भारतकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

चतुर्थं जवनिकान्तरम् ११५ विदूषकः—एवं णेदं । ण हु मअलंछणमंतरेण अण्णो मिअं- कमणिपुत्तलिअं पञ्जरावेदि । ण हु सरजसमीरमंतरेण सेहालिआकुसु- म्मुक्करं विकासेदि । ( ततः प्रविशति भैरवानन्दः । ) भैरवानन्दः—इअं सा वडतरुमूले णिम्मिणस्स सुरंगदुआरस्स धाणे चामुंडा । ( हस्तेन प्रणम्य पठति । ) कप्पंतकेलिभवणे फालस्स पुरोऽसुराण रुहिरसुरं । जयइ पिवंती चंडी परमेट्ठिकपालचसएण ॥ १८ ॥ प्रविश्योपविश्य ।) अज्ज विण णिग्गच्छदि सुरंगदुवारेण कप्पूरमंजरी । ( ततः प्रविशति सुरंगोद्घाटितकेन कर्पूरमञ्जरी । ) कर्पूरमञ्जरी—भअवं । पणमिज्जसि । भैरवानन्दः—उइदं वरं लहेसु । इह ज्जेव उपविस । ( कर्पूरमञ्जरी तथा करोति ।) विदूषकः— एवमेतत् । न खलु मृगलाञ्छनमन्तरेणान्यो मृगाङ्कमणिपुत्तलीं प्रस्वेदयति । न खलु शरत्समीरमन्तरेण शेफालिकाकुसुमोत्करं विकासयति । भैरवानन्दः— इयं सा वटतरुमूले निर्मितस्य सुरङ्गाद्वारस्य विधाने चामुण्डा । कल्पान्तकेलिभवने कालस्य पुरान्तकरुधिरसुराम् । जयति पिबन्ती चण्डी परमेष्ठिकपालचषकेण ॥ अद्यापि न निर्गच्छति सुरङ्गाद्वारेण कर्पूरमञ्जरी । कर्पूरमञ्जरी— भगवन् ! प्रणम्यते । भैरवानन्दः— उचितं वरं लभस्व । इहैवोपविश । १ पुरान्तकरुधिरसुरं' इति टीकादृष्टः पाठः ।

११६ कर्पूरमञ्जरी भैरवानन्दः—(स्वगतम्।) अज्ज वि ण एदि देवी। (प्रविश्य।) राज्ञी—(परिक्रम्यावलोक्य च।) अए, इअं भयवदी चामुंडा। (प्रण- मलोक्य च।) अथ इअं कप्पूरमंजरी। ता किं णेदं। (भैरवानन्दं प्रति।) इदं विष्णवीअदि, णिअभवणे विवाहसामग्गिं कडुअ आअद म्हि। तदो गेण्हिअ आगमिस्सं। भैरवानन्दः—वच्छे! एवं कीरदु। (राज्ञी व्यावृत्त्य परिक्रामति।) भैरवानन्दः—(विहस्य। स्वगतम्।) इअं कप्पूरमंजेरीघरं अण्णे- सिदुं गदा। (प्रकाशम्।) पुत्ति कप्पूरमंजरि! सुरंगादुवारेण ज्जेव तुरि- दपदं गदुअ णिअभवणे चिट्ठ। देवीआगमणे पुणो आगंतव्वं। (कर्पूरमञ्जरी तथा करोति।) देवी—इदं रक्खाघरं (प्रविश्यावलोक्य च) अए, इअं कप्पूरमंजरी। सा का वि सारिक्खिआ मए दिट्ठा। (प्रकाशम्।) वच्छे कप्पूरमंजरि! कीदिसं भैरवानन्दः— अद्यापि नागच्छति देवी। राज्ञी— अये, इयं भगवती चामुण्डा। अथ इयं कर्पूरमञ्जरी। तत्किमिदम्? इदं विज्ञा- प्यते—निजभवने विवाहसामग्रीं कृत्वा आगतास्मि। ततस्तां गृहीत्वाऽगमिष्यामि। भैरवानन्दः— वत्से! एवं क्रियताम्। भैरवानन्दः— इयं कर्पूरमञ्जरीस्थानमन्वेष्टुं गता। पुत्रि कर्पूरमञ्जरि! सुरङ्गाद्वारेणैव त्वरितपदं गत्वा स्वस्थाने तिष्ठ। देव्यागमने पुनरागन्तव्यम्। देवी— इदं रक्षागृहम्। अये, इयं कर्पूरमञ्जरी। सा कापि सदृशा मया दृष्टा। वत्से कर्पूरमञ्जरि! कीदृशं ते शरीरम्? 1 'मञ्जरीठाणं' इति टीकाकृतः पाठः। 2 'सट्ठाणे' इति टीकानुगुणः पाठः।

चतुर्थं जवनिकान्तरम् ११७ ते सरीरं ? (आकाशे ।) किं भणसि-मह सरीरे वेअणा समुप्पण्ण त्ति ? • रात्री—(स्वगतम् ।) ता पुणो तहिं गमिस्सं । (प्रविश्य पार्श्वतोऽवलोक्य च ।) हला सहीओ ! विवाहोवकरणाईं लहु गेण्हिअ आअच्छध । (इति परिक्रामति ।) (प्रविश्य कर्पूरमञ्जरी तथैवास्ते ।) रात्री—(पुरोऽवलोक्य ।) इअं कप्पूरमंजरी । भैरवानन्दः—वच्छे विब्भमलेहे ! आणीदाईं विवाहोवअरणाईं ? रात्रीः—अध इं । किं पुण घणसारमंजरीसमुचिदाईं आहरणाई विसरिआईं । ता पुणो गमिस्सं । भैरवानन्दः—एवं भोदु । (देवी नाटितकेन निष्क्रामति ।) आकाश इति । 'किं ब्रवीष्येवमित्यादि विना पात्रं ब्रवीति यत् । श्रुत्येवानु- क्तमपि ह्येतत्स्यादाकाशभाषितम् ॥' इति भरतः । किं भणसि मम शरीरे वेदना [समुत्पन्नेति ।] ? । रात्री— तत्पुनस्तत्र गमिष्यामि । हला सख्यः ! विवाहोपकरणानि लघु गृहीत्वागच्छत । रात्री— इयं कर्पूरमञ्जरी । भैरवानन्दः— वत्से विभ्रमलेखे ! आनीतानि विवाहोपकरणानि । देवी— आनीतानि, किं पुनर्घनसारमञ्जरीसमुचितान्याभरणानि विस्मृतानि । तत्पुन- र्गमिष्यामि । भैरवानन्दः— एवं क्रियताम् ।

११८ कर्पूरमञ्जरी भैरवानन्दः—पुत्ति कप्पूरमंजरि ! तं ज्जेव कीरदु । (कर्पूरमञ्जरी निष्क्रान्ता ।) राज्ञी— (रक्षागृहं प्रविश्य कर्पूरमञ्जरीं दृष्ट्वा ।) अए, सारिक्खदाए विडं- वि म्हि । (स्वगतम् ।) ज्ञानविमाणेण णिव्विग्धपरिसप्पिणा तं आणेदि महाजोई (प्रकाशम् ।) सहीओ ! जं जं णिवेदितं तं तं लहुअं गेण्हिअ आअ- च्छध । (चामुण्डायतनप्रवेशनाटितकेन तामवलोक्य ।) अहो सारिक्खदा । भैरवानन्दः—देवि ! उवविस । महाराओ वि आअदो ज्जेव वहट्टदि । (ततः प्रविशति राजा विदूषकः कुरङ्गिका च ।) भैरवानन्दः—आसणं महाराअस्स । (सर्वे यथोचितमुपविशन्ति ।) राजा—(नायिकां प्रति ।) एसा सा कप्पूरमंजरी । सरीरिणी मअरद्धअपारिद्धिओ देहंतरसंठिदा सिंगारसंवरचावलट्टी दिवस- संचारिणी पुण्णिमाचंदचंदिआ । अवि अ गुणगुणमाणिक्कमंजूसा भैरवानन्दः— पुत्रि कर्पूरमञ्जरि ! तथैव क्रियताम् । राज्ञी— अये, सादृश्येन विडम्बितास्मि । ध्यानविमानेन निर्विघ्नपरिसर्पिणा तामानाययि महायोगी । सख्यः ! यद्यन्निवेदितं तत्तद्गृहीत्वागच्छत । अहो सादृश्यम् । भैरवानन्दः— देवि ! उपविश । महाराजोऽप्यागत एव वर्तते । भैरवानन्दः— आसनं महाराजस्य । राजा— एषा शरीरिणी मकरध्वजपापर्धिका देहान्तरेण संस्थिता शृङ्गाररसलक्ष्मीव । 1 'देहंतरेण संठिदा' टीकापाठः ।

चतुर्थं जवनिकान्तरम् ११९ रयणमई अंजणसलाआ। जहा अ एसा आरण्णकुसुमणिप्फण्णा मधुलच्छी। किं च,— भुवणजयपडाआ रूअरेहा इमीए जह तह णअणाणं गोअरं जस्स जादि। घसइ मअरकेऊ तस्स चित्ते विचित्ते वलइअधणुदंडो पुंखिदेहिं सरेहिं ॥ १९ ॥ विदूषकः—(जनान्तिकम्।) सच्चं कदं तए आहाणअं। तडं गदाए वि णावाए ण विस्ससीअदि। ता तुण्हीओ चिट्ठ। राज्ञी—(कुरङ्गिकां प्रति।) तुमं महाराअस्स विआहणेवच्छं कुरु। सारंगिआ वि घणसारमंजरीए करेदु। (इत्युभे उभयोर्विवाहनेपथ्यकरणं नाटयतः।) भैरवानन्दः—उवज्झाओ हक्कारीअदु। दिवससंचारिणी पूर्णिमाचन्द्रचन्द्रिका, अपि च प्रगुणगुणमाणिक्यमञ्जूषा। रत्न- मय्यञ्जनशलाका तथा चैषा रक्तकुसुमनिष्पन्ना मधुलक्ष्मीः। किं च,— भुवनजयपताका रूपरेखाऽस्या यथा तथा नयनयोर्गोचरं यस्य याति। घसति मकरकेतुस्तस्य चित्ते विचित्रे वलयितधनुर्दण्डः पुङ्खितैः शरैः ॥ विदूषकः— सत्यं कृतं त्वयाभाणकम्। तटं गताया अपि नौकाया न विश्वसितव्यम्। स तूष्णीं तिष्ठ। राज्ञी— त्वं महाराजस्य नेपथ्यं कुरु। सारङ्गिका घनसारमञ्जर्याः करोतु। भैरवानन्दः— उपाध्याय आकार्यताम्। 1 अस्थाने 'भैरवानन्दः-वच्छे! पत्तं विवाहमङ्गलमुहुत्तं। ता महाराजभस्ममज्जदु तए अचोविद्दप्पडिवण्णं' इति वाक्यमधिकं दृश्यते।

१२० कर्पूरमञ्जरी राज्ञी—अज्जउत्त ! एसो उवज्झाओ अज्जकविंजलओ चिट्ठदि । ता कीरदु अग्गिआरिअं । विदूषकः—एस सज्जो म्हि । भो वअस्स ! उत्तरीए गंठिं दाइस्सं दाव । हत्थेण हत्थं गेण्ह कप्पूरमंजरीए । राज्ञी—( सचमत्कारम् । ) कुदो कप्पूरमंजरी ! भैरवानन्दः—( तं तस्या भावमुपलभ्य विदूषकं प्रति । ) तुमं सुट्ठुतरं मुद्धो सि । जदो कप्पूरमंजरीए घणसारमंजरि त्ति णामंतरं जाणासि । राजा—( करमादाय । ) जे कंटआ तिउसमुद्धफलेसु होंति जे केअईकुसुमगब्भदलावलीसु । फंसेण णूणमिह मज्झ ¹सरीरदिण्णा ते सुंदरीअ बहला पुल²अंकुरिल्ला ॥ २० ॥

राज्ञी — आर्यपुत्र ! एष उपाध्याय आर्यकपिंजलस्तिष्ठति । तत्करोत्वग्न्याचार्यकम् । विदूषकः— एष सज्जोऽस्मि । भो वयस्य ! उत्तरीये ग्रन्थिं दास्यामि तावत् हस्तेन हस्तं गृहाण कर्पूरमञ्जर्याः । राज्ञी— कुतः कर्पूरमञ्जरी ? भैरवानन्दः— त्वं सुष्ठुतरं भ्रान्तोऽसि । यतः कर्पूरमञ्जर्या घनसारमञ्जरीति नामान्तरं जानासि । राजा— ये कण्टकास्त्रपुसमुग्धफलानां सन्ति ये केतकीकुसुमगर्भदलावलौषु । स्पर्शेन नूनमिद मम शरीरस्य ते सुन्दर्या बहलाः पुलकाङ्कुराः ॥

1 'शरीरभरस' इति टीकापाठः । 2 '"अंकुराओ' इति दीक्षितः पाठः ।

चतुर्थं जवनिकान्तरम् १२१ विदूषकः—भो वअस्स ! भामरीओ दिज्जंतु । हुदवहे लाजंजलीओ खिपिज्जंतु । ( राजा भ्रमणं नाटयति । नायिका धूमेन व्यावृत्तमुखी तिष्ठति । राजा परिणयति । राज्ञी सपरिवारा निष्क्रान्ता । ) भैरवानन्दः—विवाहे दक्खिणा दिज्जदु आचारिअस्स । राजा—दिज्जदु । वयस्स ! गामसअं ते दिण्णं । विदूषकः—सोत्थि होदु । ( इति नृत्यति । ) भैरवानन्दः—महाराअ ! किं ते पुणो अ पिअं कुणोमि ? राजा—जोईसर ! किमवरं पिअं वट्टदि । जदो,— कुंतलेसरसुआकरफंसप्फारसोक्खसिढिलीकिदसव्गो । पालएमि वसुहातलज्जं चक्कवट्टिपअधीरमणिज्जं ॥ २१ ॥ तथा वि इदं होदु दाव ।

विदूषकः— भो वयस्य ! भ्राम्यो दीयन्ताम् । हुतवहे लाजाञ्जलयः क्षिप्यन्ताम् । भैरवानन्दः— विवाहे दक्षिणा दीयते आचार्यस्य । राजा— दीयते । वयस्य ! ग्रामशते ते दत्तम् । विदूषकः— स्वस्ति भवतु । भैरवानन्दः— महाराज ! किं ते पुनरपि प्रियं करोमि ? राजा— योगीश्वर ! किमपरं प्रियं वर्तते ? यतः,— कुन्तलेश्वरसुताकरस्पर्शस्फारसौख्यशिथिलीकृतस्वर्गः । पालयामि वसुधातलराज्यं चक्रवर्तिपदवीरमणीयम् ॥ तथापीदं भवतु तावत् ।

१ अस्याग्रे वैतालिकः—'सुहाअ भोदु विवाहमहूत्सवो देवरस' इति पाठः ।

१२२ कर्पूरमञ्जरी

सँत्थो णंददु सज्जणाण सअलो वग्गो खलाणं पुणो णिच्चं खिज्जदु भोदु बंभणजणो सच्चासिहो सब्बदा । मेहो मुंचदु साचेदं पि सलिलं सस्सोचिअं भूतले लोओ लोहपरम्मुहो णुदिअहं धम्मे मदि भोदु अ ॥ २२ ॥ (इति निष्क्रान्ताः सर्वे ।) इति चतुर्थं जवनिकान्तरम् । सार्थो नन्दतु सज्जनानां सकलो वर्गः खलानां पुन- र्नित्यं खिद्यतु भवतु ब्राह्मणजनः सत्याशीः सर्वदा । मेघो मुञ्चतु संचितमपि सलिलं सस्योचितं भूतले लोको लोभपराङ्मुखोऽनुदिवसं धर्मे मतिर्भवतु च ॥ इति श्रीमद्द्विद्वृन्दवन्दितारविन्दसुन्दरपदद्वन्द्वकुन्दप्रतिमयशःप्रकरप्र- खरकठोरकिरणकरप्रभप्रतिभप्रभासरभट्टात्मजवासुदेवविरचिते कर्पूरमञ्जरी-प्रकाशे चतुर्थं जवनिकान्तरं समाप्तम् । समाप्तोऽयं ग्रन्थः । 1 'तणुदिभहं विप्फुरंतो मणीसिजणसअलगुणविणासअरो । रित्तत्तणदारग्गी विरमउ कमलावडकखवरिसेण ॥' इति चात्र पाठो लभ्यते । एवमेव 'जं मुद्धं, तिमिसं णवं च पणसं जे पारिभद्ददुमा 'जे षंडा कमलाण किं च कुसुमं जं केअईसंभवं । संके तुज्झ कलेवरे गुणगणं लद्धं बला तारिमा रोमंचा फुडपुट्टकंटअमिसा णेल्हंति णिस्सुच्छसा ॥ भैरवानन्दः- अण्णं किं दे पिअं करीअदु ? तथा वि इदं भोदु,— अणुदिवहं विप्फुरंतो मणीसिजणसअलगुणविणामकरो । रित्तत्तणहारग्गी विरमउ विमलाक्रडक्ख व रिसेण राजा- इदो वि परे किं पिअं जदो,- देवी रोसकसाअमाणसबई णो होइ सावत्त ए लद्धापुण्णससंकमंडलमुही सिंगारसंजीविणी । संजाभा भवि चक्कवट्टिपमदी किं अण्णमब्भत्थणं सव्वं तुज्झ अणुग्गहेण भरिअं जं माणुसे लब्भइ ॥' इत्यधिकः पाठः ।

महाकविश्रीराजशेखरविरचितं बा ल भा र त म् प्रथमोऽङ्कः नमः शिवाय संसारसरोजस्य रजस्विने । विकासाश्चर्यसूर्याय संकोचसकलेन्दवे ॥ १ ॥ अपि च,— ये सीमन्तितगात्रभस्मरजसो ये कुम्भकण्ठेषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैत्यह्रुदः । ये कुप्यद्गिरिजायिभक्तवपुषश्चित्तव्यथासाक्षिणः शंभोर्दक्षिणनासिकापुटभुवः श्वासानिलाः पान्तु वः ॥ २ ॥ ( नान्यन्ते । ) सूत्रधारः—( परिक्रम्य विचिन्त्य च । ) अहो, किमपि कमनीया कवे- रात्मन्याशीः । आद्यः कन्दो वेदविद्यालतानां जैत्रं चक्षुर्निर्निमेषं कवीनाम् । यो येनार्थी तस्य तत्प्रक्षरन्ती वाङ्मूर्तिर्मे देवता संनिधत्ताम् ॥ ३ ॥ व्यासो वैखानसयूपा सत्यः सत्यवतीसुतः । भारतीं मारतकविर्देयाद्वैपायनो मम ॥ ४ ॥ ( विशृश्य च । ) अहो मसृणोद्धता सरस्वती यायावरस्य । यदाह,— ब्राह्मभ्यः शिवमस्तु वस्तु विततं किंचिद्वयं ब्रूमहे हे सन्तः ! शृणुतावधत्त च धृतो युष्मासु सेवाञ्जलिः । यद्वा किं विनयोक्तिभिर्मम गिरां यद्यस्ति सूक्तामृतं प्रास्यन्ति स्वयमेव तत्सुमनसो याच्ञा परं दैन्यभूः ॥ ५॥ १. अस्य नाटकस्य प्रचण्डपाण्डवमित्यपि नामान्तरम्, अस्याङ्कद्वयमेव लब्धमस्माभिः.

२ बालभारतम् (पुरोऽवलोक्य च ।) कथमेते महोदयमहानगरलीलावतंसा विद्वांसः सामाजिकाः । तदेवं विज्ञापयामि । (अञ्जलिं बद्ध्वा ।) सा शुक्तिर्मधुपानकेलिचषकं वेणीविभूषामणिः सीतायाः स च कुम्भसंभवमुनेः प्राप्ता च सैकावली । पर्यङ्कः स च विद्रुमद्रुममयस्तद्रामसिंहासनं चित्रं यस्य यशोनिधिर्विजयतां सोऽयं रघोरन्वयः ॥ ६ ॥ तत्र च,― नमितमुरलमौलिः पाकलो मेकलानां रणकलितकलिङ्गः केलितट् केरलेन्दोः । अजनि जितकुलूतः कुन्तलानां कुठारो हठहृतरमठश्रीः श्रीमहीपालदेवः ॥ ७ ॥ तेन च रघुवंशमुक्तामणिना आर्यावर्त्तमहाराजाधिराजेन श्रीनिर्भयनरेन्द्र- नन्दनेनाधिकृताः सभासदः ! सर्वानिप वो गुणाकरः सप्रश्रयं विज्ञा- पयति―विदितमेतत्तु भवताम्, यदुत नाट्याचार्येण रङ्गविद्याधरेण प्रतिज्ञातम्― राजशेखरकवेर्महात्मनो बालभारतमिदं हि नाटकम् । योऽभिनेष्यति रसैर्निरन्तरं मत्सुतां स परिणेष्यति क्षितौ ॥ ८ ॥ (आकाशे ।) तत्रभवन्तः ! कि ब्रूथ―इदं हि तद्बालभारतं यस्य हि प्रचण्डपाण्डवमिति नामान्तरम् ! (अञ्जलिं बद्ध्वा ।) यदादिशन्ति परि- १. महोदयमिति कान्यकुब्ज (कनोज) नगरस्य नामान्तरम् २ मुरल मेकल कलिङ्ग- केरलकुलूत-कुन्तल-रमठाख्या देशविशेषा. ३. पाकलो हस्तिज्वरः 'गा०धारापिगन्ध- भवभूतिः । फल ' इति हर्षचरितम् 'कलभं कठ र इव कूटपाकल 'इति मालतीमाधवे द्विपणा पाकळ एव कूटपाकल'. ४, आदिश्टोऽस्मि―श्रीमहीपालदेवेन, यस्येमां पुराविदः प्रशस्तिगाथामुदाहरन्ति―'यः संक्षुद्य प्रकृतिगहनामायंचाणक्यनीतिं जित्वा नन्दान्कुसुमनगरं चन्द्रगुप्तो जिगाय । कर्णाटत्वं भुजगपशनाव तानेव हन्तु दोर्दण्डौद्य स पुनरभवच्छ्रीमहीपालदेवः ॥' इति चण्डकौशिके आर्यक्षेमीश्वरः स एवायमपि महीपालदेव इति तु न निश्चयः.

प्रथमोऽङ्कः ३ पदमेसराः । (किञ्चित्सलज्जम् ।) भवदनुचराः पञ्च भ्रातरो वयम्, पञ्चापि नाम समर्थास्तदभिनये, किं पुनरस्माकं पितृव्यपुत्राः शतं सन्ति भरतपुत्राः । ते च तदभिनेतुमिच्छन्ति, न च-ते शक्नुवन्ति । तन्निमित्तं च महदस्माभिः सह वैरं वर्तते । (आकाशे ।) किं ब्रूथ—एकविष- याभिलाषो हि वैरकन्दं कन्दलयति । भवद्भिः कुलान्तकरं वैरं तेषाम् । यतो दुर्बुद्धयस्ते सुबुद्धयो भवन्तः । उक्तं हि तेनैव महासुमन्त्रिपुत्रेण,— श्रियः प्रसूते विपदो रुणद्धि यशांसि दुग्धे मलिनं प्रमार्ष्टि । संस्कारशौचेन परं पुनीते शुद्धा हि बुद्धिः कुलकामधेनुः ॥ ९ ॥ (अञ्जलिं बद्ध्वा ।) सुगृहीतमार्यवचनम् । बद्धो वाससो ग्रन्थिः । यदिस्थ- मामनन्ति,— अनूचानो हि यद्ब्रूते सा स्वयंभूः सरस्वती । तदार्षे न मृषार्थं स्यात्सा दृष्टिर्विदुषां दृढा ॥ १० ॥ अपि च,— आपन्नार्त्तिहरः पराक्रमधनः सौजन्यवारंनिधि- स्त्यागी सत्यसुधाप्रवाहशशभृत्कान्तः कवीनां मतः । वर्ण्यः स्या गुणरत्नरोहणगिरेः किं तस्य साक्षादसौ देवो यस्य महेन्द्रपालनृपतिः शिष्यो रघुग्रामणीः ॥ ११ ॥ तत्रैवंविधो दैवज्ञानां प्रवादः,— बभूव वल्मीकभवः पुरा कविस्ततः प्रपेदे भुवि भर्तृमेण्ठताम् । स्थितः पुनर्यो भवभूतिरेथया स वर्तते संप्रति राजशेखरः ॥ १२ ॥ (आकाशे ।) किं ब्रूथ—तत्प्रस्तूयतामिति ? यदादिशन्ति गुरवः । (नेपथ्ये गीयते ।) हरचूडामणिरेन्दुर्निजगद्दीपश्च दिनकरो देवः । मासान्तसंगताविह लोकस्य दिनाय वर्तते ॥ १३ ॥

४ बालभारतम् सूत्रधारः—( आकर्ण्य । ) कथमुपक्रान्तमेव कुशीलवैः ! यद्वाल्मीकि- व्यासयोः प्रावेशिकी ध्रुवा गीयते । ( विचिन्त्य । ) ध्रुवा हि नाट्यस्य प्रथमे प्राणाः । यतः,— प्रथयति पात्रविशेषान् सामाजिकजनमनांसि रञ्जयति । अनुसंदधाति च रसान्नाट्यविधाने ध्रुवा गीतिः ॥ १४ ॥ तद्भवतु, अहमप्यनन्तरकरणीयाय सज्जो भवामि । ( इति निष्क्रान्तः । ) प्रस्तावना । ────────── ( ततः प्रविशति वाल्मीकिर्व्यासश्च । ) व्यासः—( सपादोपग्रहम् । ) भगवन् अद्भुतसंभव ! एष व्यासः पाराशर्योऽभिवादयते । वाल्मीकिः—( पृष्ठे पाणिं निधाय । ) वत्स सत्यवतेय ! स्वप्रबन्ध- परिसमाप्त्या वर्धस्व । व्यासः—परमनुगृहीतोऽस्मि । ( अञ्जलिं बद्ध्वा । ) योगीन्द्रश्छन्दसां द्रष्टा रामायणमहाकविः । वाल्मीकजन्मा जयति प्राच्यः प्राचेतसो मुनिः ॥ १५ ॥ वाल्मीकिः—अष्टादशपुराणसारसंग्रहकारिन् ! कियान्वर्तते नवे- तिहासो भारतम् ? व्यासः—पुनः पुनर्विनयोद्घाटनेन मा लज्जयतु मामुपाध्यायः । के वयं नाम रामायणमहाकवेः पुरतः ? ये विद्यापरमेश्वराः स्तुतधियो ये ब्रह्मपारायणे येषां वेदवदादृता स्मृतिमयी वाग्लोकयात्राविधौ । स्नाताः स्वर्गतरङ्गिणीमपि सदा पूतां पुनन्त्यथ ये व्युत्पत्त्या परया रसोपनिषदं रामायणस्यास्य ते ॥ १६ ॥

६ बालभारतम् वाल्मीकिः—तदेहि । प्राप्तां सायंतनीं संध्यामुपासहे । ततः श्रावयि(श्रो)ष्यामि । संप्रति हि,— अयमहिमरुचिर्भजन्प्रतीचीं कुपितवलीमुखतुण्डताम्रबिम्बः । जलनिधिमकरैरुदीक्ष्यते द्राग्व्रणरुधिरारुणमांसपिण्डलोभात् ॥ २१ ॥ अपि च,— निर्यद्वासरजीवपिण्डकरणं कुर्वन् कयोष्णैः करै- र्मोक्षिप्तं रविबिम्बमम्बरतलादस्तोचलं चुम्बति । किं च स्तोकतमःकलापकलनाइयाभायमानं मना- ग्धूमश्यामपुराणचित्ररचनारूपं जगज्जायते ॥ २२ ॥ (इति परिक्रम्य निष्क्रान्तौ ।) विष्कम्भकः । (ततः प्रविशति ब्राह्मणवेषो युधिष्ठिरो भीमसेनादयश्च) सहदेवः—इत इतः । (सर्वे परिक्रामन्ति ।) युधिष्ठिरः—वत्स सोदर वृकोदर ! परपुरंजय धनंजय ! मण्डितपा- ण्डवकुल नकुल ! द्विषद्दुःसह सहदेव ! इह हि महाराजसमाजे न जाने कमवलम्बिष्यते राधावेधकीर्तिवैजयन्ती । भीमः—(विहस्य ।) आद्या वेत्ति निजां न विक्रमकलां त्वं विश्वरक्षामणिः किंब्रूमोऽद्य किरीटिनो न घटते द्रोणेन यस्योपमा । माद्रीन्दनयोनरेन्द्र ! विनयच्छद्मं हि वीरव्रतं न भ्राता स तवास्ति यस्य पुरतो राधां परो विध्यति ॥ २३ ॥ अर्जुनः— दुर्नेमं यदि मुरारिकार्मुकं दुर्भिदं यदि शरव्यमुच्छ्रितम् । दुर्जया यदि च राजमण्डली तत्प्रभो द्रुपदजा न दुर्लभा ॥ २४ ॥ १. राधा धन्विनां लक्ष्यविशेषः

प्रथमोऽङ्कः ७ नकुलः—निखिलनरेन्द्रवृन्दाधिष्ठितान्मञ्चसंचयानपास्य मुनिप्राय- विप्रजनपरिगृहीतं मञ्चमारोहामो वयमपि विप्रवेषधारिण एव । (सर्वे समारुह्य यथोचितमुपविशन्ति ।) (नेपथ्ये ।) इँदो इदो कुमारधिट्ठजुण्णो भट्टिआरिआ अ । युधिष्ठिरः—प्राप्तेवैषा स्वयंवरमित्री । (तत प्रविशति सधृष्टद्युम्ना द्रौपदी बन्दी राज्ञी च ।) (परिक्रामितकेन) धृष्टद्युम्नः—(एकतोऽवलोक्य ।) कथं तातद्रुपदमनुग्रहीतुं महर्ष- योऽपि स्वयंवरयात्रामञ्चमध्यासते, तदेतानभ्यर्हयामि । (सप्रश्रयमञ्जलिं बध्वा ।) स्वस्त्यापस्तम्ब ! तुभ्यं त्वमसि ननु मुने ! कस्य नो माननीय- स्त्वां वन्दे याज्ञवल्क्य ! द्विजसदसि कवे ! त्वां स्तुवे भारतस्य । विश्वामित्रः पवित्रं जगति विजयते वाममग्रे ! नमस्ते विश्वप्रेष्ठे वसिष्ठे कृतनतिरपरान्स्तौमि दृप्तान्महर्षीन् ॥ २५ ॥ (द्रौपदी प्रणमति ।) धृष्टद्युम्नः—(अन्यतोऽवलोक्य ।) लक्ष्मी संचननेऽर्भुजैर्नृपतयः स्वस्त्यस्तु वः स्वागतं नन्येते गृहमेधिनां धुरि धयं यत्त्वयमभ्यागताः । दृष्टः येन भवादृशां पुनरियम्पूज्यः समाजो जग- त्युत्कण्ठा भयता च संप्रति पुरः सेयं स्थिता द्रौपदी ॥ २६ ॥ सखी—इँदो इदो भट्टिशरिआ । जग्ग्याहिवाहिणो, वामगाधिमेढुं । युधिष्ठिरः—(सस्पृहमवलोक्य स्वगतम् ) अहो लोचनचकोरी ! युवा- मन्यादृशैः पिवन्त द्रौपदीवदनेन्दुचन्द्रिकाम् । १. 'इत इतः कुमारधृष्टद्युम्नो भर्तृदारिका च' इति च्छाया २ 'इत इतो भर्तृदारिका । दिग्वाहिणि, वामगमधिष्ठतु ।' (?) इति च्छाया क० म० १

८ बालभारतम् कण्ठे मौक्तिकदाम गण्डतलयोः कार्पूरमच्छं रजः सान्द्रं चन्दनमङ्गके विचकिलस्रक्शेखरं मूर्धनि । तन्वी गाढमियं चकास्ति तनुनी चीनांशुके बिभ्रती शीतांशोरधिदेयतेव गलिता व्योम्नि द्रुतं गच्छतः ॥ २७ ॥ भीमः—(द्रौपदीसंभाषणमनुसंधाय । स्वगतम् ।) श्रोणीबन्धस्त्यजति तनुतां सेवते मध्यभागः पद्भ्यां मुक्तास्तरलगत्तयः संश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं त्वद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ २८ ॥ अर्जुनः—(स्वगतम् ।) हृदय ! कारय चक्षुषी पारणम् । पुरतो द्रौपदी । अस्याः खलु वयो विशेषोचितमधुना संभाव्यते,— शारीदूतकलाकूतूहलि मनश्छेकोक्तिशिक्षारति- र्नित्यं दर्पणपाणिना सहचरीवर्गेण चाचार्यकम् । प्रौढस्त्रीचरितानुवृत्तिषु रसो बाल्येऽपि लज्जा मना- क्स्तोकारोहिणि यौवने मृगदृशां कोऽप्येष रम्यः क्रमः ॥ २९ ॥ नकुलः—(स्वगतम् ।) नेत्रे ! यथाशक्ति विस्तारं भजेथाम् । स्मितपरिचयाद्वृत्तिर्याचामपाङ्गतराङ्गितं नयनरचितं पादन्यासो नितम्बभरालसः । अहह सुतनोर्लीलासूत्रैः कृतं पदमङ्गके वहतु मदनः शोभामात्रं धनुर्ननु संप्रति ॥ ३० ॥ सहदेवः—(स्वगतम् ।) क्षणं चक्षुषी ! निमेषदोषमपाकुरुतम् । इदमग्रे हृदयलेप्यमानूप्यं लावण्यम् । तरङ्गय दृशौ मनाक्स्थगय दिक्ष्वरणान्युत्पलैः फरो यलय जायतां सरसिजाकरो जङ्गमः । विदस्य पुनरुक्ततां सुतनु लम्पटैकायटी- मुदञ्चय मुखं भवत्ययमकाण्डचन्द्रोदयः ॥ ३१ ॥ १. 'स्तोमारोहणः' इति पाठान्तरम्.

प्रथमोऽङ्कः बन्दी—(तारस्वरमास्थाय ।) सकलभुवनरक्षाशस्ततन्द्रा नरेन्द्राः ! शृणुत गिरमुदारामादराच्छ्रावयामि । इह हि सदसि राधां यः शरव्यीकरोति सरथविजयपताका द्रौपदी तत्कलत्रम् ॥ ३२ ॥ सखी—कथं विभ्रमताण्डवितभ्रूमञ्जरीभ्रमरपङ्क्तिलाञ्छितेन नयनो- त्पलखण्डेन घूर्णमानं पिवदिव द्रौपदीवदनलावण्यामृतमितोऽभिमुखं वर्तते नरेन्द्रचक्रम् । बन्दी—अहह कुसुमायुधस्याप्रतिहतं भगवतः शासनम् । यतः— न्यस्तं ताण्डवितभ्रू चक्षुरमुना कण्ठो लुठत्पञ्चमः संवृत्तोऽस्य करोत्ययं च तरलं हारं करान्दोलनैः । मिथ्यासीत्स्मयते स्थितो भणितिभिः किं चैष वैपञ्चिको यत्सत्यं मदिरां विनैव मदनो यूनां मनोन्मादभूः ॥ ३३ ॥ कथमहंपूर्विकया सर्वे एव धनुरारोपयितुं संरभन्ते ! धृष्टद्युम्नः—हंहो कंदर्पचण्ड ! निवार्यतामियमहमहमिका महीपा- लानाम् । बन्दी—(विधिवत् ।) सर्वे कार्मुककर्कशाः क्षितिभुजः सर्वेऽपि शृङ्गारिणः सर्वे मानमदोद्धताः शृणुत मे धर्म्यं वचो बन्दिनः । गुर्वी धनुरप्युन्नम्य पलिनं तच्चाध्यवस्यत्यसौ यस्य स्याम महर्दि तद्धिततमं भीष्टा यशःपण्डिनी ॥ ३४॥ (सर्वे परिरानिरूपेन ।) बन्दी—(द्रौपदीं प्रति ।) दामोर्मूर्मिं गतागतानि कुरुते या चन्द्रलेखाद्विषे तस्याः शांतनवोऽयमुज्वल्यशाः स्वर्गापगायाः सुतः । १. इतः प्रभृत्याहर्तुमुत्सहे महद्दोर्बलं रूपवान् चण्ड इव दिवौकसैः.

१० बालभारतम् वन्दित्वैतमुदग्रभार्गवशरश्रेणीव्रणालंकृतं भीष्मं सुभ्रु ! ततः स्वयंवरनृपाः प्रत्येक्रमालोकय ॥ ३५ ॥ सखी—द्रुपदनन्दिनि ! गङ्गातनयः शान्तनव एषः । तद्गुरुत्वेन प्रणमतु । द्रौपदी—यः किल कुमारब्रह्मचारी । नमो नमः पाण्डवकौरव- पितामहाय । ( सर्वे परिकामितकेन । ) वन्दी—( स्वगतम् । ) अयं भगवतो भीष्मादनूनगरिमा द्रोणाचार्यः । ( प्रकाशं द्रौपदीं प्रति । ) सदाशिवप्रशिष्योऽयमवधिः सर्वधन्विनाम् । आकर्णपलितः सुभ्रु ! द्रोणाचार्यः प्रणम्यताम् ॥ ३६ ॥ द्रौपदी—यः पाण्डवकौरवाणां धनुर्वेदविद्यागुरुः । वन्दी—निजदोःसम्भसंभावनागर्वखर्वितविवेक न्नृपतीनवलोक्य किमाह भारद्वाजः— शिष्योऽस्मि भार्गवमुनेः कुरुपाण्डवानां कोदण्डकर्मणि गुरुस्तदिदं ब्रवीमि । हे भूभुजो जयवधूं प्रति धनूंषि धत्त मुक्त्वाऽर्जुनं तु भुवि विध्यति कोऽत्र राधाम् ॥ ३७ ॥ द्रौपदी—नमो नमस्ते द्रोणाय कलशोद्भवाय । ( सर्वे परिकामितेनेन । ) वन्दी— दूरोदञ्चिमरीचिरत्न रचनाचित्रं तनुत्रं तनो- र्द्धृत्व्य त्रिदशेश्वराय ददतो यस्य सितं चक्षुषा । पाञ्चालीवदनेन्दुसुन्दरतया तेनैव पर्यश्रुणा सोऽयं पश्यति दुर्धरं धनुरिदं राधां च राधासुतः ॥ ३८ ॥ १. राधा: यन्त्रिकां लक्ष्यविशेषः ।

प्रथमोऽङ्कः ११ (विचिन्त्य ।) अहो महाप्रभावं भार्गवं धनुः । यदमुना मम चक्षुर्ज्ञान- मुन्मीलितम् । येनास्य प्रभावं [च] भावं च भूपतीनां प्रत्यक्षमिव पश्यामि । सखी—सखि ! दानकीर्तिसंतर्पितभुवनकर्णः कर्ण एषः । द्रौपदी—यो दुर्योधनप्रसादलब्धचम्पाधिपत्यः । बन्दी—(विहस्य स्वगतम् ।) अहो महात्मनामपि कैतवानुगृहीता वृत्तयः । यदेषः,— दुर्नामं दहनसंभवं धनुः संशये न च सतां प्रवृत्तयः । अङ्गराज इति चिन्तयन्निमां भाषते व्रज पुरः कुरुद्वहः ॥ ३९॥ (सर्वे परिक्रामितकेन ।) स एव—(प्रकाशम् ।) यौवराज्याभिषेकार्हो धीरो दुर्योधनानुजः । दुःशासनो महाचेष एष मञ्चं विमुञ्चति ॥ ४० ॥ सखी—यो दुःशलप्रभृतीनामेकोनशतस्य ज्येष्ठः, कनिष्ठो दुर्योधन- नरेन्द्रस्य । धृष्टद्युम्नः—(स्वगतम् ।) यथार्थनामा दुःशासन एवायम् । चापं प्रति त्रिचतुराणि पदानि दत्त्वा कृष्णादृढग्रहणनिमित्तविषण्णचेताः । दुःशासनो नृपतिचक्रविमुक्ततार- हुंकारलज्जितमनाः शनकैः प्रयाति ॥ ४१ ॥ द्रौपदी—अपि नाम चण्डचरित एषः । बन्दी—(निरूप्य ।) नमो नमो विष्ण्ुकोदण्डपणबन्धाय । (स्वगतम् ।) द्रौपदीं परिणयन्तमर्जुनं विद्धराधमवलोक्य मायया । दोर्बलं विफलमात्मनो विदन्ब्रीडयैष विनतो निवर्तते ॥ ४२ ॥ (परिक्रामितकेन ।)

१२ बालभारतम् बन्दी— गान्धाराधिपतेः पुत्रः सुबलस्य बलीयसः । मातुलः कुरुराजस्य राजते नृपतिर्गुणैः ॥ ४३ ॥ द्रौपदी—यो द्यूतकैतवविचक्षणः श्रूयते । सखी—आम् । एतस्य किल हृदयचिन्तिता निवर्तन्ते भीमसेनस्य पुनः रक्षिता । (?) बन्दी— यात्रारुतोऽस्य चतुरङ्गचमूसमुत्थे पांसूत्करे वियति सर्पति वीतरन्ध्रे । दिग्भागनागपतिकेशवकच्छपाना- मूर्ध्न क्षणाद्गच्छति भूवलयस्य भारः ॥ ४४ ॥ ( सगतम् । ) धारितं द्रुपदजास्वयंवरे कार्मुकं शकुनिना करेण यत् । तस्य सर्वजनहासहेतवे कंधरां समधिरुह्य तत्स्थितम् ॥ ४५ ॥ ( पुनरवलोक्य विहस्य च । ) कथ विमुक्तराधावेधाभिमानस्य स्वयंवरयदुरु- चीर्ण स्कन्धाद्धनुः । ( सर्वे परिक्रामिनयेन । ) बन्दी— सिन्धुयन्त्रितयात्रोऽयं सिन्धुराजो जयद्रथः । सिन्धुपारोत्तमहयः सिन्धुरप्रतिमॊ बले ॥ ४६ ॥ अपि च,— शम्याद्वये दलितदाडिमबीजलोल्या- न्मुक्ताफलेषु करिणां रुधिराऽरुणेपु । व्योम्नः शुकाधिपततस्तरसा निरीक्ष्य नाथस्त्रियो बहु हसन्ति सहस्ततालम् ॥ ४७ ॥ द्रौपदी—यो दुर्योधनभगिनीपतिः ।

[Header] प्रथमोऽङ्कः १३

धृष्टद्युम्नः—कथं धनुरारोपणपणं प्रत्ययमुदास्ते ? बन्दी— दुःशलागुणगणेन रञ्जितो लज्जितश्च कुरुराजसंनिधौ । कौतुकागमनमात्मनो वदन्खासनान्नचलति नो जयद्रथः ॥ ४८ ॥ ( परिक्रामितेन । ) बन्दी— दुर्योधनो नृपकिरीटघटिडूरत्न- रश्मिच्छटाच्छुरितपादयुगाङ्गुलीकः । हेलाचलच्चमरनर्तितकर्णपूरः शूरः शरासनविदां प्रथमोऽयमास्ते ॥ ४९ ॥ यस्य च,— पादो वाससि सान्द्रकुङ्कुमरसन्यासप्रसक्ताकृति- र्यातुर्दिग्विजये न यैः प्रणयितां नीतः प्रणामाञ्जलेः । ते प्रत्यग्रकपालपात्ररुचिभिस्तारास्थिहारार्थिभिः कङ्कालव्रतमीप्सुभिश्च मुदितैः कापालिकैर्याचिताः ॥ ५० ॥ द्रौपदी—यः खण्डपरशुचूडामणेः कुलालकरणम् । सखी—आं, सखि ! स एवेषः । द्रौपदी—अस्तीदम् । किं पुनः समुद्दीपितजतुभवनत्वेन विपाशन- दातृत्वेन च च्छलप्रहारी एषः । बन्दी—किमाह महाराजदुर्योधनः । निर्दिशन्तु निजबाहुविक्रमं शार्ङ्गिनापि धनुरीह पार्थिवाः । साभिमानहृदयस्तु मादृशः कः पणेन परिणेतुमिच्छति ॥ ५१ ॥ (विचिन्त्य स्वगतम् ।) कथमभिमानाङ्गीकरणेन परिहार एषः । (परिक्रा- मितेन प्रकाशम् ।) स एष भगवतो वासुदेवस्यापि वन्दनीयो बलभद्रः । १. वग्द्स.