भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

॥ काशिका ॥ २ ॥ २ ॥ १०९ वज्रस्य भर्त्ता । ननु च भर्तृशब्दो ह्ययं याजकादिषु पठ्यते*। संबन्धिशब्दस्य पतिपर्यायस्य तत्र ग्रहणम्† अकः खल्वपि । ओदनस्य भोजकः । सक्तूनां पायकः ॥ नित्यं क्रीडाजीविकयोः ॥ १७ ॥ नेति निवृत्तं न तृजकौ । नित्यं समासो विधीयते । क्रीडायां जीवि- कायां च नित्यं षष्ठी समस्यते, तत्पुरुषश्च समासो भवति । तृच् क्रीडाजी- विकयो नास्तीत्यक एवोदाह्रियते । उद्दालकपुष्पभञ्जिका । वारणपुष्पप्रचा- यिका । जीविकायाम् । दन्तलेखकः । नखलेखकः । क्रीडाजीविकयोरिति किम् । ओदनस्य भोजकः ॥ कुगतिप्रादयः ॥ १८ ॥ नित्यमिति वर्तते । कुशब्दो ऽव्ययं गृह्यते, गत्यादिसाहचर्यात्, न द्रव्यवचनः । कुगतिप्रादयः समर्थेन शब्दान्तरेण सह नित्यं समस्यन्ते, तत्पु- रुषश्च समासो भवति । कुः पापार्थे । कुपुरुषः । गति । उररीकृतम् । यदूरीक- रोति । प्रादयः । दुर्निन्दायाम् । दुष्पुरुषः । स्वती पूजायाम् । सुपुरुषः । अतिपुरुषः । आडीषदर्थे । आपिङ्गलः । प्रायिकं चैतदुपाधिवचनम्, अन्यत्रापि हि समासो दृश्यते । कोष्णम् । कदुष्णम् । कवोष्णम् । दुष्कृतम् । अतिस्तुतम् । आबडम् । इति ॥ प्रादयो गताद्यर्थे प्रथमया ॥ * ॥ प्रगत आचार्यः, प्राचार्यः । प्रान्तेवासी ॥ अत्यादयः क्रान्ताद्यर्थे द्वितीयया ॥ * ॥ अतिक्रान्तः खट्वां, अतिखट्वः । अतिमालः ॥ अवादयः कृष्टाद्यर्थे तृतीयया ॥ * ॥ अवकृष्टः कोकि- लया, अवकोकिलः ॥ पर्यादयो ग्लानाद्यर्थे चतुर्थ्या ॥ * ॥ परिग्लानो ऽध्याय- नाय, पर्यध्ययनः । अलं कुमार्यै, अलंकुमारिः ॥ निरादयः क्रान्ताद्यर्थे पञ्च- म्या ॥ * ॥ निष्क्रान्तः कौशाम्ब्याः, निष्कौशाम्बिः । निर्वाराणसिः ॥ इवेन सह समासो विभक्त्यलोपः पूर्वपदप्रकृतिस्वरत्वं च वक्तव्यम् ॥ * ॥ वाससीइव ॥ प्रादिप्रसङ्गे कर्मप्रवचनीयानां प्रतिषेधो वक्तव्यः ॥ * ॥ वृक्षं प्रति विद्योतते विद्युत् । साधुर्देवदत्तो मातरं प्रति ॥ उपपदमतिङ् ॥ १९ ॥ नित्यमिति वर्तते । उपपदमतिङन्तं समर्थेन शब्दान्तरेण सह समस्यते नित्यं, तत्पुरुषश्च समासो भवति । कुम्भकारः । नगरकारः । अतिङिति किम् । एधानाहारको व्रजति । ननु च सुप सुपेति वर्तते, तत्र कुतस्तिङन्तेन

  • पठ्यते, इत्यस्याग्रे 'तत्र पाठसामर्थ्यात्समासेन भवितव्यम् । नैतदस्ति' इति क्व चिदधिकम् । † ग्रहणमित्यस्याग्रे 'इदं तु क्लिष्टमक्लप्त' इति पाठः कुत्र चिदधिकः ।

१०२ ॥ काशिका ॥ २ ॥ २ ॥ सह समासप्रसङ्गः। एवं तर्हि ज्ञापयति ऽगतेर्योगादयोः सुप् सुपेति न संबध्यत- इति। तेन गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेरित्येतदु- पपन्नं भवति। अश्वक्रीती। धनक्रीती॥ अमैवाव्ययेन ॥ २० ॥ पूर्वेणैव समासे सिद्धे नियमार्थं वचनम्। अव्ययेनोपपदस्य यः समासः सोऽमैव भवति, नान्येन। स्वादुङ्कारं भुङ्क्ते। संपन्नङ्कारं भुङ्क्ते। लवणङ्कारं भुङ्क्ते। अमैवेति किम्। कालसमयवेलासु तुमुन्। कालो भोक्तुम् *। एवकारकरणमु- पपदविशेषणार्थम्। अमैव यत्तुल्यविधानमुपपदं तस्य समासो यथा स्यात्, अमा चान्येन च यत्तुल्यविधानं तस्य मा भूत्। अग्रेभुक्त्वा। अग्रे भोजम्॥ तृतीयाप्रभृतीन्यन्यतरस्याम् ॥ २१ ॥ अमैवेत्यनुवर्त्तते। उपदंशस्तृतीयायामित्यतः प्रभृति यान्युपपदानि तान्य- मैवाव्ययेन सहान्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उभयत्र विभाषेयम्। यदमैव तुल्यविधानमुपपदं तस्य प्राप्ते, यथोपदर्शस्तृतीयाया- मिति। यत्पुनरमा चान्येन च तुल्यविधानं तस्याप्राप्ते, यथा ऽव्यये यथाभिप्रे- ताख्याने कृञः क्त्वाणमुलाविति। मूलकोपदंशं भुङ्क्ते। मूलकेनोपदंशं भुङ्क्ते। उच्चैः- कारमाचष्टे। उच्चैः कारम्। अमैवेत्येव। पर्याप्तिवचनेष्वलमर्थेषु। पर्याप्तो भोक्तुम्। प्रभुर्भोक्तुम्॥ क्त्वा च ॥ २२ ॥ अमैवेति पूर्वयोगे ऽनुवृत्तं तेनान्यत्र न प्राप्नोतीति वचनमारभ्यते। क्त्वा- प्रत्ययेन सह तृतीयाप्रभृतीन्युपपदानि अन्यतरस्यां समस्यन्ते, तत्पुरुषश्च समासो भवति। उच्चैःकृत्य। उच्चैः कृत्वा। अव्यये यथाभिप्रेताख्याने इति क्त्वाप्र- त्ययः। समासपक्षे ल्यबेव। तृतीयाप्रभृतीनीत्येव। अलं कृत्वा। खलु कृत्वा॥ शेषो बहुव्रीहिः ॥ २३ ॥ † उपयुक्तादन्यः शेषः। शेषः समासो बहुव्रीहिसंज्ञो भवति। कश्च शेषः। यत्रान्यः समासो नोक्तः। वक्ष्यति। अनेकमन्यपदार्थे। चित्रगुः। शब- लगुः। कुब्जोन्मरासङ्गः। शेष इति किम्। उन्मत्तगङ्गम्। लोहितगङ्गम्। बहु- व्रीहिप्रदेशाः न बहुव्रीहावित्येवमादयः॥ अनेकमन्यपदार्थे ॥ २४ ॥ अनेकं सुबन्तमन्यपदार्थे वर्त्तमानं समस्यते, बहुव्रीहिश्च समासो भवति।

  • 'समयो भोक्तुम्। वेला भोक्तुम्' । इत्यधिकं क्व चित्। † तत्पुरुष इति निवृत्तमिति क्व चिदधिकम्।

॥ काशिका ॥ २ । २ ॥ १०५

प्रथमाथमेकं वर्जयित्वा सर्वेषु विभक्त्यर्थेषु बहुव्रीहिर्भवति । प्राप्तमुदकं ग्रामं, आप्तोदको ग्रामः । ऊढरथो ऽनड्वान् । उपहृतपशू रुद्रः । उद्धृतौदना स्थाली । चित्रगुर्देवदत्तः । वीरपुरुषको ग्रामः । प्रथमार्थे तु न भवति । वृष्टे देवे गतः । अनेकग्रहणं किम् । बहूनामपि यथा स्यात् । सुसूक्ष्मजटकेशीन सुलभाजिनवाससा । पुत्री पर्वतराजस्य कुतो हेतोर्विवाहिता * ॥ बहुव्रीहिः समानाधिकरणानामिति वक्तव्यम् ॥ * ॥ व्यधिकरणानां मा भूत् । पञ्चभिर्भुक्तमस्य ॥ अव्ययानां च बहुव्रीहिर्वक्तव्यः ॥ * ॥ उच्चैर्मुखः । नीचैर्मुखः ॥ सप्तम्युपमानपूर्वपदस्योत्तरपदलोपश्च वक्तव्यः ॥ * ॥ कण्ठे स्थितः कालो ऽस्य, कण्ठेकालः । उरसिलोमा । उष्ट्रस्य मुखमिव मुखं यस्य स, उष्ट्रमुखः । खरमुखः ॥ समुदायविकारषष्ठ्याश्च बहुव्रीहिरुत्तरपदलोपश्चेति वक्तव्यम् ॥ * ॥ केशानां संघातः, केशसंघातः, केशसंघातश्चूडा ऽस्य केशचूडः । सुवर्णस्य विकारो ऽलंकारो ऽस्य सुवर्णालंकारः ॥ प्रादिभ्यो धातुजस्योत्तरपदस्य लोपश्च वा बहु- व्रीहिर्वक्तव्यः ॥ * ॥ प्रपतितं पर्णमस्य, प्रपर्णः । प्रपतितं पलाशमस्य, प्रपलाशः ॥ नञो ऽस्त्यर्थानां बहुव्रीहिर्वा चोत्तरपदलोपश्च वक्तव्यः ॥ * ॥ अविद्यमानः पुत्रो यस्य, अपुत्रः । अविद्यमानभार्यः, अभार्यः ॥ सुबधिकारे ऽस्तिक्षीरादीनां बहुव्रीहिर्वक्तव्यः ॥ * ॥ अस्तिक्षीरा ब्राह्मणी । अस्त्यादयो निपाताः ॥ संख्या ऽव्ययासन्नादूराधिकसंख्याः संख्येये ॥ २५ ॥ संख्येये या संख्या वर्तते तया सहाव्ययासन्नादूराधिकसंख्याः समस्यन्ते, बहु- व्रीहिश्च समासो भवति । अव्यय । उपदशाः । उपविंशाः । आसन्नदशाः । आसन्न- विंशाः । अदूरदशाः । अदूरविंशाः । अधिकदशाः । अधिकविंशाः । संख्या । द्वित्राः । त्रिचतुराः । द्विदशाः । संख्येयेति किम् । पञ्च ब्राह्मणाः । अव्ययासन्नादूराधिक- संख्या इति किम् । ब्राह्मणाः पञ्च । संख्येये इति किम् । अधिका विंशतिर्गवाम् ॥ दिङ्नामान्यन्तराले ॥ २६ ॥ दिशां नामानि दिङ्नामानि । दिङ्नामानि सुबन्तानि अन्तराले वाच्ये समस्यन्ते, बहुव्रीहिश्च समासो भवति । दक्षिणस्याश्च पूर्वस्याश्च दिशोर्यद- न्तरालं, दक्षिणपूर्वा दिक् । पूर्वोत्तरा । उत्तरपश्चिमा । पश्चिमोत्तरिका ॥ सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः ॥ * ॥ नामग्रहणं रूढ्यर्थम् । इह मा भूत् । ऐन्द्र्याश्च कौबेर्याश्च दिशोर्यदन्तरालमिति ॥

  • सुसूक्ष्मजटकेशीन सुलभाजिनवाससा । डमर्गावलिहस्तेन कुतोऽगौर्न च डिण्डिमिति ॥ इति पा० २ † वृत्तिमात्रे इत्याख्याते पूर्वपदस्योपाधि कुत्र चित्त पाठः।

१०४ ॥ काशिका ॥ २ ॥ २ ॥ तत्र तेनेदमिति सरूपे ॥ २७ ॥ तत्रेति सप्तम्यन्तं गृह्यते । तेनेति तृतीयान्तम् । सरूपग्रहणं प्रत्येकम- भिसंबद्ध्यते । तत्रेति सप्तम्यन्ते सरूपे पदे तेनेति च तृतीयान्ते इदमित्येतस्मि- न्नर्थे समस्येते, बहुव्रीहिश्च समासो भवति । इतिकरणश्चेह विवक्षार्थो लौकि- कमर्थमनुसारयति । ततो ग्रहणं प्रहरणं कर्मव्यतिहारो युद्धं च समासार्थ इति सर्वमितिकरणाल्लभ्यते । यत्तत्रेति निर्दिष्टं ग्रहणं चेत्तद्भवति, यत्तेनेति निर्दिष्टं प्रहरणं चेत्तद्भवति, यदिदमिति निर्दिष्टं युद्धं चेत्तद्भवति । केशेषुकेशेषु च गृहीत्वा इदं युद्धं वृत्तं, केशाकेशि । कचाकचि । दण्डैश्च दण्डैश्च प्रहृत्य इदं युद्धं वृत्तं, दण्डादण्डि । मुष्टामुष्टि । इच् कर्मव्यतिहारेऽति इच् समा- सान्तः, स

॥ काशिका ॥ २ ॥ २ ॥ १०५ राजदन्तादिषु परम् ॥ ३१ ॥ पूर्वनिपाते प्राप्ते परप्रयोगाथे वचनम् । राजदन्तादिषु परमुपसर्जनं प्रयो- क्तव्यम् । न केवलमुपसर्जनस्य, अन्यस्यापि यथालक्षणं विहितस्य पूर्वनिपातस्या- पवादः परनिपातो विधीयते । दन्तानां राजा, राजदन्तः । वनस्याग्रे, अग्रेव- नम् । निपातनादलुक् । राजदन्तः । अग्रेवणम् । लिप्तवासितम् । नग्नमुषि- तम् । सिक्तसंमृष्टम् । दृष्टलुञ्चितम् । अवक्लिवपक्वम् । अर्पिताप्तम् । उप्त- गाढम् । पूर्वकालस्य परनिपातः । उलूखलमुसलम् । तण्डुलकिण्वम् । दृषदुप- लम् । आश्वलायनबभ्रवी । चित्ररथबाह्लीकम् । आवन्त्यश्मकम् । शूद्रार्यम् । स्नातकराज्ञानौ । विष्वक्सेनार्जुनौ । अक्षिभ्रुवम् । दारगवम् । शब्दार्थौ । धर्मार्थौ । कामार्थौ । अनियमत्वात्रेव्यते । अर्थशब्दौ । अर्थधर्मौ । अर्थकामौ । तत्कथं वक्तव्यमिदम् । धर्मादिषूभयमिति । वैकारिमलम् । गजवाजम् । गोपा- लधानोपूलासम् । पूलासकरकण्डम् । स्थूलपूलासम् । उशीरबीजम् । सिद्धा- स्यामु । चित्रास्वाती । भार्यापती । जायापती । जम्पती । दम्पती । जायाश- ब्दस्य जन्भावो दम्भावश्च निपात्यते । पुत्रपती । पुत्रपशु । केशश्मश्रु । श्मश्रु- केशो । शिरोबीजम् । सर्पिर्मधुनी । मधुसर्पिषी । आद्यन्तौ । अन्तादी । गुणवृद्धी । वृद्धिगुणौ ॥ द्वन्द्वे घि ॥ ३२ ॥ पूर्वमिति वर्तते । द्वन्द्वे समासे घ्यन्तं पूर्वं प्रयोक्तव्यम् । पटुगुप्तौ । मृदुगुप्तौ । अनेकप्राप्तावेकस्य नियमः, शेषे त्वनियमः । पटुमृदुशुक्काः । पटु- शुक्रमृदवः । द्वन्द्वइति किम् । विस्पष्टपटुः ॥ अजाद्यदन्तम् ॥ ३३ ॥ द्वन्द्वइति वर्तते * । अजाद्यदन्तं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्त- व्यम् । उष्ट्रखरम् । उष्ट्रशश कम् ॥ बहुष्वनियमः ॥ * ॥ अश्वस्थेन्द्राः । इन्द्रर- थाश्वाः ॥ द्वन्द्वे घञ्जाद्यदन्त विप्रतिषेधेन ॥ * ॥ इन्द्राग्नी । इन्द्रवायू । तपर- करणं किम् । आश्वारुशौ ऋक्षाश्वे इति वा ॥ अल्पाच्तरम् ॥ ३४ ॥ द्वन्द्वइति वर्तते । अल्पाच्तरं शब्दरूपं द्वन्द्वे समासे पूर्वं प्रयोक्तव्यम् । प्लक्षश्च न्यग्रोधश्च, प्लक्षन्यग्रोधौ । धवखदिरपलाशाः । बहुष्वनियमः । शहुदु- न्दुभिवीणाः । वीणाशहुन्दुभयः ॥ * ऋतुनक्षत्राणामानुपूर्येण समानाक्षराणां पूर्वनिपातो वक्तव्यः ॥ * ॥ हेमन्तशिशिरवसन्ताः । चित्रास्वाती । कृत्तिका-

  • पूर्वमिति चेति क्व चिदधिकम् ।

ाविति वर्तते इति क्व चिदधिकः पाठः ।" "बहुव्रीहाविति वर्तते इति क्व चिदधिकः पाठः ।" Yes, exactly: "* बहुव्रीहाविति वर्तते इति क्व चिदधिकः पाठः ।"

Let's double-check all lines carefully from top to bottom.

Line 1: १०६ ॥ काशिका ॥ २ ॥ २ ॥

Line 2: रोहिण्यौ । समानाक्षराणामिति किम् । ग्रीष्मवसन्तो ॥ लघ्वक्षरं पूर्वं निपत-

Line 3: तीति वक्तव्यम् ॥ * ॥ कुशकाशम् । शरशादम् ॥ अभ्यर्हितं च पूर्वं निपततीति

Line 4: वक्तव्यम् ॥ * ॥ मातापितरौ । श्रद्धामेधे । दीक्षातपसी ॥ वर्णानामानुपूर्व्येण

Line 5: पूर्वनिपातः ॥ * ॥ ब्राह्मणक्षत्रियविट्शूद्राः । समानाक्षराणामित्यत्र नास्ति ॥

Line 6: भ्रातुश्च ज्यायसः पूर्वनिपातो वक्तव्यः ॥ * ॥ युधिष्ठिरार्जुनौ ॥ संख्याया

Line 7: अल्पीयस्याः पूर्वनिपातो वक्तव्यः ॥ * ॥ द्वित्राः । त्रिचतुराः । नवतिशतम् ॥

Line 8: सप्तमीविशेषणे बहुव्रीहौ ॥ ३५ ॥

Line 9:

॥ काशिका ॥ २ ॥ ३ ॥ १०४ शब्दाः कर्मधारये समासे वा पूर्वे प्रयोक्तव्याः । कडारजैमिनिः । जैमिनिकडारः । कडार । गडुल । काण । खञ्ज । कुण्ठ । खञ्जर । खलति । गौर । एडु । भिक्षुक । पिङ्गल । तनु । वटर । कर्मधारय इति किम् । कडारपुरुषो ग्रामः ॥ इति श्रीजयादित्यरचितायां काशिकायां वृत्तौ द्वितीयस्याध्यायस्य द्वितीयः पादः ॥ ॥ अथ द्वितीयाध्यायस्य तृतीयः पादः ॥ अनभिहिते ॥ १ ॥ अनभिहितइत्यधिकारोयं वेदितव्यः । यदित ऊर्ध्वमनुक्रमिष्यामो ऽनभि- हितइत्येवं तद्वेदितव्यम् । अनभिहिते ऽनुक्ते ऽनिर्दिष्टे कर्मादौ विभक्तिर्भवति । केनानभिहिते, तिङ्कृत्तद्धितसमासैः, परिसंख्यानम् । वक्ष्यति कर्मणि द्वितीया । कटं करोति । ग्रामं गच्छति । अनभिहितइति किम् । तिङ् । क्रियते कटः । कृत् । कृतः कटः । तद्धित । शत्यः । शतिकः । समास । प्राप्तमुदकं यं ग्रामं, प्राप्तोदको ग्रामः । परिसंख्यानं किम् । कटं करोति भीष्ममुदारं दर्शनीयम् । बहुषु बहुवच- नमित्येवमादिना संख्यावाच्यत्वेन विभक्तीनामुपदिष्टा, तत्र विशेषणार्थमिदमा- रभ्यते, अनभिहितकर्माद्याश्रयेष्वेकत्वादिषु द्वितीयादयो वेदितव्या इति ॥ कर्मणि द्वितीया ॥ २ ॥ द्वितीयादयः शब्दाः पूर्वाचार्यैः सुपां त्रिकेषु स्मर्यन्ते, तैरेवात्र व्यव- हारः । कर्मणि कारके या संख्या तत्र द्वितीया विभक्तिर्भवति । कटं करोति । ग्रामं गच्छति । उभसर्वतसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीया ऽऽम्रेडितान्तेषु ततो ऽन्यत्रापि दृश्यते ॥ * ॥ उभयतो ग्रामम् । सर्वतो ग्रामम् । धिग्देवदत्तम् । उपर्युपरि ग्रामम् । अध्यधि ग्रामम् । अधोऽधो ग्रामम् ॥ अभितःपरितःसमयानिकषाहाप्रतियोगेषु च दृश्यते ॥ * ॥ अभितो ग्रामम् । परितो ग्रामम् । समया ग्रामम् । निकषा ग्रामम् । हा देवदत्तम् । बुभुक्षितं न प्रति भाति किं चित् ॥ तृतीया च होश्छन्दसि ॥ ३ ॥ कर्मणीति वर्तते । द्वितीयायां प्राप्तायां तृतीया विधीयते, च्छन्दोऽर्था च भवति । छन्दसि विषये जुहोतेः कर्मणि कारके तृतीया विभक्तिर्भवति द्वितीया च । यवाग्वा ऽग्निहोत्रं जुहोति । यवागूमग्निहोत्रं जुहोति । छन्द- सीति किम् । यवागूमग्निहोत्रं जुहोति ॥

१०८ ॥ काशिका ॥ २ ॥ ३ ॥ अन्तरान्तरेण युक्ते ॥ ४ ॥ द्वितीया स्वर्यते न तृतीया । अन्तरान्तरेणशब्दौ निपातौ साहचर्याद्- स्ते। ताभ्यां योगे द्वितीया विभक्तिर्भवति । अनुप्रवादो योगः । तत्रान्तराशब्दो मध्यमाधेयप्रधानमाचष्टे । अन्तरेणशब्दस्तु तच्च विनार्थं च । अन्तरा त्वां च मां च कमण्डलुः । अन्तरेण त्वां च मां च कमण्डलुः * । अन्तरेण पुरुषकारं न किं चिलभ्यते । युक्तग्रहणं किम् । अन्तरा तक्षशिलां च पाटलिपुत्रं सुघ्नस्य प्राकारः ॥ कालाध्वनोरत्यन्तसंयोगे ॥ ५ ॥ कालशब्देभ्यो ऽध्वशब्देभ्यश्च द्वितीया विभक्तिर्भवति अत्यन्तसंयोगे गम्यमाने † । क्रियागुणद्रव्यैः साकल्येन कालाध्वनोः संबन्धो ऽत्यन्तसंयोगः । मासम्धीते । संवत्सरमधीते । मासं कल्याणी । संवत्सरं कल्याणी । मासं गुडधानाः । संवत्सरं गुडधानाः । अध्वनः खल्वपि । क्रोशमधीते । योजनम- धीते । क्रोशं कुटिला नदी । योजनं कुटिला नदी । क्रोशं पर्वतः । योजनं पर्वतः । अत्यन्तसंयोग इति किम् । मासस्य द्विरधीते । क्रोशस्यैकदेशे पर्वतः ॥ अपवर्गे तृतीया ॥ ६ ॥ कालाध्वनोरत्यन्तसंयोग इति वर्तते । अपवर्गः फलप्राप्तौ सत्यां क्रिया- परिसमाप्तिः । अपवर्गे गम्यमाने कालाध्वनोरत्यन्तसंयोगे तृतीया विभक्तिर्भे- वति । मासेनानुवाको ऽधीतः । संवत्सरेणानुवाको ऽधीतः । अध्वनः । क्रोशेना- नुवाको ऽधीतः । योजनेनानुवाको ऽधीतः । अपवर्ग इति किम् । क्रोशमधीतो ऽनुवाकः । मासमधीतः । कर्तृव्यावृत्तौ फलसिद्धेरभावात् तृतीया न भवति । मासमधीतो ऽनुवाको न चानेन गृहीतः ॥ सप्तमीपञ्चम्यौ कारकमध्ये ॥ ७ ॥ कालाध्वनोरिति वर्तते । कारकमध्ये यौ कालाध्वानौ ताभ्यां सप्त- मीपञ्चम्यौ विभक्ती भवतः । अद्य भुक्त्वा देवदत्तो द्व्यहे द्व्यहाद्वा भोक्ता । त्र्यहे त्र्यहाद्भोक्ता । कर्तृशक्त्योर्मध्ये कालः । इहस्थो ऽयमिष्वासः क्रोशे लक्ष्यं विध्यति । क्रोशाल्लक्ष्यं विध्यति । कर्तृकर्मणोः कारकयोः कर्मोपादानयोः कर्मो- धिकरणयोर्वा मध्ये क्रोशः । संख्यातानुदेशो न भवत्यस्वरितत्वात् ॥ कर्मप्रवचनीययुक्ते द्वितीया ॥ ८ ॥ कर्मप्रवचनीयैर्युक्ते द्वितीया विभक्तिर्भवति । अनुर्लक्षणे । शाकल्यस्य संहितामनुप्रावर्षत् । अगस्त्यमन्वसिच्यन्तप्रजाः ॥

  • तव मम मध्ये कमण्डलुरित्यर्थः इत्यादिह क्व चित् । † अनुप्रवादो ऽयं योग इत्यादिह क्व चित् ।

॥ काशिका ॥ २ । ३ ॥ १०९ यस्मादधिकं यस्य चेश्वरवचनं तत्र सप्तमी ॥ ९ ॥ कर्मप्रवचनीययुक्तइति वर्तते। यस्मादधिकं यस्य चेश्वरवचनं कर्मप्रवचनी- यैर्युक्ते तत्र सप्तमी विभक्तिर्भवति। उपखार्यां द्रोणः। उपनिष्के कार्षापणम्। यस्य चेश्वरवचनमिति स्वस्वामिनोर्द्वयोरपि पर्यायेण सप्तमी विभक्तिर्भवति। अधि ब्रह्मदत्ते पञ्चालाः, अधि पञ्चालेषु ब्रह्मदत्तः, इति। द्वितीयापवादो योगः ॥ पञ्चम्यपाङ्परिभिः ॥ १० ॥ अप आङ् परि इत्येतैः कर्मप्रवचनीयैर्येंगे पञ्चमी विभक्तिर्भवति। अप त्रिगर्तेभ्यो वृष्टो देवः। आ पाटलिपुत्राद्वृष्टो देवः। परिपरि त्रिगर्तेभ्यो वृष्टो देवः। अपेन साहचर्यात्परिर्वर्जनार्थस्य ग्रहणम्। तेनेह न भवति। वृक्षं परि विद्योतते विद्युत् ॥ प्रतिनिधिप्रतिदाने च यस्मात् ॥ ११ ॥ मुख्यसदृशः प्रतिनिधिः। दत्तस्य प्रतिनिर्यातनं प्रतिदानम्। यस्मात्प्र- तिनिधिर्यतश्च प्रतिदानं तत्र कर्मप्रवचनीययुक्ते पञ्चमी विभक्तिर्भवति। अभि- मन्युरर्जुनतः प्रति। प्रद्युम्नो वासुदेवतः प्रति। माषानस्मैतिलेभ्यः प्रतियच्छति। ननु च प्रतिनिधिप्रतिदाने कर्मप्रवचनीययुक्ते न तु यतः प्रतिनिधिप्रतिदाने। नैष दोषः। संबन्धसंबन्धात्तस्यापि योगो ऽस्त्येव ॥ गत्यर्थकर्मणि द्वितीयाचतुर्थ्यो चेष्टायामनध्वनि ॥ १२ ॥ गत्यर्थानां धातूनां चेष्टाक्रियाणां परिस्पन्दक्रियाणां कर्मणि कारके ऽध्व- वर्जिते द्वितीयाचतुर्थ्यौ भवतः। ग्रामं गच्छति। ग्रामाय गच्छति। ग्रामं व्रजति। ग्रामाय व्रजति। गत्यर्थग्रहणं किम्। ओदनं पचति। कर्मणीति किम्। अश्वेन व्रजति। चेष्टायामिति किम्। मनसा पाटलिपुत्रं गच्छति। अनध्वनीति किम्। अध्वानं गच्छति। अध्वन्यर्थग्रहणम्। पन्थानं गच्छति। मार्गं गच्छति। आस्थितप्रतिषेधश्चायं विज्ञेयः। आस्थितः संप्राप्तः, आक्रान्त उच्यते। यत्र उत्पथेन पन्थानं गच्छति, तत्र भवितव्यमेव चतुर्थ्या। पथे गच्छ- तीति। द्वितीयाग्रहणं किम्। न चतुर्थ्यत्र विकल्प्येत। अपवादविषये ऽपि यथा स्यात्। ग्रामं गन्ता। ग्रामाय गन्ता। कृद्योगलक्षणा षष्ठी न भवति ॥ चतुर्थी संप्रदाने ॥ १३ ॥ संप्रदाने कारके चतुर्थी विभक्तिर्भवति। उपाध्यायाय गां ददाति। माणवकाय भिक्षां ददाति। देवदत्ताय रोचते। पुष्पेभ्यः स्पृहयति। इत्यादि ॥ चतुर्थीविधाने तादर्थ्यउपसंख्यानम् ॥ * ॥ यूपाय दारु। कुण्डलाय हिर- ण्यम्। रन्धनाय स्थाली अवहननायोदूखलम् ॥ क्लृपिसंपद्यमाने चतुर्थी

११० ॥ काशिका ॥ २ ॥ ३ ॥ वक्तव्यम् ॥ * ॥ मूत्राय कल्पते यवागूः । उच्चाराय कल्पते यवागूः । कृपीत्य- र्थेनिर्देशः । मूत्राय संपद्यते यवागूः । मूत्राय जायते यवागूः ॥ उत्पातेन ज्ञाप्यमाने चतुर्थी वक्तव्या ॥ * ॥ वाताय कपिला विद्युदातपायातिलोहिनी । पीता वर्षाय विज्ञेया दुर्भिक्षाय सिता भवेत् ॥ हितयोगे चतुर्थी वक्तव्या ॥ * ॥ गोभ्यो हितम् । अरोचकिने हितम् ॥ क्रियार्थोपपदस्य च कर्मणि स्थानिनः ॥ १४ ॥ क्रिया क्रियार्था उपपदं यस्य सो ऽयं क्रियार्थोपपदः । तुमुन्ण्वुलौ क्रियायां क्रियार्थायामित्येष विषयो लक्ष्यते । क्रियार्थोपपदस्य च स्थानिनो ऽप्रयुज्यमानस्य धातोः कर्मणि कारके चतुर्थी विभक्तिर्भवति । द्वितीयापवादो योगः । एधेभ्यो व्रजति । पुष्पेभ्यो व्रजति । क्रियार्थोपपदस्येति किम् । प्रविश्य पिण्डीम् । प्रविशतर्पणम् । भक्तिरत्र स्थानी न तु क्रियार्थोपपदः । कर्मणीति किम् । एधेभ्यो व्रजति शकटेन । स्थानिन इति किम् । एधानाहर्तुं व्रजति ॥ तुमर्थाच्च भाववचनात् ॥ १५ ॥ तुमुना समानार्थस्तुमर्थः । तुमर्थभाववचनप्रत्ययान्तात् प्रातिपदिकाच्च- तुर्थी विभक्तिर्भवति । भाववचनाश्चेति वक्ष्यति, तस्येदं ग्रहणम् । पाकाय व्रजति । त्यागाय व्रजति । भूतये व्रजति । संपत्तये व्रजति । तुमर्थादिति किम् । पाकः, त्यागो, रागः । भाववचनादिति किम् । कारको व्रजति ॥ नमःस्वस्तिस्वाहास्वधालंवषड्योगाच्च ॥ १६ ॥ नमः स्वस्ति स्वाहा स्वधा ऽलं वषट् इत्येतैर्योगे चतुर्थी विभक्तिर्भव- ति । नमो देवेभ्यः । स्वस्ति प्रजाभ्यः । स्वाहा ऽग्नये । स्वधा पितृभ्यः । अलं मल्लॊ मल्लाय । अलमिति पर्याप्त्यर्थग्रहणम् । प्रभुर्मल्लो मल्लाय । शक्तो मल्लॊ मल्लाय । वषडग्नये । वषडिन्द्राय । चकारः पुनरस्यैव समुच्चयार्थः । तेनाशीर्विवक्षायामपि षष्ठीं बाधित्वा चतुर्थ्येव भवति । स्वस्ति गोभ्यो भूयात् । स्वस्ति ब्राह्मणेभ्यः ॥ मन्यकर्मण्यनादरे विभाषा ऽप्राणिषु ॥ १७ ॥ मन्यतेः कर्मणि, मन्यकर्मणि । मन्यकर्मणि प्राणिवर्जिते विभाषा चतुर्थी विभक्तिर्भवति अनादरे गम्यमाने । अनादरस्तिरस्कारः । न त्वा तृणं मन्ये । न त्वा तृणाय मन्ये । न त्वा बुसं मन्ये । न त्वा बुसाय मन्ये । मन्यातिग्रहणं किम् । न त्वा तृणं चिन्तयामि । विकरणनिर्देशः किमर्थः । न त्वा तृणं मन्वे । अनादरेति किम् ।

॥ काशिका ॥ २ ॥ ३ ॥ १११

अश्मानं दृषदं मन्ये मन्ये काष्ठमुलूखलम् । वन्ध्यायास्तं सुतं मन्ये यस्य माता न पश्यति ॥ अप्राणिष्विति किम् । न त्वा शृगालं मन्ये ॥ यदेतदप्राणिष्विति तद- न्नावादिष्विति वक्तव्यम् ॥ * ॥ व्यवस्थितविभाषा च ज्ञेया । न त्वा नावं मन्ये । नावमुत्तीर्णे न नाव्यम् । न त्वा ऽन्नं मन्ये । यावन्न भुक्तं श्राद्धम् । प्राणिषु तूभयम् । न त्वा काकं मन्ये । न त्वा शृगालं मन्ये । इह चतुर्थी द्वितीया च भवतः । न त्वा श्वानं मन्ये । न त्वा शुने मन्ये । युष्मदः कस्मान्न भवति चतुर्थी, एतदपि हि मन्यतेः कर्म, व्यवस्थितविभाषाविज्ञानादेव न भवति ॥ कर्तृकरणयोस्तृतीया ॥ १८ ॥ कर्तरि करणे च कारके तृतीया विभक्तिर्भवति । देवदत्तेन कृतम् । यज्ञद- त्तेन भुक्तम् । करणे । दात्रेण लुनाति । परशुना छिनत्ति ॥ तृतीयाविधाने प्रकृत्या- दीनामुपसंख्यानम् ॥ * ॥ प्रकृत्या ऽभिरूपः । प्रकृत्या दर्शनीयः । प्रायेण याज्ञिकः । प्रायेण वैयाकरणः । गार्ग्यो ऽस्मि गोत्रेण । समेन धावति । विषमेण धावति । द्विद्रोणेन धान्यं क्रीणाति । पञ्चकेन पशून् क्रीणाति । सहस्रेण पशून् क्रीणाति ॥ सहयुक्ते ऽप्रधाने ॥ १९ ॥ सहार्थेन युक्ते ऽप्रधाने तृतीया विभक्तिर्भवति । पुत्रेण सहागतः पिता । पुत्रेण सह गोमान् । पितुरत्र क्रियादिसंबन्धः शब्देनोच्यते, पुत्रस्य तु प्रतीय- मान, इति तस्याप्राधान्यम् । सहार्थेन च योगे विधानात्पर्यायप्रयोगेपि भवति । पुत्रेण सार्द्धमिति । विनापि सहशब्देन भवति । वृद्धो यूनेति निदर्शनात् । अप्रधान इति किम् । शिष्येण सहोपाध्यायस्य गौः ॥ येनाङ्गविकारः ॥ २० ॥ अङ्गशब्दो ऽत्राङ्गसमुदाये शरीरे वर्तते, येनेति च तदवयवो हेतुत्वेन निर्दिश्यते । येनाङ्गेन विकृतेनाङ्गिनो विकारो लक्ष्यते ततस्तृतीया विभक्तिर्भ- वति । अक्षा काणः । पादेन खञ्जः । पाणिना कुण्ठः* । नावयवधर्मेण समु- दायो व्यपदिश्यते । अङ्गविकार इति किम् । अक्षिकामस्य ॥ इत्थंभूतलक्षणे ॥ २१ ॥ कं चित्प्रकारं प्राप्त इत्थंभूतः, तस्य लक्षणमित्थंभूतलक्षणं, ततस्तृतीया विभक्तिर्भवति । अपि भवान् कमण्डलुना छात्रमद्राक्षीत् । छात्रेणोपाध्यायम् ।

  • कुणिरिति पाठान्तरम् ।

११२ ॥ काशिका ॥ २ ॥ ३ ॥ शिखया परिव्राजकम् । इह न भवति । कमण्डलुपाणिश्च्छात्र इति । लक्षकस्य समासे ऽन्तर्भूतत्वात् । इत्थंभूत इति किम् । वृक्षं प्रति विद्योतनम्* ॥ संज्ञो ऽन्यतरस्यां कर्मणि ॥ २२ ॥ संपूर्वस्य जानातेः कर्मणि कारके द्वितीयायां प्राप्तायामन्यतरस्यां तृतीया विभक्तिर्भवति । पित्रा संजानीते । पितरं संजानीते । मात्रा संजा- नीते । मातरं संजानीते† ॥ हेतौ ॥ २३ ॥ फलसाधनयोग्यः पदार्थो लोके हेतुरुच्यते । तद्वाचिनस्तृतीया विभक्ति- र्भवति । धनेन कुलम् । कन्यया शोकः । विद्यया यशः ॥ अकर्तर्यृणे पञ्चमी ॥ २४ ॥ हेताविति वर्तते । कर्तृवर्जितं यदृणं हेतुस्ततः पञ्चमी विभक्तिर्भवति । तृतीयापवादो योगः । शताद्बद्धः । सहस्राद्बद्धः । अकर्तरीति किम् । शतेन बन्धितः । शतमृणं च भवति, प्रयोजकत्वाच्च कर्तृसंज्ञम् ॥ विभाषा गुणे ऽस्त्रियाम् ॥ २५ ॥ हेताविति वर्तते । गुणे हेतावस्त्रीलिङ्गे विभाषा पञ्चमी विभक्तिर्भ- वति‡ । जाड्याद्बद्धः । जाड्येन बद्धः । पाण्डित्यान् मुक्तः । पाण्डित्येन मुक्तः । गुणग्रहणं किम् । धनेन कुलम् । अस्त्रियामिति किम् । बुद्ध्या मुक्तः । प्रज्ञया मुक्तः ॥ षष्ठी हेतुप्रयोगे ॥ २६ ॥ हेतोः प्रयोगो हेतु प्रयोगः । हेतुशब्दस्य प्रयोगे हेतौ द्योत्ये षष्ठी विभक्तिर्भवति । अन्नस्य हेतोर्वसति ॥ सर्वनाम्नस्तृतीया च ॥ २७ ॥ सर्वनाम्नो हेतुशब्दप्रयोगे हेतौ द्योत्ये तृतीया विभक्तिर्भवति षष्ठी च । पूर्वेण षष्ठ्यामेव प्राप्तायामिदमुच्यते । कस्य हेतोर्वसति । केन हेतुना वसति ॥ यस्य हेतोर्वसति । येन हेतुना वसति ॥ निमित्तकारणहेतुषु सर्वासां प्रायदर्श- नम् ॥ * ॥ किं निमित्तं वसति । केन निमित्तेन वसति । कस्मै निमित्ताय वसति । कस्मान्निमित्ताद्वसति । कस्य निमित्तस्य वसति । कस्मिन्निमित्ते वसति । एवं कारणहेत्वोरप्युदाहार्यम् । अर्थग्रहणं चैतत् । पर्यायोपादानं तु

  • इत्थंभूत इत्यारभ्य विद्योतनमित्यन्तः पाठो बहुषु पुस्तकेषु न दृश्यते । † संपूर्वः किम् । मातरं जानाति । पितरं जानाति । कर्मणीति किम् । पुत्रेण गुणैः संजानीते पिता । इत्यधिकं क्व चित् । ‡ तृतीयापवादो ऽयं योग इत्यधिकं कुत्र चित् ।

स्वरूपविधिर्मा विज्ञायीति । तेनेहापि भवति । किं प्रयोजनं वसति । केन प्रयोजनेन वसति । कस्मै प्रयोजनाय वसति । कस्मात्प्रयोजनाद् वसति । कस्य प्रयोजनस्य वसति । कस्मिन् प्रयोजने वसति ॥ अपादाने पञ्चमी ॥ २८ ॥ अपादाने कारके पञ्चमी विभक्तिर्भवति । ग्रामादागच्छति । पर्वताद- वरोहति । वृकेभ्यो बिभेति । अध्ययनात्पराजयते । पञ्चमीविधाने ल्यब्लोपे कर्मण्युपसंख्यानम् ॥ * ॥ प्रासादमारुह्य प्रेक्षते, प्रासादात्प्रेक्षते ॥ अधिकरणे चोपसंख्यानम् ॥ * ॥ आसने उपविश्य प्रेक्षते, आसनात्प्रेक्षते । शयनात्प्रेक्षते ॥ प्रश्नाख्यानयोश्च पञ्चमी वक्तव्या ॥ * ॥ कुतो भवान्, पाटलिपुत्रात् ॥ यत- श्चाध्वकालनिर्माणं तत्र पञ्चमी वक्तव्या ॥ * ॥ गवीधुमतः सांकाश्यं चत्वारि योजनानि । कार्त्तिक्या आग्रहायणी मासे ॥ तद्युक्तात्काले सप्तमी वक्तव्या ॥ * ॥ कार्त्तिक्या आग्रहायणी मासे ॥ अध्वनः प्रथमा सप्तमी च वक्तव्या ॥ * ॥ गवीधुमतः सांकाश्यं चत्वारि योजनानि, चतुर्षु योजनेषु वा ॥ अन्यारादितरर्तेदिक्शब्दाञ्चूत्तरपदाजाहियुक्ते ॥ २९ ॥ अन्य आरात् इतर ऋते दिक्शब्द अञ्चूत्तरपद आच् आहि इत्येतैर्योगे पञ्चमी विभक्तिर्भवति । अन्य इत्यर्थग्रहणम् । तेन पर्यायप्रयोगेपि भवति । अन्यो देवदत्तात् । भिन्नो देवदत्तात् । अर्थान्तरं देवदत्तात् । विलक्षणो देवद- त्तात् । आराच्छब्दो दूरान्तिकार्थे वर्तते । तत्र दूरान्तिकार्थैः षष्ठ्यन्यतरस्या- मिति प्राप्ते पञ्चमी विधीयते । आराद्देवदत्तात् । आराद्यज्ञदत्तात् । इतर इति निर्देश्यमानप्रतियोगी पदार्थ उच्यते । इतरो देवदत्तात् । ऋते इति चाव्ययं वर्जनार्थे । ऋते देवदत्तात् । ऋते यज्ञदत्तात् । दिक्शब्दः । पूर्वो ग्रामात् । उत्तरो ग्रामात् । पूर्वो ग्रीष्माद्वसन्तः । उत्तरो ग्रीष्मो वसन्तात् । दिक्शब्द इत्यत्र शब्दग्रहणं देशकालवृत्तिनापि दिक्शब्देन योगे यथा स्यात् । इतरथा हि दिग्वृत्तिनैव स्यात् । इयमस्याः पूर्वेति । इह तु न स्यात् । अयमस्मात्पूर्वः काल इति । अञ्चूत्तरपद । प्राग् ग्रामात् । प्रत्यग् ग्रामात् । ननु चायमपि दिक्शब्द एव । षष्ठ्यतसर्थप्रत्ययेनेति वक्ष्यति, तस्यायं पुरस्तादपकर्षः । आच् । दक्षिणा ग्रामात् । उत्तरा ग्रामात् । आहि । दक्षिणाद्हि ग्रामात् । उत्तराद्हि ग्रामात् ॥ षष्ठ्यतसर्थप्रत्ययेन ॥ ३० ॥ दक्षिणोत्तराभ्यामतसुजिति वक्ष्यति, तस्येदं ग्रहणम् । अतसर्थेन प्रत्य- येन युक्ते षष्ठी विभक्तिर्भवति । दक्षिणतो ग्रामस्य । उत्तरतो ग्रामस्य । पुरस्ताद् ग्रामस्य । उपरि ग्रामस्य । उपरिष्टाद्ग्रामस्य ॥ ८

१९४ ॥ काशिका ॥ २ ॥ ३ ॥ एनपा द्वितीया ॥ ३१ ॥ एनबन्‍यादन्यतरस्यामदूरे पञ्चम्या इति वक्ष्यति । तेन युक्ते द्वितीया विभक्तिर्- भवति । पूर्वेण षष्ठ्यां प्राप्तायामिदं वचनम् । दक्षिणेन ग्रामम् । उत्तरेण ग्रामम् । षष्ठ्यपीष्यते । दक्षिणेन ग्रामस्य । उत्तरेण ग्रामस्य । तदर्थं योगविभागः कर्तव्यः ॥ पृथग्वि नानानाभिस्तृतीया ऽन्यतरस्याम् ॥ ३२ ॥ पञ्चमीग्रहणमनुवर्तते । पृथक् विना नाना इत्येतैर्योगे तृतीया विभक्ति- र्भवति अन्यतरस्यां पञ्चमी च । पृथग् देवदत्तेन । पृथग् देवदत्तात् । विना देवदत्तेन । विना देवदत्तात् । नाना देवदत्तेन । नाना देवदत्तात् । पृथग्वि- नानानाभिरिति योगविभागे द्वितीयार्थः । विना वातं विना वर्षं विद्युत्प्रपतनं विना । विना हस्तिकृतान्दोषान्केनेमौ पातितौ द्रुमौ ॥ करणे च स्तोकाल्पकृच्छ्रकतिपयस्या- सत्त्ववचनस्य ॥ ३३ ॥ स्तोक अल्प कृच्छ्र कतिपय इत्येतेभ्यो ऽसत्त्ववचनेभ्यः करणे कारके ऽन्यतरस्यां तृतीया भवति । पञ्चम्यत्र पक्षे विधीयते, तृतीया तु करणेत्येव सिद्धा । यदा तु धर्ममात्रं करणतया विवक्ष्यते न द्रव्यं, तदा स्तोकादीनाम- सत्त्ववचनता । स्तोकान्मुक्तः । स्तोकेन मुक्तः । अल्पान्मुक्तः । अल्पेन मुक्तः । कृच्छ्रान्मुक्तः । कृच्छ्रेण मुक्तः । कतिपयान्मुक्तः । कतिपयेन मुक्तः । असत्त्ववच- नस्येति किम् । स्तोकेन विषेण हतः । अल्पेन मधुना मत्तः । करणेति किम् । क्रियाविशेषणे कर्मणि मा भूत् । स्तोकं मुञ्चति ॥ दूरान्तिकार्थैः षष्ठ्यन्यतरस्याम् ॥ ३४ ॥ पञ्चम्यनुवर्तते । दूरान्तिकार्थैः शब्दैर्यगे षष्ठी विभक्तिर्भवत्यन्यतरस्यां पञ्चमी च । दूरं ग्रामात् । दूरं ग्रामस्य । विप्रकृष्टं ग्रामात् । विप्रकृष्टं ग्रामस्य । अन्तिकं ग्रामात् । अन्तिकं ग्रामस्य । अभ्याशं ग्रामात् । अभ्याशं ग्रामस्य । अन्य- तरस्यांग्रहणं पञ्चम्यर्थम् । इतरथा हि तृतीया पक्षे स्यात् ॥ दूरान्तिकार्थेभ्यो द्वितीया च ॥ ३५ ॥ पञ्चम्यनुवर्तते । दूरान्तिकार्थेभ्यः शब्देभ्यो द्वितीया विभक्तिर्भवति, चकारात्पञ्चमी तृतीयापि समुच्चीयते । दूरं ग्रामस्य । दूराद्ग्रामस्य । दूरेण ग्रामस्य । अन्तिकं ग्रामस्य । अन्तिकाद्ग्रामस्य । अन्तिकेन ग्रामस्य । प्रातिपदि- कार्थे विधानम् । असत्त्ववचनग्रहणं चानुवर्तते । सत्त्वशब्देभ्यो यथायथं विभ- क्तयो भवन्ति । दूरः पन्थाः । दूराय पथे देहि । दूरस्य पथः स्वम् ॥

Here is the line-by-line transcription of the Sanskrit text from the provided image:

॥ काशिका ॥ २ ॥ ३ ॥ १९५ सप्तम्यधिकरणे च ॥ ३६ ॥ सप्तमी विभक्तिर्भवत्यधिकरणे कारके, चकाराद्दूरान्तिकार्थेभ्यश्च । कटे आस्ते । शकटे आस्ते । स्थाल्यां पचति । दूरान्तिकार्थेभ्यः खल्वपि । दूरे ग्रामस्य । अन्तिकेग्रामस्य । अभ्याशे ग्रामस्य । दूरान्तिकार्थेभ्यश्चतस्रो विभक्तयो भवन्ति, द्वितीयातृतीयापञ्चमीसप्तम्यः ॥ सप्तमीविधाने क्तस्येन्विषयस्य कर्मण्युपसंख्या- नम् ॥ * ॥ अधीती व्याकरणे । परिगणिती याज्ञिके । आम्नासी च्छन्दसि ॥ साध्व- साधुप्रयोगे च सप्तमी वक्तव्या ॥ * ॥ साधुर्देवदत्तो मातरि । असाधुः पितरि ॥ कारकार्हाणां च कारकत्वे सप्तमी वक्तव्या ॥ * ॥ आढ्येषु भुञ्जानेषु दरिद्रा आसते । ब्राह्मणेषु तरत्सु वृषला आसते ॥ अकारकार्हाणां चाकारकत्वे सप्तमी वक्तव्या ॥ * ॥ दरिद्रेष्वासीनेषु आढ्या भुञ्जते । वृषलेष्वासीनेषु ब्राह्मणास्तरन्ति ॥ तद्विपर्यासे च सप्तमी वक्तव्या ॥ * ॥ आढ्येष्वासीनेषु दरिद्रा भुञ्जते । ब्राह्मणे- ष्वासीनेषु वृषलास्तरन्ति ॥ निमित्तात्कर्मयोगे सप्तमी वक्तव्या ॥ * ॥ चर्मणि द्वीपिनं हन्ति दन्तयोर्हन्ति कुञ्जरम् । केशेषु* चमरीं हन्ति सीम्नि पुष्कलको हतः ॥ यस्य च भावेन भावलक्षणम् ॥ ३७ ॥ सप्तमीति वर्तते । भावः क्रिया । यस्य च भावेन यस्य च क्रियया क्रियान्तरं लक्ष्यते ततो भाववतः सप्तमी विभक्तिर्भवति । प्रसिद्धा च क्रिया क्रियान्तरं लक्षयति । गोषु दुह्यमानासु गतः । दुग्धास्वागतः । अग्निषु हूय- मानेषु गतः । हुतेष्वागतः । भावेनेति किम् । यो जटाभिः स भुङ्क्ते । पुनर्- भावग्रहणं किम् । यो भुङ्क्ते स देवदत्तः ॥ षष्ठी चानादरे ॥ ३८ ॥ पूर्वेण सप्तम्यां प्राप्तायां षष्ठी विधीयते, चकारात्सापि भवति । अना- दराधिके भावलक्षणे भाववतः षष्ठीसप्तम्यौ विभक्ती भवतः । रुदतः प्रात्रा- जीत् । रुदति प्राव्राजीत् । क्रोशतः प्राव्राजीत् । क्रोशति प्राव्राजीत् । क्रोश- न्तमनादृत्य प्रव्रजित इत्यर्थः ॥ स्वामीश्वराधिपतिदायादसाक्षिप्रतिभूप्रसूतैश्च ॥ ३९ ॥ षष्ठीसप्तम्यौ वर्तेते । स्वामिन् ईश्वर अधिपति दायाद साक्षिन् प्रतिभू प्रसूत इत्येतैर्योगे षष्ठीसप्तम्यौ विभक्ती भवतः । गवां स्वामी । गोषु स्वामी । गवामीश्वरः । गोष्वीश्वरः । गवामधिपतिः । गोष्वधिपतिः । गवां दायादः । * बालेष्विति पाठान्तरम् ।

११६ ॥ काशिका ॥ २ । ३ ॥ गोषु दायादः । गवां साक्षी । गोषु साक्षी । गवां प्रतिभूः । गोषु प्रतिभूः । गवां प्रसूतः । गोषु प्रसूतः । षष्ठ्यामेव प्राप्तायां पक्षे सप्तमीविधानार्थं वचनम् ॥ आयुक्तकुशलाभ्यां चासेवायाम् ॥ ४० ॥ षष्ठीसप्तम्यौ वर्तेते । आयुक्तो व्यापारितः * कुशलो निपुणः ताभ्यां योगे आसेवायाम् गम्यमानायां षष्ठीसप्तम्यौ विभक्ती भवतः । आसेवा तात्प- र्यम् । आयुक्तः कटकरणस्य । आयुक्तः कटकरणे । कुशलः कटकरणस्य । कुशलः कटकरणे । आसेवायामिति किम् । आयुक्तो गौः शकटे । ईषद्युक्त इत्यर्थः । तत्र सप्तम्येवाधिकरणे भवति ॥ यतश्च निर्धारणम् ॥ ४१ ॥ षष्ठीसप्तम्यौ वर्तेते । जातिगुणक्रियाभिः समुदायादेकदेशस्य पृथक्करणं निर्धारणम् । यतो निर्धारणम् ततः षष्ठीसप्तम्यौ विभक्तौ भवतः । मनुष्याणां क्षत्रियः शूरतमः । मनुष्येषु क्षत्रियः शूरतमः । गवां कृष्णा संपन्नक्षीरतमा । गोषु । कृष्णा संपन्नक्षीरतमा । अध्वगानां धावन्तः शीघ्रतमाः । अध्वगेषु धावन्तः शीघ्रतमाः ॥ पञ्चमी विभक्ते ॥ ४२ ॥ यतश्च निर्धारणमिति वर्तते । षष्ठीसप्तम्यपवादो योगः । विभागो विभक्तम् । यस्मिन्निर्धारणाश्रये विभक्तमस्ति ततः पञ्चमी विभक्तिर्भवति । माथुराः पाटलिपुत्रकेभ्यः सुकुमारतराः । आढ्यतराः ॥ साधुनिपुणाभ्यामर्चायां सप्तम्यप्रतेः ॥ ४३ ॥ साधु निपुण इत्येताभ्यां योगे ऽर्चायां गम्यमानायां सप्तमी विभक्ति- र्भवति, न चेत् प्रतिः प्रयुज्यते । मातरि साधुः । पितरि साधुः । मातरि निपुणः । पितरि निपुणः । अर्चायामिति किम् । साधुर्भृत्यो राज्ञः । तत्त्वक- थने न भवति । अप्रतेरिति किम् । साधुर्देवदत्तो मातरं प्रति ॥ अप्रत्यादि- भिरिति वक्तव्यम् ॥ * ॥ साधुर्देवदत्तो मातरं परि । मातरमनु ॥ प्रसितोत्सुकाभ्यां तृतीया च ॥ ४४ ॥ प्रसित उत्सुक इत्येताभ्यां योगे तृतीया विभक्तिर्भवति, चकारात्सप्त- मी च । प्रसितः प्रसक्तो, यस्तत्र नित्यमेवावबद्धः स उच्यते । केशैः प्रसितः । केशेषु प्रसितः । केशैरुत्सुकः । केशेषूत्सुकः ॥ नक्षत्रे च लुपि ॥ ४५ ॥ तृतीयासप्तम्यावनुवर्तेते । लुबन्तान्नक्षत्रशब्दात् तृतीयासप्तम्यौ विभक्ती भवतः । पुष्येण पायसमश्नीयात् । पुष्ये पायसमश्नीयात् । मघाभिः पक्तौ-

  • व्यापृत इति बहुषु पुस्तकेषु पाठः ।

दनम् । मघासु पललौदनम् । नतच्छ्रदिति किम् । पञ्चालेषु वसति । लुपीति किम् । मघासु यः । इह कस्मान्न भवति । अद्य पुष्यः । अद्य कृत्तिका । अधिकरणेति वर्तते । वचनं तु षष्ठे तृतीयाविधानार्थम् ॥ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा ॥ ४६ ॥ प्रातिपदिकार्थः सत्ता । लिङ्गं स्त्रीलिङ्गपुंलिङ्गनपुंसकानि । परिमाणं, द्रोणः खारी आढकम्* । वचन,मेकत्वद्वित्वबहुत्वानि । मात्रशब्दः प्रत्येकम- भिसंबध्यते । प्रातिपदिकार्थमात्रे लिङ्गमात्रे परिमाणमात्रे वचनमात्रे प्रथमा विभक्तिर्भवति । प्रातिपदिकार्थमात्रे । उच्चैः । नीचैः । लिङ्गग्रहणं किम् । कुमारी, वृक्षः, कुण्डम्, इत्यत्रापि यथा स्यात् । परिमाणग्रहणं किम् । द्रोणः, खारी, आढकम्, इत्यत्रापि यथा स्यात् । वचनग्रहणं किम् । एकत्वादियुक्ते- ष्वाप यथा स्यात् । एकः, द्वौ, बहवः । प्रातिपदिकग्रहणं किम् । निपातस्यान- र्थकस्य प्रातिपदिकत्वमुक्तं ततो ऽपि यथा स्यात् । प्रलम्बते । अव्यागच्छति ॥ संबोधने च ॥ ४७ ॥ आभिमुख्यकरणं संबोधनम्, तदधिके प्रातिपदिकार्थे प्रथमा न प्राप्नो- तीति वचनमारभ्यते । संबोधने च प्रथमा विभक्तिर्भवति । हे देवदत्त । हे देवदत्तौ । हे देवदत्ताः ॥ सा ऽऽमन्त्रितम् ॥ ४८ ॥ संबोधने या प्रथमा तदन्तं शब्दरूपमामन्त्रितसंज्ञं भवति । तथा चैवो- दाहृतम् । आमन्त्रितप्रदेशा आमन्त्रितं पूर्वमविद्यमानवद् इत्येवमादयः † ॥ एकवचनं संबुद्धिः ॥ ४९ ॥ आमन्त्रितप्रथमाया यदेकवचनं तत्संबुद्धिसंज्ञं भवति । हे पटो । हे देव- दत्त । संबुद्धिप्रदेशा एङ्ह्रस्वात्संबुद्धेरित्येवमादयः ॥ षष्ठी शेषे ॥ ५० ॥ कर्मादिभ्यो ऽन्यः प्रातिपदिकार्थव्यतिरिक्तः स्वस्वामिसंबन्धादिः शेष- स्तत्र षष्ठी विभक्तिर्भवति । राज्ञः पुरुषः । पशोः पादः । पितुः पुत्रः ॥ ज्ञो ऽविदर्थस्य करणे ॥ ५१ ॥ ‡ जानातेरविदर्थस्याज्ञानार्थस्य करणे कारके षष्ठी विभक्तिर्भवति । सर्पिषो जानीते । मधुनो जानीते । सर्पिषा करणेन प्रवर्ततइत्यर्थः । प्रवृत्तिक-


* 'परिमाणं प्रस्थादि' इति पा० ३ । † 'आमन्त्रितस्य च' इत्येवमादयः । इति पा० ३ । ‡ अत्र 'शेषइत्यनुवर्तते' इत्यधिकं क्व चित् ।

१९८ ॥ काशिका ॥ २ ॥ ३ ॥ ध्मो जानातिरविदर्थः । अथ वा मिथ्याज्ञानवचनः । सर्पिषि रक्तः प्रतिहतो वा । चित्तभ्राम्या तदात्मना सर्वमेव ग्राह्यं प्रतिपद्यते । मिथ्याज्ञानमज्ञानमेव । अविदर्थस्येति किम् । स्वरेण पुत्रं जानाति ॥ अधीगर्थदयेशां कर्मणि ॥ ५२ ॥ शेषइति वर्तते । अधीगर्थाः स्मरणार्थाः । दय दानगतिरक्षणेषु । ईश ऐश्वर्ये । एतेषां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । मातु- रध्येति । मातुः स्मरति । सर्पिषो दयते । सर्पिष ईष्टे । मधुन ईष्टे । कर्म- णीति किम् । मातुर्गुणैः स्मरति । शेषइति किम् । मातरं स्मरति ॥ कृञः प्रतियत्ने ॥ ५३ ॥ सतो गुणान्तराधानं प्रतियत्नः । करोतेः कर्मणि कारके शेषत्वेन विव- क्षिते प्रतियत्ने गम्यमाने षष्ठी विभक्तिर्भवति । एधोदकस्योपस्कुरुते । शस्त्रपञ्च- स्योपस्कुरुते । प्रतियत्नइति किम् । कटं करोति । कर्मणीति किम् । एधोदक- स्योपस्कुरुते प्रज्ञया । शेषइत्येव । एधोदकमुपस्कुरुते ॥ रुजार्थानां भाववचनानामज्वरेः ॥ ५४ ॥ रुजार्थानां धातूनां भाववचनानां भावकर्तृकाणां ज्वरिवर्जितानां कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । चौरस्य रुजति रोगः । चौर- स्यामयत्यामयः । रुजार्थानामिति किम् ॥ एति जीवन्तमानन्दो नरं वर्षशतादपि । जीव पुत्रक मामेवं तपः साहसमाचर* ॥ भाववचनानामिति किम् । नदी कूलानि रुजति । अज्वरेरिति किम् । चौरं ज्वरयति ज्वरः ॥ अज्वरिसन्ताप्योरिति वक्तव्यम् ॥ * ॥ चौरं सन्तापयति तापः । शेषइत्येव । चौरं रुजति रोगः ॥ आशिषि नाथः ॥ ५५ ॥ नाथृ नाधृ याञ्चोपतापैश्वर्याशीःषु पठ्यते, तस्याशीःक्रियस्य कर्मणि कारके शेषत्वेन विवक्षिते षष्ठी विभक्तिर्भवति । सर्पिषो नाथते । मधुनो नाथते । आशिषीति किम् । माणवकमुपनाथति, अङ्ग पुत्रकाधीष्व ॥ जासिनिप्रहणनाटक्राथपिषां हिंसायाम् ॥ ५६ ॥ जासि निप्रहण नाट क्राथ पिष् इत्येतेषां धातूनां हिंसाक्रियायां कर्मणि

  • कस्याश्चि खलु मातेयं लौकिको प्रतिभाति मे । एति जीवन्तमानन्दो नरं वर्षशतादपि ॥ इति पाठान्तरम् ॥

॥ काशिका ॥ २ ॥ ३ ॥ १९८ कारके षष्ठी विभक्तिर्भवति । जसु हिंसायां, जसु ताडने, इति च चुरादौ पठ्यते तस्येदं ग्रहणं, न दैवादिकस्य जसु मोक्षणे इत्यस्य *। चौरस्योज्जासयति। वृषल- स्योज्जासयति । निप्रहण इति संघातविगृहीतविपर्यस्तग्रहणम्। चौरस्य निप्रघ्न- न्ति। चौरस्य निहन्ति। चौरस्य प्रहन्ति। चौरस्य प्रणिहन्ति। चौरस्योन्नाटयति । वृषलस्योन्नाटयति । चौरस्य क्राथयति । वृषलस्य क्राथयति । निपातनाद् दीर्घः । अयं हि घटादौ पठ्यते अथ क्रथ क्लथ क्रथ हिंसायां इति, तत्र घटादयो मित इति मित्संज्ञायां मितां ह्रस्व इति ह्रस्वत्वं स्यात् । चौरस्य पिनष्टि। वृषलस्य पिनष्टि। हिंसायामिति किम् । धानाः पिनष्टि। शेषइत्येव । चौरमुज्जासयति । एषामिति किम् । चौरं हिनस्ति । निप्रहण इति किम् । चौरं विहन्ति † ॥ व्यवहृपणोः समर्थयोः ॥ ५७ ॥ व्यवहृ पण इत्येतयोः समर्थयोः समानार्थयोः कर्मणि कारके षष्ठी विभ- क्तिर्भवति । द्यूते क्रयविक्रयव्यवहारे च समानार्थत्वमनयोः । शतस्य व्यवहरति । सहस्रस्य व्यवहरति । शतस्य पणते। सहस्रस्य पणते। आयप्रत्ययः कस्मान्न भवति। स्तुत्यर्थस्य पणतेरायप्रत्यय इष्यते ‡॥ समर्थयोरिति किम् । शलाकां व्यवहरति । विक्षिपतीत्यर्थ

१२० ॥ काशिका ॥ २ ॥ ३ ॥ प्रेष्य इति इष्यतेर्दैवादिकस्य लोट्मध्यमपुरुषस्यैकवचनं, तत्साहचर्याद् ब्रुविरपि तद्विषय एव गृह्यते । प्रेष्यब्रुवोर्हविषः कर्मणः षष्ठी विभक्तिर्भवति देव- तासंप्रदाने सति । अग्नये छागस्य हविषो वपाया मेदसः प्रे३ष्य । अग्नये छागस्य हविषो वपाया मेदसोनुब्रू३हि । प्रेष्यब्रुवोरिति किम् । अग्नये छागं हविर्वपां मेदो जुहुधि । हविष इति किम् । अग्नये गोमयान् प्रेष्य । देवतासंप्रदान इति किम् । माणवकाय पुरोडाशं प्रेष्य ॥ हविषः प्रस्थितस्य प्रतिषेधो वक्तव्यः ॥ * ॥ इन्द्रा- ग्निभ्यां छागं हविर्वपां मेदः प्रस्थितं प्रे३ष्य ॥ चतुर्थ्यर्थे बहुलं छन्दसि ॥ ६२ ॥ छन्दसि विषये चतुर्थ्यर्थे षष्ठी विभक्तिर्भवति * बहुलम् । पुरुषमृगश्चन्द्र- मसः । पुरुषमृगश्चन्द्रमसे । गोधा कालका दार्वाघाटस्ते वनस्पतीनाम् । ते वनस्पति- भ्यः । बहुलग्रहणं किम् । कृष्णो रात्र्यै, हिमवतो हस्ती ॥ षष्ठ्यर्थे चतुर्थी वक्त- व्या ॥ * ॥ या खर्वेण पिबति तस्यै खर्वो जायते । या दतो धावति तस्यै श्याव- दन् । या नखानि कृन्तति तस्यै कुनखः । या ऽऽङ्क्ते तस्यै काणः । या ऽभ्यङ्क्ते तस्यै दुश्चर्मा । या केशान् प्रलिखति तस्यै खलतिः । अहल्यायै जारः ॥ यजेश्च करणे ॥ ६३ ॥ यजेर्धातोः करणे कारके छन्दसि बहुलं षष्ठी विभक्तिर्भवति । घृतस्य यजते । घृतेन यजते । सोमस्य यजते । सोमेन यजते † ॥ कृत्वोऽर्थप्रयोगे काले ऽधिकरणे ॥ ६४ ॥ छन्दसि बहुलमिति निवृत्तम् । कृत्वोऽर्थानां प्रत्ययानां प्रयोगे काले ऽधि- करणे षष्ठी विभक्तिर्भवति । पञ्चकृत्वो ऽह्नो भुङ्क्ते । द्विरह्नो ऽधीते । कृत्वोऽर्थ- ह्वयं किम् । अह्नि शेते । रात्रौ शेते । प्रयोगग्रहणं किम् । अहनि भुक्तम् । गम्यते हि द्विस्त्रिश्चतुरिति, न त्वप्रयुज्यमाने भवति । कालग्रहणं किम् । द्विः कांस्यपा- त्र्यां भुङ्क्ते । अधिकरणइति किम् । द्विरह्नो भुङ्क्ते । शेषइत्येव । द्विरहन्यधीते ॥ कर्तृकर्मणोः कृति ॥ ६५ ॥ कृत्प्रयोगे कर्तरि कर्मणि च षष्ठी विभक्तिर्भवति । भवतः शायिका । भवत आसिका । कर्मणि । अपां स्रष्टा । पुरां भेत्ता । वज्रस्य भर्त्ता । कर्तृक- र्मणोरिति किम् । शरेण भेत्ता । कृतीति किम् । तद्धितप्रयोगे मा भूत् । कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् । शेषइति निवृत्तं, पुनः कर्मग्रहणात् । इतरथा हि कर्तरि च कृतीति ब्रूयात् ॥

  • अत्र ‘देवतासंप्रदाने सति’ इत्याधिकं क्व चित् । † अत्र ‘कारकेइति किम् । अन्यत्र मा भूत्’ इत्याधिकं क्व चित् ।