भारतकोश
संग्रह पर लौटें

मुद्गल पुराण (अष्टावतार चरितम्)

Mudgala Puranam with Commentary

महर्षि मुद्गल द्वारा

स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)

DevanagariSanskritpublished1,023 पृष्ठ

यहाँ दिए गए पृष्ठ का देवनागरी लिप्यंतरण प्रस्तुत है:

॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणादिषु मासेषु लड्वादीन् यस्तु भक्षति । तस्य विधियुतं विप्र माहात्म्यं वद सर्वदम् ॥१॥ वसिष्ठ उवाच । मनोर्वैवस्वतस्यैव पुत्र इक्ष्वाकुसंज्ञकः । राज्यलोभी कनिष्ठः सन् व्रतं चकार सिद्धिदम् ॥२॥ बभक्ष श्रावणे कृष्णसंकष्ट्यां पंचखाद्यजान् । लड्डुकान् सप्त भावेन व्रतसाधनतत्परः ॥३॥ दधिभक्षणमात्रं स भाद्रे कृष्णे चकार ह । आश्विने निर्जलं तद्वच्चकार व्रतमनुत्तमम् ॥४॥ कार्तिके दुग्धभुक् राजाऽतिष्ठत् स्वनियमे रतः । मार्गशीर्षे जलं पीत्वाऽभजत्तं गणनायकम् ॥५॥ पौषे गोमूत्रमात्रं तु व्रतं पीत्वा समाचरत् । माघे शुक्लतिलान् राजा बभक्ष व्रतकारणात् ॥६॥ फाल्गुने शर्करायुक्तं मानवोऽभक्षयद् घृतम् । चैत्रे तद्वत् पंचगव्यं पूजयित्वा विनायकम् ॥७॥ वैशाखे पद्मबीजं स बभक्ष व्रतधारकः । ज्येष्ठे घृतं गवां भक्षंश्चकार व्रतमुत्तमम् ॥८॥ आषाढे मधुमात्रं स बभक्ष नियमे रतः । चंद्रोदये गणेशानं पूजयित्वा विधानतः ॥९॥ ततस्तस्य व्रतस्यैव प्रभावेण महामते । सुद्युम्नो मनुपुत्रो य इलो ज्येष्ठो- ऽभवन्नृप ॥१०॥ ततो मुनिभिराचं तं राजानं स चकार ह । मनुरिक्ष्वाकुमेवं तु सार्वभौमं महाद्युतिम् ॥११॥ एवं त्वसाध्यकं राजन्निच्छेद्रै यदि मानवः । धर्ममार्गेण तत् सोऽपि लभते नात्र संशयः ॥१२॥ एवं नाना जना राजन् व्रतपुण्यप्रभावतः । लब्ध्वांऽते ब्रह्मभूताश्च बभूवुर्भूममंडले ॥१३॥ अतस्त्वं राजशार्दूल पापरूपोऽसि सांप्रतम् । तव राज्ये व्रतं नष्टं नृपाधम न बुध्यसे ॥१४॥ जनैः सह व्रतं तस्मात् कुरुष्व त्वं भविष्यसि । पुत्रयुक्तश्च विघ्नेशमंते गच्छसि निश्चितम् ॥१५॥ मुद्गल उवाच । प्रणम्य तं दशरथो महाराजो जगाम ह । स्वपुरे जनसंयुक्तश्चकार व्रतमुत्तमम् ॥१६॥ ततो भूपेन सर्वत्र प्रशस्तं तद्व्रतं कृतम् । चक्रुः सर्वजना भूमौ व्रतं गाणेश्वरं महत् ॥१७॥ व्रतपुण्यप्रभावेण विष्णुः साक्षाद्वभूव ह । चतुर्धाऽत्मानमाभाज्य पुत्रस्तस्य महात्मनः ॥१८॥ रामश्च भरतो राजा लक्ष्मणः शत्रुसूदनः । पुत्राश्चत्वार एवं ते बभूवुर्बलसंयुताः ॥१९॥ अंते जगाम विघ्नेशं दशरथः प्रतापवान् । लोका दुःखविहीनाश्च ब्रह्मभूता बभूविरे ॥२०॥ वसिष्ठर्षेदशरथस्येमं विप्रस्य धीमतः । संवादं व्रतहेतुं तु यः शृणोति पठेन्नरः ॥२१॥ तस्मै विघ्नेश्वरः साक्षाद्ददाति फलमुत्तमम् । पुत्रपौत्रादिसंयुक्तं धनधान्यसमन्वितम् ॥२२॥ नानारोगविहीनत्वमैश्वर्यादियुतं महत् । अंते गणपतौ लीनं करोत्यत्र न संशयः ॥२३॥ चतुर्थ्याश्चरितं पूर्णं कथितं ते प्रजापते । श्रोतुमिच्छा पुनः किं ते वर्तते वद सांप्रतम् ॥२४॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुर्विंशोऽध्यायः ॥

खं. ४ अ. ३५ पान ९३ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । उद्यापनं व्रतस्यास्य वद त्वं मुनिसत्तम । येन सांगं फलं सर्वं लभते व्रतकारकः ॥१॥ मुद्गल उवाच । उद्यापनं प्रजानाथ व्रतस्यादौ मतं बुधैः । अथवा वर्षमध्ये तत् कर्तव्यं व्रतकारिणा ॥२॥ अथवा भाद्रमासे वै शुक्लायां च प्रजापते । उद्यापनं प्रकर्तव्यं कृष्णायां माघमासके ॥३॥ महामंडपं कुर्यात् कदलीस्तंभमंडितम् । नाना- शोभासमायुक्तं विभवे सति मानद ॥४॥ वित्तशाठ्यं न कुर्यात् स यथाविभवमाचरेत् । छत्राऽऽदर्शादिभिः शोभां दीपमालाविराजितम् ॥५॥ मणिमुक्तादिकैः पूर्णं भूषणैश्च विशेषतः । यत्र तत्र यथायोग्यं प्रकुर्याद्व्रतकारकः ॥६॥ मध्याह्न- समये तस्याः शुक्लायाः कथितं प्रभो । चन्द्रोदये च कृष्णायाश्चतुर्थ्याः पूजनं चरेत् ॥७॥ गोमयेन प्रलिप्याऽथ धान्यराशिं प्रकल्पयेत् । तन्मध्येऽष्टदलं पद्मं कुर्यात्तद्रुरुणा स्वयम् ॥८॥ तत्र संस्थाप्य सौवर्णं कलशं ताम्रजं तथा । रौप्यं वा मृन्मयं दक्ष वस्त्रयुग्मेन वेष्टयेत् ॥९॥ तस्योपरि सुवर्णस्य पात्रं स्थाप्य महामतिः । वस्त्रं ततो गणेशस्य यंत्रं कुर्याद्विचक्षणः ॥१०॥ तत्र गणपतेश्चैव मूर्तिर्धातुविनिर्मिता । सर्वावयवसंयुक्ता भूषणै राजिता भवेत् ॥११॥ द्विजोत्तमश्च संस्थाप्य पूजयेत्तां यथाविधि । ब्राह्मणान् वरयेच्छुद्धानैकविंशतिसंख्यकान् ॥१२॥ गणानां त्वेति मंत्रस्य जपं कुर्याद्विशेषतः । ततो होमं प्रकुर्वीत सहस्रं वा तदर्धकम् ॥१३॥ अष्टोत्तरशतं वाऽपि तथा जपद्दशांशकम् । गीतवाद्यपुराणानि वेदाध्ययनमेव च ॥१४॥ नानाशास्त्रप्रवादांश्च कुर्वंतु ब्राह्मणास्ततः । यत्र तत्र गणेशस्य कथाः संकथयंतु ते ॥१५॥ ततः पूर्णाहुतिं कुर्याद्वसोर्धारां स पातयेत् । बलिदानं ततः कुर्यात्ततो वायनकं चरेत् ॥१६॥ एकविंशतिपक्वान्नैरैकविंशतिसंख्यकैः । नैवेद्यैर्ब्राह्मणान् संभोज्यार्थयेत्तान् विशेषतः ॥१७॥ दक्षिणां विपुलां दत्त्वा सपत्नीकान् प्रतोषयेत् । योषिद्भ्यः कंचुकीर्दद्या- द्भूषणानि महामतिः ॥१८॥ कृष्णायां च चतुर्थ्यां स चन्द्रायार्घ्यं प्रदापयेत् । शुक्लायां तत्तथा दक्ष चेरेच्चन्द्रार्घ्यवर्जितम् ॥१९॥ आदौ स तिथये दद्यात् पश्चाद्विघ्नेश्वराय वै । ततश्चन्द्राय तन् मंत्रैरर्घ्यं मंत्रसमन्वितम् ॥२०॥ तिथीनां मातृरूपे त्वं देवि सर्वार्थदायिनि । गृहाणार्घ्यं मया दत्तं चतुर्थ्यै ते नमो नमः ॥२१॥ गजानन नमस्तुभ्यं नानासिद्धिप्रदायिने । गृहाणार्घ्यं बुद्धिपते मया दत्तं शुभप्रद ॥२२॥ अत्रिगोत्रसमुद्भूत गणेशप्रीतिवर्धन । गृहाणार्घ्यं मया दत्तं रोहिण्यामृतधारक ॥२३॥ कृष्णपक्षे सदा रात्रौ भोजनं स समाचरेत् । शुक्लपक्षे च पंचम्यां ब्राह्मणादींस्तु भोजयेत् ॥२४॥ चतुर्थ्यां जागरं कुर्यात् गणेशकथयान्वितः । पंचम्यां पूर्ववत् पूज्य नैवेद्याद्यैर्महामतिः ॥२५॥ दीनांधकृपणेभ्यश्च दद्यादन्नादिकं

खं. ४ अ. ३६ पान ९४ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖ तथा । ब्राह्मणेभ्यो विशेषेण दक्षिणां दापयेन्नरः ॥२६॥ सर्वान् संभोज्य दानेन तोषयेद्देवसन्निधौ । गणेशदृढभक्तिं स याचयेत्तेभ्य आदरात् ॥२७॥ ततः सोपस्करां मूर्तिं दद्यात् स्वगुरवे स्वयम् । एकविंशतिविप्रेभ्यः कलशान् दापयेत्ततः ॥२८॥ संतोष्योदारधीः सर्वान् स भावेन क्षमापयेत् । ततो गणपतिं नित्यं भजेतानन्यचेतसा ॥२९॥ एवमुद्यापनं कुर्याद्व्रतस्यास्य महामतिः । स संपूर्णफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥३०॥ वक्तुं न शक्यते दक्ष माहात्म्यं च व्रतोद्भवम् । सोद्यापनं विशेषेण कथितं ते यथामति ॥३१॥ इदं चतुर्थीजं दक्ष चरितं संशृणोति चेत् । पठेद्वा तस्य विघ्नेशो मानसेप्सितदो भवेत् ॥३२॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थ्युद्यापननिरूपणं नाम पंचत्रिंशोऽध्यायः ॥ ❧★❧ ॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । माहात्म्यं यच्छुतं मुख्यं चतुर्थीसंभवं महत् । कृतकृत्यश्च तेनाऽहं संजातो मुनिसत्तम ॥१॥ अधुना वद माहात्म्यं लोभासुरनिबर्हणे । गजाननस्य योगीश चरित्रं सर्वसिद्धिदम् ॥२॥ मुद्गल उवाच । इतिहास प्रवक्ष्यामि पुरातनभवं प्रभो । सर्वसिद्धिप्रदं दक्ष श्रवणेन न संशयः ॥३॥ एकदा शैलवर्ये तु कैलासे शंकरः स्थितः । पार्वत्या स्वगणैः सार्धं देवैर्मुनिभिरावृतः ॥४॥ तत्राऽऽजगाम पौलस्त्यः कुबेरो निधिसंयुतः । प्रणम्य गिरिजायुक्तं शंकरं पुरतः स्थितः ॥५॥ समीपे शंकरस्यैव गत्वा चामरसंयुतः । असेवत महात्मानं भक्तियुक्तेन चेतसा ॥६॥ अकस्माद्दैवयोगेन दृष्ट्वा पर्वतनंदिनीम् । रूपेणाप्रतिमां सर्वावयवैः शोभनैर्युताम् ॥७॥ साक्षान् मायामयीं शक्तिं मोहयुक्तो बभूव ह । कामबाणाभिभूतः सन्नपश्यत्तां सुविह्वलः ॥८॥ सकामदृष्टिसंयुक्तं पश्यंतं तं धनाधिपम् । दृष्ट्वा कोपसमायुक्ता बभूवे शंकरप्रिया ॥९॥ क्रोधेन वक्रनेत्रं सा ज्वालयामास तत्क्षणात् । कुबेरस्य महादेवी सोऽपि शोकाकुलोऽभवत् ॥१०॥ अतिविह्वलगात्रत्वात् प्रास्कंदद् वीर्यमुत्तमम् । धनपस्याऽत्र पुत्रोभूत् पपात शोभया युतः ॥११॥ ततः स लज्जया युक्तः प्रणनाम महेश्वरीम् । नियम्यात्मानमानिंद्य तुष्टाव विविधैः स्तवैः ॥१२॥ ततः सा शंकरेणैव सांत्विता जगदंबिका । पिंगाक्षं तं चकाराऽपि पुत्रभावप्रदर्शिनी ॥१३॥ जगदंबा लोभनार्थं कुबेरोऽभूत् समुद्यतः । मातृगामिस्वरूपत्वात् पुत्रस्तस्य प्रतापवान् ॥१४॥ ❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖

खं. ४ अ. ३६ पान ९५ लोभ एव समाख्यातं नाम तस्य द्विजैस्ततः । संगृह्य तं गृहं देवो धनदः प्रजगाम ह ॥१५॥ कुबेरभवने संस्थं लोभं तं नारदो मुनिः । ज्ञात्वा जगाम पाताले वीणागानपरायणः ॥१६॥ तारं पातालसंस्थं तं दानवानां हितैषिणम् । इंद्रेण निर्जितं ज्ञात्वा नारदः प्रययौ मुनिः ॥१७॥ तारः समुत्थितो विप्रं प्रणनाम मुदा युतः । पप्रच्छाऽऽपूज्य वृत्तांतं दानवानां हितावहम् ॥१८॥ तार उवाच । इंद्रेणाऽहं जितो विप्र दानवा मर्दिता भृशम् । अधुना किमु कुर्यां तद्वद मे मुनिसत्तम ॥१९॥ नारद उवाच । अलकायां कुबेरस्य पुत्रोऽभूद्वीर्यपातः । लोभस्तत्र समागत्य हर त्वं पुत्रमादरात् ॥२०॥ तं पालय महाभाग तेन ते वाञ्छितं महत् । भविष्यति न संदेहो मम तस्माद्वचः कुरु ॥२१॥ एवमुक्त्वा महायोगी नारदोऽन्तर्हितोऽभवत् । तारः स्म हर्षितोऽत्यंतं मेने स कृतकृत्यताम् ॥२२॥ मायया दानवाधीशस्त्वलकायां जगाम ह । गृहीत्वा लोभकं पुत्रं सुप्तं स्वगृहमागमत् ॥२३॥ लोभं केनचिदागत्य हृतं ज्ञात्वा धनाधिपः । न शोकं मानसे सोऽपि प्रचक्रे दुर्निमित्तजम् ॥२४॥ तारः पुत्रं समानीय पालयामास हर्षतः । बालकीडनकैर्युक्तं तं दृष्ट्वा विस्मितोऽभवत् ॥२५॥ उत्पाट्य बालकैर्वृक्षान् रेमे लोभः प्रतापवान् । तलप्रहारवेगेन दारुणां बिभिदे शिलाम् ॥२६॥ एवं नानाविधं कर्मास्य दृष्ट्वा दानवोत्तमाः । हर्षयुक्ता बभूवुस्ते मेनिरे कृतकृत्यताम् ॥२७॥ ततः पंचमवर्षे स चकार व्रतबंधनम् । वेदानध्यापयामास शुक्रशिष्यैर्महाबलः ॥२८॥ स आसुरीं महामायां सर्वदेवविमोहिनीम् । विद्यामभ्यस्य लोभस्तु शस्त्रास्त्रे पारगोऽभवत् ॥२९॥ ततः प्रणम्य विप्रेंद्रं शुक्रं सर्वविदांवरम् । पप्रच्छ सर्वदं पूर्णमुपायं लोभ आदरात् ॥३०॥ ततः पंचाक्षरीं विद्यां ददौ तस्मै महामुनिः । शैवीं विधियुतां लोभस्तं प्रणम्य ययौ वनम् ॥३१॥ तत्र गत्वा तपस्तेपे शिवं ध्यात्वा महासुरः । जपं चकार भावेन निराहार- परायणः ॥३२॥ भस्मांगलेपसंयुक्तः शैवमार्गपरायणः । तोषयामास यत्नेन शंकरं सर्वदं परम् ॥३३॥ एवं तपसि लोभः स संस्थितो बहुवासरम् । ततस्तस्य शरीरेऽपि वल्मीको ववृधे महान् ॥३४॥ दिव्यवर्षसहस्रेण प्रसन्नः शंकरः प्रभुः । आययौ तं वरं दातुं पार्वत्या सह शूलभृत् ॥३५॥ समागतं महेशानं न बुबोध स दानवः । ततस्तं जलमासिच्य शंभुः शक्तं चकार ह ॥३६॥ ततः शंभुं समालोक्य हर्षयुक्तेन चेतसा । जगाद तं प्रणम्यादावुत्थितो दानवाधिपः ॥३७॥ लोभासुर उवाच । धन्यं मेऽद्य तपो मंत्रो धन्यौ मे जनकौ प्रभो । जन्म ज्ञानादिकं सर्वं येन दृष्टो महेश्वरः ॥३८॥ किं स्तौमि त्वां महेशान साक्षाद्ब्रह्म सनातनम् । तथापि स्तौमि देवेश त्वद्दर्शनस्फुरन्मतिः ॥३९॥ नमस्ते विश्वनाथाय सर्वांतर्यामिणे

ख ४ अ. ३७ पान ९६

नमः। शंकराय शिवायैव ह्यनंतगुणराशये ॥४०॥ त्रिनेत्राय महादेव शक्तियुक्ताय शंभवे । निर्गुणाय गुणानां ते चालकाय नमो नमः ॥४१॥ अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज । स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥४२॥ अकर्तु- मन्यथा कर्तुं कर्तुं शक्ताय ते नमः । सदा मोहविहीनाय मृडाय सततं नमः ॥४३॥ स्वाधीनाय परेशाय सहजे खेलकारिणे । शूलहस्ताय देवानां पतये ते नमो नमः ॥४४॥ कैलासवासिने तुभ्यं भस्मलेपकराय वै । दिगंबराय सर्वेभ्यः सर्वदाय नमो नमः ॥४५॥ एवं स्तुत्वा महेशानं तूष्णीं भावेन संस्थितः । लोभासुरः प्रसन्नात्मा साश्रुकः स कृतांजलिः ॥४६॥ तमुवाच महादेबो वरं वृणु हृदीप्सितम् । दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तम ॥४७॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् । भविष्यति न संदेहो भुक्तिमुक्तिप्रदायकम् ॥४८॥ यः पठिष्यति दैत्येंद्र श्रावयिष्यति वा नरः । श्रोष्यते स लभेत् सद्यो वाञ्छितं मत्प्रियः सदा ॥४९॥ श्रुत्वा शंकरवाक्यं स तं जगाद महासुरः । हर्षेणोत्फुल्लनेत्रश्च भक्त्या विनयसंयुतः ॥५०॥ लोभासुर उवाच । वरदोऽसि यदि त्वं च तदा भक्तिं च ते दृढाम् । देहि राज्यं महादेव ब्रह्मांडस्य विशेषतः ॥५१॥ नानैश्वर्यसमायुक्तमारोग्यादिसमन्वितम् । मनसीप्सितमेवं मे सिद्धयतु त्वदनुग्रहात् ॥५२॥ मनोवाणीमयं यच्च तस्मान् मृत्युर्न मे भवेत् । सदानंदसमायुक्तं मां कुरुष्व कृपानिधे ॥५३॥ लोभासुरस्य वाक्यं वै श्रुत्वा चकितमानसः । शंकरस्तपसा बद्धस्तथेति तमुवाच ह ॥५४॥ अंतर्धाय स्वमात्मानं कैलासस्थो बभूव ह । लोभासुरः प्रसन्नात्मा स्वगृहं प्रत्यपद्यत ॥५५॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरवरप्राप्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । लोभासुरः समागत्य पितरं मातरं ततः । प्रणम्य सुहृदः सर्वान् यथायोग्यं चकार ह ॥१॥ महिषासुरपुत्रीं स उवाह रूपशालिनीम् । तृष्णां गुणयुतां सोऽपि तया संहर्षितोऽभवत् ॥२॥ एवं नाना विभोगेन सुहृदानंदकारकः । बभूव बलसंयुक्तो मदेन भृशमोहितः ॥३॥ मद्यां समागतः सोऽपि दानवैः परिवारितः । नगरं निर्ममे तत्र सदा विषयवर्धनम् ॥४॥ चकार नाम तस्यापि सुखदं दानवेरितः । ततो दिग्भ्यः समायाता नाना दैत्यगणाः

खं. ४ अ. ३७ पान ९७ पुरे ॥५॥ ततो लोभोऽसुरैः सर्वैः स्वयं गत्वा महामुनिम् । शुक्रं समानयत्तत्र प्रणम्य भावसंयुतः ॥६॥ शुक्रेण प्रेरिता दैत्या गतास्तत्र महापुरे । देवांतकश्च वृत्रश्च बलिर्जृम्भः प्रतापवान् ॥७॥ नरांतकः प्रहेतिश्च हेतिर्विप्रचित्तिस्तथा । इत्याद्या बहवश्चान्ये मिलिता अभवन् प्रभो ॥८॥ ब्राह्मणैः कारयामास ततः शुक्नोऽभिषेचनम् । दैत्यादीनां महाराज्ये स्थापयामास तं मुनिः ॥९॥ सर्वे संहृष्टकास्तत्र बभूवुर्दानवोत्तमाः । ततः स्वस्वगृहेष्वेतेऽगमन् घोषकरा भृशम् ॥१०॥ ततो बहौ गते कालेऽसुरो लोभः प्रतापवान् । आह्वयामास दूतैस्तान् दानवान् बलसंयुतान् ॥११॥ आज्ञामात्रेण तस्यैव समाजग्मुर्बला- न्विताः । असुरा भयदाः सर्वेऽसुरं लोभं प्रजापते ॥१२॥ लोभासुरोऽसुरान् सर्वान् संप्रपूज्य यथाविधि । उवाच तान् महावाक्यं हर्षयन् दानवोत्तमः ॥१३॥ लोभासुर उवाच । विप्रचित्त्यादिकाः सर्वे शृणुध्वं मे वचो हितम् । भवतां पुण्ययोगेन जेष्यामि सकलं जगत् ॥१४॥ यदिच्छा भवतां वृद्धाः श्रेष्ठा अत्रैव संगताः । तदाऽऽज्ञा मे प्रकर्तव्या करोमि बलसंयुतः ॥१५॥ एवं तस्य वचः श्रुत्वा हर्षिता दानवोत्तमाः । जगुस्तं भावगंभीरं साधु साधु त्वयेरितम् ॥१६॥ जेष्यामस्त्वत्प्रसादेन देवान् विष्णुपुरोगमान् । पराक्रमतुला तेन विद्यते जगति प्रभो ॥१७॥ ततोऽतिहर्षिताः सर्वे शुक्रं तत्र समानयन् । तेनाज्ञप्ता महाभागाः सज्जास्ते प्रबभूविरे ॥१८॥ गजासुरो विप्रचित्तिर्देवांतकनरांतकौ । प्रतापवांश्च तारो वै प्रहेतिर्हेतिरेव च ॥१९॥ बलिर्जृम्भस्तथाऽन्ये वै दंशिता अभवंस्तदा । स्वस्वसेनायुताः सर्वे नानावाहनगा बभुः ॥२०॥ पदातयोऽप्य- संख्याता अश्वारोहास्तथाऽपरे । पशुसंस्थाः खगारोहा अपाराश्च समाययुः ॥२१॥ गजारोहा रथारूढा नानावाहनसंस्थिताः । महासुराः शस्त्रसंयुक्ता लोभासुरमाययुः ॥२२॥ तैः समेत्य महाबाहुर्लोभः संहर्षितोऽभवत् । पृथिवीजयनार्थाय कालकंपनकारकः ॥२३॥ एतादृशा महावीरा यत्रातिष्ठन् सुदंशिताः । तैर्युद्धं नृपशार्दूलाः किं कर्तारोऽल्पमानवाः ॥२४॥ नृपाः केचिन् मृतास्तत्र संग्रामे दारुणे प्रभो । केचित्तान् शरणं जग्मुः पलायनपरा ययुः ॥२५॥ एवं सप्तसमुद्रांतां पृथिवीं जित्वा महाबलाः । असुरा हर्षिताः सर्वे सार्वभौमा बभूविरे ॥२६॥ ये मृतास्तत्सुतास्तैस्ते स्थापिताः करदायिनः । पलायिताश्च तत्स्थाने स्थापिता दानवोत्तमाः ॥२७॥ शरणं ये गतास्तेऽपि स्थापिता हर्षसंयुताः । वरं तस्य समाज्ञाय शेषस्तांश्च समाययौ ॥२८॥ वार्षिकं करभारं स कृत्वा दत्त्वा महाधनम् । साम्ना तैः पूजितः सोऽपि स्वगृहे नागराड् ययौ ॥२९॥ ततोऽतिहर्षिता दैत्या ययुः स्वर्गं सुशोभनम् । लोभासुरेण संयुक्ता महामाया महाबलाः ॥३०॥ इंद्रः सुरगणैः सार्धं

दंशितो वज्रधारकः। बृहस्पतिं प्रणम्यैवं जगाद स्वमतं प्रभुः ॥३१॥ इंद्र उवाच । लोभासुरः समायातो दानवैर्बलवत्तरैः । तेन योद्धुं गमिष्यामि त्वदाज्ञावशगः प्रभो ॥३२॥ इंद्रस्य वचनं श्रुत्वा निःश्वस्य मुनिपुंगवः । जगाद तं महेंद्रं बृहस्पतिः स प्रतापवान् ॥३३॥ गुरुरुवाच । शैवेन वरदानेन युक्तोऽसौ दैत्यनायकः । नानारूपधरः सोऽपि जेतुं नैव प्रशक्यते ॥३४॥ अतः सर्वं परित्यज्य विष्णोश्च शरणं सुर । गच्छ सोऽपि महाबुद्धिः करिष्यति हितं महत् ॥३५॥ गुरोर्वचनमाकर्ण्य सुरेंद्रः शोकसंयुतः । सुरेंद्रैः सहितः सोऽपि विकुंठमगमत्तदा ॥३६॥ देवस्थानानि सर्वाणि दृष्ट्वा शून्यानि सर्वतः । दैत्या हर्षयुताः सर्वे प्रवेशं चक्रुरंजसा ॥३७॥ दैत्यराजोऽमरावत्यां लोभः सर्वसमन्वितः । गत्वाऽऽसने महेंद्रस्य समारूढो बभौ स्वयम् ॥३८॥ सर्वान् संमान्य दैत्येंद्रो ददौ नानापदानि सः । दैत्येंद्रास्तत्र संस्थास्ते मुमुदुर्भोगकारकाः ॥३९॥ गंधर्वास्तं महादैत्यमप्सरोभिः समन्विताः । सिषेविरे प्रजापाल विद्याध्राद्याः समाहृताः ॥४०॥ देवोद्यानेषु दैत्येंद्रा बभ्रमुर्हर्षसंयुताः । यत्र तत्र महाभागा व्यहरंस्ते यथासुखम् ॥४१॥ लोभासुरं प्रणम्यैव संस्थिता विगतज्वराः । अवदन्न समः कश्चिल्लोभेन भुवनेषु च ॥४२॥ ॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । इंद्रः सुरगणैः सार्धं बृहस्पतिपुरोगमः । वैकुंठे विष्णुमानम्य गत्वा तुष्टाव तं स्तवैः ॥१॥ ततस्तुष्टो हरिः प्राह महेंद्रं मान्यभावतः । स्थीयतां दैवतैः सर्वैः किं कार्यं समुपस्थितम् ॥२॥ त्यक्त्वाऽमरावतीं तात किमर्थं चागतो भवान् । श्रिया हीनः पदा देवैर्वद दुःखं महाद्भुतम् ॥३॥ इंद्र उवाच । किं वदामि जगत्पाल सर्वज्ञं त्वां महामते । तथापि शृणु वृत्तांतं शोकंदं दैवकारितम् ॥४॥ लोभासुरश्च शैवेन वरेण बलदर्पितः । दानवैर्द्रैर्महाबाहुर्यो त्वं स ह्यागतोऽधुना ॥५॥ गुरुणा बोधिताः सर्वे वयं प्राप्ता जनार्दन । त्यक्त्वा राज्यादिकं सर्वं विचारं कुरु सर्वथा ॥६॥ दैत्योऽमरावतीसंस्थो देवस्थानानि माधव । प्रददाति च दैत्येभ्यः स्वर्गराज्यं करोति सः ॥७॥ त्वं पालकः श्रुतौ प्रोक्तस्तस्मा- च्छरणमागतान् । रक्ष लोभासुरं हत्वा देवानामीश्वरो भवान् ॥८॥ तेषां तद्वचनं श्रुत्वा विष्णुः कोपसमन्वितः ।

जगाद देवराजं तं महाबाहुर्विचक्षणः ॥९॥ श्रीहरिरुवाच । हनिष्यामि महादैत्यं लोभं दानवसंयुतम् । मा कुरुष्व वृथा चिंतां कुरु राज्यं मयार्पितम् ॥१०॥ एवमुक्त्वा महेंद्रं स देवेंद्रैः सह माधवः । वेगेनारुह्य गरुडं ययौ ताममरावतीम् ॥११॥ समागतं महाविष्णुं महासैन्यसमाकुलम् । ज्ञात्वा दूर्मुखात् सर्वे दानवाः सज्जका ययुः ॥१२॥ लोभः क्रोधसमाविष्ट आययौ योद्धुमाहवः । रथारूढः स्वयं साक्षान् मृत्युरूपोऽयमुच्यते ॥१३॥ लोभं दृष्ट्वाऽसुराः सर्वे भयभीताः समंततः । महाकायं महावीर्यं कालकालं प्रदुद्रुवुः ॥१४॥ पलतस्तान् समाश्वास्य विष्णुर्युद्धोद्यतोऽभवत् । तेन सार्थं ययुः सर्वे महेंद्राद्याश्च दंशिताः ॥१५॥ समागतं रमानाथं रणभूमौ प्रतापवान् । लोभः क्रोधसमाविष्टो चोदयत् सोऽसुरांस्ततः ॥१६॥ ततो युद्धं समभवद्देवानां दानवैः सह । तुमुलं शस्त्रसंघातैर्मारयंतः परस्परम् ॥१७॥ अन्योन्यं ते जयं सर्वे दानवाः सुरनायकाः । इच्छंतो न जयं तत्राप्नुवन् दक्ष हतोद्यमाः ॥१८॥ रक्तौघैः संप्रवृत्ता स्म नदी परमभीतिदा । विश्रामं निशि चक्रुर्न क्रोधा- वेशैः परस्परम् ॥१९॥ दिनत्रयं महाघोरं युद्धं दारुणरूपकम् । तत्र प्रवृत्तं क्रोधेन युक्ता देवाः समाययुः ॥२०॥ गणा विष्णोश्च संक्रुद्धास्तथा देवेंद्रमुख्याकाः । नानास्त्रैर्दानवान् सर्वान् ममर्दुः सर्वतः प्रभो ॥२१॥ ततो हाहारवं कृत्वा दानवा भयसंयुताः । न लेभिरे यशो दैत्याः पलायंत समंततः ॥२२॥ ततो हर्षयुता देवा नादं चक्रुः सुदारुणम् । जय विष्णो महाभाग वदंति स्म परस्परम् ॥२३॥ ततोऽतिक्रोधसंयुक्ता दानवेंद्राः समाययुः । विप्रचित्तिमुखास्तत्र शरवृष्टिं प्रचक्रिरे ॥२४॥ तेषां बाणैः सुराः सर्वे छिन्नांगाः पतिता मृधे । तद् दृष्ट्वा क्रोधयुक्ताश्च देवेंद्रस्तान् प्रदुद्रुवुः ॥२५॥ अभवत् द्वंद्वयुद्धं च नियतं रोमहर्षणम् । तेषां मध्येऽथ किंचित्त्वां कथयामि समासतः ॥२६॥ इंद्रेण युयुधे तत्र गजासुरः प्रतापवान् । अग्निना च स्वयं तारो वायुना विप्रचित्तिकः ॥२७॥ वरुणेन ययौ तत्र बलिः क्रोधसमन्वितः । कुबेरेण प्रहेतिश्च मदनेन च हेतिकः ॥२८॥ सूर्येण युयुधे क्रोधात् स प्रतापी नरांतकः । देवांतको विष्णुना स क्रोधयुक्तः समाययौ ॥२९॥ जृंभः सोमेन दैत्येशो युयुधे बलसंयुतः । यमेनैव महाबाहुर्वृत्रश्च युयुधे भृशम् ॥३०॥ नानाद्वंद्वभवं युद्धं चक्रुर्देवेंद्रकैः सह । दैत्येंद्रा बलगर्विष्ठा वर्णनाय न शक्यते ॥३१॥ अहोरात्रं रता युद्धे न विरामं प्रचक्रिरे । नानाशास्त्रास्त्रवर्षेण ववृषुस्ते परस्परम् ॥३२॥ दिवसास्तत्र पंचैव गतास्तेषां प्रयुध्यताम् । नाप्राप्यत जयो देवैर्दैत्यैः परमदुर्जयैः ॥३३॥ ततोऽतिक्रोप- संयुक्तः स प्रतापी गजासुरः । इंद्रं संगृह्य चिक्षेप महापर्वतमस्तके ॥३४॥ मूर्च्छितो देवराजः स ततो देवाः पलायिताः ।

******************************************************************** पान १०० एवं द्वंद्वरतैर्दैत्यैर्देवेंद्रा मूर्च्छिताः कृताः ॥३५॥ हा हा कृत्वा ततः सर्वं देवसैन्यं दिशो दश । पपाल तन् महाश्चर्यं दृष्ट्वा विष्णुश्चकोप ह ॥३६॥ चक्रं प्रगृह्य चिक्षेप महाबाहुः स दारुणम् । दैत्यसैन्ये ततस्तेन हता दैत्या अनेकशः ॥३७॥ केषांचिन्मस्तकेष्वेतदपतद्दारुणं महत् । चिच्छेद हस्तपादादीन् दानवानामितस्ततः ॥३८॥ ततो दैत्येंद्राः सर्वे आययुस्ते जनार्दनम् । शस्त्रास्त्रैः सर्वतो दुष्टा मारयामासुरेव तम् ॥३९॥ नारायणस्ततः कोपसंयुक्तोऽतिप्रतापवान् । गजासुरं स विव्याध बाणैर्दशभिरावृतम् ॥४०॥ तं मूर्च्छितं चकाराऽसौ ततो देवांतकं हरिः । सप्तभिस्ताडयामास पातयामास भूतले ॥४१॥ एवं सर्वान् महाविष्णुः दानवेंद्रान् सुदारुणान् । विव्याध मूर्च्छितांश्चक्रे शरवर्षैः समंततः ॥४२॥ ततो हाहारवं कृत्वाऽपलत्तत् सैन्यमुल्बणम् । दानवानां भयार्तं वै दशदिक्षु विशेषतः ॥४३॥ ततो लोभः समायातः क्रोधयुक्तो जनार्दनम् । जगाद वचनं सोऽपि मोहयुक्तो महासुरः ॥४४॥ लोभ उवाच । सम्यक् कृतं त्वया विष्णो येन मे दर्शनं गतः । अधुना त्वां न मुंचामि जीवयुक्तं कदाचन ॥४५॥ नामरूपात्मकेभ्यश्च मरणं नैव मे भवेत् । ज्ञात्वा किमर्थमायातो ज्ञानहीनो यथा नरः ॥४६॥ गदां गृहीत्वैवमुक्तवा ताडयामास केशवम् । पपात मूर्च्छया विष्णुस्ततः सैन्यं व्यमर्दयत् ॥४७॥ मुहूर्तमात्रकालेन सावधानो बभूव ह । पपाल देवराजैः स त्यक्त्वा संग्राममंडलम् ॥४८॥ प्रहस्य दानवान् सर्वान् सावधानांस्तथाऽकरोत् । लोभासुरः प्रसन्नात्मा तैः सार्धं स्वपुरेऽगमत् ॥४९॥ स्तुतो बंदिजनैस्तेभ्यो दत्त्वा दानानि हर्षितः । इंद्रासने समासीनो रेजे दानवसत्तमः ॥५०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः ॥ ❧❧❧ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततोऽतिदुःखितो विष्णुर्देवेंद्रैश्च समन्वितः । त्यक्त्वा वैकुंठमेवं स ययौ शंभुं शरण्यकम् ॥१॥ गत्वा कैलासके दक्ष शिवं नत्वा जनार्दनः । स्तुत्वा वृत्तांतमेवं स कथयामास विस्तरात् ॥२॥ श्रुत्वा महेश्वरो विष्णुं स देवं स्वपुरागतम् । सांत्वयामास युक्तैश्च नानादृष्टांतदर्शनैः ॥३॥ शिव उवाच । मा चिंतां कुरु विष्णो त्वं सर्वज्ञ जगदीश्वर । तपःपुण्यं महोग्रं यत्तेन त्वं स पराजितः ॥४॥ तपः कृतं च लोभेन फलं तस्य जनार्दन । भुक्त्वा


खं. ४ अ. ३९ पान १०१ मरिष्यते नाथ कालस्तत्र प्रतीक्ष्यताम् ॥५॥ देवैः सह महाविष्णो मत्समीपे स्थिरो भव । मदीयभक्तियुक्तो ह्यागमिष्य- त्यत्र नैव सः ॥६॥ एवमुक्त्वा वचो विष्णुं शंकरः शोकसंयुतः । देवैस्तेन समायुक्तोऽतिष्ठत् कैलासपर्वते ॥७॥ अथ लोभासुरं सर्वैः संस्थितं दानवैर्वृतम् । इंद्रासने महाबाहुं तमूचुर्दानवोत्तमाः ॥८॥ विप्रचित्त्याद्या ऊचुः । लोभ लोभ महाभाग शृणु नो वचनं हितम् । विष्णुर्देवगणैः सर्वैः कैलासे शंकरं ययौ ॥९॥ अस्माकं शंकरः सोऽपीष्टदेवः पूज्य आदरात् । शत्रून् रक्षति नः शंभुर्भविष्यति विपक्षगः ॥१०॥ अधुना शंकरस्यास्य भावार्थं प्रेष्यतां महान् । दूतः सर्वार्थसूज्ञः कस्ततः क्षेमं भविष्यति ॥११॥ शिवो यदि स देवानां पक्षगो भवति प्रभो । तदा शंभुं प्रजेष्यामस्तपोबलसमन्विताः ॥१२॥ न ते शंभुर्वरस्यैव दाता जानीहि मानद । कर्मणां फलदातारः कृता देवाश्च कर्मणा ॥१३॥ कर्माधीनं जगत् सर्वं सदेवासुर- मानुषम् । कर्माज्ञावशगं दैत्य कर्मणा त्वं महाप्रभुः ॥१४॥ देवाः कर्मफलं लोभाद्दते न विशेषतः । तदैश्वर्यविहीनास्ते पतंति स्वपदात् किल ॥१५॥ अतस्त्यक्त्वा स्वसंदेहं त्यज शंभुं विपक्षगम् । कुरु कर्माश्रयं त्वं वै तेन क्षेमं भविष्यति ॥१६॥ इत्युक्त्वा दानवेंद्रास्ते विरामं चक्रुरंजसा । लोभासुरस्तस्तेषां वचने निरतोऽभवत् ॥१७॥ गजासुरं महावीर्यं प्रेषयामास सत्वरम् । कैलासे शंकरस्यैव भावार्थं भावधारकः ॥१८॥ गत्वा शंभुं महादैत्यः प्रणम्य प्रत्युवाच सः । वचनं लोभदैत्येन प्रेषितं सामपूर्वकम् ॥१९॥ गजासुर उवाच । महादेव नमस्तुभ्यं शृणु मे वचनं हितम् । लोभासुरेण देवेश प्रेषितोऽहं विशेषतः ॥२०॥ तेन संकथितं वाक्यं तच्छृणुष्व सुखप्रदम् । त्वं साक्षादीश्वरः पूर्णोऽस्माकं पूज्यो निरंतरम् ॥२१॥ विष्णुर्देववरः स्वामिन्नागतस्ते प्रसन्निधौ । अस्माकं शत्रुरेवाऽसौ तं त्यज त्वं सदाशिव ॥२२॥ वयं भक्तास्त्वदीयाश्चास्माकं मित्रं तदेव ते । मित्रं शत्रुस्तथा शंभो पालयस्वावराद्वि नः ॥२३॥ नो चेत् संग्रामभावेन जेष्यामस्त्वां न संशयः । कर्मणा त्वं समर्थश्चेत् संजातो भुंक्ष्व विष्टपम् ॥२४॥ कर्मणा लोभकः शंभो सर्वैश्वर्ययुतोऽधुना । तस्मादस्मान् महाभाग रक्ष ते भक्तिसंयुतान् ॥२५॥ तस्य तद्वचनं श्रुत्वाऽब्रवीन्निःश्वस्य शंकरः । गुजासुरं स्वयं साम्ना वचनं हितकारकम् ॥२६॥ शिव उवाच । गजासुर महालोभं वद मे वचनं हितम् । गत्वा तं दानवेंद्रं त्वं सर्वासुरसमन्वितम् ॥२७॥ कैलासं विष्णुना त्यक्त्वा सहितोऽहं स्वदेवपैः । गच्छामि यत्र कुत्रापि न त्यजामि जनार्दनम् ॥२८॥ कर्मणा त्वं समर्थश्चेत् संजातो भुंक्ष्व विष्टपम् । सर्वं चराचरं तेऽभूत् स्वाधीनं नात्र संशयः ॥२९॥ एवमुक्त्वा सुदुर्बुद्धिं शंकरः सुरनायकैः । जगाम पर्वतोद्देशे

खं. ४ अ. ४० पान १०२

त्यक्त्वा कैलासमात्मनः ॥३०॥ महावने महेशानः पर्वतद्रोणिमाश्वितः । देवैर्विष्णुमुखैः सर्वैः पशुवत् कालचालकः ॥३१॥ गजासुरः सभां गत्वा जगाद सकलैर्युतम् । लोभासुरं स वृत्तांतं श्रुत्वा संहर्षितोऽभवत् ॥३२॥ ततः स सत्यलोके च वैकुंठेशंकरालये । दानवान् स्थापयामास नानादेवपदेषु वै ॥३३॥ इंद्रासनं परित्यज्य ययौ भूम्यां महासुरः । स्वपुरे दानवेंद्रैश्चावसद्रोगपरायणः ॥३४॥ न ममर्शा निजात्मानं गर्वितः केवलं स तु । स्त्रीमांसमदिरादिष्वासंसक्तोऽभूत् सुदुर्मतिः ॥३५॥ धन्यमात्मानमेवं स मन्यते स्म कृतार्थकम् । ब्रह्मांडं वशगं मेऽभून्न मत्तः श्रेष्ठ एककः ॥३६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो बहौ गते काले दानवा बलदर्पिताः । जगुर्लोभासुरं तत्र लोभयुक्ता विशेषतः ॥१॥ दानवेंद्रा ऊचुः । देवा लोभासुर स्वामिन्नस्माकं शत्रवो मताः । सुराश्चासुरवर्याणां वेदे प्रोक्ता विचारय ॥२॥ शस्त्रास्त्रै- र्देवसंघास्ते न मरिष्यंति कर्हिचित् । अमरा वेदशास्त्रेषु कथिता नात्र संशयः ॥३॥ कर्मान्ना देवताः स्वामिन् क्षते कर्मणि तत्क्षणात् । मरिष्यंति महाभाग तदर्थं यत्नमाचर ॥४॥ जित्वा ब्रह्मांडगोळं किं संस्थितोऽसि महासुर । न कृतार्थस्त्वमेवैवं कदा जीवत्सु शत्रुभु ॥५॥ हिरण्यकशिपुर्जित्वा पुरा देवगणान् स्वयम् । राज्यं चकार सर्वत्र भुवनेषु न संशयः ॥६॥ ततो देवैः प्रयत्नेन निर्मितो नृहरिः प्रभो । तेन हत्वा सुराधीशं देवाः स्वस्थानगा बभुः ॥७॥ अतस्त्वं दैत्यराजेंद्र हितं कुरु विशेषतः । तदा चिरं महाराज सुखयुक्तो भविष्यसि ॥८॥ तेषां वचनमाकर्ण्य लोभासुरः सुमंदधीः । आज्ञापयत्ततो दैत्यो दैत्येंद्रान् कर्मखंडने ॥९॥ ततो गजासुराद्याश्च निर्गता क्रोधसंयुताः । यत्र तत्र द्विजान् धृत्वा जघ्नुर्यज्ञान् विशेषतः ॥१०॥ यज्ञवृक्षांस्तथा गाश्च तीर्थानि यत्र तत्र ते । जघ्नुर्बभंजुरत्यंतं कर्मखंडनकारणात् ॥११॥ बभंजुः क्रोधसंयुक्ता देवता- ऽऽयतनानि ते । स्वधर्मस्थं जनं दृष्ट्वा जघ्नुर्दानवसत्तमाः ॥१२॥ सर्वत्र दानवाधीशैर्लोभासुरस्य मूर्तयः । जनैः पूज्याः कृता दक्ष तदाधारं बभूव ह ॥१३॥ न स्वाहा न स्वधा कुत्र बभूव प्रलये यथा । न वषट्कारगं कर्म त्रासितं भूमिमंडलम् ॥१४॥ लोभासुरयुतं सर्वैः कर्म तैः प्रतिपादितम् । ततो हाहारवैर्युक्ता बभूवुर्मानवाः प्रभो ॥१५॥ ब्राह्मणा वनगा भूत्वा केचिन-

मरणनिश्चयाः । चक्रुः कर्म तथा भ्रष्टा बभूवुर्बहवो द्विजाः ॥१६॥ एवं बहौ गते काले देवाः परमदुःखिताः । उपवासपराः सर्वे बभूवुस्ते प्रजापते ॥१७॥ ततोऽतियत्नसंयुक्ता विचारं चक्रुरंजसा । लोभासुरविनाशाय न प्रापुस्ते दिवौकसः ॥१८॥ ततोऽतिदुःखिताः सर्वे किं कुर्म इति विह्वलाः । संतस्थुः पर्वतोद्देशे गुप्तभावेन देवपाः ॥१९॥ तत्राऽऽजगाम योगींद्रो रैभ्यः सर्वप्रियंकरः । अवधूतः स्वरूपेण साक्षाद्विघ्नेश्वरो यथा ॥२०॥ तं प्रणम्य शिवाद्यास्ते पप्रच्छुर्लोभनाशकम् । उपायं दीनभावेन सास्थिचर्मावशेषिताः ॥२१॥ ततोऽतिकरुणायुक्तो रैभ्यः सर्वार्थकोविदः । जगाद तान् सुरेंद्रान् स दीनान् दृष्ट्वा विशेषतः ॥२२॥ रैभ्य उवाच । शृणुध्वं विष्णुशंभावाद्या मुनयस्तत्त्वभाविताः । लोभासुरो महापापी दुर्जयो नात्र संशयः ॥२३॥ विघ्नराजं तदपि वै भजध्वं भक्तिसंयुताः । तेनाऽयं सुजयो देवा भविष्यति विशेषतः ॥२४॥ स्वयं साक्षाद् बुद्धि- पतिर्बुद्धिं संचालयिष्यति । गजाननस्य मंत्रं वै जपध्वं विधिपूर्वकम् ॥२५॥ एवमुक्त्वा महायोगी रैभ्यः स्वच्छंदगोऽभवत् । शिवाद्यो महाभागा हर्षिताः संबभूविरे ॥२६॥ गजाननस्य मंत्रं ते जेपुस्तपःपरायणाः । सविधिं ध्यानसंयुक्तास्तोषया- मासुरन्वहम् ॥२७॥ निराहारप्रभावेण संतुष्टो भक्तिभावितः । शतवर्षेषु देवेशानाययौ स गजाननः ॥२८॥ दृष्ट्वा गजाननं ते तु हर्षिता देवनायकाः । देवा मुनिगणाः सर्वे पुपूजुः स्नेहसंयुताः ॥२९॥ कृत्वा करपुटं भक्त्या तुष्टुवुस्तं गजाननम् । पुनरुत्थाय ते सर्वे प्रणेमुस्तं गजाननम् ॥३०॥ देवर्षय ऊचुः । गजानन नमस्तुभ्यं सर्वेषां बीजरूपिणे । निर्बीजाय गणेशाय विघ्नानां पतये नमः ॥३१॥ अनंतायैकदंताय हेरंबाय नमो नमः । चतुर्भुजाय सर्वेश सर्वपूज्याय ते नमः ॥३२॥ सर्वसिद्धि- प्रदात्रे च सुरासुरमयाय ते । सिद्धिबुद्धिप्रचालाय सिद्धिबुद्धिपते नमः ॥३३॥ अगुणाय गुणेशाय गुणरूपाय गौणिने । मायामयाय मायायाश्चालकाय परात्मने ॥३४॥ सर्वाद्ये महोदार पराक्रमपराय ते । स्वानंदवासिने तेऽस्तु नमः स्वानंद- दायिने ॥३५॥ योगाकाराय योगानां स्वामिने शांतिदायिने । ब्रह्मणस्पतये तेऽस्तु ब्रह्मणां ब्रह्मणे नमः ॥३६॥ अनाधाराय सर्वेषामाधाराय नमो नमः । आदिमध्यांतहीनायादिमध्यांताय ते नमः ॥३७॥ परश्वंकुशहस्ताय त्रिनेत्राय महोदर । नमो मूषकवाहाय मूषकध्वजिने नमः ॥३८॥ नमो नमस्ते सकलाय धाम्ने सदा सुखानंदकराय पात्रे । जगत् सुस्रष्ट्रे सकलस्य हंत्रे गुणैर्विहीनाय गणाधिपाय ॥३९॥ विदेहरूपाय पराय भोक्त्रे बोधेन हीनाय सुसांख्यकाय । सदा स्वबुद्धौ परसंस्थिताय गजात्मरूपाय नमो नमस्ते ॥४०॥ बोधहीनं च यद्ब्रह्म तदेव गजवाचकम् । गजचिह्नेन योगींद्राः पश्यंति

खं. ४ अ. ४१ पान १०४


त्वां गजाननम् ॥४१॥ यथा मुखस्य चिह्नेन ज्ञायंते मानवादयः । तथा विदेहचिह्नेन ज्ञायसे त्वं तु योगिभिः ॥४२॥ विदेहं गजरूपं यत्तेन ते मुखमुच्यते । गणेशस्य प्राप्तिकरं गजानन नमोऽस्तु ते ॥४३॥ किं स्तवाम गणाधीश यन्न वेदादिकास्तथा । योगिनः शांतिमापन्नास्तं वयं शरणं गताः ॥४४॥ स्तुत्वा विघ्नेश्वरं ते तु प्रणेमुस्तं पुनः पुनः । तानुवाच गणाधीशो हर्षयन् सर्वभाववित् ॥४५॥ गजानन उवाच । स्तोत्रं भवत्कृतं देवा ईश्वरा मुनयश्च मे । सर्वसिद्धिप्रदं पूर्णं भविष्यति निरंतरम् ॥४६॥ यद्यदिच्छति तत्तद्वै दास्यामि भक्तियंत्रितः । पठनाच्छ्रवणादस्य संतुष्टोऽहं विशेषतः ॥४७॥ वरदोऽहं वृणुत वो दास्यामि वरमीप्सितम् । तपसा भक्तिभावेन स्तोत्रेण तुष्टिमागतः ॥४८॥ गजाननवचः श्रुत्वा हर्षिता देवतर्षयः । प्रत्यूचिरे प्रणम्येदं वचनं सर्वसौख्यदम् ॥४९॥ देवर्षय ऊचुः । लोभासुरेण भो स्वामिन् त्रासितं भुवनत्रयम् । वयं कर्मविहीनत्वादुपोषणयुताः कृताः ॥५०॥ अतस्त्वं जहि दैत्येशं सर्वाजेयं गजानन । तव भक्तिं दृढां देहि लोभहीनां विशेषतः ॥५१॥ तेषां वचनमाकर्ण्य गजानन उवाच तान् । मा भयं कुरुत प्राज्ञा हनिष्यामि महासुरम् ॥५२॥ लोभहीना मदीया या भक्तिर्वश्च भविष्यति । अधुना दानवेंद्रं तं जेष्यामि च न संशयः ॥५३॥ मुनीन् देवानेवमुक्त्वाऽभवत्तत्रैव संस्थितः । सर्वेषां कार्यसिद्ध्यर्थं गजाननः प्रतापवान् ॥५४॥ ॥ ओमिति श्रीमदन्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते गजाननप्रादुर्भावो नाम चत्वारिंशोऽध्यायः ॥ ❖❖❖❖ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । दूतं गजाननस्तत्र प्रेषयामास शंकरम् । स गत्वा दैत्यपं दक्ष जगाद शृणु तद्वचः ॥१॥ शिव उवाच । शृणु लोभासुर त्वं मे वचनं हितकारकम् । करिष्यसि यदा सान्ना भविष्यसि तदा सुखी ॥२॥ गजाननः स्वयं साक्षाद्ब्रह्मणो नायकः स्मृतः । स आगतः सुरैः सर्वैर्देवेंद्रैर्मुनिभिर्वृतः ॥३॥ नगरप्रांतभागे ते दशयोजनदूरतः । संस्थितेन च दैत्येश प्रेषितोऽहं विशेषतः ॥४॥ मदीयवरदानेन निर्भयोऽसि हि मानद । अतस्त्वदीयरक्षार्थं प्रेषयामास मां प्रभुः ॥५॥ ब्रह्मांडं वशमानीय त्वं सर्वेशोऽसि सांप्रतम् । देवान् पशुसमानांश्च कृत्वा दैत्यैर्निरंतरम् ॥६॥ अधुना वैरमुत्सृज्य स्नेहं कुरु महामते । देवाः स्वपदगाः संतु ब्राह्मणाः कर्मकारिणः ॥७॥ गजाननस्य वर्तस्व मित्रभावेन दानव । भुंक्ष्व


खं. ४ अ. ४१ पान १०५


भोगान् महाभाग नोचेत्त्वां स हनिष्यति ॥८॥ शिवस्य वचनं श्रुत्वा क्रोधयुक्तो महासुरः । जगाद तं तिरस्कृत्य महादेवं मदान्वितः ॥९॥ लोभासुर उवाच । कोऽसौ गजाननः शंभो त्वं भेदकर एव च । मोहयस्यधुना मां किं देवानां पक्षगः पुरः ॥१०॥ अधुना त्वां महादेव हन्मि क्रोधसमन्वितः । किं करोमि च दूतस्त्वं गच्छ देवं गजाननम् ॥११॥ वद वाक्यं मदीयं त्वं हनिष्यामि सदेवकम् । गजाननं न संदेहः पश्य मे पौरुषं महत् ॥१२॥ एवं निर्भर्त्सितः शंभुः क्रोधारुणविलोचनः । जगाद तं महादैत्यं विशेषज्ञः सुदुर्मतिम् ॥१३॥ शिव उवाच । मृत्युयोगेन पापिष्ठ त्वं युतोऽसि न संशयः । गजाननं तेन लोभ निंदसि ब्रह्मनायकम् ॥१४॥ शिवः पुनः सुदुर्बुद्धिमेवमुक्त्वा ययौ प्रभुम् । गजाननं प्रणम्यादौ वृत्तांतं संजगौ पुनः ॥१५॥ तदाकर्ण्य वचः क्रूरं गजाननः प्रतापवान् । क्रोधसंरक्तचक्षुः सन् परशुं त्वक्षिपत्ततः ॥१६॥ अनंतादित्यसंकाशः परशुः कालभीतिदः । आययौ दैत्यपुर्यां वै ज्वालामालाभिरावृतः ॥१७॥ तेजोमयं महास्त्रं तद् दृष्ट्वा दैत्यगणाः परम् । भयभीता ययुस्तं ते हाहाकाररवाकुलाः ॥१८॥ दानवेंद्रैः सभासंस्थं लोभं दृष्ट्वा सुखं वचः । जगुर्दारुणरूपं यत् सर्वेभ्यो भयदायकम् ॥१९॥ नागरा ऊचुः । किं स्थितोऽसि महादैत्य लोभ ज्वालासमाकुलम् । अस्त्रं समागतं क्रूरं दाहयामास दानवान् ॥२०॥ तेषां तद्वचनं श्रुत्वा भयहर्षसमन्वितः । जगाद दानवाधीशान् महाकोपयुतोऽसुरः ॥२१॥ लोभासुर उवाच । गजाननोऽमरैः सार्धं समायातो न संशयः । समर्थो दृश्यते नूनं यस्यास्त्रबलमीदृशम् ॥२२॥ तस्य तद्वचनं श्रुत्वा दानवेंद्रा महाबलाः । ऊचुः प्रांजलयः सर्वे मा भयं कुरु सत्तम ॥२३॥ गजाननं हनिष्यामः पश्यति त्वयि मानद । एवमुक्त्वा ययुः सर्वे दंशिता योद्धुमाहताः ॥२४॥ ततस्तैर्यमसङ्काशैर्दृष्टं तेजोमयं महत् । अस्त्रं ब्रह्मपते क्रूरं प्रलयस्य प्रकाशकम् ॥२५॥ ददाह दानवांस्तत्र सर्वतस्तीक्ष्णतेजसा । हाहाकाररवाः सर्वे पप्लुर्भयविह्वलाः ॥२६॥ दानवेंद्रैस्ततो दक्ष मेघास्त्रं मोचितं महत् । जलौघैः सर्वतो मेघा ववृषुद्दारुणं परम् ॥२७॥ जलं सर्वं महास्त्रं तच्छोषयामास तत्क्षणात् । मेघस्थं ते ततो मेघा निस्तेजस्का बभूविरे ॥२८॥ दैत्येंद्रान् दैत्यमुख्यांश्च ज्वालया परशुस्तदा । ददाह च ततो भीता पप्लुर्यत्र तत्र ते ॥२९॥ तद् दृष्ट्वा परमाश्चर्यं स लोभासुर आययौ । रथारूढो महातेजास्तन्निवृत्त्यर्थमाहतः ॥३०॥ पश्यतो दैत्यराजस्य ज्वालाऽकस्मात् समागता । रथं साश्वं ददाहाऽपि ततः शस्त्राणि सर्वतः ॥३१॥ ततः पपाल दैत्येंद्रः कविं लोभासुरो ययौ । तं प्रणम्य महाभागं पप्रच्छ विनयान्वितः ॥३२॥ लोभासुर उवाच । स्वामिन् गजाननो देव आगतः स महाबलः ।

खं. ४ अ. ४१ पान १०६

दाहयामास शस्त्रेणाऽनिवार्येण रथं स मे ॥३३॥ तन्निवृत्त्यर्थमेवाहं न पश्यामीह किंचन । अतस्ते शरणं नाथ प्राप्तोऽहं रक्ष मां मुने ॥३४॥ मनोवाणीमयं सर्वं तस्मान् मृत्युनं मे भवेत् । नामरूपधरः सोऽपि कथं मां धक्ष्यति प्रभो ॥३५॥ यदि मे मरणं प्राप्तमेवं तर्ह्यस्तु सांप्रतम् । देवानां शरणं नाथ न गमिष्यामि कर्हिचित् ॥३६॥ अतो वद महाभाग उपायं हितदायकम् । त्वदाधारं च योगींद्र जीवनं मे प्रवर्तते ॥३७॥ इति तस्य वचः श्रुत्वा शुक्रः सर्वज्ञमुख्यकः । लोभासुरं भयोद्विग्नं तं जगाद प्रहर्षयन् ॥३८॥ शुक्र उवाच । मा कुरुष्व भयं वत्स शृणु मे वचनं हितम् । तत् समाचर दैत्येंद्र ततः क्षेमं भविष्यति ॥३९॥ गजाननः प्रसन्नात्मा यदिच्छति महासुर । तदेव सत्यरूपं वै भविष्यति न संशयः ॥४०॥ ब्रह्मणां नायकः प्रोक्तो गच्छ तं विनयान्वितः । नाऽयं देवाधिपो दैत्य सुरासुरमयः प्रभुः ॥४१॥ एवं तस्य वचः श्रुत्वा लोभस्तं पुनरब्रवीत् । निःश्वस्य देवपैः सार्धं कथं योद्धुं समाययौ ॥४२॥ मध्यस्थश्चेन् महाभागं तं गच्छामि शरण्यकम् । न लज्जा तेन मे स्वामिन् संशयं छिंधि हृत्स्थितम् ॥४३॥ शुक्र उवाच । देहरूपं महद्ब्रह्म देहात्मा वेदभाषितम् । तयोर्योगे महादैत्य बोधोऽसि पदवाचकः ॥४४॥ बोधनाशे विदेहाख्यं ब्रह्म सौख्यं प्रकीर्तितम् । सुसिद्धिदं तदेव त्वं विजानीहि गजाननम् ॥४५॥ सर्वेषां बीजरूपं यत्तस्य बीजं न विद्यते । तदेव गजशब्दाख्यं ब्रह्म वेदे प्रकीर्तितम् ॥४६॥ गजचिह्नेन गच्छंति योगिनो हि गजाननम् । तेन नाम्ना समाख्यातो मुनिभिस्तत्त्वदर्शिभिः ॥४७॥ यथा मुखस्य चिह्नेन ज्ञायते मानवादिभिः । गजचिह्नेन तद्ब्रह्म ज्ञायते योगिभिः सदा ॥४८॥ तेनैव स्थापितं विश्वं बोधरूपं महामते । स्वस्वधर्मयुतं पूर्णं तत्राऽयं संस्थितोऽभवत् ॥४९॥ पाताले दानवानां च राज्यं स्वर्गे दिवौकसाम् । पृथिव्यां मानवानां वै त्रिविधं रचितं पुरा ॥५०॥ यदा देवा महाभाग लोभयुक्ता मदान्विताः । पातालस्थान् दैत्यगणाञ्जघ्नुर्मूलविनाशकाः ॥५१॥ तदाऽयं देहधारी च दैत्येभ्यो वरदोऽभवत् । देवानां विघ्नसंदाता गणेशः सर्वभाववित् ॥५२॥ ततो दैत्यगणाः सर्वे बलयुक्ता सुरेंन्द्रकान् । जघ्नुर्वीरश्रिया राजन् विघ्नहीनप्रभावतः ॥५३॥ यदा दैत्या महालोभ लोभयुक्ता विशेषतः । देवानां जीवनाशार्थमभवन् कर्मखंडनात् ॥५४॥ तदा विघ्नेश्वरः साक्षाद्देहं धृत्वा च दानवान् । हत्वा स्वस्थानगान् देवानकरोद्धर्म- पालकः ॥५५॥ सुराऽसुरादयः सर्वे स्वस्वधर्मरता यदा । तदाऽयं ब्रह्मरूपः संश्चित्ते चिंतामणिर्बभौ ॥५६॥ चित्तरूपा स्वयं बुद्धिर्भ्रांतिरूपा महामते । सिद्धिस्ताभ्यां गणाधीशः खेलति ब्रह्मनायकः ॥५७॥ स्वसंवेद्यात् मनस्तस्य दर्शनं जायते यतः ।

खं. ४ अ. ४२ पान १०७ तेनाऽयं गणपः स्वानंदवासी कथ्यते बुधैः ॥५८॥ अतस्तस्यैव दैत्येंद्र शरणं सुखदं भवेत् । अन्यथा सकलं हत्वा मरिष्यसि न संशयः ॥५९॥ गजाननस्य दैत्येश शस्त्रं ब्रह्ममयं ह्यतः । तस्मै कुरु नमो भक्त्या शांतरूपं भविष्यति ॥६०॥ ॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शुक्नोपदेशवर्णनं नामैकचत्वारिंशोऽध्यायः ॥ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शुक्रस्य वचनं श्रुत्वा लोभासुरः प्रणम्य तम् । तथेति प्रतिपाद्यैव सकविः शरणं ययौ ॥१॥ नगरप्रांतभागे तच्छस्त्रं गजाननस्य च । समीपसंस्थान् जज्वल दानवादीन् समास्थितम् ॥२॥ तं प्रणम्य महादैत्यो लोभः परशुमुत्तमम् । कृतांजलिः प्रतुष्टाव भयभीतः समंततः ॥३॥ लोभासुर उवाच । नमस्ते शस्त्रराजाय शस्त्राणां ब्रह्मरूपिणे । नानाशस्त्राणि शस्त्रेश त्वदाधाराणि ते नमः ॥४॥ प्रलयानलसंकाशं स्वरूपं धरते नमः । अनंतवीर्ययुक्ताय भास्करामिततेजसे ॥५॥ दृश्यादृश्यमयायैव सर्वदर्पहराय ते । धर्मसंस्थापनार्थाय नानारूपधराय च ॥६॥ साक्षाद्गजाननस्यैव यद्वीर्यं नियतात्मकम् । तदेव त्वं महाशस्त्रं किं ते स्तौमि नमो नमः ॥७॥ शरणागतपालाय सदा स्वानंदसंस्थित । रक्ष मां भयभीतं भोः परशो ते नमो नमः ॥८॥ एवं लोभासुरं संस्तुवंतं तं तु महाबलम् । काव्येन शस्त्रराजं तच्छांतिरूपधरं बभौ ॥९॥ गत्वा गजाननस्यैव हस्तगं तद्बभूव ह । लोभासुरः स शुक्रेणाऽऽययौ विघ्नेश्वरं ततः ॥१०॥ समागतं महादैत्यं दृष्ट्वा देवर्षयोऽभवन् । विस्मिता हर्षिताः सर्वे परस्परमुखेक्षणाः ॥११॥ गजाननं प्रणम्यैव लोभासुरः प्रतापवान् । काव्येन पूजयामास भक्तियुक्तो विशेषतः ॥१२॥ प्रणम्य तं पुनर्देत्यः कृत्वा करपुटं प्रभुम् । गजाननं भावसंयुक्तस्तुष्टाव प्रहर्षितः ॥१३॥ लोभासुर उवाच । नमस्ते गजवक्त्राय नानासिद्धिप्रदायिने । बुद्धिचालकवेषाय ब्रह्मणे वै नमो नमः ॥१४॥ हेरंबाय सदा स्वानंदवासिने महात्मने । परात्परतरायैव विघ्नेशाय नमो नमः ॥१५॥ सुरासुरप्रियकर सुरासुरमयाय ते । लोभयुक्तान् विधर्मस्थान्नाशनाय नमो नमः ॥१६॥ देवानां पालकायैव दैत्यानां रक्षकाय ते । सर्वेषां दर्पहंत्रे वै गणेशाय नमो नमः ॥१७॥ लंबोदराय देवेश दैत्येश मूषकध्वज । अनादये च सर्वेषामादिरूपाय ते नमः ॥१८॥ आदिमध्यांत- हीनायादिमध्यांतस्वरूपिणे । ब्रह्मेशाय महेशानां पालकाय नमो नमः ॥१९॥ ब्रह्मभ्यो ब्रह्मदात्रे च सदा शांतिधराय

खं. ४ अ. ४२ | पान १०८

ते । शांतीनां शांतिरूपाय नमो योगाय वै नमः ॥२०॥ एकदंताय सर्वेश वक्रतुंडाय ते नमः । महोदराय पूर्णाय पूर्णानंदाय ते नमः ॥२१॥ सर्वेषां मूलबीजाय मात्रे पित्रे नमो नमः । ज्येष्ठराजाय ज्येष्ठानां पालकाय नमो नमः ॥२२॥ बीजरूपं गणाधीश जगतां ब्रह्मणां गजम् । चिह्नेन लभ्यसे तेन गजानन नमोऽस्तु ते ॥२३॥ बोधहीनाय रूपाय सदा सांख्यमयाय च । विदेहाय नमस्तुभ्यं प्रत्यक्षं रूपधारिणे ॥२४॥ यं स्तोतुं न समर्थाश्च वेदा योगिशिवादयः । तं किं स्तौमि गणाधीश नमस्ते वरदो भव ॥२५॥ त्वद्दर्शनजमाहात्म्यात् संस्तुतोऽसि महाप्रभो । तेन मेऽभयदो भूत्वा रक्ष दासं विशेषतः ॥२६॥ एवं स्तुत्वा महालोभः प्रणनाम गजाननम् । तमुवाच दयासिंधुर्भक्तं भक्तप्रपालकः ॥२७॥ गजानन उवाच । वरं वृणु महालोभ ददामि मनसीप्सितम् । प्रसन्नोऽहं विशेषेण भक्त्या काव्यप्रदत्तया ॥२८॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिकरं भवेत् । पठतः शृणवतश्चैव लोभ तं नैव पीडय ॥२९॥ पुत्रपौत्रादिसंयुक्तो भुक्त्वा भोगान् मनेप्सितान् । अंते स्वानंदलोके स ब्रह्मभूतो भविष्यति ॥३०॥ यः स्तौति मामनेनैव स मे मान्यो न संशयः । सदा सुरस्वभावेन हीनः सोऽपि भविष्यति ॥३१॥ त्वां हंतुं क्रोधसंयुक्त आगतोऽहं न संशयः । शरणागतमेवं तु दानवोत्तम हन्मि न ॥३२॥ गजाननवचः श्रुत्वा लोभो हर्षसमन्वितः । उवाच तं महाबुद्धिर्भावेन ब्रह्मनायकम् ॥३३॥ लोभासुर उवाच । गजानन वरं मे त्वं देहि संपूर्णदायक । तव भक्तिस्वरूपं च गाणपत्यप्रियात्मताम् ॥३४॥ स्थानं देहि विशेषेण प्रभो वृत्तिं च शाश्वतीम् । कार्यं कथय सर्वेश करिष्यामि गजानन ॥३५॥ गजानन उवाच । मदीया भक्तिराद्या ते भविष्यति महामते । गाणपत्येषु ते स्नेहो वृद्धिं यास्यति नित्यदा ॥३६॥ स्वस्थाने त्वं स्थिरो भूत्वा तिष्ठ मे भक्तिसंयुक्तः । यत्र मे स्मरणं नास्ति पूजनं वाऽसुरोत्तम ॥३७॥ आदौ कर्मादिषु प्राज्ञ तत् समाहर नित्यदा । यथा देवाः प्रिया मे तु तथा त्वमपि लोभक ॥३८॥ मम भक्ताश्च ये दैत्य तान् रक्षस्व विशेषतः । मदीयभक्तिरूपं तु लोभ वर्धय तेषु वै ॥३९॥ एवमुक्तः प्रभुं लोभस्तं प्रणम्य गजाननम् । काव्येन सहितः सोऽपि स्वपुरं प्रययौ प्रभो ॥४०॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरशांतित्वर्णनं नाम द्विचत्वारिंशोऽध्यायः ॥

खं. ४ अ. ४३ पान १०९ ॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । शांतिरूपधरं लोभं दृष्ट्वा देवर्षयोऽमलाः । गजाननं निजं नाथं हर्षिता नेमुरादरात् ॥१॥ गजाननं पूजयित्वा विधानेन सुरर्षयः । पुनः प्रणम्य तं सर्वे तुष्टुवुः करसंपुटैः ॥२॥ विदेहरूपं भवबंधहारं सदा स्वनिष्ठं स्वसुखप्रदं तम् । अमेयसांख्येन च लभ्यमीशं गजाननं भक्तियुता भजामः ॥३॥ मुनींद्रवंद्यं विधिबोधहीनं सुबुद्धिदं बुद्धिधरं प्रशांतम् । विकालहीनं सकलांतगं वै गजाननं भक्तियुता भजामः ॥४॥ अमेयरूपं हृदि संस्थितं तं ब्रह्माहमेकं भ्रमनाशकारम् । अनादिमध्यांतमपाररूपं गजाननं भक्तियुता भजामः ॥५॥ जगत्प्रमाणं जगदीशमेवमगम्यमाद्यं जगदादि- हीनम् । अनात्मनां मोहप्रदं पुराणं गजाननं भक्तियुता भजामः ॥६॥ न भूर्न रूपं न जलं प्रकाशं न तेजसिस्थं न समीरण- स्थम् । न खे गतं पंचविभूतिहीनं गजाननं भक्तियुता भजामः ॥७॥ न विश्वगं तैजसगं न प्राज्ञं समष्टिव्यष्टिस्थमनंतगं न । गुणैर्विहीनं परमार्थभूतं गजाननं भक्तियुता भजामः ॥८॥ गुणेशगं नैव च बिंदुसंस्थं न देहिनं बोधमयं न हुंढिम् । संयोगहीनाः प्रवदंति तत्स्थं गजाननं भक्तियुता भजामः ॥९॥ अनागतं नैव गतं गणेशं कथं तदाकारमयं वदामः । तथापि सर्वं प्रभुदेहसंस्थं गजाननं भक्तियुता भजामः ॥१०॥ यदि त्वया नाथ कृतं न किंचित्तदा कथं सर्वमिदं विभाति । अतो महात्मानमचिंत्यमेव गजाननं भक्तियुता भजामः ॥११॥ सुसिद्धिदं भक्तजनस्य देवं स कामिकानामिह सौख्यदं तम् । अकामिकानां भवबंधहारं गजाननं भक्तियुता भजामः ॥१२॥ सुरेंद्रसेव्यं ह्यसुरैः सुसेव्यं समानभावेन विराजयंतम् । अनंतवाहं मुषकध्वजं तं गजाननं भक्तियुता भजामः ॥१३॥ सदा सुखानंदमये जले च समुद्रजे चेक्षुरसे निवासम् । द्वंद्वस्य पानेन च नाशरूपे गजाननं भक्तियुता भजामः ॥१४॥ चतुःपदार्था विविधप्रकाशास्त एव हस्ताः स चतुर्भुजं तम् । अनाथनाथं च महोदरं वै गजाननं भक्तियुता भजामः ॥१५॥ महाखुमारूढमकालकालं विदेहयोगेन च लभ्यमानम् । अमायिनं मायिकमोहदं तं गजाननं भक्तियुता भजामः ॥१६॥ रविस्वरूपं रविभासहीनं हरिस्वरूपं हरिबोधहीनम् । शिवस्वरूपं शिवभासनाशं गजाननं भक्तियुता भजामः ॥१७॥ महेश्वरीस्थं च सुशक्तिहीनं प्रभुं परेशं परवंद्यमेवम् । अचालकं चालकबीजभूतं गजाननं भक्तियुता भजामः ॥१८॥ शिवादिदेवैश्च खगैः सुवंद्यं नरैर्लतावृक्षपशुप्रभूमिः । चराचरैर्लोकविहीनमेवं गजाननं भक्तियुता भजामः ॥१९॥ मनोवचोहीनतया सुसंस्थं निवृत्तिमात्रं ह्यजमव्ययं तम् । तथापि देवं पुर आस्थितं तं गजाननं भक्तियुता भजामः ॥२०॥ वयं सुधन्या गणपस्तवेन तथैव नत्यार्चनतस्तवैव ।

पान ११०

गणेशरूपाश्च कृतास्त्वया तं गजाननं भक्तियुता भजामः ॥२१॥ गजाख्यबीजं प्रवदंति वेदास्तदेव चिह्नेन च योगिनस्त्वाम् । गच्छंति तेनैव गजाननस्त्वं गजाननं भक्तियुता भजामः ॥२२॥ पुराणवेदाः शिवविष्णुकाद्याऽमराः शुकाद्या गणपस्तवे वै । विकुंठिताः किं च वयं स्तवाम गजाननं भक्तियुता भजामः ॥२३॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं नेमुः सर्वे पुनः पुनः । तानुत्थाप्य वचो रम्यं गजानन उवाच ह ॥२४॥ गजानन उवाच । वरं ब्रूत महाभागा देवाः सर्षिगणाः परम् । स्तोत्रेण प्रीतिसंयुक्तः परं दास्यामि वाञ्छितम् ॥२५॥ गजाननवचः श्रुत्वा हर्षयुक्ताः सुरर्षयः । जगुस्तं भक्तिभावेन साश्रुनेत्राः प्रजापते ॥२६॥ देवर्षय ऊचुः । गजानन यदि स्वामिन् प्रसन्नो वरदोऽसि भोः । तदा भक्तिं दृढां देहि लोभहीनां त्वदीयकाम् ॥२७॥ लोभासुरस्य देवेश कृता शांतिः सुखप्रदा । तदा जगदिदं सर्वं वरयुक्तं कृतं त्वया ॥२८॥ अधुना देवदेवेश कर्मयुक्ता द्विजादयः । भविष्यंति धरायां वै वयं स्वस्थानगास्तथा ॥२९॥ स्वस्वधर्मरताः सर्वे गजानन कृतास्त्वया । अतःपरं वरं याचामहे ढुंढे कमप्यहो ॥३०॥ यदा ते स्मरणं नाथ करिष्यामो वयं प्रभो । तदा संकटहीनान् वै कुरु त्वं नो गजानन ॥३१॥ एवमुक्त्वा प्रणेमुस्तं गजाननमनामयम् । स तानुवाच प्रीतात्मा भक्त्यधीनस्वभावतः ॥३२॥ गजानन उवाच । यच्च प्रार्थितं देवा मुनयः सर्वमंजसा । भविष्यति न संदेहो मत्स्मृत्या सर्वदा हि वः ॥३३॥ भवत्कृतमदीयं वै स्तोत्रं सर्वत्र सिद्धिदम् । भविष्यति विशेषेण मम भक्तिप्रदायकम् ॥३४॥ पुत्रपौत्रप्रदं पूर्णं धनधान्यविवर्धनम् । सर्व- संपत्करं देवाः पठनाच्छ्रवणा न्नृणाम् ॥३५॥ मारणोच्चाटनादीनि नश्यंति स्तोत्रपाठतः । परकृत्यं च विप्रेन्द्रा अशुभं नैव बाधते ॥३६॥ संग्रामे जयदं चैव यात्राकाले फलप्रदम् । शत्रूच्चाटनकार्येषु प्रशस्तं तद्भविष्यति ॥३७॥ कारागृहगतस्यैव बंधनाशकरं भवेत् । असाध्यं साधयेत् सर्वमनेनैव सुरर्षयः ॥३८॥ एकविंशतिवारं चैकविंशति दिनावधिम् । प्रयोगं यः करोत्येव स भवेत् सर्वसिद्धिभाक् ॥३९॥ धर्मार्थकाममोक्षाणां ब्रह्मभूयस्य दायकम् । भविष्यति न संदेहः स्तोत्रं मद्भक्ति- वर्धनम् ॥४०॥ एवमुक्त्वा गणाधीशस्तत्रैवांतरधीयत । देवाः सर्षिगणाः सर्वेऽभवन् खिन्ना इव प्रभो ॥४१॥ गजाननस्य मूर्तिस्तैः स्थापिता सिद्धिदा ततः । नैर्ऋते कोणभागे स्म दर्शनेन सुखप्रदा ॥४२॥ तत्रैव संस्थिता देवा मुनयो भक्ति- संयुताः । अंशेन स्वाधिकारेषु स्वाश्रमेषु गता बभुः ॥४३॥ ततः स्वधर्मसंयुक्ता बभूवुर्मानवा भुवि । यथायोग्यं जगत् सर्वं

बभूवे हर्षितं विधे ॥४४॥ एतद्गजाननस्यैव चरितं पापनाशनम् । भुक्तिमुक्तिप्रदं दक्ष कथितं ब्रह्मदं परम् ॥४५॥ यः पठेत् पाठयेद्वापि शृणुते श्रद्धयान्वितः । स ईप्सितफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥४६॥ ॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते देवमुनिकृतस्तुतिवर्णनं नाम त्रिचत्वारिंशोऽध्यायः ॥

॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । धन्योऽहं मुद्गल स्वामिंस्त्वत्संङ्गान्नात्र संशयः । लोभशांतिकरं चित्रं श्रुतं भक्त्या चरित्रकम् ॥१॥ न तृप्तोऽहं गजास्यस्य सुधापान इव प्रभो । वद क्षेत्रस्य माहात्म्यमधुना तस्य सर्वदम् ॥२॥ गजाननस्य भक्त्यर्थमवतारान् धृतान् वद । संक्षेपेण महाभाग सर्वज्ञोऽसि च ते नमः ॥३॥ सूत उवाच । दक्षस्य वचनं श्रुत्वा मुद्गलो हर्षसंयुतः । जगाद तं महाभागं महाभागो दयान्वितः ॥४॥ मुद्गल उवाच । अवतारा अनंताश्च गजाननस्य मानद । भक्तानां कार्यसिद्ध्यर्थं कथनं नैव शक्यते ॥५॥ तथापि शृणु दक्ष त्वमवतारचरित्रकम् । गजाननस्य कथयामि समासेन सर्वदम् ॥६॥ पार्वत्या शंकरेणैवाऽऽराधितो गणनायकः । दिव्यवर्षसहस्रेण प्रसन्नो वरदोऽभवत् ॥७॥ ताभ्यां संपूजितो देवः स्तुतः संयाचितोऽभवत् । त्वं पुत्रो भव नौ स्वामिन् संसारोत्तारणाय वै ॥८॥ तथेति प्रतिपाद्याऽसौ गणेशोऽन्तर्दधे स्वयम् । पुत्रः सिंधुवधायाभून् मयूरेश इति स्मृतः ॥९॥ हत्वा सिंधुं महावीर्यं गतः स्वानंदके पुरे । एवं नानाऽवतारान् स दधार शिवयोर्गृहे ॥१०॥ अष्टकोट्यवताराश्च गणेशस्य प्रकीर्तिताः । शिवपुत्राश्च ते ख्याताः कार्यार्थं त्वंशभावतः ॥११॥ केचिच्छिवात् समुद्भूताः केचिच्छक्तेर्महात्मनः । उभयोर्योगतः केचित् कलांशा अभवन् पराः ॥१२॥ यादृशं संकटं प्राप्तं तदर्थं संस्मृतो विभुः । तावत् कलांशयोगेन पुत्रोऽभूत् सुखदायकः ॥१३॥ कृत्वा कार्यस्य संसिद्धिं पुनः स्वानंदगोऽभवत् । तद्वियोगेन संतप्तौ शिवौ किल बभूवतुः ॥१४॥ अन्ये नानाऽवताराश्च कश्यपादिगृहेऽशतः । धृता गजाननेनैव वक्तुं नैव प्रशक्यते ॥१५॥ इतिहास प्रवक्ष्यामि सर्वसिद्धिप्रदायकम् । गजाननावतारेण युक्तं शृणु प्रजापते ॥१६॥ एकदा निद्रितं शंभुं ब्रह्माणं प्रययौ प्रभुः । किंचित् कार्यार्थमेवं तमुत्थाप्य स्वगृहेऽगमत् ॥१७॥ स उत्थितो महाजृंभां चकार क्रोधसंयुतः । तस्माज्जातः पुमानेको रक्तवर्णः सुशोभनः ॥१८॥ सुवासबहुलेनैव युक्तः काम इवापरः । तं दृष्ट्वा विस्मितो ब्रह्मा जगाद