कादम्बरी (पूर्वार्ध - चन्द्रकला-विद्योतिनी संस्कृत-हिन्दी टीका)
Kadambari (Purvardha) with Sanskrit-Hindi Commentary
बाणभट्ट / पं. कृष्णमोहन शास्त्री द्वारा
| शूद्रकस्नानवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ४५ |
|---|
सम्पादनसत्वरेण पुरःप्रधावता परिजनेन तत्कालं विरलैजनेऽपि राजकुले समुत्सारणाधिकार- मुचितमाचरद्भिः दण्डिभिरुपदिश्यमानमार्गः, वितत-सितवितानाम्, अनेक-चारणगण-निबध्य- मानमण्डलाम्, गन्धोदक-पूर्ण-कनकमय-द्रोणी-सनाथमध्याम्, उपस्थापित-स्फाटिकस्नान- पीठाम्, एकान्तनिहितैरतिसुरभि-गन्ध-सलिलपूर्णैः परिमलावकृष्ट-मधुकर-कुलान्धकारितमुखै- रातपभयान्नीलकर्पटावगुण्ठितमुखैरिव स्नानकलशैरुपशोभितां स्नानभूमिमगमच्छ्रत् । अवतीर्णस्य च जलद्रोणीं वारविलासिनी-कर-मृदित-सुगन्धामलकलैः प्रशिरसो राज्ञः
निष्पादने सत्वरेण त्वरायुतेन, अत एव पुरःप्रधावता अग्रतः शीघ्रं व्रजता परिजनेन सेवकपुरुषेण, एतच्च 'उपदिश्यमाना' इत्यस्य कर्तृ । तथा तत्कालं तस्मिन् मध्याह्नकाल इत्यर्थः, विरलजनेऽपि स्वल्पलोकेऽपि तत्र समुत्सारणस्य प्रयोजनाभावेऽपीत्याशयः, राजकुले राजगृहे उचितं योग्यं समु-त्सारणं लोकसम्मर्दनिवारणं तत्र यः अधिकारो नियोगः तम् आचरद्भिः सम्पादयद्भिः दण्डिभिः यष्टिधारिपुरुषैः, उपदिश्यमानः प्रदर्श्यमानः मार्गः स्नानभूमिगमनपन्था यस्य स तादृशः एतच्च राजविशेषणं बोध्यम् ।
विततेति । अत्र द्वितीयान्तपदानि स्नानभूमेर्विशेषणानि । विततम् ऊर्ध्वं विस्तीर्णं सितं श्वेतं वितानम् उल्लोचः चन्द्रोप इति यावत् यस्यां ताम् । अनेके अगणिता ये चारणगणाः कुशीलवाः स्तुतिपाठकाः तैः निबध्यमानं निर्मियमाणं मण्डलं मण्डलाकारेणावस्थितिः यस्यां तां तादृशीम् । गन्धोदकैः सुरभिजलैः पूर्णा भृता या कनकमयी सुवर्णरचिता द्रोणी जलकुण्डिका बृहज्जलपात्रविशेष इति तात्पर्यम्, तया सनाथो युक्तः मध्यो मध्यभागो यस्याः ताम् । उपस्थापितं न्यस्तं स्फाटिकं स्फटिकमणिरचितं स्नानपीठम् आप्लवनचतुरिका यस्यां सा तां तादृशीम् । एकान्ते स्नानभूमेरेकस्मिन् प्रदेशे निहितैः न्यस्तैः । इतस्तृतीयान्तानि सकलानि स्नानकलशैरित्यस्य विशेषणानि । अति अतिशयेन सुरभिः घ्राणतृप्तिजनको गन्धो येषां तादृशैः सलिलैः जलैः पूर्णा भृतास्तैस्तथोक्तैः, अत एव परिमलेन सलिलगन्धेन अवकृष्टा आकृष्टा ये मधुकरा मधुपः तेषां कुलानि समूहाः तैः अन्धकारितानि अन्धकारीकृतानि मुखानि वदनानि येषां तैः, अत एव आतपभयाद् सूर्यकिरणसन्तापत्रासात् नीलकर्पटैः श्यामवर्णवस्त्रखण्डैः अवगुण्ठितानि आच्छादितानि मुखानि येषां तैस्तथोक्तैरिव विद्यमानैः । स्नानकलशैः आप्लवकुम्भैः उपशोभितां विराजितां स्नानभूमिम् आप्लवस्थानम् अगच्छत् अयासीत् । इत च भावाभिमानिनी वाच्या क्रियोत्प्रेक्षा ।
अवतीर्णेति । जलद्रोणीं जलकुण्डिकाम् अवतीर्णस्य तन्मध्ये प्रविष्टस्य, वारविलासिनीभिः वेश्याभिः करैः हस्तैः 'वलिहस्तांशवः कराः' इत्यमरः, सृद्धितेन मृष्टेन सुगन्धेन सुरभिणा आमलकेन धात्री-
श्रम उत्पन्न कर रही थीं, छाती पर दिखाई पड़ने वाली बूँदें कठोर परिश्रम से टूटे हुये हार के बिखरे हुये मोतियों के दानों जैसी प्रतीत हो रही थीं और ललाट के तल पर उभरे हुये घम-बिन्दु अष्टमी के खण्ड चन्द्र-तल पर सुशोभित अमृत-बिन्दुओं को भी मात कर रहे थे । फिर वह स्नान की सामग्री जुटाने की हड़बड़ी में इधर-उधर आगे-आगे दौड़-धूप करते हुये सेवकों तथा उस समय राजमहल के भीड़-भाड़ रहित होने पर भी लोगों के हटाने के नियम का भली-भाँति पालन करने वाले दण्डधारियों के द्वारा बताये हुये मार्ग से स्नानागार में पहुँचा । वहाँ श्वेत चंदोवा तना हुआ था, चारणों की टोलियाँ मण्डल बाँधे खड़ी थीं, बीच से सुगन्धित जल से भरी हुई द्रोणी (जल-कुण्डिका छोटा-सा जल का कुण्ड) बनी थी, उसके समीप ही स्नान के समय बैठने के लिये बिल्लौरी पीढ़ा रखा हुआ था जिसके एक किनारे अत्यन्त सुगन्धित जल से भरे हुये स्नान करने के कलशे रखे हुये थे, जिनके मुख सुगन्ध के कारण आये हुये भौरों से घिर कर काले पड़ गये थे मानो धूप के गरम हो जाने के भय से उनपर काले कपड़े लपेट दिये गये हों ।
जब राजा जल की कुण्डिका में उतर गया तो वारवनितानों ने अपने हाथों से मल-मल कर उसके सिर पर सुगन्धित आंवलो का लेप किया । फिर उनमें से बहुत-सी राजा के अगल-बगल खड़ी हो गयीं ।
१. प्रधावता । २. परिजनेनानुगम्यमानः । ३. विरलत्वेऽपि । ४. समाचरद्भिः । ५. आवद्ध्यमान-मण्डलम् । ६. बद्धद्रोणी । ७. अभिद्भरभि । ८. कटशैः । ९. क्वचित् । चकारो न विद्यते । १०. उपक्षित् ।
४६ कादम्बरी- [ कथामुखे-
समन्तात् समुपतस्थुरंशुका-निबिड-निबद्ध-स्तनपरिकराः, दूरसमुत्सारित-वलय-बाहुलताः, समुत्क्षिप्तकर्णाभरणाः कर्णोत्सङ्गोत्सारितालकाः, गृहीतजल-कलसाः स्नानार्थमभिषेकदेवता इव वारयोषितः। ताभिश्च समुन्नत-कुचकुम्भ-मण्डलाभिर्वारिमध्यप्रविष्ट-करिणीभिरिव वनकरी परिवृत-स्तत्क्षणं रराज राजा। द्रोणीसलिलादुत्थाय च स्नानपीठममलस्फटिक-धवलं वरुण इव राजहंसमारुरोह। ततस्ताः काश्चिन्मरकतमणि-कलस-प्रभाश्यामायमाना नलिन्य इव मूर्त्तिमत्यः पत्रपुटैः,
फलेन लिप्तं शिरो मस्तकं यस्य तस्य, राज्ञः शूद्रकस्य समन्तात् परितः। अंशुकैः निजनिजपरिहितवस्त्रैः निबिडं दृढं यथा स्यात्तथा निबद्धा दृढभारलघूकरणाय आस्फालनावरोधाय वा संयताः स्तनपरिकराः कुचाभोगा याभिस्तास्तथोक्ताः। एवम्भूतानि प्रथमान्तानि 'वारयोषितः' इत्यस्य विशेषणानि। दूरे ऊर्ध्व-प्रदेशे समुत्सारितानि झणत्कारादिविघ्नदूरीकरणार्थम् उत्तोलितानि वलयानि कङ्कणानि यासु ताः तथोक्ता बाहुलता यासां ताः तथोक्ताः। समुत्क्षिप्तानि लोचनकपोलॊपरिपातननिवारणार्थम् ऊर्ध्वमुत्क्षिप्य बद्धानि कर्णाभरणानि श्रवणालङ्कारा याभिस्ताः तथोक्ताः। कर्णोत्सङ्गात् श्रोत्रान्तिकात् उत्सारिता लोचनोपरि-पतननिवारणाय अपसार्य उपरिन्यस्ता अलकाः चूर्णकुन्तला याभिस्ताः। गृहीता आत्ता जलकलसाः सलिलपूर्णघटा याभिस्ताः। अभिषेकदेवताः स्नानाधिष्ठात्र्यो देव्य इव स्नानार्थं राज्ञः आप्लवविधानार्थं समुपतस्थुः सम्यक्प्रकारेण उपस्थिता आसन्। इह वाच्या जात्युत्प्रेक्षा स्वभावोक्तिश्च अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः।
ताभिश्चेति। वारिमध्ये जलद्रोणीमध्ये प्रविष्टः कृतप्रवेशो राजा शूद्रकः समुन्नतम् अत्यन्तोच्चं कुच-कुम्भमण्डलं स्तनकलससमूहो यासां ताभिः, तादृशीभिः वारयोषिद्भिः, करिणीभिः हस्तिनीभिः परिवृतः परिवेष्टितः वनकरी वन्यहस्तीव तत्क्षणं तस्मिन् काले रराज शुशुभे। तथा च यथा हस्तिनीभिः समं मज्जनं कुर्वन् वनकरी शोभते तथैवायमपीत्यर्थः। एवं सति कालभेदेऽपि 'काऽप्यनिस्या तयोरासीद् मजतोः शूद्र-वेशयोः' इत्यादिवदुपमागतभग्नप्रक्रमत्वदोष इत्यवधेयम्। इहालङ्कारश्चोपमा।
द्रोणीसलिलेति। ततो द्रोणीसलिलात् जलकुण्डिकास्थानात् उत्थाय बहिर्निगत्य अमलो मलरहितो यः स्फटिकस्तदाख्यो मणिविशेषः तद्वद् धवलं स्वच्छं स्नानपीठम् आप्लवनचतुष्किकां वरुणः प्रचेताः राजहंसं कलहंसमिव आरुरोह आरूढवान्, वरुणो यथा राजहंसमारोहति तथैवायमप्यारुरोहेत्यर्थः। एवं सति कालभेदे सत्यप्यत्र पूर्ववद् भग्नप्रक्रमतादोषः।
तत इति। ततः आरोहणानन्तरं ता वाराङ्गना राजानम् अभिषिषिचुरित्यग्रिमेण सम्बन्धः। वाराङ्गना एव विविधप्रकारेण विशेषयति-काश्चिदित्यादिना। काश्चित् काश्चन मरकतमणिनिर्मितो यः कलसो घटस्तस्य प्रभया दीप्या श्यामायमानाः अश्यामा अपि श्यामवदाचरन्त्यः, अतएव पत्रपुटैः पर्ण-सम्पुटैः मूर्त्तिमत्यः श्यामत्वसाम्यात्तत्स्वरूपधारिण्यो नलिन्यः पद्मिन्य इव (दृश्यमानाः सत्यः) राजानं
उन्होंने अपनी छातियों को रेशमी वस्त्रों से कसकर बाँध लिया था और कंकणों को दूर तक बांहों पर तथा कानों में लटकते आभूषणों एवं कपोलों पर झूलते हुये बालों को हटाकर कानों पर चढ़ा लिया था। वह अपने हाथों में जलकलशों को लिये हुये ऐसी प्रतीत हो रही थीं मानो राजा को स्नान कराने के लिये स्वयं अभिषेकदेवियाँ ही आ गई हों।
उस समय जल में स्थित राजा कलशों के समान गोल-मटोल बैठे हुये स्तनों वाली वारवनितानों के बीच इस प्रकार सुशोभित हो रहा था मानों जल में घुसा हुआ हथिनियों के बीच कोई जंगली हाथी हो। इसके बाद वह जलकुण्डिका के जल से निकल कर अत्यन्त निर्मल श्वेत बिल्लौरी पीढ़े पर जा बैठा मानो श्वेत राजहंस पर स्वयं वरुणदेव ही आकर बैठे हों।
इसके पश्चात् उनमें से अनेकों मरकतमणि के बने कलशों से राजा को स्नान कराने लगीं। उस समय उन घड़ों की नीली-नीली छाई से साँवली-सी दिखाई पड़ने वाली वे वनितायें उसे नहलाती हुई ऐसी लग रही थीं
१. परितः। २. सवृतस्थुः। ३. अंशुकविनिबद्ध"**। ४. 'चरणाभरणाः। ५. जलद्रोणि । ६. काश्चन । ७. मरकतकलश"।
शूद्रकस्नानवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ४७
काश्चिद्रजतकलसहस्ता रजन्य इव पूर्णचन्द्रमण्डलविनिर्गतेन ज्योत्स्नाप्रवाहेन, काश्चित् कलमोत्क्षेप-श्रम-स्वेदार्द्र-शरीरा जलदेवता इव स्फाटिकैः कलसैस्तीर्थजलेन, काश्चिन्मलय-सरित इव चन्दनरसमिश्रेण सलिलेन, काश्चिदुत्क्षिप्त-कलस-पार्श्व-विन्यस्त-हस्तपल्लवाः प्रकीर्य्यमाण नख-मयूख-जालकाः प्रत्यङ्गुलि-विवर-विनिर्गत-जलधाराः सलिलयन्त्रदेवता इव, काश्चिज्जाड्यमपनेतुमाश्रित-बालातपेनेव दिवसश्रिय इव कनककलसहस्ताः कुङ्कुमजलेन वाराङ्गनाः यथायथं^२ राजानमभिषिषिचुः ।
शूद्रकम् अभिषिषिचुः अभिषेकं कारयामासुः । इह नलिनीवाराङ्गनानां मरकतकलशपत्रपुटानाञ्च कृष्ण-वर्णत्वात् सादृश्यम् । वाराङ्गनासु नलिनीत्वजात्युत्प्रेक्षणादुत्प्रेक्षा व्यङ्गतोपमा च, अनयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
काश्चिदिति । काश्चन अन्या वारयोषितो रजतकलसः रूप्यनिर्मितघटः हस्ते करे यासां तास्तथोक्ताः, पूर्णचन्द्रमण्डलात् समस्तशशिबिम्बात् विनिर्गतेन निःसृतेन ज्योत्स्नाप्रवाहेन चन्द्रिकारयेण शोभमाना रजन्यः क्षपा इव । रजनीभिर्वाङ्गनानाम्, पूर्णचन्द्रेण रजतकलसस्य ज्योत्स्नाप्रवाहेन तत्स्थसलिलस्य सादृश्यमत्राभिमतं वेदितव्यम् । इह वाराङ्गनासु रजनीत्वजात्युत्प्रेक्षणाज्जात्युत्प्रेक्षा ।
काश्चिदिति । अन्याः काश्चन कलसस्य घटस्य उत्क्षेपणात् ऊर्ध्वमुत्थापनाद् यः श्रमः आयासस्तेन ये स्वेदा घर्मसलिलानि तैराद्रीणि स्विन्नानि शरीराणि वपूंषि यासां ताः, स्फाटिकैः तदाख्यमणिविशेष-सम्बन्धिभिः कलसैः कुम्भैः तीर्थजलेन तीर्थपयसा च सहिताः, अत एव जलदेवता जलाधिष्ठात्र्य इव, तासामपि मलिलाभिसरणेन सलिलबिन्दुश्यामदेहत्वात् सादृश्यम् । इहापि वाराङ्गनासु जलदेवतात्व-जात्युत्प्रेक्षणाज्जात्युत्प्रेक्षा ।
काश्चिदिति । काश्चन अन्या वाराङ्गनाः चन्दनस्य मलयजस्य रसेन द्रवेण मिश्रं संयुक्तं तेन तथो-क्तेन, सलिलेन पयसा मलयसरितः मलयाचलनाद्य इव ता अपि चन्दनमिश्रजलान्यादधते । तस्मिन् समये मलयसरित्सु स्नानासम्भवेन तदारोपणादुत्प्रेक्षा ।
काश्चिदिति । अन्याः काश्चन उत्क्षिप्ता उत्क्षेप कृतं नीता ये कलसाः कुम्भास्तेषां पार्श्वेषु वाम-दक्षिणेषु विन्यस्ता उत्तानभावेन स्थापिता हस्तपल्लवाः करकिसलयानि याभिस्ताः, 'पल्लवोऽस्त्री किसल-यम्' इत्यमरः, प्रकीर्य्यमाणानि इतस्ततो विपर्य्यस्तानि नखानां पुनर्भावानां मयूखजालानि दीप्तिचया यासां ताः, तथा प्रत्यङ्गुलि प्रतिहस्तशाखं यानि विवराणि अन्तरालप्रदेशाः छिद्राणि इति यावत्, तेभ्यो विनि-र्गता निःसृता जलधारा पानीयसम्पातो यासां ताः, अत एव सलिलयन्त्रदेवता जलतन्त्राधिष्ठातृदेव्य इव ता अप्येतादृश्यो भवन्तीत्यर्थः । इहापि तथाविधगणिकासु सलिलयन्त्रदेवतात्वजात्युत्प्रेक्षणाज्जात्युत्प्रेक्षा ।
काश्चिदिति । काश्चन अन्याः कनककलसाः सुवर्णकुम्भा हस्तेषु पाणिषु यासां ताः काश्चिद्वाराङ्गनाः दिवसश्रिय इव दिनलक्ष्म्य इव जाड्यं जलीयशैत्यम् अपनेतुं पृथक्कर्त्तुं आश्रित आकर्षितो बालातपः अभिनवोदितसूर्य्यरश्मिः यस्मिन् तेनेव कुङ्कुमजलेन केसरमिश्रितसलिलेन यथायथं यथायोग्यं राजानं
मानों नीली-नीली कमलिनियाँ अपने पत्तों के पुटों से राजा को नहला रही हों । कोई-कोई चाँदी के घड़ों से जल को डालते हुए राजा को नहलाती हुई ऐसी प्रतीत हो रही थीं मानों पूर्णिमा की रातें चन्द्रमण्डलों से ढुलती हुई चाँदनी की धाराओं से उसे स्नान करा रही हों । कोई-कोई घड़ों को उठाने के परिश्रम से पसीने में लथ-पथ होकर बिल्लौरी कलशों से उसे स्नान कराती हुई ऐसी प्रतीत होती थीं, मानो तीर्थ जल से भरे कलशों द्वारा जल-देवियाँ स्नान करा रही हों । कोई-कोई चन्दन के रस से सुगन्धित जल-धारों से उसे स्नान कराती हुई ऐसी लगती थीं मानो मल्याचल से निकली हुई तथा चन्दन के रस से भरी हुई नदियाँ अपनी धाराओं से स्नान करा रही हों । कोई-कोई कलशों के दोनों ओर पल्लवों जैसी हथेलियाँ लगाए उन्हें सिर पर रखे हुए खड़ी थीं । उनके नखों की किरणें चारों ओर फैल रही थीं और उनकी उँगलियों के बीच से जल की धारें बह रही थीं जिससे वे ऐसी प्रतीत हो रही थीं मानों सिर पर घड़ा उठाए फौवारों में बनी हुई पुतलियाँ हों । कोई शीतलता दूर करने के लिए सोने के कलशों से कुंकुम मिला हुआ जल छिड़कती हुई ऐसी प्रतीत हो रही थीं मानो दिन की शोभा प्रातःकालीन मधुर धूप बिखेर रही हो । इस प्रकार क्रम-क्रम से उन वारवनिताभों ने राजा को स्नान कराया ।
१. ॰॰॰श्वविनिर्गत॰॰॰ । २. क्रमेण ।
४८ कादम्बरी- [ कथामुखे-
अनन्तरमुदपादि च स्फोटयन्निव श्रुतिपथमनेक-प्रहत-पटु-पटह-झल्लरी-मृदङ्ग-वेणु-वीणा-गीत-निनादानुगम्यमानो वन्दिवृन्द-कोलाहलाकुलो भुवन-विवरव्यापी स्नानशङ्खाना-मापूर्य्यमाणानामतिमुखरो ध्वनिः।
एवञ्च क्रमेण निर्वर्त्तिताभिषेको विषधरनिर्मोक-परिलघुनी धवले परिधाय धौत वाससी शरदम्बरैकदेश इव जलक्षालन-निर्मलतनुः अनघवत्त-जलधर-च्छेद-शुचिना दुकूलपट्टपल्लवेन तुहिनगिरिरिव गगनसरित्स्रोतसा कृत-शिरोवेष्टनः सम्पादित-पितृजल-क्रियो मन्त्रपूतेन तोयाञ्जलिन दिवसकरमभिप्रणम्य देवगृहमगमन् ।
शूद्रकम् अभिषिषिचुः स्नानं कारयामासुः। इह 'दिवमश्रिय' इति जात्युत्प्रेक्षा, 'आक्षिप्तदालातपेनेव' इति क्रियोत्प्रेक्षा, अनयोर्ब्राह्माङ्गिभावात्सङ्करालङ्कारः।
अनन्तरमिति। अनन्तरं स्नानानन्तरं स्नानशङ्खानां ध्वनिः उदपादीत्सम्बन्धः। धुनिरयं कर्णविवरं स्फोटयन् द्विधा कुर्वन्निव, अनेकैः पुरुषैः प्रहता वादिताः पटवः वाद्यविधाने मनर्याः पटहाः दुन्दुभयः झल्लर्यो वाद्यविशेषाः (भाषायां 'झाल' इति पदवाच्याः), मृदङ्गा मुरजाः, वेणवो वंश्यः, वीणा वल्लक्यः तासां गीतानां गानानाञ्च निनादैः ध्वनिभिः अनुगम्यमानः तमनुलक्षीकृत्य प्रवर्त्तमानः, वन्दिवृन्दस्य वैतालिकसमूहस्य कोलाहलेन कलकलेन लाकुलो व्याप्नो स्वतः एव भुवनविवरव्यापी विष्टपान्तराल-प्रसारी, अतिमुखरः अतिशयेन तारतरम्, आपूर्य्यमाणानां मुखवायुभिः वाद्यमानानां स्नानशङ्खानाम् आप्लवकालवादनीयशङ्खानां ध्वनिः शब्द उदपादि उत्पत्नोऽभूत्, 'पद गतौ' लस्मल्लुङिरूपम् । इह भुवनविवरव्यापनसम्बन्धाभावेऽपि तत्सम्बन्धोक्त्यातिशयोक्तिरलङ्कारः, 'स्फोटयन्निवे' ति क्रियोत्प्रेक्षा च, अनयोश्च परस्परं नैरपेक्ष्येण संसृष्टिरलङ्कारः। 'नियोऽनदेव्यमेतेषां स्थितिः संसृष्टिरुच्यते' इति लक्षणात् ।
एवञ्चेति । यो निष्क्रमे तस्य च विजेप्यर्थः । एवं पूर्वोक्तप्रकारेण क्रमेण परिपाट्या निर्वर्त्तितः कृतः अभिषेकः स्नानं येन स तादृशो राजा देवगृहमगमदिति . वक्ष्यमाणक्रियया सम्बन्धः । विषधराः सर्पास्तेषां निर्मोकः कञ्चुकः तद्वत् परिलघुनी अत्यन्तसूक्ष्मे धवले स्वच्छे धौतवाससी प्रक्षालितवसने परिधाय परिधानं विधाय, देवपूजानिमित्तं वस्त्रद्वयधारणावश्यकतानाह आह्निकसूत्रावल्याम्-
'होमदेवार्चनाद्यासु क्रियासु पठने तथा। नैकवस्त्रः प्रवर्तेत यत्नतः सर्वथा बुधः॥'
शरदि वर्षात्यये अम्बरैकदेश इव आकाशैकभाग इव जलक्षालनेन अभिषेचनीयसलिलद्वारा प्रक्षा-लनेन वर्षासलिलद्वारा प्रक्षालनेन च निर्मला अपगतमला तनुः शरीरं यस्य स तादृशः, अतिधवलः अतीव स्वच्छो यो जलधरच्छेदः मेघखण्डः तद्वत् शुचिना धवलेन दुकूलपट्टस्य क्षौमवसनस्य पल्लवेन विस्तरेण अतिदीर्घक्षौमवसनेनेत्यर्थः, 'पल्लवो विस्तरे विटपे किसले विटपे वने' इति त्रि० शेषः । गगन-सरित् आकाशगङ्गा तस्याः स्रोतसा प्रवाहेण तुहिनगिरिः हिमाचल इव कृतः विहितः शिरोवेष्टनम् उष्णीषो येन स तादृशः। होमार्थमुष्णीषधारणमाह-
'उष्णीषेण विना राजन् ! होमं चेत्कुरुते नरः। होतुरुद्धर्विनाशः स्याद्धोता च विकलो भवेत् ॥' इति ।
सम्पादिता निष्पादिता पितृजलक्रिया पितृतर्पणादिर्येन स तादृशः, तथा च-'स्नात्वा सन्तर्पयेद्
उसी समय साथ ही बजाए गए अनेक नगाड़ों, झाँझों, मृदङ्गों, वेणुओं और वीणाओं की ध्वनियों तथा मंगल गीतों के स्वरों एवं चारणों के कोलाहल से गूँजती हुई सभी लोकों में छा जानेवाली कानों को फोड़ती हुई सी शंख की अत्यन्त तीखी ध्वनि होने लगी, जो स्नान समाप्त होने की सूचना दे रही थी।
इसी रीति से स्नान कर चुकने के बाद जल से धुला हुआ उसका निर्मल शरीर शरत्कालीन स्वच्छ आकाश के एक टुकड़े के समान झलकाने लगा। उसने साँप की केंचुली के समान अत्यन्त झीने तथा उजले दो वस्त्र पहिन लिये और अत्यन्त उजले बादलों की तहों के समान श्वेत रेशमी पगड़ी अपने सिर पर लपेट ली। उस समय वह ऐसा सुशोभित होने लगा मानो अपनी चोटी पर आकाशगंगा की धाराओं को लपेटे हुए हिमाचल पहाड़ हो। इसके बाद उसने पितरों को तर्पण (जल-दान) किया और अँजुली में जल लेकर मंत्रों से ऋषिमन्त्रित करके भगवान् सूर्य को अर्घ्य दिया। फिर उन्हें नमस्कार करके वह मंदिर में चला गया।
१. ०स्फोटयन्निव, ०स्फोटयन्निव । २. कोलाहलो । ३. मदन०...। ४. मुखरः। ५. निर्वर्तिताभि-षेकः । ६. धौतवाससी । ७. जलक्षालननिर्मलतनुः ।
| शूद्रकनित्यकृत्यवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ४६ |
|---|
उपर्चित-पशुपतिपूजश्च निष्क्रम्य देवगृहान्निर्वर्त्तिताग्निकार्यो विलेपनभूमौ झङ्कारिम- रलिकदम्बकैरनुबध्यमानपरिमलेन मृगमद-कर्पूर-कुङ्कुमवास-सुरभिणा चन्दनेनानुल्प्ति- सर्वाङ्गो विरचितामोदि-मालतीकुसुमशेखरः कृतवस्त्रपरिवर्त्तः रत्नकर्णपूरमात्रामरणः समुचित- भोजनैः सह भूपतिभिराहारमभिमत-रसास्वाद-जातप्रीतिरवनिपो निर्वर्त्तयामास । परिपीत धूमवर्त्तिरुपस्पृश्य च गृहीतताम्बूलस्तस्मात् प्रमृष्ट-मणि-कुट्टिम-प्रदेशादुत्थाय
देवान् पितॄंश्च मानवांस्तथा' इति मन्त्रैः वेदविदितैः पूतं पवित्रं यत्तोयं जलं तस्य अञ्जलिः हस्तसम्पुटः 'अञ्जलिस्तु पुमान् हस्तसम्पुटे कुडवेऽपि च' इति मेदिनी । तेन दिवसकरं सूर्यनारायणम् अभि सम्मुखं प्रणम्य अञ्जलौ मन्त्रपूतमर्घ्यरूपं जलं सूर्यनारायणाय दत्त्वा नमस्कृत्येत्यर्थः । तदुक्तम्-
'अर्घ्यं दद्यात्तु प्रथमं भास्कराय महात्मने । ततो विष्णुं शिवं शान्तः शिवां चैव प्रपूजयेत् ॥' इति । देवगृहं चैत्यम् आगमत् आगच्छत् । इह विव्वरानिर्माणेक्यत्र लुप्तोपमालङ्कारः । शरदम्वरैकदेश इवेत्यत्र पूर्णोपमालङ्कारः । अनिलवलनलवरेत्यत्रापि च लुप्तोपमैव । तुहिनगिरिरित्यत्र रूपमा ।
उपचितेति । उपर्चिता सम्पादिता पशुपतेः महेश्वरस्य पूजा अर्पचितिः 'पूजा नमस्याऽपचितिः' इत्यमरः, येन स तथामूतः, तया च-'असम्पूज्य शिवं मोहाद्ये नरा भुञ्जतेऽन्वहम् । सौख्यं नैवाप्नुवन्तीह मन्नाशाः पर्यटन्ति ते ॥' इति । निर्वर्तितं निष्पादितम् अग्निकार्यम् अग्निहोत्रादिकं येन सः, 'यावज्जीवमग्नि-होत्रं जुहुयात्' इति श्रुतेरग्निहोत्रस्यापि नित्यत्वादित्याशयः । विलेपनभूमौ अङ्गरागसम्पादनस्थाने झङ्का-रिभिः शब्दं कुर्वद्भिः अलिकदम्बकैः भ्रमरगणैः अनुबध्यमानः सेव्यमानः परिमलः सौरमं यस्य स तेन, मृगमदस्य कस्तूर्याः कर्पूरकुङ्कुमयोः हिमवालुककेसरयोश्च वासेन परिमलेन सुरभिणा घ्राणतर्पणेन 'सुरभि-र्घाणतर्पणः, इत्यमरः, चन्दनेन मलयजेन अनुलिप्ताङ्गः लेपितसकलशरीरावयवः, विरचितरचना-विशेषेण विहितः आमोदिभिः परिमलवद्भिः मालतीकुसुमैः जातीपुष्पैः शेखरः शिरोभूषणं येन स तादृशः, अङ्गरागादिकं यथाकालं यथावयः कार्यमित्याह्निके स्पष्टम् । कृतो विहितो वस्त्रयोः पूर्वपरिहित-वसनयोः परिवर्त्तः परिवर्तनं येन सः परिहितान्यवसन इत्यर्थः, पूजावाससः सर्वदा धारणाद्यनौचित्यादि-त्याशयः । रत्नकर्णपूरमात्रं केवलं रत्नखचितं कुण्डलमेव आभरणं तत्समयाऽलङ्कारो यस्य सः, अशनादि-समयेऽनेकमूषणपरिधानेन कष्टसम्भवादित्याशयः । समुचितं योग्यं भोजनम् एकपङ्क्तावशनं येषां तैः तथोक्तैः, आत्मतुल्यकुलसदाचारादिसम्पन्नैरित्याशयः, भूपतिभिः अन्यैः नृपतिभिः सह अभिमतं अभि-लषिता ये रसा मधुराद्यस्तेषाम् आस्वादेन ग्रहणेन जाता उत्पन्ना प्रीतिः सन्तुष्टिः यस्य सः अवनिपः भूपतिः शूद्रकः आहारम् अशनं निर्वर्त्तयामास सम्पादयामास ।
परिपीतेति । उपस्पृश्य आचमनं विधाय आस्थानमण्डपमयासीदिति वक्ष्यमाणक्रियया सम्बन्धः । 'उपस्पर्शस्त्वाचमनम्' इत्यमरः । भोजनानन्तरमाचमनस्यावश्यकर्त्तव्यमुक्तं नारदेन- 'सुप्त्वा क्षुत्वा च मुक्त्वा च निष्ठीव्योक्त्वाऽनृतं वचः। पीत्वाऽपोऽध्येष्यमाणश्च आचामेत् प्रयतोऽपि सन्।' इति परि सामस्त्येन पीता सुखसौगन्ध्यविधानार्थं गृहीता धूमवर्त्तिः अग्निसंयोगेन धूमसंयुक्तमाद्र-
वहाँ आकर भगवान् शङ्कर की पूजा करके वह मन्दिर से निकला और होमादि कार्यों को पूरा कर विले-पनभूमि में पहुँचा । फिर उसने अपने सभी अङ्गों में सुगन्ध के कारण भौरों के झुण्डों से ढके हुये तथा कस्तूरी, केशर और कपूर से सुवासित सुगन्धित चन्दन का लेप करके मस्तक पर विशेष ढङ्ग से मालती के फूलों की चोटी बनायी और वस्त्रों को बदल कर कानों में केवल रत्नों से जड़ा हुआ कर्णफूल पहिन लिया । इसके बाद भोजन के समय पंक्ति में बैठने योग्य राजाओं के साथ उसने मनोऽनुकूल रसों का स्वाद लेते हुए सन्तुष्ट होकर भोजन-क्रिया समाप्त की ।
भोजन कर लेने के पश्चात् उसने धूम्रवर्तिका (एक प्रकार की सिगरेट जैसी कपूर, अगन, चन्दन, मुस्ता, पूति, प्रियंगु और नांही मिलाकर बनाई गई बत्ती) का पान किया और हाथ-मुँह धोकर पान खाया। फिर वह धुली-माँजी मणियों की फर्श से उठकर सभा-मण्डप की ओर चल पड़ा।
तत्काल ही थोड़ी दूर पर खड़ी हुई प्रतिहारी अत्यन्त शीघ्रता से दौड़ी हुई आ पहुँची। उसने राजा की
१. उपचरित*** । २. पूजम्श्च । ३. निर्वर्तित । ४. कृताम्बरपरीवर्त्तः । ५. निर्वत्तयामास । ६. धूपवर्तिः, धूपधूमवर्तिः । ७. कुट्टिमात् ।
७ का० कथा०
५० कादम्बरी- [ कथामुखे-
नातिदूरवर्त्तिन्या ससम्भ्रम-प्रधावितया प्रतीहार्य्या प्रसारितं बाहुम् अवलम्ब्यानवरत-वेत्रलताग्रहण-प्रसङ्गादतिजरठ-किसलयानुकारि-करतलं। करेणं अभ्यन्तरसञ्चारसमुचितेन परिजनेनानुगम्यमानः, धवलांशुकै-परिगतपर्य्यन्ततया स्फटिक-मणिम॑य-भित्ति-बद्धमिवोप-लक्ष्यमाणम्, अतिसुरभिणा मृगनाभिपरिमलेना-मोदिना चन्दनवारिणा सिक्तशिशिरंमणि-भूमिम्, अविरलविप्रकीर्णेन विमल-मणिकुट्टिम-गगनतलतारागणेनेव कुसुमोपहारेण निरन्तरनिचितम्, उत्कीर्णशालभञ्जिकानिवहेन सन्निहितगृहदेवतेनेव गन्धसलिल-क्षालितेन कलधौतमयेन स्तम्भसञ्चयेन विराजमानम्, अतिबहलागुरु-धूप-परिमलम्, अखिल-
कृटादिरचिनद्रव्यविशेषो येन सः, गृहीतं मुखाभ्यन्तरे घृतं ताम्बूलं नागवल्लीदलं येन स तथोक्तः । प्रमृष्टः सलिलादिना संस्कृतो यो मणिकुट्टिमप्रदेशः रत्नमयबद्धस्थलं तस्मात्, उत्थाय उत्थानं विधाय, नातिदूरं वर्तते या सा तया, ससम्भ्रमं सत्रासं प्रधावितया शीघ्रं व्रजन्त्या प्रतीहार्य्या द्वारिपालिकया प्रसारितं विस्तारितम्, अनवरतं निरन्तरं वेत्रस्य वेतसस्य या लता मृदुयष्टिः तस्या ग्रहणे धारणं तस्य प्रसङ्गाद् अभ्यासात्, अतिजरठम् अतिकठिनम् अत्यन्तपरिणतमित्यर्थः यत् किसलयं पल्लवं 'पल्लवोऽस्त्री किसलयम्' इत्यमरः, तदनुकर्तुं शीलं यस्य तत्तथोक्तं करतलं हस्तोधःप्रदेशो यस्य तत्तथोक्तम्, बाहुं भुजं 'भुजवाहू प्रवेष्टो दोः' इत्यमरः, अवलम्ब्य तदाश्रयं कृत्वेत्यर्थः, अभ्यन्तरे वाह्यजनागम्ये गृहप्रदेशे या सञ्चारः सञ्चरणं गमनागमनमित्यर्थः, तत्र समुचितेन योग्येन परिजनेन सेवक्लोकेन अनुगम्यमानः अनुव्रज्यमानः ।
धवलांशुकेति । धवलानि निर्मलांनि यानि अंशुकानि वस्त्राणि तैः परिगताः परिवेष्टिताः पर्यन्ताः प्रान्तभागा यस्य तस्य भावस्तत्ता तया कारणेन, स्फटिकमणिमयी या भित्तिः कुड्यं तया निबद्धं रचितमिव उपलक्ष्यमाणम् अवलोक्यमानम् । अनेन वस्त्राणां शुभ्रत्वं सौक्ष्म्यातिशयश्च प्रतीयते । इह क्रियोत्प्रेक्षा, सा च वाच्या । इत आरभ्य द्वितीयान्तपदानि, 'आस्थानमण्डपम्' इत्यस्य विशेषणानि बोध्यानि ।
अतिसुरभिणेति । अतिसुरभिणा अत्यन्तघ्राणतर्पणेन 'सुरभिर्घ्राणतर्पणः' इत्यमरः, मृगनाभिपरिमलेन कस्तूरीगन्धेन 'विमर्दोत्थे परिमलो गन्धे जनमनोहरे' इत्यमरः, आमोदिना अत्यन्तसुगन्धिना चन्दनवारिणा मलयजमिश्रितपानीयैन, सिक्ता अत एव शिशिरा शीतला मणिभूमी रत्नबद्धा भूर्यत्र तं तथोक्तम् ।
अविरलेति । अविरलं सान्द्रं यथा स्यात्तथा विप्रकीर्णेन विक्षिप्तेन, तथा विमलं निर्मलं मणिकुट्टिमं रत्नवद्धभूमिः गगनतलतारागणेन आकाशस्थितनक्षत्रमण्डलेनेव कुसुमोपहारेण पुष्पसमूहेन निरन्तरम् अनवरतं निचितं सान्द्रभावेन व्याप्तम् । इहोपमालुप्तोपमयोः परस्परमङ्गाङ्गिभावेन सङ्करालङ्कारः ।
उत्कीर्णेति । उत्कीर्णं उत्कीर्य विहितः शालभञ्जिकानिवहः पुत्तलिकापुंजो यस्मिन् तथोक्तेन, अत एव सन्निहिता निकटस्था गृहदेवताः भवनाधिष्ठात्र्यो देव्यो यस्मिन् तथोक्तेनैव स्थितेन, गन्धसलिलैः सुगन्धिवारिभिः क्षालितेन धौतेन, कलधौतमयेन सुवर्णनिर्मितेन, स्तम्भानां स्थूणानां सञ्चयेन समुदायेन विराजमानं शोभमानम् । इह सन्निहितगृहदेवतेनेत्यत्र क्रियोत्प्रेक्षा ।
अतीति । अतिवहलः अत्यन्तप्रचुरो योऽगुरुः कृष्णागुरुः तस्य धूपस्य परिमलः सौरभं यस्मिंस्तत् तथोक्तम् ।
ओर अपनी बाहें फैला दीं। राजा ने भी निरन्तर बेंत की छड़ी लेने के कारण घट्टे पड़े हुये पल्लवों के समान उसकी हथेली अपने हाथ में ले ली। महल के भीतर तक आ जा सकने वाले सेवक भी राजा के पीछे-पीछे चल पड़े उस आस्थान-मंडप (वह सभा-मंडप जहाँ भोजन के बाद राजा का खास दरबार लगता था) के चारों ओर उजले रेशमी पर्दे पड़े हुये थे, जिससे वह विल्लौरी दीवारों का बना हुआ प्रतीत हो रहा था। वहाँ की मणियों से बनी हुई भूमि कस्तूरी मिले अत्यन्त सुगन्धित जल से सिंची होने के कारण बहुत ही शीतल थी, जिस पर थोड़ी-थोड़ी दूर पर फूलों के गुच्छों से सजावट की गई थी, जिसने वह ऐसी प्रतीत हो रही थी मानों मणिभूमि रूपी निर्मल आकाश में गुच्छे रूपी अत्यन्त घने तारों के झुण्ड दिखाई पड़ रहे हों। उस मण्डप में अनेक सोने के खम्भे बने हुये थे जो सुगन्धित जल से पखारे गये थे। उन पर पुतलियों की प्रतिमायें गढ़कर काढ़ी गई थीं
१. प्रसारितबाहुम्, प्रसारितम् । २. 'अनवरत' इति पाठः क्वचिन्नाप्युपलभ्यते । ३. प्रसङ्गानति, प्रसङ्गादनति...। ४. करतलकरेण । ५. शुक्लयवनिकापरिगत...। ६. स्फटिकमय । ७. निबद्ध । ८. अतिसुरभि । ९. परिगतेन । १०. शिशिरकर । ११. विमलमणिकुट्टिमं गगनतलं तारागणेनेव । १२. दैवतेनेव ।
सभासण्डपगमनम् ] चन्द्रकला-विद्योतिनीसहिता । ५१
विर्गलित-जलनिवह-धवल-जलधर-शकलानुकारिणा कुसुमामोदवासित-प्रच्छदपटेन, पट्टोपधानाध्यासितशिरोधाग्ना मणिमय-प्रतिपादुकाप्रतिष्ठितपादेन पार्श्वस्थ-रत्नपादपीटेन तुहिनगिरि-शिलातल-सदृशेन शयनेन सनाधीकृतवेदिकं भुक्त्वास्थानमण्डपमयासीत् ।
तत्र च शयने निषण्णः क्षितितलोपविष्टया शनैः शनैरुत्सङ्ग-निहितासिलतया खड्गवाहिन्या नव-नलिन-दल-कोमलेन करसम्पुटेन संवाह्यमानचरणस्तत्कालोचितदर्शनैरवनिपतिभिरमात्यैर्मित्रैश्च सह तास्ताः कथाः कुर्वन् मुहूर्त्तमिवासाञ्चक्रे ।
ततो नातिदूरवर्त्तिनीम् 'अन्तःपुराद्वैशम्पायनमादायागच्छ' इति समुपजाततद्वृत्तान्त-प्रश्न-कुतूहलो राजा प्रतीहारीमादिदेश ।
विगलितेति । अखिलः सम्पूर्णों विगलितो निर्गतो जलनिवहः सलिलसमुदायो यस्मिन् स तादृशः, अत एव धवलो निर्मलो यो जलधरो मेघः तस्य शकलं खण्डम् अनुकर्तुं शीलं यस्य स तेन । इत आरभ्य तृतीयान्तपदानि 'शयनेन' इत्यस्य विशेषणानि बोध्यानि । कुसुमानां पुष्पाणाम् आमोदेन सौगन्ध्येन वासितः सुगन्धीकृतः प्रच्छदपटः आस्तरणवस्त्रं यस्य स तेन । पट्टस्य क्षौमवस्त्रस्य यदुपधानम् उच्छीर्षकं तेन अध्यासितम् आश्रितं शिरोधाम मस्तकस्यानस्थलं यस्य स तेन । मणिमयीषु रनरचितासु प्रतिपादुकासु आधारपीठेषु प्रतिष्ठिताः स्थिताः पादाः पल्यङ्कपाद। यस्य स तेन । पार्श्वस्थं निकटस्थं रत्नपादपीठं मणिपादासनं यस्य स तेन । तुहिनगिरेः हिमालयपर्वतस्य यत् शिलातलं हिमव्याप्ततया श्वेतः प्रस्तरः, तत्सदृशेन तन्निभेन अत्यन्तधवलवर्णेनेत्यर्थः, शयनेन शय्यया, सनाधीकृता युक्ता वेदिका परिष्कृतभूमिर्यस्य तत्तथोक्तम् आस्थानमण्डपं सभामवनम् अयासीत् जगाम । इह 'धवलजलधरशकलानुकारिणा' इत्यत्र 'तुहिनगिरिशिलातलसदृशेन' इत्यत्र चार्थोपमा बोध्या ।
तत्रेति । शयने आस्तरणे निषण्ण उपविष्टो राजा शूद्रकः क्षितितले पृथवीतले उपविष्टया निषण्णया, तथा उत्सङ्गे क्रोडे निहिता स्थापिता असिलता लतावत् लम्बमानः खड्गो यया सा तया एवं भूतया खड्गवाहिन्या कृपाणधारिण्या कयाचित् नायिकया, नवं नूतनं यन्नलिनं पद्मं यस्य दलानि पत्राणि तद्वत् कोमलेन मृदुलेन, करसम्पुटेन हस्तद्वयेन शनैः शनैः मन्दं मन्दं संवाह्यमानौ सञ्वाल्यमानौ चरणौ पादयुगलं यस्य स तेन तथोक्तेन । तत्काले शयनसमये उचितं राज्ञा स्वयमेव निश्चितत्वाद् योग्यं दर्शनं साक्षात्कारों येषां तैः तथोक्तैः । अवनिपतिभिः राजभिः अमात्यैर्मन्त्रिभिः मित्रैः सुहृद्भिश्च तास्ताः प्रस्तावोचिता नानाविधाः कथा आलापान् कुर्वन् विदधत् मुहूर्त्तं क्षणमिव असाञ्चक्रे अवतस्थे । वाक्यालङ्कारे इवेतिपदम् । 'नवनलिनम्' इत्यत्र लुप्तोपमा ।
तत इति । ततः कथासमाप्त्यनन्तरं नातिदूरवर्त्तिनीं यत्किञ्चिद्द्रव्यवधानेनैव स्थितामित्यर्थः, प्रतीहारीं पूर्वोक्तलक्षणाम्, समुपजातं समुत्पन्नं तस्य शुकस्य वृत्तान्तप्रश्ने प्रवृत्तिपृच्छायां 'वार्ता प्रवृत्तिर्वृत्तान्त उदन्तः स्याद्' इति, 'प्रश्नोऽनुयोगः पृच्छा च' इति चामरः, कुतूहलं कौतुकम् आश्चर्यमित्यर्थः, यस्य स तादृशः, राजविशेषणमिदम् । अन्तःपुराद् अवरोधात् तं वैशम्पायनं शुकम् आदायागच्छ गृहीत्वाव्रज इति इत्येवंरूपम् आदिदेश आज्ञापयामास ।
जो ऐसी प्रतीत हो रही थीं मानों गृहदेवियाँ ही मूर्त्तिमान हो गयी हों। मण्डप में चारों ओर अगरु और धूप की प्रचुर गन्ध उठ रही थी और उसके बीच में एक श्वेत पलंग पड़ा हुआ था जो समस्त जल बरस जाने के कारण उजले हो जाने वाले बादल के टुकड़े के समान स्वच्छ चद्दर से ढका हुआ ऐसा प्रतीत हो रहा था मानों बर्फ से ढकी हुई हिमालय की कोई सफेद चट्टान हो। उसके सिरहाने रेशमी तकिया और पायताने की भूमि पर मणियों की खड़ाऊँ रखी हुयी थी तथा उसके अगल-बगल रत्नों के दो पाबदान बने हुये थे ।
१. विगलित···। २. अध्यवसित। ३. शिरोभागेन । ४. रत्नपीटेन, रत्नमयपीटेन । ५. तुहिन-शिलातलसदृशशयनेन । ६. शयनतलनिषण्णः । ७. समुपयात ।
| ५२ | कादम्बरी- | [ कथामुखे- |
|---|
सा क्षितितल-निहित जानु-करतला 'यथाज्ञापयति देवः' इति शिरसि कृत्वाज्ञां यथादिष्टमकरोत् ।
अथ मुहूर्त्तादिव वैशम्पायनः प्रतीहार्या गृहीतपञ्जरः कनकवेत्रलतावलम्बिना किञ्चिद्वनतपूर्वकायेन सितकञ्चुकाच्छन्नवपुषा जराधवलितमौलिना गद्गदस्वरेण मन्दमन्दसञ्चारिणा विहङ्गजातिप्रीत्या जरत्कलहंसेनेव कञ्चुकिनानुगम्यमानो राजान्तिकमाजगाम ।
क्षितितल-निहितकरतलस्तु कञ्चुकी राजानं व्यज्ञापयत्—'देव ! देव्यो विज्ञापयन्ति,
संति । सा प्रतीहारी क्षितितले भूमितले विहितौ स्थापितौ जानू ऊरुपर्वणी करतले पाणितले च यया सा तथोक्ता, एतेन विनयविशेषो ध्वनितः, यथा येन प्रकारेण आज्ञापयति आदिशति देवो भवान् इत्यभिधाय शिरसि मस्तके आज्ञाम् आदेशं कृत्वा विधाय स्वमस्तके करतलं स्थापयित्वेत्याशयः, यथा येन प्रकारेण राज्ञा आदिष्टम् आज्ञापितं तथा अकरोत् विदधौ ।
अथेति । अथ अन्तःपुरप्रवेशानन्तरं मुहूर्त्तादिव क्षणविलम्बादिव । गृहीतम् आत्तं पञ्जरं लौहशलाकानिर्मितपक्षिनिलयो यस्य स तथोक्तः । कनकेन सुवर्णेन खचिता या वेत्रलता वेतसयष्टिः तामवलम्बते धारणं करोतीत्येवं शीलो यः स तेन तथोक्तेन, इतः प्रभृति तृतीयान्तपदानि कञ्चुकिनेत्यस्य विशेषणानि बोध्यानि । किञ्चित् ईषत् भवनतः वार्धक्यवशादानम्रः पूर्वकायो नामेरूर्ध्वभागो यस्य तेन तादृशेन, सितकञ्चुकेन शुभ्रकूर्पासकेन आच्छन्नम् आच्छादितं वपुर्देहो यस्य स तेन तादृशेन, जरया वृद्धावस्थया धवलितः स्वच्छीकृतः मौलिः केशसमूहो यस्य तेन तादृशेन, गद्गदः अस्फुटः स्वरः कण्ठध्वनिर्यस्य स तेन तादृशेन, कञ्चुकिना—
'अन्तःपुरचरो वृद्धो विप्रो गुणगणान्वितः । सर्वकार्यार्थकुशलः कञ्चुकीत्यभिधीयते ॥'
इत्युक्तस्वरूपेण सौविदल्लकेनेत्यर्थः, मन्दं मन्दं शनैः शनै सञ्चरितुं शीलं यस्य स तेन तादृशेन विहङ्गजातिप्रीत्या पक्षिनेहेन जरत्कलहंसेनेव वृद्धराजहंसेनेव अनुगम्यमानोऽनुबध्यमानः, 'कलहंसस्तु कादम्बे राजहंसे नृपोत्तमे' इति मेदिनी, वैशम्पायनः शुकः राजान्तिकं नृपसमीपम् आजगाम आययौ । इह 'जरत्कलहंसेनेव' इत्युपमा ।
क्षितीति । क्षितितले धरणीतले 'धरा धरित्री धरणी क्षोणिर्ज्या काश्यपी क्षितिः' इत्यमरः, निहितं स्थापितं करतलं हस्ततलं येन स कञ्चुकी पूर्वोक्तलक्षणः राजानं भूमिपं व्यज्ञापयत् न्यवेदयत्—
राजा वहाँ पहुँच कर पलंग पर बैठ गया। उसकी तलवार लेकर साथ-साथ चलने वाली सेविका भी तलवार को गोद में रखकर फर्श पर बैठ गयी और नये कमल की पंखड़ियों के समान कोमल हथेलियों से धीरे-धीरे राजा का पैर दबाने लगी। वहाँ मिलने के लिए आने योग्य (विशिष्ट, जिसकी पहुँच दरबार खास-तक थी) राजाओं, मन्त्रियों और मित्रों के साथ तरह-तरह की बातें करते हुए राजा ने कुछ देर विश्राम किया।
फिर निश्चिन्त होकर उस सुग्गे का जीवन-वृत्तान्त पूछने की उत्सुकता से उसने समीप ही में खड़ी प्रतिहारी को आदेश दिया—रनिवास से वैशम्पायन को ले आओ !
प्रतिहारी ने भूमि पर घुटने टेक तथा हाथ से भूमि को छूकर 'श्रीमान् की जैसी आज्ञा' कहती हुयी हाथ को मस्तक पर रख लिया मानो राजा के आदेश को माथे चढ़ा लिया ओर वह आज्ञा के अनुसार सुग्गे को लाने के लिए रनिवास की ओर चल पड़ी।
एक क्षण के भीतर ही वैशम्पायन का पिंजड़ा हाथ में लिये हुए प्रतीहारी राजा के पास आ पहुँची । उसके पीछे-पीछे श्वेत कंचुक (जामा) से ढका हुआ तथा शरीर का ऊपरी भाग झुक जाने के कारण सोने की मूठ लगी बेंत की छड़ी का सहारा लेकर धीरे-धीरे चलनेवाला एक वृद्ध ब्राह्मण कंचुकी भी था। बुढ़ाती के कारण उसके बाल सन हो गए थे और स्वर अत्यन्त गद्गद (अस्पष्ट) हो गया था। वह ऐसा प्रतीत हो रहा था मानो पक्षी जाति के प्रति ममत्व होने के कारण कोई वृद्ध कलहंस वहाँ आ गया हो।
कंचुकी ने हाथ से भूमि छूकर राजा से निवेदन किया—'देव ! देवियों ने निवेदन किया है कि श्रीमान् के
१. मुहूर्त्तादेव । २ आनत···। ३. अवच्छन्न, अवच्छिन्न । ४. चारिणा । ५. विहितकरतलस्तु, निहितकरस्तु । ६. व्यजिज्ञापयत् ।
स० म० कञ्चु० नि० वर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ५३
देवादेशादेव वैशम्पायनः स्नातः कृतआहारश्च देवपादमूलं१ प्रतीहार्य्या नीतः' इत्यभिधाय गते२ च तस्मिन् राजा वैशम्पायनमपृच्छत्—'कच्चित् ३ अभिमतमास्वादितमभ्यन्तरे भवता किञ्चिदश-नजातम् ?' इति ।
सँ४ प्रत्युवाच—'देव किं वा नास्वादितम् ?, आमत्त-कोकिल-लोचनच्छविर्नीलपाटलः कषायमधुरः प्रकाममपापीतो जम्बूफलरसः हरि-नखभिन्न-मत्तमातङ्गकुम्भ-मुक्त-रक्तार्द्रमुक्ता-फलत्विषि खण्डितानि दाडिम॑६बीजानि, नलिनीदल-हरिन्ति द्राक्षाफल-स्वादूनि च दलितानि७ स्वेच्छया प्राचीनामलकीफलानि । किं वा प्रलपितेन बहुना, सर्वमेव देवीभिः स्वयं करतलोप-नीयमानममृतायते' इति ।
'हे देव स्वामिन् ! देव्यो महिष्यः विज्ञापयन्ति सूचयन्ति, देवादेशाद् भवतो नियोगात् एव पुरोऽवलोक्य-मानो वैशम्पायनः शुकः स्नातः पूर्वं कृतस्नानः पश्चात् कृताहारो विहितभोजनः, देवस्य भवतः पादमूलं सन्निधिं प्रतीहार्या द्वारपालिकया अनया नीतः प्रापितः' इत्यभिधाय इत्युक्त्वा तस्मिन् कञ्चुकिनि गते तस्मात् स्थानाद् निष्क्रान्ते सति, राजा शूद्रकः वैशम्पायनं शुकम् अपृच्छत् पृष्टवान्-अभ्यन्तरे अन्तःपुरे भवता त्वया अभिमतम् इष्टं किञ्चित् अशनजातं भक्ष्यवस्तुसमूहः आस्वादितमिति काकुः, भुक्तं किमि-त्यर्थः ? इति कच्चिद् ज्ञातुमभिलषामि 'कच्चित् कामप्रवेदने' इत्यमरः ।
स इति । स वैशम्पायनः प्रत्युवाच उत्तरं ददौ—देव नाथ ! किं वा नास्वादितमिति काकुः ? अर्थात् मद्भक्ष्ययोग्यं सर्वमेव भक्षितमित्यर्थः । आमत्तः मधुपानोनोन्मत्तो यः कोकिलः पिकः 'वनप्रियः परभृतः कोकिलः पिक इत्यपि' इत्यमरः, तस्य लोचनच्छविर्नयनकान्तिः सेव छविर्यस्य स तादृशः नीलश्चासौ पटलः श्वेतरक्तश्चेति नीलपाटलः 'श्वेतरक्तस्तु पाटलः' इत्यमरः कषायोऽम्लश्वासौ मधुरो मिष्टश्चेति कषाय-मधुरः जम्बूफलानां रसोऽन्तर्भूतद्रवः प्रकामं पर्याप्तं यथा स्यात्तथा आपीतः समयदिं पानविषयीकृतः । 'इह... कोकिललोचनच्छवि इत्यत्र लुप्तोपमा ।
हरीति । हरेः सिंहस्य नखरैः नखैः भिन्ना विदारिता ये मत्तमातङ्गानाम् उन्मत्तगजानां कुम्भाः शिरःस्था मांसपिण्डाः तेभ्यो मुक्तानि अपगतानि यानि रक्तार्द्राणि शोणितस्तिग्धानि मुक्ताफलानि मौक्ति-कानि तेषां त्विष इव त्विषः कान्तयो येषां तानि तथोक्तानि, दाडिमबीजानि दाडिमफलबीजानि खण्डि-तानि शकलीकृतानि चञ्चुपुटेन मयेति शेषः । उपमाऽलङ्कारः ।
नलिनीति । नलिनी कमलिनी तस्या दलानि पत्राणि तद्वत् हरिन्ति हरिद्वर्णानि, तथा द्राक्षाफल-वत् मृद्वीकासस्यवत् 'मृद्वीका गोस्तनी द्राक्षा' इत्यमरः, स्वादूनि सुमधुराणि च प्राचीनामलकीफलानि जीर्णधात्रीसस्यानि स्वेच्छया स्वाधीनतया दलितानि चञ्चुपुटेन मर्दयित्वा खादितानीत्यर्थः । इह 'नलिनी-दलहरिन्ति' इत्यत्र 'द्राक्षाफलस्वादूनि' इत्यत्र च लुप्तोपमा, अनयोश्च मिथो नैरपेक्ष्येण संसृष्टिः ।
किं देति । बहुना अधिकेन प्रलपितेन कथितेन किं वा फलं न किमपि प्रयोजनमित्यर्थः । देवीभिः राजदारैः स्वयं न त्वन्यतः करतलोपनीयमानं हस्ततलैः मह्यं दीयमानं सर्वं निखिलमेव वस्तु
आदेशानुसार वैशम्पायन स्नान-भोजन से निवृत्त हो चुका है और प्रतिहारी के साथ आप की सेवा में भेज दिया गया है।' ऐसा कहकर कंचुकी के चले जाने पर राजा ने वैशम्पायन से पूछा—'क्या रनिवास में आप को अपनी इच्छा के अनुसार भोज्य पदार्थों का स्वाद चखने को मिला था ?
वैशम्पायन ने उत्तर दिया—राजन् ! मैंने क्या नहीं खाया ! मधु रस पीकर मतवाली कोयल की आँखों के समान नीले और गुलाबी जामुन के फलों का कसैला और मीठा रस भर पेट पिया है, सिंह के नखों से विदीर्ण हाथी के मस्तक से निकले हुए रक्त में सने मोती के दानों जैसे गुलाबी अनार के दाने चुनर चुनर कर खाए हैं और कमल के पत्तों के समान हरे-हरे तथा अंगूर जैसे मीठे पके हुए आंमलों को इच्छानुसार चबा है। अधिक कहना तो व्यर्थ है, देवियों ने अपने हाथों से ला-लाकर जो कुछ भी दिया था वे सभी अमृत जैसे मीठे बन गये थे।
१. पादमूले। २. अद्यगते। ३. कच्चिद्। ४. स तु। ५. करचरणरचितम्। ६. दाडिमो...। ७. चूर्णितानि, त्रुटितानि, समास्वादितानि।
| ५४ | कादम्बरी- | [ कथामुखे- |
|---|
एवंवादिनो वचनमाक्षिप्य नरपतिरब्रवीत्—आस्तां तावत् सर्व्वमेवेदम्, अपनयतु नः कुतूहलम्, आवेदयतु भवानादितः प्रभृति कार्त्स्न्येनात्मनः, जन्म कस्मिन् देशे ? भवान् कथं जातः ? केन वा नाम कृतम् ? का ते माता ? कस्ते पिता ? कथं वेदानामागयः ? कथं शास्त्राणां परिचयः ? कुतः कलाः समासौदिताः ? किं हेतुकं जन्मान्तरानुस्मरणम् ? उत वर-प्रदानम्, अथवा विहर्गवेष-धारी कश्चिच्छन्नो निवसि ? क्व पूर्वमुषितम् ? कियद्वा वयः ? कथं पञ्जरबन्धनम् ? कथं चण्डाल-हस्तगमनम् ? इह वा कथमागमनम् ? ।
वैशम्पायनस्तु स्वयमुपजातकौतूहलेन सबहुमानमवनिपतिना पृष्टो मुहूर्त्तमिव ध्यात्वा सादरमब्रवीत्—देव ! महतीयं कथा, यदि कौतुकंमाकर्ण्यताम्—
अमृतायते सुधावदाचरति स्वादुत्वादित्याशयः। 'अमृतायते' इत्यत्र क्यङ्प्रत्ययत्वादात्मनेपदम् । वर्त्तमान-सामीप्ये 'वर्त्तमानसामीप्ये वर्त्तमानवद्वा' इत्यनेनात्र वर्त्तमानत्वम् । क्यङ्गतोपमालङ्कारः । इति वाक्य-समाप्तौ 'इति हेतुप्रकरणप्रकाशादिसमाप्तिषु' इत्यमरः।
एवमिति। एवं पूर्वोक्तप्रकारेण वादिनः कथयतः शुकस्य वचनं वाक्यम् आक्षिप्य असमाप्तमेव निवार्य अन्यदेव ज्ञातुं नरपती राजा अब्रवीत् उवाच—इदं पूर्वोक्तं सर्वमेव तावत् आदौ आस्तां तिष्ठतु, नः अस्माकं कुतूहलं कौतुकं पक्षिणः सर्वशास्त्रविषयकं ज्ञानं कथं जातमित्याश्चर्यमित्यर्थः 'कौतूहलं कौतुकं च कुतुकं च कुतूहलम्' इत्यमरः, अपनयतु दूरीकरोतु । तदेवोपपादयति-आवेदयेति । कार्त्स्न्येन साकल्येन आदितः प्रभृति जन्मसमयादारभ्य सर्वम् आत्मनः स्वस्य आवेदयतु निरूपयतु । कस्मिन् देशे कुत्र जनपदे जन्म उत्पत्तिः ? । कथं केन प्रकारेण भवान् जातः उत्पन्नः ? केन महात्मना नाम कृतं वैशम्पायने-त्यभिधानं विहितम् ? ते तव का माता जननी ? ते कः पिता जन्मदः ? कथं केन प्रकारेण वेदानाम् ऋग्यजुः-सामाथर्वणाम् आगम उपलब्धिः प्राप्तिरिति यावत् ? कथं शास्त्राणां न्यायमीमांसाप्रभृतीनां परिचयो विशेषवोधः ? कुतः कस्माद्रूपात् कलाः चतुःषष्टिकलाः नृत्यगीतादिविद्याः समासादिताः प्राप्ताः ? किं हेतुकं किन्निमित्तकं जन्मान्तरस्य पूर्वजन्मोदन्तस्य अनुस्मरणं स्मृतिः ? उत किं वरप्रदानं कस्यचिन्महा-त्मनः प्रसादात् वरदानप्राप्तिः येन जन्मान्तरानुस्मरणमित्यर्थः 'आहो उताहो किमुत विकल्पे किं किमूत च' इत्यमरः । अथवा सिद्धि एव किं वा कश्चित् कश्चन विहगवेषधारी पक्षिरूपधारी छन्नो गुप्तः सन् निवसि वासं विदधासि । क्व वा कस्मिन् स्थाने अत्रागमनात्पूर्वम् उषितम् अवस्थितन् ? वा अथवा कियद् वयः वार्षिकावस्था क्यर्थः ? कथं केन प्रकारेण पञ्जरबन्धनं पञ्जरमध्ये ऽवस्थानम् ? कथं चण्डाल-हस्तगमनम् अन्यजहस्तप्राप्तिः ? इह अस्मिन् प्रदेशे कथं वा आगमनम् उपस्थितिः ? इति प्रश्नसमाप्ति-सूचनार्थः । उपरितना ये प्रश्नाः सन्ति तेषु कतिपये शुकस्नानाहारादिसमये तस्मादेवावगतराजपत्नीनां सेविकानां वा सकाशाद्राज्ञाऽवगताः केचिच्च स्वयमूह्रिता ज्ञातव्याः, अन्यया जातिस्मरोऽयं शुक इति ज्ञानाभावे तद्विषयकप्रश्नानुपत्तिः स्यादित्यवधेयम् ।
वैशम्पायनस्त्विति । पुनरर्थे त्विति । तदनन्तरं वैशम्पायनः शुकः सबहुमानं सादरम् उपजातं
इस प्रकार कहते हुए वैशम्पायन को बीच ही में टोककर राजा ने कहा—अच्छा-अच्छा, यह सब तो हुआ अब आप मेरी उत्सुकता मिटाने की कृपा कीजिये। प्रारम्भ से लेकर अबतक अपना पूरा जीवनचरित सुना जाइए। आपने किस स्थान पर और कैसे जन्म लिया ? आपका नामकरण किसने किया ? आपके माता-पिता कौन हैं ? आपने वेदों का ज्ञान और शास्त्रों का अभ्यास कैसे प्राप्त किया ? सभी कलाएँ कहाँ से सीख लीं ? आप में यह पूर्वस्मरणशक्ति (मेधा) पूर्व जन्म के संस्कारों से आयी है या किसी से वरदान रूप में मिली है ? अथवा आप पक्षी के वेश में छिपे हुए कोई महापुरुष (समझौत शास्त्र चेतन) तो नहीं हैं ! आप पहिले (इस पिंजड़े में आने के पहिले) कहाँ रहते थे ? आपकी अवस्था क्या होगी ? आप इस पिंजड़े में कैसे फँस गये ? इस चाण्डाल के हाथ में कैसे पड़े और यहाँ तक कैसे आए ?
राजा के अत्यन्त सम्मान के साथ उत्सुक होकर पूछने पर वैशम्पायन ने कुछ देर सोचकर सादर निवेदन किया—भगवन् ! यह कथा तो बड़ी लम्बी है लेकिन यदि आप इतने उत्कण्ठित हैं तो सुनिए—
१. सर्व्वम् । २. का माता । ३. कः पिता ? ४. सासादिताः । ५. किंद्धेतुकः । ६. विहङ्गवेषः*** । ७. छन्नं । ८. कथं वा । ९. बन्धकि । १० चाण्डाल*** । ११. कौतूहलम् ।
विन्ध्याटवी, पम्पासरोवर व जाबालि आश्रम वर्णन
विन्ध्याटवीवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ५५
(अस्ति पूर्वापर-जलनिधि-वेलावनालग्ना, मध्यदेशालङ्कारभूता, मेखलेव भुवः, वन-करिकुल-मदजल-सेक-संवर्द्धितैरतिविकच-धवल-कुसुमनिकरमत्युन्नतया तारागणमिव, शिखरदेशलग्नमुद्वहद्भिः पादपैरुपशोभिता, मदकल-कुररकुल-दश्यमान-मरिचपल्लवा, करि-कलभ-करमृदित-तमालकिसलयामोदिनी मधुमदोपरक्त-केरली-कपोल-कोमलच्छविना, सञ्चरद्वनदेवता-चरणालक्तक-रस-रञ्जितेनेव पल्लवचयेन संछादिता,)
समुत्पन्नं कुतूहलं कौतुकं यस्य तेन तथोक्तेन स्वयम् आत्मनैव अवनिपतिना भूपतिना पृष्टः कृतप्रश्नो मुहूर्त्तं क्षणं ध्यात्वा चिन्तयित्वा सादरं सबहुमानं पुनः अब्रवीत् उवाच—देव नाथ ! यत्पृष्टं तद्विषयिणी महती विस्तृता इयं कथा वृत्तान्तः । यदि चेत् कौतुकं कौतूहलं तर्हि आकर्ण्यतां श्रूयताम्—
अस्तीति । अस्य दूरस्थेन विन्ध्याटवी नामेतिकर्तृपदेन सम्बन्धः । तथा च विन्ध्याटवी विन्ध्यारण्यं नाम प्रसिद्धमस्तीत्यर्थः, 'अटव्यरण्यं विपिनम्' इत्यमरः । इह प्रथमान्तपदानि विन्ध्याटवीविशेषणानि बोध्यानि । पूर्वापरश्च पूर्वापरौ प्राच्यप्रतीच्याविदग्वर्त्तिनौ यौ जलनिधी समुद्रौ तयोः यद्वेलावनं तटविपिनं तावत्पर्यन्तम् अवलग्ना सम्बद्धा, पूर्वसमुद्रतीरतः पश्चिमसमुद्रतीरं यावत्प्रसृतेत्यर्थः । तत्समये विन्ध्याटवी एवंविधैवासीदित्यवधेयम्, मध्यदेशस्य—
हिमवद्विन्ध्ययोर्मध्ये यत्प्राग्विनशनादपि । प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः ॥'
इति मनूक्तचित्तदचित्तोत्तरयोर्हिमवद्विन्ध्ययोः पूर्वपश्चिमयोश्च प्रयागकुरुक्षेत्रयोश्च मध्यवर्त्तिस्थानस्य अलङ्कारभूता अनेकप्रकारवृक्षलतासिद्धाश्रमादिपूर्णत्वेन भूषणस्वरूपा मध्यभूषणस्वरूपत्वादेव भुवो मेदिन्याः मेखला रशनादामेव 'स्त्रीकट्यां मेखला काञ्ची सप्तकी रशना तथा' इत्यमरः ।
वनेति । वने अरण्ये ये करिणो हस्तिनः तेषां कुलानि यूथानि तेषां मदजलस्य दानवारिणः सेकेन संवर्द्धितैः वृद्धिमापादितैः, तया अत्युन्नतया अत्युन्नततया शिखरदेशलग्नं शिरोभागसंयुक्तं तारागणं नक्षत्रमण्डलमिव अतिविकचानाम् अतिविकसितानां धवलानां शुभ्राणां कुसुमानां पुष्पाणां निकरं समुदायम् उद्वहद्भिः धारणं कुर्वद्भिः पादपैः वृक्षैः उपशोभिता भूषिता । इह 'शिखरदेशलग्नं तारागणमिव' इत्यत्र जात्युत्प्रेक्षा ।
मदेति । मदजलैः मदोन्मत्तैः कुरराणां मत्स्यनाशनानां कुलानि समूहाः तैः दश्यमानाः चञ्चुपुटेन संदश्य आस्वाद्यमाना मरिचानां कोलकानां पल्लवाः किसलयानि यस्यां सा 'मरिचं कोलकं कृष्णमूपणं धर्मपत्तन्नम्' 'पल्लवोऽस्त्री किसलयम्' इत्यमरः ।
करीति । करिणां हस्तिनां कलभाः त्रिंशद्वर्षीयाश्शावकाः 'कलभः करिशावकः' इत्यमरः, तेषां करः शुण्डादण्डैः मृदितानि मर्दितानि यानि तमालकिसलयानि तापिच्छपल्लवानि 'तमालस्तिलके खड्गे तापिच्छे वरुणद्रुमे' इति मेदिनी, तेषाम् आमोदः सुगन्धिः विद्यते यस्यां सा तादृशी ।
मध्विति । मधु मद्यं तस्य यो मदः पानेन मत्तता तेन उपरक्ताः किञ्चिल्लोहितस्वरूपा ये केरलीनां केरलदेशोत्पन्नानां सुन्दरीणां कपोला गल्लप्रदेशाः तेषामिव कोमला मृद्वी छविः कान्तिर्यस्य तेन, सञ्चरन्तीनाम् इतस्ततो व्रजन्तीनां वनदेवतानाम् अरण्याधिष्ठातृदेवीनां चरणालक्तकरसैः पादस्थितयावकद्रवैः रञ्जितेनेव रक्त्तीकृतेनेव पल्लवचयेन वृक्षलतानां किसलयसमूहेन संछादिता आच्छादिता । इह
समुद्र के पूर्वी किनारे से पश्चिमी किनारे तक लगी हुई मध्य प्रदेश की शोभा बढ़ानेवाली विन्ध्याटवी नाम के वनों की एक पट्टी फैली हुई है। यह पृथ्वी की करधनी के समान प्रतीत होती है। वह मानो जंगली हाथियों के मदजल से ही सींच कर बढ़ाये गये अनेक प्रकार के वृक्षों से सुशोभित थी, जिनकी चोटियों पर खिले हुए श्वेत-पुष्पों के समूह ऊँचाई के कारण तारों के समान प्रतीत होते थे। वहाँ कहीं सुन्दर बगुलों की मतवाली टोलियाँ मरिच के पत्ते नोच-नोच खाती थीं, कहीं हाथियों के बच्चों की सूँडों से मसले गए तमाल के पत्तों से मधुर सुगन्ध निकलती थी, कहीं मदिरा के नशे से लाल हुए केरल की स्त्रियों के कपोलों के समान लाल-लाल सुकुमार पल्लव छाये थे जो वन में घूमनेवाली वनदेवियों के पैरों की महावर से रंगे हुए से प्रतीत होते
१. वेलावलग्ना ।
२. तारका ।
३. प्रदेशसंलग्नम् ।
४. 'छविना' इति पाठः क्वचिन्नास्ति ।
५. पल्लवप्रचयेन ।
| ५६ | कादम्बरी- | [ कथामुखे- |
|---|
शुककुल-दलितदाडिमीफल-द्रवार्द्रीकृत-तलैरतिचपल-कपिकुल-कम्पित$^१$-कपित्थैल$^२$-च्युतपल्लव-फलशकलैः$^३$, अनवरत-निपतित$^४$-कुसुमरेणुपांशुलैः, पथिक-जन-रचित-लवङ्गपल्लव-संस्तरैः$^५$, अतिकठोर-नारिकेल$^६$-केतकी करीर-बकुल$^७$-परिगतप्रान्तैः, ताम्बूलीलतावनद्ध-पूगखण्ड-मण्डितैर्वनलक्ष्मी-वासभवनैरिव$^८$ विराजितों लतामण्डपैः$^९$, उन्मद-मातङ्ग-कपोलस्थल-गलित$^{१०}$-सलिलं-सिक्तेनेव निरन्तरमैलालतावनेन$^{१२}$ मदगन्धिनान्धकारिता, नख-मुख-लग्नेभ-कुम्भ-मुक्ताफल-लुब्धैः शबरसेनापतिभिरभिहन्यमानकेशरिशता प्रेताधिपनगरीव सदा-
‘......कपोलकोमलच्छविना’ इत्यत्र लुप्तोपमा, ‘......रक्षितेनेव’ इत्यत्र क्रियोत्प्रेक्षा, अनयोरङ्गाङ्गि भावेन सङ्करालङ्कारः।
शुकेति। शुककुलेन कीरपक्षिसमुदायेन दलितानां चञ्चुपुटेन विदारितानां दाडिमीफलानां द्रवैः रसैः आर्द्रीकृतानि आर्द्रत्वमुपनीतानि तलानि अधोवर्तिस्थानानि येषां तैः इत आरभ्य तृतीयान्तपदानि सन्निहितलतामण्डपैः’ इत्यस्य विशेषणानि बोध्यानि। अतिचपलैः अत्यन्तचञ्चलैः कपिकुलैः वानरसमूहैः कम्पितेभ्यः आन्दोलितेभ्यः कपित्थलेभ्यः कोशफलवृक्षेभ्यः च्युतानि पतितानि पल्लवफलानां किसलयफलानां शकलानि खण्डानि येषु तैः तथोक्तैः। अनवरतनिपतितानां निरन्तरप्रच्युतानां कुसुमानां पुष्पाणां रेणुभिः परागधूलिभिः पांशुलैः सरजस्कैः। पथिकजनैः पान्थपुरुषैः रचिता उपवेशनार्थं निर्मिता लवङ्गपल्लवानां लवङ्गवृक्षविशेषकिसलयानां संस्तरा आसनानि येषु तैः तथोक्तैः। अतिकठोरा अत्यन्तकठिनाः परिपक्वा इत्यर्थः, ये नारिकेला लाङ्गलिवृक्षाः, केतक्यः क्रकचपर्णाः करीराः पत्रविहीनाः कण्टकसहिता वृक्षविशेषाः, बकुलाश्च तैः परिगताः परितो व्याप्ताः प्रान्ताः पर्यन्तप्रदेशा येषां तैः तथोक्तैः, ताम्बूलीलताभिः नागवल्ली-प्रततीभिः संवनद्धं संबद्धं यत् पूगखण्डं क्रमुकवनं तेन मण्डितैः अलंकृतैः, अत एव वनलक्ष्म्या विपिनश्रियः वासभवनैरिव वसतिगृहैरिव लतामण्डपैः वल्लीजनाश्रयैः विराजिता उपशोभमाना।
इह दाडिमीफलद्रवेण मध्यभागस्य चार्द्रीकरणसम्बन्धभावावेऽपि तत्सम्बन्धप्रतिपादनादतिशयोक्त्य-लङ्कारः, ‘वनलक्ष्मीवासभवनैरिव’ इत्यत्र जात्युत्प्रेक्षा च, द्वयोरपि परस्परनैरपेक्ष्येण स्थितत्वात्संसृष्टिरलङ्कारः।
उन्मदेति। उन्मदानां मदोन्मत्तानां मातङ्गानां गजानां कपोलस्थलेभ्यो गण्डप्रदेशेभ्यो गलितैः च्युतैः सलिलैः मदजलैः सिक्तेनेव सता, अत एव मदगन्धिना गजदानजलगन्ध इव गन्धो यस्मिन् तेन तथोक्तेन, एलालतानां चन्द्रवालातवल्लीनां वनेन विपिनेन निरन्तरं सान्द्रं यथा स्यात्तथा अन्धकारिता नावच्छादितेत्यर्थः। इह क्रियोत्प्रेक्षा।
नखेति। नखानां नखराणां मुखेषु अग्रेषु लग्नानि लासक्तानि यानि इभकुम्भमुक्ताफलानि सिंह-विदारितगजमस्तकमांसपिण्डोद्भव़ानि मौक्तिकानि तेषु लुब्धैः लोलुपैः शबराणां किरातानां सेनापतिभिः सैन्याध्यक्षैः अभिहन्यमानं केशरािशतं मृगेन्द्रमण्डलं यस्या सा तथोक्ता।
प्रेतेति। प्रेताधिपस्य यमराजस्य नगरीव संयमिनीपत्तनमिव, सदा सर्वस्मिन् काले सन्निहित-
थे, कहीं स्थान-स्थान पर लताओं की अनेक कुञ्जें शोभित थीं, जिनमें किसी के बीच की भूमि शुक़ों द्वारा कुतर-कुतर कर गिराये गए अनारदानों के रस से गीली-सी हो गयी थीं, किसी के नीचे उछल-कूद मचानेवाले बन्दरों से हिलाये गए कैथ के वृक्षों से गिरे हुए पत्ते और फलों के टुकड़े बिखरे हुए थे, किसी में निरन्तर झड़ने वाली फूलों की धूल पड़ी हुई थी, किसी में पथिकों ने आराम करने के लिए लवङ्ग-लता के पत्तों की चटाइयाँ बिछा रखी थीं, किसी के किनारों पर अत्यन्त कठोर नारियल, केवड़े, करील और मौलश्री के वृक्ष घिरे थे, किसी में पान की लताओं से लिपटी हुई सुपारी के झुण्डों वनलक्ष्मी के महलों के समान प्रतीत होती थीं, कहीं एक में एक सटी हुई सुगन्धित लताओं का घना अन्धकार छाया था जिससे वह वनभूमि मत्तवाले हाथियों के कपोलों से बहे हुए मदजल से सिंची हुई सी प्रतीत होती थीं, कहीं गजोन्मादों की लालच से भीलों के सेनापति हाथी के बच्चों के मस्तकों से फाड़ कर निकाले गए मोतियों को नाखूनों की छोरों में भरे हुए सैकड़ों
१. ‘कम्पित’ इत्यपि पाठः क्वचित्तोपलभ्यते।
२. ककोल बक्कोल।
३. शुकलैः।
४. धूलिसंनावनद्ध-कुसुम।
५. संस्तरैः।
६. नालिकेर, करिकेतरा
७. ‘करीरबकुल’ इति पाठः क्वचित्पुस्तके नास्ति।
८. वासभुवनैरिव।
९. विराजितमण्डपैः।
१०. स्रवण, प्रसवण, सलिलप्रस्रवण।
११. नदस्तिक।
१२. निरन्तरमेकया।
विन्ध्याटवीवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता ५७
सन्निहितमृत्यु-भीषणा महिषाधिष्ठिता च, समरोद्यतपताकिनीव बाणासनारोपितशिलीमुखा विमुक्त-सिंहनादा च, कात्यायनीव प्रचलितखड्गभीषणा रक्तचन्दनालङ्कृता च, कर्णी-सुतकथेव सन्निहित-विपुलाचला शशोपगता च कल्पान्तप्रदोषसन्ध्येव प्रनृत्यन्नीलकण्ठा पल्लवारुणा च, अमृतमथनवेलेव श्रीद्रुमोपशोभिता वारुणी-परिगता च, प्रावृषिव घन-
समीपवर्ती मृत्युः यमः तेन भीषणा भयदायिनी, पक्षे—व्याघ्रादिहिंसकवर्गैराक्रमणसम्भवात् भीषणा भयकारिणी, महिषो यमस्य वाहनं तेन अधिष्ठिता सहिता, पक्षे—महिषैः वन्यसैरभैः अधिष्ठिता व्याप्ता च 'लुलायो महिषो वाहद्विषाकासरसैरभाः' इत्यमरः । इतः प्रभृति 'क्वचिद्गृहीतव्रतेव' इत्यन्तं यावत् साधारणधर्मादिसद्भावात्पूर्णोपमालङ्कारः ।
समरोद्यतेति । समरे युद्ध उद्यता प्रवृत्ता या पताकिनी सेना तद्वदिव बाणासनेषु चापेषु आरोपिताः संस्थापिताः शिलीमुखा लोहखण्डाः शरा इत्यर्थः, यया सा तथोक्ता, तथा विमुक्तः परित्यक्तः सुभटैर्विहित इत्यर्थः, सिंहनादः श्वेडा इव नादो यया सा, पक्षे—बाणासु नीलीझिण्टीषु असनेषु पीतशालेषु च तरुषु भारोपिताः पुष्पसौगन्ध्यात् स्थापिताः शिलीमुखा भ्रमरा यया सा तथोक्ता ।
कात्यायनीति—कात्यायनी सिंहवाहिनी दुर्गेव, प्रचालितेन हननाय चञ्चलीभूतेन खड्गेन असिना भीषणा भयानका, तथा रक्तचन्दनानुलेपनेन अलङ्कृता भूषिता इयमपि प्रचलितैः इतस्ततः सेनाप्रकर्षेण सञ्चरद्भिः खड्गैः गण्डकैः भीषणा तथा रक्तचन्दनैः तत्संज्ञकतरुभिः अलङ्कृतेत्युभयोः साम्यम् ।
कर्णीति । कर्णीसुतः चौर्यशास्त्रप्रवर्तकः क्षत्रियविशेषः तस्य कथा वृत्तान्तः तद्वदिव, सन्निहितौ निकटवर्त्तिनौ विपुलाचलौ तत्संज्ञकौ सखायौ यस्यां सा तादृशी तथा शशेन शशसंज्ञकेन सचिनेन उपगता विविक्ता तथा च वृहत्कथायाम्—
कर्णीसुतः करटकः स्तेयशास्त्रप्रवर्तकः । तस्य ख्यातौ सखायौ द्वौ विपुलाचलसंज्ञितौ ॥ शशो मन्त्रिवरस्तस्य' ।
पक्षे—सन्निहिताः समीपवर्त्तिनः विपुला विस्तीर्णाः अचलाः पर्वता यस्यां सा तादृशी, तथा शशैर्मृगलोमकैः लोध्रवृक्षैर्वा उपगता सहितेत्युभयोः साम्यम् । 'शशो लोम्रे नृभेदे च पशौ' इत्यनेकार्थः ।
कल्पान्तेति । कल्पान्ते युगान्ते प्रदोषो रजनीमुखं तस्य या सन्ध्या सायं समयस्तद्वदिव, प्रनृत्यन् संसारसंहारप्रमोदेन नटन् नीलकण्ठो महादेवेवो यस्यां सा तथोक्ता तथा पल्लवः किसलयस्तद्वत् अरुणा रक्ता, पक्षे—प्रनृत्यन्तः मदेन नटन्तो नीलकण्ठा मयूरा यस्यां सा तथा पल्लवैः अनेकविधलताकिसलयैररुणा उपरि रक्तरूपा ।
अमृतेति । अमृताय सुधायै 'पीयूषममृतं सुधा' इत्यमरः यन्मन्थनं क्षीरसमुद्रस्य विलोचनं तस्य वेला समय इव, श्रिया लक्ष्म्या द्रुमेण कल्पद्रुमेण नामैकदेशग्रहणेन नामग्रहणं बोध्यम् उपशोभिता उप-रञ्जिता, वारुणीं सुरां परिगता सहिता, तस्या अपि तत्समये ततो जातत्वात्, पक्षे—श्रीद्रुमैः बिल्ववृक्षैः उपशोभिता, वारुणीं पश्चिमां दिशं परिगता सामस्त्येन प्राप्ता भारतवर्षस्य पश्चिमप्रान्तपर्यन्तं व्याप्तत्वात् ।
शेरों का शिकार करते रहते थे, कहीं सर्प, व्याघ्र आदि हिंसक जन्तुओं और भैंसों से भरी हुई वह वनभूमि भयंकर यमराज और उनके वाहन भैंसों से युक्त यमपुरी के समान प्रतीत होती थी, कहीं भौरों से ढकी हुई बाण और असना के वृक्षों की पंक्तियाँ थीं जिनमें सिंहों की दहाड़ होती रहती थी जिससे वह वनभूमि धनुष पर बाण चढ़ाकर युद्ध के लिए तैयार गरजती हुई सेना के समान प्रतीत होती थी, कहीं लाल चन्दनों के वृक्षों में इधर-उधर गैंड़े घूमा करते थे, जिससे वह रक्त चंदन और तलवार धारण करने वाली भगवती दुर्गा के समान प्रतीत होती थी, कहीं कनेरों से भरी विस्तृत पहाडों की श्रेणियों में खरगोश स्वच्छन्दता से विचरण किया करते थे अथवा कहीं कनेरों से पूर्ण पहाड़ों के फैले हुए अञ्चलों में लोध्र के अनेक वृक्ष झूमा करते थे जिससे वह विपुल और अचल नाम के मित्रों तथा शश नाम के प्रधान मन्त्री से युक्त कर्णीसुत (चौर्य शास्त्र के प्रणेता) की कथा के समान प्रतीत होती थी, कहीं लाल-लाल पल्लवों की झुरमुटों में मोर थिरकते रहते थे जिससे वह भगवान् शंकर के ताण्डव नृत्य से युक्त लीला से भरी हुई प्रलयकालीन सन्ध्या के समान प्रतीत होती थी, कहीं इधर-उधर बेल और वारुणी वृक्ष घिरे थे जिससे वह लक्ष्मी, पारिजात और मदिरा से सुशोभित अमृत-मंथन की
१. ०००सेनेव । २. समारोपित । ३. विविक्त । ४. प्रनृत्यन्नीलकण्ठा । ५. वारुण ।
८ का० कथा०
| ५८ | कादम्बरी- | [कथामुखे- |
|---|
श्यामला अनेकशतह्रदालङ्कृता च, चन्द्रमूर्त्तिरिव सततमृक्षसार्थानुगता हरिणाध्यासिता च, राज्यस्थितिरिव चमरमृग-बालव्यजनोपशोभिता समदगजघटा-परिपालिता च, गिरितनयेव स्थाणुसङ्गता मृगपतिसेविता च, जानकीव प्रसूतकुशलवा निशाचरपरिगृहीता¹ च, कामिनीव चन्दन-मृगमदपरिमलवाहिनी रुचिरोगुरु-तिलकभूषिता च, सोत्कण्ठेव विविधपल्लवा-
प्रावृदिति। प्रावृट् वर्षा समय इव, घनैर्मेघैः श्यामला कृष्णवर्णा तथा अनेकाभिः शतह्रदाभिः तडिद्भिः अलङ्कृता मण्डिता, पक्षे—घना वृक्षादिभिः सान्द्रा चासौ अत एव श्यामला अत्यन्तकृष्णा तथा अनेका भिन्नाभिन्नस्वरूपाः शतह्रदा जलबालिकाः ताभिः अलङ्कृता।
चन्द्रेति। चन्द्रस्य मूर्त्तिः शरीरमिव, सततं निरन्तरम् ऋक्षाणि ताराः तेषां सार्थः समूहः तेन अनुगता परिवेष्टिता, हरिणेन मृगचिह्नेन अध्यासिता आश्रिता। पक्षे—सततम् ऋक्षा भल्लूकाः तेषां सार्थः समुदायः तेन अनुगता व्याप्ता, हरिणैर्मृगैः अध्यासिता।
राज्येति। राज्यस्थितिः राज्यमर्यादा इव, चमरमृगाणां बालाः चामराणि व्यजनानि तालवृन्तानि च तैरुपशोभिता, तथा समदाभिः मदेन सह वर्त्तमानाभिः गजघटाभिः करिम्मण्डलैः परिपालिता परिरक्षिता। पक्षे—चमरमृगाणां बाला लोमान्येव व्यजनानि तैः तथोक्तैः 'व्यजनं तालवृन्तकम्' इत्यमरः, अन्यत्पूर्ववदेव।
गिरिनि। गिरितनया हिमाचलसुता पार्वती तद्वदिव स्थाणुना रुद्रेण 'स्थाणू रुद्र उमापतिः' इत्यमरः, सङ्गता मिलिता, तथा मृगपतिना बाहनीभूतसिंहेन सेविता वाहनेन शुश्रूषिता, पक्षे—स्थाणुभिः शाखापत्रादिशून्यतरुभिः सङ्गता, तथा मृगपतिभिः सिंहैः सेविता आश्रिता।
जानकीति। जानकी मैथिलात्मजा सीता तद्वदिव प्रसूतौ गर्भाद्विसृक्तौ कुशलवौ नक्षामकसुतौ यथा सा तथोक्ता, निशाचरेण लङ्काधिपतिना रावणेन परिगृहीता पञ्चवटीतोऽपहृता, पक्षे—प्रसूता जनिताः कुशानां बर्हिषां लवा अङ्कुरा यस्यां सा तथोक्ता, निशाचरैः उल्कादिपक्षिभिः परिगृहीता आश्रिता।
कामिनीति। कामिनी शृङ्गारनायिका तद्वदिव, चन्दनानुलेपन-मृगमदानुलेपनाभ्यां परिमलं सौगन्ध्यं वहति धारयतीत्येवंशीला तथा रुचिरागुरुणा सुन्दरकाकतुण्डसौगन्ध्येन तिलकेन भालपट्टादौ सिन्दूरादिपुण्ड्रकेन भूषिता अलङ्कृता, पक्षे—चन्दनानां वृक्षाणां मृगमदानां कस्तूरीणाञ्च सम्बन्धात् परिमलं सौगन्ध्यं वहति खनिस्वादाधारत्वाच्च दधातीत्येवंशीला, तथा रुचिराभ्यां मनोहराभ्याम् अगुरुतिलकाभ्याम् आमोदितरुविशेषपुष्पतहविशेषाभ्यां भूषिता शोभिता।
सोत्कण्ठेति। सोत्कण्ठा कान्तप्राप्तिसमुत्सुका नायिका तद्वदिव, विविधानाम् अनेकप्रकाराणां पल्लवानां किसलयानाम् अनिलैः पवनैः वीजिता सहचरीभिः मदनव्यथापनोदाय स्पर्शिता, पक्षे—स्वभावतः स्पृष्टा च, मदनेन कामेन मदनैः तदाख्यतरुविशेषैश्च सह वर्त्तमाना संयुक्ता।
वेला के समान प्रतीत होती थी, कहीं अत्यन्त घने वृक्षों की नीलिमा के बीच-बीच निर्मल जल से भरी अनेक तलरियाँ सुशोभित थीं जिससे वह बिजलियों से युक्त काले बादलों की घटा के समान प्रतीत होती थीं, कहीं रींछों का आवागमन होता रहता था और कहीं हरिण चौकड़ियाँ भरा करते थे जिससे वह नक्षत्रों से घिरी और मृग के चिह्नों से सुशोभित चन्द्रमा की मूर्ति के समान प्रतीत होनी थी, कहीं पूँछ डुलाती हुई चँवरी मृगियाँ घूमती रहती थीं और कहीं मतवाले हाथियों की कतारें खड़ी रहती थीं जिससे वह ऐसी प्रतीत होती थी मानो चँवरों से सुशोभित और हाथियों से रक्षित राज्य की मर्यादा हो, कहीं ठूंठे वृक्षों के बीच सिंह घूमते रहते थे जिससे वह भगवान् शंकर के साथ-साथ घूमने वाली सिंहवाहिनी भगवती पार्वती के समान सुशोभित होती थी, कहीं की भूमि कुशों के अंकुरों से ढकी हुई थी जिनमें उल्लुओं ने अपना बसेरा बना रखा था जिससे वह कुश-लव को जन्म देने वाली रावण के फन्दे में पड़ी देवी जानकी के समान प्रतीत होती थी, कहीं चन्दन और कस्तूरी की गन्ध उठती रहती थी और कहीं अगर और तिलक के अनेक वृक्ष उगे थे जिससे वह ऐसी प्रतीत होती थी मानो चन्दन और कस्तूरी का लेप किये हुये अगर का तिलक लगाने वाली कोई सुन्दरी हो, कहीं मन्द-मन्द वायु में पल्लव हिलोरें लेते रहते थे और कहीं मदन के अनेक वृक्ष लगे थे जिससे वहाँ अत्यन्त शीतलता छायी रहती थी, इसलिये वह ऐसी प्रतीत होती थी मानो किसी कामातुरा उत्कण्ठिता नायिका पर पल्लवों का पंखा झल
१. पतिगृहीता ।
२. कृष्णागुरु...।
३. सोत्कण्ठवनितेव ।
| विन्ध्याटवीवर्णनम् ] | चन्द्रकला-विद्योतिनीसहिता । | ५६ |
|---|
निलवीजिता समदना च, वालग्रीवेव व्याघ्रनखपङ्क्तिमण्डिता गण्डकाभरणा च, पान-भूमिरिव प्रकटित-मधुकोशर्क-शता प्रकीर्णविविधकुसुमा च, क्वचित् प्रलयवेलेव महा-वराह-दंष्ट्रा-समुत्खात-धरणमण्डला, क्वचिद्दशमुखनगरीव चटुलवानरवृन्द-भज्यमान-तुङ्ग-शालाकुला, क्वचिदचिरनिर्वृत्त-विवाहभूमिरिव हरित-कुश-समित्-कुसुम-शमी पलाश-शोभिता, क्वचिदुन्मत्त-मृगपति-नाद-भीतेव कण्टकिता, क्वचिन्मत्तेव कोकिलकुल-कल-
बालेति । बालाः स्तनन्धयाः तेषां ग्रीवा गलदेशाः तद्वदिव, व्याघ्राः शार्दूलाः तेषां नखाः पुनर्भवद्याः तेषां पङ्क्तिभिः श्रेणिभिः मण्डिता भूषिता 'दिव्यत्पिशवलिः पङ्क्तिः श्रेणी लेखास्तु राजयः' इत्यमरः । बालानां गलदेशेषु दैवोत्पातरक्षार्थं व्याघ्रनखपङ्क्तयो बध्यन्त इति सम्प्रदायः, तथा च—श्रीमद्भागवते—'शार्दूलदिव्यनखभूषणभूषिताय नन्दात्मजाय' इति । गण्डकः तत्तद्देशविशेषप्रख्यातो गण्डस्थलपर्यन्तवर्त्तिभूषणविशेष आभरणम् अलङ्करणं यस्यां सा पक्षे—व्याघ्रनखपङ्क्तिभिः पर्यटनसमयोत्पन्ननखच्छिन्नवल्लीभिः मण्डिता, गण्डका खड्गिनःस एव आभरणानि भूषणानि यस्याः सा तथोक्ता ।
पानेति । पानभूमिः मद्यपानार्थस्थानं तद्वदिव, प्रकटितं पानाय द्योतितं मधु मद्यं तस्य कोशकानि पानपात्राणि यस्यां सा तथोक्ता, तथा प्रकीर्णानि पर्यस्तानि विविधानि अनेकप्रकाराणि कुसुमानि पुष्पाणि यस्यां सा, पक्षे—प्रकटितं प्रकाशितं मधूनां पुष्परसानां माक्षिकाणामित्यर्थः, कोशानां तदाश्रयाणाञ्च शतं यस्यां सा, अन्यत्तुल्यमेव ।
क्वचिदिति । क्वचित् कस्मिंश्चित्प्रदेशे एवमग्रेऽपि । प्रलयः सर्वत्र जलमयः तस्य वेला अवसरः तद्वदिव, महावराहेण परमेश्वरवृतीयावतारेण दंष्ट्रया दन्तेन समुत्खातं जलादूर्ध्वमानीतं धरणमण्डलं समस्तपृथ्वीमण्डलं यस्यां सा तथोक्ता, महावराहः पृथुलशूकरैः दंष्ट्राभिः दशनैः समुत्खातं विदारितं धरणमण्डलं भूम्यंशो यस्याः सा 'वराहः शूकरो घृष्टिः' इत्यमरः ।
प्रलयसमये परमेश्वरो हि वराहमूत्तिमाश्रित्य सलिलमग्नां भुवमूर्ध्वमानितवानिति पौराणिकवार्त्ता ।
क्वचिदिति । दशमुखस्य रावणस्य नगरी लङ्कापुरी तद्वदिव, चतुलाः चञ्चला ये वानराः शाखामृगाः तेषां वृन्देन समूहेन भुज्यमानाः श्रोच्यमानाः तुङ्गा उन्नता याः शाला भवनकदेशाः ताभिः आकुला व्याप्ता, पक्षे—चटुलवानरवृन्देन भुज्यमानास्तुङ्गा उच्चाः शालास्तदाख्यवृक्षाः ताभिः आकुला व्याकुला । राम-रावणयोः संग्रामकाले कपिवृन्देन लङ्काया भवनसमूहो नाशित आसीदिति रामायणीया कथा ।
क्वचिदिति । अचिरनिर्वृत्तः तत्कालनिष्पन्नो यो विवाहः परिणयः तस्य भूमिः स्थानं तद्वदिव, हरिता नीलवर्णा ये कुशा दर्भाः समिधो यज्ञीयकाष्ठानि, कुसुमानि पुष्पाणि, शमी, श्वा, पलाश्रा ग्रहवृक्षाः तैः शोभिता भूषिता भूषिता, पक्षेऽपि तुल्यमेव ।
क्वचिदिति । उन्मत्तो मदमत्तो यो मृगपतिः सिंहः तस्य नादेन गर्जितेन भीतेव त्रस्ता सुन्दरीव, कण्टको रोमाञ्चः सञ्जातोऽस्या इति कण्टकिता, पक्षे—कण्टकयुक्ता च ।
क्वचिदिति । मत्ता मधुपानोनोमत्ता नायिकेव, कोकिलकुलवत् पिकसमूहवत् कलम् अस्फुटमधुरं
कर शीतोपचार किया जा रहा हो, कहीं बाघों के इधर-उधर घूमने से उनके नखों के चिह्न उमड़े थे, कहीं गेंड़े इधर-उधर आते जाते थे जिससे वह दशनखों और गंडों से सुशोभित बालकों के गले के समान प्रतीत होती थी, कहीं-कहीं मधु के छत्ते पड़े थे जिनमें सैकड़ों मधु से भरी जालियों ऐसी प्रतीत होती थी मानो मदिरा से भरे सैकड़ों सकोरे हों और कहीं इधर-उधर तरह तरह के फूल बिखरे थे मानो मदिरा की बूंदें टपकी हों जिससे वह भूमि मदिरा पीने की जगह के समान प्रतीत होती थी, कहीं-कहीं जंगली सूअरों ने अपने दाढ़ों से भूमि खोद-खोदकर दूहे बना दिये थे जिससे वह दाढ़ों पर पृथ्वी उठानेवाले भगवान् वराह जैसे लगत थे और उनसे सुशोभित वह भूमि प्रलय की वेला के समान प्रतीत होती थी, कहीं कुश, समिधा (हवन की एकादशियाँ), फूल, शमी और पलाश के पत्ते पड़े थे जिससे वह भूमि ऐसी विवाह-वेदिका के समान प्रतीत होती थी जहाँ शीघ्र ही विवाहकार्य सम्पन्न हुआ हो, कहीं चञ्चल बन्दरों ने ऊँचे-ऊँचे शाल वृक्षों को तोड़ डाला था जिससे उन वृक्षों से भरी हुई वह भूमि ऐसी प्रतीत होती थी मानो बन्दरो द्वारा तोड़ी गया अंटारियों से भरी रावण की नगरी लंका हो। कहीं काँटों से भरी हुई झाड़ियों में भयभीत करनेवाले सिंह की दहाड़ होती रहती थी जिससे वह
१. पदपक्ष्ममण्डिता । २. आपान । ३. कोशशता । ४. ...भ्रङ्ग...वृङ्ग । ५. वृद्धवृत्त... ।
| ६० | कादम्बरी- | [ कथामुखे- |
|---|
प्रलापिनी, क्वचिदुन्मत्तेव वायुवेग-कृत-तालशब्दा, क्वचिद्विधवेव उन्मुक्ततालपत्रा, क्वचित् समरभूमिरिव शर-शत-निचिता, [क्वचिदमरपति-तनुरिव नेत्रसहस्र-सङ्कुला, क्वचि-न्नारायणमूर्त्तिरिव तमालनीला, क्वचित् पार्थरथपताकेव वानराक्रान्ता, क्वचिदवनिपति-द्वार-भूमिरिव वेत्रलताशतदुष्प्रवेशा, क्वचिद्विराटनगरीव कीचकशतावृता, क्वचिदम्बरश्रीयिव
प्रलपितुम् उन्मत्तवशात् अनर्थकं वक्तुं शीलं यस्याः सा, पक्षे-कोकिलकुलस्य पिकमण्डलस्य कलप्रलापो-ऽस्फुटमञ्जुलध्वनिरस्या अस्तीति सा तादृशी ।
क्वचिदिति । उन्मत्ता उन्मादवातःव्याधियुक्ता स्त्रीव, वायुवेगेन व्याधिरूपपवनबाहुल्येन कृता विहिताः तालशब्दाः करतलध्वनयो यया सा, पक्षे-वायुवेगेन पवनाधिक्येन कृताः तालानां तालतरूणां शब्दाः यस्यां सा तादृशी ।
क्वचिदिति । विगतो विनष्टो धवः पतिर्यस्याः सा सुन्दरीव, उन्मुक्तं स्वामिमरणाद् परित्यक्तं ताल-पत्रं ताटङ्कः कर्णाभरणविशेषो यया सा तादृशी, पक्षे-उन्मुक्तानि युगान्तपवनाधिक्येन पतितानि तालानां तालतरूणां पत्राणि पर्णानि यस्यां सा तादृशी 'पत्रं पलाशं छदनं दलं पर्णं छदः पुमान्' इत्यमरः ।
क्वचिदिति । समरो युद्धं तस्य भूमिः स्थानमिव, शराणां मुञ्जवृन्दानां बाणानाञ्च शतेन समुदायेन निचिता व्याप्ता ।
क्वचिदिति । अमराणां देवानाम् 'अमरा निर्जरा देवा' इत्यमरः, पतिः प्रभुः इन्द्रः तस्य तनुः शरीर-मिव, नेत्राणां लोचनानां तरुमूलानाञ्च यद्वा-जटानां सहस्रं तेन सङ्कुला व्याप्ता । जटांशुकयोर्नेत्रम्' इत्य-मरः, 'नेत्रं मध्यगुणे वस्त्रभेदे मूले द्रुमस्य च' इति मेदिनी ।
क्वचिदिति । नारायणस्य श्रीकृष्णस्य मूर्त्तिः शरीरमिव, तमालं तापिच्छं तद्वच्छीला श्यामवर्णा, पक्षे-तन्नामकवृक्षैः नीला ।
क्वचिदिति । पार्थोऽर्जुनः तस्य रथस्य पताका वैजयन्ती 'पाताका वैजयन्ती स्यात्' इत्यमरः वानरेण हनूमता वानरैः शाखामृगैश्च आक्रान्ता अधिष्ठिता ।
क्वचिदिति । अवनिः पृथ्वी तस्याः पतिः स्वामी राजेत्यर्थः, तस्य द्वारभूमिरिव, वेत्राणि चेतसा लता, यष्ट्यश्च तासां शतं समूहस्तेन द्वारपालहस्तवेत्रयष्टिसमूहेनेत्यर्थः, दुष्प्रवेशा दुःखेन प्रवेष्टुं योग्या अन्य-पक्षेऽपि तुल्यम् ।
क्वचिदिति । विराटस्य मत्स्याधिपतेः नगरी पुरीव, कीचकशतेन स्वप्रियवान्धवकीचकसमूहेन राज-श्यालकेन, पक्षे-कीचकाः सरन्ध्रवेणवः छिद्रेषु वायुप्रवेशेन शब्दायमानवंशगणा इत्यर्थः, तैः आवृता व्याप्ताः 'वेणवः कीचकास्ते स्युर्ये स्वनन्त्यनिलोद्धताः' इत्यमरः ।
क्वचिदिति । अम्बरम् आकाशं तस्य श्रीलक्ष्मीखिव, व्याधेन व्याधरूपधारिणा शिवेन अनुगम्यमानम्
उस दहाड़ से डर कर रोमाञ्चित सी प्रतीत होती थी, कहीं मधु पी-पीकर मतवाली कोयलें मधुर कूक मचाए रहती थीं जिससे वह मदिरा पीकर बड़बड़ानेवाली मतवाली स्त्री के समान प्रतीत होती थी, कहीं वायु के थपेड़ों से ताड़ के पत्ते खड़खड़ाया करते थे जिससे वह बात-बात में तालियाँ पीट-पीट कर ठट्ठा मारने वाली पगली के समान प्रतीत होती थी, कहीं ताड़ वृक्षों के पत्ते टूट-टूटकर गिर पड़े थे जिससे वह कर्णफूल से रहित विधवा के समान प्रतीत होतो थी, कहीं सैकड़ों शरपत्रों (सरकण्डा नाम का पौधा) से भरी होने के कारण वह बाणों से भरी युद्धभूमि के समान दिखाई पड़ती थी, कहीं हजारों नेत्र नाम के वृक्षों के कारण वह हजार नेत्रों वाले भगवान् इन्द्र के शरीर के समान प्रतीत होती थी, कहीं चारों ओर तमाल वृक्षों की घनी नीलिमा के कारण भगवान् नारायण की मूर्ति के समान प्रतीत होती थी, कहीं बन्दरों से भरी होने के कारण बन्दर की छाप लगी अर्जुन के रथ की पताका के समान प्रतीत हो रही थी, कहीं बेंतों की लताओं के कारण उसमें प्रवेश पाना अत्यन्त कठिन था जिससे वह सैकड़ों बेंतधारी द्वार-पालों से घिरी राजमहलों की देहली के समान प्रतीत होती थी, कहीं सैकड़ों बाँसों की झाड़ियाँ लगी हुई थीं जिससे वह कीचकों से भरी विराट् की नगरी के समान प्रतीत होती थी, कहीं घने जंगलों में बहेलिये रूप से चञ्चल नेत्रोंवाले हरिनों का पीछा करते थे
१. कम्प्राक्रान्ता, कप्याक्रान्ता । २. अमरपति । ३. कीचकावृता, कोचकाकुला ।
विन्ध्याटवीवर्णनम् ] चन्द्रकला-विद्योतिनीसहिता । ६१
व्याधानुगम्यमान-तरल-तारक-मृगा, क्वचिद्गृहीतव्रतेव दर्भ-चीर-जटा-वल्कल-धारिणी, अपरिमित-बहलपत्रसञ्चयाऽपि सप्तपर्णभूषिता, क्रूरसत्त्वाऽपि मुनिजनसेविता, पुष्पवत्यपि पवित्रा विन्ध्याटवी नाम् । ...तस्याञ्च दण्डकारण्यान्तःपति सकलभुवनविख्यातम् उत्पत्तिक्षेत्रमिव भगवतो धर्म्मस्य, सुरपति-प्रार्थना-पीत-सकल-सागर-सलिलस्य मेरुर-मत्सराद्गवैरतल-प्रसारित-शिरःसह-
अनुगम्यमानम् अत एव तरलं त्रासेन चलं तारकमृगं मृगशिरोनक्षत्रं यस्यां सा तथोक्ता, पक्षे—व्याधैः किरातैः अनुगम्यमानाः, अत एव तरला भयेन लोलाश्चञ्चलाः तारका लोचनकनीनिका येषां ते तथोक्ता मृगा हरिणा यस्यां सा तादृशी। पुरा प्रजापतिः परमसुन्दरीं स्वतनयां सन्ध्यां निरीक्ष्य कामांन्धस्तामन्वधावत्, स्वधर्म्मं रिरक्षिषुः सा पुत्री तु हरिणीस्वरूपमाश्रित्य पलायमाना महादेवशरणं गतवती, प्रजापतिरपि हरिणस्वरूपमाश्रित्य तत्राम्यनुजगाम महादेवस्तु तद्विरीक्ष्य प्रजापतेः शिरःकर्त्तनाय स्वधनुषा वाणं मुमोच, तदा तु प्रजापतिरत्यन्तं लज्जितस्त्रस्तश्च सन् मृगशिरोनक्षत्रे प्रविष्टवान् शिवस्य वाणोऽपि आर्द्रानक्षत्रस्वरूपेण तदन्वतिष्ठदिति शिवपुराणीया कथानुसन्धेया।
क्वचिदिति । गृहीतं स्वीकृतं व्रतं नियमो यया सैवंविधा सुन्दरीव, दर्भाः कुशाः, चीराणि जीर्णवसनखण्डानि, जटाः संहतकेशाः ‘शिखाजटे संहतौ कचौ’ इत्यनेकार्थः, वल्कलानि च परिधेयानि परिधारयितुं शीलं यस्याः सा तथोक्ता, पक्षे—दर्भाः कुशाः, चीराः तृणविशेषाः, जटाः मूलानि वल्कलानि च धारयितुं शीलं यस्याः सा तादृशी ‘मूले लग्नकचे जटा’ इत्यमरः।
अपरीति । अपरिमित्तानि सङ्ख्याक्रान्तानि बहलानि सघनानि पत्राणि दलानि तेषां सञ्चयः समूहो यस्यां सा तथोक्ताऽपि सप्तभिः पर्णैः भूषितेति विरोधः, सप्तपर्णसंज्ञकतन्निराजितेति तत्परिहारः। ‘यत्र विरोध इव भासेत विरोधोऽसौ’ इति लक्षणेन विरोधाभासोऽलङ्कारः। एवमग्रेऽपि । क्रूरसत्त्वेति । क्रूरं दुष्टं सत्त्वं हृदयं यस्याः सा तथोक्ताऽपि मुनिजनसेवितेति विरोधः ‘सत्त्वं द्रव्ये गुणे चित्ते व्यवसायस्वभावयोः’ इत्यनेकार्थः, क्रूराः हिंस्राः सत्त्वा व्याघ्रादिप्राणिनो यस्यां सा तादृशीति तत्परिहारः तथा पुष्पवती रजोधर्म्मवत्यपि पवित्रेति विरोधः, पुष्पाणि प्रसूनानि अस्याः सन्तीति तत्परिहारः।
तस्याञ्चेति । तस्यां विन्ध्याटव्याम् अगस्त्यस्य कुम्भयोनेः आश्रमपदं तपोभूमिः आसीदिति वक्ष्यमाणेन सम्बन्धः । इह प्रथमान्तानि पदानि आश्रमस्य विशेषणानि । दण्डकारण्यस्य दण्डकसंज्ञकवनस्य अन्तःपाति तन्मध्यवर्ति । अत्रेदमितिवृत्तम्—सूर्यवंशीयः कश्चन दण्डको नाम भूपतिः शुक्राचार्यगुरोः अरजाख्यां पुत्रीं बलात्कारेण घर्षितवान्, तच्छ्रुत्वातीव कुपितः शुक्राचार्यस्तं नृपमभिशापाप-त्वं विनङ्क्ष्यसि, अद्यारम्य सप्तादिनाभ्यन्तरे चेदं राज्यं महावनतया परिणतं भविष्यतीति । तच्च विन्ध्याचलशिखरप्रदेशस्थं राज्यं दण्डकारण्यं सञ्जातम् इति । रामायणे प्रसिद्धमेतत् ।
सकलेति । सकलानि समस्तानि यानि भुवनानि भूभुव आदीनि तेषु विख्यातं प्रसिद्धम् । भगवतो महाम्यवतो धर्मस्य सुकृतस्य उत्पत्तिक्षेत्रमिव जन्मभूमिरिव, तत्र सर्वप्रकारधर्मोत्पत्तेरित्याशयः । अत्र जात्युत्प्रेक्षा, सा च भावाभिमानिनी वाच्येत्यवगन्तव्या ।
सुरेति । सुरपतिः इन्द्रः तस्य प्रार्थनया याञ्चया पीतानि चुलुकीकृतानि सकलसागराणां समस्त-
जिससे वह ऐसी प्रतीत होती थी मानो व्याधिरूपधारी भगवान् शंकर से खदेड़े गए मृगशिरा से शोभित आकाश की लक्ष्मी हो,—कहीं कुश, चीर (चीड़ नाम का वृक्ष), जटाओं और छालों के कारण वह ऐसी प्रतीत होती थी मानो कुश की लंगोटी मारे तथा वल्कलों की काछनी काछे कोई जटाधारिणी तपस्विनी हो, कहीं अत्यन्त घने पत्तोंवाले छितवन के वृक्षों से भरी होने के कारण वह असंख्यपछवा होते हुए भी सप्तपर्णा प्रतीत होती थी। यद्यपि उसमें दुष्ट प्राणियों के समान अनेक हिंसक जन्तु भरे थे, किन्तु उसमें अनेक मुनियों के आश्रम भी स्थित थे। यद्यपि वह फूलों से लदी होने के कारण रजस्वला सी सी प्रतीत होती थी, किन्तु वह अत्यन्त पवित्र भी थी।
उस विन्ध्याटवी में दण्डक वन के बीच सभी लोकों में प्रसिद्ध भगवान् धर्मराज की जन्मभूमि के समान महर्षि अगस्त्य का पवित्र आश्रम था, जिन्होंने भगवान् इन्द्र की प्रार्थना पर समुद्र का सभी जल ही पी
१. बहुल २. सप्तपर्णैर्भूषिता । ३. भुवनख्यातम्, भुवनतलख्यात । ४. निधीन । ... जलस्य । ५. मेरुशिखर । ७. गगनतल... । ८. शिखरस्य ।
६२ कादम्बरी— [कथामुखे-
त्रेण दिवसकर-रथागमने-पथमपनेतुमभ्युद्यतेन अवगणित सकलसुर-वचसा विन्ध्यगिरिणा- प्यनुल्लङ्घिताज्ञस्य, जठरानल-जीर्ण-वातापिदानवस्य सुरासुर-मुकुट-मकरपत्र-कोटि-चुम्बित- चरण-रजसो दक्षिणाशा-वधू-मुख-विशेषकस्य, सुरलोकादेकहुङ्कारनिर्पा तित-नहुष प्रकटै-
समुद्राणां जलानि सलिलानि येन तस्य । इत आरभ्यैऽपप्स्यन्तानि पदानि ऋषेर्विशेषणानि । पुरा लोकान् पीडयितुं कालेयाख्याः केचनासुरा दिनपर्यन्तं समुद्रजलेऽन्तर्हिताः सन्तो निशि बहिरागत्य लोकद्वय-मप्यन्तमुपद्रुतश्चक्रुः । तद्विनाशाय नितरां चेष्ट्यमानो देवाधिपतिरगस्त्यशरणं ययौ। बहुधा प्रार्थितो भगवानगस्त्यो निखिलसमुद्रसलिलानि चुलुके कृत्वा पपाविति महाभारतीया कथात्रातुसन्धेया ।
मेर्विति । मेरोः सुवर्णद्रेः मत्सरात् उन्नतिविषयकशुभद्वेषात् 'मत्सरोऽन्यशुभद्वेष' इत्यमरः अम्बरतले आकाशतले प्रसारितानि विस्तारितानि विक्रटानि बृहन्ति यानि शिरांसि मस्तकानि तेषां सहस्रं समूहो येन स तेन, दिवसकरस्य सूर्यस्य रथागमनपथं स्पन्दनगमनमार्गम् 'श्वःपूरम्धूःप्रयामानदे' इत्यच् प्रत्ययः, अपनेतुं निरसितुम् अभ्युद्यतेन प्रवृत्तेन, तथा अवगणितानि अनाहतानि सकलानां समस्तानां देवानां सुराणां वचांसि दिवसाधिपतेः गति मार्गावरोधनिषेधकवाक्यानि येन तेन विन्ध्यगिरिणाऽपि जलवाल्काद्रिणापि अनुल्लङ्घिता अनतिक्रान्ता सम्मानिता आज्ञा आदेशो यस्य तस्य तादृशस्य ।
पुरा पर्यटन् नारदो योगी विन्ध्याचलमासादयामास, अथ तेन कृतातिथ्यो नारदस्तं गिरिं प्रत्यु-वाच—गिरिमणे ! प्रतिदिनं सूर्यो हि सुमेरुं परिक्रमति त्वां नेति नितरां चेष्टियते मे चेतः अतस्तदर्थ यतस्वेत्यभिधाय निर्गते तस्मिन् तयैवात्मानं विधातुं सूर्यमनुरुन्धन् तेन प्रत्याख्यातोऽतिकोपेन तद्गमन-पथमवरोद्धुं वृद्धिमुपगच्छन् सुरैर्निवारितोऽपि नितरां ववृधे; तदैवतोऽधिकतापाद् प्रज्वलन्तोऽपरतान्चका-राष्टताक्षात्किमपि कर्तुमक्षमा लोका देवान् तुष्टुवुः, ते च द्रुतमेव काश्यामगस्त्याश्रममाजग्मुः, विन्ध्य-वृद्धयवरोधार्थ तममुरुन्धुश्च, अथ तेषामनुरोधेन समायंके भगवत्यगस्त्ये तत्रोपस्थिते विन्ध्याद्रिः शिरोऽ-वनमय्य तस्मै प्रणाममकरोत्, ऋपिस्तु—'प्रिय वत्स ! यावदहं पुनः प्रत्यावृत्तः स्यां तावत्त्वमेवंविघनेवा-वनतो भूत्वा तिष्ठ' इत्युक्त्वा दक्षिणाशां प्रस्थितो नेदानीमपि प्रत्यावृत्तः, विन्ध्याद्रिरपि तदाज्ञयाऽद्युनापि तयैव तिष्ठतीति स्कन्दपुराणान्तर्गतकाशीखण्डोयकथा ।
जठरेति । जठरानलेन उदराग्निना जीर्णः अन्तःपरिपार्कं प्रापितो वातापिदानवो वातापिनामकासुरो येन यस्य तादृशस्य ।
पुरा इल्वलवातापिसंज्ञकौ भ्रातरावसुरविशेषावास्ताम् तत्रेइवलो विप्रस्वरूपं कृत्वा मेषस्वरूप-स्थितं वातापि मारयित्वा तन्मांसं पक्त्वा समुपस्थितान् विप्रान् भोजय.मास, भक्तितवत्सु तेषु 'वातापे ! निर्गच्छ' इतीह्वलेनाकारितः सुरवरप्रतापेन वातापिस्तेषामुदराणि विदार्य निर्यतः, ततश्च तौ तेषां वित्तादिकं चोरितवन्तौ । ततो देवा इत्थं निरीक्ष्य भगवतोऽगस्त्यस्य शरणमाययुः, आगस्त्य च प्रत्यपकर्तुं याचितः स तेनैव रूपेण तन्मांसं भक्षयित्वा उदरे जीर्ण कृतवानिति महाभारतीया क्या ।
सुरासुरेति । सुरा देवा असुरा दानवास्तेषां मुकुटेषु किरीटेषु यानि मकरपत्राणि सुवर्णरचिता मकरा-कारपक्षा, 'पत्रं वाहेनपक्षयोः' इत्यमरः, तेषां कोटयः अग्रभागाः तैः चुम्बितानि स्पृष्टानि चरणरजांसि पादरजषो यस्य तस्य, देवदानवपूजितपदस्येत्यर्थः दक्षिणा अवाची आशा दिनेव वधूः स्त्री तस्या मुखे आनने विशेषकस्य तिलकस्वरूपस्य 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः', चित्रपुण्ड्रविशेषकाः' इत्यमरः। अत्रागस्त्ये तिलकत्वारोपस्य दक्षिणदिशि वधूत्वारोपः कारणमिति परम्परितरूपकम् । तदुक्तं साहित्यदर्पणे—'यत्र कस्यचिदारोपः परारोपस्य कारणम् । तत्परम्परितम्...॥'
सुरेति । सुरलोकात् देवन्गरात् (स्वर्गात् ) एकहुङ्कारेण हुङ्कृतिमात्रेण निपातिते प्रच्याविते नहुषे
लिया था। समस्त देवताओं की प्रार्थना अनसुनी करके मेरु पर्वत की ईर्ष्या के कारण अपनी हजारों चोटियों को आकाश में फैलाकर सूर्य का मार्ग रोक देनेवाला विन्ध्याचल भी जिनकी आज्ञा टालने का साहस न कर सका और पैरों पर झुका ही रह गया, जिन्होंने अपने पेट की आग में वातापि दानव को भी पचा डाला, देवता और राक्षस दोनों ही अपने मुकुटों में बने हुए मत्स्याभूषणों की पत्रलताओं से जिनके चरणों की धूल
१. गतिपथ । २. ' ' 'धुरसन्धू ' ' ' । ३. भक्षयित । ४. मुकुटघटितोमरकतमयपत्रभङ्गकोटि''' । ५. दक्षिणामुखविशेषकस्य । ६. निपतित । ७. प्रकटत ।
[अगस्त्याश्रमवर्णनम् ] चन्द्रकला-विद्योतिनीसहित। ६३
प्रभावस्य भगवतो महामुनेरगस्त्यस्य, भार्य्यया लोपामुद्रया स्वयमुपरचितआलवालकैः करपुट-सलिलसेक-संवर्द्धितैः सुतनिविशेषैरुपशोभितं पादपैः, तत्पुत्रेण च गृहीतव्रतेनापाढिनो पवित्र भस्म-विरचित-त्रिपुण्ड्रकाभरणेन कुश-चीवर-वाससा मौञ्ज-मेखलाकलितमध्येन गृहीत-हरित्पर्णपुटेन प्रत्युटजमटता भिक्षां दृढदस्युनाम्ना पवित्रीकृतम्, अतिप्रभूतेध्म-हरणाच्च यस्येध्मवाह इति पिता द्वितीयं नाम चकार, दिशि दिशि शुक्रहरितैश्च कदलीवनैः
प्रकटः स्फुटः प्रभावो माहात्म्यं यस्य तस्य तादृशस्य, भगवतो माहात्म्यवतः महामुनेरकृष्टमनशीलस्य।
इह स्पष्टः पुत्रे वृत्रे दधीच्यस्थना वज्रं निर्माय हते सुराधिपे ब्रह्महत्याणायते मानससरोवरे निलीने सति सुरैः राजविहीनं स्वर्गं दृष्ट्वा चन्द्रवंशीयो राजा नहुषो निजनिजप्रभावैर्वर्द्धयित्वा स्वर्गराज्ये नियुक्तः। इन्द्रपदं चारूढो भवानिन्द्राणीं कथं न कामयते ? इति हेनभिरुपदिष्टे स कदाचित्तां प्रार्थितवान् , ततस्तया कथितम 'राजन ! महर्षिभिर्वाहितो शिविकामारुह्य यदि भवान् मद्भवनमागन्तुं शक्नोति तदा भवन्तमहं सेवेय' इति। राजा तु तदेवाभ्युपेत्य भृग्वादीन् देवर्षीन् वाहकत्वेन संयोज्य शिविकामारूढः इन्द्राणीं कामयमानः तां प्रति व्रजन् शीघ्रं चलितुम् अग्रे गच्छन्तं भृगुं मूर्ध्नि चरणेन 'सर्प सर्प' इति कथयन्नताडयत्, एतन्मध्ये भृगोर्जटासु प्रच्छन्नो भगवानगस्त्यः तच्चरणेन ताडितः 'त्वं सर्पो भूत्वाऽधः पत' इति शशाप, तेन च राजा सर्पो भूत्वा हिमालयकन्दरायामपतदिति महाभारतीया कथा-त्रानुसन्धेया।
भार्ययेति । भार्यया पत्न्या लोपामुद्रया तन्नामिकया स्वयम् आत्मना उपरचितानि निर्मितानि आलवालानि आवापा मूलसलिलधारा येषां तैः 'स्यादालवालमावापः' इत्यमरः, करपुटेन निजहस्तद्वयेन यः सलिलस्य जलस्य सेकः तेन संवर्द्धितैः वृद्धिं प्रापितैः, सुतनिर्विशेषैः पुत्रसदृशः पादपैर्वृक्षैरुपशोभितं भूषितं तदाश्रमपदं मुनिस्थानम्।
तत्पुत्रेनेति । तस्य अगस्त्यस्य पुत्रेण सूनुना, गृहीतम् अङ्गीकृतं व्रतं ब्रह्मचारिव्रतं येन तेन, आपाढः पलाशदण्डः अस्यास्तीति तेन 'आषाढो मतिनां दण्डे मासे मलयपर्वते' इति विश्वः, प्रियाणं पलाशदण्डस्यैव धारणमाह मनुः—'ब्राह्मणो बैल्वपालाशौ' इति, पवित्रं पूतं यद्भस्म तेन विरचितं विहितं त्रिपुण्ड्रकं रेखात्रययुततिलकविशेष एव आभरणं भूषणं येन, तेन, ब्राह्मणानां त्रिपुण्ड्रधारणमाह स्मृतिः—'ब्राह्मणानां त्रिपुण्ड्रकम्' इति। कुशा दर्भा एव चीवरं चीरं वासः वस्त्रं यस्य तेन, मौञ्ज्या मुञ्जविरचितया मेखलया कलितो बद्धः मध्यः कटिभागो येन तेन, तथा च मनुः—मौञ्जी त्रिवृत्समा श्लक्ष्णा कार्या विप्रस्य मेखला' इति। गृहीतं याचितान्नरक्षणार्थमाप्तं हरितं श्यामलं पर्णपुटं पत्ररचितपुटंकं येन तेन, प्रत्युटजम् उटजमुटजं प्रति प्रतिपर्णशालमित्यर्थः। 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः, भिक्षाम अटता भिक्षायै भ्रमणं विदधता शिक्षामित्यत्र 'अकथितञ्च' इत्यनेन कर्मसंज्ञायां 'कर्मणि द्वितीया' इति द्वितीया। दृढदस्युरिति नाम यस्य तेन तादृशेन पवित्रीकृतं तत्र स्थित्या पूतम्।
प्रतीति । पिता अगस्त्यः, अतिप्रभूतानि अतिप्रचुराणि यानि इध्मानि काष्ठानि तेषाम् आहरणाद् आनयनात् हेतोः, इध्मं वहतीति 'इध्मवाह' इत्यन्वर्थं द्वितीयम् अपरं नाम अभिधेयं चकार विदधौ। इध्मवाह इत्यत्र 'कर्मण्यण्' इत्यण्।
शङ्का करते जो दक्षिण दिशा रूपी वधू के मुख के तिलक थे (अगस्त्य तारा दक्षिण दिशा में निकलता है), तथा जिन्होंने एक ही हुङ्कार में नहुष को स्वर्ग से पृथ्वी पर पटक कर अपना प्रभाव प्रकट कर दिया था। वह आश्रम अनेक वृक्षों से सुशोभित था। भगवान् अगस्त्य की पत्नी लोपामुद्रा ने स्वयं अपने हाथों से उनमें दौंड़े बना-बनाकर अपनी अञ्जुलियों के जल से उन्हें सींचा और पाल-पोस कर बढ़ाया था। उन्हें वह पुत्र के समान ही प्यार देती थीं। उनके पुत्र ब्रह्मचारी दृढदस्यु की तपश्चर्या से वह आश्रम और भी पवित्र हो गया था। वह हाथों में पलाशदण्ड लिये, मस्तक पर भस्म का त्रिपुण्ड लगाये, कटि में कुश की लंगोटी
१. तद्भार्यया। २. लोपामुद्रया च। ३. आषाढिव्रतिना। ४. ०चकार। ५. वल्कल, मुञ्ज ००० ।
६. हरित्पर्णे, पन्नपुटेन ० ७. शुक्रकुल ००० ।
| ६४ | कादम्बरी- | [ कथामुखे- |
|---|
श्यामलीकृत-परिसरं सरिता च कलसयोनि-परिपोत-सागरमार्गानुगतयेव बद्धवेणिकया गोदा- वर्या परिगतमाश्रमपदमसीत् ।
यत्र च दशरथवचनमनुपालयन्नुत्सृष्टराज्यो दशवदन-लक्ष्मी-विभ्रमविरामो रामो महामुनिमगस्त्यमनुचरन् सह सीतया लक्ष्मणोपरचित-रुचिर-पर्णशालः पञ्चवट्यां कञ्चित् कालं सुखमुवास । चिरशून्येऽद्यापि यत्र शाखानिलोनि-निभृत-पाण्डु-कपोतपङ्क्तयो लग्न-तापसाग्निहोत्र-धूमराजय इव लक्ष्यन्ते तरवः । बलिकर्म्म-कुसुमान्युद्धरन्त्याः सीतायाः
दिशीति। दिशि दिशि प्रत्येकदिशि 'नित्यवीप्सयोः' इति द्विवचनम्, शुकवत् कीरदेहवत् हरितै-नीलवर्णैः कदलीवनैः रम्भाविपिनैः 'रम्भाग्रचेऽथ कदली' इति मेदिनी, श्यामलीकृतः कृष्णवर्णीकृतः परिसरः प्रान्तभूमिर्यस्य तत्। शुकहरितैरित्यत्र लुप्तोपमा।
सरितेति। कलसयोनिन अगस्त्येन परिपीतस्य चुलुकीकृतस्य मृतस्येत्याशयः, सागरस्य समुद्रस्य मार्गम् अध्वानम् अनुगतयेव अनुव्रजितयेव बद्धा धृता वेणिका सलिलधारा यया तया, बद्धा संकरा-विधानायैव संयता वेणिका केशशचनाविशेषो यया तया च, गोदावर्या तन्नामिकया सरिता नद्या परिगतं परिव्याप्तम्। अगस्त्येन चुलुकीकृततया निधनमुपगतस्य समुद्रस्य अनुव्रजनं सर्वदा केशसंयमनञ्च पति-व्रतया विधेयमेवेत्याशयः। उक्तञ्च 'न प्रोषिते तु संकुर्याद्वेणीं च प्रमोचयेत्' इति। 'अनुगतयेव' इति क्रियोत्प्रेक्षा। समासोक्तिरपि व्यञ्जना। तदुक्तं दर्पणे-
'समासोक्तिः समैर्यत्र कार्य्यलिङ्गविशेषणैः। व्यवहारसमारोपः प्रकृतेऽन्यस्य वस्तुनः ॥'
यत्रेति। यत्र यस्मिन्नाश्रमस्थाने दशसु दिशासु अप्रतिहतो रथो यस्य स दशरथः तस्य वचनं वनगमनादेशम् अनुपालयन् पालनं कुर्वन् तथैवानुतिष्ठन्नित्यर्थः, उत्सृष्टं त्यक्तं राज्यं येन सः, दशवदनो लङ्काधिपतिर्दशाननस्तस्य या लक्ष्मीः राज्यश्रीः तस्या विभ्रमस्य विलासस्य विरामोऽवसानं यस्मात् स तथोक्तो रामः महामुनिं मुनिश्रेष्ठम् अगस्त्यम् अनुचरन् सेवमानः, लक्ष्मणेन सुमित्रानन्दनेन उपरचिता निर्मिता रुचिरा मनोज्ञा पर्णशाला उटजो यस्य सः, कञ्चित्कालं पञ्चवट्यां जनस्थाने सीतया जनकनन्दिन्या सह सुखम् आनन्दपूर्वकं यथा स्यात्तथा उवास निवसति स्म । 'विरामो राम' इत्यत्र यमकालङ्कारः । तदुक्तं दर्पणे-
'सत्यर्थे पृथगर्थायां स्वरव्यञ्जनसंहते । क्रमेण तेनैवावृत्तिर्यमकं विनिगद्यते ॥'
चिरेति । 'चिरशून्ये बहोः कालात् मुनिवृन्दरहिते, यत्र यस्मिन्नाश्रमपदे अद्यापि इदानीमपि, शाखासु निलीना अवस्थिता निभृता निःशब्दाः पाण्डवः श्वेता ये कपोताः पारावताः तेषां पङ्क्तयो राजयः येषु ते, अत एव लग्नाः संलग्नाः तापसानां तपस्विनां यदग्निहोत्रं दैनिकयज्ञविशेषः तस्य धूमा-नाम् अग्निशिखानां राजयः पङ्क्तयो येषु ते तथोक्ता इव तरवो वृक्षा लक्ष्यन्ते अवलोक्यन्ते । इह पदार्थ-हेतुकं काव्यलिङ्गमलङ्कारः, तथा धूमपङ्क्तीनां संलग्नत्वस्योत्प्रेक्षणात् क्रियोत्प्रेक्षा चेत्युभयोरङ्गाङ्गिभावेन सङ्करालङ्कारः ।
बलोति । बलिकर्म्मणे देवपूजनकार्यस्य कुसुमानि प्रसूनानि उद्धरन्त्याः सञ्चयं कुर्वन्त्याः सीताया
तथा मूंज की करधनी पहिने और हाथों में हरे पत्तों का दोना लिये हुये एक झोपड़ी से दूसरी झोपड़ी तक घूम-घूमकर भीख माँगा करते थे। वह जङ्गल से पिता के अग्निहोत्र के लिये समिधाओं (हवन की लकड़ियों) का इतना बड़ा गट्ठर बाँधकर लाया करते थे कि पिता ने उनका दूसरा नाम ही इध्मवाह (हवन की लकड़ियां ढोने वाला) रख दिया था। उस आश्रम के चारों ओर सुग्गों के समान हरे-हरे केलों की घनी बाढ़ लगी हुई थी जिसकी घनी हरियाली से वहाँ कुछ-कुछ अन्धकार सा छाया रहता था। उस आश्रम से सटी हुई एक ही प्रखर धारा में बहती हुई गोदावरी नदी ऐसी प्रतीत होती थी मानो एक चोटी वाली समुद्र की विधवा पत्नी अपने पति के पीछे पीछे उसका समस्त जीवन पी लेने वाले अगस्त्य के आश्रम में चली आई हो।
और जहाँ पञ्चवटी में दशरथ की आज्ञा का पालन करने के लिये राज्य छोड़कर महामुनि अगस्त्य की सेवा करते हुये रावण की राज्यलक्ष्मी का वैभव मिटा देने वाले भगवान् रामचन्द्र जी ने सीता जी के साथ लक्ष्मण द्वारा बनाई गई पत्तों की सुन्दर झोपड़ी में कुछ दिनों तक सुख से निवास किया था, बहुत दिनों से ऋषियों के न रहने के कारण जिस सूने प्रदेश में डालियों पर चुपचाप बैठे हुए सफेद कबूतरों की पंक्तियों
१. श्यामीकृत ।
२. कावेर्या ।
३. रामो ।
४. अतिचिर ।
...पङ्क्तयोऽमलग्न... ।