भारतकोश
संग्रह पर लौटें

मीमांसा दर्शन / पूर्वमीमांसा (शाबर भाष्य सहित)

Purva Mimamsa Darshan with Shabara Bhashya

महर्षि जैमिनि / शाबर स्वामी द्वारा

स्रोत: तारा प्रिंटिंग वाराणसी · तारा प्रिंटिंग वाराणसी · 1950 (उद्गम)

DevanagariSanskritpublished804 पृष्ठ

३३ ] प्रथमाध्याये तृतीयपादः ७०१ प्रकृतिविचारमनुसन्धत्ते—यद्वा चेति । अतोऽधुना क्रियत इत्यध्याहारेण योज्यम् । पक्षान्तराणामप्यभिधानं प्रतिजानाति—बहव इति । अभिनवे पक्षे केनचिदुपन्यस्ते निराकरणोपपत्त्या ज्ञानाच्छिष्याणां व्यामोहापत्तेः तन्निवृत्त्यर्थं सर्वैऽभिधेया इत्यर्थः । बहु- पक्षप्रतिभाने कारणमाह—गौरिति । शब्दस्वरूपस्य प्रत्यक्षग्राह्यत्वेन तद्विषयाभिधान- शक्तिकल्पनानुपपत्तेर्नव्यानभिधानो हिंशब्दः कश्चित्कदाचनेति शून्यवादे वृहट्टीकायां स्वरूपाभिधानस्य निरस्तत्वाच्छब्दवाच्यत्वशङ्कानुपपत्ति—सूचनार्थं तद्युक्तम् । सहवस्तु- प्रतिभानेऽपि कथं बहुपक्षप्रतिभानमित्याह—तेषामिति । पक्षानुद्दिशति—किं जातिरेवेति । जातिव्यक्त्योः सामानाधिकरण्यबुद्धिहेतुभूतस्य । 'आश्रयी येन भिन्नोऽपि सम्बन्धेनाऽऽश्रये धियम् । स्वानुरूपां सदा कुर्यात्समवायः स कीर्त्यते ॥' इत्येवं लक्षणसमवायाख्यस्य सम्बन्धस्य जात्या सहाधाराधेयसम्बन्धसद्भावाज्जाति- सम्बन्धयोः सच्छब्दवचः सम्बन्धः शब्दार्थ इत्यस्यापि पक्षस्योपपत्तेर्वस्तुगतस्य जात्या- ख्याया अनुवृत्ताकारस्य, व्यावृत्ताकारस्य च व्यक्तित्वेनाभिप्रेतस्यैव वस्तुगतत्वादेकदेश- स्थवृक्षवद्यः समुदायस्तस्याकारद्वयाकारद्वयाधारे धर्मिभूते वस्तुनि प्रतीतेः तदाश्रितया जात्या सहैकवस्तुगतत्वादेव समुदायोपपत्तेः । सर्वत्राऽष्टपक्षीसम्भवः । यथा जातेर्व्यक्त्यादिभि षड्भिः सह प्रत्येकमष्टौ पक्षाः कृताः । तथा व्यक्तादेरप्ये- कैकस्येतरैः सह कार्या इत्याह-एवमेकैकस्येति । ननु व्यक्त्यादिभिः सह सम्प्रधारितया जात्या सह व्यक्त्यादेः सम्प्रधारणे पक्षभेदो नास्तीत्याशङ्क्य—उक्तवदित्युक्तम् । (एकाद्वित्रिचतुः- पञ्चषट्कैः सह विकल्पने) त्युक्तद्विकादिप्रकारभेदात्पक्षाविवेक इत्याशयः । ततश्च व्यक्ति- सम्बन्धः व्यक्तिसमुदाययोर्व्यक्तिलिङ्गयोः, व्यक्तिकारकयोः, व्यक्तिसंख्ययोः, सम्बन्धसमु- दाययोः, सम्बन्धलिङ्गयोः, सम्बन्धकारकयोः, सम्बन्धसंख्ययोः, समुदायलिङ्गयोः, समुदाय- कारकयोः, समुदायसंख्योलिङ्गकारकयोः, लिङ्गसंख्ययोः, कारकसंख्ययोः, पञ्चदशाऽष्टपक्षीः पूर्वाभिः षड्भिः सहैकविंशतिं कृत्वा । १. जातेर्व्यक्तिसम्बन्धव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसङ्ख्यासम्बन्धसमु- दायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यासमुदायलिङ्गसमुदायकारकसमुदायसंख्यालिङ्ग- कारकलिसंख्याकरसंख्याद्विकैः पञ्चदश । व्यक्तेर्जाति-सम्बन्ध-जातिसमुदाय-जातिलिङ्ग-जातिकारक-जातिसंख्या-सम्बन्धसमु- दायसम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यासमुदायलिङ्गसमुदायकारकसमुदायसंख्यालिङ्ग- संख्याकारकसख्याद्विकैः पञ्चदशसम्बन्धस्य जातिव्यक्तिजातिसमुदाय-जातिलिङ्गजाति- कारक-जातिसंख्याव्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारक-व्यक्तिसंख्यासमुदायलिङ्गसमुदाय- कारकसमुदायसंख्यालिङ्गकारकलिसंख्याकारकसख्याद्विकैः पञ्चदश ।

७०२ मीमांसादर्शनम् [ सू० समुदायस्य जातिव्यक्तिजातिसम्बन्धजातिलिङ्गजातिकारकजातिसंख्याव्यक्तिसम्बन्ध- व्यक्तिलिङ्गव्यक्तिकारकव्यक्तिसंख्यासम्बन्धलिङ्गसम्बन्धकारकसम्बन्धसंख्यालिङ्गसंख्या - द्विकैः पञ्चदश । लिङ्गस्य जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिकारकजातिसंख्याव्यक्तिसम्बन्ध- व्यक्तिसमुदायव्यक्तिकारकव्यक्तिसंख्यासम्बन्धसमुदायसम्बन्धकारकसम्बन्धसंख्यासमुदायकारक- समुदायसंख्याकारकसंख्यायुगलैः पञ्चदश । कारकस्य जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिलिङ्गजातिसंख्याव्यक्तिसम्बन्ध- व्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिसंख्यासम्बन्धसमुदायलिङ्गसम्बन्धसंख्यासमुदायलिङ्गसमु - दायसंख्यालिङ्गसंख्याद्विकैः पञ्चदश । संख्याया जातिव्यक्तिजातिसम्बन्धजातिसमुदायजातिलिङ्गजातिकारकव्यक्तिसम्बन्ध- व्यक्तिसमुदायव्यक्तिलिङ्गव्यक्तिकारकसम्बन्धसमुदायसम्बन्धलिङ्गसम्बन्धकारकसमुदायलिङ्ग- कारकद्विकैः पञ्चदश । २. जातेर्व्यक्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गकारकव्यक्तिकारकसंख्यासम्बन्धसमु- दायलिङ्गसम्बन्धलिङ्गकारसंख्यासमुदायलिङ्गकारक.समुदायकारकसंख्या.लिङ्गकारकसंख्या- त्रिकैर्दश : व्यक्तेर्जातिसम्बन्धसमुदायसंख्याजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकारकसंख्या- सम्बन्धसमुदायलिङ्गसम्बन्धलिङ्गकारकसम्बन्धकारकसख्यासमुदायलिङ्गकारकसमुदायकारक- संख्यात्रिकैदश । सम्बन्धस्य जातिव्यक्तिसमुदायजातिसमुदायलिङ्गजातिलिङ्गकारकजातिकारकसंख्या- व्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गकारकव्यक्तिकारकसंख्यासमुदायलिङ्गकारकसमुदायकारक - संख्यालिङ्गकारकसंख्यात्रिकैर्दश । समुदायस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धलिङ्गजातिलिङ्गकारकजातिकारकसंख्या- व्यक्तिसम्बन्धलिङ्गव्यक्तिलिङ्गकारकव्यक्तिकारकसंख्यासम्बन्धलिङ्गकारकसम्बन्धकारक - संख्यात्रिकैर्दश । लिङ्गस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायकारकजातिकारकसंख्या- व्यकिनसम्बन्धसमुदायकारकव्यक्तिकारकसंख्यासम्बन्धसमुदायकारकसम्बन्धकारकसंख्यासमु- दायकारकसंख्यात्रिकैर्दश । ३. कारकस्य जातिव्यक्तिसम्बन्धजातिसम्बन्धसमुदायजातिसमुदायलिङ्गजातिलिङ्गसंख्या- व्यक्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गसंख्यासम्बन्धसमुदायलिङ्गकारकव्य - क्तिसम्बन्धसमुदायव्यक्तिसमुदायलिङ्गव्यक्तिलिङ्गकारकसम्बन्धसमुदायलिङ्गसम्बन्धलिङ्ग - कारकसम्बन्धलिङ्गकारकसंख्यासमुदायलिङ्गकारकसंख्याचतुष्कः षट् । व्यक्तेः जातिसम्बन्ध- समुदायलिङ्गजातिसमुदायलिङ्गकारकजातिलिङ्गकारकसंख्यासम्बन्धसमुदायलिङ्गकारक - सम्बन्धलिङ्गकारकसंख्यासमुदायलिङ्गकारकसंख्याचतुष्कः षट् । सम्बन्धस्य जातिव्यक्ति-

<!-- Page 757: Content rendered in scan -->

७०४ मीमांसादर्शनम् [ सू० विशेषणंविशेष्यत्वप्रकाराधिक्यतोऽधिकाः । पक्षाश्चतुःशतात्पूर्वं गणितादित्यनन्तता ॥ ननु 'भाष्ये किमाकृतिः शब्दार्थो व्यक्तिरिति' पक्षद्वयस्यैवोपन्यासाद् व्याख्यातृणा- मेतावत्पक्षापन्यासो न युक्त इत्याशङ्कयाह—पूर्वपक्षेऽपीति । यत्रोच्चारणार्थैक्यम्, तत्र व्यक्तिरर्थाः, अन्यत्राकृतिवचन इति भाष्ये पूर्वपक्षवेलायां द्वयवाच्यत्वपक्षस्यापि व्यक्तिपक्ष- वदुपन्यासादपिशब्दाच्च सिद्धान्तवेलायामथ किं विशेषणत्वेनाकृतिं वक्ष्यति, विशेष्यत्वेन व्यक्तिमित्याकृतिविशिष्टव्यक्तिपक्षोपन्यासात्, ननु व्यक्तिविशिष्टायामाकृतौ वर्त्तत इति च व्यक्तिविशिष्टाकृतिपक्षोपन्यासादुपलक्षणार्थः । सन्देहवेलायां पक्षद्वयोपन्यास इत्याशयः । नन्वेवं सति सर्वेषामेवोपन्यासनिराकरणे कस्मान्न कृत इत्याशङ्कयाह—उपन्यासेन चेति । सन्देहवेलायामपि पक्षद्वयोपन्यासोऽत एवेत्याह—तेनेति । भाष्योक्तसन्देहहेतुमुपन्यासपूर्वकं दूषयति—भाष्यकारेण चेति । अतः प्रयोगस्य प्रतीतेश्च तुल्यत्वाच्छब्दलक्षणे व्यक्तिपक्षाभिधानाच्चेत्यस्मदुक्त एव द्वेधा सन्देहहेतुरित्याह—तेनेति । का पुनराकृतिरिति प्रश्नभाष्यं प्रथमपादेन त्वाकृतिः साध्यास्ति वा न वेत्याशङ्क्य; न प्रत्यक्षा सती साध्या भवितुमर्हतीत्यादिना रुचकादि- दृष्टान्तकवस्तुदाहरणेनाकृतिसद्भावस्य निरूपितत्वादयुक्तमित्याशङ्कते—का पुनरिति । तदश्राविणो ज्ञानाभिप्रायेण तावत्प्रश्नमुपपादयति—नैष दोष इति । प्रथमपादाश्राविण- स्तृतीयपादश्रवणेऽनधिकारज्ञानाभिप्रायायोगादुक्तेऽपि दृष्टाकारे वस्तुनि को व्यक्त्याकारः, को वाऽऽकृत्याकार इत्यविवेकात्सन्देहाभिप्रायेणोपपादयति—सन्देहाद्धेति । श्येनादिमध्या- शङ्कानिराकरणेनानुगताकारस्याकृतित्वनिश्चयात् सन्देहानुपपत्तेरुक्ताप्याकृतिर्व्यक्तिव्यतिरे- केणानुपलम्भान्न सम्भवतीति विपर्ययाभिप्रायेणोपपादयति—वैपरीत्येन चेति । युक्तिविशेषस्योत्तरेऽनभिधानेनोक्ताक्षेपाभिप्रायेण प्रश्नायोगात्स्वमतानुगताकारस्य व्यक्तितोऽत्यन्तभेदाभावेनाविचार्यत्वान्नाज्ञातोऽत्यन्तभिन्नाकृतिर्वाच्या । न चासावस्तीत्येवं विपर्ययाभिप्रायेणोपपादयति—अथ वेति । द्रव्येत्युत्तरभाष्यमज्ञानसन्देहानिरासार्थत्वेन तावदवतारणपूर्वकं व्याचष्टे—तत्राहेति । अत्यन्तभेदे सति व्यतिरेकानुपलम्भादभावः स्यात् । भिन्नाभिन्नयोस्तु न भेदानुपलम्भमात्रेणाऽभावो भवतीत्युक्ताक्षेपनिरासार्थत्वेन व्याचष्टे—यस्त्विति । ननु प्रथमपादोक्तन्यायेनैवाकृतिसिद्धावयं ग्रन्थोऽनर्थकः स्यादित्या- शङ्कयाह—न चेति । एतदेवोपपादयति—तेनैवेति । विवेककथनार्थत्वाभावे स्वरूपक- थनस्य सामान्यमित्येतावत्तैव सिद्धेर्मात्रशब्दोऽनर्थकः स्यादित्यर्थः । अत्यन्तभेदाभावेऽपि कथंचिद् भेदाद्विचार्यत्वं भवतीति द्वितीयविपर्ययाभिप्रायनिरा- सार्थत्वेन व्याचष्टे—यदपीति । यद्वा चायं मात्रशब्दोऽत्यन्तभेदनिरासार्थः । तथा सर्व- सामान्यव्याप्त्यर्थोऽपीति दर्शयितुं, तदभावे सत्तामात्रमेव, द्रव्यत्वादित्रयमात्रमेव वा निर्दिष्टः स्यादिति पक्षद्वयं तावदाह—द्रव्यादीनां चेति । एतत्पक्षद्वयनिरासे मात्रशब्दं योजयितुमाह—अथ वेति ।

३३ ] प्रथमाध्याये तृतीयपादः ७०५ असाधारणविशेषेतिसमासं पराभिमतकर्मधारयत्वनिरासेन बहुव्रीहितया व्याचष्टे- असाधारणेति । कस्मादित्यपेक्षायां योऽर्थः सामान्यस्य विशेषाणां चाश्रयः, सा व्यक्तिरित्यु- परिष्टादभिधानाद् 'द्रव्यगुणकर्मणां सामान्यविशेषवत्त्वं साधर्म्यम्'ति च वैशेषिकतन्त्रे द्रव्यगुणकर्मव्यक्तीनां सामान्यविशेषाधारत्वस्मृतेश्चेत्याह-- उपरिष्टादिति । अन्त्यविशेषाणां वा नित्यद्रव्य-वृत्तित्वस्मृत्या सामान्यतो विशेषाणां द्रव्यवृत्तित्वं स्मृतं न भवतीति मत्वा—स्मृतेश्चेत्युक्तम् । कुतः प्रश्नपूर्वकस्य व्यक्त्याकृतिविवेकाभिधानस्य प्रस्तुतोपयोग इत्याशङ्क्य, व्यक्त्याकृतिवाच्यत्वविचारानुपपत्तिशङ्कानिरासार्थत्वं सुचयितुमाह- तेनेति । प्रयोगचोदनाभावादितिसूत्रमावृत्त्यैतद्विचारपूर्वपक्षेऽपि योजयति - किं प्राप्तमिति । अनेनैव सूत्रावयवेनाक्षिप्तानि हेत्वन्तराण्याह - संख्येति । एतदेव विवृणोति-यदि हीति । प्रयोगचोदनादिसिद्ध्यर्थं व्यक्तिलक्षणायां लक्षणैव दोषः स्यादित्याह- लाक्षणिकेति । ननु लक्षणापि शब्दवृत्तिप्रकारत्वान्न दोषमित्याशङ्कयाह - तथा चेति । ततश्च श्रुतिलक्षणा- विवेको न स्यादिति भावः । मुख्यसामानाधिकरण्यसिद्ध्यर्थमपि व्यक्तैरेव शब्दार्थतेत्याह -- व्यक्तीति । पशुचोदनाक्षिप्तहृदयादिव्यवहारसिद्ध्यर्थमपि व्यक्तेरेव शब्दार्थतेत्याह- पशुमिति । अपेक्षितविधिसिद्ध्यर्थमपि सैव शब्दार्थ इत्याह-- कर्मभिश्चेति । सर्ववादि- सिद्धत्वाच्च सैव वाच्येत्याह - सिद्धेति । अर्थकत्वमिति सूत्रावयवमवतारयितुं शङ्कते - किमितीति । प्रयोगप्रतीत्युपपत्तेर्जा- तिर्वाच्या, क्रियोपपत्तेश्च व्यक्तिरित्यर्थः । सूत्रावयवेनेमां शङ्कां निराकरोति-नेति । अविभागादिति सूत्रावयवावतारणाय शङ्कते-- सामान्येति । एतदाशङ्कानिराकरणार्थत्वेन सूत्रावयवं व्याचष्टे - व्यक्तीति । अर्थकत्वमिति सूत्रावयवावतारणार्थं यत्रेति शङ्काभाष्यं निरुपपत्तिकमाशङ्क्योपपादयति - यत्रैवेति । सूत्रावयवव्याख्यानार्थत्वमुक्तमिति भाष्य- मुपपादयति-नेति । आदिशब्देन विकल्पोपादानं गौरिति एकपदोच्चारणे क्रियाविशेषान- वधारणेन तत्सम्भवासम्भवसन्देहादुच्चारणानर्थक्यसन्देहे संशयोत्पत्तिः कथमिति प्रश्न- भाष्यं व्यक्तिपदार्थकस्येत्युत्तराननुरूपत्वादुपेक्ष्योत्तरानुरूपं स्वयं प्रश्नान्तरं करोति - व्यक्तीति । एतत्प्रश्नापाकरणार्थत्वेनोत्तरभाष्यं व्याचष्टे - आकृतीति । ननु कथं सामान्यावगतिरित्येतत्प्रश्नोत्तरभाष्यस्य प्रश्नान्तरापाकरणार्थत्वेन व्याख्या न युक्तेत्या- शङ्क्य, यथाश्रुतस्य दूषणमाह - भाष्यकारस्त्विति । का तर्हि भाष्यस्य गतिरित्यपेक्षाया- माह - तेनेति । अविभागादिति सूत्रावयवावतरणार्थोऽयं प्रश्न इति भावः । एवं भाष्य- कृतः शून्यहृदयतापत्ते रन्यथा व्याचष्टे - यद्वेति । ननु विशिष्टाभिधाने पूर्वपक्षिणोऽभिमते कथं सामान्यावगतिरितिप्रश्नानुपपत्तिः, शुद्धाभिधाने तु पक्षान्तरपरिग्रहे प्रतिज्ञान्तराणां निग्रहस्थानं स्यादित्याशङ्क्य व्यक्तिः शब्दार्थं इति पूर्वपक्षप्रतिज्ञाया द्वैविध्यं दर्शयितु- माह - तेनेति । अद्रव्यशब्दत्वादिति सूत्रं सङ्क्षेपेण व्याचष्टे -- तथा चेति । तस्मान्ना- कृतिवचन इति उपसंहारभाष्यं व्यक्तिः शब्दार्थं इति प्रतिज्ञानुरोधात् व्यतिरेकमुखेन व्यक्त्यभिधानोपसंहारार्थमेवेति सूत्रयितुं तथा चेत्युक्तम् । अन्यदर्शनाच्चेतिसूत्रमन्वयमुखेन ४५

७०६ मीमांसादर्शनम् [ सू० तावत्स्वयं व्याचष्टे -- अन्यथेति । यद्याकृतिवचन इति व्यतिरेकमुखेन भाष्यकारीयव्याख्या- नमनुसन्धत्ते -- अन्यथेति । पूर्वपक्षमुपसंहरति । तस्मादिति । आकृतिस्तु क्रियार्थत्वादिति सिद्धान्तसूत्रमुभयत्र क्रियासम्भवादुभयाभिधानप्रति- पादनार्थम् कस्यचिद् भ्रान्तिः स्यात्, तन्निवृत्त्यर्थं जातिमात्राभिधानप्रतिपादनार्थत्वेन व्याचष्टे -- इतीति । नन्वाकृतेरपि व्यक्तिवच्चयेनेनानुत्पाद्यत्वात्कथमख्यातश्रवणादाकृतेः पदार्थत्वविज्ञान- मित्याशङ्कयाह -- अत्र हीति । अत्र हि श्येनमिव चितं चयनेन निर्वर्त्तयेदिति वाक्यार्थं इत्यन्वयः । श्येन इव चीयत इति श्येनचिच्छब्दस्य कर्मव्युत्पत्तिप्रदर्शनार्थः । स्थलशब्दः क्विब्वप्रत्ययस्याग्न्याख्यातौपाधिकत्वप्रदर्शनार्थः अग्निशब्दसादृश्यवाचिशब्दाश्रवणात् कथं सादृश्यलाभ इत्याशङ्क्य -- परिशेषादित्युकम् । ननु श्येनव्यक्तिभिः स्थलस्य चेतुं शक्यत्वात् कथं सादृश्यलाभ इत्याशङ्क्य, श्येनशब्दार्थकरणत्वस्य निषेध्यमानत्वात्कर्मतैव वाच्येति दर्शयितुम् -- वाक्यार्थद्वयमुक्तम् । नन्वेवमपि न सादृश्यलाभ इत्याशङ्क्यैतद्वाक्यार्थद्वय- दूषणार्थं -- यावदित्याद्युक्तम् । चयनेन श्येनव्यक्तिं कुर्यादित्येतद्यावन्नोपपद्यते, तथाकृतिं कुर्यादित्येतदपि यावन्नोपपद्यते तावत्परिशेषात्सा दृश्यलाभ इति । यस्मादर्थं यावच्छब्दा- वृत्तिः । तस्मादर्थं तावच्छब्दोत्कर्षेण योज्यम् । चयनेन श्येनव्यक्तिं कुर्यादित्येतत्कस्मान्नोप- पद्यत इत्यपेक्षायाम् -- इष्टकाभिरित्युक्तम् । स्नाव्यादिभिस्तर्हि श्येनव्यक्त्यन्तरादुद्भूतैः क्रियतामित्याशङ्क्य स्नाव्यादिभिः -- अपीति हेतुद्वयमुक्तम् । ननु स्त्रीपुंसमैथुनेन तर्हि क्रियतामित्याशङ्क्य, तेन निष्पन्नाया अपि श्येनव्यक्तेरग्नि- शक्तवात्तादर्थ्यासम्भवेन प्रयोजनान्तरकल्पनापत्तेः, मैथुने च चाग्न्याख्यानुपपत्तेरग्न्याख्या- निमित्तक्विप्प्रत्ययस्मृतिपरित्यागापत्तेश्चेत्युक्तम् । इष्टकाबाधश्चात्रापि तुल्यः । चयनेनाकृतिं कुर्यादिति वाक्यार्थानुपपादनार्थम् -- आकृतेरपीत्युक्तम् । ननु सादृश्यमपि श्येनव्यक्त्या सह करिष्यते, अत आह -- ततश्चेति । एकया वा श्येनव्यक्त्यन्तरविलक्षणया श्येनव्यक्त्या सहाग्न्याख्यस्थलस्य सादृश्यं सम्पद्येत, सर्वाभिर्वा । तत्रानिर्द्धारितरूपैकव्यक्तिसादृश्यस्य व्यक्तिनिरपेक्षजातिसादृश्यासम्भवेन जातिसादृश्यव्यतिरेकापत्तेर्निर्द्धारितरूपव्यक्त्यन्तर- विलक्षणैकव्यक्तिसादृश्यं वाच्यम् । न चेष्टकाभिस्तत्सुसम्पादम् । सर्वव्यक्तिसादृश्यं तु तासां परस्परवैलक्षण्यादतीतानागतानां चाग्रहणेन तत्सादृश्याग्रहणादवाङ्मुखमेवेत्याशयः । ननु चेत्याशङ्काभाष्यं व्याचष्टे -- अथेति । न साधकतम इत्युत्तरभाष्यमनुवादपूर्वक- माक्षिपति -- तत्रेति । यद्यपि सिंहं देवदत्तमानयेति सिंहशब्दवच्छ्येनं चितमिति द्वितीयान्तः श्येनशब्दः स्यात् तथापि तावत्सादृश्यविशेषणार्थत्वेन मुख्यार्थत्वाभावात्, मुख्यार्थत्वेऽपि वा श्येनमानयेति गोशब्दवत्परविशेषणार्थत्वेन स्वप्रधानभूतार्थप्रतिपादकत्वाभावान्न मुख्य- श्येनशब्दार्थस्य करणत्वेनाशङ्कितस्येप्सिततमतयाभिधानायाऽलम् । अयं च द्वितीयान्तवत् भवति । तस्याः श्येनशब्दानन्तर्य्यमात्रादित्यर्थः । क्विब्वप्रत्ययान्तः शब्दोऽत्रेिप्सिततमत्व- निर्देश्कोऽभिमतः । न द्वितीयेतिभाष्यं समाधत्ते -- तेनेति । स्मृतिपर्यालोच्येति ल्यब्लोपे

३३ ] प्रथमाध्याये तृतीयपादः ७०७, पञ्चमी, कथमेतत्स्मृतिपर्यालोचनया श्येनशब्दार्थस्य करणत्वनिषेधः अत आह - कर्म्मणि हीति। नन्वेवमपि प्रत्ययार्थमात्रस्य कर्म्मत्वावगतेर्नोपपदार्थस्य कर्म्मत्वं सिद्ध्येदित्या- शङ्क्याह- यदीति। नन्वेवमप्युपपदस्य किमायातमित्याशङ्क्याह- न चेति। निरुप- पदस्य चिनोतेरग्नौ प्रयोगदर्शनेनान्वाख्यात्वाभावात्प्रसिद्धद्यन्वाख्यानिमित्तत्वाच्च क्विप्प्रत्ययस्मृतेः सोपपदस्यैव चिनोतेरन्वाख्यातवं गम्यतं इत्यर्थः। ननु कर्म्मणीति वाच्यसप्तम्या चिच्छब्दपात्रस्य कर्मवाचित्वावगतेरुपपदस्य कर्म- वाचित्वनियमाभावात् कथं सकलस्यैकार्थत्वमित्याशङ्कयाह - तेनेति। केवलस्य चिनोते- रन्वाख्यानुपपदापेक्षया 'कर्मणि हन' इत्येतत्सूत्रगतस्योपपदविशेषणस्य कर्मशब्दस्यावश्या- नुवर्त्तनीयत्वादुपपदस्यापि कर्मवाचित्वावगतेनं श्येनशब्दस्य कर्मवाचिना चिच्छब्देन सह वैयधिकरण्यमित्यर्थः। उपसंहरति - ततश्चेति । 'तृतीया तत्कृतार्थेन गुणवचनेने' (पा० सू०) त्यादितृतीयासमासलक्षणाभावादपि न श्येनशब्दार्थः करणमित्याह - यदि वेति। यद्यसौ करणं स्यात्, ततस्तृतीयासमासो वाच्यः। स चानुपपन्नः, लक्षणाभावादित्यर्थः। नन्वश्रुततृतीयाकल्पनं चास्मिन्पक्षे स्यादित्याह- तृतीया चेति । काम्यत्वेन च श्रुताभिः श्येनव्यक्तिभिर्नित्यानामिष्टकानां बाधोऽस्मिन्पक्षे स्यान्न चाबाधपक्षसम्भवो बाधपक्षव्याप्य इत्याह - श्रुतेति। विश्वजिति तत्परत्वान्निषिद्धानुष्ठानं प्रसज्येतेत्याह - सत्यां चेति। अत इत्याशङ्कानिराकरणोपसंहारभाष्यं व्याचष्टे - तेनेति । तथाकृतिकवचनत्वे विकल्प इति पुनरुक्तं भाष्यं चयनमाकृतौ सम्भवतीत्यनेन पुनरुक्तं मासमानं सूत्रार्थोपसंहारार्थत्वेन व्याख्यातुमाह - अतश्चेति । उभयत्रेत्याक्षेपभाष्यस्य तात्पर्यमाह - नैतदिति। व्यतिरेकमुखेन तात्पर्यं तु योगसाध्यं भाष्यकारोक्तं द्रढयितुमन्वय- मुखेन स्वयमुक्तं पर्य्यनुयोगं सामान्येऽपि व्यक्तिपक्षस्य ज्यायस्त्वसिद्ध्यर्थम् - बहुत्वाच्चे- त्युक्तम् । परिहारसाम्यप्रतिपादनार्थं यदप्युच्यत इति भाष्यं व्याचष्टे -- अथेति । परिहार- साम्येऽपि व्यक्तिपक्षस्य ज्यायस्त्वसिद्ध्यर्थं विशेषमाह - युक्ता चेति । व्यक्तेरेव वाचक- रूपत्वेन क्रियायोगसिद्ध्यर्थमनन्वाख्यातोऽपि तृतीयासमासोऽङ्गीकरिष्यत इत्याह - अगत्या चेति । व्यक्तिपक्षेऽन्योऽपि विशेषोऽस्तीत्याह - संख्येति । किं पुनरत्र ज्याय इति काक्वा सूचितमाक्षेपतात्पर्यं व्याचष्टे - तेनेति । आकृतिः शब्दार्थ इति समाधानभाष्यसूचिताः पर्य्यनुयोगपरिहारसाम्येऽप्याकृतिपक्षस्य ज्यायस्त्वसाधिका युक्तीर्वक्तुं स्वरूपतस्तावत् व्याचष्टे इतीति । प्रश्नपूर्वकं युक्तीराह - कुत इति । आद्यां युक्तिं व्याचष्टे - गोशब्दोच्चारणे हीति । गौरित्युक्ते सजातीयव्यक्त्यन्तराव्यवच्छेदेन विजा- तीयव्यक्तिमात्रव्यवच्छेदप्रतीत्या सामान्यप्रतीतेः पूर्वभावमुपपादयितुम् - तदाकारेत्युक्तम् । एवमपि कथं जातिवाचित्वनिश्चयोऽत आह - अतश्चेति । द्वितीयां व्याचष्टे - यदीति । तृतीयां व्याचष्टे - गामिति । ननु व्यक्तिपक्षज्यायस्त्वे युक्तीनामुपन्यस्तत्वात्कथमन्यतरपक्षावधारणेत्याशङ्कय, व्यक्ति- पक्षं दूषयितुं त्रेधा विकल्पयति - व्यक्तीति । सर्वव्यक्त्यभिधानपक्षे तावत्कल्पना गौरव-

७०८ मीमांसादर्शनम् [ सू० सम्बन्धानित्यत्वापत्तिव्यवहारोच्छेदैकवचनशुक्लादिसामानधिकरण्यानुष्ठानासम्भावरूपदोषषट्- कमाह—तत्रेति । व्यक्तिसमुदायाभिधानपक्षेऽप्येतानेव दोषानतिदिशति—एवमिति । अतिदेशमुपपाद- यति—तत्रापि हीति । विशेष्यांशेऽपि व्यक्तिव्यतिरिक्तसमुदायकल्पनाभिधानानर्थक्य- सम्बन्धानित्यत्वप्रसङ्गद्विवचनबहुवचनसामानाधिकरण्यानुष्ठानासम्भावरूपदोषषट्कमाह — व्यक्तीति । एकव्यक्त्यभिधानपक्षेऽपि सम्बन्धानित्यत्वव्यवहारसामान्यधीद्विवचनबहुवचन- प्रत्युत्तरकालप्रयोगासम्भवविशेषहेत्वभावरूपं दोषषट्कमाह — अथेति । भाष्योक्ता युक्ता- र्व्याख्यातुं प्रतिजानाति—अत इति । वक्ष्यत इति शेषः । यदीति भाष्यं व्याचष्टे— यदि चेति । एकव्यक्त्यभिधानविषयत्वं भाष्योक्तं दोषाणां द्योतयितुम् - एकेत्युक्तम् । सर्वसामान्यविशेषविनिर्मुक्ता हीति कस्मिन्नर्थे हेतुरित्यपेक्षायां केनचित्साम्येन व्यक्त्यन्तरे प्रयोगो भविष्यतीत्याशङ्कानिराकरणहेतोरत्यन्तवैलक्षण्यस्योपपादनाथैऽयं हेतुरिति दर्शयितु- माह— अत्यन्तेति । गोत्वादिना हि सामान्येन, खण्डमुण्डादिना च विशेषेण व्यक्तेर्व्यक्त्य- न्तरेण साम्यं स्यात्, व्यक्तेः सामान्यरूपता विशेषरूपता वास्तीत्यर्थः । ननु एषां तर्हि साम्यं न भविष्यतीत्याशङ्कयाह — न चेति । नैष दोष इत्याद्याशङ्काभाष्यं व्याचष्टे— ननु चेति । यदीति परिहारभाष्यं व्याचष्टे— यद्येवमिति । न इत्युच्यत इत्याशङ्काभाष्यं व्याचष्टे—पूर्वपक्षेति । नेत्युच्यत इतीतिकरणकव्याख्यानायैवं शब्दः । व्यक्त्यन्तरे सर्व- सामान्यविशेषविनिर्मुक्त एव वर्त्तिष्यत इत्यनेन सामान्यविशेषविनिर्मुक्तत्वं निमित्तीकृत्य व्यक्त्यन्तरे वर्त्तत इति नोच्यत इत्येवं भाष्यं व्याख्यातुम् —सामान्यविशेषविनिर्मुक्तत्वादित्यु- क्तम् । यस्यैकस्यां व्यक्तौ सामान्यविशेषविनिर्मुक्तत्वं निमित्तीकृत्य वर्त्तते, तथैव व्यक्त्य- न्तरे इत्येवकारसूचितार्थ कथनार्थं-व्यक्तावित्युक्तम् । किं तर्हि उच्यत इत्यपेक्षायां योऽर्थं इति भाष्यवाक्यव्यक्त्युपलक्षणत्वेन सामान्यविशेषविनिर्मुक्ततोच्यत इत्येतदर्थप्रतिपादनार्थतया व्याख्यातुमाह - किं त्विति । नन्वन्यापोहवती सामान्यविशेषाभावोपलक्षिता चेद्व्यक्ति- र्वाच्यत्वेन कथ्यते, ततस्तदाश्रयत्वोक्तिविरुद्धयेतेत्याशङ्कय, सामान्यविशेषव्यतिरिक्तत्वं सामान्यविशेषरूपत्वाभाववाचिना विनिर्मुक्तशब्देनोच्यते नाश्रयत्वाभाव इति — व्यतिरेक- शब्देनोक्तम् । तृतीयेत्थम्भूतलक्षणा । सामान्यविशेषनिर्मुक्त इत्युक्तम् इति नेयं निमित्त- सप्तमी, किं तु व्यक्त्यन्तर इतिवदियमपि विषयसप्तमीत्याशयः । निमित्तत्वोक्तिनिराकरणस्य सिद्धान्त्युक्तानिष्टापत्तिपरिहारोपयोगितां दर्शयितुमाह — तत्रेति । व्याख्यातेऽर्थे भाष्यं योजयितुमाह — यो ह्यर्थ इति । तेनेत्याशङ्कोपसंहारभाष्यं व्याचष्टे—ततश्चेति । अनेन च तेनापशब्दाल्लक्षितेन व्यतिरिक्तत्वेनोपलक्षणेन व्यक्त्यन्तरे वृत्तिर्युक्ता । न चैतावता सामा- न्यायाभिधानापत्तिर्दोषो व्यक्त्यन्तरस्य सामान्यरूपत्वाभावादित्येवं भाष्यं व्याख्यातम् । यदीति परिहारभाष्यं गोत्वशावलेयत्वादिसामान्यविशेषाश्रयत्वैकार्थसमवायिनः सामान्य- विशेषविनिर्मुक्तत्वस्योपलक्षणत्वाभ्युपगमाच्छुद्धस्यापि चोपलक्षणत्वेऽपि पिङ्गाक्षत्वायुप- लक्षितस्य देवदत्तशब्दवाच्यत्वोक्तावपि सर्वस्मिंस्तदुपलक्षिते प्रयोगदर्शनेनोपलक्षणसद्भावे

३३ ] प्रथमाध्याये तृतीयपादः ७०९ सर्वत्र प्रयोगनियमाभावादयुक्तमाशङ्क्य यदि व्यक्त्यन्तरेष्वपि सर्वसामान्यविशेषविनि- र्मुक्तत्वं निमित्तीकृत्य, गोशब्दो भवति, ततः शब्दप्रवृत्तिनिमित्तत्वात्सामान्यमेव वाच्यमा- पद्येतेति । यदि सामान्यविशेषविनिर्मुक्तत्वाद् व्यक्त्यन्तरं शब्दप्रवृत्तिविषयः तर्हि सामान्य- रूपमेव तद्व्यक्त्यन्तरं वाच्यं स्यादित्यनेनेवोक्तम् । यदि तु सर्वसामान्यविशेषनिनिर्मुक्तत्व- रूपं सामान्यं निमित्तं न भवति, तदोपलक्षणमात्रस्यानेकेष्व शब्दप्रवृत्तिहेतुत्वाभावाद् व्यक्त्य- न्तरे वृत्तिरदोषो न भवति, किं तु दोष एव । यदि तु निमित्ताभावेऽपि व्यक्त्यन्तरेषु शब्दो भवति, ततोऽश्वव्यक्तावपि वर्त्तत इत्यनुषङ्गेण, आवृत्त्या वा योजयितुमाह-सिद्धान्तेति । आहेत्याशङ्काभाष्यं व्याचष्टे - नैवमिति । यदीति परिहारभाष्यं व्याचष्टे- यद्येवमिति । सामान्यप्रत्ययश्चेति भाष्यं प्रकृतासङ्गतत्वादपकृष्य यदि व्यक्तिः शब्दार्थः, व्यक्त्यन्तरे न प्रयुज्येतेत्येतस्मादनन्तरं व्याख्येयमित्याह - यस्त्विति । भाष्यकृता त्वेक- निमित्तशून्येऽक्षशब्दास्यानेकत्र प्रयोगेऽक्षत्रयानुगतैकसामान्यप्रत्ययादर्शनादिहाप्येकनिमित्ता- भावे प्रयोगमात्रेणानुगतैकाकारप्रत्ययो न स्यादिति सङ्गतिं मत्वा प्रोक्तम् । एवं तर्हीत्या- शङ्काभाष्यं व्याचष्टे - शक्या तर्हीति । नैवमिति परिहारभाष्यं व्याचष्टे-नैवमपीति । गोत्वमित्याशङ्काभाष्यं व्याचष्टे -- जातेरिति । एवं तर्हीति परिहारभाष्यं गोत्वविशिष्टा व्यक्तिर्गोशब्दवाच्यतया प्रतीयतेत्यस्य सिद्धान्तिनोऽप्यनिष्टत्वादयुक्तमाशङ्कयाकृत्यभिधाना- पादनार्थत्वेन व्याचष्टे -- सत्यमिति । अस्तीत्याशङ्काभाष्यं प्रतिज्ञान्तराख्यनिग्रहस्थानाप- त्तेरयुक्तमाशङ्क्य पूर्वपक्षान्तरपरिहारार्थत्वेन व्याचष्टे - पूर्वपक्षेति । नैतदेवमिति परिहारभाष्यं व्याचष्टे - इतर इति । नन्वक्षादिशब्देष्वनेकार्थप्रत्यय- स्यानेककक्तिकल्पनाहेतुतया क्लृप्तस्येहापि भावादस्त्यनेककक्तिकल्पनायां प्रमाणमित्या- शङ्क्याह - न चेति । परस्परासम्बन्धार्थत्वेनागत्या तत्रानेककक्तिकल्पनासामान्यविशेष- योस्तु परस्परान्वयादेकाभिधानेनेतरप्रतीतिसिद्धेरस्ति गतिरित्याशयः । तदेतदिति भाष्येण शब्दादाकृतिप्रत्ययसन्निधाने व्यक्तिप्रत्ययस्याकृतिप्रत्यय एव हेतुः नशब्द इति कथं निश्चय इत्याशङ्कयान्वय-व्यतिरेकाभ्यां निश्चय उक्तः । तद्व्याचष्टे - अन्वयेति । अनन्तरकरिष्यमाणपक्षान्तरशङ्कोत्थापनार्थं सिद्धान्तमुपसंहरति - तेनेति । ननु भवत्वाकृतिः शब्दार्थः, तथापि व्यक्तिधर्मत्वेन तस्यास्तन्निरपेक्षयाः प्रतीत्ययो- गाद्व्यक्तिविशिष्टैवाकृतिः शब्दार्थो भविष्यतीति पक्षान्तरशङ्कार्थं 'तस्माच्छब्द आकृति-. प्रत्ययस्य निमित्तमित्यन्वयव्यतिरेकसाधितविभागोपसंहारस्य ननु गुणभूतेति चाकृतिविशिष्ट- व्यक्त्यभिधानशङ्कायाश्चनिराकरणस्य च वक्ष्यमाणत्वात्पूर्वोपन्यस्तपक्षापर्यवसानावगतेर्मध्ये पक्षान्तरोपन्यासस्यासङ्गतत्वादयुक्तमाशङ्क्य समर्थयते - साम्प्रतमिति । तस्माच्छब्द इत्यस्य व्यक्तिविशिष्टाकृतिपक्षनिराकरणोपसंहारार्थत्वेनापि व्याख्यातुं शक्यत्वात् । ननु गुणभूतेत्याशङ्कायाश्चोभयसाधारण्योपपत्तेः पक्षान्तरोपन्यासस्यान्यथानुपपत्त्यैव . पूर्वोपन्यस्तपक्षपर्यवसाननिश्चयात्पक्षान्तरोपन्यासावसरोपपत्तिसूचनाथम्-साम्प्रत्युक्तम् । इति साम्प्रतमितीतिकरणोपक्रमो वायं ग्रन्थः । यस्मात्पूर्वोपक्रान्तः पक्षः, समाप्तः तस्मात्साम्प्रतं

७१० मीमांसादर्शनम् [ सू० पक्षान्तरोपन्यासो युक्त इतीतिकरणो हेत्वर्थः । पूर्वं ग्रन्थशेषत्वेऽनुसमासश्चर्थः । पक्षान्तर- करणबीजमाह—तदेतदिति । आदावेव वाशब्दप्रयोगेणाऽस्य व्याख्यानस्य परमतत्वं सूचितम् । व्यक्तिविशिष्टाकृतिपक्षनिरासस्य विस्तरोक्त्यभावेनोपसंहारानर्थक्यात्तस्माच्छब्द इत्यस्य वाञ्जस्येन तदर्थाप्रतीतेः । \ ननु गुणभूतैतस्य चाकृतिर्गुणभावेन विवक्षितेत्येतदनुभाषणाथंतवावगतेः साधारणया- योगात्सिद्धान्तोपसंहारं च विनास्य पक्षस्यानवतारादश्रुतोपसंहारापत्तेरिति स्वमतेन व्याचष्टे—यद्वेति । व्यक्तिधर्मत्वेनाकृतेः ततः प्राक् प्रतीत्ययोगादन्वयव्यतिरेकाक्षेपार्थत्वेन सङ्गतिरित्याशयः । ननु व्यक्तिविशिष्टाकृतिपक्षोपन्यासात् कथं शुद्धाया व्यक्तेः शब्दार्थत्वं सिद्धयेदित्याशङ्कयाह—अनेनेति । आकृतेः शब्दार्थत्वं मदभिमतमनेन पूर्वपक्षिणाऽभ्युपगत- मेव क्रियासम्भवश्च व्यक्तिविशेषाणाद्भाविष्यतीत्यभिप्रायेण सिद्धान्ते व्यक्तेरपि गुणत्वेना- मिधानमिच्छति, ततोऽहं पूर्वं शुद्धव्यक्तेरभिधानं साधयिष्यामीत्यनेनाभिप्रायेणेदमुच्यत- इत्यन्वयः । व्यक्तिविशिष्टायां तदिति परिहारभाष्यं व्याचष्टे—इतरस्स्विति । व्यक्त्यभिधानपक्षोक्तसर्वदोषोपलक्षणार्थत्वमस्य दर्शयितुमाह — यदीति । तस्मादिति ग्रन्थे पूर्वोक्तान्वयव्यतिरेकसाधितव्यक्तिप्रत्ययनिमित्तविभागोपसंहारार्थत्वेन स्पष्टत्वादव्याख्यायाऽत्र ग्रन्थपातनिकार्थं शुद्धाकृतिपक्षं सिद्धान्त्युक्तमुपसंहरति—तेनेति । पूर्वव्याख्यानेन शब्दः शुद्धाकृतिप्रत्ययस्य निमित्तं व्यक्तिप्रत्ययस्य एवेत्युपसंहारभाष्य- व्याख्यानार्थोऽयं ग्रन्थः । नन्वाकृतेर्व्यक्तिधर्मत्वाच्छुद्धाया वाच्यत्वं न युक्तमित्याशङ्कार्थं नन्विति भाष्यं व्याचष्टे—नन्विति । न तु गुणीभाव इति परिहारभाष्यं व्याचष्टे- नैवमिति । वस्तुतो व्यक्तिधर्मत्वेऽप्याकृतेः शब्दतः स्वरूपमात्रेण प्रतीतेः शुद्धाभिधानाविरोध इत्याशयः । व्यक्त्यभिधानेऽप्याकृतेरुपलक्षणत्वाद्व्यक्त्यन्तरप्रयोगः, व्यवस्था वोपपद्येति पूर्वपक्षिणोक्ते यत्सिद्धान्तिते एवं तर्हीत्यादिनोपलक्षणत्वे सत्याकृतेरपि विशेषणत्वेना- भिधानम् — प्रसज्येतेत्युक्तम् । तदाक्षेपार्थं ननु चेत्याशङ्काभाष्यं व्याचष्टे-- नन्विति । भाष्यकारीयदण्डशब्दो- दाहरणमाक्षेप्तुमुपन्यस्यति—भाष्येति । द्वेधाऽऽक्षिपति— नन्विति । आद्यमाक्षेपं परिहरति- यत्त्विति । विशेषणोपलक्षणशब्दयोर्व्यावर्त्तकत्वापरपर्यायविशेषणत्वात्स्वतन्त्रस्यैव व्यावर्त्तं- कस्योपलक्षणत्वादस्त्येव भेद इत्याशङ्क्य परिहारान्तरमाह—यद्वेति । किं तत्सामान्यमित्य- पेक्षिते यथा दण्डो विशिष्टवाचिना प्रत्ययेनानभिधेयः तथाकृतिरपि तदुपलक्षितव्यक्तिवाचिना गोशब्देनेत्यनभिधेयैव । यथा दण्डो व्यावर्त्तकस्तथाकृतिरपीति विशेषवत्त्वेन वेति सामान्य- द्वयमुक्तम् । आकृतिविशिष्टेति वास्मिन्परिहारे तदुपलक्षिताभिप्रायमुपचाराद् व्याख्येयम् । समाधानमुपसंहरति -- ततश्चेति । ननूपलक्षणत्वेऽप्याकृतेः सामान्यप्रत्ययश्च न प्राप्नोतीति दूषणं परिहर्तुमशक्यम् । उपलक्षणस्योपलक्ष्ये स्वानुरक्तप्रत्ययजनकत्वाददर्शनात् । न ह्येकापवरकस्याक्षत्रयस्य यदिदानीमस्मिन्नपवरकेऽस्ति, तदक्षशब्दवाच्यमित्येकापवरकत्व- मुपलक्षणीकृत्य केनचित्सम्बन्धकथने कृतेऽपि, व्यवहारकालेऽक्षशब्दोच्चारणादेकापवर-

३३ ] प्रथमाध्याये तृतीयपादः ७११ कस्यत्वाकारेण नाक्षः प्रतीयते, किं त्वक्षमात्रम् । तेनोपलक्षणत्वेऽपि गवाकारप्रतीत्ययोगा- त्सामान्यप्रत्ययो न स्यादेवेत्यनर्थकमुपलक्षणत्वाङ्गीकरणमित्याशङ्कयाह - एवं चेति । एतद्दोषापरिहारोत्तरदोषपरिहारार्थोपलक्षणत्वोक्तिरित्याशयः । नैतदितिपरिहारभाष्यं व्याचष्टे -- तदेतदिति । यद्योपलक्षणाभावेऽश्वव्यक्तावपि गोशब्दो वर्त्तेत इत्यतिप्रसक्तिरुक्ता तथा चातोऽप्युपलक्षणस्याप्रतीतस्याविशेषकत्वात्प्राप्नोतीत्यर्थः । नन्वेवं सति मत्वर्थीयेभ्योऽपि विशेषणांशाभिधानद्वारेण तद्विनाभावाद्विशिष्टा प्रत्ययोप- पत्तिः तेषामपि न विशिष्टवाचिता स्यादित्याशङ्कानिराकरणार्थं न च यथेति भाष्यं व्याचष्टे -- न चेति । प्रकृत्यर्थस्य दण्डस्य प्रत्ययेन विशेषणत्वोक्तौ विशेषणत्वान्यथानुपपत्त्या विशिष्टप्रतीतिसम्भवेऽपि मत्वर्थीयप्रत्ययस्य विशेषणे प्रयोगाभावाद्विशिष्टवाचितैषा, तद्व- ज्जातिशब्दानामप्याकृतौ प्रयोगाभावे सति विशिष्टवाचिता स्यात् न चासावस्ति श्येन- चिच्छब्दे जातिशब्दस्याकृतौ प्रयोगदर्शनादित्यर्थः । यदा च केवलाकृत्यभिधायिश्येनशब्दो दृष्टः तदान्वयव्यतिरेकाभ्यामप्याकृतिवाचिता निश्चीयते । व्यक्तिसम्बन्धाभावेऽप्याकृतौ प्रयोगादाकृतिसम्बन्धं विना क्वचिदपि व्यक्तावप्रयोगादिति प्रतिपादनार्थं तदेवमिति भाष्यं व्याचष्टे - अन्वयेति । व्यक्तेरशाब्दत्वेऽन्वयव्यतिरेकौ पूर्वमुक्तौ शब्दस्याकृतिवा- चितायामधुनेति विवेकः ॥ ३३ ॥ भा० प्र० -- इस सूत्र में तु शब्द का प्रयोग पूर्वपक्ष के निराकरण के लिए किया गया है । मीमांसादर्शन में आकृति ही शब्द की वाच्य अर्थ है, किन्तु नैयायिक की आकृति से मीमांसकों की आकृति भिन्न है, नैयायिकों ने अवयव-सन्निवेश को आकृति माना है । किन्तु कुमारिल ने जाति को ही आकृति माना है, क्योंकि, उसी के द्वारा व्यक्ति अर्थ निरूपित होता है । इस प्रसङ्ग में भगवान् भाष्यकार ने कहा है कि व्यक्ति को वाच्य मानने पर इष्टका के चयन से श्येन व्यक्ति का उत्पादन सम्भव नहीं है । इस असम्भव अर्थ को कहने से यह वचन सर्वथा अनर्थक होगा । इसलिए शब्द का जाति अर्थ वाच्य है । यदि यह कहा जाय कि श्येन व्यक्तियों के चयन से अनुष्ठान किया जायगा । प्रस्तुत प्रसङ्ग में श्येन शब्दार्थ साधकतम करण नहीं है । अपितु यह 'श्येनचितम्' ईप्सिततम है । आशय यह है कि श्येनचित् शब्द की सिद्धि कर्मण्यग्न्याख्यायाम् (पा० सू० ३।२।९२) से होती है । अर्थात् अग्नि की संज्ञा प्रतीति होने पर कर्म के उपपद रहने पर चयक अर्थ को कहने वाले चिञ् धातु से कर्मकारक में क्विप् प्रत्यय का विधान होता है । अतः श्येन' शब्द ईप्सिततम कर्म है, साधकतम नहीं है । अतः श्येन व्यक्ति की उत्पत्ति न होकर श्येन आकृति का ही उत्पादन सम्भव होने से यह आकृति का वाचक है । "व्रीहीन् प्रोक्षति" व्रीहिका प्रोक्षण करता है । इस उदाहरण का अवलोकन करने पर यह अवगत होता है कि व्यक्ति शब्द का अर्थ है, क्योंकि, आकृति को शब्दार्थ

७१२ मीमांसादर्शनम् [ सू० मानने पर प्रोक्षण क्रिया ही सम्भव नहीं है । 'व्रीहीन् प्रोक्षति' में व्रीहि व्यक्ति लक्ष्य है, आकृति स्वरूप शक्य है । एवं आकृति लक्ष्य अर्थ और व्यक्ति शक्य है । आशय यह है कि पूर्व सूत्र के द्वारा व्यक्ति को शब्द का अभिधेय माना गया है । इस सूत्र के तु शब्द के प्रयोग से पूर्वपक्ष का निरास कर आकृति को वाच्य माना है, क्योंकि, क्रिया आकृति को शब्दार्थ मानने पर ही सम्भव है । नैयायिकों ने अवयव संस्थान अर्थ अर्थात् अवयव सन्निवेश अर्थ में आकृति शब्द का प्रयोग किया है, किन्तु, मीमांसक सिद्धान्त में इस अर्थ में आकृति शब्द का प्रयोग नहीं माना है । श्लोकवार्तिक में स्पष्ट शब्दों में लिखा है—जाति को ही आचार्यों ने आकृति शब्द से कहा है । क्योंकि, इसी के द्वारा व्यक्ति निरूपित होता है । "जातिमेवाकृतिं प्राहूर्व्यक्तिराक्रियते यया । सामान्यं तच्च पिण्डानामेकबुद्धिनिबन्धनम् ॥” (श्लो० वा० आ० ३ पृ० ३८५) । अवयव संस्थान आकृति नहीं है, इसका प्रतिपादन इस प्रसङ्ग में किया गया है, अतः, आकृति का अर्थ जाति है, अवयव संस्थान नहीं है । व्यक्ति को शब्द का शक्य मानने पर श्येनचितं चिनोति (तै० सं० ५।४।११) इत्यादि वचन अनर्थक होने लगेंगे । क्योंकि, श्रुतियों में कहा है कि चयनक्रिया अर्थात् अग्नि स्थापन रूप वैदिक क्रिया- विशेष से इष्टका के द्वारा चीयमान श्येन सदृश होमादि-वेदि-विशेष का सम्पादन करें । प्रकृत स्थल में श्येन सदृश अर्थ होता है । यदि व्यक्ति का ही सादृश्य अथ वा किसी एक व्यक्ति का सादृश्य या सभी श्येन व्यक्ति का सादृश्य गृहीत होगा । प्रकृत में सभी श्येन व्यक्तियों का सादृश्य एक स्थान में नहीं हो सकता है, अतः, किसी एक श्येन व्यक्ति का सादृश्य ही गृहीत होगा । किसी एक श्येन व्यक्ति का सादृश्य ग्रहण करने पर अर्थात् किसी एक श्येन व्यक्ति के सादृश्य को वेद वचन के तात्पर्य का विषय मानने पर उस कर्म काल में सादृश्य के लिए गृहीत श्येन का नाश होने पर इस चयन क्रिया का लोप ही होने लगेगा, क्योंकि, व्यक्ति ही शब्द का अभिधेय है और उस एक व्यक्ति का सादृश्य जब "श्येनचितं चिन्वीत्" इस वेद वचन के तात्पर्य का विषय है तब उसका नाश हो जाने पर अन्य श्येन व्यक्ति का सादृश्य तो ग्रहण के योग्य नहीं है । जाति को शब्द का वाच्य होने पर श्येनत्व जाति का आश्रय श्येन का सादृश्य ही विवक्षित है, ऐसी स्थिति में श्येन का नाश होने पर भी अन्य श्येन के सादृश्य से क्रिया का निर्वाह हो सकता है, क्योंकि सभी श्येन व्यक्ति श्येनत्व जाति का आश्रय है । अत एव व्यक्ति को अभिधेय मानने पर वेदविहित क्रिया का लोप होने से व्यक्ति शब्द का वाच्य नहीं है अपि तु आकृति अर्थात् जाति ही शब्द का वाच्य अर्थ है । इस प्रसङ्ग में व्यक्ति को वाच्य मानने वालों का कहना है कि आकृति के अभिधेय होने पर "व्रीहीन् प्रोक्षति" इत्यादि विधि उपपन्न नहीं हो सकती है, क्योंकि आकृति

३३ ] प्रथमाध्याये तृतीयपाद। ७१३ का प्रोक्षण आदि संस्कार नहीं हो सकता है । इसके समाधान में कहा जा सकता है कि आकृति के वाच्य होने पर भी उसके द्वारा लक्षणावृत्ति के द्वारा व्यक्ति की उपस्थिति हो जायगी । अतः, व्रीहि आदि का प्रोक्षण हो सकता है । इस प्रसङ्ग में पूर्वपक्षी का यह कथन है कि व्यक्ति में शक्ति मानने वालों के मत में भी व्यक्ति में शब्द की वाच्यता होने पर भी उसके उपलक्षण के रूप में जाति की भी प्रतीति होती है । उपलक्षण अर्थात् अनन्वयी विशेषण अर्थात् जो विशेषण विशेष्य के साथ अन्वित न होकर भी विशेष्य की स्वतन्त्रता का बोध कराता है—उसको उपलक्षण कहा जाता है । वह जो लाल कपड़ा पहने हुआ है वह देवदत्त है । इसी प्रकार जिस घर से काक उड़ रहा है—वह देवदत्त का घर है । यहाँ रक्तवस्त्र एवं काक उपलक्षण है । इन स्थलों में रक्तवस्त्र या काक देवदत्त या गृह की स्वतन्त्रता का निर्देशक होने पर भी वे वाक्य के तात्पर्य के अन्तर्गत नहीं हैं शुद्ध देवदत्त या घर ही शब्द के द्वारा अभि- हित होता है । वैसे ही प्रकृत में उपलक्षण रूप में जाति का बोध होने पर भी जाति शब्द का वाच्य नहीं है, वरन् शुद्ध व्यक्ति ही शब्द का वाच्य है । अतः, व्यक्ति के अभिधेय होने पर भी जाति का उपलक्षण रूप में भान होता है । इस प्रकार जाति में शक्ति मानने वालों के मत में जाति अभिधेय और व्यक्ति की उपलक्षण के रूप में प्रतीति होती है और व्यक्ति में शक्ति मानने पर व्यक्ति वाच्य एवं जाति की उपलक्षण के रूप में प्रतीति होती है । इन दो मतों में कौन मत समीचीन है ? इसके उत्तर में जाति को अभिधेय मानना ही उचित है । क्योंकि, आकृति को अभिधेय मानने में लाघव है, यदि व्यक्ति को वाच्य माना जाय तो अनन्त व्यक्ति में अनन्त शक्ति की कल्पना माननी पड़ेगी, अतः, कल्पना गौरव होगा । इसलिए, लाघव की दृष्टि से जाति को शब्द का अभिधेय मानना उचित है । व्यक्ति में शक्ति मानने पर दूसरी आपत्ति यह भी है कि व्युत्पत्ति के समय जिस व्यक्ति में शक्ति गृहीत होगी, उस व्यक्ति को छोड़कर अन्य में शक्ति गृहीत नहीं हो सकती है । क्योंकि जो सामान्य एवं विशेष से रहित है, उसी को व्यक्ति कहा जाता है । अतः सामान्य-विशेष रहित गोव्यक्ति में शक्ति गृहीत होने पर भी उसके आधार पर अत्यन्त भिन्न अन्य गोव्यक्ति का भी ज्ञान माना जाय तो अश्व- व्यक्ति का बोध उससे क्यों नहीं होगा ? क्योंकि, गोव्यक्ति के समान ही अश्वव्यक्ति भी सामान्य-विशेष-विनिर्मुक्त ही है । जाति में शक्ति मानने पर, उत्पन्न, उत्पद्यमान सभी व्यक्तियों की प्रतीति हो सकती है । क्योंकि व्यक्ति तथा जाति अत्यन्त भिन्न नहीं है । अतः, जाति में शक्ति मानने पर किसी प्रकार की अनुपपत्ति नहीं है । इसी प्रकार शुक्ल गोव्यक्ति को दिखाकर गो शब्द का अर्थ अभिहित करने पर वह पुरुष जब कृष्णवर्ण की गो को देखेगा तब उसको अर्थ बोध नहीं होगा । क्योंकि, शुक्लवर्ण की गोव्यक्ति से कृष्णवर्ण की गोव्यक्ति भिन्न है । अतः पूर्व कथित दोषों को दृष्टि में रखकर व्यक्ति को शब्द का अभिधेय नहीं

७१४ मीमांसादर्शनम् [ सू० माना जा सकता है । व्यक्ति में शक्ति मानने पर 'गाय लाओ' यह सुनकर सन्देह भी होगा, किस वर्ण की गौ को लाऊँ और शाब्द ज्ञान संशयात्मक उत्पन्न नहीं होता है । अपि तु निश्चयात्मक ही होता है, किन्तु व्यक्ति में शक्ति मानने पर यह सन्देह स्वाभाविक है । जाति को शब्द का अभिधेय मानने पर गो शब्द को सुनने के बाद गो जाति- विषयक प्राथमिक ज्ञान निश्चयात्मक ही होगा । इसके बाद विशेष स्वरूप अज्ञात होने से संशय होगा कि किस वर्ण की गौ लाऊँ, इसलिए भी व्यक्ति शब्द का वाच्य नहीं है । नैयायिकों के मत में विशिष्ट में शक्ति मानी जाती है, यह भी ठीक नहीं है । अर्थात् जाति विशिष्ट व्यक्ति शब्द का वाच्य नहीं हो सकती है । क्योंकि यह स्वरूप मानने पर व्यक्ति विशेष्य है, जाति उसका विशेषण है, ऐसी स्थिति में विशेषण का प्रथम ज्ञान हुए बिना विशिष्ट बुद्धि नहीं हो सकती है । क्योंकि दण्डी पुरुष को देखकर प्रथम में ही 'यह दण्ड' इस प्रकार ज्ञान नहीं होता है, अपि तु उसके हाथ में जो दण्ड है उसका प्रथम ज्ञान होने के बाद ही दण्ड, पुरुष एवं दोनों के सम्बन्ध ज्ञान के बाद दण्डी यह बोध होगा । अतः, जाति-विशिष्ट-व्यक्ति में शक्ति मानने पर जाति-विशिष्ट-व्यक्ति की प्रतीति से पूर्व जाति का ज्ञान आवश्यक है, और शब्द शक्ति के आधार पर प्रथम जाति के ही बोधगम्य होने पर अभिधा व्यापार के द्वारा पुनः व्यक्तिरूप विशेष्य का बोध नहीं हो सकता है, क्योंकि अनुभवसिद्ध यह नियम सकलजन स्वीकृत है कि 'शब्दबुद्धि- कर्मणां विरम्य व्यापाराभावः' अर्थात् शब्द, ज्ञान और कर्म का व्यापार निवृत्त होने पर पुनः उसकी प्रवृत्ति नहीं हो सकती है । अत एव विशिष्ट प्रतीति के स्थल में व्यक्ति का विशेषण जो जाति उसी को शब्द का अभिधेय मानने पर अभिधा शक्ति के विरत व्यापार होने पर जाति-विशिष्ट-व्यक्ति शब्द का वाच्य नहीं हो सकती है । इसीलिए, कुमारिल भट्ट ने कहा है— "विशेष्यं नाभिधा गच्छेत् क्षीणशक्तिर्विशेषणे" शब्द की अभिधाशक्ति के द्वारा जाति रूप विशेषण को अवगत कराने के बाद व्यक्तिरूप विशेष्य उसका वाच्य नहीं हो सकता है, तब लक्षणा वृत्तिरूप व्यापारद्वारक व्यापार से शब्द से व्यक्ति की भी प्रतीति में कोई बाधा नहीं है । आकृति की वाच्यता मीमांसकों की केवल उत्प्रेक्षामात्र नहीं है, अपितु यह अन्वय- व्यतिरेक सिद्ध है । क्योंकि उच्चारण करने पर गो व्यक्ति की प्रतीति होती है—यह सभी लोगों का अनुभव सिद्ध विषय है । व्यक्ति की प्रतीति शब्द से होती है या आकृति से उत्पन्न होती है—यह सन्देह का विषय है । यह भी देखा जाता है कि शाब्द ज्ञान न होने पर भी जो आकृति अर्थात् जाति का अनुभव करता है उसके साथ व्यक्ति का भी अनुभव करता है । किन्तु मानसिक दुर्बलता आदि किसी कारण से आकृति जिसके ज्ञान का

३४-३५ ] प्रथमाध्याये तृतीयपादः ७१५ गोचर नहीं होता है उनके ज्ञान का गोचर व्यक्ति भी नहीं होगा, अतः अन्वय व्यतिरेक से यह सिद्ध होता है कि आकृति के ज्ञान से ही व्यक्ति की प्रतीति होती है । ऐसी स्थिति में व्यक्ति को शब्द का अभिधेय न होने से आकृति को ही शब्द का वाच्य अर्थ मानना उचित है । क्योंकि, शब्द के श्रवण के बाद आकृति का बोध होने पर व्यक्ति का भी ज्ञान होता है । "आकृतिः" = आकृति अर्थात् जाति, "तु" - पूर्व पक्ष की निवृत्ति के लिए है, "क्रियार्थत्वात्" = क्योंकि क्रियार्थता अर्थात् कर्मसम्पादन रूप प्रयोजन रहने से, स्थान- स्थान में कर्मसम्पादन प्रयोजन होने से व्यक्ति शब्द का अभिधेय होने पर वह सम्पन्न नहीं हो सकता है, अतः, आकृति अर्थात् जाति ही शब्द का वाच्य अर्थ है ॥ ३३ ॥ न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति चेत् ॥ ३४ ॥ शा० भा०-अथ यदुक्तं न क्रिया सम्भवेद् 'व्रीहीन् प्रोक्षति' इति । न द्रव्यशब्दः स्यात्, 'षड् देया' इति । अन्यदर्शनवचनं च न स्यात्, अन्यं¹ तद्रूप- मिति । तत् परिहर्तव्यम् ॥ ३४ ॥ तदर्थत्वात् प्रयोगस्याविभागः ॥ ३५ ॥ शा० भा०-आकृत्यर्थत्वाच्छब्दस्य यस्या व्यक्तैराकृत्या सम्बन्धः तत्र प्रयोगः प्रोक्षणं हि द्रव्यस्य कर्तव्यतया श्रूयते । कतमस्य ? यद् यजतिसाधनम् । अपूर्वप्रयुक्तत्वात्तस्य, नाऽऽकृतेः । अशक्यत्वात्¹ । तत्र व्रीहिशब्द आकृतिवचनः प्रयुज्यते प्रोक्षणाश्रयविशेषणाय । स ह्याकृतिं प्रत्याययिष्यति, आकृतिः प्रतीता सती प्रोक्षणाश्रयं विशेषयतीति । तेनाऽऽकृतिवचनं न विरुध्यत इति । एवं षड् देया गावो दक्षिणा इति दक्षिणाद्रव्ये संख्यायाः प्रयोक्तव्ये³ गाव इत्याकृतिवचनो विशेषकः । तथा अन्यमिति विनष्टस्य प्रतिनिधेरन्यत्वसम्बन्धः । तत्र पशुशब्द आकृतिवचन आकृत्या⁴ विशेषयतीति । तस्माद् गौरश्व इत्येव- मादयः शब्दा आकृतेरभिधायका इति सिद्धम् ॥ ३५ ॥ क. उत्तरम् आकृति- शक्त्यधिकरणम् । ॥ इति श्रीशबरस्वामिनः कृतौ⁴ मीमांसाभाष्ये प्रथमस्याध्यायस्य स्मृतिपादोऽयम् तृतीयः पादः ॥ ————— १ ब. अधान्यं । १. ब. अशक्तत्वात्तत्र । २. ब. संख्यायायोक्तव्ये । ३. आकृत्यविशेषयतीति । ४. ब. स्वामिः कृत पु० पा० ।

भा० वि०—प्रथमेनेतिचेदित्यनेनाकृतिवचनत्वपक्षं परामृश्य न क्रिया स्यादि- त्यादिना पूर्वपक्षहेतुत्रयं प्रयोगचोदनाभावादिरूपमनुभाष्यत इति व्याचष्टे— अथ यदुक्तमित्यादिना । अद्रव्यशब्दत्वादिति सूत्रेण द्वितीयतयोक्तं हेतुं न द्रव्यमिति चेदिति तृतीयतया अनूदितमपि स्वयं द्वितीयतया व्याचष्टे—न द्रव्य- शब्दः स्यादिति । अनेन संख्यापदस्यानुषङ्गोऽपि सूचितः । अन्यदर्शनादिति तृतीयतयोक्तमर्थान्तरविधानमिति द्वितीयतया अनूदितं च हेतुं न स्यादिति पदद्वयानुषङ्गेण तृतीयतया व्याचष्टे--अन्यदर्शनेति ॥ ३४ ॥ भा० वि०--अनूदितस्य हेतुत्रयस्य परिहार्यतामुक्त्वा परिहारसूत्रमादत्ते— तदित्यादिना । तत्र न क्रिया स्यादित्यनूदितप्रयोगचोदनाभावनिराकरणपरतया तावद्व्याचष्टे--आकृत्यर्थत्वादित्यादिना । प्रयोगः अनुष्ठानम् । एवं चशब्दस्य न्यायेनाकृत्यर्थत्वावधारणादालम्भनादिक्रियाया द्रव्ये प्रयोगस्यानुष्ठानस्याविभागः आकृत्या सह सम्बन्धविशेषः कारणमिति सूत्रं योजितम् । नन्वाकृतिपक्षे तस्या एवापूर्वसाधनत्वापत्तेः कथं तत्सम्बन्धिन्यां व्यक्तौ प्रोक्षणादिप्रयोगः, तत्राह—प्रोक्षणं हीति । ननु द्रव्याणामाकृतिसम्बन्धिनामनेकत्वात् कस्येत्यनध्यवसायः स्यादिति पृच्छति—कतमस्येति । व्रीहिभिर्यजेतेति यागसाधनत्वेन विहितान् व्रीहीनुद्दिश्य प्रोक्षणादीनां विधानान्नानध्यसाय इति परिहरति--यजति यागसाधनमिति । कस्माद्यागसाधनस्य द्रव्यस्यैवेति नियम इत्यपेक्षायां तस्यैव यागद्वारा अपूर्व- साधनत्वात् तत्प्रयुक्तत्वाच्च प्रोक्षणादीनामित्याह—अपूर्वेति । द्रव्यस्यैवेत्यस्य व्यावत्र्यमाह--नाकृतेरिति । अशक्यत्वादिति । त्यक्तुमशक्यत्वेनापूर्वसाधना- सामर्थ्यादित्यर्थः । नन्वेवमपूर्वीयत्वेन व्यक्तेरेव प्रोक्षणादिसम्बन्धे किमाकृत्यभिधानेनेति, तत्राह—तत्र व्रीहिशब्द इति । एतदेव विवृणोति—स इति । तेन यत्र व्यक्तेरेव प्रयोगान्वयः तत्रापि तत्प्रयोगितयाकृत्यभिधानं न विरुध्यत इति निगमयति— तेनेति । न द्रव्यमितिचेदित्येतदुत्तरत्वेनापि तदर्थत्वादित्यादि सूत्रं व्याचष्टे—तथा षड् देयाः इत्यादिना । तत्र व्यक्तेरेव संख्यान्वयेऽपि तद्विशेषणतया आकृति- वचनमविरुद्धमित्यर्थः । अत्र त्वाकृत्यर्थत्वाच्छब्दस्य षडादिसङ्ख्याया अपि द्रव्ये प्रयोगस्य प्रकर्षकर्तृत्वेन विशेषणत्वेन प्रयोगस्याविभागः सम्बन्धः कारणमिति सूत्रं व्याख्येयम्, अर्थान्तरविधानं न स्यादित्यउत्तरत्वेनापि व्याचष्टे--तथान्यमितीति । नष्टस्य पशोः प्रतिनिधित्वेन य उपात्तः तस्यैवान्यत्वादिसम्बन्धेऽपि तद्विशेष- कत्वेनाकृतिवचनं न विरुध्यत इत्यर्थः । अत्रापि न्यायेनाकृत्यर्थत्वाच्छब्दस्य प्रतिनिहिते द्रव्यान्तरेऽन्यत्वादिधर्मवति प्रयोगस्यानुष्ठानस्याविभागस्सम्बन्ध-

३४-३५ ] प्रथमाध्याये तृतीयपादः ७१७ विशेषः कारणमिति सूत्रयोजना द्रष्टव्या । उक्तेनैवागृहीतविशेषणन्यायेन गुण- क्रियादिशब्दानां तद्वाचित्वमपि सिद्धं कृत्वोपसंहरति--तस्मादिति । एवं प्रस- ङ्गागतं पदानामाकृत्यर्थविचारं परिसमाप्य, प्रकृतं स्मृत्याचारोपस्थापितश्रुति प्रामाण्यमुपसंहरति--इतीति ॥ ३५ ॥ ॥ इति श्रीमन्नारायणामृतपूज्यपादशिष्यश्रीगोविन्दामृतमुनिविरचिते शाबर- भाष्यविवरणे प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥ त० वा०-ये त्वाऽऽलम्भनादिचोदनाभावादयो 'न क्रिया स्यात्' इत्येत- त्सूत्रानुभाषिताः पूर्वपक्षोक्ता हेतवः तेषां सर्वेषामनेन सूत्रेण परिहारोऽभि- धीयते-- अविभागादित्यस्य चतुर्धा व्याख्यानम् 'तदर्थत्वात्प्रयोगस्याविभागः' इति । तदर्थत्वात्--अपूर्वार्थत्वाद्धालम्भनप्रोक्ष- णाद्यङ्गानामपूर्वसाधने प्रयोगेन भवितव्यम्, द्रव्यं चापूर्वसाधनम्, यागेन स्वसि- द्ध्यर्थमाक्षिप्तत्वात्, नाऽऽकृतिः समर्थत्वात्, तदभिधानं तु द्रव्यनियमार्थं प्रति- पत्तव्यम्, न स्वार्थम् । जातेरनपेक्षितत्वाददृष्टार्थत्वप्रसङ्गात्साधनत्वाप्रतीतेश्च । यदपि जातेः प्रातिपदिकाभिहितायाः करणत्वं प्रतीयते, तदपि द्रव्यनियाम- कत्वेनैव, न साक्षादयो ग्यत्वात् । तेनाऽऽकृत्यभिधानस्य द्रव्यनियमार्थत्वाद् द्रव्ये वाऽऽलम्भनप्रोक्षणसंख्याकार कसामानाधिकरण्यादिसंभवाददृष्टता । तदाह- प्रयोगस्याविभाग इत्याकृतिपक्षेऽप्या लम्भनादिप्रयोगस्य द्रव्यादविभक्ततैवेति । अथवाऽऽकृत्यभिधानस्य द्रव्यनियमार्थत्वा दुक्तवत्प्रयोगस्याविभाग इति । यद्वा । आकृतिव्यक्त्योरत्यन्तभेदा भावात्कदाचिद् व्यक्तिरूपेण द्रव्यमभि- धीयते, कदाचित्सामान्यरूपेण यथा--विवक्षितम् । तथा--शब्दस्योभयरूप- वस्त्वर्थत्वाद् व्यक्त्यभिधानेऽपि न प्रयोगस्य विभागः नानारूपतेति । जातेर्वा व्यक्तितोऽत्यन्तभेदाभावाद्, व्यक्तौ कृता धर्मा जातौ कृता एव भवन्तीति, न प्रयोगस्य विभागेन प्रयोजनमिति ।- यद्वा । आकृतिव्यक्त्योरुभयोर्यागार्थत्वाद्धर्माणां च यत्र क्वचन यागसाधने कृतानां प्रयोजनवत्त्वादद्रव्यादविभक्तेति । तस्मादाकृतिपक्षेऽप्या लम्भनादिसंभवादाकृतिरेव शब्दार्थ इति सिद्धम् ॥३४-३५॥ (इति आकृत्यधिकरणम् ॥ ९ ॥) ॥ इति श्रीभट्टकुमारिलस्वामिकृतौ मीमांसावार्तिके प्रथमस्याध्यायस्य तृतीयः पादः ॥

७१८ मीमांसादर्शनम् [ सू० न्या० सु०-तस्मादित्युपसंहारभाष्यम् । व्यक्त्यभिधाने निरस्तेऽपि, सम्बन्धाभिधानादिपूर्वपक्षाणामनिरस्तत्वात्परिशेषासिद्धेर- युक्तमाशङ्क्य, समर्थयते एवमिति । 'न क्रिया स्यादिति चेदर्थान्तरे विधानं न द्रव्यमिति- चेदिति सूत्रं प्रथमं वेति चेदिति सूत्रावयवेनाकृत्यभिधानपक्षपरामर्शादाकृतिवाचिताया- मालम्भनादिक्रिया न स्यात्, अन्यं तद्गुणं तद्वयसमालभेतेति चार्थान्तरे आलम्भनविधानं न स्यात् । षड् देया इति च द्रव्याश्रयस्य संख्यालक्षणस्य वाचकः षडिति शब्दो न स्यादिति, पूर्वपक्षसूत्रार्थानुभाषणार्थत्वेनाथ यदुक्तमित्यादिभाष्येण व्याख्याय, तत्परिहारार्थ- त्वेन तदर्थत्वात्प्रयोगस्याविभाग इति सूत्रं व्याख्यातुं सङ्क्षेपेणानुसन्धत्ते - घे त्विति । भाष्यकृतेदं सूत्रं न्यायेन शब्दस्याकृत्यर्थत्वावधारणादालम्भादिक्रियाया द्रव्ये प्रयोगस्या- नुष्ठानस्य षडादिसंख्यायाश्च द्रव्ये प्रकर्ष कत्वेन विशेषकत्वेन योग्यस्यान्वयस्योपाकृतपशुना सैव प्रतिनिहिते द्रव्यान्तरे प्रयोगस्यानुष्ठानस्याविभागो द्रव्यस्याकृत्या सम्बन्धः कारणम् । जातिवाचिनोऽपि शब्दस्य लक्षणया व्यक्तिपरत्वादविरोध इत्याशय इत्येवं व्याख्यातम् ॥ ३४ ॥ न्या० सु० - तत्स्पष्टत्वाद्व्याख्याय स्वयमन्यथा व्याचष्टे - तदर्थत्वादिति । प्रयुज्य- मानक्रियाप्रयोजनत्वेनानिर्दिष्टमप्यपूर्व बुद्धिस्यत्वात्तच्छब्देन परामृश्याऽपूर्वार्थत्वादालम्भना- देराकृतिपक्षेऽपि प्रयोगस्यानुष्ठानस्याविशेष इति व्याख्येयमित्यर्थः । नन्वाकृतिपक्षे तस्या एवापूर्वसाधनत्वावगतिः कथं पक्षद्वये प्रयोगस्य विशेष इत्या- शङ्कयाह - द्रव्यं चेति । यागद्वारा पश्वादेरपूर्वसाधनत्वम्, न चाकृतिर्निष्क्रियत्वात्त्यक्तुं योक्तुं शक्येत्यर्थः । किमर्थं तर्ह्याकृत्यभिधानमत आह-तदभिधानं त्विति । नन्वदृष्टार्थत्वेनैव तर्ह्याकृतेः प्रोक्षणादिवदपूर्वसाधनत्वं भविष्यतीत्याशङ्कय क्रियारूपाया जातेस्तद्द्वारमन्त- रेण।दृष्टसाधनत्वा - प्रतीतेरित्युक्तम् । नन्वाकृतेः साधनत्वाभावे पशुना यजेतेत्यादि- करणनिर्देशो न युज्यत इत्याशङ्कयाह - यदपोति । अनुपात्तस्य द्रव्यस्य क्रियासाधनशक्तेर- नवधारितविशेषस्य चोपादानायोगादाकृत्या च विना द्रव्यविशेषानवधारणाद् द्रव्यविशेषा- वच्छेदकत्वेनैवाकृतेः करणत्वम्, न साक्षादित्यर्थः । अत्रादिसूत्रं योजयति - तेनेति । न द्रव्यमित्यनुभाषणसूत्रगतेन द्रव्यशब्देन बुद्धिस्थं द्रव्यं तच्छब्देन परामृश्यत इति भावः । प्रयोगस्याविभाग इति सूत्रावयवव्याख्यानार्थं 'द्रव्ये वे'त्युक्तम्, तमेवावतारणपूर्वकं व्याख्यातार्थे योजयति- तदाहेति । आकृतिपक्षेऽपि प्रयोगस्याविशेष इत्येवमेव वात्राप्यपूर्वार्थत्वादिति पूर्वव्याख्याभवदुत्तरात्रयवो योज्य इत्याह - अथ वेति । व्यक्त्या- कृत्योस्त्वभेदविवक्षायां भेदानामेव वायं प्रत्येकं सर्वेषां वाचक इति पूर्वप्रस्थानोक्तन्यायेन पक्षद्वयेऽपि व्यक्त्यभिधानाविशेषात्स्वरूपेणैवासौ वाच्या, जात्यात्मना वेत्येतावन्मात्रस्य विचारार्थत्वात्सिद्धान्तेऽपि क्रियाद्युपपत्तेस्तुल्यत्वाद्यदि परं जात्यात्मना व्यक्त्यभिधानपक्षे निर्धारितविशेषव्यक्त्युपादानासम्भवात् क्रियाद्यनुपपत्तिर्वाच्या । तच्च स्वरूपेणाप्येकव्यक्त्या-

३४-३५ ] प्रथमाध्याये तृतीयपादः ७१९ मिधाने तदुत्पत्तेः प्रागुत्तरकालं च क्रियानुपपत्तेः सर्वव्यक्त्यभिधाने च सर्वोपादानशक्तेः कदाचिदपि क्रियानुष्ठानासम्भवेनानिर्धारितविशेषव्यक्त्यभिधानस्यावश्याङ्गीकार्यत्वा- तुल्यमित्येतदर्थप्रतिपादनाय अन्यथासूत्रं व्याचष्टे—यद्वेति । द्रव्यशब्दवाच्याया व्यक्तेरुभय- रूपत्वेऽपि व्यावॄत्ताकारतात्र व्यक्तिरूपशब्देनाभिमता । पक्षविकल्पार्थी कदाचिच्छब्दौ । अस्मिन्नपि व्याख्याने पूर्वप्रकृतद्रव्यपरामर्शिनं तच्छब्दमभिप्रेत्यानुवृत्तव्यावृत्तोभयरूपवद- निर्धारितविशेषद्रव्यार्थत्वाच्छब्दस्य पूर्वपक्षेऽपि प्रयोगस्यानुष्ठानस्य निर्द्धारितविशेषव्यक्ति- विषयत्वायोगान्न विभागो व्यादृश्यतेति योजयितुम्—शब्दस्येत्युक्तम् । यद्वा जातिश्च व्यक्तिश्च तामस एवार्थ इत्येवं तदर्थत्वादिति सूत्रावयवेनैव जाति- व्यक्त्योरत्यन्तभेदाभावोऽभिधीयते । ततश्चाकृतौ विहितस्यालम्भादिप्रयोगस्य विभागो निष्कृष्टाकृतिविषयता नास्तीति न क्रियानुपपत्त्यादिदोषापत्तिरिति चतुर्थी व्याख्यामाह— जातेरिति । भेदेऽपि आकृतिव्यक्त्या न क्रिया स्यादित्यनुभाषणसूत्रनिर्दिष्टां क्रियां तच्छब्देन परामृश्याप्याकृतानवच्छिन्नव्यक्त्युपादानाभावेन आकृतिनिरपेक्षयां व्यक्त्या साधनत्वा- योगेन उभयोरन्योन्यापेक्षयोर्यागापूर्वसाधनत्वावसायात्साधनत्वापेक्षायाः शक्तेरपि साधन- शक्तत्वाच्च । धर्म्माणां कर्मसम्बन्धे च शेषिसाहित्यस्याविवक्षितत्वेनैकत्रापि कृतानामुप- कारकत्वोपपत्तेरपूर्वसाधनव्रीहिष्विव विहितानां धर्माणं यवेष्वाकृतावपि विहितानां व्यक्तावनुष्ठानोपपत्तेर्व्यक्त्याकृत्योर्द्वयोर्यागापूर्वार्थत्वाच्चाकृतौ विहितस्यालम्भादिप्रयोगस्य व्यक्तिविषयत्वाद्विभागो भेदो नास्तीति नाकृत्यभिधानपक्षे क्रियानुपपत्तिरितिसूत्रं व्याख्येय- मित्याह—यद्वेति । तस्मादित्यपसंहारभाष्यं व्याचष्टे--तस्मादिति । सास्नाद्येकार्थसम्बन्धि- गोत्वमात्रस्य वाचकः गोशब्द इति विज्ञातमन्वयव्यतिरेकिगमित्यनेन न्यायेनान्वयव्यतिरेक- बलेनैवाकृत्यभिधानस्याविचारितसिद्धत्वात्प्रयोगचोदनाद्यनुपपत्तेस्तदसम्भवाच्छङ्कामात्रां निरा- कत्तुमेतदधिकरणमिति सूचयितुम्--आकृतिपक्षेऽपीत्युक्तम् ।।३५।। ।। इति श्रीमत्त्रिकाण्डमीमांसामण्डनप्रतिवसन्तसोमयाजिभट्टमाधवात्मजभट्टसोमेश्वर- विरचितायां तन्त्रवार्त्तिकटीकायां सर्वानवद्यकारिण्यां न्यायसुधाख्यायां प्रथमस्याध्यायस्य तृतीयः पादः समाप्तः ।। भा० प्र०--जाति के अभिधेय होने पर जिन दोषों की सम्भावना "प्रयोगचोदना- भावात्" "अन्यदर्शनात्" एवं "अद्रव्यशब्दात्" इन तीन सूत्रों से प्रदर्शित की है; उसी की आशङ्का से यह कहा गया है । कारण, सिद्धान्ती इसका समाधान नहीं करते हैं वरन्, इसका उल्लेख मात्र किया जाता है । "क्रिया" = प्रोक्षणादिक्रिया, "न स्यात्"= नहीं हो सकती है, "इति चेत्" = यदि यह कहा जाय कि, "अर्थान्तरे विधानम्" = अन्य अर्थ का विधान अर्थात् नष्ट द्रव्य के स्थान में अन्य द्रव्य के स्थान पर अन्य द्रव्य का विधान नहीं हो सकता है।

७२० मीमांसादर्शनम् [ सू० अतः, ‘'न द्रव्यम्'' = अर्थात् द्रव्य नहीं है आकृति होने से लिङ्ग, संख्या आदि गुणों का अन्वय नहीं हो सकता है। ‘'इति चेत्'' = यदि यह कहा जाय ॥ ३४ ॥ भा० प्र०—पूर्वं पक्ष की आशङ्का के उत्तर में सिद्धान्तियों ने कहा है कि शब्द का वाच्य जाति को मानने पर कोई भी अनुपपत्ति नहीं हैं। क्योंकि जाति और द्रव्य का अत्यन्त भेद नहीं हैं, इसलिए द्रव्य का ही प्रोक्षण आदि होगा। यदि यह कहा जाय कि जाति को क्यों वाच्य कहा जायगा ? इसके समाधान में कहना है कि ‘'तदर्थत्वात्'' जाति के निर्देश के साथ द्रव्य का उल्लेख होने पर उसका अन्यथा नहीं हो सकता है। एक जातीय द्रव्य के स्थान में स्वेच्छापूर्वक अन्य जातीय द्रव्य का व्यवहार नहीं किया जा सकता है। एवं ‘'श्येनचितं चिन्वीत'' इत्यादि क्रिया के भी लोप की सम्भावना नहीं है। इस कारण से अभिधान अर्थात् शब्द के द्वारा द्रव्य का नियम अर्थात् व्यवस्था करने के लिए जाति को ही अभिधेय कहा गया है। अतः, ‘'व्रीहीन् प्रोक्षति'' इस स्थल में प्रोक्षण क्रिया का आश्रय जो व्रीहि द्रव्य उसी को व्रीहित्व जाति विशेष माना गया है। इस प्रकार ‘'षड् देयाः'' इस स्थल में संख्या रूप गुण का आश्रय जो गोव्यक्ति उसको गोत्वजाति विशेष माना गया है। इस प्रकार ‘‘यदि पशुरुपाकृतः पलायेत तदा अन्यं पशुमालभेत'' इस स्थल में भी पशु शब्द के द्वारा पशुत्व जाति अभिहित होने से विनष्ट पशु व्यक्ति का जो अन्य प्रतिनिधि होगा उसी का विशेष निर्देश किया जाता है। अन्य स्थल में भी इसी प्रकार अवगत करना चाहिए। अतः, शब्द का अभिधेय आकृति या जाति होने पर व्यक्ति उससे अभिन्न नहीं है अथवा लक्षणा से व्यक्ति का बोध होने से व्यक्तिरूप द्रव्य ही लिङ्ग, संख्या, कारक आदि का आश्रय होता है। उसमें लिङ्ग, संख्या आदि का सामानाधिकरण्यरूप से अन्वय होने में कोई बाधा नहीं है। इसीलिए आकृति ही पदार्थ अर्थात् शब्द का वाच्य अर्थ है। ‘‘तदर्थत्वात्'' = तदर्थता अर्थात् द्रव्य की नियमार्थता के कारण अर्थात् द्रव्य की विशेष रूप में व्यवस्था करना रूप प्रयोजन होने से, आकृति ही शब्द का वाच्य है। ‘प्रयोगस्य' = प्रयोग का अर्थात् प्रोक्षण आदि क्रिया का, ‘अविभागः' = द्रव्य से विभाग = विच्छेद नहीं है, अर्थात् द्रव्यादि में ही प्रोक्षण आदि क्रियायें होती है। द्रव्य की व्यवस्था करने के लिए ही शब्द के द्वारा आकृति को विषय किया गया है। आकृति से द्रव्य का विभाग अर्थात् भेद नहीं होने से प्रोक्षण आदि क्रियायें भी द्रव्य की ही होती है, किन्तु वह द्रव्य से विच्छिन्न नहीं होता है ॥ ३५ ॥ ॥ इति श्रीगोस्वामिदामोदरलालात्मजमहाप्रभुलालगोस्वामिविरचितभावप्रकाशिकायां प्रथमाध्यायस्य तृतीयः पादः समाप्तः ॥