भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

३० ] प्रथमाध्याये तृतीयपादः ६४१ सम्बन्धो वा, समुदायो वाप्यसम्बन्धश्च समुदायश्च, उत व्यक्त्यैव विशिष्टः, सम्बन्ध एवाप्यसमुदाय एव अथ विकल्पोऽथ समुच्चयविशिष्टयाकृत्या किं व्यक्तिः, अथाकृत्यऽथ वा विशिष्टः सम्बन्ध एव । अथ समुदाय एव, अथ विकल्पोऽथ समुच्चयः । अथ एवं समुदायेन विशिष्टः सम्बन्ध एव अथ सम्बन्धेन विशिष्टः समुदाय एव अथ विकल्पोऽथ समुच्चयः किमाकृतिविशिष्टया व्यक्त्या विशिष्टः सम्बन्ध एव अथ समुदाय एव अथ विकल्पोऽथ समुच्चयः । अथोभाभ्यां परस्परविशिष्टाभ्यां विशिष्टः सम्बन्ध एव अथ समुदाय एव अथ विकल्पोऽथ समुच्चयः । अथोभाभ्यां स्वतन्त्राभ्यां विशिष्टः सम्बन्ध एवाथ समुदाय एवाथ विकल्पोऽथ समुच्चय इति चतस्रोऽष्टपक्ष्यः । सम्बन्ध एवेत्येवकारेण प्रतितियोगिभूतेन समुदायेन सह नियोगविकल्पसमुच्चयरूपपक्ष- चतुष्टयसूचनात् पूर्वोक्ताभ्यां सह षड् भवन्ति सम्बन्धवत्समुदायमपि प्रत्याकृत्यादेर्विशेषण- त्वपक्षः पूर्ववत्सम्बन्धविशिष्टसमुदायपक्षमात्रातिरिक्तत्वेन योज्या इत्यर्थः । किं सम्बन्ध- विशिष्टसमुदायपक्षमात्रातिरिक्तत्वेन योज्या इत्यर्थः । किं सम्बन्धेनैव विशिष्टाकृतिरित्या- कृतिग्रहणस्य व्यक्त्युपलक्षणार्थत्वात्किं सम्बन्धेनैव विशिष्टा व्यक्तिर्गोशब्दार्थोऽथ समुदायेनैव विशिष्टा अथ विकल्पमानाभ्यामुत समुच्चिताभ्यामित्यपरपक्षचतुष्टयीसूचनेन सप्तम्यष्ट- पक्ष्युक्ता । तथैतद्विशिष्टापीत्येतच्छब्देन सम्बन्धसमुदाययोः परामर्शादष्टम्युक्ता किमाकृति- विशिष्टसमुदायविशिष्टा व्यक्तिरेवाथ व्यक्तिविशिष्टसमुदायविशिष्टाकृतिरेवाथ विकल्प उत समुच्चय इति सम्बन्धवत्समुदायमपि व्यक्त्याकृत्योर्विशेषणविशेष्यभावयोजनात् नवम्युक्ता । सम्बन्धवत्समुदायस्यादिविशेषणत्वयोजनाद्दशमी । सम्बन्धवत्समुदायमपि प्रत्यादिविशेषण- योर्व्यक्त्याकृत्योर्नियोगादिपक्षचतुष्टययोजनादेकादशी । विशेष्यविशेषणयोर्व्यक्त्याकृत्योर्नि- योगादिपक्षचतुष्टयकल्पनायाम् आदिविशेषणत्वेन सम्बन्धवत्समुदायस्यादिविशेषणत्वयोजनाद् द्वादशी इति परस्परव्यतिकरेण षण्णवत्यष्टपक्ष्या सह चतुःशतं पक्षा भवन्ति । लिङ्गकारकसंख्याभिरित्यनेन सूचितानपरांश्चतुर्दश चतुःशतानि पक्षी संक्षेपेण दर्श- यति - एवं जातिव्यक्त्योरिति । किं लिङ्गमेव गोशब्दार्थोऽथ लिङ्गं वाथ जातिर्वाथ लिङ्गं च जातिश्च, अथ जातिलिङ्गयोः सम्बन्धः, अथ समुदायः, अथ लिङ्गविशिष्टा जातिः । अथ जातिविशिष्टं लिङ्गमित्याद्यामष्टपक्षीं दर्शयित्वा, किमाकृत्यैव विशिष्टः सम्बन्धो लिङ्गेनैव वेत्यादिव्यक्तिस्थाने लिङ्गं प्रक्षिप्य परस्परव्यतिकरेण षण्णवतिपक्षयोज- नया चतुःशतं रचयितव्यम् । कारकस्य जात्या सम्प्रधारणे द्वितीयं चतुः शतम् । संख्यायास्तृतीयम् । लिङ्गस्य व्यक्त्या सह सम्प्रधारणे चतुर्थम् कारकस्य पञ्चमम्, संख्याया षष्ठम्, लिङ्गसंख्याकारकयुग- लस्य जात्या सह सम्प्रधारणात् सप्तमम्, लिङ्गकारकयुगलस्य अष्टमम्, संख्याकारकयुगलस्य व्यक्त्या सह सम्प्रधारणे दशमम्, लिङ्गकारकयुगलस्यैकादशम् । संख्याकारयुगलस्य द्वादशम्, लिङ्गादित्रयस्य जात्या सह सम्प्रधारणे त्रयोदशम्, व्यक्त्या सह चतुर्दशमितिन्यायेन चतुः- शतेन सह पञ्चदश चतुःशतानि, षष्ठाधिकं सार्द्धपक्षसहस्रं भवति । ४१

६४२ मीमांसादर्शनम् [ सू० ग्रन्थस्त्वेवं योज्यः । जातिव्यक्तिविषयैर्नियोगादिभिरष्टभिः पक्षैर्विकल्पिताः परस्पर- व्यतिकरेण कल्पिता येऽन्ये षण्णवतिः पक्षास्तेषामाद्यैरष्टभिः सह समुच्चितानां प्रत्येकं लिङ्गादीनां जात्या सह सम्प्रधारणायामुत्थानं दर्शयित्वा व्यक्त्या सह दर्शयितव्यम् । तथा लिङ्गसंख्यादियुगलानि व्यतिकरेण कल्पयित्वा लिङ्गादिसहितैकैकजा व्यक्तिविषया- पेक्षया विकल्पा दर्शयितव्याः । लिङ्गदीनां कियतां जात्या, व्यक्त्या वा सम्प्रधारणेत्य- पेक्षायां प्रत्येकमेकैकेन द्वाभ्यां युगलीभूताभ्यां त्रिभिश्च लिङ्गादिभिः सहिताया एकैकस्या जातेर्व्यक्तेश्च—विकल्प्य इत्युक्तम् । ननु लिङ्गादीनां प्रत्ययार्थत्वात्प्रातिपदिकवाच्यत्वेन चिन्ता न युक्तेत्याशङ्क्य— त्रियोगेत्युक्तम् । स्त्रियां यत्प्रातिपदिकं वर्त्तत इति व्याख्यादर्शनाद्वैयाकरणैस्तावज्जाति- व्यक्तिवल्लिङ्गस्यापि प्रातिपदिकार्थत्वेनेष्टेति त्रिकप्रातिपदिकार्थवाचित्वात्ते त्रियोगाः । निपा- तोपसर्गवत्प्रत्ययस्यापि द्योतकमात्रत्वेन वाचकत्वाभावात्संख्याकारकयोरपि प्रातिपदिकार्थत्वं येऽभ्युपगच्छन्ति , ते पञ्चकप्रातिपदिकार्थवाचित्वात्पञ्चयोगाः तन्मताश्रयणेनेमे विकल्पा इत्यर्थः । सम्बन्धसमुदायानपेक्षत्वे वा लिङ्गादित्रयेण सह जातिव्यक्त्योर्योगस्तदपेक्षत्वे पञ्चभिरिति व्यवस्थया विकल्पविषयप्रदर्शनम् । ये तु वैयाकरणाः शब्दस्वरूपस्यापि वाच्यत्वमिच्छन्ति, तन्मतेन तस्यापि जातिव्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्याभिः- संहतासंहतात्मभिः सह सम्प्रधारणेन त्रिषष्ठ्यधिकपक्षिभिश्चतुरुत्तराणि पञ्चशतानि पक्षान्सूच- यितुमाह – एवमिति । षट्कैः सहेति द्वितीयेन सहशब्देन सप्तकसाहित्यं विवक्षितम् । जात्यादिभिः सप्तभिरे- कैकशो द्विकैस्त्रिकैश्चतुष्कैः पञ्चकैः षट्काभ्यां चेत्येतैः सप्तकेन सहितैः सह शब्दस्वरूपस्य विकल्पनेत्यर्थः । किं जातिरेव गोशब्दार्थः, अथ गोशब्दस्वरूपमेव, अथ जातिर्वा शब्द- स्वरूपं वा अथ जातिश्च शब्दस्वरूपं च, अथ सम्बन्धः, अथ समुदायः, अथ जातिविशिष्ट- स्वरूपं स्वरूपविशिष्टा वा जातिरित्येवमेकैकशः सहाष्टपक्षीं दर्शयित्वा, जाति-व्यक्ति-जाति- सम्बन्ध-जाति-समुदाय-जाति-लिङ्गजातिकारकजातिसंख्यादिकैः षड्भिर्व्यक्तिसम्बन्धव्यक्त्ति- समुदायव्यक्त्तिलिङ्गव्यक्क्तिकारकव्यक्त्तिसंख्यादिकैः पञ्चभिः सम्बन्धसमुदायसम्बन्धलिङ्ग- सम्बन्धकारक-सम्बन्धसंख्या-द्विकैश्चतुर्भिसमुदायलिङ्गसमुदायकारकसमुदायसंख्याद्विकेनेकै- नैकविंशतिरष्टपक्षयो दर्शयितव्याः । जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकार- कसंख्यात्रिकैः पञ्चभिः व्यक्तिसम्बन्धसमुदायव्यक्त्तिसमुदायलिङ्गव्यक्त्तिलिङ्गकारकव्यक्त्ति- कारकसंख्यात्रिकैश्चतुर्भिः सम्बन्धसमुदायलिङ्गसम्बन्धलिङ्गकारकसम्बन्धकारकससंख्यात्रि- कैस्त्रिभिः समुदायलिङ्गकारकसमुदायकारकसख्यात्रिकाभ्यां द्वाभ्यां लिङ्गकारकससंख्या- त्रिकेनेकेन पञ्चदशजातिव्यक्तिसम्बन्धसमुदायजातिसम्बन्धसमुदायलिङ्गजातिसमुदायलिङ्ग- कारकजातिलिङ्गकारकसख्याचतुष्कैश्चतुर्भिव्यक्तिसम्बन्धसमुदायलिङ्गव्यक्त्तिसमुदायलिङ्ग - कारकव्यक्त्तिलिङ्गकारकसख्याचतुष्कैस्त्रिभिः सम्बन्धसमुदायलिङ्गकारकसम्बन्धलिङ्गका-

३० ] प्रथमाध्याये तृतीयपादः ६४३ रकसंख्याचतुष्काभ्यां द्वाभ्यां समुदायलिङ्गकारकसंख्याचतुष्केनैकेन दश जातिव्यक्ति- सम्बन्धसमुदायलिङ्गजातिसम्बन्धसमुदायलिङ्गकारकजातिसमुदायलिङ्गकारकसंख्यापञ्चकै - स्त्रिभिर्व्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्यापञ्चकाभ्यां द्वाभ्यां सम्बन्धसमुदायलिङ्ग- कारकसंख्यापञ्चकेनैकेन षट्जातिव्यक्तिसम्बन्धसमुदायलिङ्गकारकजातिसम्बन्धसमुदाय- लिङ्गकारकसंख्याषट्काभ्यां द्वाभ्यां व्यक्तिसम्बन्धसमुदायलिङ्गकारकसंख्याषट्केनैकेन तिस्रः सप्तकेन वैकेति षट्पञ्चाशदष्टपक्ष्यः प्रथमाभिः सप्तभिः सह त्रिषष्टिरष्टपक्ष्यश्चतूत्तराणि पञ्चशतानि पक्षाः पूर्वंगणितेन षष्ठ्यधिकेन सार्द्धेन पक्षसहस्रेण सह चतुःषष्ठ्यधिकं पक्ष- सहस्रद्वयं भवति । परस्परव्यतिकरादेतेषां बहवोऽपराः सम्भवन्तोऽपि नोच्यन्ते ग्रन्थगौरव- भीतितः । नन्वेतेषां पक्षाणां विशेषणविशेष्यभावसंहतान्यत्वेऽपि स्वरूपनिष्कर्षाभावेन भेदेनाऽ- भावान्न भेदेनोपन्यासो युक्त इत्याशङ्क्याह—एते चेति । यथा जात्यादीनां निष्कर्षा- भावेऽप्यन्वयव्यतिरेकप्रसूतया भेदबुद्ध्या भेदः तथैषामपि पक्षाणां स्वरूपभेदाभावान्निष्कर्षा- भावेऽपि विशेषणविशेष्यभावाद्यन्वयप्रसूतमाभेदबुद्ध्या भेदो भविष्यतीत्यर्थः । ननु सत्यपि भेदे प्रत्यक्षादि नैतावतां भेदानामग्रहणात्कथं तत्पूर्वकशब्दविषयतैतावतां भेदानां विचार्यते इत्याशङ्क्याह—सर्वत्रेति । प्रत्यक्षेणेन्द्रियसयुक्तद्रव्यधर्मंतत्समवेतजातिगुणक्रिया-तत्समवेत- गुणत्वादिंसामान्यग्रहणात्, अनुमानेन च स्वव्यापकाग्नितद्गतौष्ण्यभास्वरत्वादिग्रहणाद- नेकात्मकवस्तुप्रतीतेर्विवेकामावात्स्तोकभेदप्रतीतिः । शब्दस्य तु सर्वात्मकवस्तुविषयतायामेके- नैव गोशब्दादिना सर्वात्मकवस्तुप्रतीतिसिद्धेः शुक्लादिशब्दानर्थक्यापातादेकैकांश निष्कृष्ट- शक्तिकत्वेनांऽशान्तराणां लक्षणासिद्धज्ञानत्वादवाच्यत्वावगतेः सूक्ष्मांशविवेचकतया सर्वभेद- बोधकत्वं युक्तमित्याशयः । ननु सामान्यविशेषवाधादेर्जातिव्यक्तिवाच्यत्वविचारमात्रासिद्धेः पक्षान्तराणि निष्प्रयो- जनत्वान्न कार्याणीत्याशङ्कयाह—पदादिति । शङ्क्यमानस्र्ववाच्यान्तरविप्रतिपत्तिनिरासं विना वाच्यत्त्वानवधारणान्न पदार्थविचारणपूर्वकंवाच्यार्थावधारणसिद्धिरित्याशयः । सौकर्यार्थं पूर्वोत्तरपक्षविभागमाह—अत्र चेति । नन्वेतावतां पक्षाणां विद्यमानत्वेन सप्रयोजनत्वेन च भाष्यकारानुपन्‍यासे किं कारणमित्याशङ्क्याह—व्यक्ताविति । अन्वय- व्यतिरेकावगम्यसामान्यमात्रशक्त्यपर्यालोचननिबन्धनत्वसाम्यात् व्यक्तिपक्षे दर्शिते, सम्बन्धादीनामपि वाच्यत्वं कस्मान्न स्यादित्याशङ्कोत्थानात्तात्पर्यालोचनेन च व्यक्तिपक्षे निराकरणसिद्धेनं भाष्यकृतोपन्यस्ता इत्यर्थः । नन्वनुपन्यासाद्भाष्यकृतोऽसत्त्वाभिप्रायः निष्प्रयोजनत्वाभिप्रायो वा कस्मान्न कल्प्यत इत्याशङ्क्याह—न चेति । सद्भावप्रयोजन- योरुक्तत्वान्न तयोरभिप्रायोर्मध्ये कश्चित्सम्भवतीत्याशयः । एतस्माद्भाष्यकाराप्रदर्श- नात्कारणादित्यर्थः । नन्वेवं सति व्याख्यातृभिरुपपत्तयोऽपि सर्वेषु पक्षेषु प्रत्येकमपन्य- स्योपन्यस्य निराकार्या इत्याशङ्क्याह—दर्शिताष्वपीति । शब्दशक्त्यपर्यालोचनस्य पूर्वपक्ष- बीजस्य सर्वेषु तुल्यत्वादित्याशयः ।

६४४ मीमांसादर्शनम् [ सू० का पुनरिति भाष्येणाकृतिव्यक्त्योः प्रश्नपूर्वकं स्वरूपनिरूपणं कृतम् । तस्य प्रयोजनमाह-ततश्चेति । विषयावधारणं विचारमुखम् । ननु सम्बन्धादीनामपि विचार- विषयत्वात्किमिति स्वरूपं न निरूपितमित्याशङ्कच प्राधान्येनाकृतिव्यक्त्योरेव विचार- विषयत्वमनन्तरोक्तम् ततश्चेत्यनेन कारणतया परामृष्टम् । अकृतित्वस्वरूपनिरूपणस्य पौनरुक्त्यमाशङ्कते-नन्विति । परिहरति - सत्यमिति । मात्रशब्दं सर्वसामान्यव्याप्त्यर्थ- त्वेन व्याख्यातुं भाष्यपाठपूर्वकं सामान्यानि विभजति-द्रव्येति । प्रथमशब्देन परशब्दः कुतश्चिद्व्यावृत्तत्वात्सर्वसामान्योक्तत्वाभिप्रायेण व्याख्यातः । गुणत्वकर्मत्वयोरादिशब्दे- नोपादानम् । द्रव्यत्वावान्तरसामान्यानि विभजति- पुनरिति । वायुत्वादीनां भिन्नतेत्यर्थः । पृथिवीत्वस्य तद्भेदघटत्वादिसामान्योक्त्या ज्ञातुं शक्यत्पादनुपन्यासः मनोभेदस्य चात्मभेदाधीनत्वादात्मत्वसामान्योक्त्यैव मनस्त्वसामान्यसिद्धेरनुपन्यासः । पृथिवी- त्वावान्तरसामान्यावधिभेदेन विभजति-- पृथिवीत्वादिति । पृथिवीत्वात्परं पाश्चात्यं घटत्वं घटव्यक्तिषु समाप्य, एतेषु घटत्वं तद्व्यक्तिष्वन्यं सामान्यमित्यर्थः । घटत्वादीन्यन्यानि घटत्वेनैव व्याख्यातानि । वृक्षत्वात्तु पृथिवीत्वावान्तरसामान्यात्परं शिंशपात्वाद्येवान्त्यं सामान्यमित्याह-वृक्षत्वादिति । शरीरत्वात्परं गोत्वादीत्याह-शरीरत्वाच्चेति । मनुष्यत्ववाची पुंस्त्वशब्दः । गोत्वात्परस्य सामान्यस्याभावात् त्यागेनाश्वत्वात्परं वाजिकत्वाद्यन्त्यं सामान्यमित्याह-वाजिकत्वादि चेति । ननु कर्कत्वशोणत्वादेरप्यवान्तर- सामान्यस्य भावान्न वाजिकत्वादेरन्त्यतेत्याशङ्क्य - कर्कादित्वेति । अश्वत्वैकार्थसम- वायिशुक्लावान्तरसामान्यं कर्कत्वम् । रक्तावान्तरसामान्यं शोणत्वमित्यर्थः । हस्तित्वात्परा भद्रादिजातयोऽन्त्या इत्याह - हस्तित्वादिति । आदिशब्देन मृगजात्युपादानं ताश्च दिङ्नागकुलजातास्वेव हस्तिव्यक्तिषु वर्तन्त इति दिङ्नागकुलशब्देनोक्तम् । मनुष्यत्वात्प- रोऽवान्तरसामान्यभेदो ब्राह्मणत्वं ग्राह्यत्वात्सामान्यावान्तरभेदात्कौण्डिन्यत्वाद्दी सामान्ये समाप्यत इत्याह पुंस्त्वादिति । द्रव्यावान्तरसामान्यानि विभज्य, गुणकर्मावान्तर- सामान्यानि विभज्य, गुणकर्मावान्तरसामान्यानि विभक्तुमाह -तथेति । गुणत्वस्य रूपतादि यदवान्तरसामान्यम्, कर्मत्वस्य च जन्मतादि, ततः परं यच्छुक्लत्वादिरूपावान्तरसामान्यं तच्छुक्लत्वादिसामान्यव्यक्तिभूतेषु भासुरधूसरादिषु गुणेषु प्रतितिष्ठतीति समाप्यते । शुक्लत्वादेः परं सामान्यं नास्तीत्यर्थः । ये तु शुक्लत्वाद्यवान्तरसामान्यस्य कर्कत्वादेर्व्यक्तिभूता गुणाः तेषु शुक्लत्वादि न प्रतितिष्ठतीति विशेषसूचनार्थस्तच्छब्दः : असिद्धस्य कर्तुः स्वात्मलाभफलकव्यापारसामान्यं जन्मत्वम् । सिद्धस्य कर्तुरनात्मलाभफलकव्यापारसामान्यं- यागत्वादिशब्देनोक्तम् । कर्मत्वावान्तरसामन्यस्य जन्मतवस्यावान्तरसामान्याभावात्तत्यागेनान्यात्मलाभफलक- सिद्धकर्तृव्यापारात्मककर्मावान्तरसामान्यानि यागत्वादीनि विभजति - कर्मणामपीति । कर्मावान्तरसामान्यं यागत्वादि यजतिददातीत्यादिभिर्धातुभिर्विभागेनोक्तमित्युक्तेन यजदेव- पूजासङ्गतिकरणदानेषु ह्रुदानादनयोर्दुदाञ्दान इति त्रयाणामपि दानवाचित्वेन पर्यायतया

३० ] प्रथमाध्याये तृतीयपाद। ६४५ स्मृतत्वात्कथं विभागार्थं हेतुतेत्याशङ्कयाऽपर्यायेत्युक्तं प्रक्षेपपरस्वत्वापादनवाचित्वेन लोक- तोऽर्थभेदावगतेर्व्याकरणस्य शब्दान्वाख्यानमात्रार्थत्वेनार्थतात्पर्याभावात्स्वत्वनिवृत्त्यंशोप- लक्षणमात्रार्थत्वेन च यजिजुहोतिस्मृत्योर्दानशब्दोपपत्तेर्दानपर्यायस्मृत्योत्सारणमिव त्याग- त्वादेरप्यवान्तरविभागोऽभ्यासादिभिः क्रियत इत्याह—प्रविभज्यत इति । विधानशब्देनास- कृद्विधिरभ्यासो—नासकृच्छ्रु तिमात्राभित्युक्तम् । संख्योत्पत्तिगता द्वयादिका संख्याऽप्यन्य- लिङ्गैव । गुणो पूर्वंसंयोगाह्रैः, अनुपादेयसम्बन्धसचिवो सन्निधिः प्रकरणान्तरम् । ननु यागत्वदिजात्यभ्युपगमे यजत्यादीनामपि विचारविषयत्वोपपत्तेर्जातिशब्दा एव चिन्त्यत इति किमित्युक्तमित्याशङ्कयाह—अन्ये त्विति । कर्मणामेव यागहोमादिरूपेण भेदः, न यागादीनां ज्योतिष्टोमदर्शपूर्णमासादिरूपेणेति येषां मतम्, तदभिप्रायेण जातिशब्दा- नामेवोदाहरणतोक्तेत्याशयः । किं तेषां यागादिभेदाभावभ्रान्तौ कारणमित्यपेक्षायाम् अपि वाऽव्यतिरेकाद्रूपशब्दाविभागाच्च गोत्ववदेककर्म्यं स्यान्नामधेयं च सत्त्ववदिति (६.३.१२) षष्ठाधिकरणसिद्धान्तसूत्रगतमैककर्म्यशब्दं भ्रान्तिकारणं दर्शयितुमाह—अपि चेति । ऐक्य- शब्दोक्तस्य प्रत्यभिज्ञानस्य सादृश्यनिमित्तत्वाशङ्कानिवृत्त्यर्थं देवतोद्देशपूर्वकद्रव्यत्यागात्मक- रूपाभेदात्तत्प्रतिपादकयज्यादिशब्दाभेदाच्च कर्मभेदे प्रमाणाभावान्न सादृश्य—निमित्तता युक्तेत्युक्तम् । द्रव्यान्तरेण नीवारादिना कृतस्य कर्मणो व्रीह्यादिद्रव्यकादर्शपूर्णमासादेर्या- गाद् भेदापत्तेर्न प्रतिनिध्युपादानं युक्तमिति प्रतिपादनार्थेन 'क्रियाणामाश्रितत्वादू द्रव्यान्तरे विभागः स्यात् (६-३-११) इति पूर्वपक्षसूत्रेणोक्तमाश्रयभेदेन भेदं निराकत्तुं गोत्ववदिति दृष्टान्तितम् । यथा सत्त्वस्य गोत्वादेः पदार्थस्य गौरित्याद्यभिन्नं नामधेयमभेदापादकम्, तथा प्रतिनिधिनिष्पादितेऽपि कर्मणि दर्शपूर्णमासादिनामधेयं याज्ञिकैः प्रयुक्तमभेदापादकमिति युक्त्यन्तरम् । प्रत्यभिज्ञानेनैवैक्ये सिद्धेऽभ्युच्चयमात्रत्वान्नेहोपन्यस्तम् । प्रतिनिधिनिष्पा- दितकर्मविषयविषयस्याप्यस्य न्यायस्य विध्यन्तरविहितेष्वपि तुल्यत्वं मन्वानानामभि- प्रायेणैतदुदाहृतम् । एवं सामान्यानि विभज्य, सर्वव्याप्त्यर्थत्वेन भाष्यं व्याचष्टे— एवमिति । नन्वाकृतिशब्दस्य संस्थानवाचित्वमक्षपादाद्युक्तं परित्यज्य, जातिवाचित्वं किमित्युक्तमित्याशङ्कयात्मादिषु द्रव्येषु, गुणकर्मसु चाभावादित्याह—नेति । क्व पुनः संस्थानमस्ति, क्व वा नेत्यपेक्षायामाह । पार्थिवेषु संस्थानं स्वाभाविकम्, जन्मादिषु औपाधिकमिति निरूपणम्—सर्वेषु हीति । पार्थिवेषु स्वाभाविकं संस्थानम् । अग्नेर्ज्वलनादिन्धनसंस्थानानुसारिसंस्थानभेददर्शनात् तोयस्य चाधारभूते पात्रसंस्थानानुसारिसंस्थानभेददर्शनाद्, घटाद्यवच्छिन्नाकाशस्य चावच्छेदकघटादि- संस्थानानुसारिसंस्थानभेददर्शनाद्, वायोश्च घटाद्यवच्छिन्नाकाशसञ्चारिणो घटादिसंस्थाना- नुसारिसंस्थानभेददर्शनादौपाधिकम् । यद्यपि क्वचिद् वृष्ट्युदकोद्भवंगतज्वालादौ पार्थिव- द्रव्यपरिग्रहाभावेऽप्याकारः संस्थानापरपर्यायः प्रतीयते, तथापि विलक्षणाकारस्याप्यग्नि- तोयव्यक्तिष्वग्नितोयशब्दप्रयोगान्नैकशब्दवाच्यत्वयोग्यः सर्वाग्नितोयव्यक्त्यनुवृत्तैक आकारश्च पद्यरचनात्मकसंस्थानशब्दवाच्यो योऽभिधेयाकृतिकलक्षणं स्यादित्यनुवृत्तिशब्देन सूचितम् ।

६४६ मीमांसादर्शनम् [ सू० कल्प्येतेत्यनेनौपाधिकत्वं दर्शितम् । दिगादीनां तु न स्वाभाविकं संस्थानम्, भाव्यौपाधिक- मित्यर्थः । नन्वनुगतैकाकारप्रत्ययवेद्यत्वाज्जातिरप्याकाराभावे न सम्भवतीत्याशङ्क्याह— सामान्येति । संस्थानाख्याकाराभावेऽप्येकाकारप्रत्ययवेद्यः सर्वस्वव्यक्त्यनुगतो विजाती- येभ्यो व्यावृत्तो निरालम्बनबुद्ध्ययोगाद् ब्राह्मण्यादिवन्नापह्नोतुं शक्य इत्याशयः । सर्वेषु स्वविशेषेष्वनुवृत्तिरेव रूपं यस्येति विग्रहः । उपसंहरति—तस्मादिति । नन्वाकृत्यादिषु संस्थानासम्भवेऽपि गवादिषु सद्भावाद् गवादिशब्दानां संस्थानात्मका- कृतिवाचित्वं भविष्यतीत्याशङ्क्याह—संस्थानस्य चेति । नानाव्यक्त्यनुगतनित्यसामान्या- भ्युपगमात्संस्थानस्याकृतित्वे सामान्यं वाच्यमिति व्यवहारो न युज्यत इत्यर्थः । संस्थान- सामान्यस्य त्वाकृतिलक्षणत्वेन गोत्वाद्याकृतीनां वैलक्षण्यं सिद्ध्येदित्याह—अथेति । नन्ववान्तरसंस्थानसामान्यस्याकृतित्वमभ्युपगमान्न सङ्करापत्तिरित्याशङ्क्याह—न चेति । गोशब्दालम्बनत्वासम्भवे कारणमाह—तस्य हीति । नन्वेवं सति संस्थानस्याकृतित्वशङ्का- कारणाभावात् किं तन्निराकरणार्थेन सर्वसामान्यानामाकृतित्वमभिधानेनेत्याशङ्क्याह— तेनेति । येन संस्थानस्याकृतित्वं न युक्तम्, तेन निराकृतमिति । तेनेत्यस्य योजना शङ्को- पोद्वलनाय दृष्टान्ताभिधानम् । ननु सामान्यशब्देनैव संस्थानशङ्कानिवृत्तिसिद्धेः सर्वसामान्यव्याप्त्यर्थो मात्रशब्दोऽनर्थक इत्याशङ्क्याह—अतश्चेति । सर्वं सामान्यमाकृतिरित्यभिप्रेत्य यो मात्रशब्दः प्रयुक्तः, सोऽतः शङ्काव्यावर्तनात् कारणाच्छङ्काव्यावृत्त्यर्थमिति, यावदिति योज्यम् । ऊहितशङ्का- निवृत्त्यर्थंश्चकारः । व्यक्तौ च सर्वशब्दानां वाच्येहाकृतित्वेन विवक्षिता, न सामान्यान्त- राणीति शङ्कान्तरनिराससूचनार्थो वा । व्यक्तिस्वरूपनिरूपणार्थंस्यासाधारणेति भाष्यस्यान्येषां व्याख्यानं दूषयितुमुपन्य- स्यति—असाधारणेति । गौर्गौरित्येकाकारप्रत्ययस्य सामान्याख्यानुवृत्ताकारविषयत्वाच्छा- बलेयो बाहुलेय इति अनेकाकारप्रत्ययस्य च विशेषाख्यव्यावृत्ताकारविषयत्वान्न तद्व्यति- रिक्ताकारिभूतवस्तुसद्भावे प्रमाणमस्तीति, व्यक्तिशब्दस्य विशेषसमूहवाचित्वेन, वृक्षा वनमितिवद्वचनभेदे दोषाभावात् वृक्षाणामाश्रयो वनमितिवच्चाश्रय ( विशेषाणामाश्रयो व्यक्तिरिति 'अग्नेरुत्तानामाश्यस्तु' व्यवहारस्य वृक्षाणामाश्रयो वनमितिवदुपपत्तेरित्यर्थः ) व्यपदेशोपपत्तेः कर्म्मधारय एव युक्त इत्याशयः । 'आविर्भावतिरोभावधर्मकेष्वनुयायि यत् । तद्धर्मि यत्र वा ज्ञानं प्राग्धर्मग्रहणाद् भवेद् ॥' अ० सू० श्लो० १५२ इत्यनेन न्यायेन प्रत्यक्षसूत्रावयवानुवृत्तव्यावृत्तव्यतिरिक्तस्य धर्मिणः साधितत्वात्तद- पह्नवो न युक्त इत्यभिप्रायेण दूषयति—तत्विति । साधारण्यत्वविशेषाणां नासाधारण- व्यक्तात्मकत्वं युक्तमित्याह—खण्डेति । एतदेव व्याचष्टे -- खण्डेति । अन्योऽपीत्यने- नान्तरशब्दो शाबलेयवर्णेऽपि शबलापत्य इत्येवं व्याख्यातः शबलाशब्देन च तच्छब्दः

३० ] प्रथमाध्याये तृतीयपादः ६४७ वार्त्तिकश्लोकस्थ इत्यर्थं । शाबलेयशब्दप्रकृतिभूतशबलाप्रातिपदिकपरामर्शार्थत्वेन व्याख्यातः । एतच्चेत्यनेनादिशब्दोक्तं शबलाख्यविशेषस्य साधारण्यं व्याख्यातम् । एतदेव शबलेति नामाऽन्यत्रापि व्यक्तौ वर्त्तत इत्यर्थः । कथमित्यपेक्षिते प्रकारद्वयमुक्तं याहच्छि- कत्वासिद्धौ—सङ्केतवशादित्युक्तम् । नामशब्देनावास्तवोऽपि वर्णद्वयशून्योऽयं विशेषः प्रोक्तव्य इति सूचितम् । याहच्छिकशबलापत्ये साधारणार्थं तदपत्ये वेति पुनर्वचनं शाबलेय इति नाम वर्त्तत इत्याद्यनुषङ्गेण योज्यम् । ननु साधारण्येऽपि व्यक्तिमात्रलक्षणार्थ- त्वेनादोषो भविष्यतीत्याशङ्कयाह—असाधारणेति । दोषान्तराभिधानार्थं चेदमुक्तम् । दोषान्तरमाह—विशेषेति । व्यक्तिशब्दस्य समुदायवाचित्वाभावान्न वृक्षा वनमित्ये- तत्तुल्यतेत्याशयः । स्वमतेन व्याचष्टे—तस्मादिति । दोषसाम्यमाशङ्कते—नन्विति । या व्यक्तिः सौत्रं लक्षणेति लक्षणत्वेनोपादीयमानानां विशेषाणां समुदायेनासाधारण्येन च विशेषणाद्युक्तम- साधारण्यम् । परमते तु विशेषव्यतिरिक्ताय व्यक्तेरभावेनोद्देश्यत्वायोगाच्चे विशेषास्ते व्यक्तिशब्दवाच्या इत्युद्देश्यानां विशेषाणामविशेषेण व्यक्तिविशेषशब्दयोः पर्यायत्वापत्ते- स्तन्निवृत्त्यर्थम्, मृष्यामहे हविषा विशेषणमितिवदेकस्मिन् विशेषणे कृतेऽर्थसिद्धेर्विशेषणान्त- रस्य विवक्षितुमशक्यत्वाच्छू तेनासाधारण्येन विशेषितानां व्यक्तिशब्देनेत्यर्थः । समुदायेन विशेषणानुपपत्तेः प्रत्येकमेव विशेषाणां व्यक्तिशब्दवाच्यत्वप्रसङ्गाद्वैषम्यमभिप्रेत्य परिहरति—उच्यत इति । ननु विशेषसमुदायाश्रयत्वमात्रेण व्यक्त्युपलक्षणसिद्धेः किम- साधारणविशेषणेनेत्याशङ्कयाह—प्रविभक्ता हीति । पिण्डात्मना समुदायात्मना साधारण- त्वेनेत्यर्थः । विशिष्टा व्यक्तिर्गवादिशब्दवाच्यत्वेनाभिमता । नासाधारण्यं विनोपलक्षयितुं शक्येत्याशयः । नन्वेवं सत्यत्यन्तसहस्रव्यक्तिगतस्य खण्डादिर्विशेषसमूहस्यासाधारणा- भावान्नोपलक्षकत्वं स्यादित्याशङ्कयाह—न चेति । ननु प्रतिव्यक्त्यपूर्वविशेषाभ्युपगमे विशेषानन्त्यापत्तेरदृष्टकल्पना गौरवं स्यादित्याशङ्कयाह—अनन्तेति । ननु खण्डत्वादीना- मनेकव्यक्तिसाधारण्ये कथं विशेषव्यपदेश्यतेत्याशङ्कयाह—परेति । व्यक्तेर्विशेषेभ्योऽन्यत्वं पूर्वोक्तं भाष्यकृद्वचनेन द्रढयति—एतच्चेति । सामान्यस्य व्यक्तिपारतन्त्र्याद् व्यक्तेः सामान्याश्रयत्वं मुख्यम्, समुदायाद्याश्रयत्वं तु वृक्षाश्रयो वनमितिवत् समुदायस्य तन्मध्ये समुदायिप्रतीतेरौपचारिकम् । न च सकृच्छ्रुतस्याश्रयशब्दस्योभयरूपता युक्तेत्याशयः । व्यक्तिभाष्यस्य परव्याख्यादूषणेनाकृतिभाष्यस्य द्रव्याद्यनुगतसत्तासामान्यमेवाकृतिर्न गोत्वाद्यवान्तरसामान्यमिति सत्तावाच्यत्ववादिनां व्याख्यां बुद्धिस्थां दूषयितुं तन्मतं तावदुपपन्यस्यति—तत्रेति । उपन्यासार्थस्तत्र शब्दः सर्वशब्दानां पर्यायत्वशङ्कानिवृत्तये शब्दस्वरूपेण गोत्वादिना वा व्यवच्छेदाभिधानम् । अत्रार्थे तदीयं श्लोकं पठति— यथाहुरिति । अस्तीत्येवं रूपः सत्तासामान्यरूपः सर्वशब्दानामर्थं इतीदृशं प्रत्याय्यस्य वाच्यस्य लक्षणमाहुः । तस्य गवादिपदेष्वपूर्वादिपदैः सह तुल्यत्वादित्यर्थः । अपूर्वादीनां हि शब्दैकगोचरत्वात् तेन च विशेषाप्रतीतेरस्ति किंचिदित्येतावन्मात्ररूपेण प्रतीतेरपूर्वादि-

६४८ मीमांसादर्शनम् [ सू० शब्दानां शब्दावाचित्वावधारणात्तद्दृष्टान्तेन गवादिशब्दानामपि सत्तावाचिताऽनुमीयत इत्यर्थः । एतच्च 'सत्त्वप्रधानानि नामानि' प्रातिपदिकार्थः तत्तेत्यादिदर्शनान्नामविषय- मेवेति सर्वशब्दस्तद्विषयतया सङ्कोचनीयः । दूषयति—तत्त्विति । कक्ष्याशब्दः कोष्ठवाची । द्रव्यत्वगुणत्वकर्मत्वान्येकस्यां सत्तावान्तरसामान्यकक्ष्यायां वर्त्तन्ते । पृथिवोत्वादीनि द्रव्यत्वावान्तरसामान्यकक्ष्यायाम्, रूपत्वादीनि गुणत्वावान्तरसामान्यकक्ष्यायामित्येवमादिः कक्ष्याणां विभागः । तत्र द्रव्यशब्देन द्रव्यत्वसत्तयोर्निश्चयं प्रतीतिर्भवति । पृथिवीत्वादिषु सन्दिग्धा प्रतीतिः, गुणत्वादिषु त्वप्रतीतिरेव, गुणशब्दाद् गुणत्वसत्तयोर्निश्चयप्रतीतिः । रूपत्वादिषु सन्दिग्धप्रतीतिः । द्रव्यत्वादिष्वप्रतीतिरेवेत्यादिकक्ष्ययाविभागेन सामान्यानां प्रतिपादनात्सर्वशब्दानां च सत्ता- वाचित्वे द्रव्यशब्दाद् गुणत्ववद् द्रव्यत्वस्याप्यप्रत्ययापत्तेः । सत्ताद्वारेण वा प्रत्यये पृथिवीत्वादिवत् सन्दिग्धप्रतीतिप्रसङ्गाद् गुणत्वादावपि च तादृक्प्रतीतिप्रसङ्गात् सत्ता- वान्तरसामान्यविषयाणां द्रव्यादिशब्दानामेव तावद् सत्तावाचित्वमयुक्तम् । तत्रैवं सति दूरान्तरितार्थानां गवादिशब्दानां सुतरां सत्तावाचकत्वे शक्तिर्नास्तीत्यर्थः । श्लोकं व्याचष्टे—प्रतिनियतेति । ननु द्रव्यादिशब्दानां द्रव्यत्वाद्यवच्छिन्नशब्दवाचि- त्वाद्व्यवस्था भविष्यतीत्याशङ्कानिराकरणार्थं विशिष्टाभिधानपक्षं निराकरिष्यन्परानभि- मतमपि शुद्धाभिधानं विशिष्टाभिधाने निराकृते यदि कश्चिदङ्गीकुर्यात्तत्तदपि निराकार्यं- मिति मत्वा विकल्पयति तावत्सत्तामिति । आद्यं तावत्पक्षं निराकरोति—शुद्धेति । ननु देशाद्यपेक्षया घटादिवत्सत्तायां नास्तित्वाभिधानं न विरोत्स्यते अत आह—देशेति । आ देशब्दो वस्त्वभिप्रायो । यथाकाशस्य कूपपूरणेनोपलम्भप्रतिबन्धात्प्रतीयमानावस्था- पेक्षया नास्त्याकाशमित्युच्यते, तथात्रापीत्याशङ्कानिराकरणार्थः । मूर्तद्रव्यावष्टम्भो ह्याकाशोपलम्भप्रतिबन्धकोऽन्वयव्यतिरेकाभ्यामवगम्यते । न तु सत्तायाः किञ्चिदुपलम्भ- प्रतिबन्धकमस्तीत्याशयः । व्यक्तिमात्रगतत्वेऽपि जातेराकाशादिव्यक्तीनां विभुत्वात् सत्ताया विभुत्वसिद्धिः । सत्ताशब्दस्य लौकिकव्यवहारे च जातिवाचित्वाभावात्, सर्वशब्दानां महासामान्यवा- चित्वेऽपि सत्तावाचित्वाभिधानं न युक्तमित्याह—रूढोतं । लोकदृष्टेत्यनेन गवादि- शब्दवत् सत्ताशब्दस्य लौकिकव्यवहारे प्रयोगाभावाज्जातिवाचित्वनिषेधस्य लोकविरोधः परिहृतः । किं तर्हि सत्ताशब्दवाच्यं युज्यत इत्यपेक्षायामाह—य एव हीति । योऽस्तिशब्देन द्वितीयो भावविकार उच्यते । स एव सत्तेत्येतद्युज्यत इत्यर्थः । अनेन चास्तिशब्दोऽपि न वस्तुत्वापरपर्यायमहासामान्यवाचीति सूचितम् । द्वितीयभावविकारवाचिनोऽस्तेर्धातोः शतृन्तात्तल्लि कृते सत्ताशब्दव्युत्पत्तेरित्याशयः । ननु वस्तुशब्दस्यापि द्वितीयभावविकार- वाचित्वात्सत्तास्तिशब्दयोर्वस्तुशब्दपर्यायत्वमविरुद्धमित्याशङ्क्याह—जायमानेति । प्रथमो भावविकारो जायमानत्वम् । विपरिणामस्तृतीयः । आदिशब्देन वृद्धयपक्षयो चतुर्थपञ्चमावु-

३० ] प्रथमाध्याये तृतीयपादः ६४९ पात्तौ । विनश्यता षष्ठः । सर्वशब्देन भावविकाररहितेष्वपि नित्येष्वाकाशादिषु वस्तुत्व- प्रतीतेर्न वस्तुशब्दो भावविकारवाचीति सूचितम् । ततश्चास्तिशब्दोऽपि न वस्तुत्ववाचीति पूर्वसूचितमर्थं प्रकटयन्नस्त्यर्थं इति पाठं दूषयति—तेनेति । लौकिकप्रयोगाभावाच्च समुदायप्रसिद्ध्यात्मलाभाभावे क्लृप्तावयवार्थत्यागेन समुदायस्य शक्त्यान्तरकल्पनं प्रोक्षण्यादिशब्दवन्न युक्तमित्याह—न चेति । सत्ताशब्दप्रकृतित्वात् सच्छब्दस्योपन्यासः । तस्माद्योगिक एव सत्ताशब्दे न रूढिरित्युपसंहरति—इतीति । यथा भवतीत्याख्यातस्यार्थे भवन्निति भवच्छब्दो धात्वर्थविशिष्टकर्तृत्ववाचित्वाद्योगिकः, तथास्तीत्याख्यातस्यार्थे सन्नितिशब्दोऽपि । ततश्च सतो भावः इत्यस्मिन्नर्थे सच्छब्दात्तल्प्रत्ययोत्पत्त्या सत्तेति प्रवर्त्तमानो यौगिक एव । ननु सत्ताशब्देन जातिः प्रतिपत्तव्या, वैशेषिकपरिभाषैव हि तत्प्रति कारणम् । नान्यत्किंचिदित्यर्थः । कीदृशी परिभाषेत्यपेक्षिते काश्यपीयं सूत्रं पठितम् । इतिकरणो बुद्ध्युपलक्षणार्थः । यतो वस्तुत्वान्महासामान्याद् द्रव्यादिषु सदिति बुद्धिर्भवति, सा सत्तेति सूत्रार्थः । परिभाषाशब्ददर्शनात् परिभाषासूत्रत्वशङ्कां निवर्त्तयितुं लक्षणसूत्र- मेवेदम्, स्वोत्प्रेक्षितत्वद्योतनार्थन्तु परिभाषात्वाभिधानमिति लक्षणशब्देन सूचितम् । किं पुनर्वैशेषिकाणां सत्ताशब्दस्य जातिवाचित्वप्रसिद्धौ कारणमित्यपेक्षायामाह—सेयमिति । वस्तुपर्यायेण क्रमेण वक्तीति वस्तुपर्यायवाची, वस्तुत्ववाचीत्यर्थः । भवच्छब्देन सह साधारणो द्वितीयभावविकाररूपोऽर्थोऽस्येति भवसाधारणार्थः । घटो भवति इत्यादिपूर्वा- ख्याख्यप्रथमभावविकारवाचित्वेनापि प्रसिद्धस्य भवतेर्भूंसत्तायामिति सत्ताख्यद्वितीयभाव- विकारवाचित्वस्मृतिबलाद्भवत्साधारणार्थत्वमव्ययसंज्ञकस्यास्तिशब्दस्योक्तेः । भवतिधात्वर्थ- मात्रवाचित्वेऽपि अव्ययास्तिशब्दस्य प्रकृत्यनुग्रहार्थं शतृप्रत्ययोपादानाद्वस्तुत्वद्वितीयं भावविकारूपार्थद्वयवाचिना अव्ययसंज्ञकेनास्तिशब्देनेयं प्रसिद्धिरुपपादितेत्यर्थः । क्व पुनरव्ययास्तिशब्दो वस्तुत्ववाची दृष्ट दृष्ट इत्यपेक्षायामाह—अस्तित्वमिति । दिग्योगनिमित्ता पञ्चमी यस्मादस्तिशब्दात्परो त्वत्तलो दृश्येते, स वस्तुत्ववाचीत्यर्थः । आख्यातप्रतिरूपक इत्याख्यातत्वभ्रान्तौ कारणमुक्तम् । नन्वाख्यात (शब्द एवायं कस्मान्न भवतीत्याशङ्क्याह—अप्रातिपदिकत्वाद्वेति । भवत्साधारणार्थत्वमुपपादयन्नामाख्यातत्वे कारणन्तरमाह—अस्तीति । तेनास्ति १) शब्देन सह समासाभ्युपगमदनाख्यातत्वम्, तस्य च सच्छब्दवाच्यद्वितीयभावविकारवाचित्वावगमात् भवत्साधारणार्थतेत्यर्थः । एतदेव व्याचष्टे—अस्तीति । अस्तिपदेन सह यो बहुव्रीहिः, सोऽव्ययसंज्ञकेन, नाख्यातसंज्ञकेन । तस्यासुबन्तत्वेन समासायोगादित्युक्तेः । नन्वव्ययस्यापि सुब्लोपान्वाख्यानेन सुबन्तत्वाद- व्ययीभाववच्चाहत्य बहुव्रीह्यविधानात्कथं समासः स्यादित्याशङ्क्य प्रत्ययलोपे प्रत्यय- लक्षणमिति स्मृतेः प्रत्ययलक्षणद्वारेण सुबन्तत्वमुक्तम् । १. अयं पा० २ पु० ना० ।

६५० मीमांसादर्शनम् [ सू० ननु सुबुत्पत्तेः प्राग्सुबन्तताऽस्तीत्याशङ्कचावश्यम्भावित्वेन सुबुत्पत्तेः प्राथम्यमुक्तम् । आवश्यकत्वोपपादनार्थं प्रातिपदिकत्वेन योग्यतोक्ता । ननु यथा पठतितमामिति अप्रातिपदि- कादपि तद्धितो जातः तथात्र तिङन्तस्यापि समासो भविष्यतीत्याशङ्कय तिङन्तेत्युक्तम् । तिङश्चेति सूत्रेणाहत्य विधानात्तत्र तद्धितो जातः । तिङन्तस्य तु समासत्वेनोपसंख्यानमपि नास्तीत्यर्थः । सदर्थवचन इत्यनेन सद्वाचिनः सच्छब्दस्यार्थपरत्वं व्याख्यातम् । कथमव्यय- शब्देनेयं प्रसिद्धिरूपपादितेत्यपेक्षायामाह - ततश्चेति । वस्तुनि महासामान्ये सति च द्वितीये भावविकारे सत्संज्ञकमस्तिशब्दं प्रयुज्यमानमुपलभ्य तदीयद्वितीयं भावविकारमाख्यानु- सरणेन च कृत्वाव्ययास्तिशब्देन सह प्रत्यासन्नमदूरान्तरार्थं कर्तृप्रतीत्याविनेति द्वितीय- भावविकारवाचितयास्त्यर्थं स्वच्छब्दमुपलभ्य, महासामान्यमप्यव्ययास्ति (शब्दवाच्यः सच्छब्दवाच्या सत्तेत्येवं कल्पितमित्यर्थः । नन्वव्ययास्तिशब्दवाच्यस्य द्वितीयभावविकारस्य सच्छब्दवाच्यत्वेऽपि कथं महासामान्यस्य सच्छब्दवाच्यत्वकल्पनमाशङ्कयाव्ययास्तिशब्द- वाच्यत्वहेतुना द्वितीयभावविकारदृष्टान्तेन तस्यापि सच्छब्दवाच्यत्वानुमानसूचनार्थं तार्किकैरित्युक्तम् । नन्वेवमपि तलप्रत्ययाधिक्यात् सत्ता¹) शब्दस्य कथं महासामान्यवाचितेत्याशङ्कय देवात्तलितिस्मृतेर्यथा देवतेति तलप्रत्ययः स्वार्थिकः तथाऽयमपीत्युक्तम् । ननु द्वितीयभाव- विकारे कृत्सञ्ज्ञकशत्प्रत्ययोपात्तकर्तृविशेषणतया सच्छब्दवाच्यत्वेन सहाव्ययास्तिशब्द- वाच्यत्वेन सहाव्ययास्तिशब्दवाच्यताऽनुमितसामान्यस्य बाधकर्तृकत्वान्न तथानुमानं सम्भवतीति धर्मविशेषविपरीतसाधनात् विरुद्धो हेतुः स्यादित्याशङ्क्य - इहापीत्युक्तम् । यथाऽव्ययास्तिशब्दवाच्ये द्वितीये भावविकारे कर्तृविशेषणत्व प्रतीर्नास्ति तथेह सच्छाब्दवाच्ये द्वितीयभावविकारे भवतीमपि कर्तृप्रतीतिं, सक्षीरेति समासोपपत्तये सुबन्तत्वयोग्य- प्रातिपदिकत्वयोग्यप्रातिपदिकत्वसिद्ध्यर्थं कृत्सञ्ज्ञकशत्प्रत्ययोच्चारणोपपत्तेरतन्त्रीकृत्य कर्तृनिरपेक्षधात्वर्थमात्रवाची सच्छब्दः तत्समानार्थत्वाच्च सत्ताशब्दोऽपीत्यर्थः । ननु स्मृत्यभावाच्छब्दपरस्य तलप्रत्ययार्थस्य स्वार्थिकं तत्त्वमविवक्षाहेत्वभावाच्च कर्तृप्रतीतेरतन्त्रीकरणमयुक्तमित्याशङ्कयापारमार्थिकाभ्युपगममात्रद्योतनार्थम्-गृहीत्वेत्युक्तम् । स्वार्थिकं तलं गृहीत्वा धात्वर्थमात्रवचनों च स्वच्छब्दसत्ताशब्दौ गृहीत्वेत्यन्वयः । नन्वनेन न्यायेनाख्यातसञ्ज्ञकस्याप्यस्तिशब्दस्य द्वितीयभावविकारवाचित्वान्महा- सामान्यवाचितापि प्रसज्येतेत्यनिष्टापत्तिशङ्कानिराकरणायाख्यातप्रत्ययोच्चारणास्या- नन्यार्थत्वेन कर्तृसंख्याकालादिप्रतीतेरतन्त्रीकर्तु मशक्यत्वात्कर्तृसंख्याकालादिनिरपेक्षशुद्ध- धात्वर्थमात्रवाचित्वमाख्यातास्तिशब्दस्य नास्तीति सूचयितुमेवकारः । ततश्चाख्यातास्ति- शब्दवाच्यद्वितीयभावविकारदृष्टान्तेनाऽव्ययत्वेऽस्तिशब्दवाच्यत्वहेतुता वस्तुत्वस्याख्यातास्ति- वाच्यमिहानुमीयमानं कर्तृसंख्यादिविशिष्टत्वेनैवानुमीयेत यदव्ययास्तिशब्दवाच्यम्, तत् १. अयं पा० २ पु० ना० ।

३० ] प्रथमाध्याये तृतीयपादः ६५१ कर्तृसंख्यादिविशिष्टत्वेनाख्यातास्तिशब्दवाच्यमित्याख्यातास्तिशब्दवाच्ये द्वितीयभावविकारे व्याप्तिदर्शनादित्याशयः । ननु वस्तुत्वजातेः सच्छब्दवाच्यता तार्किककल्पिता पदवाक्यार्थ- तत्त्वज्ञैन्निराक्रियमाणा कथं प्रसिद्धिं यायादित्याशङ्कयाह—तदुक्तेति । 'यावद्यावद्विवादाय मुक्तकं दीयते मनः । अनवस्थादिदोषेण तावत्तावद्विहन्यते ॥' इत्यनेन न्यायेन चिरनिखाततडागादिगतशैवालवच्छुष्कतर्कस्याप्रतिष्ठितत्वेन निरा- कृतस्यापि पुनः पुनरुद्भूवेन समापयितुमशक्यत्वात्तार्किकोक्तस्यान्तगमने समापने अनाद- रादभियुक्तैरुपेक्षितत्वात्प्रसिद्धं सदिमां युक्तायुक्तत्वविचारावस्थां प्राप्तमित्यर्थः । प्रसिद्ध्या- भासं चेदम्, न परमार्थतो नियुक्तानामेवं प्रसिद्धिरस्तीति च शब्देनोक्तम् । किं तदित्य- पेक्षायामाह—येनेति । येन सत्ताया वस्तुत्वापरपर्यायमहासामान्यात्मकत्वेन गवादिशब्द- वाच्यत्वेनापि संज्ञा सम्भाव्यते । तत्सत्ताया महासामान्यरूपत्वमिमावस्थां प्राप्तमित्यर्थः । यद्वा युक्तायुक्तत्वविचारस्य कः प्रस्तुतपयोग इत्यपेक्षायामिदमुक्तम्, येन कारणेन सत्तायाः सामान्यरूपत्वे सति गवादिशब्दवाच्यत्वेनापि न सत्ता सम्भाव्यते, तेन तन्निरा- करणार्थं रूढिशब्दश्च नैवायमित्यादिनं न सत्ताशब्दस्य जातिवाचिता निराकृतेत्यर्थः । परमार्थतस्तु वस्तुत्वस्य जातिरूपस्यापि गवादिशब्दवाच्यत्वं नास्ति, किमुत सत्तायाः । जात्याख्याद्धर्मिद्धर्मान्तरत्वेन द्वितीयभावविकारत्वेन वर्त्तमानत्वादित्याह -- नन्विति । ननु वस्तुशब्दस्यापि निवासाद्यर्थाद्वसेर्धातोर्वसेस्तुन्निति सूत्रेणौणादिके तुन्प्रत्यये कृते व्युत्पत्तिसम्भवादनेकत्र नितरां प्रत्येकमेकमेव वसति वतं तइत्यवयवार्थयोगेन सत्तादिषु सामान्यं सामान्यमित्येकाकारप्रत्ययालम्बनस्यानेकेष्वेकस्य प्रत्येकवृत्तित्वलक्षणस्याभिधा- नादयौगिकत्वेन जातिवाचित्वं न युक्तमित्याशङ्कां निराकुर्वन्नथंगम्यत्वं विवृणोति—वस्तु- शब्दो हीति । व्यक्तेः प्रत्येकवृत्तिस्वभावादैवंविधयोगनिमित्तत्वे वस्तुशब्दस्य व्यक्तौ प्रयोगानुपपत्तिप्रसङ्गाद्यौगिकत्वासम्भवाभिधानार्थं व्यक्त्याश्रितत्वं वस्तुत्वसामान्यस्योक्तम् । जातेर्जात्याश्रितत्वाभावाद्वस्तुशब्दस्य जातिवाचित्वे जातौ प्रयोगानुपपत्तिमाशङ्क्य निःसामान्यानि सामान्यादीनीति वैभाषिकपरिभाषायाः प्रतीतिविरोधेनायुक्तत्वाज्जातेपि जात्याश्रयत्वं सम्भवतीति दर्शयितुं जात्यन्तराश्रितत्वमुक्तम् । नन्वेवं सति वस्तुत्वेऽपि वस्तुत्वप्रतीतेर्जात्यन्तराश्रयणायान्तरशब्दः । यथैव गोत्वरूपेण शाबलेयादौ गवाकारप्रत्यय- सिद्धयर्थं गोत्वमङ्गीकृतम्, न गोत्वे, तत्र गवाकारप्रत्ययस्य स्वरूपनिबन्धनोपपत्तेः । तथा जात्यन्तरे व्यक्तौ च वस्त्वाकारप्रत्ययसिद्ध्यर्थं वस्तुत्वं जातिरिष्यते, तत्र स्वरूप- निबन्धनत्वेनैव वस्त्वाकारप्रत्ययोपपत्तेर्नापरा वस्तुत्वं जातिरङ्गीकार्येत्याशयः । शुद्धाभि- धानपक्षस्य दृष्ट्टत्वोपसंहारपूर्वकम्, विशिष्टाभिधानपक्षस्य दुष्टत्वं प्रतिजानाति तावत् — शुद्धेति । दूषयति—यदेवेति । एतदेवं प्रपञ्चयितुं विकल्पयति—गोसत्ता चापीति । आद्ये कल्पे दोषमाह—तत्रेति । एतदेवोपपादयति — विशेषणमिति । गोव्यक्तिविशिष्टसत्ताभि- धानेऽप्येतमेव दोषमतिदिशति — तथेति । कल्पनागौरवापत्तेश्च केवलव्यक्त्यभिधानपक्षवद्वि-

६५२ मीमांसादर्शनम् [ सू० शेषणभूतव्यक्त्यभिधानपक्षोऽप्ययुक्त इत्याह—अनित्येति । अनित्यः सम्बन्धः तस्य चान्वय- व्यतिरेकाभ्यां विनाऽपि ज्ञानमनन्ताश्च शब्दशक्तयो यस्मिन्व्यक्त्यभिधाने प्रसज्यन्ते तत्त- थोक्तम् । दृष्टान्तं साध्यविकलत्वेन दूषयितुमनुभाषते—तस्त्विति । दूषयति श्लोकं-तन्नेति । श्लोकं व्याचष्टे—केचिदिति । श्रुतार्थापत्त्या पर्युपस्थापितस्यार्थविशेषस्य वचना वाचका इति पूर्वपदसमासान्निष्कृष्य योज्यं पर्युपस्थापनस्य नित्यपर्युपस्थापकापेक्षत्वात्पर्युपस्थापित- शब्दस्य श्रुतार्थापत्तिसापेक्षत्वेऽप्युत्तरपदसमासाविघातः । श्रुतार्थापत्त्या अपूर्वं पर्युपस्था- प्यते । स्वर्गो देवताश्च वाक्यशेषैः अर्थवादैर्वाक्यान्तरैश्च मन्त्रोपनिषदादिभिरुपस्थाप्यन्ते । ननु यद्यपि श्रुतस्वर्गयागसाध्यसाधनसम्बन्धान्यथानुपपत्त्या यागजन्यः स्वर्गोत्पादन- सामर्थ्यातिशयविशेषः कल्प्यते । तथापि समस्तवैदिकादृष्टार्थकम्मर्जन्यतिशयानुगतमपूर्वं शब्दवाच्यं सामान्यं न सत्तातोऽन्यत् प्रमाणान्तरेण लभ्यते । एवं सवनीयसूक्तादिमहेन्द्रादि- देवताविशेषावगमेऽपि सर्वदेवतानुगतं सामान्यं देवदाशब्दवाच्यं न सत्तातोऽन्येन लभ्यते । ये हि जनाः पुण्यकृत इत्यादिवाक्यशेषाच्च नक्षत्रलोकादिस्वर्गाविशेषावगमेऽपि न च वै स्वर्गलोका इत्यादिवाक्यशेषेभ्योऽनेकस्वर्गविगतेः सर्वानुयायिस्वर्गशब्दवाच्यं न सत्तातोऽ- न्येन लभ्यते इति वलात्सत्तैवापूर्वादिशब्दवाच्या स्यादित्याशङ्कयाह—कार्येति । सामान्ये- नेतीत्थम्भूतलक्षणे तृतीया । सामान्यरूपमप्यपूर्वादिसत्तातोऽन्यदेव लभ्यत इत्येवकारार्थे तुशब्दः । किं तदित्यपेक्षिते सर्वातिशयानुवृत्तिस्वर्गादिकार्योत्पादनसामर्थ्यसामान्यमपूर्वं- शब्दवाच्यम्, सर्वेन्द्रादिदेवतानुवृर्त्तिदीव्यतिधात्वर्थयोगित्वसामान्यं देवताशब्दवाच्यम्, सर्वस्वर्गानुवृर्त्तित्वदुःखमिश्रसुखनिष्ठसुखसङ्गतिसामान्यं स्वर्गशब्दवाच्यमित्युक्तम् । श्लोकं व्याख्यातुमपूर्वशब्दस्य तावत्सत्तातिरिक्तसामान्यवाचित्वमुपपादयति—सर्वेति । ननु लौकिकसाधनगतानां सामर्थ्यानां कार्यार्थापत्तिगम्यत्वेऽप्यपूर्वशब्दवाच्यत्वाभावात्, तद्वाक्यानां च वैदिकयागादिजन्यानां सामर्थ्यानां विशेषतः श्रुतार्थापत्तिगम्यत्वेऽपि सर्वकर्म- सामान्यविध्यभावेन सामान्यतः प्रमाणान्तरेणाऽनवगमात्सम्बन्धग्रहणासम्भवेन कथमपूर्व- शब्दाभिधेयतेत्याशङ्क्य—यागादीत्युक्तम् । क्लृप्तावयवसामर्थ्यानुसारेणैवापूर्वशब्दस्य सत्ता वैदिककर्मजन्यातिशयविशेषवत्त्व्यवान्तरसामान्याभिधायकत्वोपपत्तेर्न पृथक्सम्बन्ध- ग्रहणापेक्षेति भावः । देवशब्दस्य सत्तावाचित्वनिरासः देवताशब्दस्य सत्तातिरिक्तसर्वदेवतावत्त्व्यवान्तरसामान्यवाचित्वमुपपापयति—तथेति । दिवुक्रीडाविजिगीषाव्यवहारद्युतिस्तुतिकान्तिगतिष्विति सप्तस्वर्थेषु स्मृताद्दीव्यतेर्धातोर्घञि कृते देवशब्दव्युत्पत्तेः । सर्वेन्द्रादिदेवानुगतस्य क्रीडादिदीव्यत्यर्थयोगस्य सामान्यस्य सत्ता- तिरिक्सस्य सद्भावात्सुज्ञानो देवशब्देन सह देवानां सम्बन्ध इत्यर्थः । सत्ताव्यावृत्त्यर्थो विशेषशब्दोपाधिकत्वाद्वा देवशब्दस्यापूर्वशब्दवदेव जातिवाचित्वनिराकरणार्थः । ननु क्रीडादिदीव्यत्यर्थयोगस्य प्रमाणान्तरेण देवेष्वनवगमात्कथं तद्योगिनिमित्तेन देवशब्देन सह सम्बन्धज्ञानमित्याशङ्कयार्थान्तरानवगमेऽपि द्युत्यादेर्दीव्यत्यर्थस्य चन्द्रादौ प्रत्यक्षेणोप-

३० ] प्रथमाध्याये तृतीयपादः ६५३ लम्भाद्देवशब्दप्रवृत्तिनिमित्तत्वं भविष्यतीति दर्शयितुम्—द्योतन्ते वेत्युक्तम् । ग्रहशब्देनैव चन्द्रादित्योपादाने सिद्धेऽपि द्युत्यतिशयात्तयोः पृथगुपादानम् । पृथगुपादानं चन्द्रतारकेभ्यो नक्षत्राणां द्युत्यतिशयात्पृथगुपादानम् । रूपेणेतोत्थम्भूतलक्षणे तृतीयायोजना तु दीव्यन्तीति व्युत्पत्त्या क्रीडादिदीव्यत्यर्थयोगात्सर्वे देवाश्चन्द्रादिरूपेण गगने स्थिता द्योतन्त इति दिव्यत्यर्थः । द्युतियोगाद्देवाः वायवः सततगत्या दीव्यत्यर्थगतियोगाद्देवाश्च शब्दोपात्ताश्चेतरे सर्वेऽपि वा स्तूयन्त इति दीव्यत्यर्थस्तुतियोगाद्देवा इति प्रकार- वचनमितिकरणम् । निरावत्स्यं कार्या-गत्येत्यत्र तु तृतीयेवेतिकरणार्थस्य लब्धत्वान्नेति करणापेक्षा । आर्थवादिकीनां स्तुतीनां विधिशेषत्वेन देवता स्वरूपपरत्वाभावान्मन्त्रैरि- त्युक्तम् । अस्य च ग्रन्थस्य क्रमेण श्लोकगतेन्द्रादिपदोपात्तार्थविवरणत्वावगमात्सर्वेन्द्रादि- देवतागतदेवता१) त्वसामान्यपरमिन्द्रादिपदमवसीयत इति कृत्वा, तयाऽस्माभिर्व्याख्यातम् । स्वर्गशब्दस्य सत्तावाचित्वनिरासः स्वर्गशब्दस्य सत्तातिरिक्तार्थवाचित्वमुपपादयितुं नक्षत्रदेशो वा, मेरुष्पृष्ठं वा विशेष एव स्वर्गशब्दवाच्यः न सामान्यमिति प्रकारद्वयं तावदाह—तथेति । वैदिकेन प्रकृष्टेन स्पष्टेन वादेन, तन्मूलेन च पौराणिकानां मातलयर्जुनसम्वादादिगतेन दर्शनेन याज्ञिकानां धाइ गन्मस्तुवः संज्योतिषाऽभूनेत्यादिप्रोत्साहनमन्त्रार्थानुसन्धानरूपेण दर्शनेनेत्यर्थः । वैदिक- प्रवादद्वयं 'यथा वेद' इत्युपक्रम्योदाहृतम् । ननु न च वै स्वर्गलोका इत्यादिदर्शनेनानेक- स्वर्गानुगतसामान्यं स्वर्गशब्दवाच्यमङ्गीकार्यम्, न वा तत्सत्तातोऽन्यत्सम्भवतीत्याशङ्कानिरा- करणार्थत्वेन निर्म्मिश्रसुखसङ्गतिरित्येतद्व्याचष्टे—अथ वेति । केवलमेव सुखं स्वर्गशब्दे- नोच्यत इत्यनुषङ्ग । सुखस्य केवलं दुःखामिश्रत्वमुपपादयितुम्, दुःखाभावेऽप्यल्पम्पावदुःखा- सद्भावेऽपि च व्यतिरेकाद्—दुःखाद्विभक्तमित्युक्तम् । नन्वेवं सति कियत्कालं केवलसुख- स्येहापि दर्शनात् स्वर्गस्यामुष्मिकत्वं न स्यात् इत्याशङ्क्य—यदिद्युक्तम् । सर्वसुखसाधन- सम्पन्नस्यापि पिपासादिदुःखाभावे स्वादूदकपानाद्यप्रवृत्तेः कंचित्कालं दुःखस्यापरिहार्य- त्वाद्दिदुःखस्य चापरिहार्यंत्वाच्चिरकालं केवलसुखोपभोगस्यास्मिन् देशेऽनुपपत्तेः । परलोक- भोग्यत्वादल्पकालस्य च केवलसुखस्य स्वर्गशब्दानभिधेयत्वात्पारलौकिकता सिद्धेत्यर्थः । ननु चिरकालोपभोग्यस्य केवलसुखस्य प्रमाणान्तरेणानवगमात्कथं सम्बन्धग्रहणमित्याशङ्कां निराकुर्वन्स्वर्गादिशब्दार्थनिरूपणस्य प्रकृतसत्तावाचित्वनिराकरणोपयोगित्वमुपसंहरति -- तच्चेति । यागादिजन्यस्य चिरकालकेवलसुखस्य प्रमाणान्तरेणाऽग्रहणेऽपि लौकिके एव सुखेऽन्वयव्यतिरेकाभ्यां दुःखामिश्रात्सुखान्निष्कृष्टे गृहीतसम्बन्धः स्वर्गशब्दोऽल्पकाले सुखे तद्विना प्रत्यासत्तिजन्यदुःखापरिहारेणामिश्रत्वायोगात् कैवल्येनैव चिरकालताक्षेपादिशिष्ट- मेवालौकिकं प्रतिपादयतीत्याशयः । स्वर्गशब्दस्य सत्तावाचित्वनिराकरणोपसंहारेणेतरयो- रपि तुल्यन्यायसिद्धत्वात्पृथगनुक्तिः । अतश्चापूर्वादिशब्दयोग्यं गवादिशब्दानां स्वार्था- १. अयं पा० २ पु० ना० ।

पादनार्थत्वेनाविभागादिति सूत्रावयवो व्याख्यातः ।

६५४ मीमांसादर्शनम् [ सू०

मिधानेन मन्त्रागमकतयाऽस्मत्पक्षेऽप्युपपन्नमित्याह—तेनेति । परपक्षनिराकरणमुपसंहरति- अतश्चेति । नन्वेवं तर्हि गोत्वादेरश्वादिभ्यो व्यावृत्तत्वेन विशेषरूपत्वादाकृतिवाच्यत्वपक्षोऽनुप- पन्नः स्यादित्याशङ्कयाह—गोत्वेति । अश्वादिभ्यो व्यावृत्तत्वेऽपि शाबलेयादिष्वनुवृत्तेः सामान्यरूपताऽप्यस्तीत्याशयः । कुत इति सन्देहे तु प्रश्नभाष्यं द्वयोः प्रतीतेरेकाभिधाने- नैवाविनाभावादितरप्रतीतिसिद्धेः सन्देहहेतोः स्पष्टत्वादयुक्तमाशङ्क्य, व्यक्तिपक्षनिश्चया- भिप्रायत्वेन व्याचष्टे—कुत इत । सन्देहहेतुप्रतिपादनार्थं गौरिति भाष्यं प्रत्ययस्य व्यक्त्या- कृत्योस्तुल्यत्वादयुक्तमाशङ्क्य, प्रत्ययहेतुशब्दशक्तिलक्षणार्थप्रत्ययशब्दाङ्गीकरणेन व्याचष्टे- उच्यत इति । प्रत्ययशब्दस्यानाजर्वं द्योतयितुं व्युत्क्रमेण व्याख्यातम् । नन्वेवं सति विरुद्धाव्यभिचारित्वापत्तौ केनान्येन निर्णय इत्याशङ्कयाह—शक्त्येति । नात्रान्येन निर्णयः, किं त्वनयोरेव बलाबलावधारणेनेति भावः । प्रयोगचोदनाभावादितिसूत्रं लोकवेदाधिकरण- सिद्धान्ते अन्यथा योजितत्वाद्विवेकायाकृत्यधिकरणपूर्वपक्षेऽप्यावृत्त्या योजयति—किं तावदिति । लौकिक एवार्थो वेदेऽपीत्युक्तम् कोऽसावित्यपेक्षायां प्रयोगचोदनाभावं पर्यालोच्य यो युक्तः, स इत्येवं व्यक्तिवाच्यत्वप्रतिज्ञावगतेः—व्यक्तिर्वाच्येत्युक्तम् । अर्थैकत्वमिति सूत्रावयवं द्वयोः प्रतीयमानत्वाद् व्यक्तिमात्रवाच्यत्वं न युक्तमित्याशङ्क्यानिरकरणार्थत्वेन व्याख्यातुम्—नन्वित्युक्तम् । एकस्य वाच्यत्वे द्वयप्रतीतिः कथमित्याशङ्क्य, द्वयप्रतीत्युप- पादनार्थत्वेनाविभागादिति सूत्रावयवो व्याख्यातः । ननु शक्त्यनुसारेण शब्दानां वाचकत्वाच्छक्तेश्चान्वयव्यतिरेकाभ्यां जातावेव ज्ञातुं शक्यत्वात्कार्ययोगाभावेऽपि तस्या एव वाच्यत्वम्, न व्यक्तेरित्याशङ्कयाह—नित्यमिति । वाक्यार्थप्रतिपादनात्मकप्रयोजनकाले शब्दानामुच्चारितानां वाक्यार्थप्रत्यायनार्थत्वानुसा- रणैतद्वाक्यार्थप्रतिपादनोपयोगिपदार्थप्रतिपत्तिरेवंविधेन शब्दविभागेन भवतीति ज्ञात्वा, तथाविधशब्दविभागावधारणम् । शब्दविभागसन्देहाभावेऽपि वाक्यार्थविशेषोपयोगिशब्दार्थ- विशेषावधारणम् । तद्यथा श्वेतो धावतीत्यत्रार्थप्रकरणादिना गौरो निर्णेनेक्ति इत्येवं वाक्यार्थपरत्वावधारणे श्वेत इत्येकपदत्वम्, धावतेश्च निर्णेजनार्थतावधार्यते । अस्माद्देशा- च्छीघ्रं गच्छतीत्येतद्वाक्यार्थपरत्वेऽश्वा इति पदद्वित्वं गत्यर्थत्वं च धावतेर्निश्चीयते । एवं यथा येन प्रकारेण जातिवाच्यत्वनिरूपणरूपेण, व्यक्तिवाच्यत्वनिरूपणरूपेण वा पदार्थानां वाक्यार्थप्रत्यायार्थता भवति, तथा पदार्थानां जात्याख्यस्य व्यक्ताख्यस्य वा रूपस्य निरूपणं कार्यं न शक्त्यनुरोधेन कार्यविसेयत्वेन तस्यास्तदानुगुण्येन कल्प्यत्वादिति भावः । प्रयोगचोदनाभावव्याख्यानार्थमालम्भनेति भाष्यं व्याचष्टे—आकृतिरिति । ननु देवतोद्देश्यपूर्वकत्यागसङ्कल्पमात्रत्वाद्यागस्याकृतावप्युपपत्तिरित्याशङ्क्य-नेत्युक्तम् । निष्क्रि- यत्वेनाकृतेर्यथेष्टविनियोज्यत्वलक्षणसत्तायोगात्स्वत्वनिवृत्तिरूपत्यागो न सम्भवतीत्याशयः । आदिशब्दोपात्तमवघाताद्ययोग्यत्वमुपपादयितुमाह—अमूर्त्ता हीति । अवघाताद्युत्तरकालं वा व्रीह्यादेस्त्याज्यत्वादाकृतेश्चावघाताद्ययोग्यत्वात् त्यागानुपपत्त्युपपादनार्थोऽयं ग्रन्थः ।

३० ] प्रथमाध्याये तृतीयपादः ६५५ श्लोकद्वयं व्याचष्टे—व्रीहीनिति । यावन्तोऽवघातादयः संस्कारा विनाशिमूर्त्तिमद्द्रव्य- विषयत्वादाकृतौ न युज्यन्ते, ये चावेक्षणादयो विनाशिमूर्त्तिमद्द्रव्यविषयत्वाभावेऽपि यागापूर्वाख्यप्रयोजनसिद्धयर्थत्वादाकृतेश्च यागसाधनत्वाभावान्न तत्र युज्यन्ते । तेषां सर्वेषां या प्रयोगचोदना, तस्या आकृतावभावाद्, व्यक्तौ च भावाद्धिधिविषयत्वयोग्यो यो व्यक्त्याख्यः पदार्थस्तत्कल्पनमवश्याङ्गीकर्त्तव्यमित्यन्वयः । कथं व्यक्तेर्विधिविषयत्वयोग्य- तेत्यपेक्षिते—वाक्यार्थेत्युक्तम् । ननु विधिविषयत्वायो ग्यत्वेऽप्याकृतेः सम्बन्धग्रहणवशा- द्वाच्यत्वं भविष्यतीत्याशङ्क्य—कार्येत्युक्तम् । कार्योपयोगिन्येवार्थे सम्बन्धग्रहणसम्भवः नेतरत्रेत्याशयः । कथमित्यपेक्षायाम्—विध्यधीनत्वाच्चेत्युक्तम् । शब्दश्रवणानन्तरभाबिन्या हि प्रयोज्यवृद्धप्रवृत्त्या तद्विषयज्ञानमनुमाय, तत्कारणत्वं शब्दस्य कल्प्यमानं प्रवृत्तेर्विध्य- धीनत्वात्तद्विषयज्ञानकारणत्वमेव कल्पयितुं युक्तमिति भावः । एतच्च पूर्वोक्तमेव विवरीतुं भाष्यव्याख्यावसरेऽभिहितमिति न पौनरुक्त्यम् । आकृतेर्निषेधविषयत्वासम्भवमुपपादयति तथेति । उपसंहरति—तस्मादिति । यद्यप्यन्वयव्यतिरेकनिष्ठपृथक्शक्तिवशेनाकृतेस्तत्त्वतो वाच्यतावधारयितुं शक्या, तथापि कार्यानीपयिकत्वेनास्याः पदार्थकल्पनात्तत्त्वज्ञानमात्राददृष्टसिद्धयर्थं स्यात्प्रयोगचोदनाविरो- धित्वात्त्वसावयुक्तेत्यर्थः । अर्थैकत्वमिति सूत्रावयवावतारणार्थं यत्रेत्याशङ्काभाष्यं व्याचष्टे- स्यादिति । एतदाशङ्कानिराकरणार्थत्वेन सूत्रावयवव्याख्यानार्थमुक्तमिति भाष्यं व्याचष्टे- तदिति । केन न्यायेनेत्यपेक्षायामन्यायश्चानेकशब्दत्वमितिसूत्रं भाष्यकृताऽन्यायश्चानेकार्थत्व- मित्यूह्निवा पठितमिति व्याचक्षाणः सूत्रोक्तं न्यायत्रयमाह—अनवस्थितेति । यववराहा- धिकरणोक्तन्यायपरामर्शार्थं वेदं भाष्यमितिव्याख्यानान्तरार्थं तत्र न्यायमाह —सम्बन्धानां चेति । यथैव सदृशानां प्रियङ्गुदीर्घशूकादीनामेकाभिधानेनैवेतरप्रतीतिसिद्धेर्यंवादिशब्दा- नामर्थैक्यं स्थितम् । तथैव सम्बन्धानामध्येकाभिधानेनैवेतर प्रतीतिसिद्धेरन्याय्यानेकार्थ- तेत्यर्थः । कथमित्याशङ्काभाष्यं व्याचष्टे— कथं तर्हीति । सादृश्यवत्सम्बन्धादप्येकाभिधाने- नेतरप्रतीतिसिद्धावुक्तायामपि किमिह सादृश्यादेकाभिधानेनेतरप्रतीतिः, सम्बन्धाद्वेति विशेषजिज्ञासयोरन्वयः प्रश्नपूर्वव्याख्याने तु समञ्जस एव । व्यक्तिपदार्थंकस्येत्यादिभाष्य- मेतत्प्रश्नासम्बन्धन्वादुपेक्ष्य स्वयमविभागादिति सूत्रावयवमेतत्प्रश्नापाकरणार्थत्वेनाऽव- तारयति—अत आहेति । इह च प्रश्नोत्तर एव सम्बन्धाद्भाष्यकृतः शून्यहृदयाभिधाना- पत्तेरेतदाशङ्कापरिहारासामर्थ्याच्च शुद्धव्यक्त्यभिधानपक्षत्यागादाकृतिविशिष्टव्यक्त्यभिधान- पक्षपरिग्रहार्थत्वेनोत्तरभाष्यव्याख्याने प्रतिज्ञासंन्यासाख्यनिग्रहस्थानापत्तेः, विभागादिति च सूत्रावयवेनैव सुपरिहरत्वेनासामर्थ्यायोगात्सूत्रावयवव्याख्योपेक्षाकारणाभावाच्चैतत्सूत्रा- वयवव्याख्यानार्थं व्यक्तिसम्बन्धादित्यृत्तरभाष्यम्, 'कथं व्यक्त्यन्तरेण प्रयोग' इति चाशङ्कान्तरभाष्यं भाष्यकृतोक्तमपि लेखकैः प्रमादान्न लिखितम् । लिखितमपि प्रलीन- मिति प्रतिभाति । अवतरितं सूत्रावयवं व्याचष्टे—यतस्त्विति । शङ्कानिराकरणार्थस्तुशब्दः । एतच्च यत्र हि शुक्ल इति वा कृष्ण इति वा गुणः प्रतीतो भवति, भवति खल्वसावलङ्गुणवति

६५६ मीमांसादर्शनम् [ सू० प्रत्ययमाधातुमिति तद्भूताधिकरणभाष्येण तुल्यन्यायत्वादुक्तं भवतीत्याह -- तदुक्तमिति । नन्वालम्भादिचोदनासु व्यक्तेर्वाच्यत्वं श्येनचितादिचोदनासु त्वाकृतेरेव क्रियार्थत्वाल्लक्षिता- याश्चाशाब्दत्वेन धूमगम्याग्निवच्छाब्दक्रियान्वयायोगात्तस्या एव वाच्यताऽङ्गीकार्य्येत्या- शङ्क्याह--यस्य त्विति । शङ्कानिराकरणार्थस्तुशब्दः । गौणलाक्षणिकत्वयोः शब्दस्य शक्त्यभावेऽपि तात्पर्यात्सद्भावाच्छ्वशुराल्लज्जते स्नुषेत्यादौ च पुत्रविशिष्टभार्यादिवाचिनः स्नुषादिशब्दस्य विशेषणभूतपुत्राद्यनभिधाने विशेष्यभूतभार्याभिधानांशक्तेः स्नुषादिशब्दा- भिहितस्यापि पुत्रादेर्लज्जादिक्रियान्वयादर्शनेन तात्पर्य्यवृत्तेरेव पदार्थान्वयकारणत्वावसा- याल्लाक्षणिकाऽप्याकृतिः क्रियात्वं प्रतिपत्तुं शक्तेत्याशयः । तस्य पदस्य तत्रस्थस्य तत्रैवार्ये वर्त्तमानस्येत्यर्थः । नन्वेवं सति व्यक्तेरपि लाक्षणिक्याः क्रियान्वयोपपत्तेर्जातिवाचितैव कस्मान्नेष्टेत्या- शङ्क्याह--इत्यपि चेति । इति करणोऽयमेवशब्दार्थे । एवमपीत्युक्तं भवति । यद्यप्युमय- थापि क्रियान्वयो युज्यते, तथाप्याकृतेर्व्यक्तिविशेषनिश्चायकत्वाभावाद्यक्तेश्चाकृतिविशेष- निश्चायकत्वसद्भावादाकृतेरेव लाक्षणिकत्वं युक्तम्, न व्यक्तेरित्यर्थः । उपसंहरति-- तस्मादिति । ननु विकल्पादिपक्षान्तरसम्भवान्नायमुपसंहारो युक्त इत्याशङ्क्याह-- न चेति ॥ ३० ॥ भा० प्र०--साधु शब्द के प्रयोग के लिए सूत्र का निर्देश किया गया है, अर्थात् साधु शब्द का प्रयोग ही उचित है और साधुता के ज्ञान के लिए एक मात्र आधार व्याकरण शास्त्र है, व्याकरण के द्वारा ही शब्दों का साधुत्वानुशासन किया जाता है। अब विचार- णीय है कि वाचक शब्द का वाच्य क्या है ? कारण, शब्द के वाच्य के ज्ञान के बिना पद की साधुता या असाधुता का निर्णय नहीं हो सकता है, इसलिए आचार्य कुमारिल- भट्ट ने स्पष्ट शब्दों से निर्दिष्ट किया है--"न हि वाच्यमविज्ञाय साधुत्वमवधार्यते" यह भी सत्य है कि शब्द के वाच्य के विषय में आचार्यों का एकमत नहीं है। वैयाकरण ने व्यक्ति को शब्द वाच्य माना है, मीमांसक एवं वेदान्तियों ने स्वीकार किया है कि जाति ही शब्द का वाच्य है और नैयायिकों ने जातिविशिष्ट व्यक्ति को वाच्य माना है । इस प्रकार मतभेद रहने से प्रसङ्गक्रम में यह प्रश्न स्वाभाविक है कि वैदिक शब्द का वाच्य क्या है ? इस विषय की विवेचना से पूर्व यह भी अवगत करना होगा कि वैदिक शब्द एवं उसका अर्थ भिन्न है या अभिन्न है ? क्योंकि, वैदिक शब्द और उसका अर्थ लौकिक शब्द और अर्थ से भिन्न है तब वाच्य-वाचकता के निरूपण अधिकरण की योजना नहीं हो सकती है, कारण, वैदिक शब्दों का अर्थ अपूर्व है अर्थात् अन्य प्रमाणों से जानने के योग्य नहीं है, तब वैदिक शब्द का वाच्य जाति है अथवा वैदिक शब्दों का अभिधेय व्यक्ति है--इसके निर्णय का कोई साधन नहीं है, यदि लौकिक और वैदिक शब्दों का अर्थ अभिन्न है, तभी इस अधिकरण की योजना सम्भव हो सकती है। क्योंकि

३० ] प्रथमाध्याये तृतीयपादः ६५७ वृद्धों के व्यवहार से शब्दार्थ सम्बन्ध जानकर जाति या व्यक्ति की वाच्यता का निश्चय किया जा सकता है । लौकिक और वैदिक शब्द भिन्न हैं या अभिन्न हैं - इस संशय में पूर्वपक्षी का कहना है कि अभिन्न नहीं हो सकते हैं, क्योंकि लौकिक शब्दों का रूप भिन्न है और वैदिक शब्दों का रूप भिन्न है, जैसे, लोक में देव शब्द का रूप देवैः, ब्राह्मण शब्द का रूप ब्राह्मणाः, आत्मन् शब्द का रूप आत्मना होता है, किन्तु वेद में देवेभिः, ब्राह्मणासः, त्मना आदि रूप होता है । इसलिए लौकिक एवं वैदिक शब्दों का रूप भिन्न होने से वे दोनों अभिन्न नहीं हो सकते हैं । इसी प्रकार अर्थ में भी भेद है । जैसे वेद में कहा गया है—'उत्ताना वै देवगवा वहन्ति' अर्थात् देवलोक की गौएँ उत्तानवाही अर्थात् चित्त होकर चलती हैं। “हिरण्यपर्णी वै देव वनस्पतिः” अर्थात् देवलोक के वृक्ष हिरण्मय पत्र होते हैं । इसी प्रकार “एतद् वै दैव्यं मधु यद् घृतम्” यह घृत देवों का मधु है । इस प्रकार घृत को मधु कहा जाता है । पूर्वोक्त उद्धरणों से लौकिक पद और पदार्थ से वैदिक पद और पदार्थ की भिन्नता ही लक्षित होती है । इस पूर्वपक्ष के समाधान में सिद्धान्ती का कथन है कि लौकिक और वैदिक शब्द और अर्थ की एकता अर्थात् अभिन्नता ही है । इसीलिए भाष्यकार ने कहा है— “य एव लौकिकाः शब्दास्त एव वैदिकास्त एव एषामर्थाः” जो लौकिक शब्द है, वही वैदिक शब्द है और जो इनका लोकसिद्ध अर्थ है वही वैदिक अर्थ है । क्योंकि, 'प्रयोग-चोदना- भावात्' इसीलिए प्रयोग चोदना अर्थात् कर्मविधि सम्भव होती है या वेदवाक्य का उच्चारण सफल होता है । यदि वैदिक शब्दार्थ भिन्न होता तब उनका सङ्केतग्रह अर्थात् सम्बन्ध ज्ञान नहीं होने से वेद की कर्म विधि व्यर्थ होती और अर्थ के ज्ञान के लिए ही शब्द का उच्चारण किया जाता है, किन्तु वैदिक शब्द एवं अर्थ भिन्न होने पर वह अपूर्व अर्थात् प्रमाणों की सहायता से अज्ञेय होने से उसका अर्थबोध नहीं होता और अर्थ का बोध न होने पर वे अप्रमाण रहते, अतः लोक और वेद का शब्द और अर्थ अभिन्न है । इसीलिए कहा गया है— 'लोकावगतसामर्थ्यः शब्दो वेदेऽपि बोधकः' अर्थात् वृद्धों के व्यवहार से ही शब्द का सामर्थ्य अवगत होता है । लौकिक और वैदिक शब्दों की अभिन्नता के लिए ही कहा गया है -- 'अविभागात्' यतः प्रत्यभिज्ञा रूप प्रत्यय का विभाग अर्थात् भेद नहीं है । आशय यह है कि लौकिक और वैदिक शब्द की अभिन्नता दृढ़तर प्रत्यभिज्ञा से सिद्ध है तब उसको परस्पर भिन्न कैसे कहा जा सकता है ? अबाधित प्रत्यभिज्ञा रहने पर जैसे वर्णों की अभिन्नता सिद्ध होती है वैसे ही लौकिक और वैदिक शब्दों में भी अबाधित प्रत्यभिज्ञा होने से उनमें भेद नहीं रह सकता है । अतः लौकिक गोशब्द से वैदिक गवादि शब्द भिन्न नहीं है । वेद में जो गउ को उत्तानपादी कहा गया है—वह भी विरुद्ध नहीं है, क्योंकि, उन स्थलों में गोत्व आदि विधेय नहीं है, अपितु लोकप्रसिद्ध ४२

६५८ मीमांसादर्शनम् [ सू० गोत्व आदि का उत्तानवाहित्व ही विहित है। मर्त्यलोक में गउ नाम से जो प्राणी प्रसिद्ध है, वह देवलोक में उत्तानवादी ही है। इसी प्रकार लोक प्रसिद्ध वृक्ष के विषय में स्वर्ण- मय पत्रत्व विहित है। इस कथन का यह कारण है कि मेरु पर्वत पर यदि वनस्पति हिरण्मयपर्णत्व हो सकता है, तो इसको अर्थान्तरवाची मानने की क्या आवश्यकता है ? हम लोगों के लिए जो घृत है वह रस, बल के परिणाम से देवों के लिए उसको मधु मानने में कोई आपत्ति नहीं है। किसी गुणवाद से पृथिवी गोलोक त्रैलोक्य भ्रमणादि से, पुराण के कथन से दर्शन की तरह तथा हम लोग दिव् को ऊपर देखते हैं, इसी प्रकार दिव्लोक के ऊपर होने से उत्तान वहन दृष्टि विरुद्ध नहीं है। सभी के लिए प्रसिद्ध न होने पर जिसके लिए असिद्ध है, उनके लिए असिद्ध होने से अन्यत्व की आशङ्का नहीं है। एवं हिरण्यपत्रत्वं मेरौ यदि वनस्पतेः । देवलोके ततः शब्दः किमर्थान्तरवाच्ययम् ॥ यच्चैतद्घृतमस्माकं देवानां मध्विदं यदि । रसवीर्यादिभिस्तत्र न शब्दार्थोऽन्यथा भवेत् ॥ न च सर्वाप्रसिद्धत्वे गम्यैकोऽपि कश्चन । तेनासिद्धैरसिद्धानां नास्त्यन्यत्वनिरूपणम् ॥ (त० वा० १३८-१४०) वृद्धव्यवहारसिद्ध घृत की आनन्दजनकता के सादृश्य से घृत में मधुत्व आरोपित है। देवेभिः, ब्राह्मणासः, आदि रूप के भेद से शब्द का भेद स्थिर करना भी ठीक नहीं है, क्योंकि एक ही व्यक्ति को विभिन्न काल में विभिन्न परिधान के आधार पर भी भेद मानना पड़ेगा, किन्तु उस स्थल में रूप का भेद होने पर भी व्यक्ति स्वरूप का भेद नहीं होता है। क्योंकि स एवायम् (यह वही है) यह अभेद प्रत्यभिज्ञा रहती है। इसी प्रकार वैदिक शब्दों मे भी कहीं किसी प्रकार का भेद रहने पर भी अभेद प्रत्यभिज्ञा होने से वे भिन्न नहीं है—यह मानना पड़ेगा। शब्दैकत्वम् की जगह पर अर्थैकत्वम् -- इस कथन का आशय व्यक्त करते हुए कहा कहा है कि अर्थैकत्व कहने से ही शब्दैकत्व अर्थतः सिद्ध हो जाता है, इसलिए लाघवपक्ष का अवलम्बन कर सूत्रकार ने ऐसा प्रयोग किया है। वार्तिककार ने 'अविभागात्' इस हेतु का पांच हेतु विकल्प प्रदर्शित किया है—(१) प्रत्यभिज्ञा रूप प्रत्यय के अविभाग के कारण। (२) ज्ञायमान वैदिक और लौकिक दोनों प्रमेयों के रूपगत अविभाग के कारण। (३) वाक्य और वाक्य राशि के हेतुस्वरूप पद और वर्ण के विषयत्व व्यवहार के अविभाग के कारण। (४) उच्चारण करने वाले के स्थान एवं इन्द्रिय के प्रयत्न के अविभाग के कारण। (५) बहुतर प्रमेय के अनुगमनविषयक अविभाग के कारण, वैदिक और लौकिक शब्द और उसके अर्थ की अभिन्नता से ।

३० ] प्रथमाध्याये तृतीयपादः ६५९ लोकव्यवहार एवं वेदव्यवहार में शब्द और अर्थ अभिन्न हैं—यह अबाधित होने पर जाति में शब्द की शक्ति है या व्यक्ति में शब्द की शक्ति है—यह विषय विचारणीय होता है। पूर्वपक्षियों का कहना है कि व्यक्ति को ही वाच्य मानना उचित है, अन्यथा सभी वेदविधियां निरर्थक हो जायेंगी—इसी को व्यक्त करते हुए कहा है—"प्रयोग- चोदनाभावात्"। जाति को शब्द का वाच्य मानने पर क्रिया एवं गुण के साथ उसका सम्बन्ध सम्भव नहीं है। क्योंकि गाय चर रही है, गौश्चरति", गौ सफेद है 'गौः शुक्लः' इत्यादि व्यवहार उत्पन्न नहीं होगा। जाति अतीत, वर्तमान एवं भविष्य सभी गो व्यक्तियों के साथ सम्बद्ध होने से उसमें चरणक्रिया सम्भव नहीं है। जाति अमूर्त होने से वह अनाश्रय है, अतः शुक्लत्व आदि गुणों का आश्रय नहीं हो सकती है न और न उससे वह उपरक्त हो सकती है। पूर्वोक्त कारणों से 'ब्रीहीन् प्रोक्षति' 'ब्रीहि का प्रोक्षण करें', कपिञ्जलान् आलभेत' कपिञ्जल अर्थात् तित्तिर जातीय पक्षिविशेष का यज्ञविशेष में वध करें आदि विधियां अनर्थक हो जायेंगी, क्योंकि जाति का वध तो सम्भव नहीं है, अतः जाति शब्द का अभिधेय नहीं हो सकती है। इसलिए, व्यक्ति को शब्द का अभिधेय मानना होगा, क्योंकि व्यक्ति में पूर्वोक्त क्रिया पूर्वोक्त गुण का होना सम्भव है। कोई गाय घूम रही है, कोई गाय बैठी है, कोई काली है, कोई सफेद है इत्यादि व्यक्ति के अभिधेय होने में ही सम्भव है। यदि यह कहा जाय कि जहां जाति के अभिधेय मानने में दोष है वहां व्यक्ति को ही वाच्य माना जायेगा, और जहां जाति को वाच्य मानने में किसी प्रकार दोष नहीं है, वहाँ जाति को वाच्य माना जायेगा। ऐसा मानने पर शब्द को अनेकार्थक मानना पड़ेगा। एक शब्द की अनेकार्थता उचित नहीं है। इसी आशय से सूत्रकार ने "अर्थै- कत्वम्" शब्द का एक ही अर्थ होना उचित है—यह कहा है। इस प्रसङ्ग में यह जिज्ञास्य है कि जाति की प्रतीति कैसे होगी ? इसके समाधान में “अविभागात्” यह कहा गया है। जाति व्यक्ति से अत्यन्त भिन्न नहीं है । इसलिए, दोनों में भेदाभेद सम्बन्ध होने से व्यक्ति की प्रतीति के समय जाति की भी प्रतीति होगी। नैयायिकों का कथन है कि व्यक्ति में शक्ति मानने पर अनन्त शक्ति की कल्पना माननी पड़ेगी, अतः, जाति विशिष्ट व्यक्ति में शक्ति है। "प्रयोगचोदनाभावात्" = प्रयोग चोदना का अर्थात् प्रोक्षण आदि उपदिष्ट कर्मों के अभाव से अर्थात् इन विधियों के असम्भव होने से व्यक्ति ही शब्द का वाच्य है। "अर्थैकत्वम्” = केवल व्यक्ति को ही वाच्य मानने पर सर्वत्र अभिधेय = वाच्य की एकता रहने से "अविभागात्"=व्यक्ति का जाति से भेद न होने से व्यक्ति की प्रतीति होने पर जाति की भी प्रतीति होगी। व्यक्ति ही शब्द का वाच्य हो सकती है। जाति शब्द का वाच्य नहीं हो सकती है, क्योंकि, जाति को वाच्य मानने पर विधि-विहित प्रोक्षण आदि कर्म असम्भव हो जायेंगे। व्यक्ति को वाच्य मानने पर सभी स्थलों में अर्थ की

६६० मीमांसादर्शनम् [ सू० एकता भी रहेगी, जाति व्यक्ति से अभिन्न है, अतः व्यक्ति की प्रतीति होने पर जाति की भी प्रतीति अनायास ही होगी अथवा "प्रयोगचोदनाभावात्" = विधिवाक्य का वाच्य की चोदना अर्थात् उच्चारण जन्य अर्थ प्रतीति का अभाव अर्थात् अप्रामाण्य होने से "अर्थकत्वम्" = लौकिक एवं वैदिक अर्थ की एकता होने से अर्थात् अभिन्नता ही है, "अविभागात्" = विभाग अर्थात् वैलक्षण्य नहीं है। लौकिक और वैदिक शब्द एवं उनका अर्थ अभिन्न है, क्योंकि, लौकिक एवं वैदिक शब्द की अभिन्नता है, यदि अभिन्नता न मानी जाय तो विधि वाक्य का या वेदवाक्य के उच्चारण का अप्रामाण्य मानना होगा ॥ ३० ॥ अद्रव्यशब्दत्वात् ॥ ३१ ॥ शा० भा०-द्रव्याश्रयस्य शब्दो द्रव्यशब्दः, न तत्र द्रव्याश्रयवचनः शब्दो 'भवेत्, यद्याकृतिः शब्दार्थो भवेत्। षड¹ देया द्वादश देयाश्चतुर्विशतिर्देया इति । न ह्याकृतिः षडादिभिः संख्याभिर्युज्यते । तस्मान्नाऽऽकृतिवचनः ॥ ३१ ॥ अन्यदर्शनाच्च ॥ ३२ ॥ शा० भा०—'यदि पशुरुपाकृतः पलायेत, अन्यं तद्वर्णं यद्वयसमालभेत' इति । यद्याकृतिवचनः शब्दो भवेत्, अन्यस्याऽऽलम्भो नोपपद्येत । अन्यस्यापि पशुद्रव्यस्य सैवाऽऽकृतिः । तस्माद् व्यक्तिवचन³ इति ॥ ३२ ॥ पूर्वपक्षः । भा० वि०—व्यक्तेश्शब्दार्थत्वे हेत्वन्तरमाह - अद्रव्यशब्दत्वादिति । सूत्रं व्याचष्टे—द्रव्याश्रयस्येति, अद्रव्यशब्द इति। अद्रव्यः शब्द इतिच्छेदः, अनेन सौत्रं पदमनूदितम् तच्च गुणशब्द इति व्याख्यातं द्रव्याश्रयस्य शब्द इति, न च जातेरपि द्रव्याश्रयत्वात् कथं द्रव्याश्रयस्य शब्दो गुणशब्द एवेति वाच्यम्; द्रव्यत्वे नञा पर्युदस्ते तदन्यापेक्षायां द्रव्यमात्राश्रयत्वात् नेति; गुण एव द्रव्याश्रयस्य शब्द इत्याशयः, एवं पदार्थमुक्त्वा नञध्याहारेण वाक्यार्थमाह—न तत्रेति । गवादि शब्दानामाकृत्यर्थत्वे तत्समानाधिकरणषडादिसङ्ख्यागुणवचनशब्दो न भवेदित्यर्थः, कुत इत्यत आह—न हीति । द्रव्यस्यैव गुणवत्त्वनियमादिति भावः । उक्तहेतुफलमाह—तस्मादिति । ततश्चाकृतिविशिष्टा वा; केवला वा व्यक्तिश्शब्दार्थ इति भावः ॥ ३१ ॥ भा० वि०—इतश्च व्यक्तिश्शब्दार्थ इत्याह—अन्यदर्शनाच्चेति । सूत्रं व्याख्यातुं विषयमाह—यदीति । अन्यस्य प्रतिनिधेः विधानदर्शनाद्व्यक्तिश्शब्दार्थ १ ब. षड्देया । २ ब. संख्यादिभि । ३ ब. सेवतस्मा ।