जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
५४ सटीकजातकापारिजाते- शुक्रः—स्वोच्चे ( मीने ), स्ववर्गे, स्ववारे ( शुकदिने ), राशिमध्ये, लग्नात् ६।१२। ३।४ भावेषु, अपराह्णे = दिनस्य तृतीयत्र्यंशे, तथा ग्रहयुद्धे, चन्द्रसंयुक्ते, वक्रगतौ च सूर्य- स्याग्रतो विद्यमानो यदि भवेत्तदा शोभनः स्यात् । मन्दः = शनिः—तुला-(स्वोच्च-) मकर-कुम्भ (स्वगृह-) राशिषु, लग्नात् सप्तमे भावे ( स्वदिशि ), याम्यायने ( कर्कादिशट्के ), स्वद्रेष्काणे, स्वदिने (शनिवारे ) स्वदशायाम्, समरे = ग्रहयुद्धे राश्यन्ते, तथा यदि कृष्णपक्षे वक्रो भवेत्तदा समस्तभवने- षु = सकलराशिषु बलाधिकः स्यात् । उरगाधिपः = राहुः-मेष-वृश्चिक-कुम्भ-कन्या-वृष-कर्कराशिषु, लग्नाद्दशमे भावे च बलवान् भवति । शिखी = केतुः—कन्या-मीन वृष-धनुराशीषु, रात्रौ, उत्पातकेतुजनने च बली स्यात् । उत्पातकेत्वोर्लक्षणमुक्तं वराहेण— “यः प्रकृतिविपर्यासः प्रायः संक्षेपतः स उत्पातः क्षिति गगनदिव्यजातो यथोत्तरं गुरुतरो भवति” । उत्पातः । “पौर्णिमास्यां तु यदृक्षं तस्मात्पञ्चदशो रविः । रवेर्द्वादशगः केतुः” इति केतुः । अथोक्तेषु ग्रहाणां बलेषु वैशिष्ट्यमाह-ये ग्रहाः प्रोक्तप्रकारबलान्विताः = कथितप्रका- रबलयुक्तास्ते यदि मूलं गताः = भावानामादिगताः स्युस्तदा ते ग्रहा विबलाः = बलहीना भवन्ति । भावादौ स्थिता ग्रहा विबला भवन्ति, तत्र तत्तद्भावस्य निरंशत्वादित्यर्थः । अतस्तेषां ग्रहाणां भावेषु योगेषु दशाफलेषु चोक्तानि फलानि सम्यक् न सन्तीति वाच्यम् ॥ सूर्य-अपने उच्च-राशि, द्रेष्काण, होरा, रविवार, नवांशमें, उत्तरायणमें, दोपहर दिनमें, राशिके आदिमें, मित्रके नवांशादिमें और लग्नसे १० वें भावमें हमेशा बलवान् होता है ॥६१॥ चन्द्रमा—कर्क राशिमें, वृष राशिमें, अपने दिन-द्रेष्काण-होरा-नवांशमें, राशिके अन्तमें शुभ ग्रहोंसे देखे जानेपर, रात्रिमें, चौथे भावमें, दक्षिणायनमें, बली होता है। ऋक्षसन्धिका छोड़ कर हर जगह पूर्ण-बिम्ब और बली चन्द्रमा यदि प्रत्येक ग्रहोंसे देखा जाता हो तो वह चन्द्रमा मनुष्यों का राजयोग करता है । अर्थात् इस योग में जन्म लेने वाला राजा होता है ॥ ६२ ॥ मङ्गल-अपने वारमें, नवमांसमें द्रेष्काण-वर्गमें, मीन-वृश्चिक-कुम्भ-मकर और मेष राशिकी रात्रिमें, वक्रतापर, दक्षिण दिशामें राशिके आदिमें बली है और दशम भावमें कर्क में रहने पर भी सुख देता है ॥ ६३ ॥ बुध-कन्या और मिथुन राशियोंमें, अपने दिनमें, अपने वर्गमें, धनु राशिमें, रविवारके अतिरिक्त दिनरात (सर्वदा) और उत्तरायणमें, बली होता है । यदि राशिके मध्यका होकर लग्नमें प्राप्त हो तो सदा यश और बलकी वृद्धि करता है ॥ ६४ ॥ बृहस्पति-मीन-वृश्चिक-धन और कर्क राशिमें प्राप्त होने पर, अपने वर्ग और वारमें, मध्य दिनमें, उत्तरायणमें, राशिके मध्यमें, कुम्भमें, बली होता है । नीचमें भी यदि लग्न, चतुर्थ और दशम भावमें प्राप्त हो तो बहुत धन देता है ॥ ६५ ॥ शुक्र-उच्चराशि (मीन), अपने वर्ग तथा वारमें, राशिके मध्यमें, षष्ठ-द्वादश-तृतीय और चतुर्थ स्थानमें अपराह्नमें, युद्धके समय, चन्द्रमाके साथ रहने पर और वक्री होनेपर यदि सूर्यके आगे रहे तो शुभ (बली) है ॥ ६६ ॥ शनि-तुला-मकर-और कुम्भ गृहमें, सप्तम भावमें, दक्षिणायनमें, अपने द्रेष्काण तथा अपने दिन (शनिवार) में, दशामें, राशिके अन्त्यमें संग्राममें, बली है और यदि कृष्णपक्ष में वक्री हो तो समस्त राशिमें बलवान् होता है ॥ ६७ ॥ राहु - मेष, वृश्चिक, कुम्भ, कन्या, वृष और कर्क राशि में, दशम स्थानमें बलवान् है । केतु-मीन-वृष तथा धनुमें, रात्रिमें, उत्पातमें, केतु-उदयमें बली है ॥ ६८ ॥
ग्रहनामस्वरूपगुणभेदाध्यायः ॥२॥ ५५ कहे हुए प्रकार से प्रबल ग्रह हैं वे भावके ऊर्ध्वमें प्राप्त होनेपर विफल होते हैं। अतएव भावमें योगलें दशाफलमें उनके सब फल प्राप्त नहीं होते ॥ ६९ ॥ अथ ग्रहाणामधोमुखत्वादि । अधोमुखा दिनेशस्य पूर्वषट्कस्थिता ग्रहाः । ऽपरार्द्धस्थिताः भानोरूर्ध्वास्याः सुखवित्तदाः ॥ ७० ॥ भानामवस्थानगताः क्रमेण मन्दार्यभौमार्कसितज्ञचन्द्राः ॥ तेषामधःस्थानगतो बलीयान् राहुर्महीमण्डलमुर्ध्नि संस्थः ॥ ७१ ॥ इदानीं ग्रहाणामूर्ध्वाधोमुखत्वनिरूपणपूर्वकस्थितिक्रमो निरूप्यते । दिनेशस्य = सूर्यस्य पूर्वषट्क् स्थिताः = प्रथमचक्रार्द्धे वर्त्तमाना ग्रहा अधोमुखा एवं भानोरपरार्द्धस्थिताः = सूर्यस्य द्वितीये चक्रार्द्धे वर्त्तमाना ग्रहा ऊर्ध्वास्याः = ऊर्ध्वमुखा भवन्तीति । अत्रैदमवधेयम्—सूर्यो यत्र भव
५६ सटीकजातकपारिजाते- अथ दोषापहरणम् । राहुदोषम्बुधो हन्यादुभयोस्तु शनैश्चरः । त्रयाणां भूमिजो हन्ति चतुर्णां दानवार्चितः ॥ ७३ ॥ पञ्चानां देवमन्त्री च षण्णां दोषं तु चन्द्रमाः । सप्तदोषं रविर्हन्याद्विशेषादुत्तरायणे ॥ ७४ ॥ इदानीं दोषापहर्त्तार उच्यन्ते । राहुदोषं = राहोर्दुःस्थानादिजनितदोषं बुधो हन्यान्ना- शयतीति । कस्यचिज्जन्मकाले राहुश्चेद्दशुभस्तत्र यदि बुधो वलीयान् भवति तदाऽसौ राहुकृतं दोषं प्रशमयेदित्यर्थः । एवमेव सर्वत्रोह्यम् । उभयोस्तु = बुधराहोर्दोषं तु शनै- श्चरो हन्यात् । त्रयाणां = राहु-बुध-शनीनां दोषं भूमिजः=मङ्गलो हन्यात् । चतुर्णां= मङ्गल-बुध-शनि-राहूणां दोषं दानवार्चितः=शु
धरासुतः = मङ्गलः - पीनबीज-कफ-शस्त्र-पावक-ग्रन्थिरुक्-व्रण-दारिद्र्योद्भूतै रो- गैस्तथा वीराः = शूराः, शैवगणाः = कपालिनः, भैरवाः = भूतादयस्तैः आशु = शीघ्रमेव भीतिं = भयं कुरुते ॥ ७७ ॥ शशिजः = बुधः-गुह्यरोगेण, उदररोगेण, अदृश्य-( रहस्यदेश-) रोगेण, वायुरो- गेण, कुष्ठरोगेण, मन्दाग्निना, शूलरोगेण, संग्रहणीरोगेण च तथा बुधादयः = मनीषिणः, वि- ष्णुप्रियदासाः = वैष्णवास्तपस्विनः, भूताः = प्रेतास्तैरतीव दुःखं कारयति ॥ ७८ ॥ इन्द्रगुरुर्बृहस्पतिः - आचार्यः = गुरुः, देवः, गुरुः = श्रेष्ठजनः, भूसुराः = ब्राह्मणा- स्तेषां शापदोषैः = दुर्वाक्यदोषैः शोकं, तथा गुल्मरोगं च करोति । आसुरेज्यः = शुक्रः - स्त्रीविकृतिजनितप्रमेहरोगे
गोगभयशो- Wait, "सर्वे नरा गोगभयशो-" or "सर्वे नराः"? In L11: "सर्वे नरा" (no visarga, or faint? Looks like "सर्वे नरा"). L12: कविमुक्तचित्ताः = रोगाणां भयजनितो यः शोकस्तस्माद्विमुक्तं चित्तमन्तःकरणं येषां ते तथा L13: सन्तः सुखयशोबलशालिनः स्युः । अरिष्टग्रहं विधिना सम्पूज्य विमुक्तरोगः शीघ्रमेव L14: सुखमेधन्त इत्यर्थः ॥८३॥ L15: जिस धातुके कोपसे रोग होते हैं, उसकी शान्तिके निमित्त उसके स्वामीके प्रसन्नार्थ L16: शीघ्र जप-तर्पण-होम-दानोंसे अच्छी तरह पूजाकर सब मनुष्य रोग, शोक, भय और L17: चिन्तासे रहित होकर सुख, यश और बलसे युक्त होते हैं । (सु० शा० कार ) ॥ ८३ ॥ L18: अथ ग्रहाणां बाल्याद्यवस्थानिरूपणम् । L19: बालः कुमारोऽथ युवा च वृद्धो मृतश्च राशावयुजि क्रमेण । L20: त्रिंशांशकैर्व्यत्ययतः समे स्युरेकैकशोंऽ
ग्रहनामस्वरूपगुणभेदाध्यायः ॥२॥ ५९ बालाद्यवस्थाचक्रम् । | १।३।५।७।९।११ राशिषु | १-६ | ६-१२ | १२-१८ | १८-२४ | २४-३० | अंशाः | | अवस्थानामानि | बालः | कुमारः | युवा | वृद्धः | मरणम् | अवस्थाः | | २।४।६।८।१०।१२ राशिषु | २४-३० | १८-२४ | १२-१८ | ६-१२ | १-६ | अंशाः | अथ जाग्रदाद्यवस्थाः । उच्चांशे स्वनवांशे च जागरुकं वदन्ति हि । सुहृन्नवांशकं स्वप्नं सुप्तं नाचारिशांशकम् ॥ ८५ ॥ इदानीं ग्रहाणां जाग्रदाद्यवस्था उच्यन्ते । उच्चांशं स्वनवांशं च जागरुकं वदन्ति । ग्रहो यद्युच्चांशे स्वकीय नवांशे च भवेत्तदा तस्य 'जाग्रत्' अवस्था भवति । सुहृन्नवांशकं = मित्रनवांशकं स्वप्नं = स्वप्नावस्थां कथयति । नीचारिशांशकं = नीचांशं शत्रुनवांशं च सुप्तं वदन्ति । नीचे शत्रुनवांशे च ग्रहो यदि स्यात्तदा सुप्तो भवतीति ॥ ८५ ॥ उच्चांशमें तथा अपने नवांशमें ग्रह जागृक् होते हैं ऐसा विद्वान लोग कहते हैं। मित्रके नवांशमें रहनेवाले ग्रह स्वप्न अवस्थाके होते हैं। नीच और शत्रुके नवांशमें ग्रह सुप्त कह- लाते हैं ॥ ८५ ॥ अथ ग्रहाणां फलदानकालः । शीर्षोदयगतः खेटः पाकादौ फलदो भवेत् । पृष्ठोदयस्थः पाकान्ते सदा चोभयराशिगः ॥ ८६ ॥ इदानीं ग्रहाणां राशिपरत्वेन फलदानकाल उच्यते । शीर्षोदयराशिषु (अ.१, श्लो० १४) गतः खेटः पाकादौ = स्वदशाया आरम्भे फलदो भवेत् । पृष्ठोदयराशिस्थो ग्रहः पाकान्ते= स्वदशाया अन्ते फलदः । तथा चोभयराशिगः = मीनगतो ग्रहः सदा = सर्वस्मिन्काले फलदो भवति । तथोक्तं बृहज्जातके- “पृष्ठोभयकोदयर्क्षगस्त्वन्तेऽन्तः प्रथमेषु पाकदाः” इति । अत्रास्मिन्वचने उभयोदयगे भेदो दृश्यते । तयैवाह गार्गिरपि- “आद्यन्तमध्यफलदः शिरःपृष्ठोभयोदये । दशाप्रवेशसमये तिष्ठन् वाच्यो दशापतिः” इति ॥ शीर्षोदय राशिमें प्राप्त ग्रह दशाके आदिमें फल देते हैं । पृष्ठोदय राशिमें प्राप्त ग्रह दशा के अन्तमें फल देते हैं । उभयराशिवाले सदा फल देते हैं ॥ ८६ ॥ समस्तहोराफलसारसान्द्रविराजिते जातकपारिजाते । ग्रहक्रियारूपगुणप्रभेदः सङ्कीर्तितः खेटकृपाकटाक्षात् ॥ ८७ ॥ इति नवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते ग्रहनामस्वरूपगुणभेदाध्यायः ॥ २ ॥ ❦❧ अनेनाध्यायमुपसंहरति । स्पष्टार्थः श्लोकः ॥ ८७ ॥ पारिजाते सुधा टीका कपिलेश्वररचिता । द्वितीये ग्रहशीलेऽस्मिन्नध्याये पूर्णतां गता ॥ २ ॥ सम्पूर्ण होराफलके सार-तत्त्वसे विराजित जातकपारिजातमें ग्रहोंकी कृपादृष्टिसे ग्रह क्रिया-रूप-गुणके भेदोंसे युत ग्रहनामस्वरूपगुण अध्यायका मैं वर्णन किया ॥ ८७ ॥ इति द्वितीयाध्याये 'विमला' हिन्दीटीका समाप्ता ॥
अथ वियोनिजन्माऽध्यायः ॥ ३ ॥ अथेदानों तृतीयाध्यायो व्याख्यायते । अस्मिन्नध्याये प्रथमं वियोनिजन्म ततो निषेको जन्मविधिश्चेति विषयाः सन्ति । तत्र किं नाम तावद्वियोनिजन्मेत्युच्यते । अखिलानां वियो- नीनां मनुष्येतराणां पशुपक्षिरुचराचराणामुत्पत्तिरेव वियोनिजन्मवाक्येन व्यवह्रियते । तदस्यि ऽध्याये प्रथमं वियोनीनां जन्मविधिर्निरूप्यते, वराहमिहिराचार्यहोरायाम्— क्रूरग्रहैः सुबलिभिर्विबलैश्च सौम्यैः क्लीबे चतुष्टयगतेत द्वेक्षणाद्वा । चन्द्रोपगद्विरसभागसमानरूपं सत्त्वं वदेद्यदि भवेत्स वियोनिसंज्ञः ॥ १ ॥ क्रूरग्रहैरिति । जन्मकाले प्रश्नकाले वा क्रूरग्रहैः = सूर्य-कुज-सपापबुध-शनि-क्षीण- चन्द्रैः सुबलिभिर्बलयुक्तैः, सौम्यैः = शुभग्रहैः पापग्रहावशिष्टैर्विबलैर्निर्बलैः, क्लीबे = नपुंसकग्रहे (शनिबुधयोरन्यतरे ) चतुष्टयगते = केन्द्रवर्त्तिनि । वा तदवेक्षणात् = पापैः सबलैः शुभैर्बलैः क्लीवेनेक्षणात् लग्ने क्लीवग्रहवलोकिते इति द्वितीयो योगः, तदा चन्द्रोपगद्विरस- भागसमानरूपं = चन्द्र उपगतो यस्मिन् द्विरसभागे (द्वादशांशे ) तत्समानरूपं सत्त्वं वियोनिं वदेत् । स द्विरसभागो यदि वियोनिसंज्ञो नरातिरिक्तो भवेत्तदैवं वदेदन्यथाऽन्यथैवेति । यदि चन्द्रो मेषस्य द्वादशांशे भवेत्तदा मेषादेर्नृपे वृषभमहिषादेः सिंहे सिंहव्याघ्रादेर्जन्म वाच्यमेवं सर्वत्र ज्ञेयम् । तयोक्तं सारावल्याम्— "क्रूरैः सुबलसमेतैः सौम्यैर्विबलैर्वियोनिभागगते । चन्द्रे, शशनी केन्द्रे तदीक्षिते वोदये वियोनिः स्यात् ॥ आधाने जन्मनि वा प्रश्ने वा द्वादशांशके चन्द्रः । यस्मिन्व्यवस्थितः स्यात् लग्ने वा तत्समं सत्त्वम्" ॥ इति ॥ Notes—क्षुद्र जन्तूनां सङ्ख्या लग्नगतद्वादशांशवशाज्ज्ञेयाः इति ॥ १ ॥ इस तीसरे अध्यायमें पहले वियोनिजन्मका निरूपण करते हैं । 'वियोनि' इस शब्दसे मनुष्यसे इतर पशु, पक्षी, कीट, जलचर और पेड़ पौधे इत्यादि समझना चाहिये । प्रश्न अथवा जन्मके समय चन्द्रमा जिसके द्वादशांशमें वर्त्तमान हो उसी जातिके वियो- निका जन्म कहना चाहिये । जैसे चन्द्रमा चतुष्पदराशिके द्वादशांशमें हो तो चतु- ष्पदका, जलचरमें हो तो जलचरका । एवं सर्वत्र समझे । उसमें भी विशेष कर राशियोंके अनुरूप अर्थात् मेषके द्वादशांशमें भेंड़, बकरे इत्यादि । वृषमें बैल, भैंसे इत्यादि । इसी तरह सर्वत्र जाने । यह विचार चन्द्रगत द्वादशांश यदि वियोनिका हो तभी करना चाहिये, अन्यथा मनुष्यका जन्म कहे । उक्त हालतमें पापग्रह बली, शुभग्रह निर्बल और नपुंसक ग्रह केन्द्र में रहें तो पहला योग, एवं पापग्रह बली शुभग्रह निर्बल हों और नपुंसक ग्रह लग्न को देखता हो तो वियोनिजन्मका दूसरा योग होता है । (सु० शा० कार ) ॥ १ ॥ पापा बलिनः स्वभागगाः पारक्ये विबलाश्च शोभनाः । लग्नं च वियोनिसंज्ञकं दृष्ट्वाऽत्रापि वियोनिमादिशेत् ॥ २ ॥ इदानीं वियोनिज्ञाने प्रकारान्तरमाह । बलिनः = सबलाः, पापाः = पूर्वोक्ताः पापग्रहा, स्वभागगाः = स्वनवांशे स्थिताः, शोभनाः=शुभग्रहाः, पारक्ये=परनवांशे वर्त्तमाना विबलाः= निर्बलाश्च भवेयुस्तदा वियोनिसंज्ञकं लग्नं चेत्तत्कालिकं दृष्ट्वाऽत्रापि योगे चन्द्रस्थितद्वादशां- शसमानरूपां वियोनिमादिशेत् ॥ २ ॥ बलवान् पापग्रह अपने नवांशमें हो, शुभग्रह निर्वलहों तथा दूसरेके नवांशमें स्थित हो और लग्न वियोनि संज्ञक (मे० वृ० क० वृ० इत्यादि) हो तो चन्द्रमाके द्वादशांशके सदृश वियोनि कहे ॥ २ ॥
वियोनिजन्माध्यायः ॥३॥ ६१ क्रियः शिरो वक्त्रगलो वृषोऽन्ये पादांसकं पृष्ठमुरोऽथ पार्श्वे । कुक्षिस्तपानौऽथथ मेढ्रमुष्कौ स्फिकपुच्छमित्याह चतुष्पदाङ्गे ॥ ३ ॥ इदानीं वियोन्यङ्गे राशिस्थापनमुच्यते । तत्र वियोनिषु पशुजातीनां प्राधान्यात्तदङ्ग एव राशिन्यासः । क्रियो मेषः शिरः । वृषो वक्त्रगलः-वक्त्रं=मुखं, गलः=ग्रीवा च । अन्ये मिथु- नादयः क्रमेण पादांसकादयो भवन्ति । स्पष्टार्थं चतुष्पदाकारो राश्यङ्कितो द्रष्टव्यः । प्रयोजनञ्च-शुभोपलक्षितेऽङ्गे पुष्टिः अशुभोपलक्षितेऽङ्गे च व्रणोपघातादिरिति ॥ ३ ॥ वियोनिमें चतुष्पदकी प्रधानताके कारण- पशुके शरीरमें राशिविभाग इस प्रकार है कि-मेष शिर, वृष मुख और कण्ठ, मिथुन आगेके पैर और कन्धा, कर्क पीठ, सिंह छाती, कन्या दोनों पार्श्व, तुला पेट, वृश्चिक गु
६२ सटीकजातकपारिजाते- जो ग्रह लग्नमें हो उसका वर्ण २ रे अध्यायके १९ वें श्लोकके अनुसार वियोनिका वा नष्टादि वस्तुका कहे । यदि लग्नमें कोई ग्रह न हो तो जो ग्रह लग्नको देखता हो उसका वर्ण कहे । यदि लग्न किसी ग्रहसे युक्त दृष्ट न हो तो लग्नके नवांशका वर्ण कहे । यदि लग्नमें अनेक ग्रह हों तो अनेक रंग कहे, उनमें बलवान् ग्रहका रंग अधिक कहे । स्वामियुक्त राशि का यदि लग्नमें नवांश हो तो उसीका रङ्ग कहे (पहलेका सब छोड़ दे) । सप्तम स्थानमें स्थित ग्रहके अनुसार वियोनिकी पीठपर रेखा कहे ॥ ४ ॥ देहाम्बुगौ सुखालग्नेशौ चतुष्पाज्जननं भवेत् ॥ देहेशे सुखपे वाऽहिकेतुयुक्ते पशोर्जनिः ॥ ५ ॥ इदानीं चतुष्पदानां जन्मोच्यते । सुखालग्नेशौ=चतुर्थेशलग्नेशौ, देहाम्बुगौ=प्रथमचतुर्थ- भावगौ ( सुखेशो लग्ने लग्नेशश्चतुर्थे इत्यर्थः ) तदा चतुष्पादाज्जननं = पशुजन्म भवेत् । एको योगः । देहेशे=लग्नेशे, वा सुखपे=चतुर्थेशे, अहिकेतुयुक्ते=राहुकेतुभ्यां क्रमेण युक्ते पशोर्जनिर्वाच्येति द्वितीयो योगः ॥ ५ ॥ यदि सुखेश और लग्नेश लग्नमें और ४.थे भावमें स्थित हों तो चतुष्पदका जन्म हो । लग्नेश वा सुखेश राहु, केतुसे युक्त हों तो पशुका जन्म जाने ॥ ५ ॥ अथ ग्रहविशेषेक्षणादिना पशुविशेषजनिः । शुक्रेक्षिते गोजननं महिष्यार्कियुतेक्षिते ॥ राहुकेतुयुते मेषः पापाढ्येऽन्यपशोर्जनिः ॥ ६ ॥ तत्काललग्ने शुक्रेक्षिते गोजननं वाच्यमन्यत्स्पष्टमिति ॥ ६ ॥ लग्नको शुक्र देखता हो तो गौ का जन्म, शनिसे युत दृष्ट हो तो महिषीका, राहु केतुसे युत हो तो मेष-(भेँड़ बकरी) का, पापग्रह-(सूर्य, मङ्गल, क्षीणचन्द्र, पापयुत बुध) से युत हो तो अन्य पशुका जन्म जाने ॥ ६ ॥ अथ स्थलाम्बुजनियोगकरी ग्रहस्थितिः । खगे दृकाणे बलसंयुतेन वा ग्रहेण युक्ते चरभांशकोदये ॥ बुधांशके वा विहगाः स्थलाम्बुजाः शनैश्चरेन्द्वीक्षणयोगसंभवाः ॥ ७ ॥ होरेन्दुसूरिरविभिर्विबलैस्तरूणां तोयस्थले तरुभवोंऽशकृतः प्रभेदः ॥ लग्नाद्ग्रहः स्थलजलर्क्षपतिस्तु यावांस्तावन्त एव तरवः स्थलतोयजाताः ॥८॥ इदानीं पक्षिजन्मज्ञानमाह — खग इति । लग्ने खगे दृकाणे = पक्षिद्रेक्काणे = मिथुन- द्वितीय-सिंहप्रथम-तुलाद्वितीय-कुम्भप्रथमद्रेक्काणानामन्यतमे ( बृहज्जातके द्रेक्काणाध्यायो द्रष्टव्यः) सति, वा चरभांशकोदये = लग्ने चरनवांश उदयति बलसंयुतेन ग्रहेण युक्ते = तत्र बलवद्ग्रहसहिते, वा बुधांशके = कन्यामिथुनयोरन्यतरनवांशके लग्ने वर्त्तमाने तत्रापि बलीग्रहसंयुक्तेऽस्मिन् योगत्रये शनैश्चरेन्द्वीक्षणयोगसम्भवाः = शनिचन्द्रयोर्दृष्टियोगवशात्स्थ- लाम्बुजाः = स्थलजा जलजाश्च, विहगाः = पक्षिणो वाच्याः । योगत्रयेऽपि शनिना दृष्टे युक्ते वा स्थलजानां, शशिना दृष्टे युक्ते वा जलजानां पक्षिणां जन्म वाच्यमिति । तथोक्तं च सारावल्याम् — “विहगोदितद्रेक्काणे ग्रहेण बलिना युतेऽथ चरभांशे । बौधेंऽशे वा विहगाः स्थलाम्बुजाः शनिशशीक्षणाद्योगात्” ॥ इति ॥ ७ ॥ अथ तरुजन्मज्ञानमुच्यते । होरेन्दुसूरिरविभिः = लग्नचन्द्रगुरुसूर्यैर्विबलैस्तरूणां जन्म वाच्यम् । तत्र जलजानां स्थलजानां वा जन्मेति निर्णयमाह । तोयस्थले तरुभवोंऽश- कृतः प्रभेदः । अंशकृतः=नवांशकविहितः प्रभेदस्तोयस्थले=जले स्थले च, तरुभवः=वृक्षोत्प- त्तिरिनि । अर्थात्लग्ने जलचरराशिनवांशोदये जलजास्तरवो वाच्याः । इतरथा स्थलजा इति ।
[Header] वियोनिजन्माध्यायः ॥२॥ ६३
अथ तरुसंख्यामाह—स्थलजलर्क्षपतिर्ग्रहः = स्थलराशीशो जलराशीशो वा ग्रहो लग्नाद्यावानर्थाल्लग्नाद्यावत्संख्यके राशौ भवेत्तावन्तस्तत्संख्याप्रमिताः स्थलतोयजाताः = स्थलजा-जलजा वा तरवो वाच्या इति ॥ ८ ॥ लग्नमें पक्षी द्रेष्काण (मिथुन का २ रा, सिं० का १ म, तु० का २ रा, अथवा कुं० का १ म द्रेष्काण) हो तो पक्षीका जन्म कहना (१)। लग्नमें चर (१।४।७।१०) राशिका नवांश हो उसमें बली ग्रहयुक्त हो तो पक्षीका जन्म कहना (२)। बुधका (मिथुन वा कन्या) नवांश लग्नमें हो उसमें बली ग्रह हो तो पक्षीका जन्म कहना (३)। इन तीनों योगों में शनिकी दृष्टि वा योगसे स्थलचर तथा चन्द्रमा की दृष्टि वा योग से जलचर पक्षीका जन्म कहना चाहिये ॥ ७ ॥ वृक्ष-जन्म जानने का प्रकार यह है कि तत्कालमें लग्न, चन्द्रमा, बृहस्पति और सूर्य निर्बल हों तो
६४ सटीकजातकपारिजाते- Notes- ( ७-१०) श्लोका बृहज्जातकस्य । सूर्य-लग्ननवांशका स्वामी हो तो भीतरकी पुष्ट लकड़ी ( शीशम आदि ) कहे । शनि- हो तो देखनेमें अप्रिय ( तेन्दुवा आदि ) कहे । चन्द्रमा-हो तो दूधवाले वा रसवाले ( ऊँख गन्ना ) आदि वृक्ष कहे । मङ्गल-हो तो कांटेवाले (बेल बबूलरादि) बृहस्पति-हो तो फलवाले ( आम आदिके ) वृक्ष, बुध-हो तो बिना फलवाले वृक्ष कहे । शुक्र-हो तो पुष्प वाले ( चमेली चम्पा आदि ) वृक्ष कहे । फिर चन्द्रमा-चिकने देवदारु आदि और पुनः मङ्गल- कटु वृक्षको उत्पन्न करता है ॥ ९ ॥ पूर्वोक्त स्थल या जलराशिके स्वामी शुभग्रह यदि पापग्रहकी राशिमें हो तो रुचिर ( अच्छा ) वृक्ष दुष्ट भूमिमें पैदा हो । यदि पापग्रह शुभराशिमें स्थित हो तो अशोभन ( दुष्ट ) वृक्ष सुन्दर भूमिमें हो । शुभग्रह शुभराशिमें हों तो शुभ वृक्ष रुचिर भूमिमें हो और अशुभसे अशुभ वृक्ष अशुभ भूमिमें जाने । वह ग्रह अपने नवांशसे जितने नवांशपर प्राप्त हो उतने ही वृक्ष उसी २ प्रकारके कहे ॥ १० ॥ इति वियोनिजन्मप्रकरणम् । अथ निषेकविधिः । कुजेन्दुहेतु प्रतिमासमार्त्तवं गते तु पीडर्क्षमणुष्णदीधितौ ॥ अतोऽन्यथास्थे शुभपुङ्ग्रहेक्षिते नरेण संयोगमुपैति कामिनी ॥ ११ ॥ इदानीं निषेकविधिरुच्यते । ऋतोस्तत्र प्रधानत्वात्प्रथमं ऋतुलिरूपणं ततो दम्पत्योर्बो- गलक्षणमाह । स्त्रीणां प्रतिमासं=मासं मासं प्रति यदार्त्तवं = ऋतौ जातं रजस्तत् कुजेन्दु- हेतु = कुजो मङ्गलः, इन्दुश्चन्द्रस्तौ हेतुर्निमित्तं यस्य तदिति । स्त्रीणां रहस्यदेशात् प्रतिमासं यद्रजो निस्सरति तस्य कुजेन्दू कारणम् । यतश्चन्द्रो जलतत्त्वः, भौमोऽग्नितत्त्वः, तत्र जल- मेव रक्तं तथाऽग्निरेव पित्तं, पित्तेनालोडितमङ्गं रजोरूपेण परिणमति । तयोक्तं कल्याणवर्मणा- "इन्दुर्जलं कुजोऽग्निर्जलमङ्गं त्वग्निरेव पित्तं स्यात् । एवं रक्ते क्षुभिते पित्तेन रजः प्रवर्त्तते स्त्रीषु" ॥ इति ॥ अथ गर्भधारणयोग्यमार्त्तवं निरूप्यते । अणुष्णदीधितौ=चन्द्रे, पीडक्षं गते = स्त्रिया जन्मराशेरनुपचयर्क्ष = नवधनजलधीकामरन्ध्रान्त्यहोराणामन्यतमं प्राप्ते कुजेन दृष्टे गर्भग्रहणयोग्यमार्त्तवं भवति, परं बालवृद्धातुरवन्ध्याभ्योऽन्यत्र । तथोक्तम्--- "स्त्रीणां गतोऽनुपचयर्क्षमणुष्णरश्मिः सन्द्दृश्यते यदि धरातनयेन तासाम् । गर्भग्रहार्त्तवमुशन्ति तदा, न बन्ध्यावृद्धातुराल्पवयसामपि वैतदिष्टम्" ॥ इति ॥ अथ पुरुषसंयोगसम्भवमाह । अतोऽन्यथास्थे=चन्द्रे पुरुषजन्मार्क्षादुपचयर्क्षस्थे, शुभपुङ्ग्रहेक्षिते=शुभग्रहेषु यः पुमान् ग्रहस्तेन ( गुरुणा ) ईक्षिते = दृष्टे, कामिनी=ऋतुमती स्त्री नरेण=पुरुषेण सह संयोगमुपैति । ईदृग्योग एव दम्पत्योर्योगो गर्भाधानयोग्यं मैथुनं च भवतीति । तथोक्तं च- "पुरुषोपचयगृहस्थो गुरुणा यदि दृश्यते हिममयूखः । स्त्रीपुरुषसंयोगं तदा वदेदन्यथा नैव" इति । पुरुषसंयोगविचारोऽयमृतुशुद्धौ ( चतुर्थदिने ) कार्यः । "ऋतुविरमे स्नातायां यद्युपचयसंस्थितः शशी भवति । बलिना गुरुणा दृष्टो भर्त्रा सह सङ्गमश्च तदा" इति दर्शनात् । वक्ष्यतिच स्वयं पुरतः- "नाद्याश्चतस्रोऽत्र निषेकयोग्या पराश्च युग्माः सुतदाः प्रशस्ताः" इति ॥ ११ ॥
वियोनिजन्माध्यायः ॥३॥ ६५ स्त्रियोंकी योनिसे प्रत्येक मासमें तीन दिन तक रुधिर बहता है उसको रजोदर्शन कहते हैं। रजोदर्शनका हेतु (कारण) मङ्गल और चन्द्रमा है, क्योंकि मङ्गल अग्नितत्त्व और चन्द्रमा जलमय है। स्त्रीके जन्मराशिसे जिस रजोदर्शनमें उपचयस्थानमें चन्द्रमा न हो किन्तु १-२-४-५-७-८-९-१२ इन स्थानोंमें हो और गोचरमें मङ्गल पूर्ण दृष्टिसे देखता हो तो ऐसा रज गर्भको धारण करने योग्य होता है। चन्द्रमा उपचय राशिमें रहे किन्तु उसे मङ्गल न देखता हो तो ऐसे समयका रज निष्फल होता है। पुरुषके उपचय राशिमें चन्द्रमा हो उसको पूर्णदृष्टिसे बृहस्पति देखता हो उस समय स्त्री और पुरुषका यदि संयोग हो तो गर्भ अवश्य रहेगा। परन्तु यह विचार वन्ध्या स्त्री तथा बाल, वृद्ध और नपुंसकके लिये नहीं है ॥ ११ ॥ यथाऽस्तराशिर्मिथुनं समेति तथैव वाच्यो मिथुनप्रयोगः । असद्ग्रहालोकितसंयुतेऽस्ते सरोष इष्टैः सविलासहासः ॥ १२ ॥ इदानीं गर्भाधानकालं विज्ञाय मैथुनज्ञानप्रकारमाह । अस्तराशिः = आधानलग्नात् प्रश्न- लग्नाद्वा सप्तमो राशियथा मिथुनं समेति = सप्तमराशियोनौ यथा मिथुनं सम्पद्यते तथैव मिथुनप्रयोगो वाच्यः । तादृगेव मैथुनमस्मिन् गर्भाधाने कृतं ब्रूयात् । सप्तमो राशिर्यदि चतुष्पात्तदा चतुष्पदां मैथुनमिव । यदि जलचरस्तदा तद्वदेवं सर्वत्र योनितुल्यं मिथुनं वाच्यमिति । तत्रापि कलहेन प्रेम्णा वा मिथुनमित्याह । अस्ते = निषेकलग्नात्सप्तमे राशौ असद्ग्रहैः = पापग्रहैरालोकिते दृष्टे, संयुक्ते वा सरोषो रोषेण सहितः (कलहेन), इष्टैः = शुभग्रहैर्दृष्टे वा युक्तेऽस्ते सविलासहासो विलासेन हासेन च सहितः (प्रेम्णा) मिथुनप्रयोगो वाच्यः । अतोऽन्यथा साधारण्येनेति । तथोक्तं सारावल्याम्— "द्विपदादयो बिलग्नात् सुरतं कुर्वन्ति सप्तमे यद्वत् । तद्वत्पुरुषाणामपि गर्भाधानं समादिश्यम् ॥ अस्तेऽशुभयुतदृष्टे सरोषकलहं भवेद्ग्राम्यम् । सौम्यं सौम्यैः सुरतं वात्स्यायनसम्प्रयोगिकाख्यातम्" ॥ इति ॥ १२ ॥ प्रश्नसे अथवा आधानलग्नसे जो सप्तम राशि हो उसी राशिके समान मैथुन होना कहे। यदि सप्तममें मेष हो तो बकराके सदृश। वृष हो तो बैलके तुल्य मैथुन कहे। इसी प्रकार आगेकी राशिके भी सप्तम प्राप्त होनेपर मैथुन कहे। सप्तममें पापग्रह हों वा उस भावको पापग्रह देखते हों तो सरोष (कलहसे युक्त) मैथुन कहे, और सप्तममें शुभग्रह हों वा सप्तमभावको शुभग्रह देखते हों तो प्रेम और विलास पूर्वक मैथुन कहे ॥ १२ ॥ रवीन्दुशुक्रावनिजैः स्वभागैः गुरौ त्रिकोणोदयसंस्थितेऽपि वा । भवत्यपत्यं हि विबीजिनाम्निमे करा हिमांशोर्विदशामिवाफलाः ॥ १३ ॥ इदानीं गर्भसम्भवयोगमाह । रवीन्दुशुक्रावनिजैः = सूर्य-चन्द्र-शुक्र-मङ्गलैः स्वभागैः = स्वस्वनवांशस्थैः । यत्र कुत्रापि राशौ सूर्येन्दुशुक्रमौमाः स्वनवांशगताः स्युस्तदा हि=निश्च- येनापत्यं=गर्भे सन्ततिर्भवति । अयमेको योगः । वा योगान्तरमाह-गुरौ त्रिकोणोदयसंस्थि- तेऽपि=बृहस्पतिर्यदि लग्ने, पञ्चमे, नवमे वा भवेत्तदाऽपि भवत्यपत्यमिति । अत्र प्रथमे पूर्णयोगाभावे सूर्यशुक्रयोर्नरोपचयक्षंगयोरेवं चन्द्रारयोर्योषिदुपचयक्षंगयोः स्वनवांशे स्थिति- रपेक्षिताऽपत्यसम्भवे । तथोक्तं स्वल्पजातके वराहेण— "बल्युक्तौ स्वगृहांशोर्ध्वर्कसितावुषचयक्षंगौ पुंसाम् । जीणो वा कुजचन्द्रौ यदा तदा गर्भसम्भवो भवति" ॥ इति ॥
श्चन्द्रस्य कराः=मयूखा विफला वर्त्तमाना अपि निष्फला भवन्ति तथैवेत्युपमा । रजोवीर्याभ्यामेवापत्योत्पत्ति- सम्भवात् तद्विहीनानां नैष्फल्यमुचितमेवेति ॥
Can we include the chart information either before these lines or within? Wait, if we do: गर्भयोगः [चक्रम् १: १ र. शु., २, ३ मं., ४ चं. बृ., ५, ६, ७, ८, ९ बृ., १०, ११ शु., १२] योगवैफल्यमाह । इमेऽपत्यसम्बन्धयोगा Or even simpler: just transcribe the chart text, or transcribe the lines directly! Wait, what if someone considers each visual line of the main text as [L...]? Let's see the rest of the page: गर्भ है या नहीं है इसके जाननेका विधान यह है कि—प्रश्नकाल वा आधानकाल में सूर्य, चन्द्रमा, शुक्र और मंगल अपने नवांशमें हों तो निश्चय गर्भ है। यदि इस प्रकार न हों और पुरुषके उपचय ३।६।१०।११ में सूर्य और शुक्र अपने नवांशमें हों तो भी गर्भका सम्भव कहे। अथवा स्त्रीके उपचयमें अपने २ नवांशमें
मंगल और शनि हों तो अपने महीनेमें पुरुषकी मृत्यु करते हैं। इसी प्रकार चन्द्रमासे दूसरे और बारहवें मंगल और शनि हों तो अपने महीनेमें स्त्रीकी मृत्यु करते हैं। सूर्य यदि शनि और मंगल इनमेंसे एकसे युक्त एकसे दृष्ट हो तो पुरुषकी मृत्यु, ऐसे ही चन्द्रमा शनि और मंगलमेंसे एकसे युक्त एकसे दृष्ट हो तो स्त्रीकी मृत्यु करता है ॥ १४ ॥ दिवाऽर्कशुक्रौ पितृमातृसंज्ञितौ शनैश्चरेन्दू निशि तद्विपर्ययात् ॥ पितृव्यमातृष्वसृसंज्ञितौ च तावथौजयुग्मर्क्षगतौ तयोः शुभौ ॥ १५ ॥ इदानीं निषेककालवशात् पित्रादीनां शुभाशुभमाह । दिने निषेकश्चेत् तदा सूर्यः पिता, शुक्रो मातृसञ्ज्ञको भवति । रात्रौ निषेके शनिः पिता, चन्द्रो माता । दिने शनैश्चरः पितृव्यः, चन्द्रो मातृष्वसा । रात्रौ सूर्यः पितृव्यः, शुक्रो मातृष्वसेति जन्मन्यपि बोद्धव्यम् । प्रयोजनमाह । तावथौजयुग्मर्क्षगतौ तयोः शुभाविति । दिने सूर्यो विषमराशिगतस्तदा पितुः शुभो रात्रौ पितृव्यस्य । दिने शुक्रः समराशिगतो मातुः शुभकृद्रात्रौ मातृष्वसुः । शनैश्चरो निशि विषमस्थस्तदा पितुः शुभकृद्दिने पितृव्यस्य । चन्द्रो रात्रौ समर्क्षगो मातुर्दिने मातृष्वसुः शुभकृद्भवति । अर्थादेवोक्तविपर्ययस्थे तयोरशुभः इति । Notes-अत्र ११-१५ श्लोकाः बृहज्जातकस्य वर्त्तन्ते ॥ १५ ॥ दिनके आधानमें सूर्य पिता, शुक्र माता, शनि पितृव्य (चाचा), चन्द्रमा मौसी (माताकी बहिन) और रात्रिके आधानमें शनि पिता, चन्द्रमा माता, सूर्य चाचा, शुक्र मौसी है' इन संज्ञाओंका प्रयोजन यह है कि, दिनके आधानमें सूर्य विषम राशि (१-३- ५-७-९-११) में पिताको शुभ, रात्रिके आधानमें चाचाको शुभ होता है। दिनके गर्भा- धानमें शुक्र समराशि (२-४-६-८-१०-१२) में हो तो माताको शुभ, रात्रिमें मौसीको शुभ होता है। शनि रात्रिके आधानमें विषम राशिमें हो तो पिताको शुभ, दिनमें चाचाको शुभ होता है। रात्रिके गर्भमें चन्द्रमा समराशिमें हो तो माताको शुभ, दिनमें मौसीको शुभ होता है। इससे अन्यथा अशुभ कहना चाहिये ॥ १५ ॥ शीतज्योतिषि योषितोऽनुपचयस्थाने कुजेनेक्षिते । जातं गर्भफलप्रदं खलु रजः स्यादन्यथा निष्फलम् ॥ दृष्टेऽस्मिन् गुरुणा निजोपचयगे कुर्यान्निषेकं पुमान् । अत्याज्ये च समूलभे शुभगुणे पर्वादिकालोज्झिते ॥ १६ ॥ इदानीं गर्भक्षमरेजोन्निरूपणपूर्वकं निषेककालमाह' । शीतज्योतिषि=चन्द्रे योषितोऽनु- पचयस्थाने=स्त्रिया जन्मर्क्षादनुपचयस्थाने पूर्वोक्ते वर्त्तमाने कुजेनेक्षिते जातं रजः खलु=नि- श्चयेन गर्भफलप्रदं=गर्भधारणयोग्यं स्यात् । अन्यथोक्तादितरावस्थायां तद्रजो निष्फलं या- तीति । अस्मिन्योषितोऽनुपचयस्थे चन्द्रे पुमान्=पुरुषो निजोपचयगे=स्वजन्मर्क्षादुपचयस्था- नगते गुरुणा=बृहस्पतिना दृष्टेऽवलोकिते च निषेकं कुर्यात् । इत्थम्भूते योगे दम्पत्योर्योगे गर्भाधानं भवतीति भावः । निषेकमुहूर्त्तमाह । अत्याज्ये=विहिते च समूलभे, मूलनक्षत्रेऽप्युक्तमेतदन्यकर्तॄति । पर्वादिकालोज्झिते=पर्वादिकालरहिते शुभगुणे=सद्गुणयुक्ते समये गर्भाधानं प्रशस्तमिति । अथात्र प्रसङ्गान्नषेके त्याज्यानि लिख्यन्ते— “गण्डान्तं त्रिविधं त्यजेन्निधनजन्मक्षं च मूलान्तकम् । दाह्रं पौष्णमथोपरागदिवसान् पातं तथा वैधृतिम् ॥ पित्रोः श्राद्धदिनं दिवा च परिघाद्यर्धं स्वपत्नीगमे । आन्युत्पातहतानि मृत्युभवनं जन्मर्क्षतः पापभम् ॥ भद्राषष्ठीपर्वरिक्ताश्च सन्ध्याभौमार्किकीनायसत्रीक्षतक्षः ।
६८ सटीकजातकपारिजाते- एवं निषेके प्रशस्तमुहूर्त्तः— "गर्भाधानं श्रुत्तरेन्द्रर्क्षमित्रब्राह्मस्वातीविष्णुवस्वम्बुपे सत् ॥ केन्द्रत्रिकोणेषु शुभैश्च पापैस्त्र्यायारिगैः पुङ्ग्रहदृष्टलग्ने । ओजांशगेऽब्जेऽपि च युग्मरात्रौ, चित्रादितीज्याश्विषु मध्यमं स्यात्" ॥ इति ॥ १६ ॥ स्त्रीके जन्मराशिसे अनुपचय ( १,२,४,५,७,८,९,१२) राशिमें चन्द्रमा यदि मङ्गल से देखा जाता हो, ऐसे समयमें उत्पन्न रज गर्भप्रद होता है। इससे अन्यथा रज निष्फल होता है। इस गर्भयोग्य रजके समय चन्द्रमा पुरुषके उपचय ( ३।६।१०।११ ) राशिमें हो, उसे वृहस्पति देखता हो तो पुरुषको निषेक ( स्त्रीसंगम ) करना चाहिये । मूल सहित विहित नक्षत्रादिमें पर्वादिकालसे रहित शुभगुणयुक्त मुहूर्त्तमें गर्भाधान करना चाहिये । बृ० शा० कार ॥ १६ ॥ अथ स्त्रीणामृतुकालपरिमाणम् । विभावरीषोडश भामिनीनामृतूद्भवाच्चा ऋतुकालमाहुः ॥ नाद्याश्चतस्रोऽत्र निषेकयोग्याः पराश्च युग्माः सुतदाः प्रशस्ताः ॥ १७ ॥ रजः प्रादुर्भावात्षोडशरात्रिपर्यन्तमृतुकालो भवति योषिताम् । तत्र प्रथमश्चतस्त्रः रात्रयो निषेके गर्हिता भवन्ति । परा या द्वादश रात्रयः पश्चाद्यास्तासु युग्माः = समाः = षष्ठाद्याः ( ६।८।१०।१२।१४।१६ ) सुतदाः = पुत्रजन्मकारिण्यो भवन्ति । यतस्ताः प्रशस्ता इति । 'नाद्यरात्रीश्चतस्रः' तथा 'युग्मरात्रौ' इति प्रमाणात् ॥ १७ ॥ स्त्रियोंके ऋतु प्रारम्भ-कालसे १६ रात ऋतुकाल कहा गया है। उनमें पहले की ४ रात निषेक योग्य नहीं हैं। शेष १२ रातमें युग्म ( ६।८।१०।१२।१४ और १६ वीं ) रात निषेकमें प्रशस्त और पुत्र देनेवाली हैं। बृ० शा० कार ॥ १७ ॥ अथ तुर्यादिरात्रिषु निषेके सन्ताने विशेषः । पुत्रोऽल्पायुर्दारिका वंशकर्त्ता बन्ध्या पुत्रः सुन्दरीशो विरूपा ॥ श्रीमान् पापा धर्मशीलस्तथा श्रीः सर्वज्ञः स्यात्तूर्यरात्रात् क्रमेण ॥ १८ ॥ स्त्रीणामृतुकाले तुर्यरात्रात ( चतुर्थरात्रादित्यतस्तिस्रः रात्रयः प्रथमा निषिद्धाश्चतुर्थी शुद्धा "भर्त्तुः स्पृश्या चतुर्थेऽह्नि स्नानेन स्त्री रजस्वले"ति वचनात् ) क्रमेण 'पुत्रोऽल्पायुरि- त्यादयः । चतुर्थरात्रे निषेकेऽल्पायुः पुत्रो जायते । पञ्चम्यां दारिका = कन्या । षष्ठ्यां वंश- कर्त्ता पुत्रः । सप्तम्यां बन्ध्या = अपुत्रा स्त्री । अष्टम्यां पुत्रः । नवम्यां सुन्दरी कन्या । दश- म्यामीशः = समर्थः पुत्रः । एकादश्यां विरूपा कन्या । द्वादश्यां श्रीमान् पुत्रः । त्रयोदश्यां पापा कन्या । चतुर्दश्यां धर्मशीलः पुत्रः । पञ्चदश्यां श्रीमती कन्या । षोडश्यामन्तिमायां सर्वज्ञः पुत्रो जायते । इत्थं निषेकव्यवस्थांमवगम्य कामुकः कामिनीमुपेयादिति ॥ १८ ॥ चौथी रातके निषेकमें अल्पायु पुत्र, पांचवीं रातमें कन्या, छठीं रातमें वंशकर्त्ता पुत्र, ७ वीं रातमें बन्ध्या ( बांझ ) स्त्री, ८ वीं रातमें पुत्र, ९ वीं रातमें सुन्दरी कन्या, १० वीं रातमें प्रभावशाली पुत्र, ११ वीं रातमें कुरुपा कन्या, १२ वीं रातमें श्रीमान् ( भाग्यशाली ) पुत्र, १३ वीं में पापिणी कन्या, १४ वीं में धर्मात्मा पुत्र, १५ वीं में लक्ष्मीवती कन्या और १६ वीं रातमें सर्वज्ञ पुत्र उत्पन्न होता है । बृ० शा० कार ॥ १८ ॥ अथ सुतादियोगकरी ग्रहस्थितिः । अष्टमाष्टमगे सूर्ये निषेककर्त्तुःसुतोद्भवः । अथवाऽऽधानलग्नात्तु त्रिकोणस्थे दिनेश्वरे ॥ १९ ॥ अस्मिन्नाधानलग्ने तु शुभदृष्टियुतेऽथवा ॥ दीर्घायुर्भाग्यवान् जातः सर्वविद्यान्तमेष्यति ॥ २० ॥
वियोनिजन्माध्यायः ॥ ३ ॥ ६६ ओजर्चे पुरुषांशकेषु बलिभिर्लग्नार्कगुर्विन्दुभिः पुञ्जन्म प्रवदेत्समांशकगतैर्युग्मेषु तैर्योषितः । गुर्वकौ विषमे नरं शशिसितौ वक्रश्च युग्मे स्त्रियम् व्यङ्गस्था बुधवीक्षणाच्च यमलौ कुर्वन्ति पक्षे स्वके ॥ २१ ॥ विहाय लग्नं विषमर्क्षसंस्थः सौरौऽपि पुंजन्मकरो विलब्धात् ॥ प्रोक्तग्रहाणामवलोक्य वीर्यं वाच्यः प्रसूतौ पुरुषोऽङ्गना वा ॥ २२ ॥ निषेकार्शादाधानलग्नादष्टमाष्टमगे = अष्टमादष्टमं = लग्नात्तृतीयं तस्मिन् गते सूर्ये सुतोद्भवः (१) । अथवा दिनेश्वरे = सूर्ये आधानलग्नात् त्रिकोणे = नवमपञ्चमयोरन्यतरस्थे सुतोद्भवो वाच्यः (२) । अथवा अस्मिन्नाधानलग्ने शुभग्रहेरवलोकिते युक्ते वा जातो दीर्घायुर्भा- ग्यवान् सर्वविद्यश्च भवेदिति (३) । यथा चक्रेऽस्मिन् सू = (१) योगः । सूं. वा सूं = (२) योगः । गु. च. बु. शु. = (३) योगः ।
[कुण्डली १]
- लग्न (प्रथम भाव): लग्नम् च.गु.
- तृतीय भाव: सूं
- चतुर्थ भाव: बु.
- सप्तम भाव: शु.
- नवम भाव: सूं
- द्वादश भाव: सू.
अथ प्रश्नलग्नादाधानलग्नाज्जन्मलग्नाद्वा स्त्रीपुरुषविभागज्ञानमुच्यते । बलिभिः = सबलैलैग्नार्कगुर्विन्दुभिरोजर्क्षे पुरुषांशकेषु च व्यवस्थितैः । एतदुक्तं भवति । तत्काले लग्नसू- र्यबृहस्पतिचन्द्रमसः पूर्वोक्तैः स्वषड्बलैर्युक्ता विषमराशिविषमनवांशगताश्च भवन्ति, तदा पुंजन्म = पुरुषस्य जन्म प्रवेदेत् । अथ तैरेव लग्नार्कगुर्विन्दुभिः समांशकगतैः=स्त्रीराशिनवां- शस्थितैर्युग्मेषु = स्त्रीराशिषु च स्थितैर्योषितः = स्त्रिया जन्म वाच्यम् । तत्रोभयगतानां बाहु- ल्यात्तत्तज्जन्म । साम्ये च बलाधिक्यपक्षं वदेत् । गुर्वर्कौ = बृहस्पतिसूर्यौ विषमे राशौ नरं जनयतः । शशिशुक्रौ वक्रश्च = चन्द्रशुक्रमङ्गला युग्मे = समराशौ स्थिताः स्त्रियं जनयन्ति । व्यङ्गस्थाः = त एव गुरुसूर्यंशशिशुक्रमौमा द्विशरीरांशस्थास्तत्र बुधवीक्षणाच्च स्वके पक्षे यमलौ = युगलं कुर्वन्ति । अत्रेदमवधेयम्-मिथुनकन्याधनुर्मीनाश्चत्वारो द्विस्रभावास्तत्र मिथुनधनुर्धरौ पुरुषौ, कन्यामीनौ स्त्रियौ, तेन यदि' गुर्वकौ मिथुनधनुंरशगतौ बुधवेक्षितौ च भवतस्तदा पुरुषद्वयं वाच्यम् । एवं कन्यामीनांशगताश्चन्द्रभृगुभौमा यदि बुधेन वीक्ष्यन्ते तदा कन्यायुगलं कुर्वन्तीति । तत्रोभयस्थितौ स्त्रीपुंसोर्मिथुनमर्यादेकः पुमानेका कन्या चेति युगलं ज्ञेयम् ।
पुरुषजन्म (१)
- प्रथम भाव: ३
- द्वितीय भाव: २
- तृतीय भाव: ५ र.
- चतुर्थ भाव: ६
- पञ्चम भाव: ७ श.
- षष्ठ भाव: ८
- सप्तम भाव: ९ गु.
- अष्टम भाव: १०
- नवम भाव: ११ चं.
- दशम भाव: १२
७० सटीकजातकपारिजाते- यमलजन्म (३) अत्रोदाहरणम्-(१) चक्रे- र = ४।३। शु = ८।३। चं=१०।३। लग्नं = २।३। श = ६।३। पुंजन्मदाः । (२) चक्रे-ल = १।१६। र = १०।६। गु = ३।५। चं = १।२। मं = ७।३। शु= ११।१०। श = ९।६। स्त्री जन्मकराः । (३) चक्रे-र= २।२७। गु= ११। १६। पुरुषयुगलम् । चं= १।२८। शु = ४।२९। मं = ७।६। कन्यायुगलम् । अस्मिन् चक्रे (३) स्थापिताखिलग्रहात् मिथुनजन्मापि स्यात् । एतत् कल्पनामात्रमेवेति । अथोक्तयोगानामभावे शनिवशात्पुंस्त्रीज्ञानमाह । सौरोऽपि शनैश्चरोऽपि = लग्नं तात्कालिकं विहाय = त्यक्त्वा विलग्नाद्विषमर्कशंस्थस्तृतीयप्रभृतिविषमभावानामन्यतमस्थः पुञ्जन्मकरो भवति । ३, ५, ७, ९, ११, भावानामन्यतमवर्तिनि शनिग्रहे पुरुषजन्म वाच्य- मित्यर्थः । अत्र योजग्रहाणामुक्तपुंस्त्रीजन्मयोगकर्तॄणां ग्रहाणां वीर्यं = बलमवलोक्य यदि पुरुषजन्मकारको बली तदा पुरुषः, स्त्रीकारको बली तदा अङ्गना वा प्रसूतो वाच्या । तयोक्तं सारावल्याम्- "लग्नं त्यक्त्वा विषमे शनैश्चरः पुत्रजन्मदो भवति । योगे विहगस्य बलं समीक्ष्य वदेन्नरं स्त्रियं वाऽपि" ॥ इति ॥ १९-२२ ॥ गर्भाधानके लग्नसे जो अष्टम स्थान उससे जो अष्टम स्थान याने लग्नसे ३ रे भावमें सूर्यके रहने पर पुत्र उत्पन्न होता है । वा आधान लग्नसे त्रिकोण ( ९।५) में सूर्यके प्राप्त होने पर पुत्र होता है ॥ १९ ॥ इस आधान लग्नमें शुभग्रहकी दृष्टि हो तो जातक दीर्घायु और भाग्यवान् हो, तथा सभी विद्याका ज्ञाता हो ॥ २० ॥ आधान, जन्म अथवा प्रश्न कालमें बलवान् लग्न, सूर्य, गुरु, और चन्द्रमा विषमराशि और विषम-नवांशमें हों तो पुत्रका जन्म कहे और वे ग्रह समराशि तथा सम-नवांशमें हों तो कन्याका जन्म जाने । बलवान् बृहस्पति और सूर्य विषम राशिमें हों तो पुत्रका जन्म, एवं बलवान् चन्द्रमा, शुक्र और मङ्गल समराशिमें हों तो कन्याका जन्म जाने । बृहस्पति, सूर्य, चन्द्रमा, शुक्र और मङ्गल ये द्विस्वभाव ( ३-६-९-१२ ) राशिके नवांशमें हों और उन्हें बुध देखता हो तो यमल (दोधचे) का जन्म जाने । यहां द्विस्वभावके पुरुषांश ( ३।९ ) में गुरु और सूर्य हों तो दो पुत्र, एवं चन्द्र, शुक्र और मङ्गल द्विस्वभावके स्त्रीनवांश ( ६।१२ ) में हों तो दो कन्यायें, यदि दोनों योग हों तो एक पुत्र और एक कन्या कहे ॥ २१ ॥ उक्त योगोंके अभावमें लग्नको छोड़कर विषम भाव ( ३-५-७-९-११ ) में शनि स्थित होतो पुरुषका जन्म कहे, अन्यथा कन्याका जन्म जाने । यहां कहे हुये कन्या तथा पुत्र कारक ग्रहोंका बल विचार कर अधिक पक्षमें पुरुष वा कन्याका जन्म कहना चाहिये ॥२२॥ अथ क्लीबत्वकरा योगाः । अन्योन्यं यदि पश्यतः शशिरवी यद्यर्किसौम्यावपि वक्रो वा समगं दिनेशमसमे चन्द्रोद्यौ चेत्स्थितौ ॥ युग्मौजर्क्षगतावपीन्दुशशिजौ भूम्यात्मजेनेक्षितौ पुंभागे सितलग्नशीतकिरणाः षट् क्लीवयोगाःस्थिमे ॥ २३ ॥ इदानीं नपुंसकजन्मयोगा उच्यन्ते । यदि शशिरवी = चन्द्रसूर्यौ (विषमर्क्षगौ ) अन्योन्यं = चन्द्रः सूर्यं, सूर्यश्चन्द्रं च पश्यतस्तदैतः क्लीबयोगः ।
वियोनिजन्माध्यायः ॥ ३ ॥ ७१ यद्यर्किभौम्यावपि = शनिबुधौ च तथा परस्परं पश्यतस्तदा द्वितीयो योगः । वक्रो भौमो वा विषमगतो समगं दिनेशं = सूर्यं पश्यति तदा तृतीयो योगः । चेत् चन्द्रोदयौ = चन्द्रो लग्नञ्च असमे = विषमराशौ भवेतामपि च भौमेनेक्षितौ तदा चतुर्थो योगः । युग्मौर्जक्षगतावपि = समविषमराशिस्थित्वाविन्दुशशिजौ = चन्द्रबुधौ भूम्यात्मजेन = मङ्गलेन ईक्षितौ दृष्टौ तदा पञ्चमो योगः । अथ सितलग्नशीतकिरणाः = शुक्र-तत्काललग्न-चन्द्राः पुम्भागे = पुरुषराशिनवांशके वर्त्तमानास्तदा षष्ठो योगः । इमे षट् क्लीबयोगाः सन्ति । जन्मकाले निषेके प्रश्ने वा अमी योगा नपुंसकजन्मदा भवन्तीति । तथोक्तं सारावल्याम्— 'अन्योन्यं रविचन्द्रौ विषमर्क्षगतौ निरीक्षेते । इन्दुजरविपुत्रौ वा दृष्टौ बलिनौ नपुंसकं कुरुतः ॥ पश्यति वक्रः समस्थे सूर्यं चन्द्रोदयौ च विषमक्षें । यद्येवं गर्भस्थः क्लीबो मुनिभिः समादिष्टः ॥ ओजसमराशिसंस्थौ द्वेन्दु षण्ढं कुजेक्षितौ कुरुतः । नरभे विषमर्नवांशे होरेन्दुबुधाः सितार्केदृष्टा वा' ॥ इति ॥ Notes-पूर्वोक्तपुंस्त्रीजन्मयोगानामभावेऽमी योगाश्चिन्त्याः ॥ २३ ॥ ६ क्लीबयोगाः सूर्य और चन्द्रमामें परस्पर दृष्टि हो (१) वा शनि और बुधमें परस्पर दृष्टिहो (२) वा विषमराशिका मङ्गल, समराशिगतसूर्य इनमें परस्पर दृष्टि हो (३) या चन्द्रमा और लग्न विषम राशिके हों, उन्हें मङ्गल देखता हो (४) या चन्द्रमा सम और बुध विषम राशि के हों, उन्हें मङ्गल देखता हो (५) वा शुक्र, लग्न और चन्द्रमा पुरुष (विषम) नवांशमें हों तो (६) ये ६ प्रकारके नपुंसक-योग होते हैं, अर्थात् इन योगोंमें जन्म लेनेवाले नपुंसक होते हैं। बृ. जा. कार ॥ २३ ॥ अथ यमलादिजनिकरा योगाः । युग्मे चन्द्रसितौ तथौजभवने स्युज्ञारजीवोदयाः लग्नेन्दू नृनिरीक्षितौ च समगौ युग्मेषु वा प्राणिनः ॥ कुर्युस्ते मिथुनं गृहोदयगतान्द्र्यंशांकान्पश्यति स्वांशे ज्ञे त्रितयं ज्ञगांशकवशाद्युग्मं त्वमिश्रैः समम् ॥ २४ ॥ चन्द्रसितौ युग्मे राशौ तथा ज्ञारजीवोदयाः = बुधभौमगुरुल्लग्नानि, ओजभवने = विषम- राशौ भवेयुस्तदा मिथुनं = बालकं बालिकां च कुर्युस्तित्रेको योगः । लग्नेन्दू समगौ नृनिरीक्षितौ = पुरुषग्रहेण वीक्षितौ तदा चेति द्वितीयो योगः । प्राणिनः = बलिनस्त एव ज्ञारजीवोदया युग्मेषु वा व्यवस्थितास्तदेति तृतीयो मिथुन- जन्मयोगः ।
७२ सटीकजातकपारिजाते- अथ त्रितयजन्मयोगः—ग्रहोदयगतान्द्व्यंशांशकान् स्वांशे ज्ञे पश्यति सति । एतदुक्तं भवति—स्वनवांशे वर्त्तमानो बुधो द्विस्वभावरशिनवांशे व्यवस्थितान् ग्रहान् लग्नं च यदि पश्यति तदा गर्भे त्रितयं वाच्यम् । तत्र युग्मांशकवशाद्युग्मम् । बुधो यदि मिथुन- (नर) नवांशगतस्तदा नरद्वयमेका कन्या । यदि बुधो योषि-(कन्या) नवांशगतो भवेत्तदा कन्याद्वयमेको नर इति त्रितयं वक्तव्यम् । अमिश्रैः = समानांशकगतैः सममेकलिङ्गमेव त्रितयम् । अत्रेदमवधेयम्—मिथुनांशगतो बुधो मिथुनधनुरंशगतान् ग्रहोदयान् पश्यति तदा पुरुषत्रयमेवं कन्यांशकस्थो बुधो कन्यामीनांशगतान् ग्रहोदयान् पश्यति तदा कन्यात्रयं वाच्यमिति । तथा सारावल्यामाह कल्याणः— "लग्ने समराथिगते चन्द्रे च निरीक्षिते बलयुतेन । गगनसदा वक्तव्यं मिथुनं गर्भस्थितं नित्यम् ॥ समराशौ शशिसितयोर्विषमे गुरुवक्रसौम्यलग्नेषु । द्विशरीरे वा बलिष्ठ प्रवदेत् स्त्रीपुरुषमत्रैव ॥ मिथुनांशे कन्यासौ द्वौ पुरुषौ त्रितयमेवं स्यात् ॥ द्विशरीरांशकयुक्तान् ग्रहान् विलग्नं च पश्यतीन्दुसुते । कन्यांशे द्वे कन्ये पुरुषश्च निश्चीयते गर्भे ॥ मिथुने धनुरंशगतान् ग्रहान् विलग्नं च पश्यतीन्दुसुतः । मिथुनांशस्थश्च यदा पुरुषत्रितयं तदा गर्भे ॥ कन्यामीनांशस्थान् विहगांल्लग्नं च युवतिभागगतः । पश्यति शिशिरगुतनयः कन्यात्रितयं तदा गर्भे" ॥ २४ ॥ समराशिमें चन्द्रमा और शुक्र हों तथा विषमराशिमें बुध, मङ्गल, बृहस्पति और लग्न ये हों तो मिथुन (एक पुत्र और एक कन्या) का जन्म कहे। समराशिमें लग्न और चन्द्रमा हों, उन्हें पुरुषग्रह (सु०-मं०-बृ०) मेंसे कोई देखे तो भी एक पुत्र और एक कन्याका जन्म कहे । समराशिमें बलवान् पूर्वोक्त बुध, मङ्गल, बृहस्पति और लग्न हों तो भी वही फल जाने और द्विस्वभावके नवांशमें पूर्वोक्त ग्रह और लग्न वर्त्तमान हों, उन्हें अपने (३।६) नवाँ- शगत बुध देखता हो तो गर्भमें तीन बच्चे होते हैं। यहां बुधके स्थितिवश युग्म कहना याने बुध यदि नर (मिथुन) नवांशमें हो तो दो लड़के एक लड़की, यदि बुध स्त्री (कन्या) नवांशमें होकर द्विस्वभावांश गत ग्रहोदयोंको देखे तो २ लड़की १ लड़का कहना चाहिये । समान अंशमें याने बुध मिथुनांशमें होकर मिथुन और धनुके अंशगत ग्रहोंको देखे तो ३ पुरुष, एवं बुध कन्या नवांशमें स्थित होकर कन्या तथा मीनके नवांशगत ग्रहोंको देखे तो ३ लड़कियां कहनी चाहियें । सु० शा० कार ॥ २४ ॥ अथ त्र्यधिकजननयोगः । धनुर्धरस्यान्त्यगते विलग्ने ग्रहैस्तदंशोपगतैर्बलिष्ठैः ॥ ज्ञेनार्किगा वीर्ययुतेन दृष्टे सन्ति प्रभूता अपि कोशसंस्थाः ॥ २५ ॥ धनुराशेरन्तिमो नवांशो लग्नगतस्तथा धनुरंशगता बलिनो ग्रहाश्चेदभवेयुः, इत्थं भूतं लग्नमीदृग्विधैर्ग्रहैस्तथा बलवता ज्ञेन=बुधेनार्किणा=शनिना चावलोकितं स्यात्तदा कोश- . संस्थाः=गर्भंगताः, प्रभूताः=त्र्यधिका अपि सन्तीति वाच्यम् । परन्तु मानवयोनौ पूर्णग- र्भस्यास्य प्रसवासम्भवत्वात्तत्कालीननिर्बलग्रहस्य मासे तद्गर्भस्य स्खलनं भवतीति ज्ञेयम् ॥ धनु राशिके अन्त्य नवांशका लग्न हो, पूर्वोक्त योग कारक ग्रह धनुके नवांशमें हों और लग्नको बलवान् बुध और शनि देखें तो गर्भमें तीनसे अधिक बच्चे जानें। परन्तु मनुष्य
वियोनिजन्माध्यायः ॥ ३ ॥ ७३ योनिमें ऐसे गर्भका प्रसव होना असम्भव है, इसलिये आधानमें जो ग्रह बलहीन हो उसके महीनेमें गर्भस्राव कहना चाहिये ॥ २५ ॥ द्विशरीरांशसंयुक्तान् ग्रहान् लग्नं च पश्यति ॥ कन्यांशकगतश्चान्द्रिर्गर्भस्थं त्रितयं वदेत् ॥ २६ ॥ युग्मांशकस्तु कन्यैका द्वौ पुमांसौ च गर्भजाः ॥ युग्मांशगान्त्रिलग्नं च गर्भस्थाः पुरुषास्त्रयः ॥ २७ ॥ कन्यायुग्मांशकोपेतांस्तथा युग्मांशगो बुधः ॥ कन्यानवांशकः सौम्यस्तिस्रो गर्भंगताङ्गनाः ॥ २८ ॥ अत्र २४ श्लोकटीका विलोकया ॥ २६-२८ ॥ कन्या राशिके नवांशमें गत बुध यदि द्विश्वभाव (३।६।९।१२) राशिके नवांशमें प्राप्त ग्रहों और लग्नको देखता हो तो गर्भमें ३ बच्चे, जिनमें २ पुत्री और १ पुत्र हों ॥ २६ ॥ यदि बुध मिथुन नवांशका होकर उन्हें देखे तो एक पुत्री और २ पुत्र गर्भमें कहे । यदि बुध मिथुनांशगत होकर मिथुनांशगत ग्रह और लग्नको देखे तो तीनों पुत्र हों ॥ २७ ॥ कन्या और मिथुननवांशगत ग्रहों तथा लग्नको मिथुनांशगत बुध देखे तो ३ पुत्र, यदि कन्यांशगत बुध देखे तो ३ लड़कियां कहनी चाहिये । (सु० शा० कार) ॥ २८ ॥ द्विस्वभावगतावर्कगुरू बुधनिरिक्षितौ ॥ पुंयुग्मं कुरुतस्तद्वत् शशिशुक्रमहीसुताः ॥ २९ ॥ कुर्वन्ति स्त्रीयुगं तत्र बलाबलविशेषतः ॥ २९½ ॥ अत्र २१ श्लोकव्याख्यावलोकनेन स्पष्टं स्यात् ॥ २९½ ॥ द्विश्वभाव राशिके अंशमें स्थित सूर्य और गुरु यदि बुधसे दृष्ट हों तो दो पुरुषका जन्म कारक होते हैं । एवं चन्द्र, शुक्र और मङ्गल द्वित्वभावमें हों तो दो कन्याकी उत्पत्ति करते हैं। दोनों योगोंकी प्राप्तिमें बलाबल देखकर अधिक बलवालेका पक्ष कहना । (२१ श्लोककी सं० टी० देखिये ॥ २९½ ॥ स्त्रीनपुंसकश्चान्द्रिः पुंनपुंसकदोऽर्कजः ॥ ३० ॥ निषेककाले चन्द्रार्कावन्योन्यं यदि पश्यतः ॥ तथैव चन्द्रमन्दौ वा क्लीबजन्मप्रदौ तथा ॥ ३१ ॥ अनेन क्लीबजन्म निगदितं तदपि २३ श्लोकव्याख्यानान्तर्गतमेव ॥ ३०-३१ ॥ बुध कन्या नपुंसकको उत्पन्न करनेवाला होता है, शनि पुरुष नपुंसक उत्पन्न करने- वाला होता है ॥ ३० ॥ गर्भाधानके समय चन्द्रमा और सूर्य यदि परस्पर देखते हों, इसी प्रकार चंद्र और शनि भी तो नपुंसकको उत्पन्न करते हैं ॥ ३१ ॥ निषेके भ्रातृलग्नेशयोगे यमलसम्भवः । लग्नेशे भ्रातृपक्षस्थे स्वोच्चे वा यमलोद्भवः ॥ ३२ ॥ अत्रापि यमलयोग उच्यते । निषेके=आधानकाले, भ्रातृलग्नेशयोगे—लग्नेशसहजे- शयोर्योगे यमलसंभवो वाच्यः । तथा लग्नेशे भ्रातृपक्षस्थे=तृतीयगते वा स्वोच्चगते यमलो- द्भवो वाच्यः । सर्वार्थचिन्तामणावपि यमलजन्मयोगः— “निषेकलग्नेशतृतीयेनाथौ लग्नस्थितौ चेद्यमलोद्भवः स्यात् । तृतीयनाथेन युतो निषेकलग्नेश्वरस्तत्सहजे तथैव” इति ॥ ३२ ॥ गर्भाधानके समय भ्रातृस्थानेश और लग्नेशका योग हो तो यमल (दो) का जन्म हो । लग्नेश भ्रातृस्थानमें हो, या उच्चस्थानमें हो तो यमल होता है ॥ ३२ ॥ ७ जा०