भारतकोश
संग्रह पर लौटें

काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)

Kasika Vritti of Vamana and Jayaditya on Panini Sutras

आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा

DevanagariHindipublished828 पृष्ठ

२१२ ॥ काशिका ॥ ३ ॥ ३ ॥ समुदोरजः पशुषु ॥ ६९ ॥ समुदोरुपपदयोरजतेर्द्धातोः पशुविषये धात्वर्थे अप् प्रत्ययो भवति । घञो ऽपवादः । अज गतिक्षेपणयोरिति पठ्यते । स संपूर्वः समुदाये वर्तते, उत्पूर्वश्च प्रेरणे । समजः पशूनां, समुदाय इत्यर्थः । उदजः पशूनां, प्रेरणमि- त्यर्थः । पशुष्विति किम् । समाजो ब्राह्मणानाम् । उदाजः क्षत्रियाणां ॥ अक्षेषु ग्लहः ॥ ७० ॥ ग्लह इति निपात्यते अक्षविषयश्चेद्धात्वर्थो भवति । ग्रहेरप् सिद्ध एव लत्वार्थे निपातनम् । अक्षस्य ग्लहः । अक्षेष्विति किम् । ग्रहः पादस्य । अन्ये ग्लहिं प्रकृत्यन्तरमाहुः ते घञं प्रत्युदाहरन्ति । ग्लाहः ॥ प्रजने सर्त्तेः ॥ ७१ ॥ सर्त्तेर्द्धातोः प्रजने विषये अप् प्रत्ययो भवति, घञोऽपवादः । प्रजनं प्रथमं गर्भग्रहणम् । गवामुपसरः । पशूनामुपसरः । स्त्रीगवीषु पुंगवानां गर्भा- धानाय प्रथममुपसरंणमुच्यते ॥ ह्वः संप्रसारणं च न्यभ्युपविषु ॥ ७२ ॥ नि अभि उप वि इत्येतेषु उपपदेषु ह्वयतेर्द्धातोः संप्रसारणम् अप् प्रत्ययो भवति । घञोपवादः । निहवः । अभिहवः । उपहवः । विहवः । एतेष्विति किम् । प्रह्वावः ॥ आङि युद्धे ॥ ७३ ॥ आङि उपपदे ह्वयतेर्द्धातोः संप्रसारणमप् प्रत्ययो भवति युद्धे ऽभिधेये । आहूयन्ते ऽस्मिन्नित्याहवः । युद्धइति किम् । आह्वायः ॥ निष्पानमाहावः ॥ ७४ ॥ आङ्पूर्वस्य ह्वयतेर्द्धातो. संप्रसारणम् प्रत्ययो वृद्धिश्च निपात्यते, निपानं चेदभिधेयं भवति । निपिबन्त्यस्मिन्निति निपानमुदकाधार उच्यते । आहावः । पशूनां कूपोपसरेषु य उदकाधारस्तत्र हि पानाय पशव आहूयन्ते । निपानमिति किम् । आह्वायः ॥ भावे ऽनुपसर्गस्य ॥ ७५ ॥ अनुपसर्गस्य ह्वयतेः संप्रसारणमप् प्रत्ययो भवति भावे ऽभिधेये । हवः । हवेहवे सुहवं शूरमिन्द्रम् । अनुपसर्गस्येति किम् । आह्वावः । भावग्रहणमक- र्तरि च कारके संज्ञायामित्यस्य निरासार्थम् ॥ हनश्च वधः ॥ ७६ ॥

॥ काशिका ॥ ३ । ३ ॥ २१३ भावेनुपसर्गस्येति वर्तते । हन्तेर्धातोरनुपसर्गे भावे अप् प्रत्ययो भवति, तत्संनियोगेन च वधादेशः, स चान्तोदात्तः । तत्रोदात्तनिवृत्तिस्वरेणाप उदात्तत्वं भवति । वधश्चोराणाम् । वधो दस्यूनाम् । भावइत्येव । घातः । अनुपसर्गस्येत्येव । प्रघातो, विघातः । चकारो भिन्नक्रमत्वाच्चादेशेन संबध्यते । किं तर्हि प्रकृतेन प्रत्ययेन, अप् च, यश्चापरः प्राप्नोति । तेन घञपि भवति । घातो वर्तते ॥ मूर्तौ घनः ॥ ७७ ॥ हन इत्येव, मूर्तिः, काठिन्यं, मूर्तावभिधेयायां हन्तेरप् प्रत्ययो भवति, घश्चादेशः । अभ्रघनः । दधिघनः । कथं घनं दधीति । धर्मशब्देन धर्मी भण्यते ॥ अन्तर्घनो देशे ॥ ७८ ॥ अन्तःपूर्वाद्धन्तेरप् प्रत्ययो भवति घनादेशश्च भवति देशे ऽभिधेये । अन्तर्घनः, संज्ञीभूतो वाहीकेषु देशविशेष उच्यते । अन्ये णकारं पठन्ति । अन्तर्घणो देश इति, तदपि ग्राह्यमेव । देशइति किम् । अन्तर्घातोऽन्यः ॥ अगारैकदेशे प्रघणः प्रघाणश्च ॥ ७९ ॥ प्रपूर्वस्य हन्तेः प्रघण प्रघाण इत्येतौ शब्दौ निपात्येते अगारैकदेशे वाच्ये । प्रघणः । प्रघाणः । द्वारप्रकोष्ठो बाह्य उच्यते । अगारैकदेशइति किम् । प्रघातो ऽन्यः ॥ उद्धनोऽत्याधानम् ॥ ८० ॥ उत्पूर्वस्य हन्तेरुद्धन इति निपात्यते ऽत्याधानं चेद्भवति । उद्धनः । यस्मिन्काष्ठे स्थापयित्वा अन्यानि काष्ठानि तक्ष्यन्ते तदभिधीयते । उद्घातोऽन्यः ॥ अपघनोऽङ्गम् ॥ ८१ ॥ अपपूर्वस्य हन्तेरपघन इति निपात्यते, अङ्गं चेत्तद्भवति । अपघनः, अङ्गम् । अवयव, एकदेशो न सर्वः किं तर्हि पाणिः पादश्चाभिधीयते । अपघातो ऽन्यः ॥ करणे ऽयोविद्रुषु ॥ ८२ ॥ हन इति वर्तते । अयस् वि द्रु इत्येतेषूपपदेषु हन्तेर्धातोः करणे कारके ऽप् प्रत्ययो भवति, घनादेशश्च । अयो हन्यतेनेनेत्ययोघनः । विघनः । द्रुघनः । द्रुघण इति के चिदुदाहरन्ति । कथं णत्वम् । अरीहणादिषु पाठात् । पूर्वपदात्संज्ञायामग इति वा ॥ स्तम्बे क च ॥ ८३ ॥ करणे हन इति वर्तते । स्तम्बशब्दउपपदे करणे कारके हन्तेः कः प्रत्ययो भवति । चकारादप् । तत्र घनादेशः । स्तम्बघनः ॥ स्त्रियां स्तम्बघ्नी स्तम्बघना इति दृश्यते ॥ करणइत्येव । स्तम्बघातः ॥

२१४ ॥ काशिका ॥ ३ ॥ ३ ॥ परौ घः ॥ ८४ ॥ करणे हन इत्येव । परिशब्दउपपदे हन्तेर्द्धातोरण् प्रत्ययो भवति । करणे कारके घशब्दश्चादेशः । परिहन्यतेनेनेति परिघः । पलिघः ॥ उपघ्न आश्रये ॥ ८५ ॥ उपपूर्वस्य हन्तेरण् प्रत्यय उपधालोपश्च निपात्यते । आश्रयशब्दः सामीप्यं प्रत्यासत्तिं लक्षयति । पर्वतोपघ्नः । ग्रामोपघ्नः । आश्रयइति किम् । पर्वतोपघात एवान्यः ॥ संघोद्घौ गणप्रशंसयोः ॥ ८६ ॥ समुदोरुपपदयोर्हन्तेर्द्धातोरण् प्रत्ययो भवति टिलोपो घत्वं च निपात्यते, यथासंख्यं गणेभिधेये प्रशंसायां गम्यमानायाम् । संघः पशूनाम् । उद्घो मनुष्यः । गणप्रशंसयोरिति किम् । संघातः ॥ निघो निमितम् ॥ ८७ ॥ निघ इति निपूर्वाद्धन्तेरण् प्रत्ययष्टिलोपो घत्वं च निपात्यते, निमितं चेदभिधेयं भवति । समन्तान्मितं निमितम् । समारोहपरिणाहम् । निघा वृक्षाः । निघाः शालयः । निमितमिति किम् । निघातः ॥ द्वितः क्त्रिः ॥ ८८ ॥ भावे ऽकर्त्तरि च कारकेइति वर्तते । डु इत्यस्य तस्माद् द्वितो धातोः क्त्रिः प्रत्ययो भवति । क्त्रेर्मम्नित्यमिति वचनात् केवलो न प्रयुज्यते । डुपचष् पाके । पक्त्रिमम् । डुप्वप् । उप्त्रिमम् । डुकृञ् । कृत्रिमम् ॥ द्वितो ऽथुच् ॥ ८९ ॥ टु इत्यस्य तस्मात द्वितो धातोरथुच् प्रत्ययो भवति भावादौ । टुवेपृ । वेपथुः । टुओश्वि । श्वयथुः । टुदु । दवथुः ॥ * यजयाचयतविच्छप्रच्छरक्षो नङ् ॥ ९० ॥ भावे ऽकर्त्तरि च कारकेइति वर्तते । यजादिभ्यो धातुभ्यो नङ् प्रत्ययो भवति । ङकारो गुणवृद्धिनिषेधार्थः । यज्ञः । याञ्चा । यत्नः । विश्नः । प्रश्नः । रक्ष्णः । प्रच्छेरसंप्रसारणं ज्ञापकात् प्रश्ने चासन्नकालइति ॥ स्वप्नो नन् ॥ ९१ ॥ स्वपेद्धातोर्नन् प्रत्ययो भवति । नकारः स्वरार्थः । स्वप्नः ॥ उपसर्गे घोः किः ॥ ९२ ॥

  • टुदु । दवथुः । इदं कुत्र चिदधिकम् ।

॥ काशिका ॥ ३ ॥ ३ ॥ २१५ भावे ऽकर्त्तरि च कारकदिति वर्त्तते । उपसर्गे उपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति । कित्करणादातो लोपार्थम् । प्रदिः । प्रधिः । अन्तर्द्धिः ॥ कर्मण्यधिकरणे च ॥ ९३ ॥ घोरित्येव । कर्मण्युपपदे घुसंज्ञकेभ्यो धातुभ्यः किः प्रत्ययो भवति, अधिकरणे कारके । जलं धीयते ऽस्मिन्निति जलधिः । शरधिः । अधिकरण- ग्रहणमर्थान्तरनिरासार्थम् । चकारः प्रत्ययानुकर्षणार्थः ॥ स्त्रियां क्तिन् ॥ ९४ ॥ भावे ऽकर्त्तरि च कारकदिति वर्त्तते । स्त्रीलिङ्गे भावादौ धातोः क्तिन्प्र- त्ययो भवति । घञपांमपवादः । कृतिः । चितिः । मतिः ॥ क्तिन्नाबादिभ्यश्च वक्तव्यः ॥ * ॥ आबादयः प्रयोगतोऽनुसर्तव्याः । आप्तिः । राद्धिः । दीप्तिः । स्वस्तिः । ध्वस्तः । लब्धिः ॥ श्रुयजिस्तुभ्यः करणे ॥ * ॥ श्रूयते ऽनयेति श्रुतिः । दृष्टिः । स्तुतिः ॥ म्लाम्नाज्याहाभ्यो निः ॥ * ॥ म्लानिः । म्नानिः । ज्यानिः । हानिः ॥ ॠकारल्वादिभ्यः क्तिन्निष्ठावद्भवति इति वक्तव्यम् ॥ * ॥ कीर्त्तिः । गीर्त्तिः । जीर्त्तिः । शीर्त्तिः । लूनिः । यूनिः ॥ संपदादिभ्यः क्विप् ॥ * ॥ संपत् । विपत् । प्रतिपत् ॥ क्तिन्नपीष्यते ॥ संपत्तिः । विपत्तिः ॥ स्थागापापचो भावे ॥ ९५ ॥ स्त्रियामिति वर्तते । स्यादिभ्यो धातुभ्यः स्त्रीलिङ्गे भावे क्तिन् प्रत्ययो भवति । अङोपवादस्य बाधकः । प्रस्यितिः । उद्गीतिः । संगीतिः । प्रपीतिः । संपीतिः । पक्तिः । भावग्रहणमर्थान्तरनिरासार्थम् । कथमवस्था संस्थेति । व्यवस्था यामसंज्ञायामिति ज्ञापकाद् नात्यन्ताय बाधा भवतीति ॥ मन्त्रे वृषेषपचमनविदभूवीरा उदात्तः ॥ ९६ ॥ भावे स्त्रियामिति वर्तते । मन्त्रे विषये वृषादिभ्यो धातुभ्यः क्तिन् प्रत्ययो भवति, उदात्तः। प्रकृतिप्रत्यययोर्विभक्तिविपरिणामेन संबन्धः। कस्मादेवं कृतम् । वैचित्र्यार्थम् । वृष्टिः । इष्टिः । पक्तिः । मतिः । वित्तिः । भूतिः । वीतिः । रातिः । सर्वत्र सर्वधातुभ्यः सामान्येन विहित एव क्तिन् । उदात्ता- र्थवचनम् । इषेस्तु इच्छेति निपातनं वक्ष्यति । ततः क्तिन्नपि विधीयते मन्त्रा- दन्यत्रादिरुदात्तः ॥ ऊतियूतिजूतिसातिहेतिकीर्त्तयश्च ॥ ९७ ॥ मन्त्रइति नानुवर्तते । ऊत्यादयः शब्दा निपात्यन्ते । उदात्त इति वर्तते । अवतेर्ज्वरत्वरस्रिव्यविमवामुपधायाश्चेति ऊठ् । ऊतिः । स्वरार्थं वच- नम् । यौतेर्जवतेश्च यूतिः । जूतिः । दीर्घत्वं च निपात्यते । सातिः । हेतिः

२१६ ॥ काशिका ॥ ३ । ३ ॥ भावो निपात्यते । सनोतेर्वा जनसनखनामित्यात्वे कृते स्वरार्थं निपातनम् । हन्तेर्हिन्वेतेर्वा हेतिः । कीर्त्तयतेः कीर्त्तिः ॥ व्रजयोर्भावे क्यप् ॥ ९८ ॥ उदात्त इत्येव । व्रजयजोर्धात्वोः स्त्रीलिङ्गे भावे क्यप् प्रत्ययो भवति, उदात्तः । क्तिनोपवादः । व्रज्या । इज्या । पित्करणमुत्तरत्र तुगर्थम् ॥ संज्ञायां समजन्निषद्निपतमनविदषुञ्- शीङ्भृञिणः ॥ ९९ ॥ भावइति न स्वर्यते । पूर्व एवान्वर्थाधिकारः । समजादिभ्यो धातुभ्यः स्त्रियां क्यप् प्रत्ययो भवति उदात्तः संज्ञायां विषये । समजन्त्यस्यामिति समज्या । निषद्या । निपत्या । मत्या । विद्या । सुत्या । शय्या । भृत्या । इत्या । कथं तदुक्तम् ॥ 'स्त्रियां भावाधिकारोस्ति तेन भार्या प्रसिध्यति'इति । भावाधिकारो, भावव्यापारो, वाच्यत्वेन विवक्षितः, न तु शास्त्री- योधिकारः ॥ कृञः श च ॥ १०० ॥ करोतेर्धातोः स्त्रियां शः प्रत्ययो भवति । चकारात् क्यप् च । योगवि- भागे ऽत्र कर्त्तव्यः । क्तिन्नपि यथा स्यात् । क्रिया । कृत्या । कृतिः ॥ इच्छा ॥ १०१ ॥ इषेर्धातोः शः प्रत्ययो यशाभावश्च निपात्यते । इच्छा ॥ परिचर्या- परिसर्यामृगयाटाट्यानामुपसंख्यानम् ॥ * ॥ परिचर्या । परिसर्या । मृगया । अटाट्या ॥ जागर्तेरकारो वा ॥ * ॥ जागरा । जागर्या ॥ अ प्रत्ययात् ॥ १०२ ॥ प्रत्ययान्तेभ्यो धातुभ्यस्त्रियामकारः प्रत्ययो भवति । क्तिनोपवादः । चिकीर्षा । जिहीर्षा । पुत्रीया । पुत्रकाम्या । लोलूया । कण्डूया ॥ गुरोश्च हलः ॥ १०३ ॥ हलन्तो यो धातुर्गुरुमान् ततः स्त्रियामकारः प्रत्ययो भवति । क्तिनोपवादः । कुण्डा । हुण्डा । ईहा । ऊहा । गुरोरिति किम् । भक्तिः । हल इति किम् । नीतिः ॥ षिद्भिदादिभ्यो ऽङ् ॥ १०४ ॥ षिद्भ्यो भिदादिभ्यश्च स्त्रियामङ् प्रत्ययो भवति । गणपठितेषु भिदा- दिषु निष्कृष्य प्रकृतयो गृह्यन्ते । जॄष् । जरा । त्रपूष् । त्रपा । भिदादिभ्यः

स्वल्व्यपि । भिदा । छिदा । विदा । क्षिपा ॥ गुहा, निर्याषञ्जोः ॥ श्रद्धा । मेधा । गोधा । आरा । द्वारा । कारा । क्षिया । भारा । धारा । लेखा । रेखा । चूडा । पीडा । वपा । वसा । सृजा ॥ ऋपेः संप्रसारणं च ॥ कृपा भिदा, विदारणे ॥ भित्तिरन्या ॥ छिदा, द्वैधीकरणे ॥ क्षितिरन्या ॥ आरा, शस्त्र्याम् । आर्त्तिरन्या ॥ धारा प्रपाते ॥ धृतिरन्या ॥ चिन्तिपूजिकथिकुम्बिचर्चश्च ॥ १०५ ॥ चिति स्मृत्यां, पूज पूजायां, कथ वाक्यप्रबन्धे, कुबि आच्छादने, चर्च अध्ययने, चुरादिः । एभ्यो धातुभ्यो युचि प्राप्ते स्त्रियामङ् प्रत्ययो भवति । चिन्ता । पूजा । कथा । कुम्बा । चर्चा । 'चकाराद्युजपि भवति । चिन्तना' * ॥ आतश्चोपसर्गे ॥ १०६ ॥ आकारान्तेभ्य उपसर्गे उपपदे स्त्रियामङ् प्रत्ययो भवति । क्तिनोपवादः ।

२१८ ॥ काशिका ॥ ३ । ३ ॥ संज्ञायाम् ॥ १०९ ॥ संज्ञायां विषये धातोर्ण्वुल् प्रत्ययो भवति । उद्दालकपुष्पभञ्जिका । वरंणपुष्पप्रवाहिका * । आभ्यूषखादिका । आचोषखादिका । शालभञ्जिका । तालभञ्जिका ॥ विभाषाख्यानपरिप्रश्नयोरिञ् च ॥ ११० ॥ पूर्वं परिप्रश्नः, पश्चादाख्यानम् । सूत्रे ऽल्पाचतरस्य पूर्वनिपातः । परि- प्रश्ने आख्याने च गम्यमाने धातोरिञ् प्रत्ययो भवति । चकाराद् ण्वुलपि । विभाषाग्रहणात्परोऽपि यः प्राप्नोति सोऽपि भवति । कां त्वं कारिमकार्षीः । कां कारिकामकार्षीः । कां क्रियामकार्षीः । कां कृत्यामकार्षीः । कां कृतिमकार्षीः । सर्वां कारिमकार्षम् । सर्वां कारिकामकार्षम् । सर्वां क्रियामकार्षम् । सर्वां कृत्या- मकार्षम् । सर्वां कृतिमकार्षम् । कां गणिमजीगणः । कां गणनामजीगणः । सर्वां गणिमजीगणम् । सर्वां गणिकाम् । सर्वां गणनाम् । एवं कां याजिम् । कां याजिकाम् । कां याचिम् । कां याचिकाम् । कां पचाम् । कां पाठिम् । कां पाठिकाम् । इति द्रष्टव्यम् । आख्यानपरिप्रश्नयोरिति किम् । कृतिः । हृतिः ॥ पर्यायार्हर्णोत्पत्तिषु ण्वुच् ॥ १११ ॥ पर्यायः परिपाटीक्रमः । अर्हणमर्हः, तद्योग्यता । ऋणं तत् यत्परस्य † धार्यते । उत्पत्तिर्जन्म । एतेष्वर्थेषु धातोर्ण्वुच् प्रत्ययो भवति । क्तिन्नादीनाम- पवादः । पर्याये तावत् । भवतः शायिका । भवतो ऽध्यासिका । अर्हे । अर्हति भवानित्थंभक्तिकाम् ‡ । ऋणे । इत्थंभक्तिकां मे धारयसि । ओदनभोजिकाम् । पयः- पायिकाम् । उत्पत्तौ । इत्थंभक्तिका मे उदपादि । ओदन भोजिका । पयःपायिका । विभाषेत्येव । चिकीर्षोत्पद्यते । ण्वुलि प्रकृते प्रत्ययान्तरकरणं स्वरार्थम् ॥ आक्रोशे नञ्यनिः ॥ ११२ ॥ विभाषेति निवृत्तम् । आक्रोशः शपनम् । आक्रोशे गम्यमाने नञ्युपपदे धातोरनिः प्रत्ययो भवति । क्तिन्नादीनामपवादः । अकरणिस्ते वृषल भूयात् । आक्रोशेति किम् । अकृतिस्तस्य कटस्य । नञीति किम् । कृतिस्ते वृषल भूयात् ॥ कृत्यल्युटो बहुलम् ॥ ११३ ॥ भावे ऽकर्त्तरि च कारकेति निवृत्तम् । कृत्यसंज्ञकाः प्रत्यया ल्युट् च

  • प्रचायिकेति पा० ।
  • परस्मै इति पाठः । तत्र धारेरुत्तमर्ण इति संप्रदानसंज्ञा । ‡ पयःपायिकामिति पुस्तकान्तरे ऽधिकम् ।

॥ काशिका ॥ ३ ॥ ३ ॥ २१८

बहुलमर्थेषु भवन्ति । यत्र विहितास्ततोन्यत्रापि भवन्ति । भावकर्मणोः कृत्या विहिताः कारकान्तरेऽपि भवन्ति । स्नानीयं चूर्णम् । दानीयो ब्राह्मणः । कर- णाधिकरणयोर्भावे च ल्युट् । अन्यत्रापि भवति । प्रसेचनमवस्त्रावकम् । राज- भोजनाः शालयः । राजाच्छादनानि वासांसि । प्रस्कन्दनम् । प्रपतनम् । बहु- लग्रहणादन्येऽपि कृता यथाप्राप्तमभिधेयं व्यभिचरन्ति । पादाभ्यां ह्रियते, पाद- हारकः । गले चोप्यते, गलेचोपकः ॥ नपुंसके भावे क्तः ॥ ११४ ॥ नपुंसकलिङ्गे भावे धातोः क्तः प्रत्ययो भवति । हसितम् । सहितम् । जल्पितम् * ॥ ल्युट् च ॥ ११५ ॥ नपुंसकलिङ्गे भावे धातोर्ल्युट् प्रत्ययो भवति । हसनं छात्रस्य । शोभ- नम् । जल्पनम् । शयनम् । आसनम् । योगविभाग उत्तरार्थः ॥ कर्मणि च येन संस्पर्शात्कर्त्तुः शरीरसुखम् ॥ ११६ ॥ येन कर्मणा संस्पृश्यमानस्य कर्त्तुः शरीरसुखमुत्पद्यते तस्मिन्कर्मण्युपपदे धातोर्नपुंसकलिङ्गे भावे ल्युट् प्रत्ययो भवति । पूर्वेणैव सिद्धे प्रत्यये नित्यसमा- सार्थं वचनम् । उपपदसमासादिर्नित्यः समासः । पयःपानं सुखम् । ओदनभो- जनं सुखम् । कर्मणीति किम् । तूलिकाया उत्थानं सुखम् । संस्पर्शादिति किम् । अग्निकुण्डस्योपासनं सुखम् । कर्त्तुरिति किम् । गुरोः स्नापनं सुखम् । स्नाप- यतेर्न गुरुः कर्त्ता, किं तर्हि कर्म । शरीरग्रहणं किम् । पुत्रस्य परिष्वञ्जनं सुखम् । सुखं मानसी प्रीतिः । सुखमिति किम् । कण्टकानां मर्दनं दुःखम् । सर्वत्रासमासः प्रत्युदाह्रियते ॥ करणाधिकरणयोश्च ॥ ११७ ॥ करणे ऽधिकरणे च कारके धातोर्ल्युट् प्रत्ययो भवति । इध्मप्रव्रश्चनः । पलाशशातनः । अधिकरणे । गोदोहनी । सक्तुधानी ॥ पुंसि संज्ञायां घः प्रायेण ॥ ११८ ॥ करणाधिकरणयोरित्येव । पुंलिङ्गयोः करणाधिकरणयोरभिधेययोर्धा- तोर्घः प्रत्ययो भवति समुदायेन चेत्संज्ञा गम्यते । प्रायग्रहणमकात्स्न्र्यार्थम् । दन्तच्छदः । उरश्छदः । घटः । अधिकरणे खल्वपि । कृत्य तस्मिन्कुर्वन्त्यित्या- करः । आलयः । पुंसीति किम् । प्रसाधनम् । संज्ञायामिति किम् । प्रहरणी दण्डः । घकारश्चादेर्घेद्विति विशेषणार्थः ॥

  • जल्पितम् । भुक्तम् । आशितम् । इति क्व चित्पुस्तके ऽधिकम् ।

२२० ॥ काशिका ॥ ३ ॥ ३ ॥ गोचरसंचरवह्नव्रजव्यजापघनिगमाश्च ॥ ११९ ॥ गोचरादयः शब्दा घप्रत्ययान्ता निपात्यन्ते पूर्वस्मिन्नेवार्थे । हलश्चेति घञं वक्ष्यति । तस्यायमपवादः । गावश्चरन्त्यस्मिन्निति, गोचरः । संचरन्ते ऽने- नेति, संचरः । वहन्ति तेन, वहः । व्रजन्ति तेन, व्रजः । व्यजन्ति तेन, व्यजः । निपातनादजेर्व्यघञपोरिति वीभावो न भवति । एत्य तस्मिन्नापयन्तइत्यापघः । निगच्छन्ति तस्मिन्निति, निगमः । चकारोऽनुक्तसमुच्चयार्थः । कषः । निकषः ॥ अवेतृस्त्रोर्घञ् ॥ १२० ॥ अवउपपदे तरतेस्तृणातेश्च धातोः करणाधिकरणयोः संज्ञायां घञ् प्रत्य- यो भवति । घस्यापवादः । ञकारो वृद्ध्यर्थः, स्वरार्थश्च । घकार उत्तरत्र कुत्वार्थः । अवतारः । अवस्तारः । कथमवतारो नद्याः । नहीयं संज्ञा । प्राया- नुवृत्तेरसंज्ञायामपि भवति ॥ हलश्च ॥ १२१ ॥ पुंसि संज्ञायां करणाधिकरणयोश्चेति सर्वमनुवर्त्तते । हलन्ताद्धातोः करणाधिकरणयोर्घञ् प्रत्ययो भवति । घस्यापवादः । लेखः । वेदः । वेषः । बन्धः । मार्गः । अपामार्गः ॥ अध्यायन्यायोध्यावसंहाराधारावायाश्च ॥ १२२ ॥ अध्यायादयः शब्दा घञन्ता निपात्यन्ते । पुंसि संज्ञायां घे प्राप्ते घञ्वि- धीयते । अहलन्तार्थ आरम्भः । अधीयतेऽस्मिन्नित्यध्यायः । नीयतेनेनेति न्यायः । उद्ध्वन्ति अस्मिन्नित्युद्धावः । संह्रियन्ते ऽनेनेति संहारः । आध्रियते ऽस्मि- नित्याधारः । आवयन्त्यस्मिन्नित्यावायः । चकारोऽनुक्तसमुच्चयार्थः । व्यवहारः ॥ उदङ्को ऽनुदके ॥ १२३ ॥ उदङ्क इति निपात्यते, अनुदकविषयश्चेद्धात्वर्थो भवति । उत्पूर्वादञ्च- तेर्घेडिनिपात्यते । ननु च हलश्चेति सिद्ध एव घञ् । उदके प्रतिषेधार्थमिदं वच- नम् । तैलोदङ्कः । अनुदकइति किम् । उदकोदञ्चनः । घः कस्मान्न प्रत्युदा- ह्रियते । विशेषाभावात् । घञ्यपि यथादित्स्वरेणान्तोदात्त एव ॥ जालमानायः ॥ १२४ ॥ आनाय इति निपात्यते जालं चेत्तद्भवति । आङ्पूर्वान्नयतेः करणे घञ् निपात्यते । आनायो मत्स्यानाम् । आनायो मृगाणाम् * ॥ खनो घ च ॥ १२५ ॥

  • जालमिति किम् । आनयः । इति क्व चिदधिकमत्र ।

यहाँ प्रस्तुत पृष्ठ का पंक्ति-दर-पंक्ति सटीक देवनागरी लिप्यन्तरण है:

॥ काशिका ॥ ३ ॥ ३ ॥ २२१ खनेर्धातोः करणाधिकरणयोर्घः प्रत्ययो भवति । चकाराद् घञ् च । आखनः । आखानः ॥ डो वक्तव्यः ॥ * ॥ आखः ॥ डरो वक्तव्यः ॥ * ॥ आखरः ॥ डको वक्तव्यः ॥ * ॥ आखनिकः ॥ इकवको वक्तव्यः ॥ * ॥ आखनिकवकः* ॥ ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् ॥ १२६ ॥ करणाधिकरणयोरिति निवृत्तम् । ईषत् दुस् सु इत्येतेषूपपदेषु कृच्छ्राकृच्छ्रा- र्थेषु धातोः खल् प्रत्ययो भवति । कृच्छ्रं दुःखम् । तद् दुरो विशेषणम् । अकृच्छ्रं सुखम् । तदितरयोर्विशेषणं, संभवात् । ईषत्करो भवता कटः । दुष्करः । सुकरः । ईषद्भोजः । दुर्भोजः । सुभोजः । ईषदादिष्विति किम् । कृच्छ्रेण कार्यः कटः । कृच्छ्रा-

२२२ ॥ काशिका ॥ ३ । ३ ॥ वर्त्तमानसामीप्ये वर्त्तमानवद्वा ॥ १३१ ॥ समीपमेव सामीप्यम् । ष्यञः स्वार्थिकत्वं ज्ञाप्यते चातुर्वर्ण्यादिसिद्ध्य- र्थम् । वर्त्तमानसमीपे भूते भविष्यति च वर्त्तमानाद् धातोर्वर्त्तमानवत्प्रत्यया- वा भवन्ति । वर्त्तमाने लडित्यारभ्य यावत्तुमुन्नादयो बहुलमिति वर्त्तमाने प्रत्यया उक्तास्ते भूतभविष्यतोर्विधीयन्ते । कदा देवदत्तागतोऽसि । अयमाग- च्छामि । आगच्छन्तमेव । मां विद्धि । अयमागमम् एषोऽस्म्यागतः । कदा देव- दत्त गमिष्यसि । एष गच्छामि । गच्छन्तमेव मां विद्धि । एष गमिष्यामि । गन्तास्मि । वत्करणं सर्वसादृश्यार्थम् । येन विशेषेण वर्त्तमाने प्रत्यया विहिताः प्रकृत्युपपदोपाधिना तथैवात्र भवन्ति । पचमानः । यजमानः । अलङ्करिष्णुः । सामीप्यग्रहणं किम् । विप्रकर्षविवक्षायां मा भूत् । परूहगच्छत्पाटलिपुत्रम् । वर्षेण गमिष्यति । यो मन्यते गच्छामीति पदं वर्त्तमाने कालएव वर्तते । कालान्तरगतित्वस्तु वाक्याद्भवति । न च वाक्यगम्यः कालः पदसंस्कारवेला- यामुपयुज्यतइति तादृशं वाक्यार्थज्ञं प्रतिपत्तारं प्रति प्रकरणमिदं नारभ्यते । तथा च श्वः करिष्यति वर्षेण गमिष्यतीति सर्वमुपपद्यते । भूत्राशंसायां तवच्च ॥ १३२ ॥ वेत्येव । वर्त्तमानसामीप्यइति नानुवर्त्तते । आशंसनमाशंसा । अप्राप्तस्य प्रियार्थस्य प्राप्तिमिच्छा । तस्याश्च भविष्यत्कालो विषयः । तत्र भविष्यति काले आशंसायां गम्यमानायां धातोर्वा भूतवत्प्रत्यया भवन्ति । चकाराद्वर्त्तमानवच्च । उपाध्यायश्चेदागमत् । आगतः । आगच्छति । आगमिष्यति । एते व्याकरणमधी- गीष्महि । एते व्याकरणमधीतवन्तः । अधीमहे । अध्येष्यामहे ।

॥ काशिका ॥ ३ ॥ ३ ॥ २२३ नानद्यतनवत्क्रियाप्रबन्धसामीप्ययोः ॥ १३५ ॥ भूतानद्यतने भविष्यदनद्यतने च लङ्‌लुटौ विहितौ, तयोरयं प्रति- षेधः । अनद्यतनवत्प्रत्ययविधिर्न भवति क्रियाप्रबन्धे सामीप्ये च गम्यमाने । क्रियायां प्रबन्धः सातत्येनानुष्ठानम् । कालानां सामीप्यं तुल्यजातीयेनाव्य- वधानम् । यावज्जीवं भृशमन्नमदात् । भृशमन्नं दास्यति । यावज्जीवं पुत्रो- ध्यापिपत् । यावज्जीवमध्यापयिष्यति । सामीप्ये खल्वपि । येयं पौर्णमास्यति- क्रान्ता, तस्यामुपाध्यायोग्नीनाधित । सोमेनायष्ट । गामदित । येयममा- वास्या ऽऽगामिनी एतस्यामुपाध्यायोऽग्नीनाधास्यते । सोमेन यक्ष्यते । स गां दास्यते । द्वौ प्रतिषेधौ यथाप्राप्ताभ्यनुज्ञापनाय ॥ भविष्यति मर्यादावचने ऽवरस्मिन् ॥ १३६ ॥ नानद्यतनवदिति वर्तते । अक्रियाप्रबन्धार्थमसामीप्यार्थं वचनम् । भविष्यति काले मर्यादावचने ऽवरस्मिन्नविभागे ऽनद्यतनवत्प्रत्ययविधिर्न भवति । योयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यदवरं कौशाम्ब्यास्तत्र द्विरोदनं भोक्ष्यामहे । तत्र सक्तून्पास्यामः । भविष्यतीति किम् । योयमध्वा गत आपाटलिपुत्रात् तस्य यदवरं कौशाम्ब्यास्तत्र युक्ता अध्यैमहि । तत्र द्विरोदनम् अभुञ्ज्महि । तत्र सक्तूनपिबाम । मर्यादावचनइति किम् । योय- मध्वा निरवधिको गन्तव्यस्तस्य यदवरं कौशाम्ब्यास्तत्र द्विरोदनं भोक्तास्महे । सक्तून् पातास्मः । अवरस्मिन्निति किम् । योयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यत्परं कौशाम्ब्यास्तत्र द्विरोदनं भोक्तास्महे । तत्र सक्तून्पातास्मः । इह सूत्रे देशकृता मर्यादा उत्तरत्र कालकृता तत्र च विशेषं वक्ष्यति ॥ कालविभागे चानहोरात्राणाम् ॥ १३७ ॥ भविष्यति मर्यादावचने ऽवरस्मिन्निति वर्तते । कालमर्यादाविभागे सत्यवरस्मिन्नविभागे भविष्यति काले ऽनद्यतनवत्प्रत्ययविधिर्न भवति । न- चेदहोरात्रसंबन्धी विभागस्तेषां च विभागे प्रतिषेधः । पूर्वेणैव सिद्धे वचनमि- दमहोरात्रनिषेधार्थम् । योगविभाग उत्तरार्थः । योयं संवत्सर आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे । तत्रोदनं भोक्ष्यामहे । भविष्य- तीत्येव । योयं वत्सरोतीतस्तस्य यदवरामाग्रहायण्यास्तत्र युक्ता अध्यैमहि । तत्रोदनमभुञ्ज्महि । मर्यादावचनइत्येव । योयं निरवधिकः काल आगामी तस्य यदवरमाग्रहायण्यास्तत्र युक्ता अध्येतास्महे । तत्रोदनं भोक्तास्महे । अवर- स्मिन्नित्येव । परस्मिन्विभागे वक्ष्यति । अनहोरात्राणामिति किम् । त्रिविधमुदा- हरणम् । योयं मास आगामी तस्य योवरः पञ्चदशरात्रः, योयं त्रिंशद्रात्र आगामी

२. तृतीयाध्याय वृत्ति (कृदन्त एवं धातु-प्रत्यय विधान)

तस्य योऽवरोऽर्धमासः, योऽयं त्रिंशदहोरात्र आगामी तस्य योऽवरः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे । तत्र सक्तून्पातास्मः । सर्वथा ऽहोरात्रस्पर्शे प्रतिषेधः ॥ परस्मिन्विभाषा ॥ १३८ ॥ भविष्यति मर्यादावचने कालविभागे चानहोरात्राणामिति सर्वमनुव- र्तते । कालमर्यादाविभागे सति भविष्यति काले परस्मिन्प्रविभागे विभाषा ऽनद्यतनवत्प्रत्ययविधिर्न भवति न चेदहोरात्रसम्बन्धी प्रविभागः । अवरस्मि- न्वर्जे पूर्वमनुवर्तते । अवरस्मिन्पूर्वेण प्रतिषेध उक्तः संप्रति परस्मिन्प्राप्त एव विकल्प उच्यते । योऽयं संवत्सर आगामी तस्य यत्परमाग्रहायण्यास्तत्र युक्ता अध्येष्यामहे, अध्येतास्महे । तत्र सक्तून् पास्यामः । तत्र सक्तून्पातास्मः । अन- होरात्राणामित्येव । योऽयं त्रिंशद्रात्र आगामी तस्य यः परः पञ्चदशरात्रस्तत्र युक्ता अध्येतास्महे । तत्र सक्तून् पातास्मः । भविष्यतीत्येव । योऽयं संवत्सरो- तीतस्तस्य यत्परमाग्रहायण्यास्तत्र युक्ता अध्यैमहि । तत्रौदनमभुञ्ज्महि । मर्यादावचनइत्येव । योऽयं संवत्सरो निरवधिकः काल आगामी तस्य यत्परमा- ग्रहायण्यास्तत्र युक्ता ध्येतास्महे । तत्र सक्तून्पातास्मः । कालविभागइत्येव । योऽयमध्वा गन्तव्य आपाटलिपुत्रात् तस्य यत्परं कौशाम्ब्यास्तत्र युक्ता अध्येता- स्महे । ओदनं भोक्तास्महे । इति सर्वत्रानद्यतनवत्प्रत्यया उदाहार्याः ॥ लिङ्निमित्ते ऌङ् क्रियातिपत्तौ ॥ १३९ ॥ भविष्यतीत्यनुवर्तते । हेतुहेतुमतोर्लिङित्येवमादिकं लिङ्गो निमित्तं, तत्र लिङ्निमित्ते भविष्यति काले ऌङ् प्रत्ययो भवति क्रियातिपत्तौ सत्याम् । कुत- श्चिद्वैगुण्यादनभिनिर्वृत्तिः क्रियायाः क्रियातिपत्तिः । दक्षिणेन चेदायास्यन्न शकटं पर्यभविष्यत् । यदि कमलक*माहास्यन्न शकटं पर्यभविष्यत् । अभो- क्ष्यत भवान्घृतेन यदि मत्त्समीपमागमिष्यत् । भविष्यत्कालविषयमेतद्वचनम् । भविष्यदपर्य्याभवनं च हेतुमत् तत्र हेतुभूतं च कमलकाह्वानम् । लिङ्गिल्लिङ्गे बुद्ध्या तदतिपत्तिं च प्रमाणात्तरादवगम्य वक्ता वाक्यं प्रयुङ्क्ते । यदि कमल- कमाहास्यन्न शकटं पर्य्यभविष्यदिति, हेतुहेतुमतोराह्रानापर्य्याभवनयोर्भविष्य- त्कालविषययोरतिपत्तिरिति वाक्यादवगम्यते ॥ भूते च ॥ १४० ॥ लिङ्निमित्ते ऌङ्क्रियातिपत्ताविति सर्वमनुवर्तते । पूर्वेण भविष्यति विहितः संप्रति भूते विधीयते । भूते च काले लिङ्निमित्ते क्रियातिपत्तौ सत्यां ऌङ् प्रत्ययो भवति । उताप्योरित्यारभ्य लिङ्निमित्तेषु विधानमेतत् । प्राक्, ततो विकल्पं वक्ष्यति । दृष्टो मया भवत्पुत्रो ऽवार्थी चङ्क्रम्यमाणः । अपरश्च द्विजो ब्राह्मणार्थी,

  • कमलकः कश्चित्पुरुष इति पदमञ्जरी ।

यदि स तेन दृष्टो ऽभविष्यत् । तदा ऽभोक्ष्यत न तु भुक्तवान् । अन्येन पथा स गतः ॥ वोताप्योः ॥ १४१ ॥ भूते लिङ्निमित्ते लङ् क्रियातिपत्ताविति सर्वमनुवर्तते । वा वा उताप्योः वोताप्योः । मर्यादायामयमङ् नाभिविधौ । उताप्योः समर्थयोर्लिङिति वक्ष्यति प्रागेतस्मात् सूत्रावधेर्यदित ऊर्ध्वमनुक्रमिष्यामः, तत्र भूते लिङ्निमित्ते क्रियाति- पत्तौ लृङ् वा भवतीत्येतदधिकृतं वेदितव्यम् । वक्ष्यति विभाषा कथमि लिङ् च । कथं नाम तत्र भवान्वृषलमयाजयिष्यत् । यथाप्राप्तं च, याजयेत् ॥ गर्हायां लडपिजात्वोः ॥ १४२ ॥ गर्हा कुत्सेत्यनर्थान्तरम् । गर्हायां गम्यमानायामपिजात्वोरुपपदयो- र्धातोर्लट् प्रत्ययो भवति । वर्तमाने लडुक्तः कालसामान्ये न प्राप्नोतीति विधी- यते । कालविशेषविहितांश्चापि प्रत्ययानयं परत्वाद् अस्मिन्विषये बाधते । अपि तत्र भवान्वृषलं याजयति, जातु तत्र भवान्वृषलं याजयति । गर्हामहे । अहो अन्याय्यमेतत् । लिङ्निमित्ताभावादिह क्रियातिपत्तौ लृङ् न भवति ॥ विभाषा कथमि लिङ् च ॥ १४३ ॥ गर्हायामिति वर्तते । कथंशब्दउपपदे गर्हायां गम्यमानायां धातोर्लिङ् प्रत्ययो भवति । चकाराल्लट् च । विभाषाग्रहणं यथास्वं कालविषये विहिता- नामबाधनार्थम् । कथं नाम तत्र भवान्वृषलं याजयेत् । कथं नाम तत्र भवा- न्वृषलं याजयति, कथं नाम तत्र भवान्वृषलं याजयिष्यति । कथं नाम तत्र भवान्वृषलं याजयिता । कथं नाम तत्र भवान्वृषलं याजयेत् । कथं नाम तत्र भवान्वृषलमयाजयत् । कथं नाम तत्र भवान्वृषलं याजयांचकार । यत्र लिङ्गि- मित्तमस्तीति भूतविवक्षायां क्रियातिपत्तौ वा लृङ् । भविष्यद्विवक्षायां सर्वत्र नित्येनैव लृङा भवितव्यम् ॥ किंवृत्ते लिङ्लुटौ ॥ १४४ ॥ गर्हायामित्येव । विभाषा न स्वर्यते । किंवृत्तउपपदे गर्हायां गम्यमा- नायां धातोर्लिङ्लुटौ प्रत्ययौ भवतः । सर्वलकाराणामपवादः । लिङ्ग्रहणं लटो ऽपरिहारार्थम् । को नाम वृषलो यं तत्र भवान् याजयेत् । यं तत्र भवा- न्वृषलं याजयिष्यति । कतरो नाम कतमो नाम यं तत्र भवान्वृषलं याजयेत् । याजयिष्यति । भूते क्रियातिपत्तौ वा लृङ् । भविष्यति तु नित्यम् । को नाम वृषलो यं तत्र भवानयाजयिष्यत् ॥ अनवक्लृप्त्यमर्षयोःकिंवृत्तेऽपि ॥ १४५ ॥ १५

२२६ ॥ काशिका ॥ ३ ॥ ३ ॥ गर्हायामिति निवृत्तम्। अनवकॢप्ति, रसंभावना। अमर्षो, ऽक्षमा। किं ऽकिंवृत्ते चोपपदे ऽनवकॢप्त्यमर्षयोर्द्धातोर्लिङ्लटौ प्रत्ययौ भवतः। सर्वलकारा- णामपवादः। बहुचः पूर्वनिपातो लक्षणव्यभिचारचिह्नम्। तेन यथासंख्यं भवति। अनवकॢप्तौ तावत्। नावकल्पयामि। न संभावयामि। न श्रद्दधे, तत्र भवान्नाम वृषलं याजयेत्। तत्र भवान्नाम वृषलं याजयिष्यति। को नाम वृषलो, यं तत्र भवान् वृषलं याजयेत्। को नाम तत्र भवान्वृषलं याजयिष्यति। अमर्षे। न मर्षयामि तत्र भवान्वृषलं याजयेत्, याजयिष्यति। को नाम वृषलो यं तत्र भवान्याजयेत्, याजयिष्यति। भूतविवक्षायां तु क्रियातिपत्तौ वा लृङ् भवति। भविष्यति नित्यम्। नावकल्पयामि तत्र भवान्नाम वृषलमयाजयिष्यत्। किंकिलास्त्यर्थेषु लृट् ॥ १४६ ॥ अनवकॢप्त्यमर्षयोरिति वर्तते। किंकिलशब्दः समुदाय उपपदम्। अस्त्यर्था अस्तिभवतिविद्यतयः। किंकिलास्त्यर्थेषूपपदेषु अनवकॢप्त्यमर्षयोर्द्धातोर्लृट्प्रत्ययो भवति। लिङोपवादः। किंकिल नाम तत्र भवान्वृषलं याजयिष्यति। नाम तत्र भवान्वृषलं याजयिष्यति। भवति नाम तत्र भवान्वृषलं याजयिष्य- ति। विद्यते नाम तत्र भवान्वृषलं याजयिष्यति। न श्रद्दधे। न मर्षयामि लिङ्निमित्तमिह नास्ति तेन लृङ् भवति ॥ जातुयदोर्लिङ् ॥ १४७ ॥ अनवकॢप्त्यमर्षयोरित्येव। जातु यदित्येतयोरुपपदयोरनवकॢप्त्यमर्षयोर्ग- म्यमानयोर्द्धातोर्लिङ् प्रत्ययो भवति। लटो ऽपवादः। जातु तत्र भवान्वृषलं याजयेत्। यन्नाम तत्र भवान्वृषलं याजयेत्। न श्रद्दधे, न मर्षयामि ॥ यदोर्लिङ्विधाने यदायत्वोरुपसंख्यानम् ॥ * ॥ यदा भवद्विधः क्षत्रियं येत्। यदि भवद्विधः क्षत्रियं याजयेत्। न श्रद्दधे, न मर्षयामि। क्रियातिपत्तौ भूते वा लृङ्, भविष्यति नित्यम् ॥ यच्चयत्रयोः ॥ १४८ ॥ अनवकॢप्त्यमर्षयोरित्येव। यच्च यत्र इत्येतयोरुपपदयोरनवकॢप्त्यमर्षयोर्ग- म्यमानयोर्द्धातोर्लिङ् प्रत्ययो भवति। लटोपवादः। योगविभाग उत्तरार्थः, यथासंख्यं नेष्यते। यच्च तत्र भवान् वृषलं याजयेत्। यत्र तत्र भवान् वृषलं याजयेत्। क्रियातिपत्तौ यथायथं लृङ् भवति ॥ गर्हायां च ॥ १४९ ॥ अनवकॢप्त्यमर्षयोरिति निवृत्तम्। गर्हा निन्दा कुत्सेत्यनर्थान्तरम्। यच्च यत्र इत्येतयोरुपपदयोर्द्धातोर्लिङ् प्रत्ययो भवति गर्हायां गम्यमानायाम्।

लकाराणामपवादः । यच्च तत्र भवान् वृषलं याजयेत् । यत्र तत्र भवान् वृष- लं याजयेद् अहो वृद्धः सन् ब्राह्मणः, गर्हामहे । अहो चान्याय्यमेतत् । क्रिया- तिपत्तौ यथायथं लृङ् भवति ॥ चित्रीकरणे च ॥ १५० ॥ यच्चयत्रोरित्येव । चित्रीकरणमाश्चर्यमद्भुतं विस्मयनीयम् । यच्चयत्र- योरुपपदयोश्चित्रीकरणे गम्यमाने धातोर्लिङ् प्रत्ययो भवति । सर्वलकाराणा- मपवादः । यच्च तत्र भवान्वृषलं याजयेत् । यत्र तत्र भवान्वृषलं याजयेत् । आश्चर्यमेतत् । क्रियातिपत्तौ यथायथं लृङ् भवति ॥ शेषे लृड्यदौ ॥ १५१ ॥ यच्चयत्राभ्यामन्यत्र चित्रीकरणं शेषः । शेषे उपपदे चित्रीकरणे गम्य- माने धातोर्लृट् प्रत्ययो भवति । यदिश्शब्दश्चेन्न प्रयुज्यते । सर्वलकाराणामप- वादः । आश्चर्यं चित्रमद्भुतम् । अन्धो नाम पर्वतमारोक्ष्यति । बधिरो नाम व्याक- रणमध्येष्यते । अयदाविति किम् । आश्चर्यं यदि स भुञ्जीत । यदि सो ऽधी- यीत । लिङ्निमित्ताभावादिह लट् भवति ॥ उताप्योः समर्थयोर्लिङ् ॥ १५२ ॥ उत अपि इत्येतयोः समर्थयोर्धातोर्लि

ादः । अपि पर्वतं शिरसा भिन्द्यात् । अपि

Line 7: द्रोणपाकं भुञ्जीत । अलमिति किम् । विदेशस्थायी देवदत्तः प्रायेण गमिष्यति

Line 8: ग्रामम् । सिद्धाप्रयोगइति किम् । अलं देवदत्तो हस्तिनं हनिष्यति । क्रिया-

Line 9: तिपत्तौ भूते च भविष्यति नित्यं लृङ् भवति ॥

Line 10 (Sutra): विभाषा धातौ संभावनवचने ऽयदि ॥ १५५ ॥

Line 11: संभावनेऽलमिति चेत् सिद्धाप्रयोगइति सर्वमनुवर्त्तते । संभावनमुच्यते

Line 12: स संभावनवचनः । संभावनवचने धातौवुपपदे यच्छब्दवर्जिते धातोर्विभाषा Wait, "धातौवुपपदे" or "धातौवुपपदे"? Look at line 12: धातौवुपपदे - yes, there's an 'ौ' and then 'वु' or 'व'? Wait, धा तौ वु दे -> धातौवुपपदे! (sandhi of धातौ + उपपदे -> धातौवुपपदे).

Line 13: लिङ् भवति । पूर्वेण नित्य

॥ काशिका ॥ ३ ॥ ३ ॥ २२६ लिङ् च ॥ १५९ ॥ इच्छार्थेषु समानकर्तृकेषु धातुषूपपदेषु धातोर्लिङ् प्रत्ययो भवति । भुञ्जीयेतीच्छति । अधीयीयेतीच्छति । क्रियातिपत्तौ लृङ् भवति * ॥ इच्छार्थेभ्यो विभाषा वर्तमाने ॥ १६० ॥ इच्छार्थेभ्यो धातुभ्यो वर्तमाने काले विभाषा लिङ् प्रत्ययो भवति । लटि प्राप्ते वचनम् । इच्छति । इच्छेत् । वष्टि । उश्यात् । कामयते । कामयेत ॥ विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् ॥१६१ ॥ विधिः प्रेरणम् । निमन्त्रणं नियोगकरणम् । आमन्त्रणं कामचारकरणम् । अधीष्टः सत्कारपूर्वको व्यापारः । संप्रश्नः संप्रधारणम् । प्रार्थनं याञ्चा । विध्या- द्यर्थेषु धातोर्लिङ् प्रत्ययो भवति । सर्वलकाराणामपवादः । विध्यादयश्च प्रत्ययार्थविशेषणम् । विध्यादिविशिष्टेषु कर्त्रादिषु लिङ् प्रत्ययो भवति । विध

२३० ॥ काशिका ॥ ३ ॥ ३ ॥ र्धिनावश्यं भवतीति। विधिप्रैषयोः को विशेषः। केचिदाहुः। अज्ञातज्ञापनं विधिः। प्रैषणं प्रैष इति ॥ लिङ् चोर्ध्वमौहूर्तिके ॥ १६४ ॥ प्रैषादयो वर्तन्ते। प्रैषादिषु गम्यमानेषु ऊर्ध्वमौहूर्त्तिकेऽर्थे वर्तमानाद्धा- तोर्लिङ् प्रत्ययो भवति। चकाराद्यथाप्राप्तं च। ऊर्ध्वं मुहूर्त्तादुपरिमुहूर्त्तस्य भवता खलु कटः कर्त्तव्यः। करणीयः। कार्यः। भवान्खलु कटं कुर्यात्। भवा- न्खलु करोतु। भवानिह प्रेषितः। भवानतिसृष्टः। भवान्प्राप्तकालः॥ स्मे लोट् ॥ १६५ ॥ प्रैषादिषूर्ध्वमौहूर्तिके इति वर्तते। स्मशब्दउपपदे प्रैषादिषु गम्यमानेष्वू- र्ध्वमौहूर्त्तिकेऽर्थे वर्तमानाद्धातोर्लोट् प्रत्ययो भवति। लिङ्कृत्यानामपवादः ऊर्ध्वं मुहूर्ताद्भवान्कटं करोतु स्म। ग्रामं गच्छतु स्म। माणवकमध्यापयतु स्म अधीष्टे च ॥ १६६ ॥ स्मलोटौ वर्तते। अधीष्टं व्याख्यातम्। स्मशब्दउपपदे ऽधीष्टे गम्यमाने धातोर्लोट् प्रत्ययो भवति। लिङोपवादः। अङ्ग स्म राजन्माणवकमध्यापय अङ्ग स्म राजन्नग्निहोत्रं जुहुधि ॥ कालसमयवेलासु तुमुन् ॥ १६७ ॥ कालादिषूपपदेषु धातोस्तुमुन्प्रत्ययो भवति। कालो भोक्तुम्। वेला भोक्तुम्। इह कस्मान्न भवति। कालः पचति भूतानीति। प्रैषादिग्रहण- मिहाभिसंबध्यते। इह कस्मान्न भवति। कालो भोजनस्य। वासरूपेण ल्युडपि भवति। उक्तमिदं स्त्र्यधिकारात्परत्र वासरूपविधिरनित्य इति ॥ लिङ् यदि ॥ १६८ ॥ कालादयोनुवर्तन्ते। यच्छब्दे उपपदे कालादिषु धातोर्लिङ् प्रत्ययो भवति। तुमुनोपवादः। कालो यद्भुञ्जीत भवान्। समयो यद्भुञ्जीत भवान्। वेला यद्भुञ्जीत भवान् ॥ अर्हे कृत्यतृचश्च ॥ १६९ ॥ अर्हतीत्यर्हः। तद्योग्यः। अर्हे कर्तरि वाच्ये गम्यमाने वा धातोः कृत्य- तृचः प्रत्यया भवन्ति। चकारालिङ् च। भवता खलु कन्या वोढव्या। वाह्या। वहनीया। भवान् खलु कन्याया वोढा। भवान् खलु कन्यां वहेत्। भवाने- तदर्हतीति। अथ कस्मादर्हे कृत्यतृचो विधीयन्ते। यावता सामान्येन विहि- तत्वादर्हेपि भविष्यन्ति। योयमिह लिग्विधायते, तेन बाधा मा भूदिति। वासरूपविधिश्चानित्यः॥

॥ काशिका ॥ ३ ॥ ३ ॥ २३१ आवश्यकाधमर्ण्ययोर्णिनिः ॥ १७० ॥ अवश्यं भाव आवश्यकम् । उपाधिर्यं नोपपदम् । अवश्यंभावविशिष्टे आधमर्ण्यविशिष्टे च कर्तरि वाच्ये धातोर्णिनिः प्रत्ययो भवति । अवश्यंकारी । मयूरव्यंसकादित्वात्समासः । आधमर्ण्ये खल्वपि । शतंदायी । सहस्रदायी । निष्कंदायी ॥ कृत्याश्च ॥ १७१ ॥ आवश्यकाधमर्ण्ययोरिति वर्तते । कृत्यसंज्ञकाश्च प्रत्यया आवश्यका- धमर्ण्ययोरुपाधिभूतयोर्धातोर्भवन्ति । भवता खलु अवश्यं कटः कर्तव्यः । अवश्यं करणीयः । अवश्यं कार्यः । अवश्यं कृत्यः । आधमर्ण्ये । भवता शतं दातव्यम् । सहस्रं देयम् । किमर्थमिदम् । यावता सामान्येन विहिता अस्मि- न्नपि विषये भविष्यन्ति । विशेषविहितेन णिनिना बाध्येरन् । कर्तरि णिनिः । भावकर्मणोः कृत्याः । तत्र कुतो बाधप्रसङ्गः । तत्र के चिदाहुः । भव्यगेया- दयः कर्तृवाचिनः कृत्यास्तद्भोदाहरणमिति ॥ शकि लिङ् च ॥ १७२ ॥ शक्नोति प्रकृत्यर्थविशेषणम् । शक्त्यर्थोपाधिके धात्वर्थे लिङ् प्रत्ययो भवति । चकारात्कृत्याश्च । भवता खलु भारो वोढव्यः । वहनीयः । वाह्यः । भवान् खलु भारं वहेत् । भवानिह शक्तः । सामान्यविहितानां पुनर्वचनं लिङा बाधा मा भूदिति ॥ आशिषि लिङ्लोटौ ॥ १७३ ॥ आशंसनमाशीः । अप्राप्तस्येष्टस्यार्थस्य प्राप्तुमिच्छा । प्रकृत्यर्थविशेषणं चैतत् । आशीर्विशिष्टे वर्तमानाद्धातोर्लिङ्लोटौ प्रत्ययौ भवतः । चिरं जीया- द्भवान् । चिरं जीवतु भवान् । आशिषीति किम् । चिरं जीवति देवदत्तः ॥ क्तिच्क्तौ च संज्ञायाम् ॥ १७४ ॥ आशिषीत्येव । आशिषि विषये धातोः क्तिच्क्तौ प्रत्ययौ भवतः समु- दायेन चेत्संज्ञा गम्यते । तनुतात् तन्तिः । सनुतात् सातिः । भवतात् भूतिः । मनुतात् मन्तिः । क्तः खल्वपि । देवा एनं देयासुर्देवदत्तः । सामान्येन विहितः क्तः पुनरुच्यते क्तिचा बाधा मा भूदिति । चकारो विशेषणार्थः न क्तिचि दीर्घश्चेति ॥ माङि लुङ् ॥ १७५ ॥ माङ्युपपदे धातोर्लुङ् प्रत्ययो भवति । सर्वलकाराणामपवादः । मा कार्षीत् । मा हार्षीत् । कथं मा भवतु तस्य पापं मा भविष्यतीति । असाधु- रेवायम् । के चिदाहुः । नहिवत्परो माशब्दो विद्यते तस्यायं प्रयोगः ॥