६ |
| मं. | बृ. शु. | ७ | बृ. | मं. शु. | २७ | शु. | बृ. श. | ४७ |
| मं. शु. | बृ. | ८ | बृ. शु. | मं. | २८ | शु. श. | बृ. | ४८ |
| मं. | बृ. श. | ९ | बृ. | मं. श. | २९ | श. | मं. बु. | ४९ |
| मं. श. | बृ. | १० | बृ. श. | मं. | ३० | बु. श. | मं. | ५० |
| मं. | शु. श. | ११ | बृ. | बु. शु. | ३१ | श. | मं. बृ. | ५१ |
| मं. श. | शु. | १२ | बृ. शु. | बु. | ३२ | बृ. श. | मं. | ५२ |
| बु. | मं. बृ. | १३ | बृ. | बु. श. | ३३ | श. | मं. शु. | ५३ |
| मं. बु. | बृ. | १४ | बृ. श. | बु. | ३४ | शु. श. | मं. | ५४ |
| बु. | मं. शु. | १५ | बृ. | शु. श. | ३५ | श. | बु. बृ. | ५५ |
| बु. शु. | मं. | १६ | बृ. श. | शु. | ३६ | बृ. श. | बु. | ५६ |
| बु. | मं. श. | १७ | शु. | मं. बु. | ३७ | श. | बु. शु. | ५७ |
| बु. श. | मं. | १८ | बु. शु. | मं. | ३८ | शु. श. | बु. | ५८ |
| बु. | बृ. शु. | १९ | शु. | मं. बृ. | ३९ | श. | बृ. शु. | ५९ |
| बु. शु. | बृ. | २० | बृ. शु. | मं. | ४० | शु. श. | बृ. | ६० |
एक ग्रह दूसरे तीन ग्रह १२ वें, तीन ग्रह दूसरे एक ग्रह बारहवेंके ४० भेद—
| चन्द्रमासे २ रे | चन्द्रमासे १२ वें | भे. सं. | चन्द्रमासे २ रे | चन्द्रमासे १२ वें | भे. सं. | चन्द्रमासे २ रे स्था. | चन्द्रमासे १२ वें स्था. | भे. सं. |
|---|---|---|---|---|---|---|---|---|
| मं. | बु. बृ. शु. | १ | बु. | बृ. शु. श. | १५ | शु. | मं. बृ. श. | २९ |
| बु. बृ. शु. | मं. | २ | बृ. शु. श. | बु. | १६ | मं. बृ. श. | शु. | ३० |
| मं. | बु. बृ. श. | ३ | बृ. | मं. बु. शु. | १७ | शु. | बु. बृ. श. | ३१ |
| बु. बृ. श. | मं. | ४ | मं. बु. शु. | बृ. | १८ | बु. बृ. शु. | श. | ३२ |
| मं. | बु. शु. श. | ५ | बृ. | मं. बु. श. | १९ | श. | मं. बु. बृ. | ३३ |
| बु. शु. श. | मं. | ६ | मं. बु. श. | बृ. | २० | मं. बु. बृ. | श. | ३४ |
| मं. | श. बृ. शु. | ७ | बृ. | मं. शु. श. | २१ | श. | मं. बु. शु. | ३५ |
| बृ. शु. श. | मं. | ८ | मं. शु. श. | बृ. | २२ | मं. बु. शु. | श. | ३६ |
| बु. | मं. बृ. शु. | ९ | बृ. | बु. शु. श. | २३ | श. | मं. बृ. शु. | ३७ |
| मं. बृ. शु. | बु. | १० | बु. शु. श. | बृ. | २४ | मं. बृ. शु. | श. | ३८ |
| बु. | मं. बृ. श. | ११ | शु. | मं. बु. बृ. | २५ | श. | बु. बृ. शु. | ३९ |
| मं. बृ. श. | बु. | १२ | मं. बु. बृ. | शु. | २६ | बु. बृ. शु. | श. | ४० |
| बु. | मं. शु. श. | १३ | शु. | मं. बु. श. | २७ | |||
| मं. शु. श. | बु. | १४ | मं. बु. श. | शु. | २८ |
१३४ सटीकजातकपारिजाते- एक ग्रह २ रे, चार ग्रह १२ वें, चार ग्रह २ रे एक ग्रह १२ वेंके भेद १०—
| चन्द्रमासे २ रे स्था. | चन्द्रसे १२ वें स्थानमें | भे. सं. | चन्द्रमासे २ रे स्था. | चन्द्रमासे १२ वें | भे. सं. | चन्द्रमासे २ रे स्था. | चन्द्रमासे १२ वें स्था. | भे. सं. |
|---|---|---|---|---|---|---|---|---|
| मं. | बु. बृ. शु. श. | १ | बृ. | मं. बु. शु. श. | ५ | श. | मं. बु. बृ. शु. | ९ |
| बु. बृ. शु. श. | मं. | २ | मं. बु. शु. श. | बृ. | ६ | मं. बु. बृ. शु. | श. | १० |
| बु. | मं. बृ. शु. श. | ३ | शु. | मं. बु. बृ. श. | ७ | — | — | — |
| मं. बृ. शु. श. | बु. | ४ | मं. बु. बृ. श. | शु. | ८ | — | — | — |
| दो ग्रह दूसरे, दो ग्रह बारहवेंके भेद ३० हैं— | ||||||||
| चन्द्र से २ रे स्था. | चन्द्र से १२ वें स्था. | यो. सं. | चन्द्र से २ रे स्था. | चन्द्र से १२ वें स्था. | यो. सं. | चन्द्र से २ रे स्था. | चन्द्र से १२ वें स्था. | यो. सं. |
| :---: | :---: | :---: | :---: | :---: | :---: | :---: | :---: | :---: |
| मं. बु. | बृ. शु. | १ | मं. बृ. | शु. श. | ११ | मं. श. | बु. शु. | २१ |
| बृ. शु. | मं. बु. | २ | शु. श. | मं. बृ. | १२ | बु. शु. | मं. श. | २२ |
| मं. बु. | बृ. श. | ३ | मं. शु. | बु. बृ. | १३ | मं. श. | बृ. शु. | २३ |
| बृ. श. | मं. बु. | ४ | बु. बृ. | मं. शु. | १४ | बृ. शु. | मं. श. | २४ |
| मं. बु. | शु. श. | ५ | मं. शु. | बु. श. | १५ | बु. बृ. | शु. श. | २५ |
| शु. श. | मं. बु. | ६ | बु. श. | मं. शु. | १६ | शु. श. | बु. बृ. | २६ |
| मं. बृ. | शु. बु. | ७ | मं. बु. | बृ. श. | १७ | बु. शु. | बृ. श. | २७ |
| शु. बु. | मं. बृ. | ८ | मं. बु. | बृ. श. | १८ | बृ. श. | बु. शु. | २८ |
| मं. बृ. | बु. श. | ९ | बु. श. | मं. श. | १९ | बृ. शु. | बु. श. | २९ |
| बु. श. | मं. बृ. | १० | मं. श. | बु. बृ. | २० | बु. श. | बृ. शु. | ३० |
| दूसरे २ ग्रह, १२ वें तीन ग्रह, दूसरे तीन ग्रह १२ वें दो ग्रहके भेद २० हैं— | ||||||||
| चन्द्रसे २ रे स्थान में | चन्द्रसे १२ वें स्थान में | यो. सं. | चन्द्रसे २ रे स्थान में | चन्द्रसे १२ वें स्थान में | यो. सं. | चन्द्रसे २ रे स्थान में | चन्द्रसे २ रे स्थान में | यो. सं. |
| :---: | :---: | :---: | :---: | :---: | :---: | :---: | :---: | :---: |
| मं. बु. | बृ. शु. श. | १ | बु. बृ. शु. | मं. श. | ८ | बृ. शु. | मं. बु. श. | १५ |
| बृ. शु. श. | मं. बु. | २ | बु. बृ. | मं. शु. श. | ९ | मं. बुं. श. | बृ. शु. | १६ |
| मं. बृ. | बु. शु. श. | ३ | मं. शु. श. | बु. बृ. | १० | बृ. श. | मं. बु. शु. | १७ |
| बु. शु. श. | मं. बृ. | ४ | बु. शु. | मं. बृ. श. | ११ | मं. बु. शु. | बृ. श. | १८ |
| मं. शु. | बु. बृ. श. | ५ | मं. बृ. श. | बु. शु. | १२ | शु. श. | मं. बु. बृ. | १९ |
| बु. बृ. श. | मं. शु. | ६ | बु. श. | मं. बृ. शु. | १३ | मं. बु. बृ. | शु. श. | २० |
| मं. श. | बु. बृ. शु. | ७ | मं. बृ. शु. | बु. श. | १४ | |||
| इस प्रकार सब भेदों का योग २०+६०+४०+१०+३०+२०=१८०, ये दुरुधुराके | ||||||||
| १८० भेद हुये । (सु० शा० कार) ॥ ८३ ॥ | ||||||||
| अथ सुनफादियोगफलम् । | ||||||||
| स्वयमधिगतवित्तः पार्थिवस्तत्समो वा भवति हि सुनफायां धीधनख्यातिमांश्च । | ||||||||
| प्रभुरगदशरीरः शीलवान् ख्यातकीर्तिर्विषयसुखसुवेषो निर्वृतश्चानफायाम् ॥८४॥ | ||||||||
| उत्पन्नभोगसुखभागधनवाहनाढ्यस्त्यागान्वितो दुरधुराप्रभवः सुभृत्यः । | ||||||||
| केमद्रुमे मलिनदुःखितनीचनिःस्वाः प्रेष्याः खलाश्च नृपतेरपि वंशजाताः ॥८५॥ |
राजयोगाध्यायः ॥ ७ ॥ २४५ इदानीं श्लोकद्वयेन वराहोक्तेन सुनफादियोगचतुष्टयस्य फलमाह । श्लोकौ सरलार्थौ । तत्र सुनफानफादुरुधुराणां फलं शुभमेव । केमद्रुमस्य फलमशुभमिति सारार्थः ॥ ८४-८५ ॥ सुनफा योगमें उत्पन्न मनुष्य अपने हाथसे कमाये हुये धनसे राजा होता है, वा राजा के सदृश धनी, विख्यात, यशवाला होता है । अनफा योगमें उत्पन्न होनेवाले मनुष्यकी आज्ञाका सब पालन करते हैं, और रोग रहित, शीलवान्, विख्यात कीर्ति, शब्द, स्पर्श, रूप, रस, गन्ध इन विषयोंका भोगनेवाला, सुन्दर शरीरवाला और मानसिक दुःखोंसे रहित होता है ॥ ८४ ॥ दुरुधुरा योगमें उत्पन्न मनुष्य विविध भोग और सुखका भागी, धन-वाहनसे युक्त, त्यागी, और सुन्दर भृत्यवाला होता है। केमद्रुम योगमें उत्पन्न मनुष्य राजाके कुलमें पैदा हुआ हो तो भी मलिन, दुःखित, नीच, निर्धन, नौकर और खल होता है ॥ ८५ ॥ अथ कुजादिकृतसुनफायोगफलानि । जातश्च भूपतिश्चण्डो हिंस्रो डिम्भः सुधीरधीः । धनविक्रमवान् कोपी चन्द्राद्धनगते कुजे ॥ ८६ ॥ वेदशास्त्रकलागेयकुशलः सुशरीरवान् । मनस्वी हितवाग् धर्मी चन्द्राद्वित्तगते बुधे ॥ ८७ ॥ सर्वविद्याधिकः श्रीमान् कुटुम्बी नृपवल्लभः । राजतुल्ययशस्वी च चन्द्राद्वित्तगते गुरौ ॥ ८८ ॥ विक्रमस्त्रीधनक्षेत्रकर्मवान् बहुवित्तवान् । चतुष्पदाढ्या राजश्रीः सिते चन्द्रात् कुटुम्बगे ॥ ८६ ॥ पुरग्रामस्थिताशेषैः पूजितो धनवान् सुधीः । निपुणः सर्वकार्येषु चन्द्राद्वित्तगते शनौ ॥ ६० ॥ इदानीं कुजादिग्रहजनितसुनफायोगफलान्युच्यन्ते-जातश्चेत्यादिश्लोकपञ्चकेन । चन्द्रा- त्केवलं द्वितीये स्थाने भौमादिग्रहे एतानि पृथक् पृथक् फलानि भवन्ति । यदि द्वितीये द्वित्र्यादयो ग्रहा भवेयुस्तदा तत्सम्मिश्रणं फलं वाच्यम् । श्लोकाः सरलार्था एव ॥८६-९०॥ चन्द्रमासे धन(२)भावमें मंगल हो ऐसे समयका उत्पन्न मनुष्य उग्र बुद्धिवाला, हिंसा करनेवाला, साहसी, धनी, पराक्रमी, और कोपी राजा होता है ॥ ८६ ॥ चन्द्रमासे दूसरे बुध हो तो वेदशास्त्रके कलामें-गान करनेमें चतुर, सुन्दर शरीरवाला, मनस्वी, हित बोलनेवाला और धर्मात्मा होता है ॥ ८७ ॥ चन्द्रमासे दूसरे गुरु हो तो विद्यामें प्रवीण, श्रीमान्, कुटुम्बवाला, राजाका प्रिय और राजाके सदृश यशस्वी होता है ॥ ८८ ॥ चन्द्रमासे दूसरे शुक्र हो तो पराक्रमी, स्त्री-धन और जगह-जमीनवाला, कर्मवान्, खूब धनी, चतुष्पद (बैल, गाय, घोड़ा, हाथी आदि) से युक्त और राजलक्ष्मी-युत होता है ॥ ८९ ॥ चन्द्रमासे द्वितीय शनि हो तो पुर-ग्राममें रहनेवाले सब मनुष्योंसे पूजित, धनवान्, बुद्धिमान् और सब कार्योंमें निपुण होता है ॥ ९० ॥ अथ कुजादिग्रहकृतानफायोगफलानि । मानी रणोत्सुकः क्रोधी धृष्टश्चोरजनप्रभुः । धीरः स्वतनुलोभी स्याच्चन्द्रादन्त्यगते कुजे ॥ ६१ ॥ गान्धर्वलेख्यपटुवाक् कविर्वक्ता सुदेहवान् । यशःस्त्री राजपूज्यः स्यात् चन्द्राद्व्ययगते बुधे ॥ ६२ ॥
राजपूज्योऽतिमेधावी गाम्भीर्यगुणसत्त्ववान् । शुचिः स्थानधनाढ्यः स्याद् चन्द्राद् द्वादशगे गुरौ ॥ ६३ ॥ युवतीजनकन्दर्पः पद्मादिधनवान् सुधीः । धनधान्याधिकश्चन्द्रादन्त्यस्थानगते भृगौ ॥ ६४ ॥ विस्तीर्णबाहुर्गुणवान् नेता पद्मादिवित्तवान् । गृहीतवाक्यो दुखीकश्चन्द्रादन्त्यङ्गते शनौ ॥ ६५ ॥ इदानीं चन्द्राद् द्वादशे स्थाने गते भौमादिग्रहे (अनफायोग-) फलान्युच्यन्ते । मानीत्यादिश्लोकपञ्चकेन । तत्र प्रत्येकस्य ग्रहस्य पृथक् पृथगुक्तं फलं वाच्यम् । द्वित्र्यादि- ग्रहसंयोगे तन्मिश्रं फलं वाच्यम् । श्लोकाः स्पष्टार्थकाः इति ॥ ९१-९५ ॥ चन्द्रमासे १२ वें मंगल हो तो मानी, युद्धमें साहसी, क्रोधी, घर-चोरोंका मालिक, वीर और अपने शरीरकी रक्षा करनेवाला हो ॥ ९१ ॥ चन्द्रमासे बारहवें बुध हो तो गान्धर्व विद्या (संगीत) का ज्ञाता, लेखक, चतुर, कवि, वक्ता, सुन्दर देहवाला, यशस्वी और राजपूज्य हो ॥ ९२ ॥ चन्द्रमासे व्ययमें गुरु हों तो राजपूज्य, विशेष बुद्धिमान्, गंभीर गुणवाला, सत्त्वगुणी, पवित्र, उत्तम स्थानवाला और धनाढ्य होवे ॥ ९३ ॥ चन्द्रमासे १२ वें शुक्र हो तो युवतियोंके साथ विलास करनेवाला, पद्म आदि धनोंसे युक्त, बुद्धिमान् और धन-धान्यसे पूर्ण होवे ॥ ९४ ॥ जिसके चन्द्रमासे व्यय स्थानमें शनि हो वह बड़े बाहुवाला, गुणवान्, नेता, पद्म- आदि धनवाला, वचनग्राही तथा दुखी जीवाला होवे ॥ ९५ ॥ अथ धुरन्धरायोगफलानि । असत्यवादी गुणवान् निपुणोऽतिशठो गुणी । लुब्धो वृद्धोऽसतीसक्तश्चन्द्रे सौम्यारमध्यगे ॥ ६६ ॥ स्वकर्मविभवो दृष्टो यशस्वी रिपुपीडितः । स्वगेहशीलकृच्चन्द्रे मध्यगे कुजजीवयोः ॥ ६७ ॥ व्यायामी सुभगः क्रूरो हृष्टः सत्कामवित्तवान् । भयादशीलः शीतांशौ मध्यगे कुजशुक्रयोः ॥ ६८ ॥ कुत्सितस्त्रीरतः क्रोधी धनवान् पिशुनोऽरिमान् । असन्तुष्टो निशानाथे मध्यगे कुजमन्दयोः ॥ ६६ ॥ धर्मात्मा शास्त्रविद्वाग्मी सत्कविः सज्जनान्वितः । यशस्वी च निशानाथे मध्यगे बुधजीवयोः ॥ १०० ॥ नृत्यगानरतः कान्तः प्रियवाक् सुभगः सुधीः । शूरप्रकृतिकश्चन्द्रे मध्यगे बुधशुक्रयोः ॥ १०१ ॥ देशाद्देशं गतः पूज्यो नातिविद्याधनान्वितः । स्वबन्धुजनविद्वेषी चन्द्रे मन्दज्ञमध्यगे ॥ १०२ ॥ नृपतुल्यकरः श्रीमान् नीतिज्ञो विक्रमान्वितः । ख्यातोऽदुष्टमतिश्चन्द्रे मध्यगे गुरुशुक्रयोः ॥ १०३ ॥ सुखी विनयविज्ञानविद्यारूपगुणान्वितः । धनी शान्तिकरश्चन्द्रे मध्यगे शनिजीवयोः ॥ १०४ ॥ वृद्धाचारः कुलाढ्यश्च निपुणस्त्रीजनप्रभुः । धनी नृपप्रियश्चन्द्रे सितादित्यसुतान्तरे ॥ १०५ ॥
राजयोगाध्यायः ॥ ७ ॥ २३० स्वोच्चस्वमित्रभवनोपगतेषु सर्वं प्राप्नोति जातमनुजो नियतं यदुक्तम् । स्वांशेषु वा निजसुहृद्गृहसंयुतेषु प्राहुस्तथैव फलमस्ति पराशराद्याः ॥ १०६ ॥ चन्द्रः सराहुर्यदि वा सकेतुश्चन्द्राद्द्विर्वा यदि रिःफयातः । नीचास्तगो वा यदि योगकर्ता जातस्य मिश्रं फलमाहुरायाः ॥ १०७ ॥ इदानीं द्वादशभिः श्लोकैः दुरुधुरायोगफलान्युच्यन्ते । अत्रोक्ताद्विशेषग्रहयोगेऽपि तार- तम्येन फलं वाच्यम् । श्लोकार्थ स्पष्टार्था एवेति ॥ ९६-१०७ ॥ जिसके जन्म-समय बुध और मंगलके मध्यमें चन्द्रमा हो वह असत्यवादी, गुणवान् , निपुण, भारी शठ, दयायुक्त, लोभी और वृद्धा स्त्रीमें आसक्त होता है ॥ ९६ ॥ जिसके जन्मसमय मंगल और बृहस्पतिके मध्यमें चन्द्रमा हो वह स्वकर्मसे धनी, यशस्वी, शत्रुओंसे पीड़ित, और सदा अपने घरमें रहनेवाला होता है ॥ ९७ ॥ जिसके जन्म-समय मंगल और शुक्रके मध्यमें चन्द्रमा हो वह व्यायामी, देखनेमें सुन्दर, कामुक, क्रूर-स्वभाव, हृष्ट, धनी, और भयसे शीलरहित ( पागल की तरह ) होता है ॥ ९७ ॥ जिसके जन्म-समय मंगल और शनिके मध्यमें चन्द्रमा हो वह निन्दित-स्त्रीरत, क्रोधी, धनवान्, चुगलखोर, शत्रुवाला और अधीर होता है ॥ ९९ ॥ जिस मनुष्यके जन्म-समय बुध और बृहस्पतिके मध्यमें चन्द्रमा हो वह धर्मात्मा, शास्त्र जाननेवाला, वाचाल, श्रेष्ठकवि, सज्जनोंसे युक्त और यशस्वी होता है ॥ १०० ॥ जिस मनुष्यके जन्म-समय बुध और शुक्रके मध्यमें चन्द्रमा हो वह नाच गानमें मग्न, सुन्दर रूपवाला, प्रियवक्ता, सुन्दर शरीर, सुन्दरबुद्धि और साहसी प्रकृतिवाला होता है ॥ जिस मनुष्यके जन्मके समय शनि और बुधके बीचमें चन्द्रमा हो वह अनेक देश में जाकर पूज्य हो, विशेष विद्या तथा धनसे युक्त न हो और अपने बन्धुजनोंका बैरी हो ॥१०२॥ जिस मनुष्यके जन्म-समय गुरु और शुक्रके बीचमें चन्द्रमा हो वह राजाके सदृश होता है और वह मनुष्य श्रीमान्, नीतिज्ञ, पराक्रमी, विख्यात और शुद्ध चित्तवाला होता है ॥ जिस मनुष्यके जन्म-समय शनि और बृहस्पतिके बीचमें चन्द्रमा हो वह सुखी, विन- यविज्ञान-विद्या-रूप और गुणोंसे युक्त, धनी और दूसरोंको शान्ति करनेवाला होता है ॥ जिस मनुष्यके जन्म-समय शुक्र और शनिके मध्यमें चन्द्रमा हो वह वृद्धोंके आचारों से युक्त, कुलीन, गुणहीन-स्त्रीका स्वामी, धनी, और राजप्रिय होता है ॥ १०५ ॥ जो ये फल कहे हैं वे योगकारक ग्रह यदि उच्चके हों, स्वगृहमें हों, अपने नवांश या अपने मित्रगृह के हों तो नियत सब फल होते हैं, यह पराशरादि ऋषियोंने कहा है ॥१०६॥ चन्द्रमा राहु वा केतुसे युक्त हो, वा चन्द्रमासे १२ वें राहु हो या दुरुधुरा योग कारक ग्रह नीच वा अस्तङ्गत हों तो मिश्र फल होता है ऐसा श्रेष्ठ विद्वानोंने कहा है ॥ १०७ ॥ अथ शकटयोगः । षष्ठाष्टमगतश्चन्द्रात्सुरराजपुरोहितः। केन्द्रादन्यगतो लग्नाद्योगःशकटसंज्ञितः॥११०८॥
[कुंडली चक्र]
- प्रथम भाव (लग्न): ल.
- द्वादश भाव: चं.
- अष्टम भाव: गु.
- दशम भाव: शकट-योगः
इदानीं शकटयोगमाह-षष्ठेति । च- न्द्रात्षष्ठे वा अष्टमे गुरुश्चेद्भववेत्तयादसौ गु- रुः लग्नात् केन्द्रेतरेऽर्थात् केन्द्रे न भवेत् तदा शकटसंज्ञो योगो भवति । तथा फलदीपिकायाम्— "जीवाद्व्ययारिसंस्थे शशिनि तु शकटः केन्द्रगे नास्ति लग्नात्" इति ॥१०८॥ चन्द्रमासे छठे वा आठवें बृहस्पति हो, लग्नसे केन्द्रमें न हो तो 'शकट' संज्ञक योग होता है ॥ १०८ ॥
२६८ सटीकजातकपारिजाते- अथ शकटयोगफलम् । अपि राजकुले जातो निःस्वः शकटयोगजः । क्लेशायासवशान्नित्यं सन्तप्तो नृपविप्रियः ॥ १०६ ॥ अनेन श्लोकेन सरलार्थेन शकटयोगफलमुच्यते ॥ १०९ ॥ शकट योगमें उत्पन्न होनेवाला राजकुलका भी हो तो भी दरिद्र, अनेक कष्ट और प्रयास से नित्य सन्तप्त और राजाका अप्रिय होता है ॥ १०९ ॥ अथ पारिजातादियोगफलानि । सपारिजातद्युचरः सुखानि नीरोगतामुत्तमवर्गयातः । सगोपुरांशो यदि गोधनानि सिंहासनस्थः कुरुते विभूतिम् ॥ ११० ॥ करोति पारावतभागयुक्तो विद्यायशःश्रीविपुलं नराणाम् । सदेवलोको बहुयानसेनामैरावतस्थो यदि भूपतित्वम् । प्रथमाध्याये ४५।४६ तमे श्लोके उक्ता ये पारिजातादिवर्गास्तेषां फलान्यत्रोच्यन्ते श्लोकद्वयेन सरलार्थेनेति ॥ ११०-१११ ॥ अपने पारिजात भागमें ( १ अ० ४५-४७ श्लो० ) रहनेवाला ग्रह सुख देता है । उत्तम वर्गवाला ग्रह नीरोग करता है । यदि गोपुरांशमें ग्रह हो तो गौ और धन देता है । सिंहा- सन वाला ग्रह विभूति ( सम्पत्ति ) को देता है । पारावत भागमें युक्त ग्रह मनुष्यों को विद्या, यश और विपुल लक्ष्मीको प्राप्त कराता है । देवलोकसे युक्त ग्रह बहुत सवारी और सेनाको देता है और यदि ऐरावत अंशमें स्थित हो तो राजा बनाता है ॥ ११०-१११ ॥ अथ अधमादि योगाः । अधमसमवरिष्टान्यर्ककेन्द्रादिसंस्थे शशिनि विनयवित्तज्ञानधीनैपुणानि । अहनि निशि च चन्द्रे स्वाधिमित्रांशके वा सुरगुरुसितदृष्टे वित्तवान् स्यात् सुखी च ॥ ११२ ॥ इदानीं सूर्याच्चन्द्रमसोः स्थितिवशेनाधममध्यमवरिष्ठयोगानाह—अधमेति । शशिनि = चन्द्रे, अर्ककेन्द्रादिसंस्थे = सूर्यात् केन्द्रादौ गतवति अधमसमवरिष्टानि विनयवित्तज्ञानधी- नैपुणानि भवन्ति । एतदुक्तं भवति । सूर्यात् केन्द्रगते चन्द्रे अधमो योगस्तस्मिन् विनय- वित्तज्ञानधीनैपुणानि अधमानि भवन्ति । सूर्यात् पणफरे गतवति चन्द्रे समो योगस्तस्मिन् विनयादि समं वाच्यम् । सूर्यात् आपोक्लिमे गते चन्द्रे वरिष्ठो योगस्तस्मिन् विनयादि वरिष्ठं वाच्यमिति । तथोक्तञ्च— "सहस्ररश्मितश्चन्द्रे कण्टकादिगते सति । न्यूनमध्यवरिष्ठानि धनधीनैपुणानि च" इति । पाराशरीये । अहनीति । अहिनि = दिने, निशि = रात्रौ च स्वांशे, वा अधिमित्रग्रहनवांशे गतवति चन्द्रे क्रमेण गुरुणा, शुक्रेण दृष्टे । दिने स्वांशे वाऽधिमित्रांशे चन्द्रे गुरुणा दृष्टे, रात्रौ भृगुणा दृष्टे सति जातो वित्तवान् सुखी च स्यात् । तथा हि— स्वांशेऽधिमित्रस्यांशे वा स्थिते वा दिवसे शशी । गुरुणा दृश्यते तत्र जातो वित्तसुखान्वितः ॥ स्वाधिमित्रांशगश्चन्द्रो दृष्टो दानवमन्त्रिणा । निशासु कुरुते लक्ष्मीं छत्रध्वजसमाकुलाम् ॥ इति पाराशरीये ॥ ११२ ॥ यदि सूर्यसे चन्द्रमा केन्द्र ( १।४।७।१० ) में हो तो अधम, पणफर ( २।५।८।११ ) में हो तो मध्यम, आपोक्लिम ( ३।६।९।१२ ) में हो तो वरिष्ठ ( उत्तम ) योग होते हैं । उन
अधम आदि योगोंमें विनय, वित्त, ज्ञान, बुद्धि और निपुणता योगोंके नामानुसार ही होती है । दिनमें या रात्रिमें चन्द्रमा अपने या अधिमित्रके नवांशमें हो उसे क्रमसे बृहस्पति और शुक्र देखता हो तो धनवान् और सुखी हो । ( बृ० जा० कार ) ॥ ११२ ॥ अथ चन्द्राधियोगः । सौम्यैः स्मरारिनिधनेष्वधियोग इन्दोस्तस्मिंश्चमूपसचिवक्षितिपालजन्म । सम्पत्तिसौख्यविभवा हतशत्रवश्च दीर्घायुषो विगतरोगभयाश्च जाताः ॥ ११३ ॥ इदानीं चन्द्राधियोगमाह—सौम्यैरिति । इन्दोः = चन्द्रस्थानात्, स्मरारिनिधनेषु = सप्तमषष्ठाष्टमभावेषु, सौम्यैः = शुभग्रहैः ( बुधगुरुशुक्रैः ) यथासम्भवमुपगतैः, अधियोगः स्यात् । योगोऽयमधियोगसञ्ज्ञको भवति । तत्फलमाह । तस्मिन्नधियोगे चमूपस्य = सेनाधिपतेः ( Commander's ) सचिवस्य = राजमन्त्रिणः ( Minister's ) क्षिति- पालस्य = राज्ञः, जन्म भवति । अधियोगे जातो राजा, मन्त्री, चमूपो वा भवति । तथा तत्र जाताः सम्पत्तिसौख्यवन्तो हतशत्रवः दीर्घायुषो विगतरोगभयाश्च भवन्ति । तथाहि—
| “शशिनः सौम्याः षष्ठे<br>द्यूने वा निधनसंस्थिता वा स्युः ।<br>जातो नृपतिर्ज्ञेयो<br>मन्त्री वा सैन्यनायको वाऽपि ॥<br>स्यादधियोगे जातः सौम्यैः सबलैरधराधीशः ।<br>मध्यबलैर्मन्त्री स्यादधमबलैः सैन्यना-<br>यकः स्यात्” इति बादरायणः ॥११॥ | <table><tr><td></td><td>चं.</td><td></td></tr><tr><td></td><td>चन्द्रात्<br>अधियोगः</td><td></td></tr><tr><td>बु.</td><td>शु.</td><td>बृ.</td></tr></table> |
**Notes—**चन्द्रात् षष्ठसप्तमाष्टमभावेषु पापैः पापाधियोगः, मिश्रग्रहैः ( पापैः शुभैश्च ) मिश्रयोगो भवति । ‘पापः पापैरेवं मिश्रैर्मिश्रस्तथै- वोक्तः’ इति वचनात् । यदि चन्द्रमासे छठे, सातवें या आठवें भवनमें शुभग्रह हों तो ‘अधियोग’ होता है । इस योगमें सेनापति, राजमन्त्री और राजाका जन्म होता है। इसमें जन्म लेनेवाले सम्पत्ति- सौख्य-विभव युत, शत्रु रहित, रोगरहित और भयरहित होते हैं ॥ ११३ ॥ अथ लग्नाधियोगः । लग्नादरिचूनगृह्राष्टमस्थैः शुभैर्न पापग्रहयोगदृष्टैः । लग्नाधियोगो भवति प्रसिद्धः पापैः सुखस्थानविवर्जितैश्च ॥ ११४ ॥ लग्नाधियोगे बहुशास्त्रकर्ता विद्याविनीतश्च बलाधिकारी । मुख्यस्तु निष्कापटिको महात्मा लोके यशोवित्तगुणान्वितः स्यात् ॥११५॥
| इदानीं लग्नाधियोगमाह—लग्नादि-<br>ति । जन्मलग्नात्, अरिद्यूनगृहाष्टमस्थैः =<br>षष्ठ-सप्तमाष्टमभावेषु व्यवस्थितैः शुभैः =<br>शुभग्रहैः ( बुधगुरुशुक्रैः ) न पापग्रहयुक्तैः,<br>न पापग्रहदृष्टैश्च, तथा पापैः = पापग्रहैः,<br>सुखस्थानविवर्जितैः = चतुर्थस्थानरहितैः ।<br>एतदुक्तं भवति । लग्नात् ६, ७, ८ भावेषु<br>यथासम्भवं सर्वे शुभग्रहा भवेयुस्तेषु कश्चित् | <table><tr><td></td><td>ल.</td><td></td></tr><tr><td>०</td><td>लग्नाधियोगः</td><td></td></tr><tr><td>बु.</td><td>चं. बृ.</td><td>शु.</td></tr></table> |
२४० सटीकजातकापारिजाते- पापग्रहो न भवेत्तथा पापग्रहस्य दृष्टिरपि न भवेत्तथा चतुर्थभावे पापग्रहा न भवेयुरिति । तदा प्रसिद्धः लग्नाधियोगो भवति । तथा च— षट्सप्ताष्टमसंस्थैर्लग्नात्सौम्यैरपापदृष्टियुतैः । लग्नाधियोगोऽयं पापैः सुखवर्जितो भवति ॥ जातकादेशे । लग्नाधियोगफलमाह—लग्नाधियोगे इत्यादिना सरलार्थेन श्लोकेन ॥११४-११५॥ Notes—लग्नात् ६, ७, ८ इति भावत्रयेऽपि पापग्रहाणां योगो दृष्टिश्च न स्यादि- त्यसम्भवम् । कस्मिन्नपि भावे पापानां स्थितिः कल्प्यते तदा कश्चिदेको भावः पापद्दष्टः पापयुतो वा स्यादेवेति विविच्यम् । अत एव ६, ७, ८ भावेषु पापग्रहयोगरहितेषु, इत्येवं मद्भिप्रेतमिति । लग्नसे षष्ठ, सप्तम और अष्टम स्थानमें शुभग्रह हों उन्हें पापग्रह न देखते हों न युक्त हों और सुख ४ स्थानमें पापग्रह न हो तो "लग्नाधियोग" होता है ॥ ११४ ॥ जिस मनुष्यका जन्म लग्नाधियोगमें हो वह बहुत शास्त्रोंका रचनेवाला, विद्यासे विनीत, बहुत बलका अधिकारी, मुख्य, निष्कपट, महात्मा और लोकमें यश-वित्त-गुणसे युक्त होवे ॥ ११५ ॥ अथ गजकेसरीयोगः । केन्द्रस्थिते देवगुरौ मृगाङ्काद्योगस्तदाहुर्गजकेसरीति । दृष्टे सितार्येन्दुसुतैः शशाङ्के नीचास्तहीनैर्गजकेसरी स्यात् ॥ ११६ ॥ गजकेसरिसञ्जातस्तेजस्वी धनधान्यवान् । मेधावी गुणसम्पन्नो राजप्रियकरो भवेत् ॥ ११७ ॥ इदानीं गजकेसरीयोगमाह-केन्द्रस्थिते इति । यत्र तत्रस्थात् मृगाङ्कात् = चन्द्रात्, केन्द्रस्थिते देवगुरौ = बृहस्पतौ सति गजके- सरी योगो भवतीत्याहुराचार्याः इति । अथ च शशाङ्के=चन्द्रे, नीचास्तहीनैः सितार्येन्दुसुतैः = शुक्रगुरुबुधा नीचं गता श्चास्तमिताश्च न भवेयुस्तैः दृष्टे सति गज- केसरी योगः स्यात् । तत्फलमाह-गजकेस- रिसञ्जात इति सरलार्थेन पदेन ॥११६-११७॥ चन्द्रमासे केन्द्रमें बृहस्पति हो तो "गजकेसरी" योग होता है । शुक्र-गुरु-बुध नीच राशिमें तथा अस्त न हों, इनसे चन्द्रमा देखा जाता हो तो "गजकेसरी" योग होता है॥११६॥ जिस मनुष्यका जन्म गजकेसरी योगमें हो वह तेजस्वी, धन-धान्य वाला, मेधावी, गुणसम्पन्न और राजाका प्रियकर होता है ॥ ११७ ॥ अथ अमलायोगः । यस्य जन्मसमये शशिलग्नात् सद्ग्रहो यदि च कर्मणि संस्थः । तस्य कीर्तिरमला भुवि तिष्ठेदायुषोऽन्तमविनाशनसम्पत् ॥ ११८ ॥ लग्नाद्वा चन्द्रलग्नाद्वा दशमे शुभसंयुते । योगोऽयममला नाम कीर्तिराचन्द्रतारकी ॥ ११९ ॥ राजपूज्यो महाभोगी दाता बन्धुजनप्रियः । परोपकारी गुणवान् अमलायोगसम्भवः ॥ १२० ॥