कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
चन्द्रापीडप्रत्यानव० ११३ ] चन्द्रकला-विद्योतिनीसहिता । ६२६
‘स्वस्ति, उज्जयिनीतः सकल-राजन्य-शिखण्ड-शेखरीकृत-चरणारविन्दः परममाहेश्वरो महाराजाधिराजो देवस्तारापीडः सर्वसम्पदामायतनं चन्द्रापीडमुद्गच्छचारु-चूडामणि-मरीचि-चक्र-चुम्बिन्त्युत्तमाङ्गे चुम्बन्नन्दयति। कुशलिन्यः प्रजाः, किन्तु कियानपि कालो भवतोऽदृष्टम्य गतः, बलवदुत्कण्ठितं नो हृदयम्, देवी च सहान्तःपुरैर्म्लानिमुपनीता, अतो लेखवाचन-विर-तिरेवै प्रयाणकालता नेतव्ये’ति । शुकनासप्रेषिते द्वितीयेऽप्यमुमेवार्थं लिखितमवाचयत् । अ-स्मिन्नेवावसरे समुपसृत्य वैशम्पायनोऽपि लेखद्वितयमपरमात्मीयमस्मादभिन्नार्थमेवादर्शयन्।
अथ ‘यथाज्ञापयति तातः’ इत्युक्त्वा तथैव तुरगारूढः प्रयाणपटहमवादयत्। समीपे स्थितञ्च महताश्वीयेन परिवृतं महाबलाधिकृतं बलाहकपुत्रं मेघनादनामानमादिदेश—
स्वस्तीति । स्वस्ति तव शुभाशीरस्त्वित्यर्थः । ‘स्वस्ति मङ्गलाशीर्वादापनिर्णजनादिषु’ इति भागुरिः। पुत्रपत्रे चादावेव स्वस्तिपदं प्रयुञ्जते शिष्टाः । तथा च वररुचिवचनम्—‘आशीर्वचनसंयुक्तं पुत्रपत्रे पदकक्रमम्’ इति । सकलैः समस्तैः राजन्यैः औपनिवेशिकराजभिः शिखण्डेषु शिरःसु शेखरीकृतम् अलङ्कारीकृतं चरणारविन्दं पादकमलं यस्य सः, परममाहेश्वरो महाशैवः । उज्जयिनीतो विशालातः सकाशात् महाराजाधिराजो महतां राज्ञामधीशः । उद्गच्छद् उद्गच्छद् चारु मनोहरं यत् चूडामणिमरीचीनां शिरो-मनिदीप्तीनां चक्रं समूहः तत् चुम्बति स्पृशतीति तस्मिन्, उत्तमांगे शिरसि चुम्बन् चुम्बनं कुर्वन्, सर्व-सम्पदां समग्रसम्पत्तीनाम् आयतनं भाजनं चन्द्रापीडं नन्दयति अभिनन्द्य विलेखयतीत्यर्थः । प्रचालितां रीतिनमवलम्ब्यायमशोऽत्रोपनिबद्धो लेखकेनेत्यवधेयन् ।
कुशलेति । प्रजा राज्यान्तर्वर्तिजनाः कुशलिन्यः क्षेमवत्यः सन्ति, किन्तु अदृष्टस्य अस्माभिरवीक्षि-तस्य भवतस्तव, कियानपि अधिकतर इत्यर्थः कालो गतो व्यतीतः अत एव नोऽस्माकं हृदयं चेतः बल-वदुत्कण्ठितम् अत्यधिकोत्सुकम् । देवी तव जननी विलासवती च, अन्तःपुरैः तत्रत्यनारीभिः सह म्लानिं मनःक्लेशम् उपनीता भवतैव उपलम्भिता, अतोऽस्माद्धेतोः लेखवाचनविरतिरेव पत्रपाठनमाप्तिसमय एव प्रयाणकालताम् उज्जयिनीं प्रति प्रस्थानकालतां नेतव्या प्रापणीया । इदमेकं पत्रम् ।
शुकेति । अमुमेव उक्तरूपमेव अर्थं विषयं लिखितं लिपीकृतम् अवाचयत् अपठत् । अस्मात् चन्द्रापीडपत्रात्, आत्मीयं स्वीयम् अपरम् अन्यत् लेखद्वितीयं पत्रयुगलं पितुः शुकनासस्यैकं महाराजा-धिराजस्य चैकमित्यर्थः, अदर्शयत् दर्शितवान् चन्द्रापीडायेति शेषः ।
अथेति । अथ तद्वाचनानन्तरम् । आज्ञापयति आदिशति । तथैव प्राग्वदेव । प्रयाणपटहं प्रस्थान-टक्काम्यवादयत् वादितवान् । महता विपुलेन, अश्त्रीयेन तुरङ्गमसैन्यनिकरेण परिवृतं परिवेष्टितम् । महत् यद् बलं सैन्यं तत्र अधिकृतं तदध्यक्षतायां नियुक्तम् बलाहकस्य मुख्यसेनाध्यक्षस्य पुत्रमात्म-जम् । आदिदेश साज्ञापयामास—
'तुम्हारा मङ्गल हो, उज्जयिनीसे समस्त सामन्तगण जिनके चरणारविन्दको मस्तकोंमें अलङ्कार किये हैं, ऐसे परम शैव और देवताके तुल्य प्रभावशाली, महाराजाधिराज तारापीड, समस्त सम्पत्तियोंके भाजन चन्द्रा-पीडके ऊपर फैलते हुए, सुन्दर चूडामणि के किरण-जालसे चुम्बित मस्तक पर चुम्बन-पूर्वक अभिनन्दन करके लिखते हैं। प्रजाएँ कुशलसे हैं, किन्तु तुझे देखे बहुत समय बीत गए हैं, अतएव मेरा मन बहुत ही उत्कण्ठित हो गया है। और समस्त अन्तःपुरस्थ रमणियोंके साथ महारानी भी मनके कष्टसे कातर हो गई हैं, इसलिए पत्रवाचनके समाप्ति-समयमें ही उज्जयिनीके प्रति यात्राका समय करना।' फिर शुकनासके द्वारा भेजे हुए द्वितीय पत्रको भी बाँचकर देखा कि यही विषय लिखा हुआ है। इस अवसरमें ही वैशम्पायनने भी समीपमें आकर अपने पास आए हुए इस पत्रसे अभिन्न अर्थसम्पन्न दो पत्र चन्द्रापीडको दिखाए।
इसके बाद पिताजी जैसी आज्ञा करते हैं (वैसा ही करूँगा)' यों कहकर यों का यों ही घोड़े पर बैठे बैठे उसने प्रयाण-पटह (कूचका नगाड़ा) बजवा दिया और अपने समीपमें रहनेवाले विशाल अश्व-सैन्यसे परिवेष्टित तथा विपुल सैन्यके अध्यक्ष मेघनाद-नामके बलाहक (प्रधान सेनापति) के पुत्रको आदेश दिये कि—
१. किन्तु।
२. दृष्टस्य भवतोऽदृष्टस्य।
३. क्वचित् ‘गत’ इति न विद्यते।
४. क्वचित् ‘देवीसमेतम्’ इत्यधिकः पाठः।
५. दनस्ततो लेखवाचनविरतिरेव।
६. प्रयाणकालता, प्रयाणकारणता ।
७. क्वचित् ‘कस्या-पिना’ इत्यधिकः पाठः।
८. तथैव च।
९. अवादपयत्।
१०. समीपावस्थितञ्च, समीपावस्थितञ्च ।
११. महता ह्वेवीयेन ।
| ६३० | कादम्बरी- | [ कथायाम्- |
|---|
‘भवता पत्रलेखया सहागन्तव्यम्, नियतञ्च केयूरकस्तानादायेतावतीं भूमिमागमिष्यति’, तन्मुखेन विज्ञाप्य प्रणम्य देवी कादम्बरी। नन्विदं सा त्रिभुवननिन्दनीया निरनुरोधा निष्परिचया चं दुर्ग्रहा प्रकृतिर्मर्त्त्यानाम्, येषामकाण्डविसंवादिन्यः प्रीतयो न गणयन्ति निष्कारणवत्सलताम्। एवं गच्छता मयात्मनो नीतः स्नेहः कपट-कूट-जालिकताम्, प्रापिता भक्तिरलीक-काकु-करण-कुशलताम्, पतितमुपचारमात्रमधुरं धूर्ततायामात्मार्पणम्, प्रकटितं वाङ्मनसयोर्भिन्नार्थत्वम्। आस्तां तावदात्मा, अस्थानाहितप्रसादा दिव्ययोग्या देव्यपि वक्तव्यतां नीता। जनयन्ति हि पश्चाद्वैलक्ष्यमभूमिपतिताः व्यर्थाः प्रसादामृतदृष्टयो महताम्।
भवतेति। भवता त्वया। आगन्तव्यं आयातव्यम् नियतञ्च निश्चितञ्च। आगमिष्यति आयास्यति नूनमेवेह भवदवस्थानोदन्तलाभसम्भवात् तत्र च तव गमनासम्भवादित्याशयः। तस्य केयूरकस्य मुखेन वदनेन विज्ञाप्य संसूच्य। अवधारणे ननु शब्दः। ‘ननु प्रश्नेऽप्यनुज्ञानेऽनुज्ञानेऽप्यवधारणे’ इति विश्वः। इयं सा जगत्प्रसिद्धा त्रिभुवननिन्दनीया त्रिविष्टपगर्हणीया निरनुरोधा कस्याप्यनुरोधेन न परिवर्त्तनीयेत्यर्थः, निष्परिचया परिज्ञानेनापि नान्यथा विधेयेति भावः, दुर्ग्रहा एवंविधतया दुर्ज्ञेया, मर्त्यानां मानवानां प्रकृतिः स्वभावः येषां मर्त्यानाम्, अकाण्डे असमये विसंवादिन्यो व्यभिचारिण्यः प्रीतयः स्नेहाः निष्कारणवत्सलतां कस्याप्यहेतुकस्नेहम्, न गणयन्ति नानुसरन्ति। निरूपितमेव विषयं समर्थयति—एवमिति। एवम् अनेन विधिना झटित्येवेत्यर्थः। आत्मनः स्वस्य स्नेहः प्रणयः, कपटो धूर्त्ततो यः कूटजालिकः असत्यव्यवहारवान् तस्य भावस्तां धूर्त्तेन्द्रजालिकव्यवहारत्वमित्यर्थः, नीतः प्रापितः। भक्तिः अनुरक्तिः, अलीककाकुकरणे असत्यवक्रोक्तिनिर्मितौ कुशलतां दक्षतां प्रापिता नीता। उपचारमात्रेण केवलेन वचनव्यवहारेण मधुरं मिष्टं न तु तत्वतो मधुरमित्याशयः। आत्मार्पणं भवदीयोऽहमिति स्वस्यार्पणं धूर्त्ततायां कपटतायां पतितं स्थापितं पर्यवसायितमित्यर्थः। तथा वाक् च मनश्चेति वाङ्मनसी ‘अचतुर’ इत्यादिना पा० सूत्रेण निपातः। भिन्नार्थत्वं विसंवादित्वं प्रकटितम्, आविष्कृतम्, ‘इच्छामि देहदानेनापि स्वस्त्यामत्र भवतीं कर्तुम्’ इत्याद्युक्त्वा झटित्येव यात्राकरणादित्याशयः एवञ्च पूर्वं स्नेहं दर्शयित्वा मर्त्यानां स्वभावो दुर्ग्रह एवेति समुदितोऽभिप्रायः।
इह विशेषेण सामान्यस्य समर्थनार्थायान्तरन्यासोऽलङ्कारः, प्रीतौ धूर्त्तेन्द्रजालिकतारोपस्य प्रस्तुतोपयोगितया परिणामलङ्कारः, तथा स्वभावस्य दुर्ग्रहत्वप्रतिपादनकार्यं प्रति अधिकतरहेतूपन्यासात् समुच्चयालङ्कारश्चेत्येतेषामङ्गाङ्गिभावसङ्करः।
आस्तामिति। आत्मा अस्मद्विपयिणी वार्तेत्यर्थः, आस्तां तावद् दूरे तिष्ठतु, अस्थाने अनधिकारिणि आहितो न्यस्तः प्रसादः अनुग्रहो यया सा, तथा दिव्ययोग्या त्रिदशालयोयलोकोचिता देव्यपि कादम्बर्यपि वक्तव्यतां गर्हणीयतां नीता मया प्रापिता, परदेशादायातेनापरिचितकुलशीलेन चन्द्रापीडेन सह कथं मैत्री विहितेति गर्हणां नीतेत्यर्थः। हि यतः, अमूमौ अनधिकारिणि पातिता आहिताः, अत एव व्यर्था
आप पत्रलेखाके साथ आएगा, निश्चय ही उसे लेकर केयूरक यहाँ तक आवेगा; तब मेरी ओरसे उसके द्वारा देवी कादम्बरीको प्रणाम कर यह विज्ञप्ति कहल भेजना कि—'सचमुच यह त्रिभुवन-निन्दनीय, अनुरोध न माननेवाला, परिचय-विहीन और दुर्बोध्य मनुष्योंका स्वभाव है कि उनकी प्रीति असमयमें विपरीत होकर धोखा दे जाती है और अकारण वात्सल्यकी गणना भी नहीं करती।' देखो—इस प्रकार प्रस्थान कर लेनेसे मैं अपने स्नेहको धूर्त ऐन्द्रजालिकके व्यवहारमें प्राप्त कर दिया हूँ, (अतः आपको स्नेह कपटका मिथ्या-प्रपञ्च प्रतीत होगा); अनुरागको मिथ्या वक्रोक्तिकी रचनेमें निपुण कर लिया हूँ, वाक्य-व्यवहारमें सुमधुर आत्मसमर्पणको धूर्त्ततामें पर्यवसित कर लिया हूँ; एवं वाक्य और मनका विभिन्न भाव प्रकाश कर दिया हूँ (अर्थात् मेरी वाणी और मनमें आपको भिन्नार्थ प्रकट होगा) और मेरी बात दूर रहने दीजिए। अपात्र मनुष्यमें अनुग्रह अर्पण कराकर मैंने दिव्य व्यक्तिके ही योग्य उस देवी कादम्बरीको भी निन्दाका पात्र बना दिया है, क्योंकि अपात्रमें निष्फल विन्यस्त (ढाली) हुई अनुग्रहामृतसे परिपूर्ण महानुभावोंकी दृष्टियाँ पीछेसे लज्जा उत्पन्न करती हैं। देवीके प्रति
१. इति।
२. क्वचित् चकारो नास्ति।
३. उपचारमधुरप्रकटितमुपचारमा***।
४. अभूमिपाताः।
५. ॰॰॰दृष्टयः।
मेघनादाय सन्देशकथन० ११४ ] चन्द्रकला-विद्योतिनीसहिता। [ ६३१
न खलु देवीं प्रति प्रवललज्जातिभारमन्थरं मे हृदयं यथा महाश्वेतां प्रति । नियतमेनामली- काध्यारोपणवर्णितास्मद्गुणसम्भारामस्थानपक्षपातिनीमसकृदुपालप्स्यते देवी । तत् किं करोमि, गरीयसी गुरोराज्ञा प्रभवति¹ देवमात्रकस्य², हृदयेन तु हेमकूटनिवासव्यसनिना लिखितं जन्मान्तरसहस्रस्य दास्यपत्रं³ देव्याः। न दत्तमस्याटविकस्य गौल्मिकेनेव⁴ देवीप्रसादेन गन्तुम्, सर्वथा गतोऽस्मि पितुरादेशादुज्जयिनीम् । प्रसङ्गतोऽसज्जनकथा⁵-कीर्त्तनेषु स्मर्त्तव्यः खलु चन्द्रापीडचण्डाल⁶ः। मा चैवं मंस्थाः, यथा जीवन् पुनर्देवीचरणारविन्द-वन्दनानन्दमनुभूय⁷
निष्प्रयोजनाः, महतां श्रेष्ठानां प्रसादः अनुग्रह एव अमृतं पीयूषः तत्पूर्णा दृष्टयो निरीक्षणानीति प्रमादा- मृतदृष्टयः सुस्निग्धा दृष्टिपाता इति तात्पर्यम्, पश्चाद् वैलक्ष्यं त्रपां जनयन्ति उत्पादयन्ति, स्वीयनिन्दा- वशादित्याशयः। इह सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः।
नेति। देवीं कादम्बरीम्। प्रबला नितान्तगुरुतरा या लज्जा त्रपा तस्या अतिभारेण अत्यन्तभारेण मन्थरं जडम् । ननु भवतश्चित्तं कथं महाश्वेतां प्रत्येव भिन्नमतिगुरूज्जातिभारमन्थरमित्यत आह— नियमिति। देवीं कादम्बरी, अलीकाध्यारोपणेन असत्याध्यासेन वर्णितः स्तुतः अस्मद्गुणानां सम्भारः समूहो यया ताम्, तथा अस्थाने अनधिकारिणि पक्षपातिनी ताम्, एनां महाश्वेतां नियतं नूनम् असकृत् वारंवारम् उपालप्स्यते तिरस्करिष्यति तद्विश्वासेन स्वस्यापि पक्षपातस्य व्यर्थत्वादित्याशयः। इह वाक्यार्थहेतुकं काव्यलिङ्गम् ।
तर्हि किं देवीं (कादम्बरी) सर्वथा विस्मृतवानस्येवेत्यत आह—तदिति। तत्किं करोमि कोऽप्युपायो नास्तीत्यर्थः, यतः गुरोः पितुः आज्ञा निदेशः देहमात्रकस्य केवलं देहस्य प्रभवति तदुत्पन्नत्वादाधिपत्यं कर्त्तुं शक्नोति, अत एव केवलं देह एवोज्जयिनीं गमिष्यतीत्याशयः, एतन्निमित्तक एव कृञ्प्रत्ययः कप्रत्ययः। तु किन्तु हेमकूटनिवासे व्यसनि आसक्तिमत् तेन हृदयेन (कर्त्रा), देव्याः कादम्बर्याः समीपे नास्यैव जन्मनः कृते, अपि तु जन्मान्तरसहस्रस्य दास्यपत्रं लिखित्वा दत्तम् अर्पितम्, अतो हृदयं तत्स- मीपे स्थास्यतीति न तदनुग्रहं कथङ्कारमपि विस्मरिष्यामीत्याशयः।
विस्मरणाभावे अन्यदपि कारणान्तरं दर्शयति—गौल्मिकेनेति सैन्याधिपतिना, आटविकस्य वनेचर- स्येव, देव्याः कादम्बर्याः प्रसादेन अनुग्रहेण, अस्य महल्लक्षणस्य पुंसः गन्तुं न दत्तम्, सैन्याधिपतिर्यथा चपलं वनेचरं नियमयति तथा देव्याः प्रमादो मामपीत्यर्थः। नन्वेवं कथं प्रस्थातुं शक्नोषीत्यत आह— सर्वथेति। पितुरादेशात् तातनिदेशात् केवलं देहमेव याति न पुनर्हृदयं, तस्य कादम्बर्या अनुग्रहेणावद्ध- त्वादिति सर्वथा गन्तुं न शक्नोत्येवेत्याशयः। इहोपमालङ्कारः। 'गुल्मः स्तम्बे प्लीह्नि घटसैन्ययोः सैन्य- रक्षग' इति विश्वः।
प्रसङ्गत इति। असज्जनकथाकीर्त्तनेषु असाधुजनोदन्तोच्चारणेपु चन्द्रापीड एव चण्डालः चन्द्रापीड- चण्डालः खलु निश्चयेन स्मर्त्तव्यः स्मरणीयः, प्रसादकर्तृ रपि क्लेशदत्वादित्याशयः।
मा चैवमिति। देव्याः कादम्बर्याः चरणारविन्दस्य पादकमलस्य वन्दनं नमस्कारणं तस्माद् य आनन्दः तम् अनुभूय अनुभवमविषयीकृत्य स्थास्यति । अनेन नूनमेव भूयोऽप्यागमनं द्योतितम् ।
मेरा हृदय, उस प्रकार गुरुतर लज्जा-भारसे जड़ नहीं होता है, जिस प्रकार महाश्वेताके प्रति। क्योंकि—जो गुण मुझमें नहीं हैं उन्हें मिथ्या आरोप करके उनके सामने वर्णन कर मेरी प्रशंसा करने तथा अपात्रमें पक्षपात करनेके कारण, देवी निश्चय ही महाश्वेताको वारंवार उलाहना देगी। किन्तु अब मैं क्या करूँ? अनुल्लङ्घनीय पिताका आदेश केवल शरीरके ऊपर ही आधिपत्य कर सकता है [ वह शरीर ही उज्जयिनीमें जाता है ] किन्तु हेमकूटमें निवास करनेके लिए अनुरागी हृदय देवीके समीपमें हजारों जन्मान्तरके लिए दास्यपत्र (गुलामी देनांग) लिख दिया है। सैन्याध्यक्ष जिस प्रकार दुष्ट वनेचर—व्याधको नहीं निकलने देता उसी प्रकार देवीका अनुग्रह मुझे जाने नहीं देता। तथापि पिताकी आज्ञासे ही उज्जयिनी (उज्जैन) में जाता हूँ—(किन्तु मन तो सर्वथा प्रस्थान करनेके लिए समर्थ नहीं हो रहा है) तब प्रसङ्गक्रमसे दुर्जनकी कथा कहनेके समयमें चाण्डाल- चरित्र चन्द्रापीडको भी निश्चय स्मरण करना। किन्तु इस प्रकार मनमें नहीं करना कि—चन्द्रापीड जीवित रह
¹ प्रभवति हि।
² देवमात्रस्य हि देवमात्रकस्य।
³ दास्यपट्टं।
⁴ आटविकगौल्मिकेनेव, देव्या हस्ते न दत्तमस्याटविकगौल्मिकेनेव।
⁵ प्रसङ्गतो जनकथा" ।
⁶ क्वचित् 'चण्डाल' पदं न विद्यते।
⁷ ...चरणारविन्दमननुभूय।
६३२ कादम्बरी- [ कथायाम्-
स्थास्यति चन्द्रापीड इति । महाश्वेतायाश्च सप्रदक्षिणं शिरसा पादौ वन्दनीयौ । मदलेखायाश्च कथनीयः प्रणामपूर्वमशिथिलः कण्ठग्रहः । गाढमालिङ्गनीया च तमालिका । अस्मद्वचनादशेषः प्रष्टव्यः कुशलं कादम्बरीपरिजन्ः, रचिताञ्जलिना च भगवानामन्त्रणीयो हेमकूटः' इति ।
एवमादिश्य तम्-‘सुहृदादि^१-साधनमक्लेशयता शनैः शनैर्गन्तव्यम्^२’ इत्युक्त्वा वैशम्पायनं स्कन्धावारभारे^३ न्ययुङ्क स्वयमपि च तथारूढ एव गमनहेला-हर्ष-हेपारव-कम्पित-कैलासेन खुर-ताण्डव-खण्डितभुवा कान्त-कुन्त-लता-वनवाहिना तरुण-तुरगप्रायेणं^४
इह वृत्त्यनुप्रासोऽलङ्कारः । यद्यपि कादम्बर्या निश्रीयमानभावित्पलीत्वेन निखिलोऽपि व्यवहार उपपद्यते, तथापि शिष्टाचारद्योतनेन भक्तिभावप्रकाशः अत्यन्तप्रीत्युपपादनार्थमित्यवधेयम् ।
महाश्वेतेति । सप्रदक्षिणं प्रदक्षिणासहितं यथा स्यात्तथा शिरसा मस्तकेन पादौ चरणौ वन्दनीयौ नमस्कारणीयौ । एतस्याः अत्यन्तहितैषितया तपस्वितया च केवलं सस्नेहा भक्तिरेव प्रकटिता । प्रणामपूर्वकं नमस्कारपूर्वकं यथा स्यात्तथा अशिथिलो गाढः, कण्ठग्रह आलिङ्गनम् , कथनीयो वाच्यः । एतस्यास्तु कादम्बर्याः सहचरीत्वेन तुल्यस्थानपातितया नमस्कारविज्ञापने म्, तद्वलन्वितत्वेन किञ्चिन्न्यूनतया च अशिथिलकण्ठग्रहनिवेदनसाहसम् । गाढम् अशिथिलं यथा स्यात्तथा आलिङ्गनीया आश्लेषणीया । स्वस्य तु कादम्बर्याः परिजनत्वविज्ञापनात् , तुल्यस्थानपातितया स्नेहस्थानतया च परिजनीभूतायास्तमालिकायाः केवलमशिथिलाश्लेषनिवेदनम् । अस्मद्वचनात् अस्मद्वाक्यात् अशेषः समग्रः कादम्बरीपरिजन्ः कादम्बरीसेवकवर्गः कुशलं श्रेयः प्रष्टव्यो जिज्ञासितव्यः । परिजनेषु कुशलप्रश्नविज्ञापमन्तु तेभ्यः सेवाप्राप्त्या स्नेहोदयात् कादम्बर्याः स्नेहाकर्षणाय तेष्वपि स्वीयत्वद्योतनस्यावश्यकत्वाच्च । रचितो विहितः अञ्जलिः हस्तपुटद्वयसंयोगो येन तेन, भगवान् हेमकूटः तन्नामको गिरिः आमन्त्रणीयः सम्भाषणीयः । एतदामन्त्रणविज्ञापनमपि च कादम्बर्या एव स्नेहाकर्षणाय तत्स्नेहायत्ततत्स्नेहद्योतनपरत्वादित्याशयः ।
एवमिति । तं मेघनादम् आदिश्य आज्ञाप्य, सुहृदादि मित्रराजवर्गप्रभृतिकम् , साध्यते संग्रामादिकर्मनेनेति साधनं सैन्यम् , अक्लेशयता यथावसरम् अशनस्वापादिसम्पादनेन खेदमविदधता त्वयेति शेषः । न्ययुङ्क्त नियोजितवान् ।
स्वयमिति । तथा प्रागुक्तदिशा आरूढ एव आरोहणं कृत एव इन्द्रायुधमिति शेषः । गमनं प्रस्थानमेव हेला विलासः तया यो हर्षः प्रमोदः तस्माद् यो हेपारवः तेन कम्पितश्चालितः कैलासो गिरिर्येन तेन । खुराणां शफानां ताण्डवेन उद्धतनृत्येन दृढाहननेनेत्यर्थः खण्डिता, विदारिता भूः पृथिवी येन तेन । तथा कान्ता रमणीया कुन्ता भल्लनामकास्त्रविशेषा लम्ब्यमानत्वाल्लत्ता इव तासां वनं समूहं वहति धारयतीति तेन । तरुणा युवकाः तुरगा अश्वाः प्राया अधिका यत्र तेन, अश्वसैन्येन तुरगस्कन्धावारेण अनुगम्यमानः
कर फिरसे देवीके चरणारविन्दोंकी सेवा करनेके आनन्दका अनुभव किए विना रह सकेगा । प्रदक्षिण करनेके साथ मस्तकद्वारा महाश्वेताके चरणोंका वन्दन करना । मदलेखासे प्रणाम-पूर्वक गाढ़ आलिङ्गन कहना । तमालिकाका गाढ़ आलिङ्गन करना । और मेरे कथनानुसार देवी कादम्बरीके समस्त परिजनोंसे कुशल-मङ्गल पूछना और अञ्जलि बाँध कर ( हाथ जोड़ कर ) माहात्म्यशाली हेमकूट-पर्वतसे सम्भाषण करना ।'
इस प्रकार मेघनादको आज्ञा देकर वह वैशम्पायनसे कहने लगा—'वैशम्पायन ! तुम मित्रराजाओंकी सेनाको यथासमय भोजन-शयनादि क्लेश न पहुँचे इस प्रकार धीरे-धीरे जाना, यों कहकर वैशम्पायनको सैन्यरक्षाके ऊपर नियुक्त किया । और आप भी उसी तरह घोड़े पर बैठे-बैठे, नूतन कादम्बरी वियोगके कारण शून्यमन होने पर भी, अपने पल्ल्यन (जीन) में संलग्न देहवाले और दूसरे घोड़े पर चढ़े चलते पत्र-वाहकसे उज्जयिनीकी वार्ता पूछता-पूछता प्रस्थान किया (चल निकला) । हेलाके साथ गमनके साथ आनन्दसे हेषा-रव (हिन-हिनाहट) करके कैलास पर्वतको कम्पित कराता, खुरों (टापों) के आघातसे भूतलको विदीर्ण कराता, सुन्दर लता-समूहके समान लम्बे-लम्बे कुन्त नामक अस्त्रों (भालों) को धारण करता, बहुसंख्यक तरुण-वयस्क
१. सुहृदापि । २. आगन्तव्यम् । ३...भारे । ४. खुरपातनताण्डव-खण्डित-भूमण्डलेन तुरगप्रायेण ।
शून्याटवीवर्णना ११५ ] चन्द्रकला-विद्योतिनीसहिता ६३३
अश्वसैन्येनानुगम्यमानस्तमेव लेखहारकं पर्याण-लग्नमभिनवकादम्बरीवियोगशून्येनपि हृदयेनोज्जयिनीवार्त्तां प्रच्छन् प्रतस्थे।
क्रमेण चातिप्रवृद्धप्रकाण्ड-पादप-प्रायया, मालिनीलतामण्डपैः मण्डलिततरुषण्डया, गजपति-पातित-पादप-परिहार-वक्रीकृतमार्गया, जन-जनित-तृण-पर्ण-काष्ठ-कोटि-कूट-प्रकटित-वीरपुरुष-घातस्थानया, महापादप-भूतलोत्कीर्ण-कान्तार-दुर्गया, तृषित-पथिक-खण्डित-दलो-ज्झितामलकीफल-निकरया, विकसित-करञ्ज-मञ्जरी-रजो-विच्छुरित-तटैस्तट-तरु-बद्ध-पाटच्चर-कर्पटध्वज-चिह्नेरिष्टकास्थित-शुष्क-पल्लव-विष्टरानुमित-पथिक-विश्रान्तैर्विश्रान्तकार्पटिक-प्रस्फो-
अनुगम्यमानः, पर्याणे पल्लयने लग्नः अन्यतुरगारोहणेन संसक्तशरीरस्तम्, तमेव पूर्वोक्तमेव, लेखहारकं पत्रवाहकम् । प्रतस्थे चचाल ।
क्रमेणेति । चन्द्रापीडः क्रमेण च शून्यया अटव्या दिवसं गत्वा अतिक्रम्येत्यर्थः । परिणते रविबिम्बे दूरत एव दक्षिणादेव चिरप्ररूढस्य अधिकसमयेनोत्पन्नस्य रक्तचन्दनतरोः पत्राङ्कवृक्षस्य उपरि बद्धं महान्तं रक्तध्वजं ददर्श अवलोकयामासेत्यन्वयः । इत आरभ्य स्त्रीलिङ्गतृतीयाकवचनान्तानि पदानि अग्रेतनस्य अटव्यैत्यस्य विशेषणान्यवगन्तव्यानि । अतिप्रवृद्धा अत्यन्तोपचयं प्राप्ताः प्रकाण्डाः स्कन्धदेशा येषां ते तथोक्ताः पादपा वृक्षाः प्राया बहुला यस्यां तया ।
मालिनीति । मालिनीसंज्ञिका या लता वल्लयः तासां मण्डपैः मण्डलितं वेष्टितं तरुषण्डं वृक्षसमूहो यस्यां तया तादृश्या ।
गजपतीति । गजपतिभिः यूथाधिपैः पातितानां भग्नीकृत्य निपातितानां पादपानां तरूणां परि-हारेण परित्यागेन वक्रीकृतः कुटिलीकृतो मार्गः पन्था यस्यां तया ।
जनेति । जनैः पान्थपुरुषैः जनितं स्वरक्षणार्थं एकत्रीकृतं यत् तृण-पर्ण-काष्ठानां कोटेः कोटिसंख्यायाः कूटं राशिः तेन प्रकटितं द्योतितं वीरपुरुषाणां पराक्रमवतामपि घातस्थानं हिंस्रजन्तुभिः प्राणहननस्थानं यस्यां तया । वीरायिता अपि पथिकजना हिंस्रजन्तुभ्यः स्वरक्षणार्थं तृणकाष्ठादीनां कूटं विधाय तन्मध्ये ऽदिश्य निशि निवसन्तीति भयङ्करत्वं द्योत्यते । इह च्छेकानुप्रासवृत्यनुप्रासयोरेकाश्रयानुप्रवेशरूपः सङ्करः ।
महेति । महापादपा उच्चैस्तरवृक्षाः तेषां मूलेषु बुध्नेषु उत्कीर्णा न्निस्तक्ष्य रचिताः कान्तारदुर्गा-मूर्त्तयो यस्यां तया ।
तृषितेति । तृषितैः पिपासातुरैः पथिकैः पान्थैः खण्डितानि आस्वादितानि दलानि कानिचित् खण्डानि येषां तानि उज्झितानि आस्वादनानन्तरं परित्यक्तानि च एतादृशानि यानि आमलकीफलानि धात्रीफलानि तेषां निकरः समूहो यस्यां तया । 'दलमुत्सेधखण्डयोः' इति रामाश्रमी टीका ।
विकसितेति । विकसिताः प्रस्फुटिता याः करञ्जमञ्जर्यः नक्तमालवल्लर्यः तासां रजोभिः परागैः विच्छुरितानि व्याप्तानि तटानि तीराणि येषां तैः । तटतरुषु तीरवृक्षेषु बद्धा नियमिता ये पाटच्चराः चौराः तेषां कर्पटाः प्रस्वेदादिमार्जनार्थहस्तस्थवसनखण्डाः त एव ध्वजचिह्नानि पताकालक्ष्मणि येषां तैः । इष्टकासु विद्यमाना ये शुष्कपल्लवानां नीरसकिसलयानां विष्टरा उपवेशनायासनानि तैः अनुमिता अनुमितिविषयीकृताः पथिकानां पान्थानां विश्रामा येषु तैः । विश्रान्ताः स्थिता ये कार्पटिकाः तीर्थयात्रा-
तुरङ्गवाला अश्वारोही सैन्य उसके पीछे-पीछे चला आता था ।
क्रमशः चलते-चलते एक शून्य वन आया, जिसके मध्यमें प्रायः ऊँचे तनेके वृक्ष अधिक वृद्धि पाए थे; मालिनीनामक लताओंके मण्डपसे वृक्षसमूह परिवेष्टित थे; हाथियोंके द्वारा गिराए हुए वृक्षोंको पथिकों द्वारा परित्याग कर सरक जानेसे पड़े रहनेके कारण मार्ग वक्र हो गया था (पगडण्डी टेढ़ी हो गई थी) ; हिंसक जन्तुओंसे आत्मरक्षा करनेके लिए पथिकों द्वारा काटे हुए करोड़ों तृण-पर्ण (घासपत्ते) और काष्ठके राशि सङ्ग्रह कर रखनेसे वीरपुरुषोंकी हत्याके स्थानकी सूचना होती थी; पथिकों द्वारा बड़े-बड़े वृक्षोंकी जड़में खोद कर बनाई हुई वन-दुर्गाकी मूर्तियाँ विद्यमान थीं; पिपासार्त्त पथिकों द्वारा छिल्का उतार कर चर्वण कर बादमें फेंके गए आमलकी-फलसमूह (आँवले) पड़े थे; वहाँ किनारे ही पुरातन (पुराने) कूप थे; उनके तीर देशमें प्रस्फुटित (खिले हुए) करञ्जनामक वनस्पतिकी मञ्जरीकी रज व्याप्त हुई थी; किनारों पर उत्पन्न हुए वृक्षोंमें चोरोंके पुराने वस्त्रों और चिथड़ोंको पताकाओंके चिह्न बँधे थे; ईंटों पर निर्मित हुए शुष्क पत्तोंकी शय्यासे वहाँ पथिकोंके विश्राम
१. उज्जयिनीमार्ग । २ ॰॰॰मण्डलौः । ३. वनगजपत्ति॰॰॰ । ४. पथया । ५. लजन॰॰॰ । ६. ॰॰॰पुरुषहृदय॰॰॰ । ७. कपिकच्छूच्छुरितमञ्जरी । ८. तटवद्ध॰॰॰ जरत्कर्पट॰॰॰ । ९. इष्टकचित॰॰॰ ।
४० का०
६३४ कादम्बरी- [ कथायाम्-
टितै-चरणधूलि-धूसर-किसलय-लाञ्छितोपकण्ठैः पत्रसङ्करासुरभीकृताशिशिरपङ्किलविवर्णा-स्वादुजलैर्व्रतति-ग्रन्थि-ग्रथित-पर्णपुट-तृण-पूली-चिह्नानुमेयैर्जरत्कान्तार कूपैरसुलभ-सलिलतया अनभिलषितोद्देशया, मधु-विन्दु-स्यन्दिसिन्दुवार-वनराजि-रजो धूसरित-तीराभिश्च कुञ्जकै-लताजालकैर्जटिीलीकृत-सैकताभिः अध्वगोत्खात-वालुका कूपिकोपलभ्यमानै-कलुष-स्वल्प-सलिलाभिः शुष्क-गिरिनदिकाभिर्विषमीकृतान्तरालया, कुक्कुट-कौलेयकरटितानुमीयमान-गुल्म-गहन-ग्रामटिकयो शून्यया दिवसमटव्या गत्वा, परिणते रविबिम्बे, विन्ध्या रुगातपविसरे
कारिणः तैः प्रस्फोटिताः किसलयद्वारा घातेनैव विक्षिप्ता याश्चरणधूलयः पादपांसवः ताभिः धूलराणि धूसरवर्णोकृतानि यानि किसलयानि पल्लवानि तैर्लाञ्छितः चिह्नितः उपकण्ठो निकटदेशो येषां तैः । पत्राणाम् अनेकविधतरुपर्णानां सङ्करेण मेलनेन असुरभीकृतानि दुर्गन्धीकृतानि अशिशिराणि अशीतलानि (उष्णानि ), पङ्किलानि आविलानि, विवर्णानि अशुभ्रवर्णानि अस्वादूनि स्वादुरहितानि च जलानि सलिलानि येषां तैः । व्रततिग्रन्थिभिः वल्लीग्रन्थिभिः ग्रन्थिा गुम्फिता या पर्णपुटयुक्तास्तृणपूल्यः तृणरचितपत्रपुटाधारविशेषाः ता एव चिह्नानि लक्ष्माणि तैः अनुमेयैः दूरादलक्ष्यत्वेनानुमातुमुचितैः । पिपासिताः पान्था हि रज्ज्वाः पात्रस्य चाभावे, तृणैर्गुहभारं पूलीं निर्माय तत्र च पत्रपुटं स्थापयित्वा दीर्घलताभिर्बद्ध्वा पत्रपुटकैः कूपाज्जलमुद्धरन्तीति प्रसिद्धिः । जरन्तः प्राचीना ये कान्तारस्य महाविपिनस्य कूपास्तैः कारगैः असुलभानि दुष्प्राप्याणि सलिलानि येषु स्थानेषु ते तथा तेषां भावस्तया कारणेन, अनभिलषिताः प्रयातुमनभ्छिद्यता उद्देशाः स्थानानि यस्यास्तया । इह स्वभावोक्तिः ।
मञ्चिति । अपि च, मधुविन्दुस्यन्दिन्यः पुष्परसकणवर्षिण्यो या सिन्दुवारवनराजयः निर्गुण्डीकाननपङ्क्तयः तासां रजोभिः परागैः धूसरितानि कपोतवर्णीकृतानि तीराणि तटानि यासां ताभिः । कुञ्जकानि लघुतिकुञ्जानि तेषां लताजालकैः वल्लीस मूहैः । जटिलीकृतानि व्याप्तानि सैकतानि जलोत्थितपुलिनानि यासां ताभिः । तथा अध्वगैः पान्थैः उत्खाता वालुकां दूरीकृत्य रचिता या वालुकासु कूपिकाः लघुविदारकाः (कूपाः ) तासु उपलभ्यमानानि प्राप्यमाणानि कलुषाणि पङ्किलानि स्वल्पानि स्तोकानि च सलिलानि जलानि यासु ताभिः । शुष्काः जलशोषगं प्राप्ता या गिरिनदिकाः पर्वतीयलघुसरितः ताभिः विषमीकृतानि उच्चतावनतीकृतानि अन्तरालानि मध्यदेशा यस्यास्तया । इह वृत्यनुप्रासः ।
कुक्कुटेति । कुक्कुटाः ताम्रचूडपक्षिणः कौलेयकाः श्वानः तेषां च रटितैः शब्दैः अनुमीयमानाः अनुमितिविषयीक्रियमाणाः तेषां ग्राम्यत्वादित्याशयः, गुल्मगहनेषु वृक्षवल्लीसान्द्रभूमिषु ग्रामटिका क्षुद्रग्रामा यस्यां तया । इह क्षुद्रार्थे ग्रामशब्दाट्टिकन् प्रत्ययो ज्ञेयः । तथा शून्यया निर्जनया अटव्या विपिनेन कान्तारमार्गेणेत्यर्थः, दिवसं गत्वा वासरं व्यतीत्येत्यर्थः, अन्वयस्तु प्रतिपादित एव ।
परीति । रविबिम्बे सूर्यमण्डले, परिणते अन्तिमदशापन्ने अस्तोन्मुखे सतीत्यर्थः, यथा वासरे दिने बिम्बवत् बिम्बफलवत् अरुणो लोहितवर्णः आतपविसरः सूर्यप्रकाशसमूहो यत्र तथोक्ते सति । इह
करनेका अनुमान होता था; उनके किनारोंके समीपके प्रदेश, तीर्थयात्रियोंके विश्राम करनेके समयमें उनके द्वारा चरण पोंछनेके कारण लगी धूलसे मलिन हुए पत्तोंसे चिह्नित थे; अनेक प्रकारके वृक्षोंसे पत्र गिर कर मिश्रित होनेसे उनका जल-दुर्गन्ध, उष्ण (गरम), पङ्कमय, अन्यवर्ण (गन्दा) और अस्वादु हो गया था; चारों ओर लताओंकी गाँठें लगाकर निर्मित हुए पत्तोंके पात्र और तृणके निर्मित हुए पत्रपुटाधारविशेष (फिरफिनी) के चिह्न देखकर दूरसे ही उनका अनुमान होता था; महावनके पुराने कूप होनेके कारण उनमें जल दुष्प्राप्य होनेसे उस प्रदेशमें कोई जानेकी इच्छा नहीं करता था। कितनी ही शुष्क पार्वत्य नदियोंसे उस वनका मध्यभाग ऊँचा नीचा हो गया था; उनके तीरदेश मधु-विन्दुओका वर्षण करते (टपकाते) सिन्धुवारवृक्ष वन-पङ्क्तिसे उड़कर आई हुई रजने धूसरवर्ण (मलिन) हो गए थे, छोटी-छोटी लताओंके समूह उनकी रेती पर व्याप्त थे और पथिकोंने वालूआओंको हटा-हटा कर वहाँ छोटी छोटी कुइयां खनन की (खोदी) थीं जिनमेंसे थोड़ा-थोड़ा कईमाक्त (मटियाला) जल मिल जाता था । जिसमें वन-मुर्गों ओर कुत्तोंके शब्दसे अनुमान किया जाता था कि सघन-तरु-लतामय (झाडी) के अभ्यन्तरमें कोई छोटा गाँव होगा—ऐसे शून्य वनमें दिन भर चलनेके पश्चात् जब सूर्यमण्डल प्रायः अस्त होने लगा और दिन बिम्ब-फलके समान रक्तवर्ण आलोक (धूप) से समन्वित
१. ०प्रस्फुटित, स्फोटित ० । २. धूलि ० । ३. तृणोलूपपुलाक००० । ४. अनुमितप्रमेयः । ५. ०सिन्धुवार००० । ६. कुञ्जक ०० । ७. ०००कूपकोपलभ्यमान ०० । ८. कुक्कुटकुल ०० । ९. ग्रामया ० १०. परिणतरविविम्बे । ११. सन्ध्यारुणा ।
रक्तध्वजवर्णना ११६ ] चन्द्रकला-विद्योतिनीसहिता । ६३५
वासरे, निःशाखीकृत-कदम्ब-शाल्मली-पलाश-बहुलैः शिखर-शेषैक-पल्लव-विडम्बितातपत्रैः पादपैः, ऊर्ध्वस्थित-प्ररोह-स्थूल-स्थाणु-मूल-ग्रन्थि-जटिलैश्च हरिताल-कपिल-पक्ववेणु-विटप-पटल-रचित-वृतिभिर्मृग-भय-कृत-तृणपुरुषवैर्विपाकपाण्डुभिः फलितैः प्रियङ्गुप्रायैरटवीक्षेत्रैर्वि-रलीकृते वनप्रदेशे चिरप्ररूढस्य रक्तचन्दनतरोरुपरि बद्धम्, सरस-पिशित-पिण्डनिभैरलक्तकैः, अभिनवशोषितागुणेन रक्तचन्दनरसेन चार्द्रम्, जिह्वा-लता-लोहिनीभी रक्तपताकाभिः, केशकलापकान्तिना च कृष्णचामरावचूलेन प्रत्यग्रविशसितानां जीवानामिवान्य-
लुप्तोपमाच्छेकानुप्रासश्चेत्युभयोः संसृष्टिः ।
निःशाखीति । निःशाखीकृता वनस्थायिभिः विटपैः शून्योकृताः कदम्बशाल्मलीपलाशाः निजाभिधे-यविद्यमानाः तरव एव बहुला अधिका येषु तैः, तथा शिखरेषु ऊर्ध्वदेशेषु शेषा अवशिष्टा एके एकैके ये पल्लवाः किसलयाः तैः विडम्बितानि अनुकरणीकृतानि आतपत्राणि छत्राणि यैस्तैः पादपैः अगणितैस्त-रुभिः । 'विरलीकृत' इत्यग्रेतनस्य कर्तृपदमेकमेतत् । अपि च ऊर्ध्वस्थिता उपरिबिद्यमाना दण्डायमानी-भूताः प्ररोहा नूतनाङ्कुरा येषां ते तादृशा ये स्थूलाः स्थाणवः निःशाखा वृक्षस्तम्भाः तेषां मूलग्रन्थिभिः वुघ्नभागैः जटिलानि व्याप्तानि तैः । हरितालं नटमण्डनं धातुविशेषः तद्वत् कपिलैः पिङ्गलवर्णैः पक्ववेणु-विटपपटलैः परिणतवंशशाखानिकरैः रचिता कृता वृतिर्वेष्टनं येषां तैः । मृगेभ्यो हरिणेभ्यः पशुना पशु-द्वारा प्रियङ्गवदनादिति तात्पर्यम् । भयेन त्रासेन कृताः तृणपुरुषाः तृणरचितपुरुषस्वरूपपदार्थाः वस्त्रा-पुरुषाः इत्यर्थः, येषु तैः । पशवो हि तथाविधान् जनान् निरीक्ष्य त्रासान्नोपगच्छन्तीति विख्यातम् । विपाकेन विशेषेण परिणततया पाण्डुभिः श्वेतरक्तैः । तथा फलितैः समुत्पन्नफलैः, प्रियङ्गवः श्यामाकाः प्रायेण आधिक्येन येषु तैः । अटवीक्षेत्रैः तदरण्यस्थशस्यक्षेत्रैः विरलीकृते सङ्कोचं प्रापिते, वनप्रदेशे अरण्यैकभागे, चिरप्ररूढस्य अधिकपूर्वं सञ्जातस्य अत्यन्तपुरातनस्य रक्तचन्दनतरोः उपरि ऊर्ध्वं बद्धं रश-नाभिः संयतम् 'रक्तध्वजम्' इत्यग्रेतनस्य विशेषणम् । इत्थमतिरिक्तर्माप द्वितीयान्तपदं बोध्यम् ।
सरसेति । सरसानि क्लिन्नानि रक्तानि लोहितानि यानि पिशितपिण्डानि मांसखण्डानि तन्निभैः तत्सदृशैः अलक्तकैरार्यक्तैः अभिनवं तत्कालनिर्गतं यत् शोणितं रुधिरं तद्वत् अरुणेन रक्तवर्णेन रक्तचन्द-नेन पत्राङ्गरसेन च आर्द्र सरसम् । इहार्थोपमा लुप्तोपमा चेत्युभयोः परस्परं नैरपेक्ष्येण संसृष्टिः ।
जिह्वेति । जिह्वा रसना लता वल्ली इव लम्बमानत्वात्तद्वत् लोहिनीभिः रक्ताभिः रक्तपताकाभिः लोहितवैजयन्तीभिः । इह लुप्तोपमा । तथा '...लोहिनीभी रक्तपताकाभिः' इत्यत्राधिकपदत्वदोषवार-णाय रक्तपदं परित्याज्यमेव । केशकलापः कचसमूहः तद्वत् कान्तिः शोभा यस्य तेन, कृष्णचामरमेव श्यामवालव्यजनमेव अवचूलम् अधोमुखकूर्चकं तेन च । अत एव प्रत्यग्रविशसितानां तत्कालनिहतानां
हो गया तब एक विशाल रक्त-ध्वज दूरसे ही उसे दीख पड़ा । उस वनके अधिकतर प्रदेशके मध्यमें अगणित शाखा-विहीन कदम्ब, शाल्मली और पलाश वृक्ष लगे थे, जिनके चोटीपर एक पल्लव रहनेसे वे छत्रका अनुकरण करते थे, जिनमें नए अङ्कुर (कोंपल) निकल कर ऊपरको चढ़ रहे थे ऐसे स्थूल स्तम्भोंकी जड़ोंसे वह प्रदेश परि-पूर्ण हुआ था; वहाँ हरितालके समान पिङ्गलवर्ण हुए पके बाँसके वृक्षोंकी बेड़ा (चारों ओर घेरा) बनाई गई थी; पशुगण सस्य भक्षण कर लेते हैं-इसके भयसे तृण द्वारा बहुतेरे कृत्रिम-पुरुष निर्माण कर रखे गए थे, पक जानेके कारण पाण्डुवर्ण (पीले) दीखते और फल-समन्वित प्रियङ्गु वृक्षोंसे वह सङ्कुचित हो रहा था, वहीं चिरकालसे लगे रक्त-चन्दनके वृक्षके ऊपर वह विशाल ध्वज बँधा हुआ था, जो इतस्ततः पथिकोंके बलिदानका मार्ग देखता था । वह ध्वज, रक्ताई मांसपिण्डके समान गाढ़ आल्ता (महावर) रससे और सद्योनिःसृत-रक्त (तत्काल निकले शोणित) के समान लाल रक्त-चन्दनके लेपसे आर्द्र था; उस ध्वजके ऊपरमें लताके तुल्य लम्बमान जिह्वाके समान रक्त वर्ण रक्त-पताकाएँ और केश-कलापके समान सौन्दर्य-सम्पन्न और अधोमुखसे काले बहुतसे चामर लटकने थे, जिनसे प्रतीत होता था कि मानो सद्योनिहत (ताजे मारे हुए) प्राणियोंके
१. निःशाखोकृतैः । २. ऊर्ध्वकृतप्ररोहस्थूलस्थिन,' - 'ऊर्ध्वधृतप्ररोहमूलस्थूलस्थाणुग्रन्थि' ...। ३. विटपिपाटरचित, विटपिदल... विटपदल..., विटपरचित । ४. फलिनैः । ५. विरलीकृतवनप्रदेशे • दूग्त पदर्शित । ७. अभिनवशोगितागुणेन । ८. रसेन चार्द्रेण ।
| ६३६ | कादम्बरी- | [ कथायाम्- |
|---|
वैरूपरचित-दण्ड-मण्डनम्, परिणद्धं¹-वराटक-घटितबुद्बुदार्द्धचन्द्र-खण्ड-खचितम्, सुत-महिष-रक्षणावतीर्ण-दिनकरावतारित-शशिनेव विराजितशिखरम्, दोलायित-शृङ्ग-सङ्गि-लोह-शृङ्खलावलम्बमान-घर्घर-रव-घोरघण्टया च घटित-केसरि-सटा-रुचिर-चामरया काञ्चनत्रि-शूलिकया लिखितनभस्तलम्² ³ , इतस्ततः पथिकपुरुषोपहार-मार्गमिवावलोकयन्तं⁴ महान्तं रक्तध्वजं दूरत॰एव॰ददर्श ।
तदभिमुखश्च कञ्चिदध्वानं⁵ गत्वा, केतकी-सूची-षण्ड-पाण्डुरेण⁶ वन-द्विरद्-दन्त-कपाटेन⁷
जीवानाम् अवयवैः अङ्गैः उपरुचितं विहितं दण्डे दण्डांशे मण्डनम् अलङ्करणं यस्य तमिव । वैजयन्तीनां रसनासद्दशत्वात् श्यामवालव्यजनस्य च कचतुल्यत्वादित्याशयः । इहालङ्करणनिर्माणोत्प्रेक्षणात्क्रियोत्प्रेक्षा ।
परिणद्धेति । परिणद्धा दण्डाग्रभागे परितः संयता ये वराटिकाः कपर्दकाः तैः घटितं रचितं यद् बुद्बुदवद् (बुद्बुदतुल्यः पीनो मध्यभागो यस्य ) यः अर्धचन्द्रखण्डः अर्धचन्द्राकारं मण्डनमित्यर्थः तेन खचितम् ऊर्ध्वभागेऽङ्कितम्, अतएव सुतस्य आत्मजस्य यमस्य यो महिषो रक्ताक्षः तस्य रक्षणाय त्राणाय अवतीर्णो यो दिनकरः सूर्यः तेन अवतारितो गगनादवरोहितो यः शशी चन्द्रः तेनेव विराजितं शोभितं शिखरम् ऊर्ध्वदेशो यस्य तम् । कपर्दकनिर्मितार्धचन्द्राकारभूषणस्य प्रकृतशशिवदवलोक्यमानत्वादित्याशयः । इह वाक्यार्थहेतुकं काव्यलिङ्गम्, तथाविधार्धशशिनि प्रस्तुतशशित्वोत्प्रेक्षणाद् द्वयोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः । अत्र हि चण्डिकामन्दिरे प्रतिदिनमेव निरतिशयाः पशुबलयो दीयन्ते तदर्थं महिषवाहनो यमः सन्निहितः । तत्र च पशूनां प्राणविनाशाय यमस्यातिव्याकुलतायां पशुबुद्धया मा केनचित् यममहिषो विहन्यतामिति सुतस्नेहेन सूर्योऽप्यवतीर्णः, अवतरता च तेन स्वजनभूतश्चन्द्रोऽप्यवतारित इति महाकवेरभिप्रायः ।
दोलायितेति । अपि च दोलायितं घण्टान्दोलनात् दोलावच्चलितं यत् त्रिशूलिकायाः त्रिशूलस्य एव एकं शृङ्गं विषाणं तत्सङ्गिनी तत्सम्पर्कवती या लोहशृङ्खला तत्र अवलम्बमाना संयततया विद्यमाना घर्घररवा काहलस्वरा घोरा भीषणा च घण्टा यस्यां तया । तथा घटितं संयोजितं केसरिसटावत् मृगेन्द्रजटावत् चामरं वालव्यजनं यत्र तया, काञ्चनत्रिशूलिकया सुवर्णरचितविस्तृतत्रिशूलेन लिखितं संस्पृष्टं नभस्तलं गगनतलं येन तम् । इह लुप्तोपमा ।
इत इति । पथिकपुरुषाः पान्थजना एव उपहारा वलयः तेषां मार्गम् आगमाध्वानम् अवलोकयन्तं पश्यन्तमिव विद्यमानम् । अत्युन्नतत्वार्धचन्द्रसदशवराटकाभूषणस्य विकसितलोचनरूपत्वाच्चेत्याशयः । इह क्रियोत्प्रेक्षा ।
तदिति । अपि च, चन्द्रापीडः तस्य रक्तध्वजस्य अभिमुखः संमुखः सन्, किञ्चित् कियन्तम् अध्वानं मार्गं गत्वा 'चण्डिकामपश्यत्' इति सुदूरस्थायिन्या क्रियया सम्बन्धः । इह स्त्रीलिङ्गद्वितीयेकवचनान्तानि पदानि अग्रेतनस्य 'चण्डिकाम्' इत्यस्य विशेषणानि बोध्यानि ।
केतकीति । केतक्यः तदाख्यकुसुमस्य सूचिपण्डवत् अग्रसमूहवत् पाण्डुरेण श्वेतेन, वनद्विरददन्तस्य आरण्यकगजस्य दन्तस्य कपाटेन अरेण, परिवृताम् आवृताम् । इह लुप्तोपमा ।
अवयवोंके ही अलङ्कारोंसे उसे सुसज्जित किया हो। बुद्बुदके समान् स्थूलमध्यवाले और अर्धचन्द्रके समान टेढ़े-टेढ़े सब ओर कपर्दक (कौटियाँ) बाँधकर उस ध्वजाके ऊपरका भाग चिह्नित किया हुआ था; अत एव प्रतीत होता था कि मानो—अपने पुत्र यमके महिषकी रक्षा करनेके लिए उसपर उतरे सूर्यने चन्द्रको भी उतार लिया हो। उसके ऊपर जो आकाशको स्पर्श करने इतना ऊँचा—एक सुवर्ण-निर्मित त्रिशूल लगा था, उसके ही चञ्चल शृङ्गमें बँधी लोह-शृङ्खलाओं (लोहेकी जंजीरों) के हिलनेसे गम्भीर-ध्वनि करनेवाली तथा भयङ्कर एक घण्टी लटक रही थी, और सिंहकी सटाके समान सुन्दर एक चामर उसमें बँधा हुआ था।
उस ध्वजाके अभिमुख होकर थोड़ी दूर चलनेके पश्चात् उसने वनैले हाथी दाँतके बने हुए, केवड़ेके अग्रभाग
१. परिणत..., हाटकघटितबुद्बुदपुदार्थचन्द्र । २. ॰॰॰लोहशृङ्खलमाला॰॰॰ । ३॰॰॰नभःस्थलम् ।
४. आलोकयन्तं । ५. किञ्चिदध्वानं । ६. वेतकीसूचित खण्टपाण्डुना च । ७. कवाटेन ।
चण्डिकावर्णना ११७ ] चन्द्रकला-विद्योतिनीसहिता । ६२७
परिवृताम्, लोहतोरणेन च रक्तैश्चामरावलिपरिकरां कालायस-दर्पणमण्डलमालां शबर-मुखमालामिव कपिलकेशभीषणां बिभ्राणेन सनाथीकृतद्वारदेशाम्, अभिमुखप्रतिष्ठितेन च विनिहितरक्तचन्दनहस्तकतया रुधिरारुण-यम-करतलास्फालितेनेव शोणित-लवं-लोभलोल-शिवालिह्यमानं-लोहितलोचनेन लोहमहिषेणाध्यासिताञ्जनशिलावेदिकाम्, क्वचिद्रक्तोत्पलैः शवरनिपातितानां वनमहिषाणामिव लोचनैः क्वचिदगस्तिकुसुमकुङ्मलैः केसरिणामिव करजैः क्वचित् किंशुककुसुमकुङ्मलैः शार्दूलानामिव सरुधिरैर्नखरैः कृतपुण्यपुष्पप्रकराम्,
लोहेति। अपि च, कपिलैः पिङ्गलवर्णैः केशैः कचैः भीषणा भयङ्करा ताम्, शबराणां भिल्लानां मुखमालां वदनपङ्क्तिमिव, रक्ता लोहितवर्णा चामरावलिः बालव्यजनपङ्क्तिः परिकरः परिच्छदो यस्यास्ताम्, कालं श्यामं अयो लोहमिति कालायसं तस्य यानि दर्पणमण्डलानि आदर्शाकारगोलखण्डानि तेषां मालां पङ्क्ति बिभ्राणेन धारयता, लोहतोरणेन अयोरचितबहिर्द्वारेण, सनाथीकृती युक्तो द्वारदेशो यस्यास्ताम् चण्डिकामित्यस्य विशेषणमिदम्। इह शवरवदनानि श्यामवर्णानि तत्कचाश्च कपिलवर्णाः, अतएव शबरवदनपङ्क्त्या सह कृष्णलौहादर्शमण्डलपङ्क्त्याः तदीयपिङ्गलवर्णकचसमूहैश्च सह लोहितवर्णचामरावलेरौपम्यमित्युपमालङ्कारः। तथा ‘शवरमुखमालामिव’ इत्यस्य स्थाने ‘शवरमुखश्रेणीमिव’ इत्येव पाठो विधेयः, अन्यथा पौनरुक्त्यस्य वारयितुमशक्यत्वात्।
अभीति। अपि च, विनिहिताः तत्रत्यलोकैरर्पिताः रक्तचन्दनहस्ताः पञ्चाङ्गरसाक्तहस्तचिह्नानि यत्र स तथा तस्य भावस्तया तादृश्या कारणेन रुधिरेण शोणितेन अरुणं रक्तवर्णं यद् यमस्य धर्मराजस्य करतलं युग्मपागितलं तेन आस्फालितः चालनाय सन्ताडितः तेनेव, पञ्चाङ्गरसाक्तकरचिह्नानामास्फालनसमयलग्न-शोणिताक्त-यमकरचिह्नबदवलोक्यमानत्वादित्याशयः। तया शोणितलवानां रुधिरवणानां लोभेन रक्तचन्दनचिह्नेषु रुधिरविन्दुभ्रमात् नत्पानतृष्णयेत्यर्थः, लोलाश्चपला याः शिवाः जम्बुकपत्न्यः ताभिर्लिह्यमाने जिह्वया आस्वाद्यमाने लोहिते अहगवर्णे लोचने नयने यस्य तेन। अभिमुखप्रतिष्ठितेन भगवत्याः संमुखस्थापितेन, लोहमहिषेण कालायसनिर्मितरक्ताक्षेण, अध्यासिता अधिष्ठिता अञ्जनशिलावेदिका कज्जलवत् श्यामवर्णप्रस्तररचितवद्धभूमिः यस्यास्ताम् इह क्रियोत्प्रेक्षावृत्यनुप्रासयोर्मियो नैरपेक्ष्येण संसृष्टिः तथा रक्तचन्दनचिह्नेषु रुधिरविन्दुभ्रमव्यञ्जनाद् भ्रान्तिमानलङ्कारः प्रतीयते।
क्वचिदिति। क्वचित् कस्मिंश्चित्प्रदेशे शवरनिपातितानां भिल्लयापादितानां वनमहिषाणाम् अरण्यकच्छागाणां लोचनैर्नयनैरिव रक्तोत्पलैः कोकनदैः, कोकनदानां रक्ताञ्जननयनसदृशरूपत्वादित्याशयः, क्वचित् केसरीणां मृगाधिपानां करजैनँखैरिव अगस्तिकुसुमकुङ्मलैः वकप्रसूनकोरकैः, अगस्तिपुष्पकुङ्कुमलानां केसरिनखसमानस्वरूपत्वादित्याशयः, क्वचिच्च शार्दूलानां व्याघ्राणां सरुधिरैः शोणितसहितैः करजैरिव किंशुककुसुमकुङ्मलैः पलाशपुष्पकोरकैः, पलाशपुष्पमुकुलानामपि शार्दूलनखरसमानरूपत्वादित्यभिप्रायः, तन्मुकुलानां रक्तत्वात् सादृश्यनिरूपणाय सरुधिरैरिति विशेषणमवगन्तव्यम्, कृतो विहितः पुण्यः पूतः पुष्पप्रकरः प्रसनोपहारो यस्यास्ताम्। इह तिस्रः श्रौतोपमाः लासां परस्परं नैरपेक्ष्येण
(वाट) के समान श्वेतवर्ण, कपाट (केवाड़ी) के अन्दर, चण्डिकाकी मूर्तिको देखा। वहाँ द्वारदेशमें लोहेका तोरण (महराब) बना था। उसमें शबरोंके पिङ्गलवर्ण (कपिल) केश-कलापसे भयङ्कर मुख-पङ्क्तिके समान लाल-लाल चामर-पङ्क्तियोंसे परिवेष्टित और दर्पणके समान वर्तुलाकार (गोल) काले लौह-खण्ड (बन्दनवार) लटक रहे थे। देवीके सम्मुखमें कज्जल-तुल्य कृष्ण-वर्ण-प्रस्तर-निर्मित एक वेदी (काले पत्थरके बने हुए चबूतरे) पर एक लौह-निर्मित महिष बैठा था, उसके शरीरमें हस्ताकृति रक्त-चन्दनके चिह्न (थापे) लगे थे; उनसे ऐसा प्रतीत होना था कि मानो यमने उसे चलानेके लिए रक्ताई हाथसे ताड़न किया हो; और रक्तविन्दुके लोभसे चञ्चल शृगाल्यण, उसके लाल नेत्रको जिह्वासे चाट रहे थे। किसी स्थानमें व्याधोंके द्वारा मारे गए जङ्गली महिषोंके नेत्रोंके समान रक्त-कमलोंसे, किसी स्थानमे सिंह-नखों (पञ्जों) के समान अगस्ति-कुसुमकी कलियोंसे, किसी स्थानमें रक्तार्द्र व्याघ्र-नखके समान पलाश-पुष्पोंकी कलियोंसे पवित्र-पुष्पोंके उपहार दिए गए थे। अन्य किसी स्थानमें हनन कर देवीके उपहार (भेंट) दिए गए पशुओंकी हिंसा, मन्दिरमें एक ओर ऐसी प्रतीत होती
१. नवरक्त.... । २. रक्तचन्दनानिहित । ३. ....नव.... । ४. शिवालिख्यमान । ५. लोहित । ६. अगस्तिकुट्मलैः अगत्त्यतरुकुड्मलैः । ७. प्रकोपोहारान् ।
| ६३८ | कादम्बरी- | [ कथायाम्- |
|---|
अन्यत्राङ्कुरितामिव कुटिलहरिणविषाणकोटिकूटैः पल्लवितामिव सरसजिह्वाच्छेदशतैः कुसुमितामिव रक्तनयनसहस्रैः फलितामिव मुण्डमण्डलैरुपहारहिंसां दर्शयन्तीम्, शाखान्तरालनिरन्तर-निलीन-रक्तकुक्कुट-कुलैः श्वभयान् अकालगदर्शित-कुसुमस्तवकैरिव रक्ताशोकविटपैर्विभूषिताङ्गनम्, बलि-रुधिर-पान-तृष्णया समागतैश्च वेतालैरिव तालैर्दीयमानफलमुण्डोपहाराम्, शङ्काज्वरकम्पितैरिव कदलिकाननैर्भयोत्कण्ठितैरिव श्रीफलनरुपण्डैस्त्रासोर्ध्वकेशैरिव खर्जूरवनैः समन्ताद्गहनीकृताम्, विदलित-वन-करि-कुम्भ-विगलित-मुक्ताफलानि रुधिरारु-
संसृष्टिः । तथा पौनरुक्त्यदोषनिवारणाय एकस्य 'कुसुमगुच्छैः' इत्यस्य स्थाने 'पुष्पगुच्छैः' इति पाठ एव विधेयः । हिंसाया मुख्यस्यानन्त्वात् हिंसाद्योतकोपमानप्रदर्शनमित्यवधेयम् ।
अन्यत्रेति । अन्यत्र अपरस्मिन् भागे, कुटिलानि वक्राणि यानि हरिणानां मृगाणां विषाणानि शृङ्गाणि तेषां कोटयः अग्रभागाः तेषां कूटैः पुञ्जैः शृङ्गहत्यापूर्वकनिहितैरित्यर्थः, अङ्कुरितां समुत्पन्नप्ररोहामिव, तच्छृङ्गाग्रदेशराशीनां प्ररोहवदवलोक्यमानत्वादित्याशयः । सरसा आर्द्रा रुधिराक्ता ये जिह्वाच्छेदा रसनाखण्डानि तेषां शतैः पल्लवितां समुत्पन्नकिसलयामिव, रसनाच्छेदानां किसलयरूपत्वात्वादित्याशयः । मुण्डमण्डलैः छिन्नमस्तकसमूहैः फलितां समुत्पन्नफलामिव, तेषां फलसदृशस्वरूपत्वादित्यभिप्रायः । उपहाराणाम् उपायनीभूतानां जीवानां हिंसां दर्शयन्तीं प्रकाशयन्तीम्, हिंसापूर्वकं शृङ्गाग्रराशीनां विचित्वादित्याशयः ।
इह प्ररोहादीनामुत्प्रेक्षणात् चतसृणां क्रियोत्प्रेक्षाणामङ्गाङ्गिभावसङ्करः तथा सर्वासां तृतीयानामभेद एव विवक्षानत्वात् शृङ्गाग्रदेशशरायादिरूपप्ररोहादिप्रतीतेरुपायनहिंसाया वल्लीरूपत्वप्रतीतेश्च साङ्गरूपकालङ्कारो व्यज्यते ।
शाखेति । श्वभयात् कौलेयकत्रासात् शाखान्तरालेषु शाखामध्येषु निरन्तरम् अनवरतं निर्लीनानि निविडं निभृतभावेनावस्थितानि रक्तकुक्कुटकुलानि लोहितताम्रचूडपटलानि येषु तैः, अतएव अकाले असमये दर्शिताः प्रकटिताः कुसुमस्तबकाः पुष्पगुच्छा यैस्तैरिव विद्यमानैः, लोहितताम्रचूडपटलानामेव पुष्पगुच्छसदृशत्वादित्यभिप्रायः, रक्ताशोकानां लोहितकङ्केल्लिवृक्षाणां विटपैः विस्तृतशाखाभिः विभूषितम् अलङ्कृतम् अङ्गनम् अजिरं यस्यास्ताम् । इह क्रियोत्प्रेक्षा ।
बलीति । अपि च, बलीनाम् उपायनीभूतजीवानां रुधिरपानतृष्णया रक्तपानलोभेन समागतैः समायातः वेतालैः भूतविशेषैरिव तालैः वृक्षैः, दीयमानाः समर्प्यमाणाः फलान्येव मुण्डानि मस्तकानि तेषाम् उपहारा उपायनानि यस्यै ताम्, तालफलानां मस्तकसदृशस्वरूपत्वादित्याशयः इह जात्युत्प्रेक्षा निरङ्गकेवलरूपकं चेत्युभयोरङ्गाङ्गिभावसङ्करः ।
शङ्केति । शङ्का पशुवधजनिता स्ववधनाशङ्का तस्या यो ज्वरस्तापः तेन कम्पितैरिव सान्दोलितैरिव, पवनेनान्दोलनादित्याशयः, कदलिकाननै रम्भाकाननैः । भयोत्कण्ठितैरिव त्रासोद्बुद्धस्वेदपुलकसद्दशकण्टककटावलोकनादिति भावः, श्रीफलनरुपण्डैः बिल्ववृक्षपुञ्जैः । तथा त्रासोर्ध्वकेशैरिव भयोर्ध्वकचैरिव ऊर्ध्वपत्रसमूहानां त्रासेनोर्ध्वीभूतकचवदवलोक्यमानत्वादित्याशयः । खर्जूरवनैः समन्ताद् गहनीकृतां परितः सान्द्रीकृताम् । इहाद्या द्वितीया च क्रियोत्प्रेक्षा, तृतीया तु गुणोत्प्रेक्षा, तासाञ्च परस्परं नैरपेक्ष्येण संसृष्टिः ।
विदलितेति । बलिसिद्धयेषु पूजोपायनीभूतालेषु रुधिरारक्तेष्वित्यर्थः, तृष्णाः तृष्णायुक्ताः, मुग्धा
थी कि मानो हरिरोंके टेढ़े सींगोंके अग्रभागके पुञ्जसे अङ्कुरित हुई हो, सैकड़ों रक्ताई जिह्वाओंसे पल्लवित हुई हो, हजारों रक्त-नेत्रोंसे पुष्पित हुई हो और मुण्डसमूहसे फलित हुई हो । उसकी प्राङ्गन-भूमि (आँगन) रक्ता-अशोक वृक्षसे अलङ्कृत थी, उसकी छोटी-छोटी शाखाके अन्तरालमें (डालियोंके बीचमें) रक्तवर्ण बहुत वन-कुक्कुट (वन मुर्गै) निरन्तर कुक्कुरों (कुत्तों) के भयसे छिपे हुए थे, इससे प्रतीत होता था कि-उसकी शाखाओंमें अकाल पुष्प-स्तबक लगे हों। बलि-रुधिर पान करनेकी अभिलाषासे आये वेत लोंके समान तालवृक्ष फलरूपी मुण्डका उपहार दे रहे थे; पशुओंके वध देखनेके आशङ्कासे उत्पन्न हुए ज्वरसे मानो कम्पित होते कदली-वनोंसे, भयसे मानो उत्कण्ठित हुए बिल्व वृक्षोंसे और त्राससे मानों ऊँचे उठे केशवाले खर्जूर (खजूर) के वनोंसे उसकी प्राङ्गण-भूमि व्याप्त हो गई थी। वहाँके प्राङ्गनमें सिंह-विदारित जङ्गली हाथियोंके कुम्भस्थलोंमेंसे
१. शाखान्तरालनिलीन...। २. कुक्कुटकुलैश्च भयाद्... ३. खर्जूरैः ।
चण्डिकावर्णना ११७ ] चन्द्रकला-विद्योतिनीसहिता । ६३६
णानि बलि-सिक्थ'-लुब्ध-मुग्ध-कृकवाकु-ग्रस्तमुक्तानि विकिरद्भिरम्बिकापरिग्रहदुर्ललितैः क्रीड- द्भिः केशरि-किशोरकैरशून्योद्देशाम् ; प्रभूत-रुधिर-दर्शनोद्भूत-मूर्च्छापतितेनेव प्रतिबिम्बिते- नास्तताम्रेण सवित्रा ताम्रतरीकृतैः क्षतज-जल-प्रवाहैः पिच्छिलीकृताजिराम् ; अवलम्ब- मान-दीप-धूप-रक्तांशुकेन ग्रथित-शिखिगल-वलयावलिना पिष्ट-पिण्ड-पाण्डुरित'-घन-घण्टा- मालभारिणाँ त्रापुष-सिंह-मुख-मध्यस्थित-स्थूल-लोह-कण्टकं दत्त-दन्त-दण्डार्गलं लसत्पीतै- नील-लोहित-दर्पण'-स्फुरित-बुद्बुदमालं कपाटपट्टद्वयं दधानेन गर्भगृहद्वारदेशेन दीप्यमानाम्;
मुक्ताफलेषु पूजोपायनीभूतान्नभ्रान्त्या मूढा ये कृकवाकवः ताम्रचूडाः तैरादौ ग्रस्तानि पूजोपायनीभूतान्न- भ्रमादेव कवलितानि पश्चाच्च मुक्तानि काठिन्यावगमादुज्झितानि, रुधिरारुणानि शोणिताक्ततया रक्तवर्णानि, विहलितेभ्यो विदारितेभ्यः करिकुम्भेभ्यो गजमस्तकेभ्यो विगलितानि प्रस्रुतानि यानि मुक्ताफलानि मौक्तिकानि तानि, विकिरद्भिः रुधिराक्ततया तृष्णया गृहीत्वा मांसाभावान्न भूयो विक्षिपनिरितस्तारुतः, अम्बिकायाः चण्डिकायाः परिग्रहेण वाहनमज्ज्ञानीयतया स्वीकारेण दुर्ललितैः प्राणवियोगाभावाद् दुर्दान्ती- भूतैः क्रीडद्भिः खेलां कुर्वद्भिः, केशरिकिशोरकैः मृगेन्द्रबालकः अशून्यैः वर्जित उद्देशः स्थानं यस्यास्ताम् । इह 'केशरिकिशोरकैः' इत्यत्रच्छेकानुप्रासः, तेन हि कुक्कुटानां मौक्तिकेपु पूजोपायनीभूतान्नभ्रमाद् भ्रान्ति- मानलङ्कारः संसृज्यते ।
प्रभूतेति । प्रभूतं प्रचुरं यद् रुधिरं शोणितं तस्य दर्शनेन अवलोकनेन उद्भूता उत्पन्ना या मूर्च्छा मोहः नया पतितेनेव, अस्तेनेव, प्रतिबिम्बितेन क्षतजसलिलधारास्वेव सङ्क्रान्ताकृतिना, अस्ते अस्ताचल- गमनसमये ताम्रो रक्तवर्णः तेन, सवित्रा सूर्येण, ताम्रतरीकृतैः विशेषेण रक्तवर्णीकृतैः क्षतजप्रवाहाः प्रागेव ताम्रवर्णाः, ततस्तु अस्तकालिकसूर्यप्रभया नितान्तमरुणीकृता इत्यभिप्रायः । क्षतजानि शोणितान्येव जलानि सलिलानि क्षतजानि जलानीति वा तेषां प्रवाहैः धाराभिः, पिच्छिलीकृतम् आर्द्रीकृतम् अजिरम् अङ्गणं यस्यास्ताम् ।
इह क्रियोत्प्रेक्षालङ्कारः, तथा 'क्षतजजले' त्यत्र किं रूपकं किं वोपमेति सन्देहसङ्कर, उभयोश्च मिथोन्नैरपेक्ष्येण संसृष्टिः ।
अवेति । अवलम्बमानानि अवनिष्टमानानि दीपधूपै रञ्जितानि अंशुगनि वस्त्राणि यत्र तेन, ग्रथिता गुम्फिना शिखिगलवलयानां वर्हिण्कण्ठमण्डलानाम् आवलिः पंक्तिः यस्मिन् तेन, पिष्टपिण्डेन तण्डुलचूर्ण- पिण्डेन पाण्डुरिमाः श्वेतवणीकृताः घनाः सान्द्राः या घण्टाः तासां मालां पङ्क्ति बिभर्त्ति धारयतीति तच्छी- लेन 'वृत्रेणीवाभालानाम्' इत्यादिना हस्वः । अपुषः सीसकस्यायमिति त्रापुषः सीसकरचितो यः सिंहः केसरी तस्य मुखमध्ये वदनान्तराले स्थितं विद्यमानं स्थूलं लोहकण्टकं यत्र, तत्, दत्तं दन्तदण्डो गजद- शनदण्ड एव अर्गलं विष्कम्भ. कपाटोरोधनकाष्ठमित्यर्थः यत्र तत् तथा लसत्सु अभिमुखे शोभमानेषु- पीत-नील-लोहितदर्पणेषु दर्पणेपु मुकुरेषु स्फुरिता सङ्क्रान्ता बुद्बुदमाला बुद्बुदसदृशगोलाकारलौहशङ्कु पङ्क्तिः यत्र तत्तथोक्तं कपाटपट्टद्वयं अररफलकयुगलं दधानेन धारयता, गर्भगृहस्य अन्तर्भवनस्य द्वारदेशेन
रक्ताई मुक्तासमूह गिरे हुए थे, उन्हें बलिको अन्न-समूह समझकर लोभी वन्य-कुक्कुट, पहले खाकर पीछे कठिन होने के कारण परित्याग कर दिए थे, इधर अम्बिकाके परिग्रह करनेसे हिंसाके अभावसे दुर्दान्त सिंहके बच्चे उन मुक्तामोंको बिखेर कर क्रीडा करते हुए विचरण करते थे । जल के समान रक्तका प्रवाह वर्श के प्रांगणको पिछिल कर दिया था, अस्तकालीन ताम्रवर्ण सूर्य उस रक्तके प्रवाहमें प्रतिबिम्बित होकर उसे और भी अधिक ताम्रवर्ण कर दिया था, उससे प्रतीत होता था कि, —प्रचुर रक्त देखनेसे मूर्च्छा उपस्थित हो जानेके कारण ही मानो सूर्य उसमें गिर पड़ा हो । अभ्यन्तरस्थ द्वारदेशके बीच, लटकते हुए दीपकोंके धूमसे रक्तवर्ण (रंगीन) हो गए थे; उसमें मयूरके कण्ठकी माला गूंथी हुई थी, तण्डुल-चूर्ण (ओटे) से शुक्लवर्णकी हुई निरन्तर घण्टियोंकी माला लटक रही थी; उस द्वारदेशके दोनों किवाड़ोंमें शीशेके सिंहके मुखके अभ्यन्तरमें मोटी एक लोहे की काँटी (बडगर्मा) दगी थी; हाथो दाँतको अर्गला (डीड़) दी हुई थी, और उस कपाटमें बुद्बुदके समान वर्तुलाकार लौहशङ्गधकी (लोहेकी कौंटियों) का सम्मुखवर्ती पीतवर्ण, नीलवर्ण और रक्तवर्णवाले दर्पणों में प्रतिबिम्ब पड़ता था। मन्दिरके
१. दनक रिकुम्भविद्रलितमुक्ताफलानि, विगलितवनरिकुम्भविगलितरक्तमुक्ताफलानि नकबधिरान- बलि । २. अनरहितैः। ३. क्षतजलप्रवाहैः । ४ "दीपधूम । ५. वलयावलम्बिना । पिष्टपाण्डुरित... । ७... मालाभारिणा । ८ " कण्टकदत्त "। ९. गलद्दीप्तलसत् "। १०. दर्पण । ११. कपाटपट्टद्वयं ।
६४० | कादम्बरी- | [ कथायाम्-
अन्तःपिण्डिकापीठपातिभिश्च सर्वपशुजीवितैरिव शरणमुपागतैरलक्तकरसरक्तपट्टैरविरहितचरणमूलाम्, पतितकृष्णचामरप्रतिबिम्बानाञ्च शिरश्छेदलग्नकेशजालाकानामिव परशुपट्टिशप्रभृतीनां जीवविशसनशस्त्राणां प्रभाभिर्बद्धबहलान्धकारतया पातालगृहवासिनीमिवोपलभ्यमानाम्, रक्तचन्दनखचितस्फुरत्फलपल्लवकलितैश्च विल्वपत्रदामभिर्बालकमुण्डप्रालम्बैरिव कृतमण्डनाम्, शोणितताम्रकदम्बस्तबककृताचर्चनैश्च पशूपहारपटहपटुरटित
दीप्यमानां विराजमानाम्, कपाटद्वये ये लोहकीलका जटितास्ते 'जगन्मोहन' ( स्वभवनस्याग्रदेश ) स्थदर्पणेषु प्रतिबिम्बिता इत्यभिप्रायः।
अन्तरिति। च, अन्तर्मध्ये या पिण्डिका परिष्कृता भूमिः तत्र यत् पीठं मूर्त्तिस्थापनाय सिंहासनं तत्र पतन्तीति तैः, शरणमुपागतैः रक्षकं प्राप्तैः सर्वपशूनां जीवितैरिव, तेषामपि रुधिरसम्पर्केण लोहितत्वसम्भवादित्याशयः, अलक्तरसेन यावकद्रवेण रक्ता लोहिता ये पट्टास्तैः, अविरहितम् अवर्जितं चरणयोः पादयोः मूलं निकटं यस्यास्ताम् इह जात्युत्प्रेक्षा।
पतितेति। अपि च, पतितानि कृष्णचामराणां श्यामवालव्यजनानां प्रतिबिम्बानि प्रतिच्छायानि येषु तेषाम्, अत एव शिरश्छेदे मस्तककर्त्तने सति लग्नं सक्तं केशजालं कचसमूहो येषु तेषामिवावलोक्यमानाम्, श्यामवालव्यजनप्रतिबिम्बानामेव कचसमूहवदवलोक्यमानत्वादित्याशयः, परशुः कुठारः, पट्टिशः 'पट्टिशो लोहदण्डो यस्तीक्ष्णधारः क्षुरोपमः' इति वैजयन्त्युक्तः तत्प्रभृतीनां जीवविशसनशस्त्राणां प्राणिहिंसायुधानां प्रभाभिर्दीप्तिभिः बद्ध उत्पादितः, बहलोऽधिकः अन्धकारस्तिमिरो यत्र गृहे तस्य भावस्तया कारणेन, पातालगृहवासिनीमिव अधोभुवननिवासिनीमिव उपलभ्यमानां दृश्यमानाम्।
इह कचसमूहलग्नक्रियोत्प्रेक्षाद्वाद्या, अधोभुवनभवनवासोत्प्रेक्षणादपरा च क्रियोत्प्रेक्षैव, उभयोश्च मिथो नैरपेक्ष्येण संसृष्टिः।
रक्तेति। अपि च, रक्तचन्दनेन पत्राङ्गेन खचिता रञ्जिता अतएव स्फुरन्तः शोभमाना ये विल्वस्यैव फलपल्लवाः तैः कलिताः सम्मेलितास्तैः, अतएव बालकमुण्डानां शिशुशिरसां प्रालम्बैः ऋजुलम्बिनीभिः स्रग्भिरिव विद्यमानैः, विल्वपत्राणां श्रीफलदलानां दामभिः स्रग्भिः ( मालाभिः ) कृतमण्डनां विहिता लङ्काराम्। विल्वपत्राणां मालासु मध्ये मध्ये रक्तचन्दनखचितानि श्रीफलान्यपि प्रोतानि, अतएवमवबुध्यते यद् बालकमस्तकानां माला परिहिता भवेदित्यभिप्रायः। इह जात्युत्प्रेक्षा। शिशुमस्तकगतलोहितसादृश्यनिरूपणाय 'रक्तचन्दनखचिते' ति विशेषणम्। बालकपदन्तु तच्छिरसामापेक्षिकलघुतया श्रीफलसादृश्यावगमाचेति बोध्यम्।
शोणितेति। अपि च, शोणितेन रुधिरसंस्स्रवेण ताम्रा रक्ता ये कदम्बस्तबका नीपगुच्छकास्तैः कृतं विहितम् अर्च्चनं पूजनं येषां तैः संसक्तनीपपुष्पपरागैरित्यर्थः, अतएव पशूपहारे पशूपायानदानकाले पटहस्य दुन्दुभेः यत् पटुरटितम् उच्चशब्दः तस्य रसेन श्रवणोत्साहेन उद्गसन्ति उद्गव्रजन्तीति ते तादृशा रोमाञ्चाः पुलका येषु तैरिव, अङ्गैर्हस्तपादादिभिरवयवैः, क्रूरतां रौद्रताम् उद्वहन्तीं धारयन्तीम्।
अन्दरमें देवीके चरणके समीपमें एक वेदी थी वह आल्ताके रससे रञ्जित एक वस्त्रसे आच्छादित थी, उससे प्रतीत होता था कि वहाँ समस्त पशुओं का जीवन आकर मानो शरणागत होकर रहता है। वहाँ परशु और पट्टिश (भाला) आदि कितने ही जीवहत्या करनेके शल थे, उनमें कृष्णवर्ण चामरोंका प्रतिबिम्ब (परछाईं) पड़नेसे ऐसा प्रतीत होता था कि—शिरश्छेद हो जानेसे उनके केश-कलाप ही मानो चिपक रहे हों। इस प्रकारके शस्त्रोंकी प्रभासे प्रचुर अन्धकार हो जानेके कारण देवी पाताल-वासिनीके समान देखनेमें प्रतीत होती थी। देवी कण्ठदेशमें कितनी विल्व-पत्रकी मालाएं पहन कर भूषित हुई थी, उनके बीच-बीचमें रक्त-चन्दन-रञ्जित (लाल-चन्दन-लिप्त) बहुतर विल्व-फल और विल्व-पत्र संयोजित (चिपके) हुए चमक रहे थे अत एव वे मालाएं बालकोंके मुण्ड की लम्बी-लम्बी मालाओं के समान प्रतीत होती थीं। रुधिरसे रक्त हुए कदम्ब-पुष्पके गुच्छोंसे अर्चन किए गए और पशुओंका बलिदान करते समय बजाई गई दुन्दुभीके उत्पन्न हुए उच्च शब्द श्रवण
१. '...अलक्तकपट्टैः, अलक्तकपटेः, अलक्तरक्तरक्तपट्टैः। २. कलापानाम्। ३. असिपरशु'। ४. बहलदद्द। ५. पातालनिवासिनीम्, पातालगृहवासिनीम्***। ६. स्फुरत्फलक। ७. विल्वदामभिः ८. कृतमण्डलाम् ९. शोणिताताम्र***।
चण्डिकावर्णना ११७ ] चन्द्रकला-विद्योतिनीसहिता । ६४१
रसोल्लासितं रोमाञ्चैरिवाङ्गैः क्रूरतामुद्वहन्तीम् , चारु-चामीकर-पट्ट-प्रावृतेन च ललाटेन शबरसुन्दरी-रचित-सिन्दूर-तिलक-विन्दुना दाडिम-कुसुम-कर्णपूर-प्रभा-सेक-लोहितायमान-कपोलभित्तिना रुधिर-ताम्बूला रुणिताधरपुटेन भ्रुकुटि-कुटिल-बभ्रु-नयनेन मुखेन कुसुम्भ-पाटलीत-दुकूल-कलितया च देहलतया महाकालाभिसारिकावेशविभ्रमं बिभ्रतीम् , सम्पिण्डित-नीलगुग्गुलुं धूपधूमारुणीकृताभिश्च प्रचलन्तीभिर्गर्भगृहद्दीपिकालताभिरङ्गुलीभिरिव महिपासुर-शोणित-लवालोहिनीभिः स्कन्धपीठ-कण्डूयन-चलित-त्रिशूलदण्ड-कृतापराधं वनमहिपमिव तर्जयन्तीम् , प्रलम्ब-कूर्चधरैश्छागैरपि धृतव्रतैरिव, स्फुरदधरपुटैराखुभिरपि जपपरैरिव,
इह पुलकाविर्भावोत्प्रेक्षणात् क्रियोत्प्रेक्षा वृत्त्यनुप्रासश्चेत्युभयोरेकाश्रयानुप्रवेशरूपश्छरः।
चार्विति । अपि च, चारुः सुन्दरौ यः चामीकरपट्टः सुवर्णफलकं तेन प्रावृतेन आच्छादिनेन तेन, तथा शवरसुन्दरीभिः भिल्लवनिताभिः रचितो विहितः सिन्दूरतिलकविन्दुः यत्र तेन तथोक्तेन ललाटेन भालेन। दाडिमकुसुमे एव करकपुष्पे एव कर्णपूरौ श्रवणालङ्कारौ तयोः प्रभायाः कान्तेः सेकेन सम्पर्केण लोहितायमाने रक्तायमाने कपोलभित्ती गण्डद्वयं यस्य तेन, रुधिरताम्बूलाभ्यां शोणितनागवल्लीभ्याम अरुणितं लोहितवर्णीकृतम् अधरपुटं यस्य तेन, तथा भ्रुकुट्या भ्रूभङ्गेन कुटिले वक्रे बभ्रूणी पिङ्गले च नयने लोचने यस्य तेन तथोक्तेन, तथा कुसुम्भेन कमलोत्तराख्यरञ्जनद्रव्यविशेषेण पाटलिंतं श्वेतलोहितीकृतं यह्दुकूलं वसनं तेन कलितया आच्छादितया देहलतया शरीरवल्लत्या च करणेन, महाकालम्य रुद्रस्य-अभिसारिकावेशविभ्रमम् अभिसारिकानेपथ्यविलासं बिभ्रतीं धारयन्तीमिव विद्यमानाम् । इह प्रतीय-माना क्रियोत्प्रेक्षा।
सम्पिण्डितेति । अपि च, सम्पिण्डित एकत्रीभूतो यो नीलगुग्गुलुधूपयोः पलङ्कषधूपयोर्धूमस्तेन अरुणीकृताभिः रक्तीकृताभिः प्रचलन्तीभिः पवनभरात् कम्पमानाभिः गर्भगृहस्य अन्तर्भवनस्य दीपिका-लताभिः पवनवशात् वल्लीवल्लम्बमानीभूतैः प्रदीपैः, महिपासुरस्य तन्नामकप्रसिद्धदैत्यस्य शोणितलवैः रुधिरकणैः आलोहिन्य आरक्ताः ताभिः अङ्गुलीभिः करशाखाभिरिव विद्यमानाभिः, स्कन्धपीठस्य स्कन्ध-भागस्य कण्डूयनेन खर्जनेन चलितः कम्पितो यः त्रिशूलदण्डः तेन कृतो विहितः अपराध आगः येन तं वनमहिपम् अरण्यरक्ताचं तर्जयन्तीं न्यक्कुर्वन्तीमिव विद्यमानाम् । चूर्णहरिद्रयोः संयोगे यथाऽरुणवर्ण-स्तथा नीलस्यापि गुग्गुलुधूपयोर्धूमस्य दीपिकामिः संयोगे अरुणवर्णः समुत्पद्यते, संयोगवैचित्र्यादित्यव-धेयम् । अत एवेह हेतुविरुद्धकार्यजननाद्विषमाळङ्कारः, तथाद्या जात्युत्प्रेक्षा अपरा च क्रियोत्प्रेक्षा चेत्ये-तेषामङ्गाङ्गिभावसङ्करः। ननु भगवत्याश्चण्डिकाया मन्दिरे वनमहिषप्रवेशः कथमिति चेत् ? तन्मन्दिर-स्यारण्यान्तःपानितया वनमहिषप्रवेशस्यापि सम्भवादिति बोध्यम् ।
प्रत्यवेतिं । अन्येषु का कथा, प्रलम्बकूर्चधरैः लम्बमानचिबुकस्थःस्थलवर्त्तिरोमभारिभिः छागैरपि वस्त्रैरपि धृतव्रतैः गृहीततपोनिद्यमैः सद्भिः आराध्यमानामिष उपास्यमानामिव, प्रलम्बकूर्चधरत्त्वादि-
करनेके उत्साहसे मानो रोमाञ्चित हों ऐसे अवयवोंसे वह भयङ्करता दिखती थीं। सुन्दर स्वर्णफलकसे आवृत तथा शबर-रमणियों (भीलिनियों) द्वारा लगाए गए सिन्दूरके तिलक-विन्दुसे समन्वित ललाटसे, कर्णयुगलमें धारण किए हुए दाडिमपुष्प (अनारके फूल) की प्रभाके सम्पर्कसे रक्तवर्ण हुए कपोल-भित्ति (चौड़े गाल) से, रुधिर-संस्रवसे और ताम्बूलके रससे अरुणवर्ण हुए ओष्ठ-युगल (होठ) से, स्वभावतः पिङ्गल नयनवाले तथा टेढ़ी भौंवाले मुखसे, और कुसुम्भ नामक रञ्जनद्रव्यविशेषमें श्वेतरक्तवर्ण (गुलाबी रंगे) हुए वस्त्रसे समन्वित देह-लतासे, उसने मानो महाकालके प्रति अभिसारिकाके वेशका विलास धारण किया था। वायुके भारसे कम्पित हुई लताके समान लम्बमान श्यामवर्ण गुग्गुल और धूपके धूमपुञ्जसे अरुणवर्ण हुए अभ्यन्तरके मण्डपके चञ्चल प्रदीप, महिषासुरके रुधिर-बिन्दुओंसे रक्तवर्ण हुई अङ्गुलियोंके समान दीखनेमें आते थे, इधर एक जङ्गली महिषने अपने चौड़े कन्धेको खुजला कर मन्दिरके त्रिशूल-दण्डको कम्पित कर दिया, इस अपराधके कारण ही उसको मानो देवी उन प्रदीर्पोंसे तर्जना करती (धमकाती) थी। दीर्घ-श्मश्रु-धारण (लम्बी-लम्बी दाढ़ी वढा)
१. अविरतनवोपहारपहहपट्टरचितरत्तोत्सन्नभित्त...।
२. ॰...चाहैः।
३. ॰...पट...।
४. दाडिमी...।
५. भ्रुकुटिकुटिलभ्रूणा रक्तनयनेन, भुकुटिकुटिलभ्रूणा रक्तनयनेन, भ्रुकुटिः...।
६. पाटलिंतसुकुदुकूल।
७. ॰...गुग्गुल...।
८. ॰...विरचिताङ्गुलीभि...।
९. प्रदल...।
६४२ कादम्बरी [ कथायाम्-
कृष्णाजिनप्रावृताङ्गैः कुरङ्गैरपि प्रतिशयितैरिव¹ ज्वलित-लोहित-मूर्द्ध-रत्न-रश्मिभिः कृष्णसर्पैरपि शिरोधृतमणिदीपकैरिवाराध्यमानाम्, सर्वतः कठोरवायसगणेन च रटता² स्तुतिपरेणेव स्तूयमानाम् ; स्थूलस्थूलैः शिराजालकैर्गोधा-गोधिका³-कृकलासकुलैरिव दग्धस्थाण्वाशङ्कया समारूढैरङ्गेष्वविक्षितेन, अलक्ष्मी⁴-समुत्खात-लक्षणस्थानैरिव⁵ विस्फोटव्रणबिन्दुभिः कल्माषित-सकलशरीरेण, कर्णावतंससंस्थापिताया च चूडया रुद्राक्षमालिकामिव⁶ दधानेन,
त्यभिप्रायः। स्फुरन्ति स्पन्दमानानि अधरपुटानि येषां तैः, आखुभिर्मूषकैरपि जपपरैः मन्त्रजपप्रवृत्तैः सद्भिः आराध्यमानामिव, जपप्रवृत्तवत् स्पन्दमांनाधरपुटत्वादिति भावः। अधरपुटस्पन्दनमात्रतां स्वभावः। कृष्णाजिनं श्यामवर्णमात्मीयं चर्मकृष्णसारचर्म च तेन प्रावृतम् आच्छादितम् अङ्गम् अवयव येषां तेषां तैः कुरङ्गैर्मृगैरपि प्रतिशयितैः कृतप्रतिशयनैः सद्भिः आराध्यमानामिव, तद्वत् कृष्णाजिनाच्छादितावयवत्वादिति भावः। विपत्प्रतीकाराय अभीष्टप्राप्तये दिवसमासादिनियममशनापरित्यागपूर्वकं देवताग्रे शयनं प्रतिशयनम्। तथा ज्वलिता दीप्ताः, लोहिता अरुणवर्णाः, मूर्द्धरत्नस्य शिरोमणे रश्मयो रोचिषो येषां तैः कृष्णसर्पैर्विजातीयभुजङ्गैरपि शिरःसु मूर्धसु धृता मणयो रत्नान्येव दीपा मणिवद्दीपारूपा यैस्तैः सद्भि राराध्यमानामिव, मस्तकेषु दीपधारणपूर्वकं देवतोपासनां विधत्ते।
इह प्रत्येकवाक्य एव क्रियोत्प्रेक्षा, तथा 'आराध्यमानाम्' इत्येकस्यामेव क्रियायामनेकेषां कर्तृत्वेनाभिसम्बन्धात्तुल्ययोगिता चेत्युभयोरङ्गाङ्गिभावसङ्करः। अनेन च महाराज्याभूमिन्वं प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः।
सर्वत इति। अपि च, सर्वतश्चतुर्दिक्षु रटता शब्दं विदधता, कठोरः कर्कशस्वरो यो वायसगणः सकृत्प्रजासमूहस्तेन, स्तुतिपरेण स्तुतिप्रवृत्तेन सता स्तूयमानामिव नूयमानामिव, स्तवप्रवृत्तवत् समन्तात् शब्दविधानात्। स्तुतिपरो हि प्रदक्षिणतया भ्रमन्नुच्चैः स्तुतिशब्दं विधत्ते। इहापि क्रियोत्प्रेक्षा।
स्थूलेति। दग्धो ज्वलितो यः स्थाणुः शाखापर्णरहितस्तरुः तस्य आशङ्कया भ्रान्त्या समारूढैः शरीरारूढैः, गोधा गोधिका, कृकलासः सरट एतेषां कुलैः समूहैरिव, स्थूलस्थूलैः अन्यान्यापेक्षया अत्यन्तस्थूलः शिराजालकैः धमनीसमूहैः, गवामक्षीवेति गवाक्षः 'अदग्गोऽदर्शनातू' इत्यच्, गवाक्षं सञ्जातमस्येति गवाक्षितः तारकादिभ्वादितच् । तेन जालकमयीभूतेन 'जरद्द्रविडधार्मिकाधिष्ठिताम्' इत्यधिकदूरस्थायिन्या क्रियया सम्बन्धः। इह भ्रान्तिमान् जात्युत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावसङ्करः। इत आरभ्य पुँल्लिङ्गत्तृतीयेकवचनान्तानि पदानि अग्रेतनस्य 'जरद्द्रविडधार्मिकेण' इत्यस्य विशेषणान्यवगन्तव्यानि।
अलक्ष्मीति। अलक्ष्म्या अध्रिया देव्या समुत्खातानि मूलत उन्मूलितानि यानि लक्षणानि सामुद्रिकशास्त्रोक्तानि शुभचिह्नानि तेषां स्थानैरिव, विस्फोटकाः शीतलाप्रकोपजाः प्रसिद्धाः तेषां व्रणबिन्दुभिः कल्माषितं विचित्रीकृतं सकलं समग्रं शरीरं यत्र तेने। इह जात्युत्प्रेक्षा।
कर्णेति। अपि च, कर्णावतंसे श्रवणालङ्कारस्थाने संस्थापितया न्यस्तया चूडया शिखया कारणेन, रुद्राक्षमालिकां दधानेन धारयतेव, मयूरपिच्छरचितायास्तच्छिखायाः कण्ठपर्यन्तपातित्वेन रुद्राक्षमालावदवगतेरित्याशयः। क्रियोत्प्रेक्षा।
कर छागगण ( बकरे ) भी मानों व्रतालम्बन कर देवी की आराधना करते हों; ओष्ठयुगल निरन्तर स्पन्दित होने के कारण मूषकगण भी मानो जपमें प्रवृत्त होकर देवीकी उपासना करते हों, कृष्ण-चर्म ओढ़ कर हरिणगण भी धरना देकर देवीकी आराधना करते हों, और मस्तकमें प्रज्वलित ( चमकने ) हुए रक्तवर्ण रत्नकी किरणोंके कारण कृष्णसर्पगण भी मानो मस्तक पर मणिप्रदीप धारण कर देवीकी उपासना करते हों—ऐसा प्रतीत होता था। कर्कश-स्वरवाले काकगण (कौवे) भी सर्वत्र काँव काँव करके मानो स्तुति करनेमें प्रवृत्त होकर उसकी आराधना करते थे। वहाँ एक द्रविडदेशीय वृद्ध धार्मिक रहता था। दग्ध-स्थाणु (जले हुए ठूंठ) की आशङ्कासे शरीर पर चढ़े हुए गोह, छिपकली और गिरगिटोंके समूहके समान अत्यन्त-स्थूल शिराओं (मोटी मोटी नसों) के समूहसे व्याप्त होनेके कारण उसके शरीरमे गवाक्ष-जाल (जालीदार खिड़कियां) उत्पन्न हो गए थे। अलक्ष्मी देवीके द्वारा जड़से उखाड़े गए शुभलक्षणोंके रिक्त-स्थानके समान विस्फोटक-व्रण-बिन्दुओं (फोड़ोंके घावके चिह्नों) से उसका शरीर विचित्र हो गया था। कर्णाभरणके स्थानमें रक्खी गई उसकी शिखा वक्षःस्थल पर्यन्त लटकनेके कारण प्रतीत होता था कि वह मानो रुद्राक्ष माल धारण करता था। अम्बिकाके चरणोंमें गिरनेसे उसके काले ललाटदेश पर अंबुर्द-
१. प्रतिशयनैरिव ।
२. रुवता ।
३. शिराजालैर्गोधाम् "गोपालिका, गोधारगृहगोधिका गोधारगोधिका ।
४. लक्ष्मी ।
५. विस्फोटका ।
६. क्वचित् 'इव' शब्दो नास्ति ।
६४४ कादम्बरी- [ कथायाम्-
व्रणितचरणाङ्गुष्ठकेन, असम्यक्कृत-रसायनानीताकालज्वरेण, जरां गतेनापि दक्षिणापथाधि-राज्यवरप्रार्थना-कदर्धित दुर्गेण, दुःशिक्षित-श्रमणादिष्ट१-तिलकाबद्धविभवप्रत्याशेन, हरित-पत्र-रसाङ्गार-मसी-मलिन-शम्बूकाहिना, पट्टिका-लिखित-दुर्गास्तोत्रेण, धूम-रक्ताक्तकाक्षर-ताल-पत्रकुहक-तन्त्र३-पुस्तिका-संग्राहिणा, जीर्ण-पाशुपतोपदेश४-लिखित-महाकालमतेन, आवि-र्भूत-निधि-वाद-व्याधिना, सञ्जात-धातुवाद-वायुना, लग्नासूर-विवर-प्रवेश-पिशाचेन, प्रवृत्त-
रङ्गपंः तेन व्रणितः चरणाङ्गुष्ठो यस्य तेन, दर्भादिच्छित्तिदूरीकरणाय कृमिसूत्रकोपेंग पादाङ्गुष्ठाच्छादनम्।
असम्यगिति। सम्यक् कृतो यथाविधि विहितो न सम्यक् कृतो येन तेन रसायनेन जराव्याधि-विनाशिवहुद्रव्यव्ययसाध्यपारदकुलङ्गाद्यौषधसेवनेन आनीतः प्रापितः कालज्वरः मरणपर्यवसायितापो येन तेन। अनेन मुमूर्षोरपि वैराग्यं नोत्पद्यत इति तृष्णातिशयो ध्वन्यते।
जरामिति। जरां गतेनापि अत्यन्तपरिणतवयस्त्वं वृद्धत्वमिति यावत् प्राप्तेनापि सता, दक्षिणा-पथस्य दाक्षिणात्यदेशस्य यद् अधिराज्यमाधिपत्यं तस्य वरप्रार्थनया अभीष्टयाच्ञया कदर्यिता विरक्ती-कृता दुर्गा चण्डिका येन तेन।
दुरिति। दुःशिक्षितेन लब्धकुशिक्षणे श्रमणेन केनचित् अनिर्दिष्टनाम्ना परिव्राजकविशेषेण आदिष्टे तिलके सिद्धोपधिजनिते भ्रूयुगलमध्यविन्दौ लावद्धा विहिता विभवप्रत्याशा धनसम्पदभिलापो येन तेन।
हरितेति। हरितपत्ररसेन नीलपलाशनिर्यासेन युक्ता सहिता या अङ्गारमसी तया मलिनं शम्बूकं शङ्खं वहतीति तेन शङ्खमयमसीपात्रधारिणेत्यर्थः।
पट्टिकेति। पट्टिकायां दारुफलके लिखितं लिपीकृतं दुर्गास्तोत्रं येन तेन।
धूमेति। धूमेन रक्तानि रञ्जितानि अलक्तकाक्षराणि यावकद्वारा लिपीकृतवर्णा येषु तैस्तथोक्तैः तालपत्रैः या कुहकाय इन्द्रजालाय तन्त्रमन्त्राणां वशीकरणमारणमोहनोच्चाटनादीनां पुस्तिका तां संगृह्णातीति तेन सङ्ग्रहकारिणेत्यर्थः।
जीर्णेति। जीर्णेः परिणतवया यः पाशुपतः शैवः तस्य उपदेशेन मनुष्यरुधिरेण होमप्रतिपादक-शित्त्या लिखितं लिपीकृतं महाकालमतम् ईश्वरमतं येन तेन।
आविरिति। आविर्भूतः प्रकटितो निधिवादः 'अनेन विधिना निधिर्लभ्येत' इति धनभाण्डवाद इव व्याधिर्यस्य तेन।
सञ्जातेति। सञ्जातः समुत्पन्नः धातुवादः 'अनेन कर्मणा लौहं ताम्रं वा सुवर्णं भवति' इति धातु-विषयकप्रवाद एव वायुः वातव्याधिर्यस्य तेन।
लग्नेति। लग्नः असुरविवरे पातालवासिदैत्यच्छिद्रे प्रवेशः प्रवेशावेश एव पिशाचो यत्र तेन।
प्रवृत्तेति। प्रवृत्तः उत्पन्नो यक्षकन्यासु गन्धर्वपुत्रीषु कामित्वमनोरथेन सुरताभिलाषेण व्यामोहो विशेषेण बुद्धिभ्रान्तिर्यस्य तेन।
अङ्गुष्ठावरण किया था उसे घिस जानेके कारण चरणके अँगूठेमें विवाई फूट गई थी। विधिके अनुसार निर्माण नहीं किए गए रसायनके प्रयोग (सेवन करने) से असामयिक ज्वर आ गया था। अत्यन्त वृद्ध होने पर भी दाक्षिणात्यदेशके राज्यके वरकी प्रार्थना करके चण्डिका देवीको विरक्तकरता (पीड़ा देता) था। कुशिक्षासे शिक्षित किसी संन्यासीके आदेशसे तिलक धारण कर, उससे ही धनसम्पत्ति मिलनेकी प्रत्याशा करता था, हरिद्वर्ण पत्तोंके रससे संयुक्त अङ्गार (कोयले) की बनी हुई मसी (स्याही) से मलिन हुई एक सीपी उसके निकट थी। एक काष्ठ-फलक (पट्टी) पर उसने दुर्गाका स्तोत्र लिख रक्खा था। उसके पास इन्द्रजालके लिए एक तन्त्र-मन्त्रोंकी पुस्तकका संग्रह था, जिसके तालपत्रों पर लिखे आल्ताके रस (लाल लाक्ष) से अक्षर धुएँसे रंग गए थे। किसी प्राचीन महापाशुपतके उपदेशसे उसने महाकाल-मत लिख लिया था। 'इस अनुष्ठानको करनेसे निधि (खजाना) प्राप्त किया जाता है, इस प्रकारके प्रवादकी व्याधि उसके हृदयमें आविर्भूत हुई थी। 'इस अनुष्ठानको करनेसे लोहा भी सोना होता है' इस प्रकारके धातुविषयक प्रवादमूलक वातव्याधि उसे उत्पन्न हो गई थी। असुरोंके हृद (पाताल) में प्रवेश करनेका आकरूप पिशाच उसके पीछे लगा था। यक्ष-कन्याओंके
१ ॰'श्रवणादिष्ट॰'। २ ॰'नपी॰'। ३. कुतुकुहकनन्त्रयन्त्रमन्त्र । ४. जीर्णमहापाशुपतोपदेश ।
शरद्वद्विद्वामिवर्णनम् ११८] चन्द्रकला-विद्योतिनीसहिता। ६२५
वृद्धकन्यका-कामित्व-मनोरथ-व्यामोहेन; वर्द्धितान्तर्द्धान-मन्त्रभावनसंग्रहेण; श्रीपर्वताश्चर्य-वार्तासंश्रवाभिज्ञेन; असकृदभिमन्त्रित-सिद्धार्थक-प्रहृति-प्रवाहितैः पिशाचगृहीतकैः करतल-ताडन-चिपटीकृत-श्रवणपुटेन; अविमुक्त-शैवाभिमानेन; दुर्ग्रहीतालाबुवीणावादनोद्वेजित-पथिक-परिहृतेन; दिवसमेव मशकक्वणितानुकारि किमपि नमितोत्तमाङ्गं गायता; स्वदेश-भाषानिबद्ध-भागीरथी-भक्तिस्तोत्र-नर्तकेन; गृहीत-तुरगब्रह्मचर्येण अन्यदेशागतोषितासु जरत्प्रव्रजितासु बहुकृत्वः सम्प्रयुक्त-स्त्रीवशीकरणचूर्णेन; अतिरोपणतया कदाचिद् दुर्व्यवहार-
वर्द्धितेति। वर्द्धितो वृद्धितङ्गतः अन्तर्द्धानमन्त्रभावनाय तिरोभावनमन्त्रनिष्पादनाय सङ्ग्रह आग्रहो येन तेन।
श्रीति। श्रीपर्वते श्रीमन्नगशैले यत् आश्चर्यवार्तामहत्त्वम् अद्भुतजनश्रुतिसमूहस्तस्य अभिज्ञेन विदुषेण।
पुरा किल कस्मिश्चिदचले पार्वत्या अपि सौभाग्यमिच्छन्ती लक्ष्मी (मुहुर्मुहु) र्च्चनं तपस्यन्ती निवबन्धेनं च कारयित्वा बह्वो हवनं चकार, तत आरभ्यासावचलः 'श्रीपर्वत' इति नाम्ना प्रसिद्धोऽभूदिति पुराणसिद्धम्।
असकृदिति। असकृन्निरन्तरम् अभिमन्त्रिणानां मन्त्रद्वारामौकिकशक्तिसमुत्पादितानां सिद्धार्थकानां सर्षपाणां प्रहत्या रक्षोभूतपिशाचानां दूरीकरणाय तच्छरीरेषु मुहुर्मुहुः प्रक्षेपेण प्रवाहितैः कोपाच्छीघ्र-मायातैः पिशाचगृहीतकैः भूताविष्टलोकैः करतलताडनेन हस्ततलाघातेन चिपटीकृतं चिपिटक्वत् विस्तारितीकतं श्रवणपुटं श्रोत्रपुटं यस्य तेन।
अवीति। अविमुक्तः अनुज्झितः शैवाभिमानः शैवोऽहमित्यवलेपो येन तेन।
दुर्ग्रहीतेति। दुर्ग्रहीता वादनकालिकग्रहणप्रकारं विरहय्य परिधृता या अलाबुवीणा तुम्बीरचित-दण्डक्रीयं तस्य वादनेन तज्जनितैर्विरसौःकृतैः पथिकैः पान्थैः परिहृतः परित्यक्तस्तेन।
दिवसमिति। दिवसं वासरमेव न तु रात्रौ यत् मशकस्य झनितं झिङ्झिनं तदनुकर्तुं शीलं यस्य तत् यथा स्यात्तथा, कम्पितं चालितम् उत्तमाङ्गं शिरो यत्र क्रियायां तद् यथा स्यात्तथा च किमपि वक्तुम-शक्यं गायता गानं विदधता। वासरमित्यन्तसंयोगे द्वितीया।
स्वदेशेति। स्वदेशभाषा द्राविडदेशवाणी तया निबद्धं गुम्फितं यद् भागीरथ्या गङ्गाया भक्तिस्तोत्रं तेन नृत्युति गात्रविक्षेपं करोतीति तेन।
गृहीतेति। गृहीतं स्वीकृतं तुरगस्येव अश्चस्येव ब्रह्मचर्यं येन-न तादृशस्तस्य भावस्तथा कार-णेन यथा अश्वा निरन्तरसंयमनप्रतिबन्धादेव ब्रह्मचर्यं धारयन्ति न पुनः शुभप्राप्तिलोभात् तथा अय-मपि योषित्प्राप्यभावादेव ब्रह्मचर्यं धारितवान् न पुनः पुण्योपार्जनप्रत्याशयेत्याशयः। अन्यदेशाद् अन्य-जनपदान् आगता आयाताः सत्य दयिताः तत्रावस्थितास्तासु जरत्प्रव्रजितासु जराजीर्णसंन्यासिनिषु बहुकृत्वः अनेकवारान् सम्प्रयुक्तं निक्षिप्तं स्त्रीवशीकरणचूर्णं येन तेन। एतेनास्य महाकामुकत्वं प्रतीयते।
अतीति। रुष्टानां पुंषाणां ह्युन्मानां समाहार इत्यद्युप्त्री सजाता अद्यपुर्प्पीत्यटपुप्पिका सजाते
वृद्ध कन्या कामेने का अभिलाषी होने से उसको मन्त्रिन (बुद्धिमें भ्रम) उत्पन्न हो गया था। अन्तर्द्धान (अदृश्य) हो जानेके उपयोगी मन्त्र-साधन करनेके लिए उसकी अग्रह-वृद्धि पाई जाती थी। श्रीपर्वतके हजारों आश्चर्यमय वृत्तान्तोंको वह जानता था। अभिमन्त्रित की हुई सरसोंको भूतभगानेके लिए बारम्बार शरीरों पर फेंकनेसे दौड़े हुए-पिशाचसे अभिभूत-मनुष्योंके करतल (थप्पड़) से मारकर इसके कान चपटे कर दिए थे। उसने अपने शैव होनेका अभिमान नहीं छोड़ा था। विपरीत भावसे (उलटा-पुलटा) पकड़कर बजाई गई अलाबू (तूंबे) की वीणा का शब्द सुनकर उद्विग्न हो कर पथिक गण (राही) उसका परित्यागकर चले जाते थे। दिन भर मस्तक हिला-हिलाकर वह मशक-शब्द (मच्छर के भिनभिनाहट) के समान अनिर्वचनीय गान करता था। स्वदेशीय भाषामें रचना किए हुए गङ्गाके एक भक्तिस्तोत्रको गाता हुआ नृत्य करता था। अगा-ब्रह्मचर्य (स्त्रियोंके न होनेसे बलात्कारात्ते रक्षित ब्रह्मचर्य) के समान ब्रह्मचर्य ग्रहण करनेके कारण, अन्यदेशसे आकर उस स्थानमें बसती हुई वृद्ध संन्यासिनियोंके शरीरपर स्त्री-वशीकरणका चूर्ण निक्षेप (डाला) करता था। अत्यन्त कोपन-स्वभाव (चिड़-चिड़ापन) होनेके कारण बलिष्ठोंके समीपने वैरीजैसे अथवा दूसरेके द्वारा
१. '...सम्बर्द्धितान्तर्द्धानसंग्रहेण। २. आकुचिन्ताभिज्ञैः। ३. '...निबडीकृत०'। ४. ०प्रथनासुद्रेजनाकुल०। ५. अलब्बुदु०, ०लम्बुडूण०। ६. दिवसमग्रेऽशकमणितानुकारि ...स्तरेन। ७. ०...आगतसु। ८. प्रव्रजितासु। ९. आधुपुप्पिका।
| ६४६ | कादम्बरी- | [ कथायाम्- |
|---|
पुष्पिकापातोत्पादितक्रोधेन चण्डिकामपि मुखभङ्गिविकारैर्भृशमुपहसता, कदाचिन्निवार्यमाणावास-रुषिताध्वगारब्ध-बहु-बाहुयुद्ध-पात-भग्न पृष्ठकेन, कदाचित् कृतापराध-बालक-पलायनामर्ष-पश्चात्-प्रधावित-स्खलिताधोमुख-पात-स्फुटित शिरःकपालभुग्न-ग्रीवेण, कदाचिज्जनपदकृते नवागतापरधार्मिकादरमत्सरोद्वद्धात्मना, निःसंस्कारतया यत्किञ्चनकारिणा, खञ्जतया मन्दमन्द-सञ्चारिणा, बधिरतया संज्ञाव्यवहारिणा, रात्र्यन्धतया दिवाविहारिणा, लम्बोदरतया
कः प्रत्ययः, यानि कानिचित् अष्टसंख्याकानि कुसुमानीत्यर्थः । एवञ्च अतिरोपगतया अत्यन्तकोपस्वभावतया, कस्मिंश्चित्समये दुर्व्यवस्थाया अथवारूपे स्थापिताया अष्टपुष्पिकायाः, पातेन कुतूहलाद्भाग्याद्वा केनचित्पुरुषेण चण्डिकापीठात् पातनेन उत्पादितो जनितः क्रोधः कोपो यस्य तेन, अतएव मुखभङ्गिविकारैः चण्डिकामपि भृशमत्यर्थम् उपहसता हासं विदधता । अज्ञातानि यानि कानिचिदष्टौ पुष्पाणि चण्डिकायाः पीठे दुष्प्रकारेण विहितानि तानि पुष्पाणि दैवात्पतितानि कुतूहलाय केनचित्पातितानि वा । ततस्तदुपरि द्रविडस्य कोपश्चण्डिकाया उपरि भवति यत्त्वं पुष्पाण्यपि रक्षितुं नापारयः, अतएव मुखभङ्गिविकारैस्तामुपहसतीत्यभिप्रायः ।
कदाचिदिति । निवार्यमाणेन 'इह वासो न विधेयः' इति निषिध्यमानेन आवासेन निवासस्थानेन कारणेन, रुषितैः कुपितैः अध्वगैः पान्थैः आरब्धेषु बहुषु अनेकेषु बाहुयुद्धेषु भुजसङ्ग्रामेषु पातेन भग्नं स्फुटितं पृष्ठं पश्चाद्भागो यस्य तेन ।
कदाचिदिति ।। कृतो रजः पर्णादिक्षेपादिना विहितः अपराध भागो येन तस्य तथोक्तस्य बालकस्य शिशोः पलायनेन योऽमर्षः कोपः तेन यत् पश्चात् प्रधावितं शीघ्राममनं तेन यत् स्खलितं प्रच्युतिस्तस्मात् अधोमुखपातेन स्फुटितं भग्नं शिरः कपालं मस्तकखर्परं भुग्ना कुटिलीभूता च ग्रीवा यस्य तेन ।
कदाचिदिति । जनपदैः देशस्थितैः पुरुषैः कृतो विहितो यो नवागनस्य नूतनायातस्य अपरधार्मिकस्य अन्यसत्पुरुषस्य आदरः सन्मानं तत्र मत्सरेण विद्वेषेण उद्वद्धः स्वनिधनायोद्वन्धनावर्लम्बनीकृत आत्मा शरीरं येन नेन ।
'आत्मा कलेवरे यत्ने स्वभावे परमात्मनि । चित्ते धृतौ च बुद्धौ च परन्त्यावर्त्तनेऽपि च ।'
इति धरणिः ।
निरिति । निःसंस्कारतया शिक्षा-सत्सङ्गाद्युत्पन्नसाधुवासनारहितत्वेन, यत्किञ्चनकारिणा तुच्छ-कर्मविधायिना अकार्येष्वपि प्रवृत्तिविधायिनेत्यर्थः ।
खञ्जेति । खञ्जतया खोडतया मन्दं मन्दं शनैः शनैः सञ्चरितुं विहर्तुं शीलं यस्य तेन ।
बधिरेति । बधिरतया श्रवणेन्द्रियरहिततया, संज्ञया हस्तचालनादिकसङ्केतेन व्यवहर्त्तुं शीलं यस्य तेन ।
रात्र्यन्धेति । रात्र्यन्धतया रजन्यामनवलोकितत्वेन दिवाविहारिणा दिवसभ्रमणकारिणा ।
लम्बोदरेति । लम्बोदरतया प्रभूताहारिणा अत्यधिकभोजनकारिणा ।
इधर उधर रक्खी हुई अष्टपुष्पिका (आठ प्रकार के फूलोंका संग्रह) के गिर जाने पर उसको अभिनव क्रोध उत्पन्न हो जाता था, अतएव उस पुष्पकी रक्षा करनेमें समर्थ न होनेसे नानाविध मुखभङ्गी (मुँह बना-बना) कर चण्डिका देवीका भी अत्यन्त उपहास करता था वहाँ विश्राम करने की अभिलाषा वाले पथिकों (राहियों) को रहनेके लिए निषेध करने पर क्रुद्ध हुए उन लोगों के साथ अनेक बाहुयुद्ध होनेमें गिर पड़नेसे किसी समय उसकी पीठ टूट गई थी । किसी समय धूलि-पत्र आदि फेंककर अपराध करके भागे हुए बालकोंसे चिढ़ कर उनके पीछे दौड़नेमें पद-स्खलन हो (ठोकर लग) जाने पर अधोमुख (औंधे मुँह) होकर प्रस्तर पर गिर पड़नेसे उसके मस्तक और कपाल फूट गये थे तथा गर्दन टेढ़ी हो गई थी । वहाँके लोगोंके द्वारा किसी समय नवीन आए हुए अन्य किसी धार्मिकका आदर किया हुआ देखकर उसमें विद्वेष हो जानेके कारण वह आत्महत्या करनेके लिए गलेमें उद्बन्धन (फाँसी) लगा लेना था । शिक्षाजनित व्युत्पत्तिरहित होनेके कारण वह अतितुच्छ (चाहे सो कुछ) कार्य करता था। खञ्ज (लँगड़ा) होनेके कारण धीरे-धीरे चलता था। बधिर (बहरा) होनेके कारण अङ्गुल्यादि संकेतों (इशारों) से दूसरेके साथ व्यवहार करता था । रात्र्यन्ध (रतौंधी) होनेके कारण दिनमें ही बाहर भ्रमण करता था और लम्बा उदर (पेट) होनेके कारण प्रचुर भोजन करता था । विविध उपाधोंके
१. कदाचिन्निवार्यमाणवासिनाध्वगारब्धबहुबाहुयुद्धपातभग्नपृष्ठेन, कदाचिदनवगतानुजडित्तरलोहिना शिरः-कम्पनवक्रितग्रीवेण । २. ०...जनपदकृत ०... । ३... उद्बद्धात्मना । ४. मन्दं मन्दं सञ्चारिणा ।
शस्त्रद्रविडधार्मिकवर्णना ११८ ] चन्द्रकला-विद्योतिनीसहिता । ६४७
प्रभूतताहारिणा, अनेकशः फल-पातन-कुपित-वानर-नखोल्लेख-छिद्रितनासापुटेन, बहुशः कुसुमावचय-चलित-भ्रमर-सहस्र-दंश-शीर्णीकृत-शरीरेण, सहस्रशः शयनीकृतासंस्कृत-शून्यदेवकुल-कालसर्पदष्टेन, शतशः श्रीफलतरु-शिखर-च्युति-चूर्णितोत्तमाङ्गेन, असकृदुन्मत्त-देवमातृ-गृह-वास्तव्य-नखैर्जर्जरित-कपोलेन, सर्वदा वसन्तक्रीडिना जनेनोत्क्षिप्त-खण्ड-खट्वारोपित-वृद्धदासी-विवाह-प्राप्तविडम्बनेन, अनेकायतन-प्रतिशयिन-निष्फलोत्थानेन, दौःस्थ्यत्यमपि विविध-व्याधि-परिवृतं स्वकुटुम्बमिवोद्वहता, मूर्खतामपि बहुव्यसनानुगतां प्रसूतानेकापत्यामिव दर्शयता, क्रोधमप्यनेकद्रण्डावात-निर्मितबहुगात्रगण्डकं फलितमिव प्रकाशयता,
अनेकशेति । वृक्षात्त्रोटनाद्युपायैः फलपातनेन कुपितानां क्रुद्धानां वानराणां कपीनां नखैर्नखरैः उल्लेग्नेन अनेकशो बहुवारं छिद्रितं कृतच्छिद्रं नासापुटं यस्य तेन ।
बहुश इति । बहुशो बहुप्रकारेण कुसुमावचये पुष्पचयनकाले चलितस्य भीतं गतस्य भ्रमरसहस्रस्य सङ्घसमूहस्य दंशेन दशनेन शीर्णीकृतं शरीरं वपुर्यस्य तेन ।
सहस्रश इति । सहस्रशः सहस्रवारं शयनीकृतेषु स्वापस्थानीकृतेषु असंस्कृतेषु अशोधितेषु शून्येषु निर्जनेषु देवकुलेषु देवभवनेषु कालसर्पैः कृष्णनागैः दष्टो दंशितस्तेन ।
शतश इति । शतशः शतवारं श्रीफलतरोः बिल्ववृक्षस्य शिखरात् अग्रदेशात् च्युत्या पतनेन चूर्णितम् उत्तमाङ्गं शिरो यस्य तेन ।
असकृदिति । असकृत् वारंवारम् उन्मत्तेषु भग्नेषु देवमातृगृहेषु ब्राह्मीप्रभृतिभवनेषु वसन्तीति वास्तव्या ये ऋक्षा भल्लुकाः तेषां नखैः नखप्रघातैः जर्जरितः क्षतविक्षतीकृतः कपोलो यस्य तेन ।
सर्वदेति । सर्वदा सर्वस्मिन् काले वसन्तक्रीडिना वसन्तोत्सवप्रियायिना लोकेन उत्क्षिप्तयाम् उत्तोलितायां खण्डायां त्रुटितायां खट्वायाम् आरोपिता स्थापिता या वृद्धा परिणतवया दासी कृतहारिका तया विवाहेन परिणयेन प्राप्तं लब्धं विडम्बनं कदर्यना येन तेन ।
अनेकेति । अनेकेषु बहुषु आयतनेषु देवनास्थानेषु यानि प्रतिशयनानि मनोरथप्राप्तये दिनमासादिनियतं भोजनादित्यिागपूर्वकं देवनाग्रे शयनानि तेभ्यो निष्फलं निरर्थकम् उत्थानं जागरणं यस्य तेन
दौःस्थित्यमिति । विविधा अनेकप्रकारा ये व्याधयः पीडाः तैः परिवृतं परिवेष्टितम्, दुःस्थितस्य भावो दौःस्थित्यं तदपि दुर्गतिमपि स्वकुटुम्बमिव आत्मीयवर्गमिव उद्वहता धारयता । इह चाम्युत्प्रेक्षा, तया च दुर्गतिपीडानां नैरन्तर्यं प्रतीयत इत्यलङ्कारेण वस्तुध्वनिः ।
मूर्खतामिति । बहुभिः अनेकैः व्यसनैः सुरापानाद्यासक्तिभिः अनुगताम् अनुसृताम्, मूर्खतामपि अविवेकत्वमपि, प्रसूतानि जनितानि अनेकानि बहूनि अपत्यानि सन्ताना यया तामिव, दर्शयता व्यवहारेण प्रकाशयता व्यसनानामवापत्यरूपत्वादित्याशयः । इह बहुसन्तानजनननोत्प्रेक्षणात्क्रियोत्प्रेक्षा ।
क्रोधमिति । अनेकैर्विविधैः दण्डावातैः अपकारिलोकोद्वारा लघुडप्रहारैः निर्मिता रचिता बहवोऽ-
द्वारा फल गिरानेसे क्रुद्ध (चिढ़े) हुए वानरोंके नखों (पञ्जों) के आघातसे अनेक बार उसकी नाक पर छिद्र कर दिए थे। कितनी ही बार पुष्पचयन करने के समयमें छूटे हुए हज़ारों भौरोंने दंशन (डंक मार-मार) कर उसका शरीर जीर्ण कर डाला था। अपरिष्कृत (साफ़ किए बिना) शून्य देवालयोंमें शयन करनेसे काले साँपों ने हजारों बार उसे काट लिया था। श्रीफल-वृक्षके शिखर (चोटी) पर से गिरने के कारण सैकड़ों बार उसका मस्तक चूर्ण हो गया था। ब्राह्मी-प्रभृति देवमाताओं के भग्न (टूटे-फूटे) मन्दिर में रहने वाले भल्लुकों (रीछों) ने नखों (पञ्जों) के आघात से मार-मार कर उसके गाल जर्जरित कर दिए थे। वसन्तोत्सव (होली) में मत्त नागरिकों द्वारा एक टूटी खाट पर बैठाकर लाई गई वृद्ध-दासी के साथ उसका विवाह करा देनेसे वह सर्वदा विडम्बना पाता था। अनेक देव-मन्दिरों में मनोरथ सिद्धि के लिए धरना देकर शयन करने पर भी वहाँ से वह निष्फल होकर ही उठता था। अनेक व्याधियोंसे पीड़ित अपनी दुर्गति को भी वह अपने परिजन (कुटुम्ब) के समान पालन करता था। मद्यपानादि बहुतसे व्यसनों से समन्वित मूर्खता को इस प्रकार प्रकाशित करता था मानों उस मूर्खताने अनेक सन्तान उत्पन्न किए हों, अपकारियों द्वारा अनेक लाठियों (डंडों) के आघात (चोट) से शरीर में उत्पन्न गात्रगण्डकों
१. असकृद्वहुशः ।
२. 'वास्तव्यभल्लुक' ।
३ दौःस्थित्यमपि ।
४. 'अभिजन' ।
५. 'गण्डकैः।
६५० | कादम्बरी- | [ कथायाम-
विगतश्रममेषु पुरोनिखातकुन्तयष्टिषु संयतेषु वाजिषु, वाजिसमीप-विरचित-पर्णसंस्तरे^१ च दिवसगमन-खिन्न^२-परिवर्तितयामिके सुषुप्सति सैनिकजने, कृत-बहु-पावकप्रभा-पीत-तमसि दिवस इव विराजमाने सेनानिवेशे चन्द्रापीडः परिजनेनैकदेशे संयतस्येन्द्रायुधस्य पुरः परिकल्पितं प्रतीहार^५-निवेदितं शयनीयमगात्। निष्षण्णस्य चास्य तत्क्षणमेव पस्पर्श दुःखासिका हृदयम्, अरतिगृहीतश्च विसर्जयाञ्चभूव राजलोकम्, अतिवल्लभानपि नाललाप पार्श्वस्थान्, निमीलितलोचनो मुहुर्मुहुर्मनसा जगाम किम्पुरुषविषयम्, अनन्यचेताः सस्मार हेमकूटस्य^६, निष्कारण-बान्धवतामचिन्तयन्महाश्वेतापादानाम्^७, जीवितफलमभिललाष पुनः पुनः कादम्बरीदर्शनम्, अपगताभिमानपेशलाय नितरामस्पृहयन्मदलेखापरिचयाय, तमा-
पृष्ठानि येषां तेषां भावस्तया तादृश्या कारणेन विगतश्रमत्वेषु दूरीभूतायासेषु, वाजिषु तुरगेषु पुरः अग्रतो निखाताः प्रोथिता याः कुन्तयष्टयः प्रासलगुडाः तासु संयतेषु बद्धेषु सत्सु। वाजिनां तुरगाणां समीपेपु निकटेपु विरचिताः स्वापाय निर्मिताः पर्णसंस्तराः पत्रमयास्तरणानि येन तस्मिन्, दिवसं वासरपर्यन्तं गमनेन खिन्नाः केचन परिश्रान्ता अत एव अन्ये परिवर्त्तिताः परिवर्तनं कृता यामिकाः प्रहरिणो येन तस्मिन्, सुषुप्सति स्वपितुमिच्छति सति, तथा कृतानां जनितानां बहूनामनेकेषां पावकानां वह्नीनां प्रभाभिर्दीप्तिभिः पीतानि ग्रस्तानि विलोपितानि तमांसि अन्धकारा यस्य तस्मिन् तादृशे सेनानिवेशे सैन्यसमूहे, रजन्यामपि दिवस इव विराजमाने शोभमाने सति। परिजनेन सेवकेन एकदेशे एकभागे संयतस्य बद्धस्य। प्रतीहारेण द्वारपालेन निवेदितं विज्ञापितम्, शयनीयं तल्पम् अगात् गतवान्।
निष्षण्णस्येति। अपि च, दुःखस्य आसनम् आसिका दुःखप्राप्तिरित्यर्थः, 'पर्यायार्हणोत्पत्तिषु' इत्यनेन णुल्प्रत्ययः। निष्षण्णस्य तल्पे विद्यमानस्य, अस्य चन्द्रापीडस्य। पस्पर्श स्पृष्टवती। अपि च अरतिगृहीतः समस्तविषयेष्वेवारुचिसम्पन्नः विसर्जयाम्बभूव शयनायानुज्ञां प्रदत्तवान्, अतिवल्लभा नपि अतिप्रियानपि पार्श्वस्थान् समीपस्थायिनो नाललाप न बभाषे, निमीलिते मुद्रिते लोचने नयने यस्य सः। किंपुरुषविषयं किन्नरदेशं मनसा जगाम चिन्तयामासेत्यर्थः। मातुः स्मरति इतिवद् 'हेमकूटस्य' इत्यत्र, 'अधीगर्थदयेशां कर्मणि' इत्यनेन षष्ठी। महाश्वेतापादानां महाश्वेताया इत्यर्थः तपस्वितया गौरववशात्पादशब्दप्रयोगो बहुत्त्वं च सङ्गच्छते। वस्तुतस्तु - 'प्रसादानाम्'। इत्युचितः इव इति प्रतिभाति। जीवितफलं जीवनप्रयोजनस्वरूपम् कादम्बरीदर्शनम्। अभिललाष दवान्छ। अपगतेन दूरीभूतेन अभिमानेन अहङ्कारेण कारणेन पेशलो मनोहरः तस्मै, मदलेखापरिचयाय मदलेखासंस्तवाय। सावकाङ्क्षः
करनेसे पीठ आर्द्र हो जानेके कारण परिश्रम (थकावट) दूर हो गया और उनको सम्मुखमें प्रोथित (गड़ी हुई) भालोंकी लकड़ियोंसे बाँध कर रख दिया, दिन भर चलनेसे परिश्रान्त हुए प्रहरीगण (पहरेदार लोग) प्रहर निश्चय कर घोड़ोंके समीपमें ही पत्तोंकी शय्या (बिछौने) निर्माण कर उस पर शयन करनेकी अभिलाषा करने लगे और बहुत स्थानोंमें प्रज्वलित अग्निके आलोकसे अन्धकारका नाश हो जानेके कारण समस्त सेनानिवेश (सेनाका डेरा) दिनके समान शोभा पाने लगा, तब चन्द्रापीड किसी भृत्यके द्वारा एक भागमें बाँधे गए इन्द्रायुधके सम्मुख (सामने) निर्माण किए हुए निजी दौवारिकके द्वारा निवेदित किए हुए, शयनके कक्षमें प्रवेश किया। वहाँ आकर उस शय्याके ऊपर जब बैठा तत्काल ही दुःखासिका (अकुलाहट) आकर इसके हृदयका स्पर्श करने लगी, इस तरह समस्त विषयोंसे ही अरुचि हो जानेके कारण उसने समस्त राजाओं को विदा किया। समीपमें बैठे हुए अत्यन्त प्रियजनोंके साथ भी वह कुछ वार्तालाप नहीं कर सका। केवल नेत्रोंको सङ्कुचित (मींच) कर बारंबार मनसे किन्नरदेशकी भावना करने लगा। एकाग्रचित्तसे हेमकूट-पर्वतका स्मरण करने लगा। महाश्वेताकी अकारणकी दयावान् बान्धवताके विषयमें चिन्तन करने लगा। बारंबार कादम्बरीके दर्शन करनेसे ही सफल जीवन है, ऐसा मनमें समझकर उसकी ही इच्छा करने लगा अहङ्कार-रहित होनेके कारण बहुत ही मनोहर लगते मदलेखाके-आलाप-व्यवहारको फिरसे निरन्तर होनेकी
१ ॰॰॰प्रस्तरे, स्त्रस्तरे। २. खिन्नेषु। ३ ॰॰॰परिकल्पितयामिके। ४. प्रभाप्रकाशितातनसि दिवसामनामे सेनानिवेशे। ५ ॰॰॰प्रतिहार ॰॰॰। ६. हेमकूटं हेमकूटस्य स्मरवान्। ७. उत्कण्ठितोऽचिन्तयत्। ८. प्रसादानाम् ९. जीवितविन्द।