भारतकोश
संग्रह पर लौटें

मुद्राराक्षसम् (सटीक संस्कृत नाटक)

Mudrarakshasam Natakam with Hindi Commentary

महाकवि विशाखदत्त द्वारा

DevanagariSanskritpublished488 पृष्ठ

षष्ठोऽङ्कः ३४१

केशवः । हरिवंश में इसकी निरुक्ति इस प्रकार की गई है—‘हिरण्यगर्भः कः प्रोक्त ईशः शङ्कर एव च । सृष्ट्यादिना वर्तयति तौ यतः केशवो भवान् ॥’ जयन—जयति अस्मिन् इति √जि+ल्युट् अधिकरणे = जयनम् । इस पद्य में लुप्तोपमा, रूपक तथा विभावना अलंकारो की संसृष्टि है। इसमे मालिनी छन्द है। मालिनी का लक्षण ३, १५ मे देखिए ॥ १ ॥

ता जाव चिरस्य कालस्स पिअबअस्सं सुसिद्धत्थअ पेक्खामि । [ परिक्रम्यावलोक्य च ] अअं उण पिअबअस्सओ सुसिद्धत्थओ इदो ज्जेब आअच्छीदी ता जाव उबसप्पामि । ( तद्यावच्चिरस्य कालस्य प्रियवयस्यं सुसिद्धार्थकं पश्यामि । अयं पुनः प्रियवयस्यः सुसिद्धार्थक इत एवागच्छति, तद्यावदुपसर्पामि ।

[ ततः प्रविशति सुसिद्धार्थकः । ]

सुसिद्धार्थकः—

सन्तावेन्ता आबाणेसुं महूसवेसुं रुआबेन्ता ।
हिअअच्छिआ अवि विहवा विरहे मित्ताणं दुम्मणाअन्ते ॥२॥
( सन्तापयन्तः आपानेषु महोत्सवेषु रुजायन्तः ।
हृदयस्थिता अपि विभवा विरहे मित्राणां दुर्मनायन्ते ॥२॥)

अन्वयः—मित्राणां विरहे विभवाः हृदयस्थिता अपि आपानेषु सन्तापयन्तः महोत्सवेषु रुजायन्तः दुर्मनायन्ते ॥ २ ॥

व्याख्या—मित्राणां—सुहृदां, विरहे—वियोगे, विभवाः—ऐश्वर्याणि, हृदयस्थिता अपि—अन्तःकरणवर्तिनोऽपि, आपानेषु—पानगोष्ठीषु, सन्तापयन्तः—क्लेशं जनयन्तः, महोत्सवेषु—नृत्यगीतादिषु समारम्भेषु, रुजायन्तः—मनोरोगं समुत्पादयन्तः, दुर्मनायन्ते—निरानन्दवन्तः सम्पत्स्यन्ते ॥ २ ॥

हिन्दी अनुवाद—तो बहुत दिनों के बाद प्रिय मित्र सुसिद्धार्थक को देख रहा हूँ। [ घूमकर और देखकर ] फिर यह प्रिय मित्र सुसिद्धार्थक इधर ही आ रहा है। इसलिए समीप जाता हूँ।

[तब सुसिद्धार्थक प्रवेश करता है।]

१४२मुद्राराक्षसम्

सुसिद्धार्थक—मित्रों के वियोग मे ऐश्वर्य हृदय मे विद्यमान रहने पर भी पान गोष्ठियो मे टीस उत्पन्न करते हुए और महोत्सवों में रोग उत्पन्न करते हुए आनन्द शून्य हो जाते हैं ॥ २ ॥

टिप्पणीचिरस्य कालस्य—बहो कालात् परमित्यर्थ । रुजायन्त — रुजा कुर्वन्त इति रुजा+णिच्+लट्+शतृ । दुर्मनायन्ते—बहुमनम दुर्मनसः भवन्ति इति दुर्मनस्+क्यङ्, सलोप 'भृशादिभ्यो भुव्यच्चेर्लोपश्व हल.' इत्यनेन । इस पद्य मे दीपक अलकार और पदार्थहेतुक काव्यलिंग अलकार में साकर्य है । इसमे आर्या छन्द है । आर्या का लक्षण १, ५ मे देखिए ॥ २ ॥

सुदञ्च मए जहा—मलअकेतुकडआदो पिअवअस्सओ सिद्धत्थओ आजदो त्ति । ता जाव णं अण्णेमामि । [ परिक्रम्योपसृत्य च ] एसो सिद्धत्थओ । ( श्रुतञ्च मया यथा—मलयकेतुकटकात् प्रियवयस्यः सिद्धार्थक आगत इति । तद्यावदेनमन्विष्यामि । एष सिद्धार्थकः । )

सिद्धार्थक —[विलोक्य] कथ इदो ज्जेव पिअवअस्सओ सुसिद्धत्थओ ! [ उपगम्य ] अवि मुह पिअवअस्सस्स ? ( कथमित एव प्रियवयस्यः सुसिद्धार्थक । अपि सुख प्रियवयस्यस्य ? )

[ उभावप्योन्यमालिङ्गत ]

सुसिद्धायक —अह वयम्स ! बुदो मे सुह, जस्स तुम चिरआलप्प-वासपच्चागदोवि अआणिअ बुत्तन्त अण्णदो गदोसि ? त्ति । ( अहो वयस्य ? कुतो मे सुखम्, यस्य त्व चिरप्रवासप्रत्यागतोऽप्यज्ञापयित्वा वृत्तान्तमन्यतो गतोऽसीति ।

सिद्धार्थक —प्पीसीददु पिअवअस्सो । अह क्खु दिट्ठमेत्तो ज्जेव्व अज्जचाणक्केण आणत्तो जहा— सिद्धत्थअ ! गच्छ, एद पिअ बुत्तन्त पिअदसणस्स देवस्स चन्दसिरिणो णिवेदेहि' त्ति । तदा तस्स त णिवेदिय एव्व अणुभूदपात्थिंवप्पसादो अह प्पिअवअम्म प्पेक्खिदु तुह गेह चलिदोह्मि । ( प्रसीदतु प्रियवयस्य । अह खलु दृष्टमात्र एवार्यचाणक्येनाज्ञप्तो यथा— 'सिद्धार्थक ! गच्छ, इम प्रिय वृत्तान्त प्रियदर्शनस्य देवस्य चन्द्रश्रियो निवेदेयेति । ततस्तस्य तन्निवेद्य एवम-

षष्ठोऽङ्कः १४१

नुभूतपार्थिवप्रसादोऽहं प्रियवयस्यं प्रेक्षितुं तव गेहं चलितोऽस्मि ।)

सुसिद्धार्थकः—बअस्स ! जदि मए एदं सुणिदव्वं भोदि, ता मं पि सुणावेहि, किं ते प्पिअं प्पिअदंसणस्स चन्दसिरिणो णिबेदिदं त्ति । ( वयस्य ! यदि मयेदं श्रोतव्यं भवति, तन्मामपि श्रावय, किं तत् प्रियं प्रियदर्शनस्य चन्द्रश्रियो निवेदितमिति । )

हिन्दी अनुवाद—मैंने सुना है कि मलयकेतु के शिविर से प्रिय मित्र सिद्धार्थक आया है । तब तक इसको खोजता हूँ । [ घूमकर और पास जाकर ] यह सिद्धार्थक है ।

सिद्धार्थक—[ देखकर ] कैसे इधर ही प्रिय मित्र सुसिद्धार्थक ( आ रहा है ) ! [ समीप जाकर ] प्रिय मित्र सुख से तो हैं ?

[ दोनों परस्पर आलिंगन करते हैं । ]

सुसिद्धार्थक—वाह मित्र ! मुझे सुख कहाँ से, जिसके तुम चिरकाल के प्रवास से लौटकर बिना समाचार बताये दूसरी ओर चले गए हो ।

सिद्धार्थक—प्रिय मित्र प्रसन्न हों । मुझे तो देखते ही आर्य चाणक्य ने आज्ञा दी, जैसे —सिद्धार्थक ! जाओ, यह प्रिय समाचार प्रियदर्शन वाले महाराज चन्द्रगुप्त से निवेदन कर दो ।' तदनन्तर उनसे वह निवेदन करके इस प्रकार राजा की कृपा का अनुभव किये हुए मैं प्रिय मित्र को देखने के लिए तुम्हारे घर की ओर चला हूँ ।

सुसिद्धार्थक—मित्र ! यदि यह मेरे सुनने योग्य हो तो मुझे भी सुनाओ । वह कौन-सा प्रिय ( समाचार ) प्रियदर्शन चन्द्रगुप्त से निवेदन किया है ?

टिप्पणीचिरप्रवासप्रत्यागतः—चिरं प्रवासः, तस्मात् प्रत्यागतः प्रतिनिवृत्तः । प्रियवयस्यः—स्निग्धमित्रम् । प्रियदर्शनस्य—प्रियम् सुखकारकं दर्शनम् अवलोकनम् यस्य स तयोक्तः, तस्य । देवस्य—अत्र शेषत्वविवक्षया षष्ठी । गेहं चलितः—गेहं प्रति चलितः ।

सिद्धार्थकः—प्पिअवअस्स ! तुह वि किं असुणिदव्वं अत्थि ? ता णिसामेहि । अत्थि दाव, अज्जचाणक्कणीदिमोहिदमदिणा मलय-

२४४मुद्राराक्षसम्

केदुहदएण णिराकरिअ रक्खसं, सदा चित्तवम्मप्पमुहा पहाणा पञ्च पत्थिवा, तदो असामिक्खकारी एसो दुराआरो त्ति कट्टुअ, उज्झिअ मलअकेदुकडकभूमिं, णिअभूमिकुसलदाए भयविलोलसेण्णतणूकिदसेस-परिवारेसु सक सक विसअ अभिप्पत्थिदेसु, पत्थिवेसु भद्रभट-पुरु-दत्त हिङ्गरात बलउत्त-राजसण-भागुरायण-रोहितवम्म-विजयवम्मप्पमुहेहि सजमिदो मलअकेदू । (प्रियवयस्य ! तवापि किमश्रोतव्यमस्ति ? तन्निशा-मय— अस्ति तावदायर्चणक्यनीतिमोहितमतिना मलयकेतुहतकेन निरा-कृत्य राक्षस, हताश्चित्रवर्मप्रमुखा प्रधाना पञ्च पार्थिवा । ततो ऽसमीक्ष्यकारी एष दुराचार इत्युज्झित्वा मलयकेतु कटकभूमि निजभूमि-कुशलतया भयविलोलसैन्यतनूकृतशेषपरिवारेषु स्वकं स्वकं विषयमभि-प्रस्थितेषु पार्थिवेषु, भद्रभट पुष्पत्त-हिङ्गरात बलगुप्त-राजसेन-भागु-रायण-रोहिताक्ष-विजयवर्मप्रमुखै संयमितो मलयकेतु ।)

हिन्दी अनुवाद— **सिद्धार्थक—**प्रिय मित्र ! क्या तुम्हें भी न सुनाने योग्य ( कोई समाचार ) है ? तो सुनो—वात यह है कि आर्य चाणक्य की नीति से किंकर्तव्यविमूढ बने मलयकेतु न राक्षस को निकाल-बाहर करके चित्र-वर्मा आदि पाँच प्रधान राजाओ को मरवा डाला । तदनन्तर यह विना विचारे काम करने वाला दुराचारी है—ऐसा समझकर अपने अधिकार की रक्षा करने मे निपुण होने के कारण मलयकेतु के शिविर को त्यागकर भय से विह्वल सैनिको द्वारा अल्प किय गये अवशिष्ट अनुयायिवर्गों वाले राजाओ के अपने अपने देश को चले जाने पर भद्रभट, पुष्पत्त, हिङ्गरात, बलगुप्त, राजसेन, भागुरायण, रोहिताक्ष और विजयवर्मा आदि ने मलयकेतु को पकड लिया ।

टिप्पणी— निशामय— शृणु। चाणक्यनीतिमोहितमतिना— चाणक्यस्य नीति नयः तया मोहिता वशीकृता मति बुद्धि. यस्य तथाभूतेन । मलयकेतुहतकेन— मलयकेतुश्चासौ हतक मलयकेतुहतक 'कुत्सितानि कुत्सितैः' इति समाम , तेन । निराकृत्य— पृथक्कृत्य । असमीक्ष्यकारी— जाल्मः । सम्√ईक्ष्+क्त्वा—ल्यप्=समीक्ष्य । न समीक्ष्य असमीक्ष्य । असमीक्ष्य कर्तु शीलमस्य इति असमीक्ष्य√कृ+णिनि कर्तरि ताच्छील्ये,

षष्ठाङ्कः ३४५

उपपदतत्० । दुराचारः— दुः दुष्ट आचारः व्यवहारः यस्य स दुराचारः प्रादिबहुव्रीहि स० । **उज्झित्वा—**परित्यज्य । **भयविलोलासैन्यतनूकृतशेषपरिवारेषु—**भयेन साध्वसेन विलोलानि चपलानि विह्वलानि वा सैन्यानि, तैः तनूकृताः शेषाः परिवाराः येषां ते तथोक्ताः, तेषु । **विषयम्—**जनपदम् । **संयतितः—**धृतः ।

सुसिद्धार्थकः— वअस्स ! भद्दभटप्पमुहा किल देअस्स चन्दासिरिणो अवरत्ता मलअकेदुं समास्सिदा त्ति लोए मन्तीअदि । ता किं णिमित्त एदं कुकविणाडअस्स विअ अण्णं मुहे अण्णं णिव्वहणे त्ति ? (वयस्य ! भद्रभटप्रमुखाः किल देवस्य चन्द्रश्रियोऽपरक्ता मलयकेतुं समाश्रिता इति लोके मन्त्र्यते । तत् किं निमित्तमेतत् कुकविनाटकस्येवान्यन्मुखेऽन्यन्निर्वहण इति ?)

सिद्धार्थकः— वअस्स ! सुणु दाव, दैवगदीए विअ असुणिदगदीए णमो अज्जचाणक्कणीदीए । (वयस्य ! शृणु तावत्, देवगत्ये इवाश्रुतगत्यै नम आर्यचाणक्यनीतये ।)

सुसिद्धार्थकः— अअस्स ! तदो तदो ? (वयस्य ! ततस्ततः ?)

सिद्धार्थकः— बअस्स ! तदो प्पहुदि, सारसाहणसमुदएण इदो णिक्कमिअ अज्जचाणक्केण पडिवण्णं अराअलोअं असेसराअबलं । (वयस्य ! ततः प्रभृति सारसाधनसमुदयेनेतो निष्क्रम्य आर्यचाणक्येन प्रतिपन्नमराजलोकमशेषराजबलम् ।)

सुसिद्धार्थकः— बअस्स ! कहिं ? (वयस्य ! कुत्र ?)

सिद्धार्थकः— बअस्स ! जहिं एदे,—(वयस्य ! यत्रैते,—)

अदिसअगुरुएणं दाणदप्पेण दन्ती
सजलजलदलीला उव्वहन्ता णदन्ति ।
कसपहरभएण जादकम्पा तुरन्ता
गहिदजअणसज्जा सपदन्त तुलगा ॥ ३ ॥
( अतिशयगुरुकेण दानदर्पेण दन्तिनः
सजलजलदलीलामुद्वहन्तो नदन्ति ।

१४६ मुद्राराक्षसम्

कशाप्रहारभयेन जातकम्पास्त्वरयन्त गृहीतजयनसज्जाः सम्पद्यन्ते तुरङ्गाः ॥ ३ ॥

अन्वय — गृहीतजयनसज्जाः दन्तिनः अतिशयगुरुकेण दानदर्पेण सजल-जलदलीलाम् उद्दहन्तः नदन्ति। तुरङ्गाः कशाप्रहारभयेन जातकम्पाः त्वरयन्तः सम्पद्यन्ते ॥ ३ ॥

व्याख्यागृहीतजयनसज्जाः — गृहीतः परिहितः जयनस्य युद्धस्य सज्जा वेशो यै स्तादृशाः, दन्तिनः — गजाः, अतिशयगुरुकेण — अतिप्रवृद्धेन, दानदर्पेण — मदजलगर्वेण, सजलजलदलीलाम् — सजलानां जलपूर्णानां जलदानां मेघानां लीलाम् चरितम्, उद्वहन्तः — धारयन्तः, नदन्ति — गर्जन्ति। तुरङ्गाः — अश्वा कशाप्रहारभयेन — कशायाः ताडन्या प्रहारः आघातः तस्मात् यत् भय भीतिः तेन, जातकम्पा — जात उत्पन्नः कम्पः कम्पनं येषां तादृशाः, (अतएव) त्वरयन्त — (स्वारोहिणः) त्वरावन्तो विदधतः, सम्पद्यन्ते — सन्नद्धा भवन्ति ॥ ३ ॥

हिन्दी अनुवादसुसिद्धार्थक — मित्र ! भद्रभट आदि महाराज चन्द्रगुप्त से विरक्त होकर मलयकेतु के आश्रय में चले गये—ऐसा लोगों में कहा जाता है। तो किस कारण यह अयोग्य कवि के द्वारा रचित नाटक की तरह मुख-सन्धि (अर्थात् प्रारम्भ) में कुछ और तथा निर्वहणसन्धि (अर्थात् अन्त) में कुछ और हो रहा है ?

सिद्धार्थक — मित्र ! सुनो, देवता के गति के समान न सुनी गई गति वाली आर्य चाणक्य की नीति को नमस्कार है।

सुसिद्धार्थक — मित्र ! तब क्या हुआ ?

सिद्धार्थक — मित्र ! तत्पश्चात् उत्कृष्ट सेना के समूह के साथ आर्य चाणक्य ने यहाँ से निकलकर नृपसमूह से रहित सम्पूर्ण राजसेना को अधिकार में कर लिया।

सुसिद्धार्थक — मित्र ! कहाँ ?

सिद्धार्थक — मित्र ! जहाँ ये—

युद्ध के वेश को धारण किये हुये हाथी अत्यन्त बढे हुये मदजल के गर्व

षष्ठोऽङ्कः ३४७

से सजल मेघों की भाँति लीला करते हुए गर्जन कर रहे हैं और घोड़े चाबुक की मार के भय से काँपते हुए तथा ( अपने सवारों को ) शीघ्रतायुक्त करते हुए ( युद्धार्थ ) तत्पर हो रहे हैं ॥ ३ ॥

टिप्पणीचन्द्रश्रियः—अत्र शेषे षष्ठी । चन्द्रश्रियः चन्द्रगुप्तस्य सम्बन्धे अपरक्ताः । मन्त्र्यते—कथ्यते । मुखे—मुखसन्धौ प्रारम्भे इत्यर्थः । निर्वहणे—निर्वहणसन्धौ—उपसंहारे इत्यर्थः । निरुह्यते इतस्तत आदाय पिण्डीक्रियते एकार्थीक्रियते अस्मिन् इति निर्√वह्+ल्युट् अधिकरणे = निर्वहणम् । अश्रुतगत्यै—अश्रुता गतिर्यस्याः सा अश्रुतगतिः, तस्यै अनाकर्णितकृत्यै इत्यर्थः । आर्यचाणक्यनीत्यै—अत्र नमः शब्दयोगे चतुर्थी । सारसाधनसमुदयेन—साध्यते अनेन इति √साध्+ल्युट् करणे = साधनम् = सैन्यम् । सारं साधनम्, तस्य समुदयेन समूहेन । प्रतिपन्नम्—अधिकृतम् । अराजलोकम्—नृपजनरहितम् । अशेषराजबलम्—समस्तनृपसैन्यम् । अतिशयगुरुकेण—गुरुरेव गुरुकः अतिशयश्चासौ गुरुकः अतिशयगुरुकः, तेन = अतिप्रवृद्धेन वा अतिप्रबलेन । जातकम्पास्त्वरयन्तः—यहाँ 'जातकम्पोत्तरङ्गाः' पाठभेद मिलता है । अर्थ होगा—काँपते हुए तथा चंचल । अर्थात् घोड़े इस तरह काँप रहे है कि मानो तरंगों के समान चक्कर काट रहे हैं । इस श्लोक के पूर्वार्ध में उपमा तथा रूपक का सन्देहसङ्कर है और उत्तरार्ध में समासोक्ति तथा पदार्थहेतुक काव्यलिंग अलंकार हैं । इसमे मालिनी छन्द है । मालिनी का लक्षण ३, १५ में देखिए ॥ ३ ॥

सुसिद्धार्थकः—बअस्स ! एदं सव्वं दावं चिट्ठदु, तहा सव्वलोअपच्चक्खं उज्जआहिआरो भविअ कहं अज्जचाणक्‍को पुणो बि तं ज्जेब मन्तिपदं आरूढो ? ( वयस्य ! एतत् सर्वं तावत् तिष्ठतु । तथा सर्वलोकप्रत्यक्षमुज्झिताधिकारो भूत्वा कथमार्थचाणक्यः पुनरपि तदेव मन्त्रिपदमारूढः ? )

सिद्धार्थकः—बअस्स ! अदिमुद्धो दाणी सि तुमं, जो अमच्चरक्खसेण अणवगाहिदपुव्वं अज्जचाणक्कबुद्धिं अवगाहिदुं इच्छसि ? ( वयस्य ! अतिमुग्ध इदानीमसि त्व, योऽमात्यराक्षसेनानवगृहीतपूर्वामार्यचाणक्यबुद्धिमवगाहितुमिच्छसि । )

३४८ मुद्राराक्षसम्

सुसिद्धार्थकः—वअस्स ! अध अमच्चरक्खसो दाणी कहिँ ? ( वयस्य ! अथाऽमात्यराक्षस इदानीं कुत्र ? )

सिद्धार्थक —वअस्स ! सोक्खु तस्सिं पलयकोलाहले वड्ढमाणे मलयकेदुकडआदो णिक्कमित्र उन्दुरणामहेएण चरेण अणुसरन्तो इमं ज्जेव कुसुमउर आगदो त्ति अज्जचाणक्कस्स णिवेदितं । ( वयस्य ! स खलु तस्मिन् प्रलयकोलाहले वर्धमाने मलयकेतुकटकात् निष्क्रम्योन्दुरनामधेयेन चरेणानुश्रियमाण इदमेव कुसुमपुरमागत इत्यार्यचाणक्यस्य निवेदितम् । )

हिन्दी अनुवाद—सुसिद्धार्थक—मित्र ! यह सब रहे। उस प्रकार सब लोगों के सामने अधिकारत्यागी होकर आर्य चाणक्य ने फिर मन्त्री का पद कैसे ग्रहण कर लिया ?

सिद्धार्थक—मित्र ! तुम इस समय अत्यन्त अबोध हो, जो कि पहले अमात्य राक्षस के द्वारा न समझी गई आर्य चाणक्य की बुद्धि को समझना चाहते हो ।

सिद्धार्थक—मित्र ! अच्छा, इस समय अमात्य राक्षस कहाँ है ?

सिद्धार्थक—मित्र ! वह तो उस ( मलयकेतु के शिविर ) में प्रलयकालीन जैसे कोलाहल के बढ़ जाने पर मलयकेतु के शिविर से निकलकर उन्दुर नामक गुप्तचर के द्वारा पीछा किया जाता हुआ इसी कुसुमपुर में आ गया है—यह आर्य चाणक्य से निवेदन कर दिया गया है ।

टिप्पणी—एतत् सर्वं तिष्ठतु—अर्थात् यह सब रहने दो। सर्वलोकप्रत्यक्षम्—समस्तजनसमक्षम् । उज्झिताधिकार —उज्झितः त्यक्तः अधिकारः मन्त्रिपदं येन तादृशः । आरूढ —प्राप्तः । स्वीकृतवानित्यर्थः । अतिमुग्ध —अतिगतावाध । अनवगृहीतपूर्वाम्—पूर्वमज्ञाताम् । अवगाहितुम्—ज्ञातुम् । प्रलयकोलाहले—प्रलयकालिककोलाहलसदृशे कोलाहले । अत्र 'यस्य च भावेन भावलक्षणम्' इति सूत्रेण सप्तमी । अनुश्रियमाण —अनुगम्यमानः । आर्यचाणक्यस्य—अत्र शेषत्वविवक्षया षष्ठी । आर्यचाणक्य पुरत इति निवेदितम् ।

षष्ठोऽङ्कः । ३४६

सुसिद्धार्थकः—बअस्स ! तहा णाम अमच्चरक्खसो णन्दरज्जप्पच्चाणअणे किदव्ववसाओ णिक्कमिअ सम्पदं अकिदत्थो पुणो बि कहं इमं ज्जेव कुसुमउरं आअदो ? ( वयस्य ! तथा नाम अमात्यराक्षसो नन्दराज्यप्रत्यानयने कृतव्यवसायो निष्क्रम्य साम्प्रतमकृतार्थः पुनरपि कथमिदमेव कुसुमपुरमागतः ? )

सिद्धार्थकः—बअस्स ! तक्केमि, चन्दणदासस्स सिणेहेण त्ति । ( वयस्य ! तर्कयामि, चन्दनदासस्य स्नेहेनेति । )

सुसिद्धार्थकः—बअस्स ! सच्चं चन्दणदासस्स सिणेहेण त्ति ? अध चन्दणदासस्स मोक्खं पेक्खसि ? ( वयस्य ! सत्य चन्दनदासस्य स्नेहेनेति ? अथ चन्दनदासस्य मोक्षं प्रेक्षसे ? )

सिद्धार्थकः—वअस्स ! कुदो से अधण्णस्स मोक्खो ? सो क्खु सम्पदं अज्जचाणक्कस्स आणत्तीए दुवेहिं पि अम्हेहि बज्झट्ठाणं पवेसिअ वावादइदव्वो । ( वयस्य ! कुतोऽस्याधन्यस्य मोक्षः ? स खलु साम्प्रतमार्यचाणक्यस्याऽऽज्ञप्त्या द्वाभ्यामप्यावाभ्यां वध्यस्थानं प्रवेश्य व्यापादयितव्यः । )

सुसिद्धार्थकः [सक्रोधम्] बअस्स ! किं अज्जचाणक्कस्स घादअजणो अण्णो णत्थि, जेण अम्हे ईदिसे णिसंसे कम्मे णिजुज्जीअदि ? (वयस्य ! किलार्यचाणक्यस्य घातकजनोऽन्यो नास्ति, येनावामीदृशे नृशंसे कर्मणि नियुज्यावहे ? )

सिद्धार्थकः—वअस्स ! को जीवलोए जीविदुकामो अज्जचाणक्कस्स आणत्तिं पडिकूलेदि ? ता एहि, चंडालवेसधारिणा भविअ चन्दणदासं वज्झट्ठाणं णेह्म । ( वयस्य ! को जीवलोके जीवितुकामः आर्यचाणक्यस्याज्ञप्ति प्रतिकूलयेत् ? तदेहि, चाण्डालवेशधारिणौ भूत्वा चन्दनदासं वध्यस्थानं नयावः । )

[ इत्युभौ निष्क्रान्तौ ]

प्रवेशकः

हिन्दी अनुवाद—सुसिद्धार्थक— मित्र ! उस प्रकार नन्दराज्य को लौटाने

३५०मुद्राराक्षसम्

में प्रयत्नशील अमात्य राक्षस निकलकर सम्प्रति असफल होते हुए फिर इसी कुसुमपुर में कैसे आ गए ?

सिद्धार्थक—मित्र ! मैं अनुमान करता हूँ कि चन्दनदास के स्नेह के कारण ।

सुसिद्धार्थक—मित्र ! सचमुच चन्दनदास के स्नेह के कारण ? क्या तुम चन्दनदास के छुटकारे की संभावना कर रहे हो ?

सिद्धार्थक—मित्र ! उस अभागे का छुटकारा कहाँ ? उसे तो इस समय आर्य चाणक्य की आज्ञा से हम दोनों के द्वारा वध्य स्थान में प्रवेश कराकर मार डालना है ।

सुसिद्धार्थक—[ क्रोध के साथ ] मित्र ! क्या आर्य चाणक्य को दूसरा कोई वधिक नहीं मिला, जिससे हम दोनों को ऐसे क्रूर कार्य में नियुक्त कर दिया ?

सिद्धार्थक—मित्र ! संसार में जीवन चाहने वाला कौन आर्य चाणक्य की आज्ञा अस्वीकार करता है ? इसलिए आओ चंडाल का वेश धारण करके चन्दनदास को वध्यस्थान में ले चलते हैं ।

[ दोनों बाहर चले जाते हैं । ]

प्रवेशक समाप्त

टिप्पणीकृतव्यवसाय—विहितोद्योग । अकृतार्थ—असफल । तर्कयामि—सम्भावयामि । अथ—अत्र प्रश्नार्थकोऽयं शब्दः । 'मङ्गलानन्तरारम्भप्रश्नकात्स्न्र्येष्वथो अथ' इत्यमरः । अधन्यस्य—हतभाग्यस्य । आज्ञप्या—आज्ञया । आ√ज्ञप्+णिच्+क्तिन् भावे=आज्ञप्ति, तया । व्यापादयितव्य—हन्तव्यः । वि आ√पद्+णिच्+तव्य कर्मणि । जीवितुकाम—अत्र 'लुम्पेदवश्यम् कृञ्ये' इति कारिकया मलोपः । प्रतिकूलयति—अन्यथाकरोति अस्वीकरोति वा । प्रतिकूलेन योजयति इति प्रतिकूल+णिच्+लट्—तिप् । प्रवेशक—दे० ५वें अंक में श्लोक ३ से पूर्व टिप्पणी ।

[ ततः प्रविशति रज्जुहस्तः पुरुषः । ]

षष्ठोऽङ्कः । ३५१

पुरुषः—

छग्गुणसंजोअदिढ़ा उवाअपरिवाडिघडिदपाशमुही।
चाणक्कणीदिरज्जू रिउसंजमणउज्जुआ जयदि ॥४॥
( षड्गुणसंयोगदृढा उपायपरिपाटीघटितपाशमुखी।
चाणक्यनीतिरज्जू रिपुसंयमनऋजुका जयति ॥४॥)

[ परिक्रम्यावलोक्य च ] एसो सो अज्जचाणक्कस्स उन्दुरएण चरेण कधिदो प्पदेसो, जहिं मए अज्जचाणक्काणत्तीए अमच्चरक्खसो प्पेक्खिदब्बो। [ विलोक्य ] कहं एसो क्खु अमच्चरक्खसो किदसीसाबगुण्ठणो इदो ज्जेब आअच्छदि। ता जाव इमेहिं जिण्णु ज्जाणपादवेहिं अववारिदसरीरो प्पेक्खामि, कहिं आसणपरिग्गहं करेदि। (एष स आर्यचाणक्यस्योन्दुरकेण चरेण कथितः प्रदेशः, यत्र मयाऽऽर्यचाणक्याज्ञप्त्याऽमात्यराक्षसः प्रेक्षितव्यः। कथमेष खल्वमात्यराक्षसः, कृतशीर्षावगुण्ठन इत एवागच्छति। तद्यावदेभिर्जीर्णोद्यानपादपैरपवारितशरीरः प्रेक्षे, कुत्रासनपरिग्रहं करोतीति। [ इति परिक्रम्य तथा स्थितः। ]

अन्वयः— षड्गुणसंयोगदृढा उपायपरिपाटीघटितपाशमुखी रिपुसंयमनऋजुका चाणक्यनीतिरज्जुः जयति ॥४॥

व्याख्या— षड्गुणसंयोगदृढा— सन्धिविग्रहायानासनद्वैधाश्रयात्मकानां षण्णां गुणानां संयोगेन संघटनाया दृढा दुर्भेद्या ( रज्जुपक्षे—) षण्णां गुणानां षड्गुणितानां रज्जूनां संयोगेन सग्रथनेन दृढा अच्छेद्या, उपायपरिपाटीघटितपाशमुखी— उपायानां सामादिचतुष्टयानां परिपाट्या क्रमसमावेशेन घटितः रचितः यः पाशः जालं स मुखे प्रान्ते यस्याः तादृशी ( रज्जुपक्षे— ) उपायानां बहुविधनैपुण्यानां परिपाट्या घटितः यः पाशः स मुखे यस्याः तादृशी, रिपुसंयमनऋजुका— रिपोः शत्रोः यत् संयमनं बन्धनं तेन ऋजुका ऋज्वी सरला, चाणक्यनीतिरज्जुः— चाणक्यस्य कौटिल्यस्य नीतिः नयः एव रज्जुः दाम सा ( रज्जुपक्षे— ) चाणक्यनीतिः इव रज्जुः बन्धनदाम, जयति— जयेन युज्यते ॥४॥

हिन्दी अनुवाद— [तदनन्तर हाथ में रस्सी लिये एक पुरुष प्रवेश करता है।]

३५२ मुद्राराक्षसम्

पुरुष—(सन्धि, विग्रह आदि) छह गुणों के संयोग के कारण दृढ़, (साम, दान आदि) उपायों के क्रम से रचित पाश रूपी मुख वाली और शत्रु के बाँधने से सीधी चाणक्य की नीति रूपी रस्सी विजयी हो रही है। (रस्सी के पक्ष में—) छह डोरों के प्रयोग के कारण दृढ़, विविध कौशल-परम्परा में रचित पाश रूपी छोर वाली तथा शत्रु के बाँधने से सीधी चाणक्य की नीति के समान रस्सी उत्कर्ष प्राप्त कर रही है ॥४॥

[ घूमकर और देखकर ] यह वही आर्य चाणक्य के उन्दुरक नामक गुप्त-चर का बताया हुआ स्थान है, जहाँ मुझे आर्य चाणक्य की आज्ञा से अमात्य राक्षस को देखना है। [ देखकर ] कैसे ये अमात्य राक्षस सिर को ढके हुए इधर ही आ रहे हैं ? तो तब तक इन उद्यान के पुराने वृक्षों से शरीर को छिपाये हुए देखता हूँ कि (ये) कहाँ बैठते हैं। [ घूमकर उसी तरह खड़ा हो गया। ]

टिप्पणी—प्रेक्षितव्य —अवलोकितव्यः । कृतशीर्षावगुण्ठनं—अव √गुण्ठ्+ल्युट्—अन भावे = अवगुण्ठनम् = ढकना । कृतं शीर्षम्य अवगुण्ठनं येन स कृतशीर्षावगुण्ठन । अपवारितशरीर —अपवादित तिरोहित शरीरं यस्य सः। षड्गुण —इस पद्य में रूपक और उपमा अलंकारों का संकर है और वह श्लेषालंकार से अनुप्राणित होकर पदार्थहेतुक काव्यलिंग अलंकार से संकीर्ण भी है। इसमें आर्या छन्द है। आर्या का लक्षण १, ५ में देखिए ॥ ४ ॥

[ तत प्रविशति यथानिर्दिष्ट सशस्त्रो राक्षस । ]

राक्षस —[ सवाष्पम् ] कष्ट, भो कष्टम् ॥

उत्सन्नाश्रयकातरेव कुलटा गोत्रान्तरं श्रीर्गता तामेवानुगता गतानुगतिकास्त्यक्तानुरागा प्रजा । आप्तैरप्यनवाप्तपौरुषफलै कार्यस्य धूर्हज्झिता किं कुर्वन्त्वथवोत्तमाङ्गरहितैर्नागैरिव स्थीयते ॥ ५ ॥

अन्वय — श्री उत्सन्नाश्रयकातरा कुलटा इव गोत्रान्तर गता । गतानुगतिका प्रजा त्यक्तानुरागा ताम् एव अनुगता । अनवाप्तपौरुषफलै आप्तै अपि कार्यस्य धू उज्झिता । अथवा किं कुर्वन्तु, उत्तमाङ्गरहितै नागै इव स्थीयते ॥ ५ ॥

षष्ठोऽङ्कः ३५३

व्याख्याश्रीः—लक्ष्मीः, उत्सन्नाश्रयकातरा—उत्सन्नः विनष्टः आश्रयः अवलम्बः यस्याः तादृशी चासौ कातरा व्याकुला, कुलटा—स्वैरिणी, इव, गोत्रान्तरम्—अन्यवंशम्, गता—प्राप्ता । गतानुगतिकाः—गतस्य प्राक्प्रस्थितस्य यत् अनुगतम् अनुगमनं तच्छीलाः, प्रजाः—प्रकृतयः, त्यक्तानुरागाः—त्यक्तः परिहृतः अनुरागः स्नेहः याभिः तथाभूताः ( सत्यः ) ताम्—लक्ष्मीम्, एव, अनुगताः—अनुसृताः । अनवाप्तपौरुषफलैः—अनवाप्तं न प्राप्तम् पौरुषस्य पुरुषकारस्य फलं यैः तादृशैः, आप्तैः—विश्वस्तैः, अपि, कार्यस्य—कर्त्तव्यस्य, धूः—भारः, उज्झिता—त्यक्ता । अथवा—आहोस्वित्, ( ते ) किं कुर्वन्तु—किं विदधतु, उत्तमाङ्गरहितैः—शीर्षवियुक्तैः, नागैः—हस्तिभिः, इव ( तैः ) स्थीयते—वर्त्यते ॥ ५ ॥

हिन्दी अनुवाद—[ तत्पश्चात् हाथ में शस्त्र लिये सिर ढके राक्षस प्रवेश करता है । ]

राक्षस—[ आँसू के साथ ] अजी ! कष्ट है, कष्ट !!

लक्ष्मी आश्रय के विनष्ट हो जाने से व्याकुल कुलटा स्त्री के समान दूसरे कुल में चली गई। गये हुए के पीछे चलने वाली तथा अनुराग का त्याग किये हुई प्रजायें उसी ( लक्ष्मी ) के पीछे चली गईं। पुरुषार्थ का फल न प्राप्त करने वाले विश्वस्त जनों ने भी कार्य के भार को छोड़ दिया । अथवा ( वे ) क्या करें ( वे तो ) सिर से रहित हाथियों के तरह रह रहे हैं ॥ ५ ॥

टिप्पणीयथानिर्दिष्टः—यथा यद्वत् निर्दिष्टः वर्णितः पुरुषेण । सुप्सुपा स० । उत्सन्न—नष्ट । उद् √ सद् + क्त कर्तरि । कुलटा—पुंश्चली, उत्कुला । अटति परित्यज्य गच्छति इति अटा √ अट् + अच् कर्तरि स्त्रियाम् । कुलस्य अटा कुलटा शकन्ध्वादित्वात् पररूपम् । गतानुगतिकाः—अनुगतम् अनुगमनम् भावे क्तः । गतस्य अनुगतम् । तत् अस्ति एषां शीलत्वेन इति गतानुगत + ठन्—इक मत्वर्थे । नागैरिव—हाथियों या सर्पों की भाँति । भाव यह है कि जैसे हाथी या साँप शक्तिशाली होते हुए भी सिर से रहित होने पर अकिञ्चित्कर हो जाते हैं उसी तरह उत्कृष्ट शक्ति से सम्पन्न होने पर भी आप्त जन नायक के अभाव में कुछ भी नहीं कर पा रहे हैं । इस श्लोक में पूर्णोपमा,

मु० रा०—२३

३५४ | मुद्राराक्षसम्

काव्यलिंग तथा श्लेषानुप्राणित उपमा अलंकारों की संसृष्टि है। इसमें शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ में देखिए ॥ ५ ॥

अपि च—

पतिं त्यक्त्वा देवं भुवनपतिमुच्चैरभिजनं
गता छिद्रेण श्रीवृषलमविनीतेव वृषली ।
स्थिरीभूता चास्मिन् किमिह करवाम स्थिरमपि
प्रयत्नं नो येषां विफलयति दैव द्विषदिव ॥ ६ ॥

अन्वयः—श्रीः उच्चैरभिजनं भुवनपतिं देवं त्यक्त्वा अविनीता वृषली इव छिद्रेण वृषलं गता अस्मिन् स्थिरीभूता च । इह किं करवाम येषां न स्थिरमपि प्रयत्नं द्विषदिव दैव विफलयति ॥६॥

व्याख्याश्रीः—लक्ष्मी, उच्चैरभिजनम्—उच्चे उन्नत अभिजन वंशः यस्य तादृशं, भुवनपति—जगत्प्रभुं, पतिं—स्वामिनं, देवं—राजानं नन्दं, त्यक्त्वा—विहाय, अविनीता—विनयरहिता दुश्चरितेति यावत्, वृषली इव—शूद्रा इव, छिद्रेण—रन्ध्रेण भर्तुरनवधानतयेति यावत्, वृषलं—मौर्यं, गता—समाश्रिता, अस्मिन्—मौर्ये, स्थिरीभूता च—अचला विद्यते च । इह—अस्मिन् विषये, किं करवाम—किं विदधाम वयमिति शेषः, येषाम्, न—अस्माकं स्थिरमपि—दृढमपि, प्रयत्न—प्रयासः, द्विषदिव—शत्रुरिव, दैव—भाग्यं, विफलयति—विफलीकरोति ॥६॥

हिन्दी अनुवाद—और भी—

लक्ष्मी विशाल कुल में उत्पन्न सम्राट् पति महाराज (नन्द) को छोड़कर दुश्चरित्र शूद्रा के समान छल से मौर्य के पास चली गई और उस (मौर्य) में अचल (भी) हो गई । इस विषय में हम क्या करें, जिन हमारे सुदृढ प्रयत्न को भी शत्रु के समान भाग्य निष्फल कर देता है ॥६॥

टिप्पणीउच्चैरभिजनम्—अभिजायते अस्मिन् इति अभिजन = वंशः अभि√जन्+क घञर्थे । उच्चैः अभिजने यस्य स, तम् । भुवनपतिम्—संसार के स्वामी । इन दोनों विशेषणों से यह सूचित किया गया है कि नन्द छोड़ने योग्य नहीं थे, फिर भी लक्ष्मी ने उन्हें छोड़कर दुश्चरित्रा नीच स्त्री के

षष्ठोऽङ्कः ३५५

समान आचरण किया है। विफलयति—विफलं करोति इति विफल + णिच् + लट्—तिप्। इस श्लोक में दीपक, उपमा, अतिशयोक्ति तथा काव्यलिंग अलंकारों का संकर है। इसमें शिखरिणी छन्द है। इस छन्द का लक्षण १, १३ में देखिए ॥६॥

मया हि—

देवे गते दिवमतद्विधमृत्युयोग्ये
शैलेश्वरं तमधिकृत्य कृतः प्रयत्नः ।
तस्मिन् हते तनयमस्य तथाप्यसिद्धि-
र्दैवं हि नन्दकुलशत्रुरसौ न विप्रः ॥७॥

अन्वयः—अतद्विधमृत्युयोग्ये देवे दिवं गते तं शैलेश्वरम् अधिकृत्य प्रयत्नः कृतः। तस्मिन् हते अस्य तनयम् (अधिकृत्य प्रयत्नः कृतः) तथापि असिद्धिः। दैवं हि नन्दकुलशत्रुः असौ विप्रः न ॥७॥

व्याख्या—अतद्विधमृत्युयोग्ये—तद्विधः तादृशः पामरजनसुलभ इत्यर्थः यः मृत्युः मरणं तस्य योग्यो यो न भवति तस्मिन्, देवे—राजनि नन्दे, दिवं गते—स्वर्गं प्रयाते, तं—प्रसिद्धं, शैलेश्वरं—पर्वतेश्वरम्, अधिकृत्य—आश्रित्य, प्रयत्नः—उद्योगः, कृतः—विहितः। तस्मिन्—पर्वतेश्वरे, हते—(चाणक्येन) घातिते, अस्य—पर्वतेश्वरस्य, तनयम्—पुत्रम् मलयकेतुमिति यावत्, (अधिकृत्य प्रयत्नः कृतः), तथापि—कृतेऽपि महत्यपि प्रयासे, असिद्धिः—असफलता (जाता)। दैवं हि—भाग्यमेव, नन्दकुलशत्रुः—नन्दकुलविद्वेषी, असौ—एषः, विप्रः—ब्राह्मणः चाणक्यः, न—नहि (शत्रुः) ॥७॥

हिन्दी अनुवाद—मैंने—

उस प्रकार की मृत्यु के अयोग्य महाराज (नन्द) के स्वर्ग चले जाने पर उस पर्वतेश्वर का आश्रय लेकर प्रयत्न किया। उस (पर्वतेश्वर) के मार डाले जाने पर उसके पुत्र (मलयकेतु) का (आश्रय लेकर प्रयत्न किया)। तो भी सफलता नहीं मिली। भाग्य ही नन्दवंश का शत्रु है, वह ब्राह्मण (चाणक्य) नहीं ॥७॥

टिप्पणीअतद्विधमृत्युयोग्ये—तस्य विधा प्रकारः इव विधा अस्य

३५६ मुद्राराक्षसम्

इति तद्विधः । तद्विधः मृत्युः तद्विधमृत्युः । तस्य योग्यः । न तद्विधमृत्युयोग्यः अतद्विधमृत्युयोग्यः, तस्मिन् । इस पद्य में काव्यलिंग, परिसंख्या और अतिशयोक्ति अलंकारों की संसृष्टि है । इसमें वसन्ततिलका छन्द है । इस छंद का लक्षण १, ८ में देखिए ॥७॥

अहो ! विवेकशून्यता म्लेच्छस्य मलयकेतोः । कुतः ?

यो नष्टानपि जीवनाशमधुना शुश्रूषते स्वामिन- स्तेषां वैरिभिरक्षतः कथमसौ सन्धास्यते राक्षसः ? । इत्य वस्तु विवेकमूढमतिना म्लेच्छेन नालोचितं दैवेनोपहतस्य बुद्धिरथवा पूर्वं विपर्यस्यति ॥८॥

अन्वय — यः अधुना अपि जीवनाशं नष्टान् स्वामिनः शुश्रूषते असौ राक्षसः अक्षतः ( सन् ) तेषां वैरिभिः कथं सन्धास्यते ? इत्य वस्तुविवेकमूढ-मतिना म्लेच्छेन न आलोचितम्, अथवा दैवेन उपहतस्य बुद्धिः पूर्वं विपर्यस्यति ॥८॥

व्याख्या — यः — राक्षसः, अधुना अपि — इदानीमपि, जीवनाशं — समूलं, नष्टान् — मृतान्, स्वामिनः — प्रभून्, शुश्रूषते — परिचरति, असौ — एषः, राक्षसः — नन्दामात्यः, अक्षतः — अविनष्टदेहः (सन्), तेषां — स्वामिनां, वैरिभिः — शत्रुभिः (सह), कथं — केन प्रकारेण, सन्धास्यते — संधिं करिष्यति ? इत्थम् — एतत्, वस्तुविवेकमूढमतिना — वस्तुनः यथार्थविषयस्य विवेके विचारे मूढा अल्पा असमर्थेति यावत् मतिः बुद्धिः यस्य तादृशेन, म्लेच्छेन — यवनेन मलयकेतुना, न — नहि, आलोचितम् — विचारितम्, अथवा — पक्षान्तरे, दैवेन — भाग्येन, उपहतस्य — ताडितस्य, बुद्धिः — धीः, पूर्वं — प्राक्, विपर्य-स्यति — विपरीता भवति ॥८॥

हिन्दी अनुवाद — यवन मलयकेतु की विवेकहीनता पर आश्चर्य है । क्योंकि —

जो अभी भी समूल नष्ट हुए स्वामियों की सेवा कर रहा है, वह राक्षस अक्षतशरीर होता हुआ उन (स्वामियों) के शत्रुओं के साथ कैसे सन्धि कर लेगा ? इतना यथार्थ विषय के विवेक करने में असमर्थ बुद्धि वाले यवन

षष्ठोऽङ्कः ३५७

मलयकेतु ने नहीं सोचा। अथवा भाग्य से मारे हुए की बुद्धि पहले विपरीत हो जाती है ॥८॥

टिप्पणीजीवनाशम्—जीवन के नाश के साथ अर्थात् समूल। जीव $\sqrt{}$ नश् $+$ णामुल् 'कर्तॄजीवपुरुषयोर्नशिवहोः' इत्यनेन। कहीं 'बीजनाशम्' पाठ है। उसका भी अर्थ 'समूल' होगा। बीज $\sqrt{}$ नश् $+$ णामुल् 'उपमाने कर्मणि च' इत्यनेन। शुश्रूषते—अत्र 'ज्ञाश्रुस्मृदृशां सनः' इत्यनेन आत्मनेपदम्। विपर्यस्यति—वि-परि $\sqrt{}$ अस् $+$ लट्—तिप्। इस श्लोक में अर्थान्तरन्यास अलंकार है, प्रसाद गुण है और वैदर्भी रीति है। इसमें शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ में देखिए ॥८॥

तदिदानीमपि तावदरातिहस्तगतो विनश्येद्राक्षसो, न तु चन्द्रगुप्तेन सह सन्धिं कुर्यादिति; अथवा मम काममसत्यसन्ध इति, वरमयशः, न पुनः शत्रुवञ्चनपरिभूतिः। [ समन्तादवलोक्य सास्रम् ] एतास्ता देवस्य पादक्रमणपरिचयपवित्रीकृतरथ्याः कुसुमपुरोपकण्ठभूमयः।

इह हि—

शार्ङ्गं ज्याकृष्टिमुक्तप्रशिथिलकविकाप्रग्रहेणात्र देशे देवेनाकारि चित्रं प्रजविततुरगं बाणमोक्षश्चलेषु। अस्यामुद्यानराजौ स्थितमिह कथितं राजभिस्तैर्विनेत्थं सम्प्रत्यालोक्यमानाः कुसुमपुरभुवो भूयसा दुःखयन्ति ॥९॥

अन्वयः—अत्र देशे शार्ङ्गज्याकृष्टिमुक्तप्रशिथिलकविकाप्रग्रहेण देवेन चलेषु प्रजविततुरगं चित्रं बाणमोक्षः अकारि, अस्याम् उद्यानराजौ स्थितम्, इह राजभिः कथितम्; सम्प्रति तैः विना इत्थम् आलोक्यमानाः कुसुमपुरभुवः भूयसा दुःखयन्ति ॥९॥

व्याख्याअत्र देशे—अस्मिन् भूभागे, शार्ङ्गज्याकृष्टिमुक्तप्रशिथिलकविका-प्रग्रहेण—शार्ङ्गस्य धनुषः ज्या मौर्वी तस्याः आकृष्टः आकर्षणम् तया मुक्तः त्यक्तः ( अतएव ) प्रशिथिलः अतिश्लथः कविकायाः खलीनस्य प्रग्रहः रश्मिः यस्य तथाविधेन, देवेन—नन्देन, चलेषु—अस्थिरेषु, ( लक्ष्येषु ) प्रजविततुरगं प्रजवितः प्रवृद्धवेगः तुरगः अश्वः यस्मिन् कर्मणि तद् यथा तथा, ( अतएव )

३५८ मुद्राराक्षसम्

चित्र—महदाश्चर्यकारि, बाणमोक्ष.—शरत्याग., अकारि—कृत., अस्याम्— अमुष्याम्, उद्यानराजौ—उपवनपक्तौ, स्थितम्,—क्षणमुषितम्, इह— अस्मिन् स्थले, राजभि —नृपै, ( सह ) कथित—सम्भाषितम्, सम्प्रति— इदानीम्, तै —तदादिभिः राजभिः, विना—अन्तरा, इत्थम्—अनेन प्रकारेण, आलोक्यमाना —दृश्यमाना , कुसुमपुरभुव ,—पाटलिपुत्रभूमयः भूयसा— आधिक्येन, दु खयन्ति—क्लेशयन्ति ॥ ६ ॥

हिन्दी अनुवाद—इसलिए राक्षस अब भी शत्रु के हाथ में पड़कर नष्ट हो जायेगा, किन्तु चन्द्रगुप्त के साथ संधि नहीं करेगा। अथवा ( यह ) प्रतिज्ञा को पूर्ण करने वाला नहीं है—ऐसा अपयश मेरे लिए कही अच्छा है, किन्तु शत्रु के छल से पराजित होना ( अच्छा ) नहीं है। [ चारों ओर देखकर आंसू के साथ ] ये वे महाराज के चरणों के यास के परिचय से ( अर्थात् चरणों के बार-बार पड़ने से ) पवित्र किये हुए राजमार्ग ( या सतह ) वाली पाटलिपुत्र की समीपवर्तिनी भूमियाँ हैं।

यहाँ—

इस स्थान पर धनुष की डोरी के खींचने में छोड़ी हुई ढीली बागडोर वाले महाराज ने घोड़े को दौड़ाते हुए तथा आश्चर्यजनक रूप से लक्ष्यों पर बाणों को छोड़ा था। इस उपवन की पंक्ति में बैठे थे। यहाँ राजाओं के साथ बातचीत की थी। इस समय उनके बिना इस प्रकार देखी जाती हुई पाटलिपुत्र की भूमियाँ अत्यन्त क्लेश पहुँचा रही हैं ॥ ६ ॥

टिप्पणी—अरातिहस्तगतः—अराति शत्रु चन्द्रगुप्त । तस्य हस्तः । त गत द्वितीयातत्० । कामम्—यथेच्छम् । असत्यसन्ध —असत्या सधा प्रतिज्ञा यस्य स । वरम्—प्रियम् । अयश —अकीर्ति । शत्रुवञ्चनपरिभूति—शत्रो चाणक्यस्य वञ्चनेन प्रतारणेन परिभूति पराजयः । पादक्रमणपरिचयपवित्रीकृतरथ्या —पादक्रमण चरणाञ्चार तस्य यः परिचय. उपलब्धि तेन पवित्रीकृता पूता रथ्या प्रतोली यत्र तथाविधा । कुसुमपुरोपकण्ठभूमय —कुसुमपुरसमीपप्रदेशा । प्रजवित—प्रकृष्ट जव प्रजव प्रादिस० । स सञ्जात अस्य इति प्रजव+इतच् । तै —यह नन्द को सूचित करता है। आदरे बहुवचनम् । इस श्लोक में स्वभावोक्ति, दीपक तथा विनोक्ति

षष्ठोऽङ्कः | ३५६

अलंकारों की संसृष्टि है। इसमें स्रग्धरा छन्द है। स्रग्धरा का लक्षण १, १ में देखिए ॥ ६ ॥

तत् क्व खलु गच्छामि मन्दभाग्यः ? [ विलोक्य ] भवतु दृष्टमेतज्जोर्णोद्यानम्, अत्र प्रविश्य कुतश्चिच्चन्दनदासस्य वृत्तान्तमुपलप्स्ये । [ परिक्रम्य स्वगतम् ] अहो ! अलक्षितोपनिपाताः पुरुषाणां समविषमदशाविभागपरिणतयो भवन्ति । कुतः?—

पौरैरङ्गुलिभिर्नवेन्दुवदहं निर्दिश्यमानः शनैः यो राजेव पुरा पुरान्निर्गमं राज्ञां सहस्रैर्वृतः । भूयः सम्प्रति सोऽहमेव नगरे तत्रैव बन्ध्यश्रमो जीर्णोद्यानकमेष तस्कर इव त्रासाद् विशामि द्रुतम् ॥ १० ॥

अन्वयः—यः अहम् पुरा राज्ञां सहस्रैः वृतः राजा इव पौरैः अङ्गुलिभिः नवेन्दुवत् निर्दिश्यमानः ( सन् ) शनैः पुरात् निर्गमं स एव वन्ध्यश्रमः अहं सम्प्रति भूयः तत्रैव नगरे तस्कर इव त्रासात् द्रुतं जीर्णोद्यानकम् एव विशामि ॥ १० ॥

व्याख्या—यः, अहम्—राक्षसः, पुरा—पूर्वं जीवति नन्दे इत्यर्थः, राज्ञां सहस्रैः—नृपसमूहैः, वृतः—परिवारितः ( भूत्वा ), राजा इव—भूप इव, पौरैः—पुरवासिभिः, अङ्गुलिभिः—करशाखासंकेतेनेत्यर्थः, नवेन्दुवत्—नवोदितचन्द्र इव, निर्दिश्यमानः—प्रदर्श्यमानः ( सन् ), शनैः—मन्दगति, पुरात्—नगरात्, निर्गमम्—निर्गतवान्, स एव, वन्ध्यश्रमः—विफलप्रयासः, अहम्, सम्प्रति—अधुना, भूयः—पुनः, तत्रैव नगरे—तस्मिन्नेव पुरे, तस्कर इव—चौर इव, त्रासात्—भयात्, द्रुतं—सत्वरं, जीर्णोद्यानकम्—पुरातनाल्पोपवनम्, एषः, विशामि—प्रविशामि ॥ १० ॥

हिन्दी अनुवाद—तो मैं अभागा कहाँ जाऊँ ? [ देखकर ] अच्छा, इस पुराने उद्यान को देख लिया । इसमें प्रवेश करके कहीं से चन्दनदास का समाचार प्राप्त करूँगा । [ घूमकर मन में ] ओह ! मनुष्यों के अनुकूल और प्रतिकूल अवस्थाओं के विभाग के परिणाम बिना संभावना के आ टपकते हैं । क्योंकि—

१६० | मुद्राराक्षसम्

जो मैं पहले सहस्रो राजाओ से घिरा हुआ तथा राजा के समान नागरिकों के द्वारा अँगलियो से नवोदित चन्द्रमा की तरह दिखाया जाता हुआ धीरे-धीरे नगर से निकलता था, वही निष्फल प्रयास वाला मैं इस समय फिर उसी नगर मे चोर की भांति भय मे शीघ्रता के साथ जीर्ण-उपवन मे यह प्रवेश कर रहा हूँ ॥ १० ॥

टिप्पणीअलक्षितोपनिपाता —बिना दिखे अर्थात् अप्रत्याशित रूप से छा जाने वाले । न लक्षितः अलक्षितः । उप-नि√पद्+घञ् भावे = उपनिपाता । अलक्षिता उपनिपाता अलक्षितोपनिपाता = अतर्कितागमा । समविषमदशाविभागपरिणतय —समाश्च विषमाश्च समविषमा तादृश्य दशाः तासा विभागा तेषा परिणतय = तुल्यातुुल्यावस्थाव्यापार्यवयपरिणामाः । पौरै — प्राचीन समय मे जब राजा बाहर निकलता था तब नागरिक अपने-अपन घरो की छत पर, सडको पर खडे होकर उसे देखने थे और एक दूसरे को दिखात हुए कहने थे कि वह राजा जा रहा है, बात कर रहा है इत्यादि । उसी तरह राक्षस को भी देखकर लोग अगुल्या निर्देश करते थे । यहाँ उसी अवस्था का स्मरण राक्षस को हो रहा है । शनै —कहा भी है कि राजा, ज्ञानी, यौवनभाराक्रान्त युवती तथा गजराज धीरे-धीरे चलते हैं । निरगमम्—निर्√गम्+लुङ्—मिप् । तस्कर —'तत्—कर' इत्यवस्थायाम् 'तद्वृहतोः करपत्योश्चोरदेवतयोः' इत्यनेन सुट् तलोपश्चेति निपातनात् तस्करपदसिद्धि । जीर्णोद्यानकम्—कुत्सितम् उद्यानम् उद्यानक्म् उद्यान्+कन् । जीर्णञ्च तद् उद्यानकम् जीर्णोद्यानकम् । इस श्लोक में राक्षस ने अपनी पहली अवस्था और वर्तमान दोनो का चित्र खींचा है । जैसे—पहले 'राजा इव' और अब 'तस्कर इव' । पहले 'पश्यन्तु लोका इति शनै' और अब 'लोकाः मा द्राक्षुः' इति द्रुतम् । पहले 'पुरात्' और अब 'जीर्णोद्यानकम्' । पहले 'निरगमम्' और अब 'विशामि' इत्यादि । इस पद्य मे तीन उपमा अलकार और द्वितीय पर्याय अलकार है । इसमे शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥१०॥

अथवा, येषा प्रसादादिदमासीत् ते एव न सन्ति । [ नाट्येन प्रविश्य विलोक्य च ] अहो ! जीर्णोद्यानस्य नाभिरमणीयता । अत्र हि—