कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| ३२० | कादम्बरी- | [ कथामुखम्- |
|---|
नह्येवंविधमपरम्¹। अपरिचितमिह जगति किञ्चिदस्ति², यथेयमनार्या³। लब्धापि खलु दुःखेन परिपाल्यते। दृढगुणपाश⁴-सन्दान-निस्पन्दीकृतापि नश्यति। उद्दाम-दर्प-भटसहस्रोल्ला-सितासिलता-पञ्जर-विधृताव्यपक्रामति। मदजल-दुर्दिनान्धकारगर्ज'-घन-घटा-परिपालितापि प्रपलायते; न परिचयं रक्षति; नाभिजनमीक्षते; न रूपमालोकयते⁶; न कुलक्रममनुवर्त्तते; न शीलं पश्यति; न वैदग्ध्यं गणयति; न श्रुतमाकर्णयति; न वर्ममनुरुध्यते, न त्यागमाद्रि-
भेदेऽपि श्लेषेणाभेदाध्यवसायादतिशयोक्तिः, प्रदर्शितरूपं रूपकम्, क्रियोत्प्रेक्षा चेत्येतेषामङ्गाङ्गिभावेन सङ्करालङ्कारः।
नहीति। इह जगति अस्मिन् संसारे एवंविधम् एतादृशम् अपरिचितं परिचयनिबन्धनप्रेमनिरपेक्षम् अपरम् अन्यत् किञ्चित् वस्तु नास्ति न विद्यते यथा येन प्रकारेण इयम् अनार्या नीचस्वभावा।
वाच्यातिशयेन लक्ष्म्या अपरिचितत्वं समुपपादयति—लब्धापीत्यादिना। लब्धापि महता क्लेशेन प्राप्तापि प्रायेण न लभ्यते इत्यपेरर्थः। दुःखेन क्लेशेन खलु निश्चयेन परिपाल्यते परिपालनविषयीक्रियते, अन्यस्तु परिचितो नैतादृशं करोतीत्याशयः।
दृढेति। दृढा यथायथप्रयोगेणानन्यथाविघातव्याः गुणाः सन्धिविग्रहानषड्गुणाभाव एव पाशो रज्जुः तेन यत् सन्दानं बन्धनं तेन निस्पन्दीकृतापि निश्चलीकृतापि लक्ष्मीः, नश्यति परपक्ष्याश्रयाद्दर्शनाभावं याति अन्ये पाशबद्धा गोप्रभृतयोऽपि नैतादृशमित्याशयः।
इह केचिद् विरोधाभासनिरङ्गकेवलंरूपकयोः सङ्कर इति वदन्ति। परे तु विभावनाविशेषोक्त्योः सन्देहात् सन्देहसङ्करालङ्कारो निरङ्गकेवलंरूपकेण सङ्कीर्यते इत्याचक्षते।
उद्दामेति। उद्दामो विपुलों दर्पोऽहङ्कारो यस्य तेन तादृशेन भटसहस्रेण योद्धृवृन्देन उल्लासिता ऊर्धीकृता असिलता लम्बायततरवारय एवं पञ्जरं पश्चादिवन्धनगृहं तत्र विधृतापि आबद्धापि लक्ष्मीः, अपक्रामति अपसरति पक्षान्तरमाश्रयतीत्यर्थः। पञ्जरविधृता शुक्रेन्द्रप्रभृतयः पशवोऽपि नैतादृशमित्याशयः।
इहापि विभावनाविशेषोक्त्योः सन्देहलङ्कारः, स च निरङ्गकेवलंरूपकेण सङ्कीर्यते। मतान्तरे तु विरोधाभासत्तथाविधरूपकयोः सङ्कर इत्यवधेयम्।
मदजलेति। मदजलानि दानवारीण्येव दुर्दिनानि श्यामत्वसादृश्यात् मेघच्छन्नाहानि तैः अन्धकारः तमो येभ्यः तयोक्ताः गजा हस्तिन एव घना मेघाः तेषां घटया समूहेन परिपालितापि रक्षितापि लक्ष्मीः प्रपलायते पक्षान्तरे पलायनं करोति। मार्जारोऽपि नैतादृशं दुनोतीत्याशयः।
इह गजेषु मेघत्वारोपे मदजलेषु दुर्दिनाव्दारोगे निमित्तमिति परम्परितंरूपकमलङ्कारः। तथा गजेषु मेघत्वारोपे मदजलेषु दुर्दिनाव्दारोपाभावेऽपि तदुत्पत्तेः कि विभावना स्याहोस्विद् दुर्दिनाव्दारोपकरणरूपे मेघत्वारोपकारणे सत्यपि तदनुत्पत्तेर्विशेपोक्तिरित्यनयोः सन्देहलङ्कारश्च, इत्युभयोरङ्गाङ्गिभावेन सङ्करः।
नेत्यादि। परिचयं संस्तवं न रक्षति न पालयति, चिराल्लब्धस्यापि परित्यागात्, श्वाऽपि नैतादृशमित्यभिप्रायः। अभिजनं सत्कुलं न ईक्षते नावलोकयति तत्परित्यागेन नीचकुलाश्रयणात्, सेवकोऽपि नैतादृशं करोतीत्याशयः। रूपं सौन्दर्य नालोकयते न वीक्षते, सुन्दरपरित्यागेन दुश्चरित्रावलम्बनात्, गणिकापि नैतादृशमाचरतीत्यभिप्रायः। कुलक्रमं नानुवर्त्तते वंशपरिपार्या सुरक्षित्ताऽहं कथमस्मादन्यत्र व्रजामीति न गणयतीत्यर्थः, झटित्येव तत्परित्यागात्, गजोऽपि नैतादृशमिति भावः। शीलं सच्चरित्रं न**
जो स्नेह उत्पन्न हो जाता है, उसकी कुछ गणना नहीं करती है, इसके सिवा अन्य कोई इस संसारमें नहीं है जैसी यह नीच प्रकृतिवाली है। इसको न लेने पर भी महाकष्टसे ही परिपालन करना होता है। दृढ भावसे प्रयुक्त सन्धि-विग्रहादि गुणरूप रज्जु द्वारा (फंदेसे) मजबूत बाँध कर निश्चल कर रख लेने पर भी चली जाती है। अत्यन्त दर्पसन्वन्दित योद्धाओंसे घुमाई गई खड्गल्तारूप पिंजरेमें फेंककर रखी जाने पर भी दूसरी तरफ चली जाती है। मदजलरूप दुर्दिनद्वारा अन्धकार करनेवाले हस्तिरूप बादलोंके घेर कर रखी जाने पर भी भाग जाती है। और यह लक्ष्मी, न स्नेहकी परवाह रखती है, न कुलके प्रति दृष्टिपात करती है, न
१. क्वचिद् अपरमिति नावलोक्यते। २. क्वचिद् किञ्चिदिति नास्ति। ३. अनार्या दुःखेन लभ्यते। ४. क्वचिद् 'पाश' इति पदन्नास्ति। ५. ॰॰॰उल्लसितासिलता॰॰॰। ६. ॰॰॰गन्धाद्विपघनघटयोप॰॰॰। ७. आलोकयति।
शुकनासोपदेश०-२५] चन्द्रकला-विद्योतिनीसहिता । ३२१
यते, न विशेषज्ञतां विचारयति, नाचारं पालयति, न सत्यमवबुध्यते,१ न लक्षणं प्रमाणीकरो- ति। गन्धर्वनगरलेखेव पश्यत एव नश्यति। अद्याप्यारूढ-मन्दर-परिवर्त्तावर्त्त-भ्रान्ति-जनित- संस्कारेव परिभ्रमति२। कमलिनी-सञ्चरणव्यतिकर-लग्न-नलिन-नाल-कण्टक-क्षतेवे३ न क्वचि- दपि४ निर्भरमाबध्नाति पदम्। अतिप्रयत्नविधृतापि परमेश्वरगृहेषु विविध-गन्धगज-गण्ड-
पश्यन्ति नावलोकयति, हस्तिनस्याऽप्याश्रयणात्, सेविकाऽपि नैतादृशमिति भावः। वैदग्ध्यं कौशलं न गणयति न विचारयति, जडस्याऽप्यावलम्बनात्, पण्डितोऽपि नैतादृशमित्याशयः। श्रुतं शास्त्रज्ञानं नाक-र्णयति न शृणोति, विद्वांसं परित्यज्य मूर्खाऽवलम्बनात्, सेविकाऽपि नैतादृशमाचरतीति भावः। धर्मं सुकृतं नानुरुध्यते धर्मानुरोधेन धार्मिकं नावलम्बत इत्यर्थः, प्रायेण पापिन एवावलम्बनात्, कपो-तोऽपि नैतादृशमित्यभिप्रायः। त्यागं दानं न नाद्रियते दानसामर्थ्यादरेण दातारं नावलम्बत इत्यर्थः। दातृपरित्यागेन कृपणावलम्बनात्, मार्जारोऽपि नैतादृशमित्याशयः। विशेषज्ञतां विशेषेण सर्वार्थवेदितां न विचारयति नाद्रियतीत्यर्थः, प्रायेण व्यापारीणामवलम्बनात्, धूर्त्तोऽपि नैतादृशमित्याशयः। आचारं शिष्टाचारितं मार्गं न पालयति न रक्षति, चण्डालभवनेऽपि गमनात्, शूद्राऽपि नैतादृशं करोतीत्याशयः। सत्यम् अवितथं नानुबुध्यते न जानाति, प्रायेण वञ्चकावत्त्वनात्, जहापि नैतादृशनाचरतीत्याशयः। लक्षणं मर्गातिलुकध्वजव्रज्रादिसामुद्रिकशास्त्रप्रतिपादितं न प्रमाणीकरोति, तयाविधं पुरुषं नावलम्बत इत्यर्थः, तयोक्तं परित्यज्य लक्षणरहिताश्रयणात् पाम्योऽपि नैतादृशं करोतीत्याशयः।
गन्धर्वेति। गन्धर्वनगरलेखा भूतयोनिविशेषाणां रात्रावेवावलोक्यमानं यन्नगरं तत्पङ्क्तिः, यद्वा—दृष्टिक्रमेण गगने नगरवदवलोक्यमाना कापि रेखा, सेव इयं लक्ष्मीः पश्यत एव अवलोकयन्तं जनमना-दृत्यैव नश्यति विलयं व्रजति, इदमल्यन्तमाश्चर्यमित्याशयः। उपमा।
बृहत्संहितायां गन्धर्वनगरावलोकनफलमभिहितम्— 'गन्धर्वनगरमुत्थितमापाण्डुरशनिपातवातकरम्। दीप्ते नरेन्द्रसृत्युर्वामेश्रिभयं जयः सव्ये॥' इत्यादि।
अद्येति। आरूढ उत्पन्नो यो मन्दरपरिवर्त्तन क्षीरोदमथनसमये मेरुर्वतघूर्णनेन आवर्त्तः सम्भ्रमो भ्रमः तत्र या भ्रान्तिः तत्र स्थिताया लक्ष्म्या अपि घूर्णनं तया जनितः चिरकालेनोत्पादितः संस्कारः घूर्णनोत्पादकवेगाभिधसंस्कारो यस्याः सा तथोक्ता सतीव अद्यापि अधुनापि परिभ्रमति भवना-दन्यभवनं गच्छतीत्यर्थः। अन्योऽपि पूर्वभ्रमिसंस्कारवशात् कालान्तरेऽपि भ्रमति। क्रियोत्प्रेक्षा।
कमलिनीति। कमलिनीषु पद्मलतासु सञ्चरणव्यतिरेकेण लक्ष्म्याः पङ्कजवनपिचमानत्वप्रसिद्धेः अनन्तरम्पर्कण लग्नानि पादौ संसक्तानि यानि नलिनानां पद्मानां नालकण्टकानि तैः क्षता विदीर्णपादेव लक्ष्मीः, क्वचिदपि कुत्रापि पदं प्रतिष्ठामेव पदं चरणं निर्भरं निश्चलं न आबध्नाति न विधत्ते। अपरोऽपि कण्टकक्षतचरणः निश्चलं पदं स्थापयितुं नार्हति। इहातिशयोक्त्योत्प्रेक्षयोरङ्गाङ्गिभावेन सङ्करालङ्कारः।
अतिप्रयत्नेति। परमेश्वरगृहेषु महाराजभवनेषु अतिप्रयत्नेन अतिप्रयासेन विधृता स्थिरीकृतापि इयं लक्ष्मीः, विविधा अनेकप्रकारा ये गन्धगजा गन्धेभाः तेषां गण्डयोः कपोलयोः यानि मधूनि दानवारीण्येव मधूनि मद्यानि तेषां पानेन आस्वादेन मत्ता मत्तैवेव सती परिस्खलति भ्रश्यति रूपान्तरं भजतीत्यर्थः। अन्यापि मधुपानमत्ता प्रयासेन विधृतापि अवलोकयत एव भ्रश्यति। इहाप्युत्मालङ्कारः।
सौन्दर्यको देखती है, न कुल-परम्पराका अनुसरण करती है, न स्वभावके प्रति लक्ष्य करती है, न दक्षता (चातुर्य) का आदर करती है, न विशेष ज्ञानका विचार करती है, न आचारका पालन करती है, न सत्यको समझती है एवं न पुरुषोंके ध्वज-वज्रादि चिह्नोंको देखकर उनका अनुसरण करती है। आकाशमें गन्धर्वनगर-रेखाके समान देखते-देखते ही नष्ट हो जाती है। समुद्रमन्थनके समय मन्दराचलके भ्रमणसे उसमें जो भँवर उत्पन्न हुई थी, यह उसमें घूमकर, उस संस्कारवश ही मानो अब भी घूमा करती है। कमल-वनमें विचरण करनेके समयमें कमल-दण्डके काँटे लग जानेसे चरण (पैर) क्षत-विक्षत हो गया है, इसीसे मानो यह किसी स्थान में भी जमकर पैर नहीं रखती है। बड़े-बड़े राजाओंके महलोंमें बड़े-बड़े उद्योग करके रखी जाने पर भी अनेक गन्ध-गजोंके गण्डस्थलके मधुपान से मत्त होकर ही मानो स्खलन कर जाती (दूसरे राजाओंके पास चली जाती) है।
१. अनुबुध्यते। २. क्वचित् 'नगर' इति पदमधिकन्दृश्यते। ३. भ्रमति। ४. ''सञ्चार'''। ५. ''नाल-कण्टकेव, नालकण्टकेतेव। ६. क्वचित् 'अपि' इति पदं नोपलभ्यते।
३२२ कादम्बरी- [ कथायाम्-
मधुपानमत्तेव परिस्खलति । पारुष्यमिवोपशिक्षितुमसिधारासु निवसति । विश्वरूपत्वमिव- ग्रहीतुमाश्रिता नारायणमूर्तिम् । अप्रत्ययबहुला च दिवसान्त-कमलमिव समुपचित-मूल- दण्ड-कोष-मण्डलमपि मुञ्चति भूभुजम् । लतेव विटपकानध्यारोहति । गङ्गेव वसुजनन्यपि तरङ्गबुद्बुदचञ्चला दिवसकरगतिरिव प्रकटित-विविध-संक्रान्तिः । पातालगुहेव तमोबहुला ।
ननु महाराजभवने गन्धगजास्तिष्ठन्तीति कृत्वा तन्मधुपानमत्तायाः स्खलनं जायतां किन्तु सज्जन-भवनेष्वपरिस्खलिता कुतो न तिष्ठतीत्याकांक्षायामाह—पारुष्यमिति । पारुष्यं कर्कशतामेव पारुष्यं निर्दयत्वम् उपशिक्षितुमिव अभ्यसितुमिव असिधारासु खड्गधारासु निवसति निवासं करोति । यथासिधारासु पारुष्यशिक्षणं कृता सा कथं सज्जनभवने स्थास्यतीत्याशयः । यद्वा—येनासिधारा यस्य गले पातयितुं शक्यते परुषतया चिरावलम्बनमपि तं परित्यज्य झटित्येव तं पातयितारमवलम्बत इत्याशयः । अत्रापि पूर्ववदेवालङ्कारः ।
विश्वरूपत्वमिति । विश्वं ब्रह्माण्डं तस्य रूपाणि यत्र तथोक्तं यद्रूपं तद्विश्वरूपं तत्त्वं ग्रहीतुमादातुमिव नारायणमूर्तिं विष्णोः शरीरम् आश्रिता अवलम्बिता, तन्मूर्त्तेर्विश्वरूपत्ववत्त्वात् । येन हि कदाचिद् व्यापारिणां गृहे वाणिज्यलक्ष्मीरूपेण, कदाचिद् वीराणां राज्ञां गृहे राजलक्ष्मीरूपेण इत्यादिनाना रूप-धारणेन दीप्यत इत्याशयः । क्रियोत्प्रेक्षा ।
अप्रत्ययेति । अपि च अप्रत्ययोऽविश्वासो बहुलः अधिको यस्यां सा तादृशी, दिवसान्तकमलमिव दिनावसानपङ्कजमिव, समुपचितानि साधुतया वृद्धिमुपगतानि मूलं विजयनिमित्तीभूतं सैन्यं क्षुब्नदेशश्च, दण्ड उपायविशेषः नालञ्च, कोशो धनं मध्यभागश्च, मण्डलं राष्ट्रं परमण्डलंञ्च, एतानि यस्य तं तादृशं च भूभुजं नृपतिं मुञ्चति परित्यजति नृपान्तरमवलम्बत इत्यर्थः । अतएवाविश्वासाधिक्यमित्याशयः ।
इह विभावनाविशेषोक्त्योः सन्देहसङ्करः पूर्णोपमा च, उभयोरप्यङ्गाङ्गिभावेन सङ्करः ।
लतेति । लता व्रततिरिच लक्ष्मीः, विटपकान् निन्दितकामुकान् वृक्षशाखांश्च अध्यारोहति आश्रयणं करोति । 'विटपः पल्लवे पिङ्गे विस्तारे स्तम्बशाखयोः' इति विश्वः ।
गङ्गेति । गङ्गा भागीरथी सेव लक्ष्मीः, वसूनां धनानां प्रसिद्धानामष्टदेवविशेषाणां च जनन्यपि, तरङ्गबुद्बुदभङ्गस्यासकवत् चञ्चला चपला, पक्षे—तरङ्गबुद्बुदैः भङ्गस्यासकैः चञ्चला ।
पुरा किल गङ्गा वशिष्ठशापान्नरत्वमुपगतानष्टौ वसून् जनयामासेति महाभारतीया कथा ।
दिवसेति । दिवसकरः सूर्यः तस्य गतिर्गमनं सेव लक्ष्मीः, प्रकटिता आविष्कृता विविधेषु नाना-प्रकारेपु लोकेषु सङ्क्रान्तिः सञ्चारो यया सा तादृशी, पक्षे प्रकटिता विविधा महाविषुवप्रभृतयः द्वादश-विधाः संक्रान्तयो राश्यन्तरसंक्रमणानि यया सा तादृशी ।
पातालेति । पातालगुहा पातालकन्दरा सेव लक्ष्मीः, तमः तमोगुणोत्पन्नाज्ञानम् अन्धकारश्च बहुलोऽधिको यस्यां सा तादृशी ।
निष्ठुरता सीखनेके लिए ही मानो तलवारकी धाराओंमें निवास करती है । नारायणके समीपसे विश्वरूप ( अनेक प्रकारके रूप ) ग्रहण करनेके लिए ही मानो उनके शरीरका आश्रय लिया है । इसके प्रति अविश्वास ही अधिक परिमाणमें करना होता है, क्योंकि कमलके मूल, नाल, कोश (कली) एव विस्तार इन सबों से विशेष वृद्धि पाते रहने पर भी दिनके शेष भागमें शोभा जिस प्रकार उस कमलको त्याग कर देती है, उसी प्रकार राजा का सैन्य (मूलधन), दण्डशक्ति (उपाय भेद), कोश (खजाना) और राज्य इन सबों से विशेष वृद्धि पाते रहने पर भी लक्ष्मी उस राजाका परित्याग कर देती हैं। लता जिस प्रकार वृक्षकी शाखाओं का आश्रय करती है, लक्ष्मी भी उसी प्रकार कुत्सित कामुक व्यक्तियों का आश्रय करती है । गङ्गा जिस प्रकार वसुओं ( तन्नामक आठ पुत्रों ) की जननी होने पर भी तरङ्गों और बुद्बुदोंसे चञ्चल है, यह भी उसी प्रकार धनको उत्पन्न करने वाली होने पर भी तरङ्गों और बुद्बुदोंके समान चञ्चल है । सूर्य की गति जिस प्रकार महाविषुवादि नानाविध सक्रान्तियों का (एकसे दूसरे राशि पर जाने का) प्रकाश करती है, यह भी उसी प्रकार व्यक्तियोंके गृहमें (एकसे दूसरेके पास) सञ्चरण करती है । पाताल की गुफा में जिस प्रकार अधिक परिमाणमें ही अन्धकार रहता है, इसके
१. दिवसान··· । २. समुचि··· ।
| शुकनासोपदेश०-३५ ] | चन्द्रकला-विद्योतिनीसहिता । | ३२१ |
|---|
हिडिम्बेव भीमसाहसैकहार्यहृदया। प्रावृडिवाचिरद्युतिकारिणी। दुष्टपिशाचीव दर्शिनानेकपुरुषोच्छ्राया स्वल्पसत्त्वमुन्मत्तीकरोति। सरस्वतीपरिगृहीतमीर्ष्ययेव नालिङ्गति जनम्, गुणवन्तमपवित्रमिव न स्पृशति, उदारसत्त्वममङ्गलमिव न बहु मन्यते, सुजनमनिमित्तमिव न पश्यति, अभिजातमहिमिव लङ्घयति, शूरं कण्टकमिव परिहरति, दातारं दुःस्वप्नमिव न स्मरति, विनीतं पातकिनमिव नोपसर्पति, मनस्विनमुन्मत्तमिवोपहसति। परस्पर-
हिडिम्बेति। हिडिम्बा घटोत्कचजननी राक्षसी सेव लक्ष्मीः, भीमसाहसैकेन परराज्याक्रमणप्रभृति-केवलभीषणहठकारितया हार्यं हर्तुं शक्यं हृदयं चेतो यस्याः सा तादृशी, पक्षे भीमो वृकोदरः तस्य साहलैक्रेन हिडिम्बमारणादिकेवलोत्साहक्रियया हार्यं हृदयं यस्याः सा तादृशी।
प्रावृडिति। प्रावृड् वर्षासमयः सेव, अचिरद्युतिः स्वल्पसमयवर्त्तिनी पुरगृहादिशोभां कर्तुं शीलं यस्याः सा तादृशी, पक्षे अचिरद्युतिं तडितं कर्तुं शीलं यस्याः सा।
दुष्टेति। दुष्टा ग्रामप्रदर्शनेच्छादृप्सितान्तःकरणा पिशाची राक्षसीव, दर्शितः प्रकटीकृतः अनेकेषां बहूनां पुरुषाणाम् उच्छ्रायः अभ्युदयो यया सा तथोक्ता सती, स्वल्पसत्त्वम् अल्पज्ञं जनम् उन्मत्तीकरोति तदुच्छ्रायप्रकटनेन तदाशया वलवंगं विदधाति, पक्षे-उर्द्धीकृतपाणिर्नरमानं पुरुषः एवञ्च दर्शितः निजदेह प्रकाशितः अनेकेषां बहूनां पुरुषाणाम् उच्छ्राय उन्नता यया सा नितान्तदीर्घेत्यर्थः, तथोक्ता सती अल्पसत्त्वं दुर्बलं मानुषम् उन्मत्तीकरोति त्रासेनेत्याशयः।
‘छतेव’ इत्यारम्य ‘दुष्टपिशाचीव’ इत्यन्तं.यावत् पूर्णोपमालङ्कारः।
सरस्वतीति। सरस्वती भारती तया परिगृहीतं स्वीकृतं विद्यावन्तमित्यर्थः जनं पुरुष ईर्ष्ययेव मत्सरेणैव नालिङ्गति नावलम्बते, सपत्न्यन्तरालिङ्गितं स्वामिनं सपत्न्यन्तरवदित्याशयः। इह गुणोत्प्रेक्षालङ्कारेण समासोक्तिः सङ्कीर्यते।
गुणेति। गुणवन्तं शौर्यादिगुणोपयुक्तम् अपवित्रं चण्डालादि जनं पुरुषमिव न स्पृशति न स्पर्शं करोति। उदारसत्त्वं महाशयं जनम् अमङ्गलमिव अकल्याणमिव न बहु मन्यते नाधिकमाद्रियते। सुजनं सुपुरुषम् अनििमित्तमिव उल्कापातादिदुर्लक्षणमिव न पश्यति नावलोकयति। अभिजातं सत्कुलीनं जनम् अहिमिव सर्पमिव लङ्घयति अतिक्रम्य गच्छति। शूरं शौर्यगुणोपेतं कण्टकमिव परिहरति परित्यजति दातारं बहुप्रदं दुःस्वप्नमिव अशुभस्वप्नमिव न स्मरति न चिन्तयति। विनीतं विनयगुणसंयुक्तं पातकिन पापकारिणमिव नोपसर्पति न पार्श्वे प्रयाति। मनस्विनं प्रशस्तचित्तम् उन्मत्तमिव सम्मादवन्तमिव उपहसति उपहास्यं करोति।
इह ‘गुणवन्तम्’ इत्यादिद्वितीयान्तपदानां जनमितिपकृतविशेष्यपदानुषङ्गात् ‘मनस्विनमुन्मत्तमिव हसति’ इत्यन्तं यावत् प्रतिवाक्ये उपमालङ्कारः।
परस्परेति। किञ्चेति चार्थः। इन्द्रजालं कुहकं दर्शयन्ती प्रकाशयन्तीव जगति संसारे परस्परविरुद्धं
जाने पर लोगोंको भी उसी प्रकार अधिक परिमाणमें ही मोह ही जादा करता है। भीमसेन का साहस जिस प्रकार हिडिम्बा राक्षसी (भीम की स्त्री घटोत्कच की माता) का मन अपहरण किया था, उसी प्रकार केवल भयङ्कर साहस ही इसका मन अपहरण कर लेता है। वर्षाकाल जिस प्रकार क्षणभङ्गुर विद्युत् का प्रकाश करता है, यह भी उसी प्रकार लोगों की अति अल्पकाल रहने वाली ही गृह-नगर की शोभा का प्रदर्शन करती है। कोई दुष्ट पिशाचिनी जिस प्रकार अपने शरीरमें बहुपुरुष-परिमित उच्चता (ऊंचाई) दिखा कर दुर्बल व्यक्तियोंको भयसे उन्मत्त करती है, यह भी उसी प्रकार अनेक पुरुषोंकी उन्नति दिखाकर अल्पबुद्धि वाले पुरुषोंको उनकी आशामें उन्मत्त कर देती है। सरस्वती द्वारा परिगृहीत व्यक्ति (विद्वान्) को ईर्ष्यावश से ही मानो आलिङ्गन नहीं करती है। गुणवान् व्यक्तिको अपवित्र समान स्पर्श नहीं करती है। महाशय (उदार) व्यक्तिको अमङ्गलके समान बहुत आदर नहीं करती है। सज्जनको कुलक्षण के समान नहीं देखती है। सत्कुलोत्पन्न (कुलीन) व्यक्तिको सर्पके समान लाँघ कर चली जाती है। वीरको कण्टकके समान छोड़ देती है। दाता को दुःस्वप्नके समान स्मरण भी नहीं करती है। पातकीके समान विनी के पास में भी नहीं फटकती है, और मनस्वी व्यक्तिको उन्मत्तके समान उपहास करती है। यह लक्ष्मी, इन्द्रजाल दिखाते-दिखाते ही मानो इस संसारमें परस्पर-विरुद्ध
१. हिडम्बेव।
२. क्वचिद ‘न’ कारो नोपलभ्यते।
३. दुःस्वप्नं।
४. नापसर्पति।
५. हसति।
| ३२४ | कादम्बरी- | [ कथायाम्- |
|---|
विरुद्धैश्चेन्द्रजालमिव दर्शयन्ती प्रकटयति जगति¹ निजं चरितम्। तथाहि; सततम्² ऊष्माणमा- रोपयन्त्यपि³ जाड्यमुपजनयति। उन्नतिमादधानापि नीचस्वभावतामाविष्करोति। तोयराशिसं- भवापि तृष्णां संवर्द्धयति। ईश्वरतां दधानापि अशिवप्रकृतित्वमातनोति। बलोपचयमाहरन्त्यपि लघिमानमापादयति। अमृतसहोदरापि कटु-विपाका। विग्रहवत्यपि अप्रत्यक्षदर्शना। पुरुषो-
मिथोऽसंवद्धधर्मयुक्तमित्यर्थः, निजम् आत्मीयं चरितं वृत्तं प्रकटयति आविष्करोतीति सम्बन्धः। क्रियोत्प्रेक्षा।
लक्ष्मीचरिते मिथोऽसंवद्धधर्मवत्त्वं प्रकटयति—तथाहीति। इयं लक्ष्मीः, सततं निरन्तरम् ऊष्माणं तापम् आरोपयन्त्यपि प्रवर्त्तयन्त्यपि जाड्यं शैत्यम् उपजनयति करोतीति विरोधः, ऊष्माणं धनवर्गं जाड्यं जडत्वं सदसद्विवेकशून्यत्वमिति तत्परिहारः।
उन्नतिमिति। उन्नतिम् ऊर्ध्वगतिम् आदधानापि कुर्वाणापि नीचस्वभावतां नोचवृत्तित्वम् आविष्करोति प्रकटयतीति विरोधः, उन्नतिम् अवस्थोत्कर्षम्, नीचस्वभावता औद्धत्योत्पादनेन निन्दितचरित्रत्वमिति तत्समाधानम्।
तोयराशीति। तोयराशेः जलनिधेः सकाशात् सम्भवति समुत्पद्यत इति तथाविधापि, तृष्णां पिपासां संवर्धयतीति विरोधः, तृष्णां धनाकांक्षांमिति तत्परिहारः।
ईश्वरतामिति। ईश्वरतां शिवत्वं दधानापि धारयन्त्यपि अशिवप्रकृतित्वं शिवभिन्नस्वभावत्वम् आतनोति विस्तारयतीति विरोधः, ईश्वरतां प्रभुतां दधानापि आपादयन्त्यपि अशिवप्रकृतित्वम् अन्योत्पीडनकारणत्वेन अमङ्गलस्वभावत्वमातनोतीति तत्समाधानम्।
बलोपचयमिति। बलोपचयं शारीरिकसामर्थ्यवृद्धिम् आहरन्त्यपि कुर्वत्यपि लघिमानं भारहीनत्वम् आपादयति जनयतीति शारीरिकसामर्थ्यवृद्धौ शरीरेऽवश्यम्भावाद्विरोधः, बलोपचयं सैन्यवृद्धिं लघिमानं कार्पण्यमिति तत्परिहारः।
अमृतेति। अमृतसहोदरापि पीयूषेन समुत्पन्नापि एकत्रसमुद्राज्जायमानत्वादित्याशयः। कटुविपाका जिह्वायां कटुरसेति अमृतसहोदराया मधुररसत्वसम्भवे कटुरसत्वाद्विरोधः, कटुः अन्येषां सन्तापकत्वेन क्लेशकरः विपाकः परिणामो यस्याः सा तादृशीति तत्समाधानम्।
विग्रहेति। विग्रहवत्यपि मूर्त्तिमत्यपि, अप्रत्यक्षं चक्षुषामम्यं दर्शनं ज्ञानं यस्योः सा तादृशी चाक्षुषप्रत्यक्षागम्येत्यर्थः इति विरोधः, विग्रहवत्यपि प्रेरणतया युद्धवत्यपि मिथः सङ्ग्रामसविधाचिन्यपि देवत्वादेवाप्रत्यक्षदर्शनेति तत्परिहारः।
पुरुषेति। पुरुषोत्तमे उत्कृष्टपुरुषे रतापि आसक्तापि खलजनप्रियेति विरोधः, पुरुषोत्तमरतापि भगवद्विष्णावासक्तापि खलजनप्रिया बाहुल्येन दुष्टजनावलम्बनादिति तत्समाधानम्।
‘ऊष्माणमारोपयन्त्यपि’ इत्यारभ्य ‘पुरुषोत्तमरतापि’ इत्यन्तं यावत् सर्वत्र विरोधाभासोऽलङ्कारः।
धर्म समन्वित अपना चरित्र प्रकट करती है। क्योंकि सर्वदा उष्णता उत्पन्न करती हुई भी शीतलता उत्पन्न करती है (धनका अहङ्कार उत्पन्न कर, एवं मनुष्यको सदसद्विवेचनाशून्य कर देती है)। ऊपर उठा करके भी नीचेमें रखती है (अवस्थाकी उन्नतिको उत्पन्न कर अथ च मनुष्यको कुत्सित स्वभाववाला कर देती है)। समुद्र (जलराशि) से उत्पन्न होकर भी पिपासा बढ़ाती है (धनकी अभिलाषा की वृद्धि करतो है)। शिव होकर भी अशिव स्वभावका विस्तार करती है (लोगोंको प्रभुत्व उत्पन्न करके दूसरेको पीड़ा देनेके कारण अमङ्गल स्वभाव को विस्तार करती है।) शरीरमें बलवृद्धि करके भी लघुताको उत्पन्न करती है (सैन्यवृद्धि करती है और स्वभावको कृपण करती है)। अमृतकी सहोदरा होने पर भी जिह्वामें कट्टरस (कड़वी) अनुभूत होती है (परिणाममें दुःखदायिनी होती है)। मूर्त्तिमती होकर भी चाक्षुष प्रत्यक्षके योग्य नहीं है (धनियोंके बीचमें परस्पर कलह उत्पन्न कर दृष्टिगोचर नहीं होती है)। उत्कृष्ट पुरुषमें आसक्त होने पर भी खल पुरुषोंसे प्रीति
१. क्वचित् 'जगति' इति पदं नावलोक्यते। २. सन्ततम्। ३. उपजनयन्त्यपि। ४. राशिरिव। ५. कटुक।
शुकनासोपदेशे-३५ ] चन्द्रकला-विद्योतिनीसहिता । ३२५
न्तरमपि खलजनप्रिया। रेणुमयीव स्वच्छमपि कलुषीकरोति। यथा यथा चेयं चपला दीप्यते तथा तथा दीपशिखेव कज्जलमलिनमेव कर्म केवलमुद्वमति। तथाहि, इयं संवर्द्धनवारिधारा तृष्णाविषवल्लीनाम्; व्याधगीतिरिन्द्रियमृगाणाम्; परामर्शधूमलेखा सच्चरितचित्राणाम्; विश्रमशय्या मोहदीर्घनिद्राणाम्, निवासजीर्णवलभी धनमदपिशाचिकानाम्; तिमिरोद्गतिः शास्त्रदृष्टीनाम्; पुरः पताका सर्वविनयानाम्, उत्पत्तिनिम्नगा क्रोधावेगग्राहाणाम्; आपानभूमिः विषयमधूनाम्; सङ्गीतशाला भ्रूविकारनाट्यानाम्; आवासदरी दोषाशी-
रेन्विति। रेणुमयीव-रजोनिष्पन्नेव स्वच्छं विशदमपि कलुषीकरोति मलिनं विदधातीति विरोधः, स्वच्छमपि रागाद्यहङ्काररहितमपि जनं कलुषीकरोति रागाद्यहङ्कारादियुक्तं विदधाताति तत्परिहारः।
इह रजोनिष्पद्युल्लेखात् क्रियोत्प्रेक्षा विरोधाभासश्चैत्युभयोर्अङ्गाङ्गिभावेन सङ्करः।
दपेति—किञ्चेति चार्थः। चपला चञ्चला तडिद्विवेति च व्यज्यते, यथा यथा येन येन प्रकारेण इयं लक्ष्मीः दीप्यते प्रकाशते आविर्भवति, तथा तथा तेन तेन प्रकारेण दीपशिखेव प्रदीपज्वालेव कज्जलमलिनमेव परहिंसापरगोहरणादिकं दुष्कृतमेव न तु प्रायेण शोभनमित्येव पदार्थः कर्म केवलम् उद्वमति आविष्करोति। पक्षे—कज्जलमेव मलिनं कर्म। पूर्णोपमा।
मलिनकर्मोद्वमनं प्रदर्शयति—तथाहीति। इयं लक्ष्मीः, तृष्णा विषयेच्छा एव विषवल्ल्यः अनर्थजनकत्वाद्विपलनाः तासां संवर्धनवारिधारा वृद्धिकारणीभूतनिरन्तरसलिलसेकः, विद्यमानायामस्यां तृष्णावृद्ध्यवलोकनादित्याशयः। इन्द्रियाणि अक्षाण्येव मृगा हरिशाः तेषां व्याधगीतिः मृगवधजीविगानम्, आकृष्य नष्टीकरणात्। व्याधा हि गानेन मृगानाकृष्य गतासूनू कुर्वन्तीति प्रख्यातं सर्वत्र। सच्चरितानि सदाचरणानि तान्येव चित्राणि सालेख्यानि तेषां परामर्शधूमलेखा आवरणधूमपङ्किः, विद्यमानायामस्यां वाहुल्येन जनानां सच्चरितावरणात्। मोहाः विधेयाविधेयविवेकाभावा एव दीर्घनिद्राः दीर्घस्वापाः तासां विश्रमशय्या विलासशय्या, विद्यमानायामस्यां मोहवृद्धिक्षनात्। धनमदा द्रव्याहङ्कारा एव पिशाचिका राक्षस्यः तासां निवासाय अवस्थानयि जीर्णवलभी प्राचीनचन्द्रशाला पिशाचानां जीर्णभवन इव धनमदानां लक्ष्म्यामेवावस्थानात्। शास्त्राणि वेदादीनि एव दृष्टयो लोचनानि तासां तिमिरोद्गतिः नयनरोगविशेषस्योत्पत्तिः सत्तयैव शास्त्रदृष्टिनिरोधात्। सर्वाविनयानां सर्वविधदुश्चरित्राणां पुरःपताका अग्रवैजयन्ती, पताकावलोकनेन रथागमनानुमानवत् लक्ष्म्या अवलोकनेन सर्वविधदुश्चरित्रानुमानात्। क्रोधावेगाः कोपसंभ्रमा एव ग्राहा जलजन्तवः तेषां उत्पत्तिनिम्नगा उद्भवन्दी, विद्यमानायामेवास्यामाधिक्येन कोपसम्भ्रमोद्भवदर्शनात्। विषयाः स्त्रक्चन्दनादिसम्भोगवस्तुन्येव मधूनि अनर्थजनकत्वेन मद्यानि तेषाम् आपानभूमिः पानगोष्ठिकास्थानम्, विद्यमानायामेवास्यामाधिक्येन मोगदर्शनात्। भ्रूविकारा भ्रुकुट्य एव नाट्यानि अभिनयाः तेषां सङ्गीतशाला रङ्गशाला, अस्यामेवाधिक्येन भ्रूकुटीविधानात्। दोषाः कामादय एव आशीविषाः जीवनघातकत्वाद् विषधराः तेषाम् आवासदरी निवासकन्दरा, अस्यामेव कामाद्यवस्थानात्।
करती है (नारायणमें आसक्त रहती है, एवं प्रायशः दुर्जनोंको ही प्रीति करती है)। धूलिमयी होकर ही मानों निर्मल वस्तुओंको भी मलिन कर देती है (अहङ्कारादिदोष-रहित व्यक्तियों को अहङ्कारादि दोष से दोषी बना देती है)। और जैसे-जैसे यह चञ्चला लक्ष्मी आविर्भूत होती है, वैसे-वैसे ही दीपशिखाके समान कज्जलवत् मलिन दुष्कार्य ही केवल प्रकट करती रहती है। क्योंकि यह लक्ष्मी, विषय लालसारूप विषलतासमूह को वृद्धि करनेवाली जलधारा है, (अर्थात्, जैसे जलधारा विषवल्लताओं की वृद्धि करती है, वैसे यह तृष्णारूपकी वृद्धि करती है), इन्द्रियरूप हरिनोंके पकडने व्याधोंका गान है (अर्थात्, जैसे व्याधका गीत हरिनोंको आकर्षित करता है, वैसे यह इन्द्रियोंको आकर्षित करती है), सच्चरित्ररूप चित्र समूहपर आवरण करनेवाली धूमपंक्ति है (अर्थात्, जैसे धुएँ से चित्र मिट जाते हैं, वैसे यह सच्चरित्रको बिगाड़ देती है); मोहरूप दीर्घनिद्राके पलंगमें कोमल शय्या है (जैसे कोमल शय्या पर लेटनेसे खूब नींद आती है, वैसे यह मोहकी विलास-भूमि है), धनाभिमानरूप पिशाचिनियोंके रहनेके लिए टूटी-फूटी अटारी है, शास्त्र रूप-नेत्रोंके पक्षमें तिमिरनामक नेवरोग है, सब दुराचारोंके आगे उड़नेवाली पताका है, क्रोधावेगरूपी जलजन्तुओं (मगरों) को उत्पन्न करने वाली नदी है, स्त्रक्-चन्दनवनिता प्रभृति भोग्य पदार्थोंरूपी मद्यकी पान-भूमि है, भ्रूविकाररूपी अभिनयोंकी
१. पुरःसरपताका। २. निवासभूमिः।
३२६ | कादम्बरी- | [ कथामुखम्-
विषाणाम्, उत्सारणवेत्रलता सत्पुरुषव्यवहाराणाम्¹, अकालप्रावृट् गुणकलहंसकानाम्, विसर्पणभूमिलौकापवाद-स्फोटकानाम्², प्रस्तावना कपटनाटकस्य, कदलिका कामकरिणः, बध्यशाला साधुभावस्य, राहुजिह्वा धर्मेन्दुमण्डलस्य । न हि तं पश्यामि, यो ह्यपरिचितयानया³ न निर्भरमुपगूढः, यो वा न विप्रलब्धः । नियतमियमलेख्यगतापि चलति, पुस्तमय्यपि⁴ इन्द्रजालमाचरति, उत्कीर्णापि विप्रलभते, श्रुताप्यभिसन्धत्ते, चिन्तितापि वञ्चयति ।
सत्पुरुषाः शिष्टाः तेषां व्यवहाराः सानुकम्पाचरणानि तेषाम् उत्सारणाय दूरीकरणाय वेत्रलता वेतसयष्टिः, उद्भूतायामस्यां शिष्टानमपि प्राक्सानुकम्पव्यवहारविलोपात् । गुणा दयादाक्षिण्यप्रभृतय एव कलहंसकाः कादम्बाः तेषाम् अकालप्रावृट् असमयप्राप्तवर्षासमयः, वर्षासमये कादम्बानामिव विद्यमानायामस्यां गुणानामदर्शनात् । कपटं छलाचरणमेव नाटकम् अभिनयः तस्य प्रस्तावना आमुखम्, विद्यमानायामेवा सयां कूटव्यवहारारम्भात् । कामो मदन एव करी दन्ती तस्य कदलिका रम्भा, सत्यामेवास्यां स्वच्छन्दव्यवहरणात् । साधुभावस्य सौजन्यस्य बध्यशाला हननभवनम्, सत्यामेवास्यां सौजन्यस्य विलोपात् । तथा धर्मो धर्मव्यवहरणमेव इन्दुमण्डलं स्वच्छतया चन्द्रबिम्बं तस्य राहुजिह्वा सैंहिकेयरसना, अनयैव धर्मव्यवहरणग्रासात् ।
इह 'इयं संवर्धनवारिधारा तृष्णाविषवल्लीनाम्' इत्यारभ्य 'राहुजिह्वा धर्मेन्दुमण्डलस्य' इत्यन्तं यावत् प्रायेण परम्परितरूपकमलङ्कारः । 'केवलं 'पुरःपताका सर्वविनयानाम्' इत्यत्र, 'उत्सारणवेत्रलता सत्पुरुषव्यवहाराणाम्' इत्यत्र च निरङ्गं केवलरूपकमलङ्कारः ।
नहीति । हि निश्चितं तं जनं न पश्यामि नावलोकयामि, यो हि जनः अपरिचितया परस्परपरिज्ञानशून्यया अनया लक्ष्म्या निर्भरं गाढं नोपगूढो नालिङ्गितः सम्पत्तिलिप्सया निरतिशयव्यापारानन्तरं तया न संश्लिष्ट इत्यर्थः । यो वा न विप्रलब्धः त्यक्त्वा न प्रतारितः ।
इह लक्ष्म्यां कार्यद्वारा कुलटाया गणिकाया वा व्यवहारसमारोपात् समासोक्तिर्बोद्ध्या । अपि चात्र 'नहि तं पश्यामि' इति वाक्यस्योत्तरत्र पाठ एव समुचितः अन्यथा यत्तच्छब्दान्वितवाक्ययोरुत्तरत्र पाठेन वाक्यगतविधेयाविमर्शदोषः 'न्यक्कारो ह्ययमेव मे यदरयः' इत्यादिवत्समापतेदेवेति बोध्यम् ।
सर्वविधिनैव लक्ष्म्या वञ्चनामुपपादयति—नियतमित्यादिना । नियतं निश्चितम् इयं लक्ष्मीः आलेख्यगतापि चित्रलिखितापि चलति भवनान्तरं गच्छति । पुस्तमय्यपि मृत्काष्ठादिरचितपुत्तलिकारूपापि इन्द्रजालं कुहकम् आचरति प्रदर्शयति, अकस्मात् लक्ष्म्या विलोपात् । 'पुस्तमस्त्री हस्तनियैत०' इत्यादि वाग्भटः । 'पुस्तं लेप्यादिकर्मणि' इत्यमरस्य—
'मृदा वा दारुणा वाथ वस्त्रेणाप्यथ चर्मणा । लोहरत्नैः कृतं वापि पुस्तमित्यभिधीयते ॥'
इति रामाश्रमी टीकाऽत्रानुसन्धेया । उत्कीर्णापि प्रस्तरं निस्तक्ष्य, रचितापि विप्रलभते झटिति परित्यज्य वञ्चयति । श्रुतमस्यास्तीति श्रुता अर्श आदित्वादच् प्रत्ययः, दुराचारनिषेधकशास्त्रज्ञानयुक्ता-पीत्यर्थः अभिसन्धत्ते छद्मव्यवहारं करोति अविश्वासव्यवहारात् । चिन्तितापि स्मृतापि वञ्चयति प्रतारयति । विरोधाभासोऽलङ्कारः ।
सङ्केत-शाला है, कामादि दोषरूपी विषधरोंके रहनेकी गुफा है, सत्पुरुषोंके सद्व्यवहारोंको दूर भगानेवाली बेंतकी छड़ी है, दयादाक्षिण्यादि गुणरूपी कलहंसों की असामयिकोपस्थित वर्षा ऋतु है, लोकनिन्दिरूपी विस्फोटका विस्तार करनेवाली भूमि है, कपटाचरणरूपी नाटककी प्रस्तावना है, कन्दर्परूपी हाथी का कदलीवन है, साधुभावको वध-शाला (हत्यागृह) है, और धर्माचरणरूपी चन्द्रमण्डलके लिए राहु-जिह्वा है। मैं ऐसा कोई पुरुष नहीं देखता कि इस अपरिचिता लक्ष्मी द्वारा गाढ आलिङ्गित होकर बादमें प्रतारित नहीं हुआ है। यह लक्ष्मी, चित्रपट पर चित्रित होने पर भी निःसन्देह चली जाती है। मृत्तिका अथवा काष्ठादि द्वारा पुत्तलिका बनाकर रखने पर भी इन्द्रजालके समान व्यवहार करती है। पत्थरमें खुदवाकर रखने पर भी धोखा देती है। शास्त्राभिज्ञ होने पर भी दुर्व्यवहार करती है, प्राप्तिकी आशाते भक्तिके द्वारा ध्यान करने पर भी ठगती है।
१. ॰॰॰व्यवहाराणाम् ।
२. विस्फोतानाम् ।
३. क्वचित् अनयेति इति पदं नावलोक्यते ।
४. पुस्त-कमय्यपि ।
शुकनासोपदेशव-३५ ] चन्द्रकला-विद्योतिनीसहिता। [ ३२७
एवम्विधयापि चानया दुराचारया कथमपि दैववशेन परिगृहीताः¹ विक्लवा भवन्ति राजानः, सर्वविनयाधिष्ठानताञ्च गच्छन्ति। तथाहि, अभिषेकसमय एव चैषां² मङ्गलकलसजलैरिव प्रक्षाल्यते दाक्षिण्यम्, अग्निकार्यधूमेनेव मलिनीक्रियतै³ हृदयम्, पुरोहितकुशाग्रसम्मार्जनीभिरिवापनीयते⁴ क्षान्तिः, उष्णीषपट्ट⁵-बन्धनेनेवावच्छाद्यते⁶ जरागमनस्मरणम्, आतपत्रमण्डलेनेवापवार्य्यते⁷ परलोकदर्शनम्, चामरपवनैरिवापह्रियते सत्यवादिता, वेत्रदण्डैरिवोत्सार्य्यन्ते गुणाः, जयशब्दकलकलैरिवे तिरस्क्रियन्ते साधुवादाः, ध्वजपटपल्लवैरिव परामृश्यते यशः। केचित्९ श्रम-वश-शिथिल¹⁰-शकुनि-गल-पुट¹¹-चपलाभिः खद्योतोन्मेष-
एवमिति। एवम्विधयापि पूर्वोक्तलक्षणलक्षितयापि दुराचारया दुष्टाचरणया अनया लक्ष्म्या कथमपि महता क्लेशेन दैववशेन भाग्यवशेन परिगृहीता आश्रिता राजानो नृपतयो विप्लवाः समाकुला भवन्ति। सर्वेषां समस्तानाम् अविनयानां दुर्व्यवहाराणाम् अधिष्ठानताम् आस्पदत्वं च गच्छन्ति प्राप्नुवन्ति।
इह लक्ष्म्यां कार्यकार्या पिशाचीव्यवहारसमारोपात् समासोक्तिः।
वैक्लव्यं दुर्व्यवहारास्पदत्वञ्च समुपपादयति—तथाहिती। अभिषेकसमय एव राज्याभिषेकक्षण एव एषां नृपतीनां मङ्गलकलशजलैरिव कल्याणकुम्भाम्भोभिरिव दाक्षिण्यम् औदार्यं प्रक्षाल्यते प्रक्षालनविषयीक्रियते। अग्निकार्यम् अभिषेकाङ्गहोमः तस्य धूमेन हृदयं स्वान्तं मलिनीक्रियते राज्ञामिति शेषः। पुरोहितः पुरोधाः तेषां कुशाग्राण्येव दर्भाप्राण्येव सम्मार्जन्यः ताभिः क्षान्तिः क्षमागुणः अपनीयते रेण्वादिवत् दूरीक्रियत्त इव, बाहुल्येन सहिष्णुताशून्यत्वात्। उष्णीपं मूर्धवेष्टनं तदेव पट्टबन्धः क्षौमवसनबन्धनं तेन जरागमनस्मरणं 'वार्द्धक्यं मे भविष्यतीति' चिन्ता अवच्छाद्यते शिरोवद् आश्रियत इव। वाहुल्येन वृद्धानामुपहासाद्। आतपत्रमण्डलं मण्डलीकृतच्छत्रं तेन परलोकदर्शनं जन्मान्तरदृष्टिः अपवार्यते अन्यपुरुषावलोकनवत् निवार्यते, आधिक्येन परलोकभाविक्वेशबोधाभावेनाधर्मव्यवहरणात्। चामरा बालव्यजनाः तेषां पवनैः वातैः सत्यवादिता अवितथवादिता अपह्रियते रेणुवत् अपनीयत इव वाहुल्येनामत्य-संभाषिवात्। वेत्रदण्डाः वेतसयष्टयः तैः गुणा दयादाक्षिण्यादयः उत्सार्यन्ते अन्यजनवद् दूरीक्रियन्त इव, बाहुल्येन तेषां गुणरहितत्वाद्। साधुवादाः सौजन्यप्रशंसावचनानि जयशब्दकलकलैः जयशब्दकोलाहलैः तिरस्क्रियन्ते सामान्यवाक्यवद् आच्छाद्यन्त इव, बाहुल्येन तत् साधुवादविमुखत्वात्। ध्वजपटपल्लवैः उर्ध्वीकृतकेतुदण्डसंसक्तप्रथितपताकाभिः, यशः श्लोकः परामृश्यते छिन्नविशदवर्णवत् प्रोञ्छयत इव, तत्पर्यन्तं विविधदुर्व्यवहारवशात् बाहुल्येन तेषां यशोविलोपात्।
इह 'अभिषेकसमय एव' इत्याद्यग्म्य 'ध्वजपटपल्लवैरिव परामृश्यते यशः' इत्यन्तं यावत् प्रतिवाक्ये क्रियोत्प्रेक्षालङ्कारः। केवलं 'पुरोहितकुशाग्रे' त्यादौ निरङ्गकेवलंरूपकसंकीर्णा क्रियोत्प्रेक्षालङ्कार इत्यवधेयम्।
केचिदिति। केचित् राजानः, विह्वलतामुपयान्तीत्यग्रिमेणास्य सम्बन्धः। श्रमवशेन दूरोड्डयनादि-प्रयासाधिक्येन शिथिलं श्लथं यत् शकुनेः मयूरादिपक्षिणः गलपुटं कण्ठदेशः तद्वत् चपलाभिः चञ्चलाभिः,
ऐसी यह दुराचारिणी, अदृष्टवश किसी प्रकार से राजाओं का परिग्रह कर भी ले तो वे व्याकुल होकर किसी कामके नहीं रहते और सब दुराचार परायण हो जाते हैं। क्योंकि अभिषेक के समय ही उनकी सब चतुरता मानो माङ्गल्य कलशों के जलसे धुल जाती है। अभिषेकाङ्ग होमके धूएँसे मानो उनके हृदय मलिन हो जाते हैं। पुरोहितोंकी कुशाग्ररूप मार्जनी (झाडू) से मानो उनके क्षमागुण दूर फेंक दिये जाते हैं। रेशमी कपड़े की पगड़ीके बाँधनेसे मानो 'मै भी वृद्ध होऊँगा' इस प्रकारकी चिन्ताको ढँक देती है। प्रसारित छत्रसे ही मानो जन्मान्तरके प्रति दृष्टिज्ञानको रोक लगा देती है। चामरके वायुसे ही मानो सत्यवादिता को उड़ा देती है। बेंतकी छड़ियोंसे ही मानो दयादाक्षिण्यादि सब गुण बाहर निकाल दिये जाते हैं। जयध्वनिके कोलाहलसे ही मानो, उनके सौजन्यकी प्रशंसा नीचे फेंक दी जाती है। एवं ध्वजाल्ल विस्मृत पताकासे ही मानो यश पोंछ दिया जाता है। परिश्रमवश शिथिल हुए पक्षीके गलदेश (गर्दन) के समान एवं खद्योत (जुगनू) के प्रकाशके
१. दैवपरिगृहीताः।
२. विक्लवीभवन्ति।
३. चैषाम् एव चैतेषाम्।
४. नलिनीभवति।
५. बन्धनेने।
६. ॰पट्ट॰॰॰।
७. ॰वच्छाद्यने।
८. अपसार्य्यंते, अपवार्य्यते।
९. ॰कलकलारवैः।
१०. हचित्।
११. श्रमशिथिल॰॰॰।
१२. ॰गलपुट॰॰॰।
| ३२८ | कादम्बरी- | [ कथायाम्- |
|---|
मुहूर्त्त-मनोहराभिर्मनस्विजनगर्हिताभिः सम्पद्भिः प्रलोभ्यमानाः, धन-लवलाभावलेपविस्मृत-जन्मानोऽनेकदोपोपचितेन दुष्टासृजेव^१ रागावेशेन बाध्यमानाः, विविधविषय-ग्रास^२-लालसैः पञ्चभिरप्यनेक-सहस्रसंख्यैरिवेन्द्रियैरायास्यमानाः, प्रकृतिचञ्चलतया लब्धप्रसरेणै^३केनापि सहस्रतामिवोपगतेन मनसा आकुलीक्रियमाणा विह्वलतामुपयान्ति । ग्रहैरिव गृह्यन्ते, भूतैरिवाभिभूयन्ते, मन्त्रैरिवावेश्यन्ते, सत्त्वैरिवावष्टभ्यन्ते, वायुनेव विडम्ब्यन्ते, पिशाचैरिव ग्रस्यन्ते, मदनशरैर्मर्माहता इव^४ मुखभङ्गसहस्राणि कुर्वते, धनोष्मणा पच्यमाना इव विचे-
खद्योतो ज्योतिरिङ्गणः तस्य उन्मेषवत् प्रकाशवत् मुहूर्त्तं क्षणं मनोहराभिः, विनश्वरत्वात् किञ्चित् समय-मात्रचित्तहारिणीभिः, अत एव मनस्विनोजनाः ज्ञानिलोकाः तैः गर्हिताभिः निन्दिताभिः सम्पद्भिः धनादि-समृद्धिभिः, प्रलोभ्यमानाः लोभं प्राप्यमाणाः ।
इह द्वे लुप्तोपमे पदार्थहेतुककाव्यलिङ्गञ्चेत्येतेषां मिथोवैरपेक्ष्येण तिलतण्डुलवत्संसृष्टिः ।
धनलवेति । धनलवस्य अत्यल्पद्रव्यस्यापि लाभावलेपेन प्राप्तिगर्वेण विस्मृतानि विस्मरणं प्राप्तानि जन्मानि जनूंषि यैस्ते तादृशाः, अत्यल्पस्यापि द्रव्यस्य प्राप्तिगवेण 'के वयम्, केषामात्मजाः, कीदृगावस्था अभूम' इति स्मरणरहिता इत्यर्थः । एतद्धि दत्तकसुतपरम् । अनेकैर्नानाविधैः दोषैः वातपित्तकफविकारैः उपचितेन वृद्धिं गतेन दुष्टेन दूषितेन असृजा रक्तेन यथा पीड्यमाना भवन्ति तथा दोषैः कामक्रोधादिभिः प्रवृद्धेन रागावेशेन विषयाशक्तिरूपाभिनिवेशेन बाध्यमानाः अधरीक्रियमाणाः । पूर्णोपमा ।
विविधेति । विविधा अनेके ये विषयाः शब्दस्पर्शादयः तेषां ग्रासेषु ग्रहणेपु लालसैः लोलुपैः 'लोलुपो लोलुभो लोलो लम्पटो लालसोऽपि सः' इति रभसः। पञ्चभिः यथार्थतः पञ्चसङ्ख्यकैरपि विषयाधिक्यात् अनेकसहस्रसंख्यैरिव विद्यमानैः, इन्द्रियैः श्रोत्रत्वगादिज्ञानकरणैः वाक्पाण्यादिकर्मकरणैश्च आयास्यमानाः निजनिजशब्दस्पर्शादिविषयेषु निरन्तरगाढप्रवर्त्तनया परिखिद्यमानाः । गुणोत्प्रेक्षा ।
प्रकृतीति । तथा प्रकृत्या स्वभावेनैव चञ्चलतया चपलतया कारणेन, लब्धप्रसरेण प्राप्तावकाशेन विविधविषयव्याप्तेन, अतएव एकेनापि विद्यमानेन सहस्रतां सहस्रसंख्यत्वम् उपगतेन विषयाधिक्यात् प्राप्तेनेव मनसा चित्तेन आकुलीक्रियमाणाः व्यग्रीक्रियमाणाः सन्तः विह्वलतां चञ्चलताम् उपयान्ति उपगच्छन्ति । क्रियोत्प्रेक्षा ।
तस्मिन् समये च तेषां स्थितिं प्रदर्शयति-ग्रहैरित्यादिना । ग्रहैः शनैश्चरादिभिः गृह्यन्ते ध्रियन्त इव, प्रतिक्षणमनेकविधभावभङ्गीविधानादित्याशयः । एवमग्रेऽपि भावोऽवगन्तव्यः । भूतैः देवयोनिविशेषैः 'भूतोऽमी देवयोनय' इत्यमरः, अभिभूयन्ते आक्रम्यन्त इव । मन्त्रैः आथर्वणिकैः तान्त्रिकैर्वा आवेश्यन्ते कैश्चित्पुरुषैः स्वायत्ततां प्रवेश्यन्त इव वशीक्रियन्त इवेत्यर्थः । सत्त्वैः शार्दूलादिहिंसकप्राणिभिः अवष्टभ्यन्ते हठादवलम्ब्यन्त इव, कस्मिंश्चित्समये यातनाऽवगमादित्याशयः । वायुना वातव्याधिना विडम्ब्यन्ते विचार्यन्त इव । तथा पिशाचैः राक्षसैः ग्रस्यन्ते भक्ष्यन्त इव । अत्र सर्वत्र क्रियोत्प्रेक्षालङ्कारः ।
स्थित्यन्तराणि दर्शयति-मदनेत्यादिना । मदनशरैः कामवाणैः मर्माहता मर्मस्थलं ताडिताः मुखभङ्गसहस्राणि विविधप्रकारा मुखभङ्गीरित्यर्थः । कुर्वते विदधते । धनोष्मणा धनाभिमानोत्पन्नसन्तापेन
समान क्षणभरके लिए देखनेमें सुन्दर, अतएव ज्ञानियों द्वारा निन्दा की गई सम्पत्तिसे कोई-कोई राजा लुब्ध हो जाते हैं। वे सामान्य धन-लाभ के अहङ्कार से अपने-अपने जन्म-समय के वृत्तान्त को भूल जाते हैं; वात-पित्त-कफसे दूषित रक्तके समान कामक्रोधादि दोषोंसे वृद्धि-प्राप्त विषयासक्तिमें यातना भोग करने रहते हैं । शब्द-स्पर्शादि अनेक प्रकार के विषयों के रसका आस्वादन करने के अभिलाषी एवं पञ्चसङ्ख्यक होने पर भी विषय बाहुल्यसे मानो अनेक सहस्रसंख्या प्राप्त किए हुए इन्द्रियोंसे दुःख भोग करते रहते हैं और मन स्वभावतः चञ्चल होनेके कारण अवकाश मिलनेसे अनेक विषय में दौड़ता रहता है । अत एव एक होने पर भी मानो सहस्र संख्या प्राप्त हुए उक्त मनसे राजा लोग आकुल कर एक ही बारमें विह्वल हो जाते हैं। उस समय पूतनाप्रभृति कोई-कोई ग्रह आकर मानो उन लोगोंको घेर लेते हैं । भूत मानो उन पर प्रभाव डालते हैं। किसी-किसी मन्त्र-शक्तिसे ही मानो उन लोगों को वश कर लेते हैं । विकराल प्राणी (हिंसक जन्तु) मानो हठसे उनको पकड़ लेते हैं । वायुरोग से ही मानो वे विचलित किए जाते हैं। पिशाच मानो उनका ग्रास करते हैं और कामके बाणोंसे मर्माहत होकर ही मानो वे हजारों मुख-विकार करते रहते हैं। धनके अहङ्काराग्निमें पच्यमान होकर ही मानो
१. दोषासृजेव । २. विषयरसग्रास...। ३. ...प्रसारेण । ४. ...अभिहता इव ।
शुकनासोपदेशवर्णनम् ३५ ] चन्द्रकला-विद्योतिनीसहिता । ३२६
ट्ठन्ते, गाढप्रहाराहता इव अङ्गानि न धारयन्ति, कुलीरा इव तिर्यक् परिभ्रमन्ति, अधर्म-भग्नगतयः पङ्गव इव परेण सञ्चार्यन्ते, मृषावाद-विष-विपाक-सञ्जात-मुखरोगा इवातिकृच्छ्रेण जल्पन्ति, सप्तच्छद-तरव इव कुसुम-रजोविकारैरासन्नवर्तिनां शिरःशूलमुत्पादयन्ति, आसन्नमृत्यव इव बन्धुजनम् अपि नाभिज्ञानन्ति, उत्कुपित-लोचना इव तेजस्विनो नेक्षन्ते,
चेष्टमानाः पादविक्षेपरीत्यात्मिकां विचेष्टन्ते निष्पन्दविस्पन्दनाद्यनेकव्यापारान् कुर्वन्त इव मर्जनपात्र-गतघृतादिविचालनः। गाढशरेण पश्चादेर्गाढप्रपातेन आहता इव ताडिता इव अङ्गानि हस्तपादादीनि न धारयन्ति स्वयं न वहन्ति । इहापि प्रतिवाक्ये पूर्वोक्त एवालङ्कारः ।
कुलीरा इति । कुलीराः कर्कटा इव तिर्यक् कुटिलं परिभ्रमन्ति विचरन्ति सर्वैः सह कौटिल्यं व्यवहरन्तीत्यर्थः । पूर्णोपमा ।
अधर्मेति । अधर्मेण दुष्कृतेन भग्ना विनष्टा गतिः विधेयमार्गे गमनं येषां ते तादृशाः, अन्यत्र तु पापेन विनष्टगमनसामर्थ्याः, अत एव पद्भ्यां न गच्छन्ति भ्रमन्तीति पङ्गवः त इव, परेण सचिवादिना सञ्चार्यन्ते उपदेशादिना विधेयमार्गे नीयन्ते, अन्यत्र तु परेण बन्धुवर्गेण सञ्चार्यन्ते करग्रहणादिना गमनं कार्यन्ते ।
इदं पूर्णोपमा, सा च पदार्थहेतुकेन काव्यलिङ्गालङ्कारेण सङ्कीर्णा ।
मृषेति । मृषावादा असत्यभाषणादि एव विषाणि गरलाः तेषां विपाकेन विकारेण सञ्जातः समुत्पन्नो मुखरोगो वदनव्याधिः येषां ते तथोक्ता इव सन्तः, अतिकृच्छ्रेण महता क्लेशेन जल्पन्ति प्रलपन्ति । प्रायेण गर्वदाम्भिकान्येव विटन्ति यदि कस्मिंश्चित्समये निर्बन्धातिशयेन जल्पन्ति तदपि प्रलापप्रायमेवेत्याशयः ।
इह 'मृषावादे'त्यत्र निरङ्गकेवलरूपकमलङ्कारः तेन च सङ्कीर्णा क्रियोत्प्रेक्षा ।
सप्तच्छदेति । सप्तच्छदतरवः सप्तपर्णद्रुमा इव, कुसुमानि नेत्ररागाः लवडेलताश्चोक्तनयनभङ्गीविशेषा एव रजोविकाराः रजोगुणपरिणामाः तैः तादृशैः, आसन्नवर्तिनो निकटस्थायिनो जनाः तेषां शिरःशूलं तज्जन्मशिरोऽभिमिव क्लेशमुत्पादयन्ति जनयन्ति, अन्यत्र तु कुसुमस्पवां पुष्पपरागणां विकारैः तत्सम्पर्कोद्भवपवनप्रकोपैरित्यर्थः। 'शिरःशूलं शिरोवेदनाम् उत्पादयन्ति जनयन्ति । सप्तच्छदपुष्परजस्पर्र्शाद्विद्वद्वेन मस्तकवेदना समुत्पद्यत इति वैद्यके विदितत्वात् । 'कुसुमं स्त्रीरजोनेत्ररोगयोः फलपुष्पयोः' इति मेदिनी ।
आसन्नेति । आसन्नः समीपवर्ती मृत्युः प्राणवियोगः येषां ते तादृशा जना इव, बन्धुजनमपि स्वजनमपि नाभिज्ञानन्ति न परिचिन्वन्ति, एकत्रादृष्टाराद् अन्यत्र बुद्धिलोपादित्याशयः ।
उत्कुपितेति । उत्कुपिते रुग्णे लोचने नयने येषां ते तादृशा जना इव, तेजस्विनाः प्रतापावतो जनान् नेक्षन्ते ईर्ष्याया न पश्यन्ति, अन्यत्र तु तेजस्विनो दिवसादिरप्रभृतीन् नेक्षन्ते लोचनप्रतिघातान्न निरीक्षितुं शक्नुवन्ति ।
कृतेति । कालेन महाविषसुहृदेन दष्टा विवशा लोका इव, महान्त्रैरपि पाठगुण्यविषयकोत्तम-विचारणानिमिरपि न प्रतिबुध्यन्ते बुद्धिवैगुण्यान्न विवेकमनुतानन्ति, अन्यत्र तु महामन्त्रैरपि गारुडमन्त्रैरपि विषवैज्ञाननाभिभवैः प्रतिबुध्यन्ते ज्ञानं प्राप्नुवन्ति ।
अनेक प्रकार रूप-रचना प्राप्त होते हैं; काष्ठ (खम्भे) के समान नडोले तथा दृष्टिहकन्चे चलने रहते हैं; अधर्मके कारण कर्त्तव्य मार्ग चलने की वृत्ति नष्ट हो गयी है, अत एव लँगड़े समान अन्य दूसरेके सहारेसे चलते रहते हैं; असत्यवादिन रूप विषके विकारसे मुखरोग उक्त होकर ही मानों वे अत्यन्त कष्टसे बोलते रहते हैं; सप्तपर्ण वृक्ष जिस प्रकार फूलों के परागके संसर्गरूपी लोगोंको शिरोशूल (माथेमें दर्द) उत्पन्न करता है, ये लोग भी उसी प्रकार स्त्रीगुणके उत्पन्न अज्ञानरूप नेत्रभङ्गी द्वारा (आँखके इशारेसे) समीपमें बैठने वाले लोगोंको दुःख दिया करते हैं; ममुई व्यक्ति (जिसका मृत्यु आने काहे) के समान ये लोग बन्धुजनोंको भी नहीं पहचानते हैं; आँख उठने पर लोग जिस प्रकार किसी तेजस्वी (कान्तिवाले) पदार्थके प्रति दृष्टिपात करनेमें समर्थ नहीं होते हैं, वे लोग भी उसी प्रकार ईर्ष्यावश तेजस्वी लोगोंके प्रति दृष्टिपात नहीं करते हैं; कालसर्पके काट
१. 'प्रतिबुध्यन्त इव' । २. 'मृषावादविषविपाक... ' । ३. 'रासन्नवर्त्तिनां ।' ४. 'दूरदर्शिनो नेक्षन्ते' । ५. 'कुसुमितपराग...' ।
२१ का०
| ३३० | कादम्बरी- | [ कथायाम्- |
|---|
कालदष्टा इव महामन्त्रैरपिन प्रतिबुध्यन्ते, जातुषाभरणानीव¹ सोष्माणं न सहन्ते, दुष्टवारणा इव महामानस्तम्भनिश्चलीकृताः न गृह्णन्त्युपदेशम् . तृष्णाविषमूर्च्छिताः³ कनकमयमित्र सर्वं पश्यन्ति, इपव इवं पानवृद्धितैक्ष्णयाः परप्रेरिता विनाशयन्ति, दूरस्थितान्यपि फलानीव दण्डविक्षेपैर्महाकुलानि शातयन्ति, अकालकुसुमप्रसवा इव मनोहराकृतयोऽपि लोकविनाशहेतवः, श्मशानाग्नय इवातिरौद्रभूमयः, तैमिरिका इवादूरदर्शिनः, उपसृष्टा इव क्षुद्राधिष्ठित-
जातुषेति । जतुषा लाक्षया रचितानीति जातुषाणि आभरणानि आभूषणानीव, सोष्माणं प्रतापवन्तं जनम् अग्निञ्च न सहन्ते न स्पृशन्ति । एकत्रेर्ष्यावशादन्यत्र संस्त्रवादित्याशयः ।
दुष्टेति । दुष्टा अशिक्षिता ये वारणा हस्तिनः त इव, महता उत्कृष्ठेन मानेन अभिमानेन यः स्तम्भः स्तब्धता तेन निश्चलीकृताः स्थिरीकृताः सन्तः, अन्यत्र तु महत् दीर्घं मानं प्रमाणं यस्य तयोक्तो यः स्तम्भः आलाानस्तम्भः तेन तद्बन्धनेन निश्चलीकृताः स्थिरीकृताः सन्तः, उपदेशं शिक्षां हस्तिपक्वाक्यं न गृह्णन्ति नाददते अवगणयन्तीत्यर्थः ।
तृष्णेति । तृष्णा धनलिप्सा सैव विषं गरल तेन मूर्च्छिताः मोहं प्राप्ताः सन्तः, सर्वं पदार्थ कनक-मंयमिव द्रव्यमयमिव पश्यन्ति अवलोकयन्ति, सततं तच्चिन्तावशादित्याशयः ।
इपव इति । इषवो बाणा इव, पोनेन सुरासेवनेन वर्द्धितं तैष्ण्यम् उग्रता येषां ते तादृशाः, परेणान्येन प्रेरिताः उत्साहं प्रापिताः सन्तः, विनाशयन्ति प्रजादीन् , अन्यत्र तु पानेन निशातप्रस्तरघर्षणेन वर्द्धितं तैच्ण्यं प्रहारशक्तिः सुधारत्वमित्यर्थः, येषां ते तादृशाः, तथा परेण धनुषा कार्मुकेन प्रेरिताः सन्तो विनाशयन्ति लक्ष्यागीति शेषः।
दूरेति । दण्डविक्षेपैः यष्टिनिक्षेपैः दूरस्थितान्यपि दविष्ठदेशस्थायीम्यपि फलानि आम्रादीनीव, दण्डविक्षेपैः सामदामदण्डभेदा इति तृतीयोपायप्रयोगैः दूरस्थितान्यपि महाकुलानि प्रशस्तवंशान् शातयन्ति नाशयन्ति पातयन्ति च । उपायान्तरस्य विद्यमानत्वे दण्डप्रयोगस्यानुचितत्वमित्याशयः ।
अकालेति । अकाले असमये कुसुमप्रसवाः पुष्पोद्गमा इव, सुन्दरस्वरूपाः सन्तोऽपि, लोकविनाशस्य जनक्षयस्य हेतवो दण्डप्रयोगात् कारणानि, अन्यत्र तु लोकविनाशद्योतककारणानि । तथा च प्रमाणम्—
'द्रुमौषधिविशेषाणामकाले कुसुमोगमः । फलप्रसवयोर्धन्धं महोत्पातं विदुर्बुधाः ।
श्मशानेति । श्मशानाग्नयः प्रेतचयनद्वय इव, अतिरौद्राः अन्येषामत्यन्तभीषणा भूत्तयः सम्पदौ भस्मानि च येषां ते तादृशाः । 'भूतिर्भस्मनि सम्पत्तिहस्तिशृङ्गारयोः स्त्रियाम्' इति मेदिनी ।
तैमीति । तिमिरेण तत्संज्ञकेन नेत्ररोगेण संसृष्टा इति तैमिरिकाः त इव, अदूरदर्शिनः भाविदोषा-नवलोकितः दूरस्थितवस्तुवलोकनाससमर्थाश्च ।
उपेति । उपसृष्टा ननिसंलग्ना गणिका इव, क्षुद्रैः नीचजनैः अधिष्ठितम् आश्रितं भवनं गृहं येषां ते
लिए जानेपर लोग जिस प्रकार विषवैद्य (ओझा) के उत्कृष्ट मन्त्रोंमें भी चैतन्यता प्राप्त नहीं करते हैं, वे लोग भी उसी प्रकार उत्कृष्ट मन्त्रणाओं (सलाह) ते भी अपने कर्तव्यको समझनेमें समर्थ नहीं होते हैं; लाक्षानिमित आभूषणके समान दूसरेके प्रताप (पक्षान्तरमें-अग्नेके उत्ताप) को सहन करनेमें समर्थ नहीं होते हैं; अशिक्षित हाथी जिस प्रकार बड़े परिमाणके बन्धनस्तम्भमें निश्चल किए जानेपर भी हस्तिपक (महावत) की शिक्षाको ग्रहण नहीं करता है, वे लोग भी उसी प्रकार अत्यन्त अहङ्कारसे स्तब्धतावश निस्पन्द रहकर किसीका भी उपदेश ग्रहण नहीं करते हैं; धनलालसारूप विषवेगसे विभ्रान्त होकर संसारकी सब वस्तुओंको ही मानो धनमय देखते हैं, शान चढ़ानेवाले प्रस्तरके घर्षणसे सुधार (तीखे) बाण जिस प्रकार धनुप द्वारा छोड़े जानेपर लक्ष्य पदार्थको विनष्ट करता है, वे लोग भी उसी प्रकार मद्य-मानसे उग्र स्वरूप बढ़ जानेके कारण एवं दूसरेको खुश करनेके लिए प्रजाओंको विनष्ट करते हैं; मनुष्य जिस प्रकार डंडेको फेंककर दूर रहने पर भी बड़े-बड़े फलोंको तोड़ डालते हैं, वे लोग भी उसी प्रकार दण्डप्रयोग (जुरमाना) कर दूर स्थित होनेपर भी सत्कुलोत्पन्न लोगोंको विनष्ट करते हैं, असामयिक पुष्पका विकास जिस प्रकार सुन्दर होनेपर भी लोगोंके विनाशका सूचक होते हैं, वे लोग भी उसी प्रकार मनोहर आकारवाले होनेपर भी लोगोंके विनाशका कारण बने रहते हैं; श्मशानस्य
१. जातुषा इव । २. महालान, महालान कृता अपि न । ३. अतितृष्णाविषवेगमूर्च्छिता । ४. अन्ययः, अनयः, असवः । ५. ॰॰॰पारुण्याः ।
शुकनासोपदेश० ३५ ] चन्द्रकला-विद्योतिनीसहिता । ३३१
भवनाः, श्रूयमाणा अपि प्रेतपटहा इवोद्वेजयन्ति, चिन्त्यमाना अपि महापातकाध्यवसाया इवोपद्रवमुपजनयन्ति, अनुदिवसमापूर्यमाणाः पापेनेवाध्मातमूर्त्तयो भवन्ति, तदवस्थाश्च व्यसनशतशरव्यतामुपगताः वल्मीकतृणाग्रावस्थिता जलविन्दव इव पतितमप्यात्मानं नावगच्छन्ति ।
अपरे तु स्वार्थनिष्पादनपरैर्धन-पिशित-ग्रास-गृध्रैरास्थाननलिनीवकैः, द्यूतं विनोद-
तादृशाः, अन्यत्र तु क्षुद्रैः विटैः अधिष्ठितं भवनं यासां ताः तादृश्यः । 'उपसृष्टं मैथुनं स्यात्' इति त्रिकाण्डशेषः ।
श्रयेति । श्रयमाणा आकर्ण्यमानसंज्ञा अपि, अवलोकनादौ का कथा, इति भावः । प्रेतपटहा इव मृतशरीरसामयिककैङ्काहाश्वा इव उद्वेजयन्ति उद्वेगं जनयन्ति । मृतशरीराणां पुरस्ताद् पटहा वाद्यन्त इति देशविशेषव्यवहारः ।
चिन्त्येति । संयोगादौ का कथा चिन्त्यमाना अपि चेतसि स्मर्यमाणा अपीत्यर्थः, महापातकादीनां ब्रह्महत्यादीनाम् अध्यवसाया उद्योगा इव, उपद्रवं चित्तस्याशान्तिम् उपजनयन्ति निष्पादयन्ति । न केवलं महापातकानि कृतान्येव चित्ताशान्ति जनयन्ति अपि तु तदुद्योगा अपीति 'चिन्त्यमाना अपि' इत्यस्य सादृश्यद्योतनार्थमध्यवसायपदमिति कुशला विभावयन्ति । मनुना च महापातकसङ्गणमेवमुक्तम्-
'ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः । महान्ति पातकान्याहुः संसर्गश्चापि तैः सह ॥'
इह 'ससत्त्वद्वतरव इव' इत्यारभ्य 'चिन्त्यमाना अपि महापातकाध्यवसाया इव' इत्यन्तं यावत् सर्वत्र पूर्णोपमालङ्कारः । केवलं 'तृष्णाविषमूर्च्छिताः कनकमयमिव' इत्यत्र निरङ्गकेवलंरूपकम्, गुणो- त्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
अन्विति । अनुदिवसं प्रतिदिनं पापेन अधर्मेण आपूर्यमाणा म्रियमाणा इव आध्मातमूर्त्तयः स्फीत- शरीरा भवन्ति भूपतयः । क्रियोत्प्रेक्षा ।
एवं च सति किं भवेदित्यत आह—तदीति । किञ्चेति चार्थः । ताः पूर्वोक्तरूपा अवस्था येषां ते तादृशाः, व्यसनशतस्य कामक्रोधोत्पन्नदोषजालस्य शरव्यं लक्ष्यं तस्य भावः तत्त्वम् आश्रयत्वञ्च उपगताः प्राप्ताः सन्तः, वल्मीकं कीटविशेषेण निस्सारितमृत्तिकाराशिः तत्र, तृणाग्रावस्थिता उत्पन्नतृणादिप्रान्त- विद्यमानाः जलविन्दव इव, पतितं स्वधर्मच्युतं पृथिव्यां परिनष्टं चापि आत्मानं स्वं नावगच्छन्ति पाति- त्येन युक्ततया नावबुध्यन्ते, एकत्र मोहादन्यत्र शुष्कत्वादित्याशयः । उपमा । व्यसनान्युक्तानि मनुना-
'मृगयाक्षो दिवास्वप्नः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाट्या च कामजो दशको गणः ॥ पैशुन्यं साहस द्रोह ईर्ष्यासूयार्थदूषणम् । वाग्दण्डजञ्च पारुष्यं क्रोधजोऽपि गणोऽष्टकः ॥'
अपर इति । अपरे अन्ये तु राजानोऽप्रेतनरूपेण दोषानपि गुणपक्षमध्यारोपयद्भिर्धूर्तः स्तुतिभिः प्रतार्यमाणाः सर्वजनस्योपहास्यतामुपयान्तीति दूरेण सम्बन्धः । धूर्त्तविशेषणानि प्रथमं प्रदर्शयति- स्वार्थेति । स्वस्यात्मनो योऽर्थः प्रयोजनं तस्य निष्पादनं करणं तत्परैः, तदर्थमेव वञ्चनोद्योगिभिरित्याशयः । धनानि द्रव्याण्येव पिशितानि मांसानि तेषां ग्रासे ग्रहणे गृध्रैः दूरदृग्भिः पक्षिविशेषैः । आस्थानं नृपो- पवेशनस्थलमेव नलिनी मनोहरत्वात्स्नानावर्त्तत्वाच्च कमलिनी तस्या वकैः पक्षिविशेषैः । धूर्त्तवकपक्षिणो
अग्निका भस्म जिस प्रकार अत्यन्त भयङ्कर होता है, उन लोगोंकी सम्पत्ति भी उसी प्रकार अत्यन्त भयङ्कर होती है; नेत्ररोग उत्पन्न होनेपर लोग जिस प्रकार दूरकी चीजको नहीं देख पाते हैं, वे लोग भी उसी प्रकार परिणामको नहीं देख पाते हैं; वेश्याओंके गृह जिस प्रकार कामुक लोगोंसे युक्त होते हैं, उन लोगोंके गृह भी उसी प्रकार नीच जनोंसे युक्त होते हैं; मृतव्यक्तियोंके दाहकालीन डङ्काशब्दके समान उनके नाम सुन लिए जांय तो उद्वेग उत्पन्न करते हैं; ब्रह्महत्यादि महापातकोंका अनुष्ठान करनेके उद्योगके समान उनका ध्यान करनेसे भी मनमें अशान्ति उत्पन्न होती है; वे प्रतिदिन पापसे परिपूर्ण रहकर ही मानो प्लीहोदर हो (फूल) जाते हैं; और ऐसी दशामें वे, काम और क्रोध जनित अनेकविध दोषोंके आश्रय होकर वल्मीकके ऊपरके तृण के अग्रभाग पर पड़ी हुई जलकी बूंदोंके समान पतित (भूमिभ्रष्टा) होनेपर भी अपनेको पतित (स्वधर्मच्युत) नहीं समझ पाते हैं।
दूसरे ऐसे अनेक राजा हैं, जिनकी सभामें, स्वार्थसम्पादनपरत, धनरूपी मांसका ग्रास करनेमें गृध्रस्वरूप
१. "शरव्यता" । २. "...स्थिताः । ३. "...पूर्त्तवकैः ।
३३२ | कादम्बरी- | [ कथायाम्-
इति, परदारामिगमनं वैदग्ध्यमिति, मृगया^१ श्रम इति, पानं विलास इति, प्रमत्तता^२ शौर्यमिति, स्वदारपरित्यागः^३ ऽव्यसनितेति, गुरुवचनावधीरणमपरप्रणेयत्वमिति, अजितभृत्यतं^४ सुखोपसेव्यत्वमिति, नृत्यै-गीत-वाद्य-वेश्याभिसक्तिः^६ रसिकतेति,^७ महापराधामनाकर्षणं^८ महानुभावतेति, परिभवसहत्वं^९ क्षमेति, स्वच्छन्दता^१० प्रभुत्वमिति, देवावमाननं महासत्त्वतेति, वन्दिजनख्यातिः^११ यश इति, तरलता^१२ उत्साह इति, अविशेषज्ञता^१३ अपक्षपातित्वमिति,
यथा नलिनीमवलम्ब्य तत्पत्राच्छादितशरीरा मीनान् वञ्चयन्तः झटिति चञ्चुपुटेन गृह्णन्ति, तथा धूर्तलोका अपि भूपतिमवलम्ब्य परान् वञ्चयन्तः तदीयद्रव्यं गृह्णन्तीत्याशयः। इहोभयत्रापि परम्परितरूपकमलङ्कारः।
दोषाणां गुणपक्षेप्वध्यारोपणं प्रदर्शयति—द्यूतमित्यादि। द्यूतं दुरोदरं क्रीडादि, विनोदकरणव्यापारः इति प्रतिपादनेन। परमार्थतस्तु द्यूतं दोष एवेत्याशयः। परदाराः परस्त्रियः तेषाम् अभिगमनं सम्भोगो वैदग्ध्यं चातुर्यम्। परमार्थतस्तु परस्त्रीसेवनं पापोत्पादकत्वादुःखकरश्चेत्याशयः। मृगया आखेटः श्रमो व्यायामः। हिंसात्मजत्वात् प्राणघातसम्भवाच्चाखेटो महान् दोष इत्यभिप्रायः। पानं मद्यसेवनं विलासो भोगविशेषः। परमार्थतस्तु मद्यसेवनं महापातकमित्याशयः। प्रमत्तता अनवध्यानता सचिवादिनां विरुद्धव्यापारेऽपि तदनवलोकितेत्यर्थः, शौर्यम् उद्वेगाभावात् सुभटकृत्यम्। परमार्थतस्तु सा स्वविनाशविधायको महान् दोष इति भावः। स्वदारपरित्यागो निजस्त्रीत्यजनम् अव्यसनिता अनासक्तिः, वस्तुतस्तु स महापापप्रदायक एवेति भावः। गुरुवचनस्य गुरुवाक्यस्य अवधीरणम् अवहेलनमतिक्रमणम्, अपरप्रणेयत्वं स्वायत्तताप्रकटनादनन्यवश्यत्वम्। वस्तुतस्तु हितावधीरणा महान् दोषः। अजितभृत्यता सेवकानां स्वाधीनता सुखोपसेव्यत्वं यदृच्छया व्यवहारसम्भवादनयासात्सेवायोग्यत्वम्, परमार्थतस्तु सा विशेषकृत्युत्पादिकैव। नृत्यं नाट्यम्, गीतं गानम्, वाद्यनातोद्यम्, वेश्या गणिकाः तासु अभिषक्तिः बुद्ध्यहङ्कृचित्तता रसिकता तत्तद्रसग्राहित्वं गुण एवेति तेषामाशयः। वस्तुतस्तु कामजदोष एव।
महतो विशालस्य अपराधस्य अनाकर्षणम् अक्षमत्वं महानुभावता 'सत्किञ्चित्करमिदम्' इत्युपेक्षयावशन्महाप्रभावशालित्वपरिचयः। वस्तुतस्त्वयमविचारो दोष एव। परिभवसहत्वम् अन्यकृततिरस्कारसहनशीलत्वं क्षमा तितिक्षा गुणः। वस्तुतस्तु जडत्वमेव। स्वच्छन्दता निरवग्रहता स्वेच्छाभ्रमणकारित्वम्, प्रभुत्वं स्वतन्त्रत्वम्। वस्तुतस्तु सा निष्कारणान्यानर्थोत्पादकतया महान् दोष एव। देवानां विष्ण्वादीनाम् अवमाननम् अवहेलनम्, महासत्त्वता तेषामपि तुच्छत्वज्ञानान्महाशक्तिकः। वस्तुतस्तु बुद्धिरहितता। वन्दिजनख्यातिः स्तुतिपाठकविहितप्रशंसैव यशः कीर्त्तिः। परमार्थतस्तु सा केवलं वेतनदानफलमित्याशयः। तरलता समस्तकर्त्तव्येषु चाञ्चल्यम्, उत्साहः। वस्तुतस्तु कार्यविनाशकरमगाधत्वं दोष एव। अविशेषज्ञता सदसद्विचारणम् अपक्षपातित्वम् अपराधिनेोऽपि दोषपर्यालोचनात्तुल्यवृत्तित्वं गुणः। - वस्तुतस्तु अपराधिनेोऽपि अवमानासम्भवाद् गुणिनेोऽपि च पारितोषिकासम्भवादज्ञतैव सेत्याशयः।
एवं समानान्तररूप नलिनीमें बक (बगुला) पहिरकर और चपेटमें हुए कितने ही धूर्तजन रहते हैं जो राजाओंको इस प्रकार समझाया करते हैं कि—'जुआ खेलना विनोद है, परस्त्रीका गमन चतुरता है, शिकार खेलना व्यायाम (कसरत) है, मद्य-पान करना विलासिता है, किसी विषयमें ही सावधानतावश स्वलम्बन नहीं करना वीरता है, अपनी धर्मपत्नीको छोड़ देना अनासक्ति है, गुरुके उपदेशको ग्रहण नहीं करना स्वाधीनता है, सेवक जनोंको जो स्वाधीन रहने (मनमानी) करते हैं उनको कष्ट न देना सुखपूर्वक शुश्रूषा (सेवा) है, नाचना, गाना, बजाना और वेश्याओंमें आसक्त रहना रसिकता है, बड़े-बड़े अपराधोंको नहीं ढूँढना (अर्थात् उन पर ध्यान नहीं देना) महानुभावताका परिचय है, दूसरोंका अपमान सहन करना क्षमा है, स्वेच्छाचारिता प्रभुत्व है, देवताओंका तिरस्कार करना (कुछ न गिनना) महाकल्याणिकका परिचय है, वन्दीजनोंसे की गई प्रशंसा ही यश है, मनकी चंचलता उत्साह है, एवं दुष्कर्ममें वादोंको पर्यालोचन न करना (भले बुरेमें भेद
१. मृगयां। २. प्रमत्ततां। ३. परित्यागं, परित्यागेषु। ४. ....भृत्यदान् । ५. नृत्य...। ६. अभिषक्तिः।
७. रसिकतामिति। ८. महापराध...कर्शनं, महापराधमनाकर्षणम्। ९. परिभवसहत्वं, पराभवसत्वं।
१०. स्वच्छन्दतां। ११. ख्यातिं। १२. तरलताम्। १३. अविशेषज्ञताम्।
शुकालोपदेशवर्णनम् ३५ ] चन्द्रकला-विद्योतिनीसहिता । ३३३
दोषानपि गुणपक्षमध्यारोपयद्भिरन्तः स्वयमपि विहसद्भिः प्रतारणकुशलैर्धूर्तैरमानुषोचिताभिः स्तुतिभिः प्रतार्यमाणा वित्तमदमत्तचित्ता निश्चेतनतया तथैवेत्यन्यारोपितालीकाभिमानां मर्त्यधर्म्माणोऽपि दिव्यांशावतीर्णमिव सदैवतमिवातिमानुषम् आत्मानमुत्प्रेक्षमाणाः प्रारब्धदिव्योचितचेष्टानुभावाः सर्वजनस्योपहास्यतामुपयान्ति । आत्मविडम्बनाञ्चानुजीविना जनेन क्रियमाणमभिनन्दन्ति । मनसा देवताध्यारोपणप्रतारणो सम्भूत सम्भावनोपहताश्चान्तःप्रविष्टपरभुजद्वयमिवान्मनबाहुयुगलं सम्भावयन्ति । त्वगन्तरिततृतीयलोचनं स्वललाट-
दोषानिति । दोषान् अपराधानपि गुणपक्षं गुणपंक्तावन्तर्भावम् आरोपयद्भिः प्रशंसद्भिरित्यर्थः । अन्तः अन्तःकरणेषु स्वयमपि आत्मनापि विहसद्भिः हास्यं कुर्वद्भिः तान् राज्ञ इति शेषः, अप्रतिहतेन लघुकार्यमनाङ्गीकरणादत्यन्ताज्ञत्वबोधेनेत्याशयः । प्रतारणकुशलैः वञ्चनाचतुरैः धूर्त्तैः विप्रतारकैः पुरुषैः, अमानुषोचिताभिः देवतायोग्याभिः स्तुतिभिः प्रशंसाभिः प्रतार्यमाणा वञ्च्यमानाः । वित्तमदेन धनाभिमानेन मत्तानि चित्तानि हृदयानि येषां ते तादृशाः, निश्चेतनतया निर्ज्ञानतया कारणेन, तथैव 'एते यथा शंसंस्ते तादृशाः, मर्त्यस्य मरणशीलस्य मनुष्यस्यैव धर्मा व्याधिजरामरणप्रभृतयो येषां ते तथोक्ताः सन्तोऽपि, आत्मानं स्वीयम्, दिव्यस्य अलौकिकस्य देवस्य अंशेन भागेन अवतीर्णमिव उत्पन्नमिव, अत एव सदैवतमिब देवाश्रितमिव । अतिमानुषं मानवमतिक्रान्तम् , उत्प्रेक्षमाणाः सम्भावयन्तः, अत एव प्रारब्धा अवलोकयितुमुपक्रान्ताः दिव्योचिताः स्वर्गीयोपयोगाः चेष्टाः सङ्कल्पनमात्रेण सागरलङ्घनादिव्यापारा अनुभावाः शापमात्रेण रिपुमरणादिप्रभावाः यैः ते तादृशाः, अत एव सर्वजनस्य समस्तलोकस्य उपहास्यताम् उपहासयोग्यताम् उपयान्ति प्राप्नुवन्ति ।
इह 'अवतीर्णमिव' इत्यत्र क्रियोत्प्रेक्षा, 'सदैवतम्' इत्यत्र गुणोत्प्रेक्षालङ्कारः ।
आत्मनेति । किञ्चेति चार्थः । अनुजीविना जनेन सेवकपुरुषेण क्रियमाणां विधीयमानाम् आत्मविडम्बनां स्वस्मिन्नविद्यमानगुणरोपणरूपां वञ्चनाम् अभिनन्दन्ति साधुवादेन सादरं प्रशंसन्ति ।
मनसेति । देवताध्यारोपणं धूर्त्तः स्वस्मिन् हरिहराद्यारोपगमेव प्रतारणा वञ्चना तया सम्भूता सञ्जाता या सम्भावना स्वस्मिन् हरिहरत्वादिरूमनं तया उपहता विनाशितमतयः सन्तः, मनसा चेतसा आत्मबाहुयुगलं स्वकीयभुजयुगम्, अन्तःप्रविष्टम् अभ्यन्तरगतत्वेनालक्ष्यम् अपरम् अन्यं भुजद्वयं बाहुयुगलं यस्य तस्य तत् तथोक्तमिव सम्भावयन्ति मन्यन्ते ।
इह बाहुयुगलस्यान्तः प्रवेशोत्प्रेक्षणात् क्रियोत्प्रेक्षा, तेन च स्वस्य विष्णुत्वं व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः । किञ्चात्र 'भुजद्वयम्' इति 'बाहुयुगलम्' इति समानार्थकपर्यायशव्दप्रयोगाद् भग्नप्रक्रमत्वं दोषः समापतति, स च 'आत्मबाहुयुगलमन्तःप्रविष्टद्वयम्' इति पाठं विधाय समुद्धरणीयः ।
त्वगिति । स्वललाटं निजभालं त्वचा चर्मणा अन्तरितम् आच्छादितं तृतीयं त्रिपमं लोचनं नयनं
न जानना) नासमझता है' इस प्रकार प्रतारणनिपुण धूर्त्तलोग दोषोंको भी गुणोंकी श्रेणीमें आरोप करते हैं, किन्तु मनमें अपनेसे भी उपहास करते हैं और देवताके उपयुक्त स्तुति (मनुष्योंके अयोग्य खुशामद) करके राजाओंको प्रतारणा करने (ठगने) रहते हैं। एक ही धनके अहङ्कार से उन्मत्त होकर उन लोगोंकी इस प्रकारकी स्तुतिसे चेतनाविहीन हो जाते हैं, अतः एव 'ये लोग जैसे बोलते हैं, ठीक मैं उसी प्रकारका हूं' इसतरह वे. इन सबोंको यथार्थ समझकर मिथ्या अभिमानका आरोप करते हैं, मनुष्य होनेपर भी अपनेको मानो देवताके अंशसे अवतीर्ण अथवा जिन्में देवता द्वारा अधिष्ठित, अतः एव देवता मानकर दिव्य पुरुषोंके उपयुक्त काम करके अपना माहात्म्य दिखते हैं, जिससे सब लोगोंके उपहासास्पद बन जाते हैं और अनुचरगण उनकी विडम्बना करें तो उसका भी वे अभिनन्दन करते हैं। अपने मनमें देवत्वसंस्थापनरूप मिथ्या विचारसे ठगाये जानेके कारण जो धारणा उत्पन्न होती है, उसीसे ही बुद्धि विनष्ट हो जाती है अनन्तर 'मेरे दो भुजाओंके अन्दरमें दो भुजाएं और छिपकर घुसे हुए हैं' ऐसा समझकर वे, मानो अपनेको विष्णुके समान मानते रहते हैं। एवं 'अपने ललाटमें और एक तीसरा नेत्र त्वचासे ढका हुआ है' ऐसी शङ्का करके शिवके समान समझते रहते हैं। वे अपना दर्शन
१. अमानुषलोकोचिताभिः । २. मदातिशयेन । ३. तथेति, यथेति, अन्यारोपित ० । ४. अतिमानुष्यम् । ५. विप्रतारणा । ६. असद्भूत०...सद्भूत ।
| ३३४ | कादम्बरी- | [ कथायाम्- |
|---|
माशङ्कन्ते । दर्शनप्रदानमपि अनुग्रहं गणयन्ति, दृष्टिपातमप्युपकारपक्षे स्थापयन्ति, सम्भाषणमपि संविभागमध्ये कुर्वन्ति, आज्ञामपि वरप्रदानं मन्यन्ते, स्पर्शमपि पावनमाकलयन्ति । मिथ्यामाहात्म्यगवनिर्भराश्च न प्रणमन्ति देवताभ्यः, न पूजयन्ति द्विजातीन्, न मानयन्ति मान्यान्, नार्चयन्त्यर्चनीयान् , नाभिवादयन्त्यभिवादनाहार्न् , नाभ्युत्तिष्ठन्ति गुरून् । अनर्थकायासान्तरितविषयोपभोगं-सुखमित्युपहसन्ति विद्वज्जनम्, जरावैक्लव्यप्रलपितमिति पश्यन्ति वृद्धजनोपदेशम्, आत्मप्रज्ञापरिभव इत्यसूयन्ति सचिवोपदेशाय, कुप्यन्ति हितवादिने । सर्वथा तमभिनन्दन्ति, तमालपन्ति, तं पार्श्वे कुर्वन्ति, तं संवर्द्धयन्ति, तेन सह
यत्र तयोक्तम, शङ्कन्ते मन्यन्ते । अनेन स्वस्य महेशत्वं प्रख्याप्यते । इत्यञ्च वस्तुता वस्तुध्वनिः।
दर्शनेति । दर्शनप्रदानं लोकानां स्वात्मप्रकटनम् अनुग्रहं प्रसादं गणयन्ति मन्यन्ते । दृष्टिपातमपि चक्षुषाऽवलोकनपि उपकारपक्षे उपकृतिपक्षे स्थापयन्ति निक्षिपन्ति । सम्भाषणम् आलापमपि संविभागमध्ये विभजनपूर्वकदानव्यद्रव्यदानमध्ये, कुर्वन्ति अर्पयन्ति दातव्यद्रव्यदानजनितसन्तोषः सम्भाषणेनैवोत्पन्न इति मन्यन्त इत्येवार्थः । आज्ञां निदेशमपि वरप्रदानं समीहितप्रदानं मन्यन्ते जानन्ति । स्पर्शं संश्लेषमपि पावनं पवित्रतोत्पादकम् आकलयन्ति भावयन्ति । इह प्रतिवाक्ये प्रायः प्रतीयमानोत्प्रेक्षा ।
मिथ्येति । मिथ्यामाहात्म्येन असत्यात्ममहिम्ना यो गर्वोऽभिमानः तेन निर्भराः परिपूर्णाः देवताभ्यो हरिहरादिदेवेभ्यो न प्रणमन्ति नमस्कारं न कुर्वन्ति । द्विजातीन् ब्राह्मणान् न पूजयन्ति प्रमादपूर्वकवस्त्रादिप्रदानेन न तर्पयन्ति । मान्यान् माननीयन् श्वशुरादीन् मानयन्ति न सम्मानंददते । अर्चनीयान् पूजनीयानुपाध्यायादीन् नार्चयन्ति न पूजयन्ति, अभिवादनाहार्न् उपसंग्रहयोग्यान् पुरोहितादीन् नाभिवादयन्ति चरणपतनादिकं न कुर्वन्तीत्यर्थः । गुरून् हिताहितप्रतिपरिहारोपदेष्टॄन् न अभ्युत्तिष्ठन्ति नाभ्युत्थाय सत्कुर्व्वन्ति ।
अनर्थकेति । अनर्थकेन निष्प्रयोजनेन आयासेन विद्यार्जनपरिश्रमेण होमानुष्ठानपरिश्रमेण वा अन्तरितं व्यवहितं दूरीकृतं विषयोपभोगसुखं कामिन्यादिसुरतिसुखं येन तं तादृशम्, इति तस्मादेव कारणात्, विद्वज्जनं विदुषजनम् उपहसन्ति उपहासं कुर्वन्ति, जडत्वबोधनेत्याशयः । जरया परिणतवयसा यत वैक्लव्यं बुद्धेश्चाञ्चल्यम्, तेन प्रलपितं जल्पितम् इति कृत्वा वृद्धजनोपदेशस्थविरजनशिक्षां पश्यन्ति निस्तत्त्वं मन्यन्ते । आत्मप्रज्ञायाः निजमतेः परिभवोऽवमानोऽयमिति कृत्वा सचिवोपदेशाय प्रधानशिक्षायै असूयन्ति दोषाविर्भावपूर्वकं कुप्यन्ति । 'क्रुधद्रुहेर्ष्यासूयार्थानां यं प्रति कोपः' इति सूत्रेण चतुर्थी; तथा हितवादिने कल्याणवादिने कुप्यन्ति क्रुद्ध्यन्ति ।
सर्वथेति । तं पुरुषं सर्वथा सर्वप्रकारेण अभिनन्दन्ति । प्रशंसन्ति । तन् आलपन्ति सम्भाषन्ते । तं पार्श्वे समीपे कुर्वन्ति गृण्हन्तीत्यर्थः । तं संवर्द्धयन्ति विविधसाहाय्येन उच्चनयन्ति । तेन पुरुषेण सह सुखं यथा स्यात्तथा अवतिष्ठन्ते अवस्थानं कुर्वन्ति । तस्मै पुरुषाय ददति प्रयच्छन्ति । तं मित्रताम् उपनयन्ति तं सुहृदं कुर्वन्तीत्यर्थः । 'नी' धातुर्हि 'दुह्याच्पच्' इत्यादिना द्विकर्मकः । तस्य वचनं वाक्यं शृण्वन्ति आकर्णयन्ति । तत्र वर्षन्ति तस्मै सततं धनानि वितरन्ति । तं बहु अधिकं मन्यन्ते आद्रियन्ते । तम् आप्ततां विश्वस्तनाम आपादयन्ति प्रापयन्ति ।
देना भी मानो बड़ा अनुग्रह करनेकी गणना करते हैं, दृष्टिपात करना भी मानो उपकारपक्षमें रखते हैं, आलप (बातचीत) करना भी विभागपूर्वक देयद्रव्यदानमध्ये मानते हैं (अर्थात् देनेके स्थानमें बातचीतसे ही पूर्ण कर देते हैं), आज्ञाको भी मानो वरप्रदानरूपमें समझते हैं, स्पर्श करना भी मानो पवित्रताका कारण समझते हैं । और मिथ्या माहात्म्य के अहङ्कारसे भरे हुए वे देवताओंको प्रणाम नहीं करते, ब्राह्मणोंका पूजन नहीं करते, मान्य व्यक्तियोंका सम्मान नहीं करते, पूजनीय लोगोंकी पूजा नहीं करते, नमस्कार करनेके योग्य व्यक्तियोंको नमस्कार नहीं करते एवं गुरुओंको देखकर भी उठ खड़े नहीं होते हैं । और 'ये विद्योपार्जनके निरर्थक परिश्रम कर विषयसम्भोगजनित सुखको दूर किये हैं' इस प्रकार समझ कर विद्वानोंका उपहास करते रहते हैं 'ये वार्धक्यवश बुद्धिकी अस्थिरता द्वारा चित्तने प्रलाप करते हैं' ऐसी भावना कर वृद्धोंके उपदेशको असार समझते हैं, 'इससे मेरी बुद्धि तिरस्कृत हो रही है' ऐसा मनमें समझ कर मन्त्रियोंके उपदेशसे द्वेष प्रकट करते हैं
१. प्रदानेऽपि ।
२. संस्पर्शमपि ।
३. द्विजान् ।
४. "-अन्तरितोपभोग-" ।
५. विद्वज्जनशीलम् ।
६. न पश्यन्ति वृद्धोपदेशम् ।
शुकनासोपदेश० २५ ] चन्द्रकला-विद्योतिनीसहिता ३३५
सुखमवतिष्ठन्ते, तस्मै ददति, तं मित्रतामुपनयन्ति, तस्य वचनं शृण्वन्ति, तत्र वर्षन्ति, तं बहु मन्यन्ते, तमाप्ततामापादयन्ति, योऽहर्निशमनवरतमुपरचिताञ्जलिरधिदैवतमिव विगत- न्यकर्त्तव्यः स्तौति, यो वा माहात्म्यमुद्भावयति । किंवा तेषां साम्प्रतम्, येषामतिनृशंसप्रा- योपदेशनिर्घृणं कौटिल्यशास्त्रं प्रमाणम्, अभिचारक्रियाक्रूरैकप्रकृतयः पुरोधसो गुरवः, परा- भिसन्धानपरमन्त्रिण उपदेष्टारः, नरपतिसहस्रमुक्तोञ्झितायां लक्ष्म्यामासक्तिः, मारणात्म- केषु शास्त्रेष्वभियोगः, सहजप्रेमार्ट्रहृदयानुरक्ता भ्रातर उच्छेद्याः । तदेवंप्रयातिकुटिल-कष्ट-चेष्टा-सहस्रदारुणे राज्यतन्त्रे, अस्मिन् महामोहान्धकारिणि
य इति । जनः, विगतं दूरीभूतम् अन्यत् कर्त्तव्यं विधेयं यस्य स तथोक्तः सन्, अहर्निशम् अहो-रात्रम् अनवरतं निरन्तरम्, उपरचिताञ्जलिः संयोजितकरपुटः, अधिदैवतमिव आराध्यदेवतामिव स्तौति । यो वा जनः माहात्म्यं हरहराद्यवतारस्वरूपं महिमानम् उद्भावयति साग्रहेन प्रकटीकरोति । इह वाक्यग-तविधेयाविमर्शदोषपरिहाराय यच्छब्दान्वितवाक्ययोः पूर्वं पाठोऽवश्यं विधेयः।
तयाविधानाञ्च नृपतीनां सर्वमेवानुचितमिति दर्शयति—किंवेति । तेषां राज्ञां किंवा विधेयं साम्प्रतं युक्तन्यायोपेतं भवितुं शक्नोतीति शेषः । न किमपीत्यर्थः। 'युक्ते द्वे साम्प्रतं स्थाने' इत्यमरः।
असाम्प्रतत्वे कारणं प्रदर्शयति—येषामिति । अतिनृशंसप्रायेण अत्यन्तनिष्ठुरातिशयेन उपदेशेन निष्ठुरं। निर्घृणं निष्करुणम्, कौटिल्यशास्त्रं चाणक्यनिर्मितनीतिशास्त्रमेव येषां भूपतीनां प्रमाणम् । अभि-चारक्रियया श्येनयागादिरूपान्यवधोत्पादककर्मकरणेन क्रूरा नृशंसा एका मुख्याः प्रकृतयः स्वभावा येषां ते तथोक्ताः, पुरोधसः पुरोहिताः गुरवो धर्मोपदेशकाः। पराभिसन्धानपरा अन्यवञ्चनारसपगः मन्त्रिणः उपदेष्टारः शिक्षयितारः । नरपतिसहस्रेण भूपतिमूहेन प्रथमं भुक्ता भञ्जित्वा पश्चात्त उज्झितात्यक्ता नस्यां तादृश्याम्, लक्ष्म्यां श्रियाम् आसक्तिः प्रेमातिशयम् । मारणात्मकेषु मारणोपदेशरूपेषु शास्त्रेषु यागिनी-तन्त्रादिषु अभियोगः अभिनिवेशः । सहजं प्राकृतिक्रं यत् प्रेम स्नेहः तेन आर्द्र मद्यं यत् हृदयं चेतः तेन अनुरक्ताः, भ्रातरः सहोदरा उच्छेद्या मूलतो विनाशनीयाः ।
इह नयाविधानां सर्वकार्याद्यौचित्यस्यनिरूपणकार्यं प्रति अनेकतरहेतूपन्यासात् समुच्चयः ।
तदेति । तत्तस्मात्कारणात्, एवं प्रायेण यादृग्दाकृष्टैवैरुक्तस्वरूपेण, अतिकुटिलेन अत्यन्तवक्रेण नितान्तदुर्बोधेनेत्यर्थः कष्टेन क्लेशकरेण चेष्टासहस्त्रे व्यापारबाहुल्येन दारुणे भीपणे, राज्यतन्त्रे राज्यशास-नेनिकर्मण्यतायाम्, अस्मिन् प्रस्तूयमाने महामोहेन महाविवेकेन अन्धं विचाररहितं कर्तुं शीलं यस्य तस्मिन् तादृशे यौवने नाहार्ये च प्रवृत्ते, हे कुमार चन्द्रापीड ! तथा तेन प्रकारेण प्रयतेथाः वर्तितुं प्रयत्नं विदध्याः
पूर्वक ही हितवचन बोलते हैं उन पर कोप करते हैं । एक नया प्रकारसे उनका ही वे प्रशंसा करते हैं, उसके साथ ही बातचीत करते हैं, उनकी ही रक्षा करते हैं, महात्मन् कह उनकी ही स्तुति करते हैं, उनसे बात ही सुनते रहते हैं, उनको ही दान देते हैं, उनमें ही निवास करते हैं, उनका ही वचन सुनते हैं, उनको ही सबदा धन-वितरण करते हैं, उनका ही बहुत आदर करते हैं और उसको ही सर्वकल्याणके विधानवाला बना लेते हैं, जो व्यक्ति दिनरात हर समयके लिए, अन्य सब काम छोड़ हाथ जोड़ कर उपास्य देवताओंके समान उनकी स्तुति करता है अथवा जो व्यक्ति हरिरामादिकोंका अवतार कह कर उनका माहात्म्य प्रदान करता है। जिनके समीपमें, अत्यन्त नृशंस उपदेशसे परिपूर्ण एवं नितान्त निर्दय चाणक्यप्रणीत नीतिशास्त्र ही प्रमाण माननेवाले अभिचारक्रियाका अनुष्ठान करने ( मारणप्रयोग ) में नितान्त क्रूरस्वभाववाले पुरोहितगण जिनके शिक्षक हैं, पर-प्रतारणपरायण मन्त्रिगण जिनके सलाहकार हैं हजारों राजाओंने जिसे भोग कर छोड़-छोड़ दिया है उस लक्ष्मी के प्रति जिनकी आसक्ति है, मारणोपदेशसे परिपूर्ण तन्त्रशास्त्रमें जिनका आग्रह है एवं स्वाभाविक स्नेहके कारण सदय-चित्त और अनुराग करनेवाले भ्रातृगण जिनकी जड़ काटते हैं उन राजाओंके योग्य न्यायसङ्गत कार्य क्या हो सकता है ?
इस लिए राजकुमार ! चन्द्रापीड ! ऐसी हजारों अत्यन्त जटिल और कष्टप्रद कार्यबाहुल्यसे भयङ्कर राज्य-शासनके व्यवहारमें एवं ऐसे महामोहरूप विवेकशून्यकारी इस यौवनावस्थामें तुम ऐसा कार्य करनेमें प्रयत्न करो
१. तस्य सञ्चिरते, तं मित्रतामुपनयन्ति । २. तमात्मतामापादयन्ति, तदनाद्रियन्ति । ३. अनादृतम् । ४. दारुणे । ५. दैववत्तः कुटिलचेष्टा, कुटिलचेष्टा.. । ६. महामोहाहारिणि ।
३३६ कादम्बरी— [ कथायाम्—
च यौवने, कुमार ! तथा प्रयतेथाः यथा नोपहस्यसे जनैः, न निन्यसे साधुभिः, न धिक्-क्रियसे गुरुभिः, नोपालभ्यसे सुहृद्भिः, न शोच्यसे विद्वद्भिः । यथा च न प्रकाश्यसे विटैः, न प्रहस्यसे कुशलैः, नास्वाद्यसे भुजङ्गैः, नावलुप्यसे सेवकवृकैः, न वञ्च्यसे धूर्त्तैः, न प्रलोभ्यसे वनिताभिः, न विडम्ब्यसे लक्ष्म्या, न नर्त्यसे मदेन, नोन्मत्तीक्रियसे मदनेन, नाक्षिप्यसे विषयैः, नावकृष्यसे रागेण, नापहियसे सुखेन । कामं भवान् प्रकृत्यैव धीरः, पित्रा च महता प्रयत्नेन समारोपितसंस्कारः, तरलहृदयमप्रतिबुद्धञ्च मदयन्ति धनानि, तथापि भवद्गुणसन्तोषो मामेवं मुखरीकृतवान् । इदमेव च
यथा येन प्रकारेण जनैः लोकैः नोपहस्यसे नोपहासं क्रियसे । साधुभिः सज्जनैः न निन्यसे निन्दां क्रियसे । गुरुभिर्धर्माचार्यैः न धिक् क्रियसे धिग्जीदितमित्यादिवाक्यविषयीक्रियसे । सुहृद्भिः मित्रैः नोपालभ्यसे न तिरस्क्रियसे । विद्वद्भिः पण्डितैः न शोच्यसे शोकगोचरीक्रियसे ।
दयेति । किल्लेति चार्थः । विटैः कामिजनैः न प्रकाश्यसे जनसङ्घे स्वसमानतया न प्रकटीक्रियसे । कामिजनैः सार्द्धं मिलित्वा तद्यशान्तः पतितो मा भवेति निर्देशः । कुशलैः कार्यनिपुणैः न प्रहस्यसे, रहस्यविषयसन्निवेशाभावादङ्गववोधनेनेत्याशयः । भुजङ्गैः धूर्त्तैः न आस्वाद्यसे नोपभुज्यसे, परिचारकरूपेण प्रविश्य गूढच्छद्मना द्रव्यापहरणद्वारेणेत्याशयः । सेवकाः परिचारका एव वृका हिंसकप्राणिविशेषाः तैः नावलुप्यसे राज्यान्नावलुप्यसे, यथा वृका गृहं प्रविश्य सारमेयान् प्रहरन्ति, तथा विटाः परिचारकरूपेण प्रविश्य तव निखिलं वस्तु नापहरेयुरित्याशयः । वनिताभिः स्त्रीभिः न प्रलोभ्यसे न सञ्चाल्यसे । लक्ष्म्या राज्यश्रिया न विडम्ब्यसे न परिभूयसे इत्यर्थः । अन्यायचरणात्परित्यागेनेत्याशयः । मदेन अभिमानेन न नर्त्यसे न नृत्यं कार्यसे । मदनेन कामेन न उन्मत्तीक्रियसे चित्तविप्लवतामपाद्यसे । विषयैः इन्द्रियार्थैः नाक्षिप्यसे नैकान्तमाकृष्यसे । रागेण कस्यापि वस्तुनः उत्कृष्टसोगेच्छया नावकृष्यसे नाकृष्यसे । सुखेन आनन्देन नापहियसे न परित्यज्यसे ।
काममिति । यद्यपीत्यादौ पठनीयम् । कामं पर्याप्तं भवान् स्वं प्रकृत्या स्वभावेनैव धीरो धैर्यवान् असि । पित्रा तारापीडेन महता प्रयत्नेन अत्यन्तप्रयासेन समारोपितः शिक्षणैः संस्थापितः संस्कारः सर्वविषयज्ञानं यत्र स तादृशः । तथा धनानि सम्मत्तयः तरलहृदयं तारुण्याच्चपलचित्तम् अप्रतिबुद्धं राज्यशासनरिपुविजयादिदुःखानभिज्ञञ्च जनं मदयन्ति उन्मादं जनयन्ति स्वत एव तत्तत्कार्येषु प्रोत्साहयन्तीत्यर्थः । तथापि भवद्गुणसन्तोषः तव विद्याविनयधौर्यादिभिर्गुणैर्जनिता मे तुष्टिः, एवमुक्तविधिना मां वैशम्पायनं मुखरीकृतवान् वादितवान् । अथवा तथापीति तरेत्यादेः पूर्वं सम्बन्धनीयम् । एवञ्च धनानि, तारुण्याच्चपलचित्तम, अप्रतिबुद्धं शिक्षाभावात् साध्वसाधुविचाररहितञ्च जनं मदयन्ति माभिमानं कुर्वन्ति, इत्यतो भवद्गुणसन्तोषो मामेवं मुखरीकृतवान् तन्निराकरणाय वादितवान्, अतो न मे प्रगल्भता माननीयेत्याशयः ।
कि जिसमें मनुष्य तुम्हारी हँसी न करें, साधुगण निन्दा न करें, गुरुजन धिक्कार न दें, मित्रगण उलाहना न दें एवं विद्वद्गण शोक न करें। एवं कामीजन तुम्हारी बुराई न करें, कार्यदक्ष लोग तुम्हारा उपहास न करें, लम्पटगण तुम्हारी सम्पत्तिका भोग न करें, भृत्यरूपी वृकसे तुम्हारी सम्पत्ति लूटी न जाय, धूर्त्तगण धोखा न दें, स्त्रियाँ ललचावें नहीं, लक्ष्मी तुम्हें विडम्बित न करें, अहङ्कार तुम्हें नचावे नहीं, कामदेव उन्मत्त न करे, विषय बुरे मार्ग में न ले जावें, किसी विषयकी उत्कृष्ट अभिलाषासे ( मन ) आकृष्ट न होवे और सुख अपने अधीन न कर ले । तुम स्वभाव से अत्यन्त धैर्यवान् हो और पिताने बड़े बड़े उद्योग करके तुमको सर्वविषयक ज्ञान कराए हैं, एवं धनसम्पत्ति भी, चञ्चलचित्तवाले और अननुभोगी मनुष्योंको स्वभावसे ही उन-उन दुरूह कार्योंमें प्रवृत्त कराती है, तथापि तुम्हारे विद्याविनयादिगुणजनित सन्तोष ही मुझे इस रूपमें कहने के लिए प्रेरित किया है। और यह मैं फिर तुमको बार॑
१. तथा तथा । २. यथा यथा । ३. जनेन । ४. उपलभ्यसे । ५. प्रतार्य्यते । ६. प्रतार्य्यते । ७. सर्ववनिताभिः । ८. विक्लम्यते, रज्यते, आहूभ्यते । ९. रागैः । १०. उपढियते । ११. महता प्रयत्नेन इति क्वचिन्न विद्यते । १२. एव ।
शुकनासोपदेशवर्णनम् ३४ ] चन्द्रकला-विद्योतिनीसहिता । १३७
पुनः पुनरभिधीयसे-विद्वांसमपि सचेतनमपि महासत्त्वमप्यभिजातमपि धीरमपि प्रयत्नवन्त- मपि पुरुषमियं दुर्विनीता खलीकरोति लक्ष्मीरिति । सर्वथा कल्याणैः पित्रा क्रियमाणमनुभ- वतु भवान् नवयौवराज्याभिषेकमङ्गलम्१, कुलक्रमागतमुद्वह पूर्वपुरुषैरुढां धुरम् . अवनमय द्विषतां शिरांसि, उन्नमय बन्धुवर्गम्३ अभिषेकानन्तरञ्च प्रारब्धदिग्विजयः परिभ्रमन् विजि- तामपि तव पित्रा सप्तद्वीपभूषणां५ पुनर्विजयस्व वसुन्धराम् । अयञ्च ते कालः प्रतापमारोप- यितुम्, आरुढप्रतापो हि६ राजा त्रैलोक्यदर्शीव सिद्धादेशो भवति’ इत्येतावदभिधायोप- शशाम ।
उपशान्तवचसि७ शुकनासे चन्द्रापीडस्ताभिरमलाभिः उपदेशवाग्भिः प्रक्षालित-
स्तमिति । इदं पूर्वोक्तं पुनः पुनः वारं वारम् अभिधीयसे कथ्यसे—विद्वांसं पण्डितमपि सचेतनं साध्वसाधुविचारक्षममपीत्यर्थः । महासत्त्वं नितान्तशक्तिकमन्तमपि । अभिजातं सद्वंशजातमपि धीरं धैर्यव- न्तमपि । प्रयत्नवन्तम् उद्योगयुक्तमपि पुरुषं जनं दुर्विनीता दुश्चरिता इयं लक्ष्मीः श्रीः खलीकरोति सन्मा- र्गात् स्खलनं प्रापयति । अतस्त्वं यथैषा तथाविधं विधातुं न शक्नुयात् तथा प्रयत्नं कुर्य्यास्त्याशयः ।
सर्वथेति । सर्वथा सर्वप्रकारेण कल्याणैः मङ्गलैः पित्रा तातेन क्रियमाणं विधीयमानन्द् । नवो नूतनो यो यौवराज्ये अभिषेकः स एव मङ्गलं श्रेयः तत्तादृशम् अनुभवतु अनुभवविषयीकरोतु । पूर्वपुरुषैः प्राग्भवैः ऊढां कुलक्रमा गतां परम्परायातां धुरं राज्यशासनभारम् उद्वह तद्वहनं कुरु । द्विषतां शत्रूणां शिरांसि उत्तमाङ्गानि अवनमय विनम्राणि कुरु । बन्धुवर्गं स्वजनसमुदायम् उन्नमय उन्नत कुरु सत्कारा- दरादिभिरित्याशयः ।
अभिषेकेति । अभिषेकानन्तरं यौवराज्याभिषेकानन्तरं प्रारब्धदिग्विजयः प्रस्तुतदिग्विजयः परि- भ्रमन् पर्यटन्, सप्तद्वीपभूषणां जम्बूप्रभृतिद्वीपाहङ्कारां सर्वामित्यर्थः । तव पित्रा तारापीडेन विजितामपि स्वाधीनीकृतामपि वसुन्धरां पृथिवीं पुनर्द्वितीयावारं विजयस्व स्वाधीनीकुरु ।
ननु सत्तातेनैव स्वाधीनीकृतायाः पृथिव्याः पुनः स्वायत्तीकरणे किं फलमित्यत आह—अयमिति । प्रतापं कोशादण्डजं तेजः आरोपयितुं रिपुषु प्रवर्त्तयितुम् अयमेव एष एव कालः समयः । स्वस्य सर्वविधो- न्नतिसत्त्वात् जनस्य च मदायतासम्भवादित्याशयः । हि यतः आरुढप्रतापः शत्रुषूपन्नततेजा राजा भूपतिः त्रैलोक्यदर्शीव सर्वज्ञयोगीश्वर इव, सिद्धः अप्रतिहतः आदेश आज्ञा यस्य स तादृशो भवति । इति परि- समाप्तौ एतावन् एतन् पर्यन्तम् अभिधाय उक्त्वा उपशशाम शुकनासो विरतवाग्व्यापारो बभूव ।
अहो ! अकुटिलक्ष्मीविलसितम्, न्वामिजनदुर्जनतां प्रकटीकुर्वन्नयमुपदेशः अत्यन्तं जनशिक्षा- दयः महामनुशयमानश्च भाववैभवैरिति न तिरोहितं केषाञ्चिदपि सहृदयानाम् ।
उपशान्तेति । उपशान्तवचसि विरतवाग्व्यापारे तस्मिन् शुकनासे चन्द्रापीडः, ताभिः पूर्वोक्ताभिः अमलाभिः निर्मलाभिः उपदेशवाग्भिः शिक्षावचनैः प्रक्षालितो धौत इव, उन्मीलितो विकसीकृत इव
बार करता हूँ कि-मनुष्य चाहे जैसा विद्वान्, विवेचक, बलवान्, कुलीन, धीरप्रकृति एवं उद्योगी हो उसे भी यह दुराचारिणी लक्ष्मी दुर्जन बना देती है। पिता से किये गए माङ्गलिक नवयौवराज्याभिषेकका तुम सब कल्याणोंके साथ सर्वथा सानन्द अनुभव करो, तुम्हारे पूर्वपुरुषोंसे जो भार वहन किया गया है, तुम भी उस कुल-क्रमागत पृथिवीपालनका भार वहन करो। शत्रुओंका मस्तक अवनत (नीचा) करो एवं बन्धुवर्गको उन्नत करो। एवं सप्तद्वीपमयी भूषणवाली पृथिवी तुम्हारे पिताके जीतकर रखी रहने पर भी इसे अभिषेक हो जानेके अनन्तर दिग्विजय आरम्भ कर, सर्वत्र भ्रमण करते हुए तुम भी जिसे जीतो। यह तुम्हारे प्रताप-विस्तार करनेका समय है, क्योंकि-राजाका प्रताप उन्नत होनेपर सर्वज्ञ महायोगीके समान उसका आदेश सर्वत्र ही सफल होकर रहता है' इतना कह कर शुकनास चुप हो गया।
शुकनासके चुप हो जानेके बाद उन समस्त निर्मल उपदेशवचनोंसे चन्द्रापीड मानो घुल गया हो, प्रबुद्ध
१. नवयौवन० । २. अनेक मङ्गलम् । ३. स्वबन्धुवर्गम् । ४. अस्तु । ५. सप्तद्वीपसमुद्रभूषणां । ६. क्वचिद् 'हि' इति पदं न विद्यते । ७. वचने । ८. क्वचित् अमलाभिरिति न विद्यते ।
३३८ कादम्बरी- [ कथायाम्-
इव, उन्मीलित इव, स्वच्छीकृत इव, निर्मृष्ट इव, अभिषिक्त इव, अभिलिप्त इव, अलङ्कृत इव, पवित्रीकृत इव, उद्भासित इव, प्रीतहृदयो मुहूर्त्तं स्थित्वा स्वभवनमाजगाम ।
ततः कतिपयदिवासापगमे च राजा स्वयमुत्क्षिप्तमङ्गलकलसः सह शुकनासेन पुण्येऽ- हनि पुरोधसा सम्पादिताशेष-राज्याभिषेकमङ्गलम्, अनेकनरपतिसहस्रपरिवृतः, सर्वेभ्यस्ती- र्थेभ्यः सर्वाभ्यो नदीभ्यः सर्वेभ्यश्च सागरेभ्यः समाहृतेन सर्वौषधिभिः सर्वफलैः सर्वमृद्भिः सर्वरत्नैश्च परिगृहीतेन आनन्दबाष्पजलमिश्रेण मन्त्रपूतेन वारिणा सुतमभिषिषेच । आभ- षेकसलिलार्द्रदेहञ्च तं लतेव पादपान्तरं^३ निजपाद्पममुञ्चन्त्यपि तारापीडं तत्क्षणमेव सञ्च- क्राम राजलक्ष्मीः^४ ।
निर्मृष्टो मसृणीकृत इव, अभिषिक्तः स्नपित इव, अभिलिप्त इव, अलङ्कृतो भूपित इव, पवित्रीकृतः पूतीकृत इव, उद्भासित उज्ज्वलीकृत इव, सर्वत्र चित्तप्रसादेनातिशयमनोज्ञत्वादित्याशयः। प्रीतहृदयः सन्तुष्टचेताः मुहूर्त्तं क्षणं स्थित्वा अवस्थानं विधाय स्वभवनं निजगृहम् आजगाम आययौ ।
इह 'प्रक्षालित इव' इत्यादिनवानां क्रियोत्प्रेक्षाणां परस्परं नैरपेक्ष्येण संसृष्टिः ।
तत इति । ततः तदनन्तरं कतिपयदिवसापगमे कियद्दिनातिक्रमे च राजा तारापीडः, स्वयम् आत्मनैव उत्क्षिप्तः अभिषेकाय ऊर्ध्वं कृतः मङ्गलकलसः मङ्गलाभिधानघटो येन स तादृशः, शुकनासेन प्रधानामात्येन सह पुण्येऽहनि पवित्रे वासरे, पुरोधसा पुरोहितेन सम्पादितानि विहितानि अशेपाणि समस्तानि राज्याभिषेकस्य मङ्गलानि मङ्गलव्यवहरणानि देवतार्चनादीनि यस्य तं तादृशम्, सुतमित्यस्य विशेषणमिदम् । अनेकनरपतिसहस्रैः नानादेशागतराजसमूहैः परिवृतः परिवेष्टितः । सर्वेभ्यः समस्तेभ्यः तीर्थेभ्यः प्रयागादिभ्यः, सर्वाभ्यो नदीभ्यः गङ्गादिभ्यस्तटिनीभ्यः सर्वेभ्यः सागरेभ्यः समग्रेभ्यः समुद्रेभ्यः समाहृतेन आनीतेन, सर्वौषधिभिः-
'मुरा मांसी वचा कुष्ठं शैलेयं रजनीद्वयम् । शटी चम्पकमुस्तं च सर्वौषधिगणः स्मृतः ॥'
इतिपरिगणितेः द्रव्यैः सर्वफलैः समस्तसस्यैः सर्वमृद्भिः समस्ततीर्थोपक्षमृत्तिकामिः सर्वरत्नैः समस्तमणिभिः परिगृहीतेन मिलितेनेत्यर्थः । आनन्दबाष्पजलमिश्रेण प्रमोद्जनितवाष्पजलसंपृक्तेन, मन्त्रपूतेन मन्त्रपवित्रेण वारिणा जलेन सुतं पुत्रं चन्द्रापीडम अभिषिपेच स्नपयाञ्चकार ।
अभिषेकेति । राजलक्ष्मीः आधिपत्यश्रीः, लता व्रततिः, निजपाद्यम् आश्रयतरम् अमुञ्चन्त्यपि अत्यजन्त्यपि सती पादपान्तरम् अपरतरुमित्र, तारापीडं भूपतिम् अमुञ्चन्त्यपि, अभिषेकसलिलेन यौव- राज्याभिषेकजलेन आर्द्रदेहं स्विन्नशरीरं तं चन्द्रापीडं तत्क्षणं तत्समयमेव सञ्चक्राम प्रविष्टा बभूव । तादृ- शमेव चन्द्रापीडः अंशत राजसामर्थ्यं प्राप्तवानित्याशयः । उपमा । ।
हुआ हो, निर्मल हुआ हो, मसृण (चिकना, झलक ) हो गया हो, अभिषिक्त हुआ हो, भूषित हुआ हो, अभि- लिप्त हुआ हो, पवित्र हुआ हो ओर प्रकाशित हुआ हो, इस प्रकार सन्तुष्ट-चित्त से वहां कुछ देर ठहर कर अपने महल में आ गया ।
उसके बाद कुछ दिन बीत जाने पर, किसी शुभ दिन में पुरोहितने, राज्याभिषेककी सब मङ्गलसामग्री सम्पन्न कर दी तब अनेक सहस्र सामन्त राजाओंसे परिवेष्टित होकर शुकनासके साथ महाराज तारापीडने अपने ही मङ्गल कलश उठा कर सब तीर्थोंसे, सब नदियोंसे और सब समुद्रोंसे लाए हुए एवं सर्वौषधियोंसे, सब फलोंसे, सब मृत्तिकाओंसे और सब रत्नोंसे मिश्रित-एवं आनन्दाश्रुजल-संयुक्त मन्त्रोंसे पवित्र हुए जलसे पुत्र चन्द्रापीडका अभिषेक किया। उस समय लता जिस प्रकार आश्रित मूल वृक्षको छोड़े बिना भी दूसरे वृक्षका अवलम्बन कर लेती है, उसी प्रकार राजलक्ष्मी भी महाराज तारापीड को बिना छोड़े ही अभिषेकके जलसे आर्द्र शरीरवाले चन्द्रापीडके पास पहुँच गई ।
१. स्वच्छीकृत इव । २. सर्वौषधिभिः । ३. निजपादपं पादपान्तरम्, लतेव पादपान्तरम् । ४. राज्यलक्ष्माः ।
चन्द्रापीडयौवराज्याभिषेकव० ३६ ] चन्द्रकला-विद्योतिनीसहिता । ३३६
अनन्तरमखिलान्तःपुरपरिवृतया च प्रेमार्द्रहृदयया विलासवत्या स्वयमापादतलादा- मोदिना चन्द्रातपधवलेने चन्दनेनानुक्षिप्तमूर्तिः, अभिनव-विकसित-सित^१कुसुम- कृतशेखरः, गोरोचना^२-च्छुरितदेहः, दूर्वाप्रवालरचितकर्णपूरः, दीर्घदशमनुपहतमिन्दु- धवलं दुकूलयुगलं वसानः, पुरोहित-प्रतिबद्धप्रतिसरप्रसाधितपाणिः, अभिनव^३राजलक्ष्मी- कमलिनी-मृणालेन अभिषेकदर्शनार्थमागतेन सप्तर्षिमण्डलेनेव हारेणालिङ्गितवक्षःस्थलः, सित-कुसुम-ग्रथिताभिराजानुलम्बिनीभिरिन्दुकराकलाप-कोमलाभिः^४ वैकक्षकस्रग्भिः^५ निर-
अनन्तरमिति । अनन्तरं यौवराज्याभिषेकस्य पश्चाच्च चन्द्रापीडः सिंहासनम् आरुरोह इति सम्बन्धः । इह प्रथमान्तानि यानि पदानि तानि अग्रेतनस्य 'चन्द्रापीड' इत्यस्य विशेषणानि । अखि-लान्तःपुरैः समस्तावरोधस्थलनिताभिः परिवृतया महितया, प्रेमार्द्रहृदयया स्नेहस्विन्नस्वान्तया च विलासवत्या स्वकीयजनन्य स्वयम् आत्मना, आमोदिना नितान्तसुगन्धवता, चन्द्रातपधवलेने शशि-किरणपङ्किशुभ्रेण चन्दनेन मलयजेन आपादतलाव् पादतलपर्यन्तम् अनुलिप्तमूर्तिः कृताङ्गरागरूपः । अभिनवैः नूतनैः विकसितैः प्रस्फुटितैः सितैः श्वेतैः कुसुमैः प्रसूनैः कृतो विहितः शेखरः शिरोभूषणं यस्य स तादृशः । गोरोचनया कुङ्कुमेन चुरितो रञ्जितो देहः शरीरं यस्य स तादृशः । दूर्वाप्रवालैः शतपर्विका-किमलयैः रचितौ कृतौ कर्णपूरौ कर्णभूषणौ यस्य स तादृशः । दूर्वाभिः कर्णभूषणं तु विष्णुधर्मोत्तरवचनात् । तथा च तत्रत्यवचनम्—
'दूर्वा दहति पापानि धात्री हरति पातकम् । हरीतकी हरेद्रोगं तुलसी हरते त्रयम् ॥'
दीर्घेति । दीर्घा आयता दशा प्राञ्चलवर्त्तिन्यः सूत्रवर्त्तिका यस्य तत्तादृशम्, अनुपहतं प्राक्परिधानेनापर्युषितम्, इन्दुधवलं चन्द्रवत् शुभ्रं दुकूलयुगलं सूक्ष्मवस्त्रयुग्मं वसानः परिदधानः । तथा च संस्कारमयूखे—'ईषदौतं नवं श्वेतं सदशं यन्न धारितम् । अहतं तद्विजानीयात् सर्वकर्मसु पावनम् ॥'
पुरोहितेति । पुरोहितेन पुरोधमा प्रतिबद्धो यः प्रतिसरो हस्तसूत्रं तेन प्रसाधितोऽलङ्कृतः पाणिः करो यस्य स तादृशः ।
'भवेत् प्रतिसरो मन्त्रभेदे माल्ये च कङ्कणे । वराशुद्धौ चमूपृष्ठे पुंसि न स्त्री तु मण्डले ॥
आर्ते करसूत्रे च नियोज्ये त्वन्यलिङ्गकः । इति मेदिनी ।
अभिनवेति । अभिनवा प्रत्यग्रा राजलक्ष्मीः आधिपत्यश्रीरेव कमलिनी अतीव सौन्दर्यात् नलिनी तस्या मृणालेन श्वेतत्वात् । विम्बस्वरूपेण । अभिषेकदर्शनार्थं यौवराज्याभिषेकावलोकनार्थम् आगतेन प्राप्तेन सप्तर्षिमण्डलेन मरीच्यादिवेवर्षिमण्डलेनेव विद्यमानेन, तेषामपि जरावृद्धत्वादिप्यादायः । हारेण मुक्ताप्रालम्बेन, आलिङ्गितम् आलिष्टं वक्षःस्थलं सुजान्तरं यस्य स तादृशः ।
इह 'अभिनवराजलक्ष्मीकमलिनी' इत्यत्र परम्परितरूपकम् 'सप्तर्षिमण्डलेनेव' इत्यत्र च जात्युत्प्रेक्षा । अनयोश्च मिथो नैरपेक्ष्येण संसृष्टि ।
सितकुसुमेति । सितकुसुमग्रथिताभिः श्वेतपुष्पगुम्फिताभिः, आजानुलम्बिनीभिः अनक्षक्रीललम्बिनोभिः इन्दुककरकलापवत् चन्द्ररश्मिसमूहवत् कोमलाभिर्मृदुलाभिः । विशेषेण कक्षे लम्बन्त इति वैकक्षं ततः स्वार्थिकप्रत्यये वैकक्षिकम्, वक्षःस्थले तिर्यक् यज्ञोपवीतवन् कण्ठात् क्षितम् 'वैकक्षकं तु तत् ।
तदनन्तर अन्तःपुर (रानिवास) की समस्त स्त्रियोंसे परिवेष्टित होकर स्नेह-पूर्ण-हृदया महारानी विलासवतीने अपनेसे ही, चन्द्रातप (चाँदनी) के समान शुक्लवर्ण एवं सुगन्ध-मय चन्दनद्वारा चन्द्रापीडके शरीर पर पैरों तक लेप कर दिया, अभिनव खिले हुए शुक्लवर्ण-पुष्प-मालाद्वारा मस्तक परिवेष्टित कर दिया (फूलोंका मुकुट पहनाया), शरीर पर कहीं-कहीं गोरोचन लगा दिया एवं दूर्वा-पल्लवका कर्णभूषण पहना दिया, चन्द्रापीडने चन्द्रमाके समान शुक्लवर्णके दो नये वस्त्रोंको पहन लिया, उसकी किनारी दश अङ्गुल चौड़ी थी। पुरोहितने मङ्गल-सूत्र बाँध कर चन्द्रापीडके हाथको अलङ्कृत किया। नवीन राज्यलक्ष्मी-रूपी कमलिनीके मृणालके समान और अभिषेक देखनेके लिए आए सप्तऋषियोंके मण्डलके समान एक मुक्ताहारको उसने वक्षःस्थल पर धारण किया। श्वेतवर्ण फूलोंकी गुँथी हुई और जाँघ तक लटकती और चन्द्रमाकी किरणोंके समान कोमल एवं यज्ञोपवीतके
१. क्वचित् 'सित' इति पदं नास्ति ।
२. गोरोचना ।
३. नव^० ।
४. इन्दुकराकलापकाभिः ।
५. वैकक्षस्रग्भिः ।