मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)
Purva Mimamsa Darshan with Shabara Bhashya
महर्षि जैमिनि / शाबर स्वामी द्वारा
स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)
. १९ ] प्रथमाध्याये द्वितीयपादः १३३ इह पुनर्वैकृतपशू प्रकरणे श्रूयमाणमौदुम्बरत्वमुदाह्रियते । न च तस्य प्रसिद्धं पारार्थ्यम्, येन चतुर्थाधिकरणविषयता भवेत् । कथम् ? अत्र हि न तावदप्राप्ते यूपे जातिविधानं शक्यम् । तत्प्राप्तिश्चेदवश्यं कॢप्तोपकारप्रकृतत्वादिनैव निरा- काङ्क्षेण भवितव्यम् । तत्कुतो जात्यन्तरस्य तादर्थ्येन विधिः, अतः फले विधानम् । याऽपि चाऽऽश्रयापेक्षा, साऽपि प्राकृतकर्मसंबन्धिचोदकप्राप्तयूपग्रह- णान्निवर्तत इत्यविघातः । तेन प्रागेव पारार्थ्यात्फलसंबन्धप्रसक्तिरवश्यं न्याया- न्तरेण निराकर्तव्येत्येतदधिकरणारम्भः । इदमपरं मतम् । औदुम्बरवाक्यं जुह्वादिवाक्यं चोभयमुभयत्रोदाहरणम् । कथम् ? भावनांशान्तरविचारादपौनरुक्त्यम् । साध्यसाधनसंबन्धस्तावद् द्वयोरपि योग्यत्वेनोपात्तयोरवकल्पते, नान्यथा । तत्र चतुर्थे साधनांशयोग्यविचारमना- हृत्याभ्युपेत्य वा केवलसाध्यांशविचारः । किमीदृशेन कामशब्दोपबन्धरहितेन वर्तमानफलसंबन्धाभिधायिना फलत्वं शक्यते गमयितुम्, न वेति विचारः । इह पुनः साध्यांशमनादृत्याभ्युपेत्य वा केवलसाधनांशविचारः । किमीदृशेन विधि- विभक्तिरहितेन द्रव्यगुणक्रियाः कंचित्प्रति साधनत्वेन प्रतिपाद्यन्ते नेति । यच्च यदात्मना प्रतिपादितं भवति, तत्प्रतियोगिविशेषापेक्षं सत्पदान्तराद्युपात्तेन तेन संबध्यते । तत्र साध्यमित्यवधृते परिशेषादवशिष्टं साधनं गम्यते । एवं साधना- वधारणेऽपीति द्वावप्यंशौ स्वरूपेण निरूपयितव्यौ । तदिह साधनांशे विचार्यमाणे यो नाम फलांशस्य संस्पर्शः, स चतुर्थे सिद्धः प्रसङ्गाद्धेतुत्वेनेति मन्तव्यः । तथा यस्तत्र साधनांशपरामर्शः, स इह सिद्धस्तत्र प्रसङ्गादित्यपुनरुक्तम् । नन्वेवं सति विध्युद्देशचिन्तेयमित्यर्थवादाधिकरणेन न संबध्यते । नैष दोषः । तद्देशेनैवार्थपरिच्छेदात् । यदि ह्यसौ विधीयमानतया पूर्वेणावगतः, ततो नार्थवादत्वमथ स्तुत्यर्थतया ततोऽर्थवादत्वमिति । तत्र पूर्वपक्षाभिप्रायः । सर्वथा साध्यसंनिधाने यदुच्चरितम्, तदाकाङ्क्षावशेन तद्रूप्येणानुपात्तमपि साधनं भवति । यथैव यागेनेत्यनुदितं संबध्यते, तथैवौदुम्बरेणेति । तत्र विधिः किं कुर्यात्पुरुषं प्रवर्तयेत् । स च फलार्थितयैव प्रवृत्त इति किं विधिना । अथ वा प्रयोगवचनविहितस्य फलसंबन्धमात्रमनेन क्रियते । पञ्चमो वा लकारो विधास्यति । अर्थवादैकदेशो वेत्युक्तमेव । तस्मादूर्जोऽवरुद्ध्या इति तादर्थ्यचतुर्थ्यैवैनं कामशब्दादपि स्फुटतरं फलमुपात्तमिति तस्मिन्नौदुम्बरता- विधिः । न तु फलस्य विधानमिति ग्रहीतव्यम्, भावार्थाधिकरणे फलविधिनिषेधात् । ऊर्गुदुम्बर इत्यतः स्तुतिरित्यविरोधः । तस्मान्मुख्यविधिसंभवे लक्षणया न स्तुतिः प्रतिपत्तव्येति ॥ १९ ॥
१३४ मीमांसादर्शनम् [ सू० न्या० सू०—विषयविवेकार्थमिहेतिभाष्यं व्याख्यातुमाह—एवमिति । आनर्थक्यम्, उपाख्यानम् । आदिशब्दोपात्तं चादृष्टार्थत्वं प्रतियोगि = विरोधि येषां तेष्वित्यर्थः । एतच्च पूर्वेणाध्यायषट्केन प्रत्यक्षविदितधर्मकेषु दर्शपूर्णमासादिषु व्याख्यातेषु इदानीमविहितेति- कर्तव्यताकेष्वैन्द्राग्नादिषु चिन्तयितुमिष्यत इतिसप्तमाध्यायभाष्यवत्सर्वेष्वर्थवादेष्वा- नर्थक्यादिप्रतियोगित्वेन व्याख्यातेषु यथासम्भवं केषुचिद्विधिप्रतियोगितेदानीं विचार्यत इति विशेषणपरं व्याख्येयम् । पूर्णाहुत्याद्यर्थवादानां विधिवन्निगदार्थवादानामपि व्याख्यातत्वात्किमस्येति सन्देहभाष्यं पूर्वपक्षासम्भवेनाक्षिपति—कुत इति । सन्देहसमर्थं चतुर्द्धा पूर्वपक्षं सम्भावयति—पूर्वत्र हीति । श्रौतत्वमनेन विधित्वाङ्गीकरणे कारणमुक्तम् । अनन्यलभ्यत्वाच्च विधिरित्याह— विध्यंशश्चेति । इत्युक्तमिति । विध्युद्देशस्यैव द्वे शक्ती कल्पयिष्याम इत्यत्रेत्यर्थः । प्रथा- नत्वादपि विधिरित्याह—अपि चेति । विशेषणशब्देनाङ्गमुक्तम् । प्रधाने, विशेषणे च यत्सम्भवति, तस्येत्यर्थः । प्राथम्यादपीत्याह—समासे चेति । फलरूपश्चात्र भावनांशो विधेयोऽभिप्रेतः, तस्य च सर्वादौ निवेशः प्रथमाकाङ्क्षणादितरयोस्तु तादर्थ्येन तस्यैव प्राधान्यादित्याह—विशेषेण त्विति । आसामुपपत्तीनां सूत्रकाराभिमतत्वं दर्शयितुमाह— इत्यादीति । श्रौतस्यार्थान्तरपूर्वत्वाभावादनन्यलभ्यस्य चानन्यकारणकत्वात्प्रधानस्य विधेयान्तरापेक्षाभावादपूर्वशब्दे न लक्षणा । प्राथम्यं तु न विद्यतेऽस्मात्पूर्वमिति बहु- व्रीहिणा बोध्यते । आदिशब्देन त्वर्थान्तरपूर्वत्वाभाव एवोच्यते । ननु स्तुतेरपि पूर्वाधिकरणे अर्थवत्त्वोपपादनादानर्थक्याभिधानमयुक्तमत आह—तदपेक्ष- येति । पौनरुक्त्यमाशङ्कते—ननु चेति । एकस्यार्थस्याद्विरुक्तत्वानर्थक्येऽप्यस्य प्राथम्यादपुनरुक्ततेत्येकेषां समाधानमाह— तत्रेति । अस्याधिकरणस्य पौनरुक्त्याभावेऽप्यानर्थक्यापरिहारेऽप्याकुलीभावेन श्रोतॄणा- मर्थानवधारणापत्तेर्विलम्बोऽनुचित इत्येतत्समाधानं दूषयति—सत्यमेवमिति । श्रोतृचित्त- समाधानायापौनरुक्त्ये परिहार्ये प्राप्ते चतुरः प्रकारानुपन्यस्य दूषयति — तत्र । इत्यादिना पूर्वाधिकरणेनैवेत्यनेन फलविधिसुरूपाणामपि पूर्वाधिकरणविषयत्वं दर्शितम्—तथा च । इत्यनेनैतदेवं पूर्वाधिकरणोदाहृतफलविधिसरूपार्थवादनिदर्शनेन स्फारितं पूर्वोक्तस्याप्यर्थ- वादत्वस्य विसम्वादेनेहासम्भवादानर्थक्यपरिहाराय पर्णमय्यधिकरणनिराकृतस्य फलविधि- त्वस्य प्रतिप्रसवशङ्कां निराकर्तुमेतदधिकरणमिति प्रकारान्तरमुपन्यस्य निराचष्टे— केचिदिति । शरीरस्येन्द्रियाधिष्ठानत्वेन प्राधान्यादुपचारात्प्राधान्येनाधिकरणप्रतिपाद्यं शरीरशब्देनोक्तम् । तत्र पर्णमय्यधिकरणशरीरादभिन्नमित्यर्थः । अभ्युच्चयहेतुत्वे कारणम्— विसम्वादोऽपि च । इत्यनेनोक्तम् । सर्वविधिसरूपविषयत्वादस्य फलविधिसरूपमात्रविष- येण पर्णमय्यधिकरणेनापौनरुक्त्यमिति । प्रकारान्तरमाशङ्कते — तस्मादिति । निरस्य-
१९ ] प्रथमाध्याये द्वितीयपादः १३५ तोहापीति । फलविधिसरूपांशेनास्यापि तेन गतार्थत्वमपरिहार्यमिति तावच्छब्देन सूचितम् : एतद्दोषपरिहारार्थं फलविधिसरूपव्यतिरिक्तानामेवात्रोदाहरणत्वमिति प्रकारान्तरमाशङ्कते- इति व्यवस्थयेति । हेतावितिकरणत्वं निरस्यति - अत्र वदाम इति । ननूदाहरणभेदस्याधिकरणभेदाक्षेप- कत्वाद्वारभ्यमेवाधिकरणद्वयमित्यत आह-न हीति । किं तर्ह्यधिकरणभेदाक्षेपकमत आह- न्यायेति । न चास्य फलविधिसरूपव्यतिरिक्तसर्वविधिसरूपविषयतास्तीत्याह - द्रव्यादि- विधयोऽपीति । कुत्र विचारिता इत्यपेक्षायामाह - केचिदिति । एवं पौनरुक्त्येनाधि- करणारेम्भे दूषिते पौनरुक्त्यं परिहर्तुमशक्नुवतां मतेनारम्भं तावत्समाधत्ते - अतश्चेति । यथैव चतुर्थे 'सह शाखया प्रस्तरं प्रहरतीति' शाखाप्रहरणस्य प्रतिपत्त्यर्थकर्मत्वसन्देहे तृतीयाया अर्थकर्मत्वे प्राप्ते, सहयोगनिमित्तवात्तृतीयायां द्वितीयावगतप्राधान्यप्रस्तरसाह- चर्याच्छाखाया अपि प्राधान्यावगतेः प्रतिपत्तित्वे सिद्धान्तिते द्वितीयायाः प्राधान्यव्यभि- चारशङ्कापरिहारार्थयोरर्थेऽपीति चेन्न, तस्यानधिकारात् । फलस्याधिकृतत्वादितिसूत्रयोः सक्त्वधिकरणगताभ्यां सूत्राभ्यां द्रव्योपदेश इति चेन्न । तदर्थत्वाल्लोकवत्त्स्य च शेषभू- तत्वाद्दिति' सूत्राभ्यां पौनरुक्त्यमाशङ्क्य नातीव पुनरुक्तता महान् दोषः। बहुकृत्वोऽपि पथ्यं वदितव्यमिति परिहारं भाष्यकारो वक्ष्यति । तथैवात्रापि वक्तव्यमित्यर्थः । वार्तिकमतेन पौनरुक्त्यपरिहारः स्वयमिदानीं चतुरः पौनरुक्त्यपरिहारप्रकारानाह-अथ वेति । एकस्यैव साध्यसाधन- सम्बन्धाभावप्रतिपादनन्यायस्यात्र साधनांशः, तत्र साध्यांशः साध्यत इत्यर्थः । द्वितीयं प्रकारमाह-स्पष्टं चेति । सर्वविधिसरूपाणामिति । फलविधिसरूपाणां पर्णोदुम्बराद्यर्थ- वादानाम्, 'यजमानः प्रस्तर' इत्यादीनां च द्रव्यविधिसरूपाणाम्, विदग्धादीनां च गुणविधि- सरूपाणाम्, माषपाकादिविषयाणां च क्रियाविधिसरूपाणाम् 'आग्नेयो वै ब्राह्मण' इत्यादीनां देवताविधिरूपाणां केवलार्थवादनिरपेक्षविधिनिराकरणेनेत्यर्थः । फलादिसम्बन्धोत्तरकालमर्थवादान्वयात्पर्णोदुम्बरतादावार्थवादिकफलकल्पनमशक्यं पूर्वपक्षयितुमित्याशङ्कयार्थवादकल्पिते विधावित्युक्तं क्लृपू सामर्थ्यं इति धातोर्घञन्तात्कृपो रो ल (पा० सू० ८।२।१८) इति लादेशे कृते तत्करोति तदाचष्टइति समर्थं करोतीत्यस्मि- न्नर्थे णिचमुत्पाद्य निष्ठायां कल्पित इति रूपम् । तेनार्थवादेनाङ्गभूतेन विधौ प्रवृत्त्युत्पादन- समर्थे कृते विधिसामर्थ्येनायँवादान्वयात्प्रागेवाकाङ्क्षस्य फलस्यानिर्द्धारितविशेषस्य विशेषा- काङ्क्षावेलायामित्यर्थः । यथाय्यनभावनायां फलाश्रवणेऽपि विधिसामर्थ्यात्किञ्चित्समीहितं फलं भावयेदित्यनिर्द्धारितविशेषफलान्वयेऽवधारिते वेदाध्ययनरूपकरणान्वयोत्तरकालं योग्य- तयार्थज्ञानरूपफलविशेषनिर्द्धारणमविरुद्धम् । तथात्रापीति भावः । अन्यार्थेति । विहितपर्णो- दुम्बरतास्तुत्यर्थमित्यर्थः । फलविधित्वमपीत्यपिशब्देनोदुम्बराधिकरणसिद्धार्थवादत्वाङ्गी-
१३६ मीमांसादर्शनम् [ सू० करणेन तदाक्षिप्तफलविधिप्रतिपादनाद्विध्यर्थवादसमुच्चयेन पर्णमय्यधिकरणपूर्वपक्ष इत्यु- क्तम्--अर्थवादत्वमेवेति । केवलार्थवादत्वेन सिद्धान्तो दर्शितः । निवीताद्यर्थवादानामपि सिद्धवत्कीर्त्तनान्यथानुपपत्त्या विध्याक्षेपकत्वात्समुच्चयेन पूर्वपक्षं कृत्वा, विक्षेपे प्रकरणादुत्कर्षापत्तेः । तस्य च केवलार्थवादत्वेन प्रकरणानिवेश- सम्भवोपपत्तेः । केवलार्थवादत्वेन सिद्धान्तो निवीताद्यधिकरणेषु करिष्यत इत्याह-- एतेनेति । कृत्वा चिन्तात्वेन वा तेषां पुनरारम्भ इत्याह--अथ वेति । परकृतिपुराकल्पाधि- करणमपि कृत्वा चिन्तेत्याह--तथेति । इति ह स्माह वटुकुर्वाष्णिर्माषान्मे पचत न ह वा एतेषांऽहविगृ॑ह्णन्तीत्येककर्त्तृ॑कमुपाख्यानं परकृत्याख्यम् । उल्मुकैर्हस्मपूर्वे समाजग्मुस्तान- सुरा रक्षांऽसि निज्ज॑घ्नुरिति चानेककर्त्तृ॑कमुपाख्यानं पुराकल्पाख्यमुदाहृत्य किमिमौ माषपाकोल्मुकसंयोगविधी उतारण्याशनगृहपत्यग्निर्वापस्तुत्यर्थौ निन्दार्थवादाविति सन्दिह्यार्थवत्त्वाद्विधी इति पूर्वपक्षमङ्गीकृत्य परकृत्युदाहरणे किं सर्वेषामेव दर्शपूर्णमास- याजिनाम्मौपवसथ्याहे माषभोजनं विधीयते वृष्णिगोत्राणामेव वेति चिन्तयिष्यते । तत्र वार्ष्णिशब्देन वृष्णिगोत्रविशेषसम्बन्धितया भोजनार्थं माषपाककीर्त्तनात्तदन्यथानुपपत्त्या विधिः कल्प्यमानो न सर्वविषयः कल्पयितुं शक्यत इति । पश्चाद्वत्तद्व्यवस्थेति प्राप्ते, विशिष्टपुरुषाचरितत्वेन माषस्तुत्यर्थतया वार्ष्णिसम्बन्धकीर्त्तनोपपत्तेर्विशेषविधित्सायां वार्ष्णिवद्व्यतिरिक्तानां वृष्णिगोत्राणामपि विधानापत्तेः सर्वेषामेव दर्शपूर्णमासयाजिना- मारण्यभोजनादिना सह वैकल्पिकं माषभोजनं विधीयत इति पक्षान्तरमुक्त्वा 'तस्मादारण्य- मेवाश्नीयादिति विध्यन्तरैकवाक्यत्वेनारण्यान्नस्य प्रशस्ततरत्वद्योतनार्थं जर्त्तिलयवाग्वादि- वन्निन्द्यानामपि माषाणां स्तुतिरिति सिद्धान्तयिष्यते । पुराकल्पोदाहरणेऽपि गृहपतेरेवाग्निषु निर्मन्ध्य निर्वपेरन्निति विध्यन्तरैकवाक्यत्वेन निर्मन्थिताग्निसंसर्गस्तुत्यर्थमुल्मुकसंसर्गे निन्दोपपत्तेर्न निन्दाकल्पनिषेधबलेन प्रापकविधि- कल्पनं पूर्वमहर्ष्याचरितत्वेन वा पृथग्विधिकल्पनं युक्तमिति सिद्धान्तः करिष्यते । यद्यदा- चरति श्रेष्ठस्तत्तदेवेतरो जन इति न्यायात् । पूर्वाचरितोपन्यासेन विधिकल्पनमित्येवंविध- पूर्वपक्षसाम्यमात्रेणानयोर्दाहरणयोः साहचर्यम्, न तु पुराकल्पोदाहरणे कृत्वा चिन्ता का चिदस्ति । तस्मात्परकृतिपुराकल्पयोर्मध्ये एकस्मिन्परकृत्युदाहरणे कृत्वा चिन्तेति निर्द्धा- रणे सप्तमी व्याख्येया । अर्थैकत्वजर्तिलाधिकरणयोः कथं निवेशोऽत आह—एवमिति । सापि कृत्वा चिन्तेत्यर्थः । चिन्तान्तरस्य तत्राभावात्, कृत्वा चिन्तानुपपत्तिमाशङ्क्याह— बाधप्रसङ्गेनेत्युक्तम् । यद्यपि तत्र चिन्तान्तरं न कृतम्; तथापि सामोहोपोद्घातप्रसक्तानुप्रसक्त्या यदृचा स्तुवत. इति विधिरर्थवादो वेति चिन्तायाः करिष्यमाणत्वात्तदुपयोगितया विधिपक्षे किमति- देशप्राप्तस्तुतिसाधनसामाधारतृचबाधेनैकगर्गाधारत्वं विधीयते उताप्रगीतर्गैकत्वम् । तत्र पूर्वं- पक्षे योन्युत्पन्नस्य साम्न उत्तरयोरगानादूहाप्राप्तेरितरस्मिन् पक्षे साम्नस्तृचाश्रितत्वाबाधा- दूहोपपत्तेरिति चिन्तान्तरं कल्प्यम् ।
पादकत्वात्कल्प्यमिति भावः । कृत्वा चिन्तात्वाभावेऽपि चौदुम्बराधिकरणव्युत्पादित-
१९ ] प्रथमाध्याये द्वितीयपादः १३७ जर्तिलचिन्ताथ बाधप्रसङ्गेन करिष्यमाणत्वादथो खल्वाहुरनाहुतिर्वै जर्तिलाश्च गवीधुकाश्चेति अस्य निषेधार्थत्वेऽपि किं जर्तिलगवीधुकानामनुकल्पत्वद्योतनार्थोऽयं निषेधे विकल्पार्थो वेतिचिन्तान्तरम् । अनुकल्पकत्वपक्षे बाधानापादकत्वाद्विकल्पपक्षो तदा- पादकत्वात्कल्प्यमिति भावः । कृत्वा चिन्तात्वाभावेऽपि चौदुम्बराधिकरणव्युत्पादित- मप्यर्थवादत्वमुदाहरणविशेषेष्वाक्षिप्य समाधानाय सा चिन्तेत्येवं ग्रन्थो व्याख्येयः । अस्मिन् व्याख्याने पाष्ठस्यापि पुराकल्पोदाहरणविषयस्य विचारस्यानेनैव न्यायेन कृत्वा चिन्तात्वाभावेऽपि पौनरुक्त्यं परिहृतं भवति । एवंशब्दश्च यथाधिकार- प्रसङ्गेन पष्ठगता चिन्ता एवमेपापीत्येवन्नेया । तत्सिद्धिसूत्रस्थाप्यपौनरुक्त्यमाह— तत्सिद्धिसूत्रे त्विति । मीमांसाप्रक्रियामात्रेण विध्यर्थवादचिन्तेति भावः । सर्वविधि- सरूपाणामौदुम्बराधिकरणेनैवार्थवादत्वसिद्धौ पुराकल्पाद्युदाहरणेषु कृत्वा चिन्तानुपन्या- सादाक्षेपहेतुत्वाभावाच्च पौनरुक्त्यापरिहारेण परिहारतोषात्प्रकारान्तरमाह—अथ वेति । पृथक् फलपदसद्भावेऽपि फलविधौ निराकृते तदभावे फलविध्याशङ्काया दूर- निरस्तत्वेनाऽत्रापि अपरितोषाच्चतुर्थं प्रकारमाह—अथ वेति । परार्थविज्ञाने कारणमाह— अत्र हीति । स्वातन्त्र्येणेति जुहूसम्बन्धनिरपेक्ष्येणेत्यर्थः । एतदेवोपपादयितुं सामान्य- न्यायान्तावदाह— सर्वत्र हीति । प्रकृते योजयति—तदिहेति । किं सम्बध्यतामित्यनार- भ्याधीतत्वेन पर्णमयीत्वस्य प्रकृताश्रयालाभादिति भावः । वाक्येनाश्रयदानमाशङ्क्य निरस्यति—जुहूरिति । अभ्युपगम्यापि जुहूसम्बन्धं नैराकाङ्क्ष्यास्तीत्याह—सापि चेति । अतः फले पर्णमयीत्वविध्ययोगाज्जुह्वर्थत्वेन सिद्धो विधिरित्युपसंहरति— तस्मादिति । पर्णमयीत्वेन जुहूं भावयेदिति वचनव्यक्तिरितरशब्देनोक्ता । जुह्वनुवादेन पर्ण- मयीत्वस्य विधौ सिद्धे यथापारार्थ्यनिर्ज्ञातं भवति तथा दर्शयति । तत्र चेति । एवं निर्ज्ञातपारार्थ्यस्यापि पर्णमयीत्वस्यापापश्लोकश्रवणात्मकफलश्रुतेः फलार्थतापि दध्यादि- वदस्त्विति पर्णमय्यधिकरणे पूर्वपक्षं कृत्वा सकृच्छ्रुतया पर्णत्वजातेर्जुह्वङ्गत्वेन निरा- काङ्क्षीकृताया द्व्यर्थत्वायोगात्फलश्रुतिरर्थवादमात्रमिति सिद्धान्तः करिष्यत इत्याह—ततश्चेति । औदुम्बरत्वस्य तु सोमा पौष्णं त्रैतमालभेत पशुकाम इति विकृतपशुप्रकरणे श्रुतस्यातिदेशप्राप्तनिर्ज्ञातजातिविशेषयूपार्थत्वेन विध्ययोगात्पारार्थ्यान्वगतेः पर्णमय्य- धिकरणविषयत्वन्नास्तीत्याह—इह पुनरिति । एतदेव प्रश्नपूर्वकमपपादयति—कथमिति । नन्वाश्रयालाभात्कथमस्य फलविधिराराङ्क्येत अत आह—यापि चेति । प्रकृतावग्नीषोमीये पशुनियोजनाव्यकर्मसम्बन्धितया विहितस्य यूपस्यात्र चोदकप्राप्तस्यौदुम्बरजात्याश्रयत्वेन ग्रहणादित्यर्थः । कर्मसम्बन्धाभिधानत्वमाश्रययोग्यताप्रदर्शना्थम् । अतः सिद्धं पर्णमय्यधि- करणेनापौनरुक्त्यमौदुम्बराधिकरणस्येत्याह—तेनेति ।
१३८ मीमांसादर्शनम् [ सू० कः पुनरेतेषां चतुर्णां पौनरुक्त्यपरिहारप्रकाराणां मध्ये अभिमत इत्यपेक्षिते प्रथमो- पन्यस्तस्यैकस्यैव न्यायस्य क्वचित्कश्चिदंशः शोध्यत इत्यस्यैवाभिमतत्वमाह- इदमिति । न विद्यते परमुत्कृष्टमस्मादित्यर्थः । उदुम्बरत्वजातेरपि प्रकृताश्रयत्वाभावाच्चोदकप्राप्तस्य निर्ज्ञातसाधनत्वेन नैराकाङ्क्ष्यात्तदर्थविहितसाधनान्तराग्राहकत्वाद् गुणफलसम्बन्धायोगे- नौदुम्बरत्वेन यूपं भावयेदितिवचनव्यक्त्याश्रयणात्पारार्थ्याविगतेः पर्णमयीन्यायविषयत्वा- च्चतुर्थोऽपि प्रकारो न युक्त इति भावः । किं तदित्यपेक्षिते विवेचयितुमारभते-- औदुम्बर- वाक्यमिति । उदाहरणभेदे कथमपौनरुक्त्यमित्यपेक्षिते प्रश्नपूर्वकं परिहरति-- कथमिति । ननु साध्यसाधनांशयोरन्योन्याविनाभावादेकसिद्ध्यावेतरसिद्धेरंशद्वयविचारोऽनर्थकः, अत आह-- साध्येति । अस्यार्थस्य सार्वत्रिकत्वसूचनार्थस्तावच्छब्दः सर्वत्रैव तावदेवमित्यर्थः । कः पुनरंशः क्व विचार्यत इत्यपेक्षायामाह-- तत्रेति । ननु यदि द्वयोर्योग्यपदोपादानं विना साध्यसाधनसम्बन्धो न युज्यत तर्ह्येकनिराकरणे- नैवेतरनिराकरणसिद्धेरंशद्वयनिराकरणमनर्थकमत आह-- यच्चेति । अनिराकृतांशो प्रतिषिद्धमनुमतं भवतीत्यनेन न्यायेनाङ्गीकृतः स्यादिति भवतिशब्देनोक्तम् । तेनायमर्थः यत्साध्यं साधनं वा यदात्मना साध्यत्वेन साधनत्वेन वा निराकरणाभावात्प्रतिपादितं भवति तत्पदान्तरेणादिशब्दोपात्तेन सामर्थ्येन वोपात्तेन प्रतियोगिविशेषण साधनेन साध्येन वा सम्बध्यत इति । एतदेव विभज्य कथयति- तत्रेति । औदुम्बराधिकरणे हि ऊर्जावरोधापापश्लोकश्रवणाद्यनिराकृतत्वात्साध्यमित्यवधृते तत्सन्निधौ श्रुतमौदुम्बरपर्णतादिश्रुतशब्दाङ्गयोग्यत्वेऽपि अर्थापत्त्या योग्यशब्दान्तरकल्पनया साधनं गम्यते, एवं पर्णमय्यधिकरणे निराकरणाभावादुदुम्बरपर्णतादिसाधनावधारणेऽपि तत्साध्यं गम्यत इति शेषः । एतदेवोपसंहरति-- इति द्वावपीति । साधनस्य विधि- विषयत्वं स्वरूपम्; साध्यस्य च ? कमिषदोपात्तत्वमिति द्वयोरपि साध्यसाधनांशयोः स्वरूपन्निरूपयितव्यमित्यर्थः । नन्वस्याधिकरणस्य साधनांशमात्रनिराकरणार्थत्वे विधौ वाक्यभेदः स्यादिति साध्यांशनिराकरणं पर्णमय्यधिकरणस्य च साध्यांशमात्रनिराकरणार्थत्वे सत्युत्पत्तेश्चा- तत्प्रधानत्वादिति साधनांशनिराकरणमयुक्तं स्यादात आह-- तद्विहेति । भिन्नांशविषयत्वेन पौनरुक्त्ये परिहृते प्रकरणसङ्गतिमाक्षिपति- नन्विति । हेत्वधिकरणेऽर्थवादविचाराद- समाप्तमर्थवादाधिकरणम्, न चास्य विचारस्य विध्यभावे श्रेयः साधनत्वबोधः सम्भवति, उत नेत्येवं रूपत्वात्तेन¹ सङ्गतिर्युक्तेत्यर्थः । अर्थवादाधिकरणेनेत्यधिकरणशब्देनाधिकारः प्रस्तावः प्रकरणमुक्तं विधिशेषत्वेनार्थवादानां धर्म्मप्रमोपयोगे प्रतिपादिते विध्यभावेऽपि श्रेयः साधनत्वबोधसम्भवाद्धिरेव धर्मोपयोगित्वाभावात्कथं तद्द्वारेणार्थवादाना- १. अर्थवादाधिकरणेन सङ्गतिर्न च युक्तेत्यन्वयः ।
१९ ] प्रथमाध्याये द्वितीयपादः १३९ यामुपयोगित्यर्थवादाधिकरणसिद्धान्ताक्षेपेणैतदधिकरणपूर्वपक्षोत्थानाद्विध्युद्देशचिन्तात्वेऽपि तत्सङ्गत्युपपत्तिः । यद्यर्थवादानां धर्मप्रयोगे प्रतिपादिते कोऽर्थवादः, को वा नेति कोष्ठशोधनिकार्थत्वे- नाधिकरणद्वयस्यार्थवादाधिकरणशेषत्वाभ्युपगमाद्विध्युद्देशचिन्तात्वेऽपि तदसम्भवाशङ्केयम् । अधिकरणद्वयेन सर्वार्थवादाव्याप्तेः कथं कोष्ठशोधनिकेति चेत् ? उच्यते आद्ये विध्येक- वाक्यत्वेन स्तुत्यर्थत्वेऽभिहिते, सिद्धैकान्तिकविध्येकवाक्यत्वानामपि येषां साध्यसाधनांशा- भिधानाद्विध्युद्देशान्तर्गतिराभाति, तेषां तन्निराकरणेन स्तुत्यर्थतेह स्थाप्यते । हेत्वर्था- करणेऽपि अन्वयवाक्यकल्पनेन दर्व्यादिसाधनांशाभिधानाद्विध्युद्देशान्तर्गत्या शङ्कैव निरा- क्रियते । पृथग्विधित्वाशङ्कानिराकरणमधिकरणान्तरेषु भविष्यति । तस्मादधिकरणान्तर- निराकृतपृथग्विधित्वाशङ्कानां सम्भवद्विध्येकवाक्यत्वानामसम्भवाद्दिध्युद्देशान्तर्गतानां सर्वे- षामर्थवादत्वमिहैव स्थापितं भवति । प्रकृतार्थवादत्वसिद्धयर्थत्वाद्विध्युद्देशचिन्ताप्यत्र नासङ्गतेति परिहरति—नैष इति। विध्युद्देशचिन्तावशेन प्रकृतार्थवादत्वरूपार्थपरि- च्छेदादित्यर्थः । एतदेव विवृणोति—यदि हीति । साधनांशे विचार्यमाण इत्यत्र प्रकृतः साधनांशोऽसा- विति सर्वनाम्ना परामृश्यते । एतदधिकरणपूर्वपक्षे च विध्युपयोगानभ्युपगमात्१, अज्ञात- ज्ञापनाभिप्रायं विधीयमानतयेति व्याख्येयम् । तेन यद्यसौ साधनांशोऽज्ञातज्ञाप्यतयाऽपूर्वेण साधनांशप्रतिपादकेनौदुम्बरो यूपो भवतीत्यनेन वाक्यभावनावगतः, ततोऽपेक्षावशेनोज्ज्र्को अवरुध्या इत्यस्य फलसमर्पकत्वान्नार्थवादत्वमित्यर्थः । पूर्वपक्षमाह—तत्रेति । ननूर्जोऽवरुध्या इति तादर्थ्यचतुर्थ्या साध्यावगमेऽप्यपाप- श्लोकश्रवणादेः साध्यत्वावगमभावाद्दूर्जोऽवरुध्या इत्यस्यापि च तैत्तिरीयादिशाखास्व- श्रवणात्कथं साध्यसन्निधान इत्युक्तम् । उच्यते औदुम्बरत्वादेः प्राप्त्यभावाद्दिध्येकवाक्यत्वं च विनार्थवादत्वायोगादर्थवादाच्च विधिकल्पनेऽन्योन्याश्रयत्वापत्तेरवश्यविधेयत्वाद्विधेश्च भावनैकगोचरत्वाद्यूपोद्देश्यौदुम्बरत्वादिभवनस्य पुंव्यापाराधीनत्वात्पुंव्यापाराधीनकत्र्तव्य- त्वप्रतिपादकपदकल्पनेन भवतिशब्दस्यैव वाऽन्तर्णीतप्रयोजकव्यापारवचनस्य पञ्चमलकार- कल्पनेन भावनाविधिप्रतीतेः । भावनायाश्च भव्यनिष्ठत्वाद्योग्यत्वेनोर्गवरोधापापश्लोक- श्रवणादेः साध्यत्वावगतेः साध्यसन्निधानाभिधानं विध्यभावाभिधानं२ चौदुम्बरत्वाद्यु- त्पत्तिविधानाथं कल्पितस्य प्रत्ययस्यान्यत्र व्यापारासम्भवेन साधनत्वबोधकारणत्वा- भावाभिप्रायम् । ननु तृतीयां विनाऽपि योगस्य विधिसामर्थ्यात्साधनत्वं युक्तम् । इह तु तदश्रवणात्, उत्पत्तिसिद्धयर्थञ्च कल्पितस्य विधेरत्राव्यापारात्कथं साधनत्वावगतिरत आह—तत्रेति । १. उत्पत्तिविध्युपयोगानभ्युपपगमादित्यर्थः । २. ताद्रूप्येणानुपामत्तिमित्यत्रार्थाद्विध्यभावाभिधानम् ।
१४० मीमांसादर्शनम् [ सू० समभिव्याहारमात्रेण साध्यसाधनसंबन्धावगतिसम्भवान्न विधिना कश्चिदुपयोग इति भावः । समभिव्याहारमात्रात्साधनत्वावगमेऽपि पुरुषप्रवृत्तिसिद्धयर्थं विध्यपेक्षा भविष्यतीत्या- शङ्कते-पुरुषमिति । साधनत्वावगतौ सत्यामिच्छयैव प्रवृत्तिसिद्धेस्तदर्थमपि न विध्य- पेक्षेति परिहरति-स चेति । यद्वा यूपानुवादेन विधीयमानस्यौदुम्बरत्वस्य यूपद्वारेण क्रत्वर्थत्वावगमात्तत्प्रयोग- वचनेनैवानुष्ठानसिद्धेर्न तदर्थमिह विध्यपेक्षेत्याह-अथ वेति । क्रत्वर्थस्यापि समभि- व्याहारावगतं फलार्थत्वमपि दध्यादिवदविरुद्धमिति भावः । उत्पत्तिविधIREवाऽगत्या अनुष्ठापको भविष्यतीत्याह-पञ्चमी वेति । अर्थवादाद्वा प्रवृत्तिसिद्धेर्न तदर्थं विध्यपेक्षे- त्याह- अर्थवादेति । ऊर्ज्र्जॊऽवरुद्ध्या इत्यस्य पूर्वपक्षे विध्युद्देशान्तर्गतमभ्युपगमात्सिद्धान्ता- भिपायेणैकदेशग्रहणम् । विधिनिरपेक्षस्यार्थवादस्य प्रवर्त्तकत्वानुपपत्तिमाशङ्कय प्रत्ययो- त्खातिवादिमतेनैतदुक्तमिति दर्शयितुमुक्तमेवेत्युक्तम् । सूत्रं व्याख्याय विधिवन्निगदेष्वित्यादिभाष्यं तात्पर्यतो व्याचष्टे - तस्मादिति । यस्मा- द्विध्यभावेऽपि समभिव्याहारमात्रेण साध्यसाधनसम्बन्धबोधः सम्भवति, तस्मात्तस्मिन् फले औदुम्बरतायाः साधनतया विधिरज्ञातज्ञापनमित्यर्थः । प्रायेणैवङ्कामशब्देन फलसमर्प- णात्, अपि चेत्यादिभाष्योक्तं चतुर्थ्या फलसमर्पणमयुक्तमाशङ्कयोर्जोऽवरुद्ध्यै इत्याद्युक्तम् । फलविधिरित्यत्र विधिशब्दस्य शौण्डादिष्वपाठात्सप्तमीसमासानुपपत्तेः, षष्ठीसमास एवायं स्यादित्याशङ्क्याह-नन्विति । विवक्षितार्थलाभायान्यथापि कल्पनं युक्तमिति भावः । भावार्थाधिकरणे फलविध्यनिपेक्षात् भावस्य भावनाख्यस्यार्थः प्रयोजनं फलं विधेयं, न वेति यत्र चिन्त्यते । लिप्सासूत्रस्याद्यवर्णके तद्भावार्थाधिकरणमिहोक्तम् । नन्वस्य फल- परत्वे स्तुत्यभावाद्भिधिरवसीदेत आह-ऊर्गदुम्बर इति । पूर्वाधिकरणे लाक्षणिकस्तु- त्युपयोगाभिधानादिहानर्थक्याभिधानमयुक्तमाशङ्क्याह- तस्मादिति । साध्यसाधनभाव- प्रतिपादनस्य प्रवृत्तिविशेषकरत्वेनार्थवत्तरत्वातदपेक्षया स्तुत्यानर्थक्यमिति भावः । यस्मादुक्तप्रकारेणौदुम्बरतायाः फले विधिः सम्भवति, तस्मादित्यर्थः । अनेन च वादमात्रं ह्यानर्थकमित्यस्य स्तुतिवादस्य निष्प्रयोजनत्वाभिधानप्रतिपादनपरत्वप्रतिपादनार्थमितरथेति भाष्यम्, मुख्यार्थरहितत्वप्रतिपादनार्थं च न चेति भाष्यं तन्त्रेण व्याख्यातम् ॥ १९ ॥ भा० प्र०-पूर्वं के अधिकरण से अर्थ वाक्यों का प्रामाण्य प्रतिष्ठापित किया गया है । प्रकृत में जो अर्थवाद विधि के समान प्रतीत होते हैं, किन्तु विधि नहीं है उन उदाहरणों को प्रस्तुत कर विषय को स्पष्ट किया जा रहा है । इस सूत्र में पूर्वपक्षी के मत का प्रदर्शन है । 'उदुम्बरो यूषो भवति, उर्ग॒ वा उदुम्बर उर्क॒ पशव ऊर्ज्जेवास्मा उर्जं पशूनाप्नोति उज्ज्र्जॊऽवरुद्धयं' (तै० सं० २।१।१) उदुम्बर से निर्मित उदुम्बर होना चाहिए, उर्क॒ अर्थात् अन्न या अन्न का अमृतस्वरूप सूक्ष्म रस ही उदुम्बर होता है, पशु अन्न है
२० ] प्रथमाध्याये द्वितीयपादः १४१ और उदुम्बर स्वरूप ऊर्क् है अर्थात् अन्न के द्वारा अध्वर्यु यजमान के लिए पशुरूप अन्न प्राप्त करता है—यज्ञ के फल के रूप में लाभ करता है । अतः उदुम्बर निर्मित यूप अन्न की अवरुद्धि अर्थात् अवरोध या संस्थान या सम्पादन का कारण होता है । यह वेदवाक्य के अर्थ में संशय होता है कि इससे किसी का विधान है या किसी की प्रशंसा की जाती है । अर्थात् यह विधि है या अर्थवाद । पूर्वपक्षी इसके उत्तर में कहता है— यह विधि है, यह अर्थवाद नहीं हो सकता है । "अपूर्वत्वात्" प्रकृत में उदुम्बरस्वरूप गुण एवं अन्नसम्पादनरूप फल अपूर्वं अर्थात् अप्राप्त अर्थात् प्रमाणान्तर से अज्ञात है । "धनलाभाय राजसेवा" इत्यादि स्थल में तादर्थ्य में चतुर्थी होती है, यहाँ भी "ऊर्जोऽ- वरुद्ध्यै" में तादर्थ्य में चतुर्थी है । राजसेवा जिस प्रकार धन लाभ का साधन है, वैसे ही यूप का उदुम्बरस्वरूप गुण भी ऊर्ज की अवरुद्धि के अर्थात् अन्न सम्पादनरूप फल का हेतु है । यद्यपि यहाँ विधिविभक्ति नहीं है, तथापि विधिजन्य प्रवृत्ति होती है, कारण, ऐसे स्थलों में यह फल है, यह इसका साधन है—इस प्रकार का ज्ञान होने से ही प्रवृत्ति होती है । यदि इसको विधि न कहा जाय तो वाक्य अनर्थक हो जायेगा, क्योंकि, अर्थवाद स्वार्थ का प्रतिपादक न होने से वाक्य अनर्थक होगा, कारण, अर्थवाद स्वार्थ का प्रतिपादक होने पर अन्य की प्रशंसा कर चरितार्थ होता है । किन्तु यहाँ किसी प्रकार की प्रशंसा नहीं है । (पूर्वपक्ष) 'विधिः' = विधि, 'वा' अवश्य, 'स्यात्' होगी, अपूर्वत्वात् अपूर्व अर्थात् अप्राप्त होने से 'वादमात्रं' केवल अर्थवाद, 'हि' = क्योंकि "अनर्थकम्"=अनर्थक अर्थात् निष्प्रयोजन है । क्योंकि विधि सम्पर्क शून्य केवल अर्थवाद अनर्थक होता है, इसलिए ऊर्ग॒ या उदुम्बरः इत्यादि स्थल में विधि ही मानना होगा ॥ १९ ॥ लोकवदिति चेत् ॥ १.२.२० ॥ शा० भा०—इति चेत्पश्यसि—स्तुतिरनर्थिका, न च शब्देनावगम्यत इति । लौकिकानि वाक्यानि भवन्तो विदाङ्कुर्वन्तु । यद्यथेयं गौः क्रेतव्या देवदत्तीया, एषा हि बहुक्षीरा, स्त्र्यपत्या, अनष्टप्रजा चेति । क्रेतव्येत्यप्युक्ते गुणाभिधाना- त्प्रवर्तन्तेतरां क्रेतारः । बहुक्षीरेति च गुणाभिधानमवगम्यते । तद्वद् वेदेऽपि भविष्यति ॥ २० ॥ भा० वि०—यदुक्तं वादमात्रमनर्थकमिति तत्र चोदयति—लोकवदिति । स्तुतेरर्थवत्त्वं प्रतिजानान इति चेदिति व्याचष्टे—इति चेदिति । इति शब्दार्थ- माह—दृश्यत इत्यादिना । ऊर्जोऽवरुध्या इत्यादिना शब्देन या स्तुतिर्गम्यते, सानार्थिकेति, ⋯न⋯ दृश्यते युज्यते अर्थवत्येव युक्तेत्यर्थः, कुत इत्याशङ्क्य लोक- वदिति भागं व्याचष्टे—लौकिकानीति । विदाङ्कुर्वन्तु—विचारयन्तु । कानि
१४२ मीमांसादर्शनम् [ सू० तानीत्यपेक्षायां विधेयस्तावकतया सार्थकं लौकिकं वाक्यमुदाहरति - तद्यथेति । लौकिकस्यापि स्तुतिपदस्यानर्थक्यात् साध्यविकलो दृष्टान्तमाह—क्रेतव्येति । क्रेतव्येत्युक्ते प्रवर्तमानाः क्रेतारो गुणाभिधानात् प्रवर्तन्तेतरां प्रवृत्त्यतिशयवन्तो दृश्यन्त इत्यर्थः, गुणाभिधानं चेह स्फुटमित्याह—बहुक्षीरेति । अतः प्रवृत्त्यति- शयाय वेदेऽपि स्तुतिरर्थवतीत्याह—तद्वदिति ॥ २० ॥ त० वा०—लोके तावद् बुद्धिपूर्वकारिणः पुरुषा मात्रामपि न निष्प्रयोजनां प्रयुञ्जते । तत्र च क्रेतव्येति विहिते बहुक्षीरादिभिर्गुणैः स्तुतिः प्रवृत्तिविशेष- निमित्तत्वेनाऽऽश्रीयते । न च क्षीरादयः फलविधयः प्रत्यक्षविषयत्वादतः स्तुतिः । एवं वेदेऽपि । श्रुत्यसंभवाच्च लक्षणापरिग्रह इत्यदोषः ॥ २० ॥ न्या० सु०—लौकिकस्यापि स्तुतिमात्रस्यानर्थक्यात्साध्यविकलत्वमाशङ्क्याह— लोके तावदिति । क्रेतव्येति भाष्यं व्याचष्टे—तत्र चेति । अस्यापि फलपरत्वाददृष्टान्त- त्वमाशङ्क्याह—न चेति । तद्वदिति भाष्यं व्याचष्टे—एवमिति । लक्षणादोषं परिहरति— श्रुतीति ॥२०॥ भा० प्र०—स्तुति को अनर्थक कहना ठीक नहीं है । लौकिक वाक्यों के विचार से ही उसकी सार्थकता के अनुसार इसकी भी सार्थकता सिद्ध होती है । गाय बेचने वाला गाय के सम्बन्ध में कहता है कि—यह गाय खरीदो, इसको अधिक दूध होता है, बछियावाली भी है और प्रतिवर्ष प्रसव करती है, तो सरलता से खरीदने में प्रवृत्ति होती है । वैसे ही 'उदम्बरो यूपो भवति' यहाँ औदुम्बरत्वरूप गुण विहित होता है, ऊर्क और अदुम्बर वाक्य उसी के स्तावक है । लोकवत्=लौकिक उक्ति के समान । इति चेत्=यदि कहा जाय । अर्थात् अर्थवाद की सार्थकता प्रदान की जाय तो किसी तरह अनर्थकत्व नहीं रह सकता है ॥ २० ॥ न पूर्वत्वात् ॥ १.२.२१ ॥ शा० भा०—नैतदेवम् । लोके विदितपूर्वा अर्था उच्यन्ते बहुक्षीरादयः। तेषां विज्ञानमेव न प्रयोजनम् । अतः प्रशंसा गम्यते । अविदितवादे न श्रद्दधीरन्पूर्व- वचनादिव । विदितत्वादेव च प्ररोचयन्ते । वैदिकेषु पुनर्यदि विधिशब्देन न प्ररोच्यन्ते, नतरामर्थवादेन । जाताशङ्को हि विधिशब्दे स तदानीम् । अथ विधि- शब्देन प्ररोचितः, किमर्थवादशब्देन, अपि च वेदे व्यक्तमसंवादः, ऊर्गोऽवरुद्ध्यै इत्यप्रसिद्धं वचनम्, ऊर्ध्वा उदुम्बर इति हेतुत्वं चाप्रसिद्धम् । यस्मादूर्गुदुम्बरः तस्मात्तन्मयो यूपः कर्तव्य इत्यूर्गुदुम्बर इत्यनृतवचनादन्यदस्यानृतमिति परि- कल्प्येत ॥ २१ ॥
२१ ] प्रथमाध्याये द्वितीयपादः १४३ भा० वि०—न पूर्वत्वादित्यत्र नञर्थं दर्शयन् दृष्टान्तवैषम्यं प्रतिजानीते— नैतदिति । वैषम्यं दर्शयन् पूर्वत्वादिति व्याचष्टे—लोक इति । मानान्तरा- वगताथर्त्वेन बहुक्षीरादिवाक्यानामप्रमापकत्वात् प्रशंसार्थता युक्तेत्यर्थः, वेदे त्वविदितवादत्वादूर्जोवरुध्या इत्यादेर्न प्रशंसार्थतेत्याह—अविदितेति । पूर्व- वचनादिव—वैदिकविध्युद्देशादिवेत्यर्थः । न च वसन्तादिवाक्ये विध्युद्देशादेव स्तुतेरङ्गीकारात् कथमश्रद्धेति वाच्यम् । तत्रापि कल्पितेनैव स्तुतिपदेन प्ररोच- नाङ्गीकारादिति भावः । विदितत्वाद्बहुक्षीरादयः प्ररोचयन्त इत्येतदुपपादयति— विदितत्वादेवेति । नोक्तिमात्रेण, तथा सति विसंवादेऽपि प्ररोचनाप्रसङ्गा- दिति भावः । ननु वेदेऽपि विधितः प्रवृत्त्यवगमात् तत्समभिव्याहृतानामर्थवादानां ताद- र्थ्येन विधिसंभवादेव प्ररोचनार्थत्वं संभवतीत्यत आह—वैदिकेष्विति । न तरा- मर्थवादेन प्ररोचयिष्यत इत्यत्र हेतुमाह—जाताशङ्को हीति । यो हि साक्षात्प्र- वर्तकं विधिमुल्लङ्घ्यार्थवादं प्रवृत्त्यङ्गतया प्रार्थयते । स कथं विधावविस्रब्धोऽ- र्थवादे प्रत्ययं कुर्यादिति भावः । यदि विधेरेव प्रवर्तकत्वसिद्धये प्ररोचकत्व- मपीष्यते तत्राह—अथेति । एवमविदितपूर्वत्वादूर्गवरोधादीनां न प्रशंसार्थत्व- मिति सूत्रं व्याख्यायान्यथाविदितपूर्वादपि न तदर्थतेति व्याचष्टे—अपि चेति । संवादविरुद्धोऽसंवादः विसंवाद इति यावत् । विसंवादमुपपादयति—ऊर्जोवरुध्या इति । अप्रसिद्धत्वं योग्यानुपलब्धिविषयत्वम्, वर्तमानेनोर्गवरोधेन हि स्तुतिः, तस्य चानुपलब्धेः अनुपलब्धिविरोध इति भावः । स्तुतिवाक्ये विसंवादमुक्त्वा हेतुवाक्येऽपि तमाह-ऊर्ग् वा उदुम्बर इतीति । न ह्यूर्क् च्छन्दाभिधेयमन्नत्वमभक्ष्ये वृक्षे पक्षधर्मत्वेन प्रसिद्धम्, नापि यत्रान्नत्वम् तत्र यूपत्वमिति अन्वयप्रसिद्धिः, तेन हेतुत्वाप्रसिद्धिरित्यर्थः, हेत्वसिद्ध्या साध्यासिद्धिमाह—यस्मादिति । ऊर्गदुम्बर इत्यनृतवचनाद्यदन्यत् साध्यं यस्मादूर्गुदुम्बरस्तस्मात्तन्मय उदुम्बरमयो यूपः कर्तव्य इति । तदप्यनृतं परिकल्प्येतेति योजना ॥ २१ ॥ त० वा०—नायं दृष्टान्तः । स्तुतेः प्रमाणान्तरावगत्यपेक्षत्वाल्लोके तत्संभ- वादुपपत्तिः । वेदे त्वविदितवादत्वान्न श्रद्दधीरन् । अथ वा लोक एव यद्यविदितं कश्चिद्वदेत्तदा नैव श्रद्दधीरन् । पूर्ववचनादिवेति । विध्युद्देशादिव । अथ वा वैधर्म्योपमा । यथाऽधिगतपूर्ववचने श्रद्दधते नैवमविदितवादे । न चोक्तिमात्रेणैते बहुक्षीरादयः प्ररोचयन्ते । किं तर्हि । विदितत्वादेव । वेदे त्वर्थवादासत्यत्वेन विधौ जाताशङ्को न प्रवर्तेत । अथ वा यो विधिमुत्क्रम्यार्थवादं प्रार्थयते नूनमस्य विधावविश्रम्भः । तत्र चेदनाश्वासोऽर्थवादे कुतः प्रत्यय इति । अपि च व्यक्तमसंवादो वर्तमाने । नोर्जोऽ-
१४४ मीमांसादर्शनम् [ सू० वरोधनेनेयं स्तुतिर्न च तदस्ति। तत्राविद्यमानबहुक्षीरसंकीर्तनवदेतत्स्यात् स्व- रूपतस्तावदुदुम्बरेऽन्नत्वं पक्षधर्मेणाप्रसिद्धम्। अन्वयाप्रसिद्धेश्च हेतुत्वाप्रसिद्धिः ! न हि यद्यदन्नम्, स स यूप इति लोके वेदे वा प्रसिद्धमित्यसंबद्धम्। तस्मादसंवा- दाद्वरं विधिरेव, किं स्तुत्या संवादापेक्षिण्येति ॥ २१ ॥ न्या० सु०—नैतदेवमिति भाष्यं व्याचष्टे—नायमिति। लोके इति भाष्यं व्याचष्टे— स्तुतेरिति। अविदित इति भाष्यं द्वेधा व्याचष्टे—वेदे स्थित्विति। पूर्ववचनादिवेति। भाष्यं पूर्ववदेव द्वेधा व्याचष्टे—पूर्वेति। विदितत्वादेवेति भाष्यं व्याचष्टे—न चेति। वैदिकेष्विति भाष्यं जाताशङ्कत्वं द्विधोपपादयन् व्याचष्टे—वेदे स्थित्विति। न लौकिकी स्तुतिर्विरुद्धा, प्रमाणान्तरेणास्याविदितपूर्वत्वादिति, वैदिकायाः स्तुतेः दार्ष्टान्तिकत्वनिरा- करणपरतया सूत्रव्याख्यानार्थमपि चेति भाष्यं व्याचष्टे—अपि चेति। अधर्मशब्दवद्वि- रुद्धवचनेनासंवादशब्देन विसंवादोऽभिप्रेतः। विसंवादोपपादनाथंमुज्जॉवरुद्ध्या इति भाष्यं व्याचष्टे—वर्त्तमानेनेति। स्तुतौ स्वार्थसत्यत्वानादरत्वस्योक्तत्वादिसंवादेऽपि स्तुतिनिर्वाहमाशङ्क्य विदितत्वादित्येतद्भाष्योक्तलौकिकस्तुतिविषयस्वार्थसत्यत्वादर- न्यायेनात्रापि पूर्वपक्षे स्थित्वा तदादरमाह—तत्रेति। ऊगुंदुम्बर इति भाष्यं व्याचष्टे—स्वरूपत इति। ऊक्शब्दाभिधेयमन्नत्वं भवत्पक्षे पक्षधर्मत्वेनाप्रसिद्धम्। तस्य चाप्रसिद्ध्या यूपप्रकृतित्वेनौदुम्बरो यूपो भवतीत्यप्रसिद्धम्। अन्वयाप्रसिद्धिमेवोपपादयति—न हीति। पक्षधर्मत्वसूचितहेतुत्वान्यथानुपपत्तिकल्पितं यद्यदन्नं स स यूप इत्यन्वयवाक्यमङ्गीकृत्यैतदुक्तम्। हेतुत्वाप्रसिद्ध्या साध्याप्रसिद्धिप्रति- पादनार्थं तस्मादिति भाष्यम्। ऊर्गुदुम्बर इत्यनुतवचनादन्यदप्यस्य तत्साध्यं यस्मादूर्गु- दुम्बरः, तस्मात्तन्मयो यूपः कर्त्तव्य इति, तदप्यमृतमिति सुयोजत्वान्न व्याख्यातं विसंवा- दाभिधानस्य प्रकृतोपयोगमाह—तस्मादिति ॥२१॥ भा० प्र०—लौकिक वचन प्रत्यक्ष आदि प्रमाणों से गम्य रहने पर ही उसमें विश्वास किया जाता है। विक्रय योग्य गौ आदि के प्रशंसा-सूचक-वाक्य वक्ता एवं क्रेता को पूर्व से ही विदित रहता है। जाने हुए का ज्ञान निरर्थक है। इसीलिए उसकी प्रशंसा की जाती है। किन्तु वेदवाक्य का वचन अन्य प्रमाण से प्रमाणयुक्त नहीं है अर्थात् गम्य नहीं है और प्रमाणान्तर विरुद्ध होने पर भी प्रमाण नहीं होगा। इस स्थल में उदुम्बर का अन्न-सम्पादकत्व प्रमाणान्तरगम्य नहीं है। इसी प्रकार ऊर्ग्व वा (वै) उदुम्बरः। इस स्थल में 'वै' शब्द के द्वारा उदुम्बर की अन्न के प्रति हेतुता भी जो कही गई है, वह प्रमाणान्तर से गम्य नहीं है। अतः, उसका अब्याहत प्रामाण्य मानने के लिए उसको विधि ही मानना होगा, क्योंकि, विधि ही स्वार्थ में प्रमाण है अर्थवाद स्वार्थ में तात्पर्य- रहित रहता है, इसीलिए, स्वार्थ में प्रमाणविहीन होने से अर्थवाद नहीं हो सकता है।
२२ ] प्रथमाध्याये द्वितीयपादः १४५ 'न'=नहीं । इस प्रकार की आशङ्का या उक्ति सङ्गत नहीं है । 'पूर्वत्वात्' क्योंकि लौकिक उक्ति पूर्वं अर्थात् प्रत्यक्ष आदि अन्य प्रमाणों से अवगत या अवगत होने की योग्यता से सम्पन्न है ॥ २१ ॥ उक्तं तु वाक्यशेषत्वम् ॥ १.२.२२ ॥ शा० भा०—उक्तमस्माभिर्वाक्यशेषत्वं—विधिना त्वेकवाक्यत्वादिति । नतूक्तं—फलवचनमिह गम्यते, न स्तुतिरिति । यदिह फलवचनम्, तदौदुम्बरस्य यूपस्य । न चाविहित औदुम्बरो यूपोऽस्ति । तत्र फलवचनमेवानर्थकम् । स्तुतिवचनः शब्दो नास्तीति चेत् ? इह फलवचनेन फलवत्ता प्रतीयते, फलवांश्च प्रशस्त इति । तत्र फलवत्तायामानर्थक्यमिति, यो द्वितीयोऽर्थः प्रशंसा नाम, स गम्यते । लक्षणेति चेत् । लक्षणायामप्यर्थवत्ता भवत्येव । लक्षणाऽपि हि लौकिकी । नतूक्तमसंवादो वेदे, न ह्य ृगुंदुम्बर इति । गुणवादेन परोचनार्थतां ब्रूमहे । गौण- त्वात्संवादः । किं सादृश्यम् । यथाऽन्नं प्रीतेः साधनमेवमिदमपि प्रीतिसाधनशक्ति- युक्तं प्रशंसावाचिना प्रीतिसाधनशब्देनोच्यते । शक्यते हि तत्पक्वफलसम्बन्धा- दूर्गिति वक्तुम् ॥ २२ ॥ भा० वि०—यदुक्तं ह्यानर्थकमिति तत्राह—उक्तं तु वाक्यशेषत्वम् । तु शब्दः पक्षव्यावर्तकः, विधिना त्वेकवाक्यत्वादिति सूत्रेणार्थवादानां स्तुतिद्वारक- परोचनया विधिवाक्यशेषत्वस्यास्माभिरुक्तत्वात्, नानर्थक्यमिति सूत्रं योजयति— उक्तमस्माभिरिति । एवं स्तुतिद्वारा विध्यङ्गत्वप्रतिपादनेन अपूर्वत्वहेतोराद्यं व्याख्यानं दूषयित्वेदानीं स्तुतिद्वारविध्यङ्गत्वं युक्तं फलस्य श्रूयमाणत्वादिति व्याख्यान्तरमनुवदति—नतूक्तमिति । गम्यमानमपि फलवचनमानर्थक्यभयादन्य- विषयं वक्तव्यमिति दूषयति—यदिहेति । ततः किमत आह—न चेति । पशु- यागाङ्गतया विहितयूपशेषत्वादौदुम्बरस्य यूपस्य नासावविहितोऽस्तीत्यर्थः । ननु तर्हि विहितस्यौदुम्बरस्य यूपस्योर्गविरोधः फलं भविष्यतीत्यत्राह— तत्रेति । प्रकरणादेव यागोपकारप्रयोजनलाभात् फलान्तरोक्तिरनर्थिकैवेत्यर्थः । यदि वा न चेत्यादेरयमर्थः—औदुम्बरो यूपो भवतीति वर्तमानापदेशत्वादर्थ- वादेन विधिर्नेयः, अनर्थवादत्वे त्वविहितत्वान्नास्त्येव यूपः तथा सति फल- वचनमेवानर्थकमिति । ननु स्तुतिरित्यश्रूयमाणत्वादनादेयेति शङ्कते—स्तुतीति । वाचकशब्दा- भावेऽपि स्तुत्यवगतिं दर्शयन् फलवचनसिद्धमर्थं कथयति—इहेति । फलवत्ता औदुम्बरयूपस्य प्रशस्ता इति प्रतीयत इत्यनुषङ्गः । १०
प्रकरणाच्च यागोपकारे प्रयोजने लभ्यमाने किमित्यवाचकात्फलं कल्पयिष्यामः ।
१४६ मीमांसादर्शनम् [ सू० ननु फलवत्ताप्राशस्त्ययोरवगमे किमिति । प्राशस्त्यपरत्वाग्रहस्तत्राह- तत्रेति । द्वितीयोऽर्थः फलवत्तया लक्ष्यमाणः अवगम्यते=तात्पर्येण प्रतिपाद्यते नाभिनिवेशमात्रात् प्राशस्त्यपरत्वाभ्युपगमः; किन्त्वानर्थक्यभयादिति भावः । नन्वेवमपि लक्षणया स्तुतिर्गम्यते श्रुतिश्च लक्ष्णया गरीयसीत्युक्तमनुवदति- लक्षणयेति । लक्षणयाप्यर्थवत्त्वसम्भवेन श्रुतिलोभादानर्थक्यमाश्रयणीयमिति दूष- यति-लक्षणायामिति । दृष्टा च मुख्यार्थासंभवे गङ्गायां घोष इत्यादौ लक्षणे- त्याह-लक्षणापीति । एवमूर्जोऽवरुध्याः इत्यादेः प्रधानफलानुवादेनौदुम्बरीयूप- स्तुत्यर्थत्वेनाविदितपूर्वत्वं दूषयित्वा, न पूर्वत्वादिति सूत्रात् द्वितीयवर्णकोक्तं वदति-नतूक्तमिति । ऊर्जोवरुध्या इति तावदङ्गे प्रधानगामिफलोपचार श्रुत्यर्थ- त्वेनाभिमतः तेनानुपलब्धिविरोधः पूर्णहुतिन्यायेन परिहृत एवेत्याह-नन्विति । यदुक्तमूर्गुदुम्बर इति हेतुत्वं चाप्रसिद्धमिति, तदपि न, गौणतया तत्सिद्धेरि- त्याह-ऊर्गिति । गुणः । सादृश्यम् । नन्वग्निमाणवकवदन्नयूपयोर्न सादृश्यमिति चोदयति-किमिति । प्रीति- साधनत्वं सादृश्यमित्याह-यथेति । इदमपि=उदुम्बरवस्त्वपि, प्रीतिसाधनत्व- मप्युदुम्बरवृक्षस्याभक्ष्यत्वान्नास्तीत्याशङ्क्याह-तदिति । प्रीतिसाधनोदुम्बर- फलोत्पादनशक्तियुक्तत्वादुपचारात् प्रशंसावाचिना प्रीतिसाधनवाचिनान्नशब्दे- नोच्यते प्रशंसितुमित्यर्थः सोऽयं-विवृतश्शक्यते हीति ॥ २२ ॥ त० वा०-ऊर्गुदुम्बर इत्यादि तावदूर्जोऽवरुद्ध्या इत्यस्योपपत्तितयैकवाक्य- भूतं न विच्छिन्नं स्तावकम् । न ह्यन्नमुदुम्बर इत्युक्ते पुरुषं प्रति प्रशस्तता गम्यते । ऊर्जोऽवरुद्ध्या इति तु प्ररोचयति । तदुपपत्तिरितरेति संगच्छते । तस्मात्कृत्स्नेन फलम्, प्ररोचना वा । तत्र यद्यपि तावल्लिङादिः स्यात् तथाऽपि सुतरामर्थवादतया गृह्णीयात् । किमुत वर्तमानापदेशो यो विधिसिद्ध्यर्थमेव । प्रकरणाच्च यागोपकारे प्रयोजने लभ्यमाने किमित्यवाचकात्फलं कल्पयिष्यामः । प्रकरणं वाक्येन बाध्यत इति चेत् । अविरोधात् । यदि ह्येकांशग्राहित्वेन वाक्य- प्रकरणे संनिपतेताम्, तथा सति बाधः स्यात् । इह तु प्रकरणमौदुम्बरताविधिं गृह्णाति, सोऽप्यूर्गुदुम्बर इत्यादिलभ्यां प्ररोचनाम् । तत्र तद्विशिष्टौदुम्बरत्वग्राहिणः प्रकरणस्य को विरोधः । तस्मात्फलविधिसामर्थ्याभावात्प्रकरणाबाधेन निवेश- सम्भवो नातिक्रमितव्यः । प्ररोचनाऽपि च वाक्यशेषादुपपद्यमाना नार्थापत्त्या विध्युद्देशादेव कल्पिता भविष्यति । अन्यत्र विधिरपि हि तावत्तां कल्पयेत् । इह तु स स्वयमेव दुःखितः किं प्ररोचनया करिष्यतीति । न च स्तुत्युपयुक्तस्य पुनः फलेऽपि प्रतिष्ठादाविव व्यापारो युज्यते । रात्रिसत्राणां ह्यनन्यपरत्वाद् गुर्य्यपि कल्पनाऽश्रीयते । अत्र तु प्रकरणादस्ति प्रयोजनसिद्धिरित्युक्तम् । जाति-
२२ ] प्रथमाध्याये द्वितीयपादः १४७ विशेषस्य च योग्यतयैव काष्ठाङ्गत्वं प्रसिद्धम्, न फलार्थता । यूपशब्दोऽपि च कर्मा- विष्टकाष्ठवचन इत्युपनीतमात्रमेव गृह्णाति । अतश्च प्रसिद्धे पारार्थ्येऽर्थवादता । यत्तु यूपे निराकाङ्क्षो जातिं प्रतीति शरवद्बाधो भविष्यति । न चाबाधप्रकारोऽस्ति, काम्यपक्षेऽपि तदभ्युपगमात् । एतावांस्तु विशेषः । तव पुरुषार्थत्वाद्विन्नविषयेण सता कथञ्चित्प्रसङ्गलभ्यसमानाश्रयत्वेन, मम तूभयोः क्रत्वर्थत्वात्समानविषयेणेति । न चात्र जातौ फलाय विधीयमानायां दध्न इव होम आश्रयो मनसि विपरिवर्तते । यो हि पशुयागः प्रकृतः स तावदयोग्यः । पशु- नियोजनं च यूपद्वारेण योग्यं तदपि सह यूपेनाप्रकृतम् । न चानर्थक्यात्तदङ्गेषु इति प्रधानादवतीर्य तदङ्गमाश्रीयते । यो हि प्रधानोपकारित्वेन श्रूयते, स तद- ङ्गेऽपि स्थित उपकरोतीत्येवं कल्प्यते, न त्विह तथा । अत्र हि प्राधान्यांशभाजा गुणेनाश्रयः प्रार्थ्यते । तत्र प्रधानं सन्निहितं तद्यदि न योग्यं ततो वचनव्यक्त्य- न्तरमाश्रीयताम्, न चावतरणं सम्भवति । न चानेनैव वाक्येनाऽश्रयो दीयते वाक्यभेदप्रसङ्गात् । द्वौ हि सम्बन्धौ तदा स्यातां गुणफलसम्बन्धस्तदाश्रयसम्बन्ध- श्चेति । युगपच्चौदुम्बरताफलयूपो प्रत्युपादीयमानोद्दिश्यमाना विरूपा स्यात् । अथोभयोद्देशेन विधीयते, तथाऽपि फलाननुरक्ता यूपेन सम्बध्येत यूपाननुरक्ता च फलेन । यत्तु विनैव विधायकात्स्वेच्छयैव प्रवर्तिष्यामह इति स्वच्छन्देन सह नास्ति विधिवादः । पुरुषार्थफलत्वं तु न प्राग्विधेः सिध्यति सन्निहिततरोदुम्बर- त्वादिसाध्यांशावरोधात् । यत्तु प्रयोगवचनो विधास्यतीति न पुरुषार्थेषु तस्य शक्तिः । असंयुक्तं प्रकरणादिति (जै. सू. ३.३.४) वक्ष्यति । यदि तु तेन विधीयते, सिद्धं कर्मार्थत्वम् । पञ्चमलकाररूपं तु वर्तमानापदेशेन सन्दिग्धम् । तस्माद्वर्त- मानफलाभिधायित्वाच्चतुर्थे चैवं कामशब्दरहितस्य फलविधित्वनिराकरणा- त्प्रधानफलमेवेदं परोचनायै संकीर्त्यत इति युक्तम् । सर्वत्र च स्तुतिपरत्वात्तदु- पायेषु सत्यासत्यान्वेषणं व्यर्थम् । ज्ञानमात्रौपयिकत्वात् । गुणवादेन च संवादात् । साधनत्वेऽपि च प्रीतिसाधनत्वेन, तृप्तिहेतुत्वेन वा संवादः ॥ २२ ॥ न्या० सु०—अत्र भाष्यकृता वाक्यशेषत्वे विध्येकवाक्यत्वं हेतुमनुवदता शेषशब्दः स्तुतिद्वाराङ्गत्वाभिप्रायो व्याख्यातः । तत्रोर्जं पशूनाप्नोतीत्येतदन्तेन स्तुतिसिद्धेरूर्जो ऽवरुद्ध्या इत्यस्य फलपरत्वमविरुद्धमित्याशङ्कयाह - ऊर्गुदुम्बर इति । उभयसम्भवे, तर्हि फलपरतैव कस्मान्नेष्यते अत आह—तत्रेति । यद्यप्यौदुम्बरो यूपो भवेदिति लिङ्गादि स्यात्, तथाप्यूर्गुदुम्बर इत्यादि कृत्स्नवाक्यशेषमर्थवादतयैव गृह्णीयान्न फलपरतयेति सावधारणं द्रष्टव्यम् । लिङादेर्विधायकत्वेनार्थवादापेक्षत्वात्सुतरामित्युक्तम् । फलाकाङ्क्षा- निवृत्तिस्तु प्रकरणात् क्रत्वर्थत्वावगतेः सेत्स्यतीति वक्ष्यमाणोऽभिप्रायः । भवतीति तु वर्त्तमानापदेशो न फलपरतया वाक्यशेषं ग्रहीतुं शक्त इत्याह—किमुतेति । विपूर्वस्य
१४८ मीमांसादर्शनम् [ सू० दधातेः करोत्यर्थवाचित्वादुत्पादनं विधिशब्देनाभिप्रेतम् । तेनायमर्थः-न तावद्यावच्छ्रुतस्य भवतीति वर्त्तमानापदेशस्य फलाकाङ्क्षा, तदन्यथानुपपत्त्या कल्पिते भावनाविधौ सत्यामपि फलाकाङ्क्षायामौदुम्बरत्वस्वरूपोत्पादनार्थं कल्पितस्य लिङादेः तन्मात्रोपमान्न साधनत्व- बोधे व्यापारोऽस्तीति । नन्वौदुम्बरत्वकर्त्तव्यतार्थं कल्पितस्य विधेः फलपर्यन्तत्वानभ्युपगमे फलाभावादव- सादः स्यात् । अत आह—प्रकरणञ्चेति । वैकृतस्याप्यौदुम्बरत्वस्य प्राकृतयूपारूपाख्याङ्ग- सम्बन्धित्वेनोत्पत्तेः पृषदाज्यादिवत्प्रकरणग्रहणाविरोधः, विधिरहितस्य समभिव्याहार- मात्रस्य फलप्रतिपादकत्वमाशङ्क्य वाचकादित्य उक्तम् । अवाचकमितिपाठे नास्तिवाचकं यस्योगंवरोधादिनः फलस्य तदिति बहुव्रीहिः । समभिव्याहारात्मना वाक्येन फलार्थत्वा वगमात् प्रकरणबाधमाशङ्कते – प्रकरणमिति । समभिव्याहारावगतस्य फलार्थत्वस्य वक्ष्य- माणनिराकरणाभिप्रायेण परिहरति—नेति । अवाधमेवोपसंहरति—तस्मादिति । कृत्स्नस्य च वाक्यशेषस्य फलपरत्वे विध्युद्देशस्यैव शक्तिद्वयकल्पनापत्तेर्गौरवं स्यादित्यर्था- न्तरन्यासेनाह—प्ररोचनापि चेति । न च तत्कल्पनं विना विधिपर्यवसानमित्याह— अन्यत्रेति । अत्र तु प्ररोचनाकल्पनमप्यतिकलेशेन निर्वोढव्यम्, विधेरपि कल्प्यत्वादित्याह- इह त्विति । विध्युद्देशातिगौरवपरिहारार्थं तर्हि प्ररोचनापि वाक्यशेषादेव भविष्यतीत्याशङ्क्य, तन्निराकरणार्थं पर्णमय्यधिकरणन्यायमुपन्यस्यति—न चेति । अस्ति प्रयोजनसिद्धिरित्यनेन पारार्थ्यं दर्शितम्, काष्ठविशेषपरिच्छेदकत्वेन चोदुम्बरजातेर्बहादपि पारार्थ्यमवसीयत इत्याह—जातिविशेषस्येति । ऐकान्तिककाष्ठाङ्गतयाऽक्रियारूपत्वेन फलार्थत्वयोग्यता निराकृता सत्यपि काष्ठाङ्गत्वे यूपाङ्गत्वं कथं सिद्धयतीत्यपेक्षायाम्, यूपशब्दोऽपि चेत्याद्युक्तम् । पारार्थ्यसाधनस्योपयोगमाह—अतश्चेति । यत्तु पौनरुक्त्यपरिहारावसरे पारार्थ्याभावान्न प्राकृतखादिरादित्वालाभान्नैराका- ङ्क्ष्यमुक्तम्, तदनुभाष्य दूषयति—यत्त्विति । यथा श्येनेत्यस्य शरमयं बर्हिरिति प्रत्यक्षो- पदिष्टैः शरैरतिदेशप्राप्तानां कुशानां बाधस्तद्वदत्रापीत्यर्थः । बाधप्रसङ्ग एव तर्हि दोषः, अत आह—न चेति । वरं क्रत्वर्थत्वे समानविषयत्वाद् बाधो युक्ततर इत्याह— एतावांस्त्विति । प्रकृताश्रयालाभादप्यत्र गुणफलसम्बन्धो न युक्त इत्याह—न चात्रेति । तमेवोपपादयति—यो हीति । पशुविशेषणयागस्य सौमापौष्णं त्रैतमालभतेति त्रिवर्णपशु- द्रव्यकत्वेनोदुम्बरवृक्षद्रव्यसाध्यत्वायोग्यतोपपादनार्थम् । न चाप्रकृतस्यापि नियोजनस्याति- देशप्राप्तस्याश्रयत्वं शङ्कनीयम् । प्रकृतौ हि प्रत्यक्षोपदिष्टस्य होमप्रणयनादेः पश्चाद्धाना- पेक्षायां पयश्चमसादिवत्फलार्थस्यापि दधिगोदोहनादेराश्रयभूतसाध्यापेक्षादर्शनादुभया- काङ्क्षावशात्साधनत्वमवसीयते । न चैतावताऽङ्गत्वप्रसङ्गः, तादर्थ्येन विधानाभावात् । अत एव गुणकामप्रयोगे प्रासङ्गिकोपकारिणा गोदोहनादिना सिद्धौ चमसादेरनङ्गत्वेन तदभावे वैगुण्याभावादनादरः । विकृतौ त्वखण्डकरणोपकारमुखेन कॢप्तोपकारप्राकृत-
२२ ] प्रथमाध्याये द्वितीयपादः १४९ खादिरत्वादिविशिष्टस्यैव नियोजनस्यातिदेशात्साधनानाकाङ्क्षस्य परार्थे विहितसाधनान्तर- ग्राहकत्वन्न युक्तम् । अन्यतराकाङ्क्षाहेतुकस्य सम्बन्धस्येतराकाङ्क्षोत्थापनपूर्वकत्वाद्विधि- मन्तरेणाकाङ्क्षोत्थापनायोगात् । ननु प्रकृतः पशुयागः साक्षादयोग्योऽप्यङ्गभूतयूपद्वारेणाश्रयो भविष्यत्यत आह— न चेति । एवं कल्प्यत इति प्रधानादवतीर्य तदङ्गाश्रयत्वेन कल्प्यत इत्यर्थः । वचनव्यक्त्य- न्तरमित्यौदुम्बरत्वेनोर्गवरोधं भावयेदितिवचनव्यक्त्यपेक्षयौदुम्बरत्वेन यूपं भावयेदित्यभि- प्रेतम् । न चावतरणमिति अचोदकाश्च संस्काराः (जै० सू० २-२-१८) इति वक्तुशब्दार्थे चशब्दः । न त्ववतरणं सम्भवतीत्यर्थः । यद्वा तेनाभ्युपगम्यावतरणं होमसाधनत्वेन साक्षादङ्गभूतायां जुह्वां सम्भवद्यूपे न सम्भवतीत्युच्यते । अस्मिन्व्याख्याने सम्मतं यूपे यदवतरणम्, तन्न सम्भवति-न सिध्यतीति सम्मतवचनः सम्भवशब्दः । अनेकार्थत्वान्निपातनोपसर्गाणां सम्यगर्थस्य वा संशब्दस्य लक्षणयात्र सम्मतवचनत्वमेष्टव्यम् । यूपानवतरणे च यूपशब्दानर्थक्यप्रसङ्गो दोषः । ननु प्रकृताश्रयालाभेऽपि वाक्येनाश्रयलाभो भविष्यत्यत आह—न चानेनैवेति । न केवलमनेकार्थविधिलक्षणो वाक्यभेदः, किं तु वैरूप्यलक्षणोऽपीत्याह—युगपच्चेति । यूपस्याश्रयभूतस्यौदुम्बरतोपकारित्वेन गुणभूततयोपादेयत्वात्तं प्रत्युदुम्बरताया उद्देश्यत्वा- दिति भावः । नन्वाश्रयस्यापि साध्यत्वेन प्रधानतयोद्देश्यत्वाद्वैरूप्यं स्यादत आह—अथेति । एवं सत्युद्देश्ययोः फलयूपयोर्गुणभूतौदुम्बरतावशीकाराभावेनान्योन्यनियमायोगादाश्रयाला- भस्तदवस्थ एवेति भावः । प्रत्युद्देश्यं वाक्यसमाप्तेर्वाक्यभेदोऽपि चशब्देन सूचितः । एवं पर्णमयीन्यायेन स्तुत्युपयुक्तस्य परावृत्त्य फलपरत्वायोगादूर्गुदुम्बर इत्यादेः फलपरत्वे प्ररोचनार्थत्वाभावाद्विध्युद्देशातिगौरवमपरिहार्यमिति प्रकृतोपयोगः । ननु समभिव्याहारादेव फलसाधनत्वावगतौ सत्यां विधिमन्तरेणेच्छयैव प्रवृत्तेर्न प्ररोचनया कार्यमत आह—यत्त्विति । साधनत्वप्रतिपत्तौ विधिव्यापारानभ्युपगमे भावना- या भाव्यापेक्षायामप्यौदुम्बरो भवतीत्यौदुम्बरत्वस्यैव भवनकर्तृत्वेन सन्निधावुपात्तस्य साध्यांशे निवेशापत्तेरूर्जोऽवरुध्या इति चतुर्थी व्यवधावुदात्तस्याप्यूर्गवरोधस्य तदवरुद्धायां भावनायां निवेशायोगद्यूूपविशेषणत्वापत्तेरपुरुषार्थोपयिकत्वान्नोदुम्बरत्वमावनायां बुद्धिपूर्व- कारी कश्चित्प्रवर्त्तेतेत्यर्थः । नन्वौदुम्बरो यूपो भवतीत्युत्पत्तिविधेः फलसाधनत्वबोधे व्यापाराभावादप्रसक्तत्वेऽपि प्रयोगवचनात्प्रवृत्तिः सेत्स्यतीत्युक्तम्, अत आह—यत्त्विति । संयोगपृथक्त्वभावात्पुरुषार्थत्वे सति क्रत्वर्थत्वायोगादिति भावः । पञ्चमलकारत्वस्य चाडागमादिचिह्नाभावेनानिश्चया- त्कल्पस्योत्पत्तिविधेर्विनियोगवत्प्रयोगेऽपि व्यापारो न युक्त इत्याह — पञ्चमेति । फलसङ्की- र्त्तनस्यालम्बनं दर्शयन् सिद्धान्तमुपसंहरति—तस्मादिति । एतदधिकरणव्युत्पाद्यं विधि-
१५० मीमांसादर्शनम् [ सू० रहितस्य श्रेयःसाधनत्वबोधासामर्थ्यं तस्माच्छब्देन परामृष्टं फलाभावसूत्रोक्तानुपलब्धि- विरोधो वर्त्तमानफलाभिधायित्वादित्यनेन । चतुर्थे चेति प्रस्तुतसाधनांशनिराकरणहेतुत्वेन साध्यांशनिराकरणं वक्ष्यमाणमुक्तं सर्वेभ्यो दर्शपूर्णमासावित्यादौ चतुर्थ्या फलसमर्पकतद्वाभ्यु- पगमात्समाभिव्याहारमात्रस्य फलसपंकत्वनिराकरणपरमेवं कामशब्दरहितस्येति व्याख्ये- यम् । प्रधानफलमेवेदमित्यनेन फलकीर्त्तनालम्बनं दर्शितम् । सौमा पौष्णं त्रैतमालभेत पशुकाम इति पशूनामदनीयत्वेनोर्क शब्दवाच्यन्न रूपाणां प्रधानफलत्वादङ्गे पूर्णाहुतिवदुपचारः । न पूर्वत्वादिति सूत्रं द्वितीयवर्णकोक्तस्य विसम्वाद- स्यानुभाषणं पूर्वं निराकरणार्थम् । ननूक्तमित्यादिभाष्यं व्याचष्टे-सर्वत्र चेति । गुणवादेनेति गुणशब्देन फलसङ्कीर्त्तने सम्वादाभिधाने तावदङ्गे प्रधानगामिनि तत्फलोपचारोऽभिमतः । पूर्णाहुतिन्यायेनोक्तप्रायत्वान्नहेह भाष्यकृतोक्तः । पक्षधर्म्मान्वयकीर्त्तनसम्वादाभिधाने त्वग्निमाणवकवत्साहृश्यं गुणशब्देनाभिप्रेतम् । तत्र किं सादृश्यमित्यादिप्रश्नपूर्वकं सादृश्य- प्रतिपादनार्थं भाष्यं व्याचष्टे-- साधनत्वेऽपि चेति । साधनशब्देन हेतुत्वमुक्तम् । अन्नगतेन प्रीतिसाधनत्वेन तद्विशेषतृप्तिसाधनत्वेन वा गुणेनोदुम्बरेऽन्नशब्दाभिधेयत्वसम्भवात्साधनेऽपि सम्वाद इत्यर्थः । प्रीतिसाधनत्वमप्योदुम्बरवृक्षस्याभक्ष्यत्वा न्नास्तीत्याशङ्क्य प्रीतिसाधनौ- दुम्बरफलोत्पादनशक्तियुक्तं वृक्षं प्रशंसितुमुपचारात्प्रशंसावाचिना प्रीतिसाधनशब्देनोच्यते इत्युक्तम् । अनेन च नात्र यद्यदन्नम्, स स यूप इत्यन्वयवाक्यं कल्प्यते किं तु यद्यदन्नम्, तत्तत्प्रशस्तमित्येवम्, तच्च प्रसिद्धमेवेति सूचितम् ॥ २२ ॥ भा० प्र०—विधि के साथ एकवाक्यता सम्पन्न होकर ही विधेय विषय की प्रशंसा के द्वारा अर्थवाद सार्थक होता है—यह पूर्व में ही कहा गया है । इस स्थल में भी यही स्थिति है । ‘उर्कं उदम्बरः’ यह अंश अर्थवाद है । अवशिष्ट अंश इस अर्थवाद की ही उपपत्ति अर्थात् युक्ति है । ‘उर्कं उदुम्बरः’ यह उक्ति भी गुणवाद होने से सभी वाक्य लक्षणा के बल से उदुम्बरत्वविधि की स्थापक है । पूर्वपक्षी का यह कथन कि अन्न सम्पादन उदुम्बरत्व रूप गुण का फल है—यह कथन ठीक नहीं है, क्योंकि, क्रिया के बिना केवल गुण फलवान् नहीं हो सकता है । प्रकृत में कोई ऐसी विधि भी नहीं है, अन्न जिसका फल होगा । ‘उदुम्बरो यूपो भवति’ इसको विधि नहीं कहा सकता है, क्योंकि, इसमें लिङ् आदि विधि विभक्ति नहीं है । विधि की कल्पना करने पर अर्थवाद के द्वारा ही विधि की कल्पना होने से इस वाक्य को अर्थवाद मानना ही होगा । इस स्थल में प्रकरणवश उदुम्बरता विधि है और उसमें अर्थवाद अन्वित होता है । उक्तं=कथित होता है । ‘तु’=किन्तु । पूर्वपक्ष के निराश के लिए “विधिशेषत्वम्”= विधिशेषत्व । अर्थवाद विधिवाक्य का शेष या अङ्ग है एवं विधिवाक्यों की स्तुति के द्वारा ही वे सार्थक होते हैं, यह कहा गया है ॥ २२ ॥
२३६] प्रथमाध्याये द्वितीयपादः १५१ विधिश्चानर्थकः क्वचित्तस्मात्स्तुतिः प्रतीयेत तत्सामान्यादितरेषु तथात्वम् ॥१. २. २३॥ शा० भा०-अप्सुयोनिर्वा अश्वो अप्सुजो वेतसः (तै. सं. ५।३।१२) इति अप्सुयोनिरश्वः कर्तव्य इति विधेरशक्यत्त्वादानर्थक्यम् । तत्रावश्यं स्तुतिः कल्प- यितव्या, शमयित्रीभिरद्भिरश्वस्यावकानां च सम्बन्धो यजमानस्य कष्टं शमय- तीति । तत्सामान्यादितरेषु तथात्वम् । तथेतियावत् तावत्तथात्वमिति । किं तत्सामान्यम् । विध्यसम्भवः, स्तुतिसम्भवश्च ॥ २३ ॥ भा० वि०-सम्भद्विध्येकवाक्यत्वानामपि पृथग्विधित्वमभ्युपगमे तुल्यन्या- यतयान्यत्रापि प्राप्तिमभिप्रेत्याह-विधिश्चेति । क्वचिदित्युक्तं विषयं दर्शयन् विधिश्चेति व्याचष्टे-अप्सित्वत्यादिना । अश्वस्य प्रयत्ननिष्पाद्यत्वात् तद्विधेर- शक्यत्वं वेतसादेस्तु स्वभावसिद्धत्वादिति मन्तव्यम् । तथा किमित्याशङ्क्य तस्मादित्यादि व्याचष्टे-तत्रेति । आनर्थक्यमेवास्त्वित्याशङ्क्य तन्निरासाया- वश्यमित्युक्तम् । स्तुतिमभिनयति-शमयित्रीभिरिति । अवकानां चेति चशब्दो वेतसविषयः, तेनैवमन्वयः अश्वस्य वेतसानां च शमयित्रीभिरद्भिः सम्बन्धो यजमानस्य कष्टं शमयत्यवकानां वेतसानां च ताभिस्सम्बन्धो यजमानकष्टं शमय- तीति स्तुतिः कल्पयितव्येति । यद्यप्यवकानां नोदाहरणे श्रवणमस्ति, तथाप्य- ब्योनित्वाविशेषाद्वेतसपदेनैव उपलक्षिताः । न च स्व एवैनं योनौ प्रतिष्ठापयती- त्यनेनाप्सु जाते वेतसेऽश्वस्य चयने कृते प्रकृतिविकारयोरभेदोपचारेण वेतस- प्रकृतिभूतास्वप्सु चयनात् स्वेयोनौ प्रतिष्ठापनं कृतं भवतीति स्तुतिप्रतीयते । शमयित्रीत्वस्य चापामश्रवणात् कथं तद्द्वारा स्तुतिरिति वाच्यम्, स्वयोनि- प्रतिष्ठापनमात्रोक्त्या परोचनानुपपत्तेः 'वेतसशाखया वल्काभिश्चाग्निं विकर्षति' आपो वै शान्ताश्शान्ताभिरेवास्य शुचं शमयति' इति वाक्यान्तरगतार्थवाद- भणितशमयित्रीत्वस्य यजमानकष्टशमनसाधनत्वोपपादनार्थत्वेनोपादानात् । न च वेतसवाक्येन सहचारादुपलक्षितानामप्यवकानामविधेयत्वान्न स्तुत्यपेक्षेति वेदि- तव्यम् अत्रार्थवादान्तरेणापां शमयितृत्वे गदिते तत्राग्निविकर्षणसाधनत्वेन विहितयोः वेतसावकयोः स्तुत्यभावशङ्कानिरासायावकानाम् अद्भिरस्सम्बन्धेन स्तुतिप्रदर्शनोपपत्तेरिति द्रष्टव्यम् । तत्सामान्यादित्यादिसूत्रावयवमादाय व्याचष्टे- तथेति । यावत्सु फलविधि- सरूपेषु अर्थवादेषु तथेति अप्सु योन्याद्यर्थवादसमानाकारता तावत्सु तथात्वं स्तुतित्वमित्यर्थः प्रश्नपूर्वकं तत्सामान्यादिति व्याकुर्वन् तथेत्युक्तं प्रपञ्चयति- किमित्यादिना ॥ २३ ॥
१५२ मीमांसादर्शनम् [ सू० त० वा०—यदि चैवंजातीयका विधयो भवेयुः, ततः पूर्वोदाहृताः सर्व एव द्रव्यगुणक्रिया विधयो भवेयुः । वायुः क्षेपिष्ठा देवता कर्तव्याः, अप्सुयोनिरश्वः कर्तव्यः, अप्सुजो वेतसोऽवकाश्च कर्तव्यः, आपः शान्ताः ऊर्गुदुम्बर इत्यादि । तत्र यद्यपि के चित्क्रियादिविधयः शक्यन्ते कर्तुम् । एते त्वशक्याः स्वभावसिद्धेः प्रयत्नेनापि चानिष्पत्तेः वायुवेतसावकादिषु स्वभावसिद्धिः । अश्वादुम्बरादीनाम- शक्यता । कीदृशी स्तुतिस्तां दर्शयति—शमयित्रीभिरद्भिरित्यादि । तत्रासंगतो ग्रन्थ इति व्याख्यातारः समर्थयन्ते । यस्मादिहावकातत्सम्बन्धयोः शमयितृत्वस्य च नैवोपन्यासः कृतो वेतस उपन्यस्तः सोऽपि स्तुतिवेलायां न प्रदर्शित इति । तत्र त्वियं गमनिका । वेतसोदाहरणेनैव तुल्यत्वादवकादीन्यप्यु- दाहृतानि । न चायमश्वावकयोः परस्परेण सम्बन्धः कथ्यते । केन तर्हि ? अद्भिः । तावता तु न स्तुतिः काचिदुन्मीलितेत्यर्थवादान्तरापेक्षाप्रवृत्तां तां दर्शयति—आपो वै शान्ता (तै० सं० ५.२.४) इति । अनेन हि विधित्वात्प्रच्युते- नापां प्राशस्त्यमुच्यते । तत्र कस्यचित्प्रसिद्धाप्सम्बन्धस्य तन्मात्रसंकीर्तनादेव स्तुतिर्भवति । अन्येषां तु सम्बन्धिसम्बन्धात्सम्बन्धः कीर्त्यते । प्रसिद्धशान्तत्व- सम्बन्धाभिरद्भिः सम्बन्धादश्वादिरपि शान्तात्मकस्तत्सम्बद्धेन च कर्मणा यज- मानस्य कष्टं शाम्यतीत्येवंविधप्राशस्त्यज्ञापनार्थम् । एवं क्षिप्रदैवतेन शीघ्रं फलप्राप्तिरन्नमयेन च यूपेनान्नप्राप्तिरिति स्तुतित्वे सिद्धे तत्समानन्यायानामप्येव- मात्मकत्वम् ॥ २३ ॥ न्या० सु०—अत्र भाष्यकृतऽप्सु योनिर्वा अश्व इत्यादीनामानर्थक्यापत्तेर्विधित्वं न सम्भवतीत्युक्तम् । तदयुक्तम् । फलविधिसरूपाणामेव पूर्वपक्षिणा विधित्वस्योक्तत्वादित्या- शङ्कयाह—यदि चेति । विध्यन्तरैकवाक्यभूतानामपि विधिपरत्वाङ्गीकारे तुल्यन्याया- त्सर्वत्राप्यापाद्य दूषणमुच्यत इत्यर्थः । सर्वग्रहणं वायुक्षेपिष्ठादीनामपि तर्हि कस्मान्न विधित्व- मापद्यत इत्याशङ्कानिवृत्त्यर्थं क्वचिद्ग्रहणम् । तर्हि सूत्रे किम् ? अत आह—तत्रेति । के- चिदिति । निवीतं मनुष्याणामित्यादय इत्यर्थः । शमयित्रीभिरित्यादिभाष्यं स्तुतिरूपप्रदर्श- नार्थत्वेन व्याचष्टे—कीदृशीति । आक्षिपति—तत्रेति । अग्रन्थः प्रतिभातीति मत्वा समर्थ- यन्तऽत्यर्थः । अग्रन्थत्वमेव वा समर्थयन्त इति । स्वयं समर्थयते—तत्र त्वियमिति । पूर्वव्याख्यायां समर्थनं दर्शयतीत्यवतारणीयम् । तत्रावकाशमयित्रीत्वानुपन्यासं तावत्प्रत्याचष्टे—वेतसेति । अश्वावकयोः सम्बन्धस्य तु भाष्यकारेणाकथितत्वादनुपन्यासो न दोषायेत्याह—न चायमिति । इह च वैतसे कटे अश्वं चिनोति, अप्सुयोनिर्वा अश्वोऽप्सुजो वेतसः स वैनं योनौ प्रतिष्ठापयतीत्येतावकानामह्निः सम्बन्धाश्रवणेऽपि, वेतसशाखयावकाभिश्चाग्निं विकर्षत्यापो वै शान्ताः शान्ताभिरेवास्य शुचं शमयतीत्यत्र वेतसवत्तासामप्यद्भिः सम्बन्धस्य स्तुतिसिद्धयर्थं वाच्यत्वादप्सुजो वेतस इति अप्सुजत्वाभिधानमवकानाम्प्सुजार्थसाहचर्यादुपलक्षणमित्यभिप्रेत्यावकाग्रहणम् ।