मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
२६६ मुद्राराक्षसम्
( राज्य ) कार्य सौंप देने वाले और ( अतएव ) स्वस्थ चित्तवृत्ति वाले पिता ( पर्वतेश्वर ) को बन्धुजनों के आँसुओं के साथ धराशायी करके तुम अर्थ की दृष्टि से भी राक्षस हो ( अर्थात् केवल नाम्ना ही राक्षस नहीं हो अपितु कर्मणा भी राक्षस हो ) ॥७॥
टिप्पणी—अये श्रुतम् क्षपणक को यह नहीं मालूम था कि मलयकेतु उसकी बात सुन रहा है। इसलिए जब मलयकेतु ने कहा कि मैंने सब कुछ सुन लिया तब वह बहुत प्रसन्न हुआ और यह कह उठा कि मैं कृतकृत्य हो गया । क्योंकि वह इसी कार्य के लिए नियुक्त था कि मलयकेतु के मन में पर्वतेश्वर की हत्या राक्षस ने करवाई है चाणक्य ने नहीं—इस बात को जमा दे । सो वह इस कार्य में सफल हो गया । बन्धुजनाक्षितोयै —बन्धुजनानाम् अक्षितोयैः = नेत्रजलै । निपात्य—प्राणैर्वियोज्य इत्यर्थ । अन्वर्थत —अर्थ का अनुसरण करते हुए, यथार्थ मे । अनुगतं अर्थम् अन्वर्थ , तेन । 'तृतीयायास्तसि' इत्यनेन तसिप्रत्यय । इस पद्य में अतिशयोक्तिमूलक सहोक्ति अलंकार है । इसमे वसन्ततिलका छन्द है । इस छन्द का लक्षण १, ८ में देखिए ॥७॥
भागुरायण —[ स्वगतम् ] रक्षणीया राक्षसस्य प्राणा इत्यार्यादेश । भवत्वेवं तावत् ! [ प्रकाशम् ] कुमार ! अलमावेगेन । आसनस्थं कुमारं किञ्चिद्विज्ञापयितुमिच्छामि ।
मलयकेतु —[ उपविश्य ] सखे ! किमसि वक्तुकाम ?
भागुरायण —कुमार ! खल्वर्थशास्त्रव्यवहारिणामर्थवशादरिमित्रोदासीनव्यवस्था न लौकिकानामिव स्वेच्छावशात् । यतस्तस्मिन् काले सर्वार्थसिद्धिं राजनमिच्छतो राक्षसस्य चन्द्रगुप्तादपि बलीयस्तया सुगृहीतनामा देव पर्वतेश्वर एवार्थपरिपन्थी महानरातिरासीत् । तस्मिंश्च काले राक्षसेनेदमनुष्ठितमिति नातिदोषमत्र पश्यामि । पश्यतु कुमार —
मित्राणि शत्रुत्वमिवानयन्ती मित्रत्वमर्थस्य वशाच्च शत्रून् । नीतिर्नयत्यस्मृतपूर्ववृत्तं जन्मान्तरं जीवत एव पुंसः ॥८॥
पंचमोऽङ्कः २६७
अन्वयः—अर्थस्य वशात् नीतिः अस्मृतपूर्ववृत्तं मित्राणि शत्रुत्वं शत्रून् च मित्रत्वम् इव आनयन्ती जीवत एव पुंसः जन्मान्तरं नयति ॥८॥
व्याख्या—अर्थस्य—प्रयोजनस्य, वशात्—अनुरोधात्, नीतिः—नय-व्यवहारः, अस्मृतपूर्ववृत्तम्—अस्मृतं स्मृतिपथमना रूढं पूर्ववृत्तं प्राग्व्यवहारः यस्मिन् तत् यथा तथा, मित्राणि—सुहृदः, शत्रुत्वं, शत्रून् च—अरींश्च, मित्रत्वम्—सुहृत्त्वम्, इव—तद्वत्, आनयन्ती—प्रापयन्ती, जीवत एव—अमृतानेव, पुंसः—पुरुषान्, जन्मान्तरम्—अन्यज्जन्म, नयति—प्रापयति ॥८॥
हिन्दी अनुवाद—भागुरायण—[ मन में ] राक्षस के प्राण बचाने चाहिए, यह आर्य (चाणक्य) की आज्ञा है। तब तक ऐसा हो। [ प्रकट रूप से ] कुमार ! क्रोध में न आवें। आसनासीन हुए कुमार से कुछ निवेदन करना चाहता हूँ।
मलयकेतु—[ बैठकर ] मित्र ! क्या कहना चाहते हो ?
भागुरायण—कुमार ! नीतिशास्त्र के अनुसरण करने वालों की शत्रु, मित्र और तटस्थ की व्यवस्था प्रयोजनवश हुआ करती है, साधारण व्यक्तियों की तरह स्वेच्छानुसार नही। क्योकि उस समय सर्वार्थसिद्धि को राजा बनाने की इच्छा करते हुए राक्षस के लिये चन्द्रगुप्त से भी बलवान् प्रातः स्मरणीय महाराज पर्वतेश्वर ही स्वार्थ में बाधक महान् शत्रु थे। (अतएव) उस समय राक्षस ने यह किया, इसलिए इसमें (उसका) बहुत दोष नही देखता हूँ। कुमार देखें—
प्रयोजनवश नीति पहले के व्यवहार को बिना स्मरणपथ में लाये मित्रों को शत्रु और शत्रुओं को मित्र के समान बनाती हुई जीवित ही पुरुषों को दूसरे जन्म मे पहुँचा देती है ॥८॥
टिप्पणी—अर्थशास्त्रव्यवहारिणाम्—नीतिशास्त्रानुसरणशीलानाम् । अर्थशास्त्रेण व्यवहर्तुं शीलमेषाम् इति अर्थशास्त्र—वि—अव √हृ + णिनि कर्तरि तच्छील्ये, तेषाम् । अर्थवशात्—अर्थस्य प्रयोजनस्य वशम् आयत्तता, तस्मात् । अरिमित्रोदासीनव्यवस्था—वि-अव √स्था + अङ् भावे = व्यवस्था । अरयश्च मित्राणि च उदासीनाश्च इति द्वन्द्व स०, तेषाम् व्यवस्था । लौकिकानाम्—लोकानुसरणशीलानाम् साधारणजनानामित्यर्थः । लोके भवाः
२६८ मुद्राराक्षसम्
लौकिकाः लोक + ठञ् अध्यात्मादित्वात् । अर्थपरिपन्थी—कार्यप्रतिद्वन्द्वी । परिपन्थ शब्द अव्युत्पन्न है । व्युत्पन्न शब्द है परिपथ । परितः पन्था इति परिपथः । 'परिपथशब्दपर्यायः परिपथशब्दः अस्ति' इति काशिका । परिपन्थः अस्ति अस्य इति परिपथ + इनि मत्वर्थे = परिपन्थी । 'रिपौ वैरिसपत्नारि'— इत्युपक्रम्य 'प्रत्यर्थिपथीन' इत्यमर । भानुजी के अनुसार 'परि दोषारव्यान पन्थयितु शीलमस्य इति परि√पन्थ ( गतौ चुरादि ) + णिनि कर्तरि ताच्छील्ये = परिपन्थी । अर्थस्य परिपन्थी । अराति —शत्रुः । अस्मृतपूर्ववृत्तम्— पूर्व वृत्तान्त का स्मरण किये बिना अर्थात् जैसे जन्मान्तर में पूर्वजन्म का वृत्तान्त नहीं किया जाता या दूसरे शब्दो मे स्मरण नही होता उसी तरह राजनीति में पहले के किये हुए अपकार आदि स्मरण नही किये जाते या दूसरे शब्दों में स्मरण होने पर भी भुला दिये जाते हैं । इस पद्य में उत्प्रेक्षा और अतिशयोक्ति अलंकारों की संसृष्टि है । इसमे इन्द्रवज्रा छन्द है । इस छन्द का लक्षण यह है—'स्यादिन्द्रवज्रा यदि तौ जगौ ग' ॥८॥
तदत्र वस्तुनि नोपालभ्यो राक्षस, आ नन्दराज्यलाभादनुग्राह्यश्च । परतस्तस्य परिग्रहे परित्यागे वा कुमार प्रमाणम् ।
मलयकेतु —एव भवतु । सखे ! सम्यक् दृष्टवानसि । अमात्यस्य वधे प्रकृतिक्षोभ स्यात् एवञ्च सन्दिग्धो विजय स्यात् ।
पुरुष — [ प्रविश्य ] जेदु कुमारो । अअ अज्जस्स गुम्मट्ठाणाधिकिदो दोहचक्खू अज्ज विण्णवेदि—एसो खु अह्मेहि कडआदो णिक्कमन्तो अग्गहीदमुद्दो मलेहो पुरिसो गहीदो, ता पच्चक्खीकरेदु ण अज्जो त्ति । ( जयतु कुमार । अयमार्यस्य गुप्तस्थानाधिकृतो दीर्घचक्षुरार्य विज्ञापयति—एष खल्वस्माभि कटकान्निष्क्रामन्नगृहीतमुद्र सलेखः पुरुषो गृहीतस्तत् प्रत्यक्षीकरोत्वेनमार्य इति । )
भागुरायण —भद्र ! प्रवेशय ।
पुरुषः—ज अज्जो आणवेदि । ( यदार्य आज्ञापयति ) [ इति निष्क्रान्त । ]
[ ततः प्रविशति पुरुषेणानुगम्यमान सयत सिद्धार्थक । ]
पञ्चमोऽङ्कः २६६
सिद्धार्थकः— [ स्वगतम् ]
तिप्पन्तीए गुणेसुं दोसेसुं परंमुहं करन्तीए ।
अह्मारिसजणणीए प्पणमामो सामिभत्तीए ॥६॥
(तृप्यन्त्यै गुणेषु दोषेषु पराङ्मुखं कुर्वन्त्यै ।
अस्मादृशजनन्यै प्रणमामः स्वामिभक्त्यै ॥६॥)
अन्वयः— गुणेषु तृप्यन्त्यै दोषेषु पराङ्मुखं कुर्वन्त्यै अस्मादृशजनन्यै स्वामिभक्त्यै प्रणमामः ॥६॥
व्याख्या— गुणेषु—उत्कर्षेषु, तृप्यन्त्यै—सन्तुष्टायै, दोषेषु—अपराधेषु, पराङ्मुखं—विमुखं, कुर्वन्त्यै—विदधत्यै, अस्मादृशजनन्यै—अस्मादृशानां मद्विधानां जनन्यै ( अन्नदानादिपोषणकर्मभिः ) मातृरूपायै, स्वामिभक्त्यै—प्रभुसेवायै, प्रणमामः—नमस्कुर्मः ॥६॥
हिन्दी अनुवाद— इसलिए इस ( पर्वतेश्वर के वध के ) विषय में राक्षस को उलाहना नही देना चाहिए, प्रत्युत नन्द-राज्य के मिलने तक ( उस पर ) अनुग्रह करना चाहिए। बाद में स्वीकार करने में या परित्याग करने में कुमार प्रमाण हैं ( अर्थात् आपकी इच्छा है।)
मलयकेतु— ऐसा ही रहे। मित्र ! तुमने अच्छा सोचा है। अमात्य के वध करने पर प्रजा में विद्रोह उठ खड़ा होगा और इस प्रकार विजय संदिग्ध हो जाएगी।
पुरुष— [ प्रवेश करके ] कुमार की जय हो। ये आर्य के प्रधान शिविरपाल दीर्घचक्षु आर्य से निवेदन करते हैं—'बिना मुद्रा लिये एक लेख-पत्र के साथ शिविर से निकलते हुए इस पुरुष को हमने पकड़ा है, इसलिए आर्य इसको देखें।
भागुरायण— भद्र ! प्रवेश कराओ।
पुरुष— आर्य की जैसी आज्ञा। [ बाहर चला जाता है। ]
[ तदनन्तर बँधे हुए सिद्धार्थक और पीछे-पीछे एक पुरुष का प्रवेश ]
सिद्धार्थक— [ मन में ]
गुणों से संतुष्ट और दोषो से विमुख करने वाली हम लोगों की मातृतुल्य स्वामि-भक्ति को प्रणाम है ॥६॥
३०० मुद्राराक्षसम्
टिप्पणी—अत्र वस्तुनि—अस्मिन् पर्वतेश्वरवधे इत्यर्थः । अनुग्राह्य—अनु√ग्रह्+ण्यत् कर्मणि । प्रमाणम्—निदर्शनम् । नन्दराज्यप्राप्त्युत्तरकाले यथा भवत रोचते तथा करिष्यतीत्यर्थः । सन्दिग्ध—सन्देहयुक्तः । सम्√दिह्+क्त अधिकरणे 'तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः' इत्यनेन । गुल्मस्थानाधिकृत—शिविरप्रधानद्वारपालकः । गुल्मस्थाने अधिकृतः । गुणेषु—अत्र विषयाधिकरणे सप्तमी । तृप्यन्त्यै—तृपेरन्तर्भावितण्यन्तत्वात् तृप्तिप्रदायिन्यै इत्यर्थः । स्वामिभक्त्यै—यह प्रणामम्' का कर्म है । इसलिए 'स्वामिभक्तिम्' प्रयोग होना चाहिए था । किन्तु 'स्वामिभक्तिमनुकूलयितु प्रणामम्' इस विवक्षा में 'क्रियार्थोपपदस्य च कर्मणि स्थानिन' इस सूत्र से चतुर्थी होने पर 'स्वामिभक्त्यै' प्रयोग हो सकता है । इस पद्य मे निरङ्गरूपक अनकार है और आर्या छन्द है । आर्या का लक्षण १, ५ में देखिए ॥ ६ ॥
पुरुष—[ उपसृत्य ] अज्ज ! अअ सो पुरिसो । ( आर्य ! अय स पुरुष । )
भागुरायण—[ नाट्येनावलोक्य ] भद्र ! किमयमभागन्तुक, आहो स्विदिहैव कस्यचित्परिग्रहः ?
सिद्धार्थक—अज्ज ! अह क्खु अमच्चरक्खसस्स सेवओ । ( आर्य ! अह खल्वमात्यराक्षसस्य सेवक । )
भागुरायण—भद्र ! तत् किमर्थमनुगृहीतमुद्र कटकान्निष्क्रामसि ?
सिद्धार्थक—अज्ज ! कज्जगोरवेण तुवराविदोह्मि । (आर्य ! कार्य-गौरवेण त्वरायितोऽस्मि । )
भागुरायण—कीदृश तत्कार्यगौरव, यद्राजशासनमुल्लङ्घयसि ?
मलयकेतु—सखे भागुरायण ! लेखमुपानय ।
सिद्धार्थक—[ भागुरायणाय ' लेखमर्पयति । ]
भागुरायण—[ सिद्धार्थकहस्ताल्लेख गृहीत्वा मुद्रा दृष्ट्वा ] कुमार ! अय लेख, राक्षसनामाङ्कितेय मुद्रा ।
मलयकेतु—मुद्रा परिपालयन्नुद्घाटय दर्शय ।
भागुरायण—[ तथा कृत्वा दर्शयति । ]
पञ्चमोऽङ्कः ३०१
मलयकेतुः—[ गृहीत्वा वाचयति । ] 'स्वस्ति, यथास्थानं कुतोपि, कोपि, कमपि, पुरुषविशेषमवगमयति । अस्मद्विपक्षं निराकृत्य दर्शिता कापि सत्यता सत्यवादिना । साम्प्रतमेषामपि प्रथममुपन्यस्तसन्धीनामस्मत्सुहृदां, पूर्वप्रतिज्ञातसन्धिपरिपणवस्तुप्रतिपादनप्रोत्साहनेन सत्यसन्धः, प्रीतिमुत्पादयितुमर्हति । एते ह्येवमनुगृहीताः सन्तः स्वाश्रयविनाशेनैवोपकारिणमाराधयिष्यन्ति । अविस्मृतमप्येतत्—सत्यवतः स्मारयामः । एतेषां मध्ये केचिदरेः कोषदन्तिभ्यामर्थिनः, केचिद् विषयेणेति अस्मान् प्रत्यलङ्कारत्रयञ्च, यत् सत्यवताऽनुप्रेषितं तदुपगतम् । अस्माभिरपि लेखस्याशून्यार्थं किञ्चिदनुप्रेषितं तदुपगमनीयं, वाचिकञ्चाप्ततमात् सिद्धार्थकाच्छ्रोतव्यम्' इति ।
व्याख्या—स्वस्ति—मङ्गलार्थकमव्ययमेतत्, यथास्थानं—स्थानमनतिक्रम्य कुतोऽपि—कस्मादपि स्थानादिति शेषः, कमपि, पुरुषविशेषम्—जनम्, अवगमयति—विज्ञापयति । अस्मद्विपक्षं—मम शत्रुं, निराकृत्य—निष्काश्य अमात्यपदात् पृथक्कृत्येत्यर्थः, सत्यवादिना—तथ्यभाषिणा, (भवता) कापि—लोकोत्तरा, सत्यता—सत्यपालनकर्तृता, दर्शिता—प्रकटिता । साम्प्रतम्—इदानीम्, प्रथमम्—प्राक्, उपन्यस्तसन्धीनाम्—उपन्यस्तः कृतः सन्धिः भवता सह सम्मेलनं यैः तथाविधानाम्, एषाम्, अस्मत्सुहृदाम्—अस्मन्मित्राणां, पूर्वप्रतिज्ञातसन्धिपरिपणवस्तुप्रतिपादनप्रोत्साहनेन—पूर्वं प्राक् प्रतिज्ञातस्य प्रतिश्रुतस्य सन्धेः सम्मेलनस्य परिपणः मूल्यभूतं यद् वस्तु तस्य प्रतिपादनं समर्पणं तेन प्रोत्साहनम् आश्वासनम् तेन, सत्यसन्धः—सत्यप्रतिज्ञः, प्रीतिम्—मुदम्, उत्पादयितुम् जनयितुम्, अर्हति—योग्यो भवति । एते—कौलूतप्रभृतयः, एवम्—इत्थम्, अनुगृहीताः—अनुकम्पिताः, सन्तः—भवन्तः, स्वाश्रयविनाशेनैव—स्वकीयावलम्बविघातेनैव हेतुना, उपकारिणम्—हितकारकं भवन्तमिति शेषः, आराधयिष्यन्ति । एतत्—पूर्वोक्तम्, अविस्मृतमपि—स्मृतमपीत्यर्थः, सत्यवतः—सत्यवादिनः भवत इत्यर्थः, स्मारयामः—स्मृतिपथं प्रापयामः । एतेषां—कौलूतप्रभृतीनां मध्ये, केचित्—कियन्तो जना इति शेषः, अरेः—रिपोः, कोषदन्तिभ्याम्—अर्थराशिगजाभ्याम्, अर्थिनः—धनवन्तः, केचित्—कियन्तो जनाः, विषयेण—राज्येन इति । अस्मान् प्रति अस्माकं पार्श्वे, अलङ्कारत्रयम्—त्रीणि भूषणानि, यत्, सत्यवता—सत्यभाषिणा भवतेति शेषः, अनुप्रेषितम्—प्रहितम्, तत्, उपगतम्—प्राप्तम्
३०४ मुद्राराक्षसम्
सिद्धार्थक — [भय नाटयन् ] तुम्हहिं । ( युष्माभि । )
भागुरायण.—किमस्माभि ?
सिद्धार्थक —मिस्सेहिं गहीदो, ण आणामि, किं भणामि त्ति । ( मिश्रेगृहीतो न जानामि किं भणामीति । )
भागुरायण —[ सक्रोधम् ] एष ज्ञास्यसि। भद्र भासुरक ! वहिर्नीत्वा ताड्यता तावत्, यावत् सवमनन कथित भवेत् ।
भासुरक —ज अज्जो आणवेदि । ( यदार्य आज्ञापयति । )
[ इति सिद्धार्थकेन सह निष्क्रान्त ]
[ पुन प्रविश्य ] अज्ज ! इअ तस्म ताडीअमाणस्स कक्खादो णाममुद्दालच्छिदा जाहरणपेटिआ णिवडिड्डा । ( आर्य ! इय तस्य ताड्यमानस्य कक्षत नाममुद्रालाञ्छिताऽऽभरणपेटिका निपतिता । )
हिन्दी अनुवाद—मलयकेतु — भागुरायण ! कैसा लेख है ?
भागुरायण—भद्र सिद्धार्थक ! यह किसका लेख है ?
सिद्धार्थक—आर्य ! नहीं जानता हूँ ।
भागुरायण—रे धूर्त ! पत्र ले जा रहा है और नहीं जानता है कि यह किसका है ! अच्छा, रहे सब कुछ । तुझसे मौखिक संदेश किसे सुनना है ?
सिद्धार्थक—[ भय का अभिनय करते हुए ] आप को ।
भागुरायण—क्या मुझको ?
सिद्धार्थक—आपके द्वारा पकड़ा हुआ मैं नहीं जानता हूँ कि क्या कह रहा हूँ ।
भागुरायण—[ क्रोध के साथ ] अभी जान जाओगे । भद्र भासुरक ! बाहर ले जाकर ( इसे ) तबतक पीटो, जबतक यह सब कुछ ( न ) बता दे ।
भासुरक—आर्य की जैसी आज्ञा ।
[ सिद्धार्थक के साथ चला जाता है । ]
[ पुनः प्रवेश करके ] आर्य ! पीटे जाते हुए इसकी काँख से यह नाम की छाप से चिह्नित गहनों की पेटी गिर पड़ी ।
पञ्चमोऽङ्कः ३०५
टिप्पणी—भद्र !—भद्रम् अस्य अस्ति इति भद्रः भद्र+अच् अर्श आदित्वात् । तत्सम्बुद्धौ हे भद्र इति । सर्वं तावत्तिष्ठतु—अच्छा रहने दो । मैं तुमसे इन सब बातो के विषय में नहीं पूछता हूँ । मैं केवल मौखिक सन्देश के बारे में जानना चाहता हूँ । युष्माभिः—श्रोतव्यमिति शेषः । यहाँ गूढ़ तात्पर्य यह है कि आप लोगों के सुनने के लिए ही यह सब कुछ आयोजन किया गया है, अतएव आप लोग इसे सुनें । मिश्रैः—पूज्यैः भवद्भिरिति शेषः । ताड्यताम्—आहन्यताम् । कक्षतः—भुजमूलात् ।
भागुरायणः—[ विलोक्य ] कुमार ! इयमपि राक्षसमुद्राङ्कितैव ।
मलयकेतुः—अयं लेखस्याशून्यार्थो भविष्यति । इमामपि मुद्रां परिपालयन्नुद्घाट्य दर्शय ।
भागुरायणः—[ तथा कृत्वा दर्शयति । ]
मलयकेतुः—[ विलोक्य ] अये ! तदिदमाभरणं, यन्मया स्वशरीरादवतार्य राक्षसाय प्रेषितम् । व्यक्तं चन्द्रगुप्तस्यायं लेखः ।
भागुरायणः—कुमार ! एष निर्णीयते संशयः । भद्र ! पुनरपि ताड्यताम् ।
पुरुषः—जं अज्जो आणवेदि । ( यदार्य आज्ञापयति । ) [ इति निष्क्रम्य पुनः प्रविश्य च ] अज्ज ! एसो क्खु ताड़ीअमाणो विण्णवेदि—कुमारस्स स्सअं ज्जेब णिवेदेमि त्ति । ( आर्य एष खलु ताड्यमानो विज्ञापयति—कुमारस्य स्वयमेव निवेदयामीति । )
मलयकेतुः—प्रवेशय ।
पुरुषः—जं कुमालो आणवेदि । ( यत् कुमार आज्ञापयति । )
[ इति निष्क्रम्य सिद्धार्थकेन सह पुनः प्रविशति । ]
सिद्धार्थकः—[ पादयोर्निपत्य ]—अभएण मे कुमालो प्पसादं करेदु । ( अभयेन मे कुमारः प्रसादं करोतु । )
मलयकेतुः—भद्र ! भद्र !! अभयमेव परायत्तजनस्य, तन्निवेद्यतां यथाऽवस्थितम् ।
मु० रा०—२०
| ३०६ | मुद्राराक्षसम् |
|---|
सिद्धार्थक—णिसामेदु कुमालो, अह क्खु अमच्चरक्खसेण इम लेह देइअ, चन्दउत्तसआस प्पेसिदोम्हि । ( निशामयतु कुमार, अह खल्वमात्यराक्षसेनेम लेख दत्त्वा चन्द्रगुप्तसकाश प्रेषितोऽस्मि । )
मलयकेतु—भद्र वाचिकमिदानी श्रोतुमिच्छामि ।
हिन्दी अनुवाद—भागुरायण—[ देखकर ] कुमार ! यह भी राक्षस की मुद्रा से अंकित ही है ।
मलयकेतु—यह पत्र का रिक्ततापूरक ( उपहार ) होगा । इस मुद्रा को भी बचाते हुए खोलकर दिखाओ ।
भागुरायण—[ वैसा करके दिखाता है । ]
मलयकेतु—[ देखकर ] अरे ! यह तो वह आभूषण है, जिसे मैंने अपने शरीर से उतार कर राक्षस के लिए भेजा था । स्पष्टतः, यह चन्द्रगुप्त के लिए पत्र है ।
भागुरायण—कुमार ! अभी संदेह का निर्णय कर लिया जाता है । भद्र ! फिर पीटो ( इसे ) ।
पुरुष—आर्य की जैसी आज्ञा । [ निकलकर और पुनः प्रवेश करके ] आर्य ! पीटने पर इसने कहा—कुमार को स्वयं ही बताऊँगा ।
मलयकेतु—प्रवेश कराओ ।
पुरुष—कुमार की जैसी आज्ञा ।
[ निकलकर सिद्धार्थक के साथ पुनः प्रवेश करता है । ]
सिद्धार्थक—[ पैरों पर गिरकर ] कुमार मुझे अभयदान देने की कृपा करे ।
मलयकेतु—भद्र ! भद्र !! पराधीन मनुष्य के लिए अभय ही है, इसलिए जैसा है, वैसा बताओ ।
सिद्धार्थक—कुमार सुने, अमात्य राक्षस ने मुझे यह लेख देकर चन्द्रगुप्त के पास भेजा है ।
मलयकेतु—भद्र ! अब मौखिक संदेश सुनना चाहता हूँ !
पञ्चमोऽङ्कः
३०७
टिप्पणी—व्यक्तं चन्द्रगुप्तस्यायं लेखः— चन्द्रगुप्त के लिए यह पत्र लिखा गया है। इसका प्रमाण यह है कि राजा के धारण करने योग्य जो आभूषण मैंने राक्षस के लिए भिजवाया था, वही आभूषण उसने चन्द्रगुप्त के लिए भेजा है। संशयः— संशय्यते असौ इति संशयः सम् √शी + अच् कर्मणि 'एरच्' इत्यनेन । निवेदयामि— अत्र भविष्यत्सामीप्ये लट् । अभयेन— भयस्य अभावः अभयम् अव्ययीभाव स०, तेन । यथावस्थितम्— अवस्थितमनतिक्रम्य यथावस्थितम् अव्ययीभाव स० । याथातथ्येन सर्वं वृत्तमित्यर्थः । निवेद्यताम्— कथ्यताम् ।
सिद्धार्थकः— कुमाल ! संदिट्ठोम्हि अमच्चरक्खसेण, जहा—'एदे मम प्पिअबअस्सा पञ्च राआणो तुए सह पढमसमुप्पण्णसन्धाणा । जहा— कुलूदाहिबो चित्तवम्मा, मलअजणबदाहिबो सिहणादो, कस्सीरदेसणाहो पुक्खरक्खो, सिन्धुराओ सिन्धुसेणो, पारसीआधिबदी मेहक्खो त्ति । एत्थ ज्जेब पढमभणिदा तिणि राआणो मलअकेदुणो बिसअं अहिलसन्ति, इदरे दुवे कोसं हत्थिबलं अ त्ति । ता जहा चाणक्कं णिराकरिअ महाराएण, मम प्पीदी उप्पादिआ, तदा एदाणं पि पढमभणिदो अत्थो संपादइदव्वो' त्ति एत्तिओ बाआसन्देसो त्ति । (कुमार ! सन्दिष्टोऽस्म्यमात्यराक्षसेन, यथा—'एते मम प्रियवयस्याः पञ्च राजानस्त्वया सह प्रथमसमुत्पन्नसन्धानाः । यथा—कुलूताधिपश्चित्रवर्मा, मलयजनपदाधिपः सिंहनाद , काश्मीरदेशाधिपः पुष्कराक्षः, सिन्धुराजः सिन्धुषेनः, पारसीकाधिपतिर्मेघाक्ष इति । अत्रैव प्रथमभणितास्त्रयो राजानः मलयकेतोर्विषयमभिलमषन्ति, इतरौ द्वौ कोषं हस्तिबलञ्चेति । तद्यथा चाणक्यं निराकृत्य महाराजेन मम प्रीतिरुत्पादिता, तथैतेषामपि प्रथमभणितोऽर्थः संपादयितव्यः' इत्येतावान् वाक्सन्देश इति ।)
मलयकेतुः— (स्वगतम्) कथं चित्रवर्मादयोऽपि मामभिद्रुह्यन्ति, अत एवैतेषा राक्षसे निरतिशया प्रीतिः । [प्रकाशम्] विजये ! अमात्यराक्षसं द्रष्टुमिच्छामि ।
प्रतिहारी— जं कुमालो आणवेदि । ( यत् कुमार आज्ञापयति । )
[ इति निष्क्रान्ता । ]
३०८ | मुद्राराक्षसम्
[ तत प्रविशत्यासनस्थ स्वभवनगतः पुरुषेणानुगम्यमान सञ्चितो राक्षसः ]
राक्षसः—[स्वगतम्] सम्पूर्णमस्मद्वल चन्द्रगुप्तबलैरिति यत् सत्य न मे मनस' शुद्धिरस्ति । कुत ?—
**हिन्दी अनुवाद—सिद्धार्थक—**कुमार ! अमात्य राक्षस ने मुझसे सन्देश ( पहुँचाने के लिए ) कहा है । जैसे—'ये मेरे प्रिय मित्र पांच राजा तुम्हारे साथ पहले से (ही) मधि कर चुके हैं। जैसे—कुलूत ( कुल्लू प्रदेश ) का स्वामी चित्रवर्मा, मलय जनपद का अधिपति सिंहनाद, काश्मीर देश का स्वामी पुष्कराक्ष, सिन्धु देश का राजा सिन्धुषेन और पारसीक (फारस) का अधिपति मेघाक्ष । इन्हीं मे से पहले कहे गये तीन राजा मलयकेतु का राज्य चाहते हैं और दूसरे दो खजाना तथा हाथियों की सेना । तो जिस प्रकार चाणक्य को हटाकर महाराज ने मेरी प्रीति को उत्पन्न किया है, उसी प्रकार इनका भी उपर्युक्त प्रयोजन पूग कर देना चाहिये ।' बस, इतना ही मौखिक सन्देश है ।
मलयकेतु—[ मन में ] वैसे चित्रवर्मा आदि भी मुझसे द्रोह करते हैं । इसीलिये राक्षस मे इनकी अत्यन्त प्रीति है । [प्रकट] विजये ! अमात्य राक्षस को देखना चाहता हूँ ।
**प्रतीहारी—**जो कुमार की आज्ञा । [ बाहर चली जाती है । ]
[ तदनन्तर अपने भवन में आसन पर विराजमान चिन्तामग्न राक्षस एक पुरुष के साथ प्रवेश करता है । ]
राक्षस—[ मन में ] हमारी सम्पूर्ण सेना चन्द्रगुप्त की सेनाओ से भर चुकी है, यह जो सत्य बात है—इस कारण मेरे मन मे शान्ति नहीं है । क्योकि—
**टिप्पणी—प्रियवयस्या —**वयसा तुल्या इति वयस्या वयस्+यत् । प्रिया' वयस्या' इति प्रियवयस्या कर्मधारय म० । **मामभिद्रुह्यन्ति—**अत्र 'क्रुधद्रुहोरूपसृष्टयो कर्म' इत्यनेन कर्मसज्ञा—द्वितीया । **निरतिशया—**अत्य धिक । निर्धूढः निश्चित या अतिशयः अस्ति अस्या इति निरतिशया ।
'पञ्चमोऽङ्कः' ३०६
साध्ये निश्चितमन्वयेन घटितं बिभ्रत् सपक्षे स्थितिं व्यावृत्तञ्च विपक्षतो भवति यत् तत् साधनं सिद्धये । यत् साध्यं स्वयमेव तुल्यमुभयोः पक्षे विरुद्धञ्च यत् तस्याङ्गीकरणेन वादिन इव स्यात् स्वामिनो निग्रहः ॥ १० ॥
अन्वयः— यत् साधन साध्ये निश्चितम् सपक्षे स्थितिं बिभ्रत् अन्वयेन घटितं विपक्षतो व्यावृत्तं च तत् सिद्धये भवति । यत् स्वयमेव साध्यम् उभयोः तुल्यम्, यच्च पक्षे विरुद्धं तस्य अङ्गीकरणेन वादिनः इव स्वामिनः निग्रहः स्यात् ॥ १० ॥
व्याख्या— (वादिपक्षे—) यत् साधनं—धूमादिरूपं हेतुः, साध्ये—सिद्धिविषयीभूते वह्नयादौ निश्चितं—निश्चितव्याप्तिकम् असंदिग्धमिति यावत्, सपक्षे—पक्षसदृशे निश्चितसाध्यवति महानसादौ, स्थितिं—सत्तां, बिभ्रत्—धारयत्, अन्वयेन—तत्सत्त्वनियतसत्ताकत्वरूपान्वयव्याप्त्या, घटितं—विशिष्टं, विपक्षतः—साध्याभाववतः जलह्रदादेः, व्यावृत्तं च—व्यपगतं च अवर्तमाने प्रतिपाद्ये स्वयमप्यवर्तमानमित्यर्थः, तत्—साधनं सिद्धये—वह्नयनुमानाय, भवति—जायते । यत्—साधनं हेतुः, स्वयमेव, साध्यं—हेत्वन्तरेणानुमेयम्, उभयोः—सपक्षविपक्षयोः, तुल्यम्—उभयत्र वर्तमानमवर्तमानं वा (दृश्यते), यच्च—साधनं, पक्षे, विरुद्धं—विपरीतं साध्यधर्मासत्त्वेऽपि स्वयं सदित्यर्थः, तस्य—तथाविधस्य साधनस्य, अङ्गीकरणेन—स्वीकरणेन, स्वामिनः—भर्तुः राज्ञ इत्यर्थः, इव, वादिनः—तार्किकस्य, निग्रहः—पराजयः, स्यात्—भवेत् । (स्वामिपक्षे—) साध्ये—शत्रुविनाशनात्मके कार्ये, निश्चितं—निर्णीतं योग्यतया अध्यवसितमित्यर्थः, यत् साधनं—सैन्यम्, अन्वयेन—पुरुषपरम्परया, घटितं—प्राप्तं कुलक्रमागतमित्यर्थः, सपक्षे—निजवर्गे, स्थितिम्—अवस्थानं, बिभ्रत्—दधत्, विपक्षतः—शत्रुवर्गात्, व्यावृत्तं—पराङ्मुखम्, तत् सैन्यम्, सिद्धये—कार्यसिद्धये, भवति । यत्—सैन्यम्, स्वयमेव—आत्मना एव, साध्यम्—सम्पाद्यम् (न तु कुलक्रमागतमिव सिद्धम् अथवा), उभयोः—सपक्षविपक्षयोः, तुल्यम्—समानादरम्, यच्च, पक्षे—स्ववर्गे, विरुद्धं—विषमं, तस्य, अङ्गीकरणेन, वादिनः इव स्वामिनः निग्रहः स्यात् ॥ १० ॥
हिन्दी अनुवाद— (वादी के पक्ष में—) जो (धूम आदि रूप) हेतु
३१० मुद्राराक्षसम्
साध्य (वह्नि आदि मे) निश्चित रूप से है, सपक्ष (महानस आदि) मे सत्ता धारण करता हुआ अन्वय-व्याप्ति से विशिष्ट है और विपक्ष (जलाशय आदि) मे निवृत्त (अर्थात् वहाँ नही रहता) है वह (वह्नि के अनुमान की) सिद्धि के लिये (समर्थ) होता है। किन्तु जो हेतु स्वयं ही साध्य (अर्थात् दूसरे हेतु से अनुमान करने योग्य) है तथा सपक्ष और विपक्ष दोनो मे समान है और जो हेतु पक्ष मे विपरीत है, उस हेतु के स्वीकार करने से स्वामी की तरह वादी का पराजय होता है। (स्वामी के पक्ष मे—) साध्य (शत्रु विनाश रूप कार्य) मे लगी हुई जो सेना वंशपरम्परा से आयी हुई है और अपने वर्ग में स्थिति धारण करती हुई शत्रु-वर्ग मे विमुख है, वह कार्य-सिद्धि के लिए (समर्थ) होती है। किन्तु जो सेना स्वयं ही साध्य है (अर्थात् वंश परम्परा से आयी हुई की तरह सिद्ध नहीं है) तथा अपने पक्ष और शत्रु-पक्ष मे समान (आदर रखती) है और जो सेना अपने पक्ष मे विपरीत है, उसके स्वीकार करने से वादी की तरह स्वामी का पराजय होता है ॥ १० ॥
टिप्पणी—साधनम्—साध्यते अनेन इति √साध् +ल्युट् करणे। हेतु, पक्षान्तर मे—सेना। 'साधन सिद्धिसैन्ययो' इति हैम। साध्ये—√साध् +ण्यत् कर्मणि = साध्य—वह जिसे सिद्ध करना है। जैसे 'पर्वतोऽयं वह्निमान् धूमात्' मे वह्निमत्त्व या वह्नि साध्य है। पक्षान्तर मे—जिसे प्राप्त करना है। निश्चितम्—असन्दिग्ध। पक्षान्तर मे—धृतसङ्कल्प। सपक्षे—पक्षेण सह वर्तमान इति सपक्ष। निश्चितसाध्यवान् सपक्ष। जिसमे साध्य या अनुमान का विषय हो। पक्षान्तर मे—समान पक्ष अस्य इति सपक्ष। एक ही (समान) पक्ष का। अन्वयेन घटितम्—अनु√इ+अच् भावे = अन्वय। तत्सत्त्वे तत्सत्त्वम्। उस (हेतु) के रहने पर उस (साध्य) की सत्ता निश्चित है, फलतः हेतु और साध्य का साहचर्य। पक्षान्तर मे—अनु√इ+अच् अधिकरणे = अन्वय = वंश। √घट्+णिच्+क्त कर्मणि = घटित 'मिता ह्रस्व' इति ह्रस्व। युक्त। पक्षान्तर मे—लब्ध। सिद्धये—सिद्धि (वह्नि की अनुमिति, पक्षान्तर मे—विजयादि की प्राप्ति) के लिए। विपक्षतः—विभिन्न पक्षात् विपक्ष प्रादितत्० पक्ष से भिन्न वस्तु (जलाशय
पञ्चमोऽङ्कः ३११
आदि ) से । पक्षान्तर में—विरुद्धः पक्षः अस्य इति विपक्षः शत्रु मे । व्यावृत्तम्—हटा हुआ । वि-आ√वृत्+क्त कर्मणि । निग्रहः—पराजय । नि√ग्रह्+अप् भावे ।
यहाँ दार्ष्टान्तिक पक्ष का अभिप्राय यह है कि चन्द्रगुप्त की लक्ष्मी को स्थिर करने रूप साध्य में निश्चित मौर्य की स्थिति तथा नन्द के विनाश रूप अन्वय और व्यतिरेक व्याप्ति से विशिष्ट, भद्रभट, भागुरायण आदि रूप सपक्ष में स्थिति को धारण करने वाली और मलयकेतु रूप विपक्ष से अलग चाणक्य-नीति रूप साधन मौर्य की लक्ष्मी को स्थिर करने के लिए समर्थ है । किन्तु जो मलयकेतु की सेना भद्रभट आदि के कारण स्वयमेव साध्य है ( अर्थात् वंश-परम्परागत पुरुषो से युक्त नही है ) मलयकेतु ओर चाणक्य दोनों पक्षों में समान ( आदर रखती ) है और मलयकेतु के पक्ष मे भद्रभटादिको के रूप में विपरीत है, उस सेना के स्वीकार करने से स्वामी ( अर्थात् मलयकेतु ) का पराजय अवश्यम्भावी है । इस श्लोक में श्लेषालंकार से अनुप्राणित श्रौती पूर्णोपमा अलंकार है और शार्दूलविक्रीडित छन्द है । इस छन्द का लक्षण १, १२ में देखिए ॥ १० ॥
अथवा तैस्तैर्विज्ञातापरागहेतुभिः प्राक्परिगृहीतोपजापैरापूर्णमिति न विकल्पयितुमर्हामि । [ प्रकाशम् ] प्रियंवदक ! उच्यन्तामस्मद्वचनात् कुमारानुयायिनो राजानः—सम्प्रति दिने दिने प्रत्यासीदति कुसुमपुरम् । अतः परिकल्पितविभागैर्भवद्भिः प्रयाणे प्रस्थातव्यम् । कथमिति ?
प्रस्थातव्यं पुरस्तात् खसमगधगणैर्मामनुव्यूह्य सैन्यै-
र्गान्धारैर्मध्ययाने सयवनपतिभिः संविधेयः प्रयत्नः ।
पश्चाद् गच्छन्तु वीराः शकनरपतयः संवृताश्चेदिहूणैः
कौलूताद्यश्च शिष्टः पथि परिवृणुयाद्राजलोकः कुमारम् ॥ ११ ॥
अन्वयः—पुरस्तात् व्यूह्य मामनु खसमगधगणैः सैन्यैः प्रस्थातव्यम् । मध्ययाने सयवनपतिभिः गान्धारैः प्रयत्नः संविधेयः । पश्चात् चेदिहूणैः संवृताः वीराः शकनरपतयः गच्छन्तु । शिष्टः च कौलूताद्यः राजलोकः पथि कुमारं परिवृणुयात् ॥ ११ ॥
३१२ | मुद्राराक्षसम्
व्याख्या—पुरस्तात्— ( सङ्ग्रामोद्यतसैन्यसमुदायस्य ) अग्रे, व्यूह्य— विभागं कृत्वा, माम् अनु— मम पृष्ठत , खसमगधगणै — खसाश्च मगधाश्च खसमगधा तेषां गणो येषु तानि खसमगधगणानि तयाविधे , सैन्यै — सैनिकै , प्रस्थातव्यम्— प्रयातव्यम् । मध्ययाने - सैन्यमध्यगमने, सयवनपतिभि — यवनराजै सह, गान्धारे — गान्धारदेशवासिभि सैन्यैरिति शेष , प्रयत्न — उद्योग , मविधेय — कार्य । पश्चात् — अनन्तरम्, चेदिहूणै — चेदिदेशीयम्नेच्छविशेषै , मवृता — सम्मिलिता वीर — पराक्रमशालिन , शकनरपतय — शकदेशीयराजान , गच्छन्तु— यान्तु । शिष्टः च— अवशिष्टश्च, कोलूतार्थ — कुलूतराजप्रमुख , राजलोञ् — नृपवर्ग , पथि-- मार्गे, कुमार— मलयकेतुम्, परिवृणुयात्— वेष्टयित्वा यायात् ॥ ११ ॥
हिन्दी अनुवाद — अथवा ( चन्द्रगुप्त के प्रति ) जिनके विराग के कारणों को जान लिया गया है ऐसे तथा पहले से ( हमारे ) भेदों को जान हुए उन ( भद्रभटादिकों ) से व्याप्त है—इस प्रकार सन्देह करने के योग्य नहीं हैं। [ प्रकट ] प्रियंवदक ! मेरी ओर से कुमार के अनुयायी राजाओं से कहो—अब पाटलिपुत्र दिनोंदिन समीप आता जा रहा है । इसलिए विभागों की रचना करके आप लोगों को यात्रा में चलना चाहिये । किस प्रकार ?—
(सैन्यसमूह के ) अग्रभाग में व्यूह बनाकर मेरे पीछे खस और मगध के समूहों वाली सेनाओं को चलना चाहिये । मध्य भाग में यवन राजाओं के साथ गान्धार सैनिकों को प्रयत्न करना चाहिये । पश्चात् चेदि देश के रहने वाले हूणों से सम्मिलित होकर वीर शक राजगण जायें । और अवशिष्ट कोलूत आदि राजाओं का समूह मार्ग में कुमार को घेर कर चलें ॥ ११ ॥
टिप्पणी—विज्ञातापरागहेतुभि — विज्ञाता अनुमिता अपरा गहेतवः विरागकारणानि येषा ते तथोक्ता , तै । प्राक्परिगृहीतोपजापै — प्राक् पूर्वं परिगृहीत ज्ञात उपजाप भेद ये ते तथोक्ता , तै । परिकल्पितविभागे — परिकल्पित आरचित विभाग सैन्यविभाग ये ते तथोक्ता , तै । माम् अनु-- अत्र अनोः कर्मप्रवचनीयत्वेन तद्योगे द्वितीया । व्यूह्य— व्यूहं कृत्वा इति व्यूह + णिच् + क्त्वा—ल्यप् । यहाँ ल्यप् आदेश किसी भी सूत्र से सम्भव नहीं है । यदि 'वि /ऊह् + क्त्वा—ल्यप्' ऐसी व्युत्पत्ति करते हैं तो 'उपसर्गाद्ध्रस्वस्य ऊहतेः'
पञ्चमोऽङ्कः ३१३
सूत्र से ह्रस्वता हो जाने पर 'व्यूह्य' रूप बनाता है । मध्ययाने—मध्यं यानम् सुप्सुपा स०, अथवा मध्यं यानम् कर्मधारय स० । इस श्लोक मे स्वभावोक्ति अलंकार है और स्रग्धरा छन्द है । स्रग्धरा का लक्षण १,१ में देखिये ॥११॥
प्रियंवदकः—जं अमच्चो आणबेदि । (यदमात्य आज्ञापयति ) [इति निष्क्रान्तः । ]
प्रतीहारी—[प्रविश्य] जेदु जेदु अमच्चो । अमच्च ! इच्छदि तुमं कुमालो प्पेक्खिदुं । (जयतु जयत्वमात्यः । अमात्य ! इच्छति त्वां कुमारः प्रेक्षितुम् । )
राक्षसः—भद्रे ! मुहूर्त्त तिष्ठ । कः कोऽत्र भोः ?
पुरुषः—[प्रविश्य] आणवेदु अमच्चो । ( आज्ञापयत्वमात्यः । )
राक्षसः—भद्र ! उच्यतां शकटदास यथा परिधापिता वयमाभरणं कुमारेण, तन्न युक्तमिदानीमस्माभिरनलङ्कृतैः कुमारदर्शनमनुभवितुम्, अतो यदलङ्करणत्रयं क्रीतं तन्मध्यादेकं दीयतामिति ।
पुरुषः—जं अमच्चो आणबेदि । (यदमात्य आज्ञापयति ।) [इति निष्क्रम्य पुनः प्रविश्य च ] अमच्च ! इदं तं अलङ्करणं । (अमात्य ! इदं तदलङ्करणम् ।)
राक्षसः—[ नाट्येनावलोक्यात्मानमलंकृत्योत्थाय च ] भद्रे ! राजकुलगामिनं मार्गमादेशय ।
प्रतीहारी—एदु एदु अमच्चो । ( एतु एत्वमात्यः । )
राक्षसः—[ स्वगतम् ] अधिकारपदं नाम निर्दोषस्यापि पुरुषस्य महदाशङ्कास्थानम् । कुतः ?—
भयं तावत् सेव्यादभिनिविशते सेवकजनं ततः प्रत्यासन्नाद् भवति हृदयेष्वेव निहितम् । ततोऽध्यारूढानां पदमसुजनद्वेषजननं मतिः सोच्छायाणां पतनमनुकूलं कलयति ॥१२॥
अन्वयः—सेवकजनं तावत् भयं सेव्यात् अभिनिविशते । ततः प्रत्यासन्नात्
३१६ मुद्राराक्षसम्
राक्षस - [ अभिनय के साथ देखकर ] अरे ये कुमार हैं। जो ये— मनोव्यापार से रहित होने के कारण उस (पैर के अग्र भाग) के विशेषो (अंगुष्ठ कनिष्ठिका आदि) को न जानने वाली 'स्थिर दृष्टि को पैर के अग्र भाग पर रख कर महान् कार्यों की गुरुता से मानो झुके हुए मुखचन्द्र को हाथ से धारण कर रहे हैं ॥ १३ ॥
**टिप्पणी—शून्यत्वात्—**मन के साथ न रहने पर नेत्रों के खुले रहने पर भी पदार्थ का अवलोकन नही होता है । उपनिषद् मे भी कहा है—'अन्यत्रमनाः आसम् नापश्यम्' । **निश्चलन्तीम्—**इसके स्थान में 'निश्चलाङ्गीम्' भी पाठ मिलता है । अर्थ स्पष्ट है । वक्त्रेन्दुम् — वक्त्रम् मुखम् इन्दुरिव अथवा वक्त्रमिव इन्दु इति वक्त्रेन्दु उपमितकर्मधारय स०, तम् । यहाँ रूपक और उपमा अलंकारों का सन्देहसङ्कर है, जो वाच्यात्प्रेक्षा अलंकार से संसृष्ट है । इसमें प्रहर्षिणी छन्द है । इसका लक्षण १, ७ में देखिए ॥ १३ ॥
[ उपसृत्य ] विजयता विजयता कुमार ।
मलयकेतु — आर्य ! अभिवादये । इदमासनमास्यताम् ।
राक्षस — [ उपविशति ]
मलयकेतु — अमात्य ! चिरदर्शनेनार्यस्य वयमुद्विग्ना ।
राक्षस — कुमार ! प्रयाणे प्रतिविधानमनुतिष्ठता मया कुमारादयमुपालम्भोऽधिगत ।
मलयकेतु — अमात्य ! प्रयाणे कथ प्रतिविहितमिति श्रोतुमिच्छामि ।
राक्षस — कुमार ! एवमादिष्टा कुमारस्यानुयायिनो राजान ।
[ प्रस्थातव्यमित्यादिश्लोक पुन पठति । ]
मलयकेतु — [ स्वगतम् ] विज्ञायते, कथ य एव मद्विनाशन चन्द्रगुप्तमाराधयितुमुद्यता त एव मा परिवृण्वन्ति [ प्रकाशम् ] आर्य ! अस्ति कश्चित् य कुसुमपुर प्रति गच्छति तत आगच्छति वा ?
राक्षस — कुमार ! अवसितमिदानी गतागतप्रयोजनम् । ननु पञ्च षैरहोभिर्वयमेव तत्र गन्तास्म ।
पञ्चमोऽङ्कः ३१७
मलयकेतुः—[ स्वगतम् ] विज्ञायते । [ प्रकाशम् ] यद्येवं, तत् किमयमार्थेण सलेखः पुरुषः कुसुमपुरं प्रस्थापितः ?
हिन्दी अनुवाद—[ समीप जाकर ] कुमार की विजय हो, विजय हो ।
मलयकेतुः—आर्य ! प्रणाम करता हूँ । इस आसन पर बैठिए ।
राक्षस—[ बैठता है ]
मलयकेतु—अमात्य ! बहुत देर के बाद आर्य के दर्शन होने से हम बेचैन हैं ।
राक्षस—कुमार ! प्रयाण की तैयारी करते हुए मैंने कुमार से यह उलाहना पाया ।
मलयकेतु—अमात्य ! प्रयाण की कैसे तैयारी की है, यह सुनना चाहता हूँ ।
राक्षस—कुमार ! कुमार के अनुयायी राजाओ को इस प्रकार आदेश दिया है ।
[ ‘प्रस्थातव्यम्’ इत्यादि श्लोक को पुनः पढ़ता है । ]
मलयकेतु— [ मन में ] समझता हूँ, कैसे जो ही मेरे विनाश के द्वारा चन्द्रगुप्त की सेवा करने के लिए उद्यत हैं, वे ही मुझे घेर रहे हैं । [ प्रकट ] आर्य ! (ऐसा) कोई है, जो पाटलिपुत्र जा रहा है या वहाँ से आ रहा है ?
राक्षस—कुमार ! अब जाने-आने का प्रयोजन समाप्त हो गया है । पाँच-छः दिनो में हम ही वहाँ पहुँच जाएँगे ।
मलयकेतु—[ मन में ] जानता हूँ । [ प्रकट ] यदि ऐसा है तो आर्य ने इस व्यक्ति को पत्र के साथ पाटलिपुत्र क्यों भेजा है ?
टिप्पणी—चिरदर्शनेन—बहुकालोत्तरमवलोकनेन । यहाँ गूढ अर्थ यह है कि आपका दर्शन इस समय मेरे लिए उद्वेगजनक हो रहा है । प्रतिविधानम्—प्रयत्न, व्यवस्था । अनुतिष्ठता—कुर्वता । अवसितम्—समाप्त । अव√सो+क्त कर्तरि । पञ्चषैः—पञ्च षट् वा परिमाण येषां तानि पञ्चषानि बहुव्रीहि स०, ‘बहुव्रीहौ संख्येये डजबहुगणात्’ इत्यनेन् डच्प्रत्ययः । तैः । यह ‘अहोभिः’ का विशेषण है ।
३१८ मुद्राराक्षसम्
राक्षस —[ विलोक्य ] अये ! सिद्धार्थक ! भद्र ! किमिदम् ?
सिद्धार्थक —[ सबाष्पं लज्जां नाटयन् ] प्पसीददु प्पसीददु अमच्चो । अमच्च ! अतिताडीअन्तेण मए ण पारिदं अमच्चस्स रहस्स धारिदुं । ( प्रसीदतु प्रसीदत्वमात्य । अमात्य ! अतिताड्यमानेन मया न पारितममात्यस्य रहस्यं धारयितुम् । )
राक्षस —भद्र ! कीदृशं तत् रहस्यम् ? न खल्ववगच्छामि ।
सिद्धार्थक —ननु विष्णवेमि, ताडीअन्तेण मए—' । ( ननु विज्ञापयामि ताड्यमानेन मया—') [ इत्यधोक्तं सभयमधोमुखस्तिष्ठति ]
मलयकेतु — भागुरायण ! स्वामिनः पुरस्ताद् भीतो लज्जितश्च नैष कथयिष्यति, अतः स्वयमेवार्याय कथय ।
भागुरायण — यदाज्ञापयति कुमारः । अमात्य ! एष कथयति, यथा—'अहममात्यराक्षसेन लेखं दत्त्वा वाचिकञ्च सन्दिश्य चन्द्रगुप्तसकाशं प्रेषित' इति ।
राक्षस —भद्र सिद्धार्थक ! अपि सत्यम् ?
सिद्धार्थक —[ लज्जां नाटयन् ] एव्वं अतिताडीअन्तेण मए णिवेदितं । ( एवमतिताड्यमानेन मया निवेदितम् ।) ।
राक्षस — कुमार ! अनृतमेतत् ताड्यमानः किं न ब्रूयात् ?
मलयकेतु —भागुरायण ! दर्शय लेखं, वाचिकञ्चायमस्मै स्वभृत्यः कथयिष्यति ।
हिन्दी अनुवाद—राक्षस—[देखकर] अरे ! सिद्धार्थक ! भद्र ! यह क्या ?
सिद्धार्थक—[आंसू के साथ लज्जा का अभिनय करते हुए] अमात्य प्रसन्न हों, प्रसन्न हों। अमात्य ! बहुत पीटा जाता हुआ मैं अमात्य का रहस्य नहीं धारण कर पाया।
राक्षस—भद्र ! कैसा वह रहस्य है ? मैं नहीं समझ पा रहा हूँ।
सिद्धार्थक—निवेदन तो कर रहा हूँ कि पीटा जाता हुआ मैं—'। [ ऐसा आधा कहने पर भयपूर्वक मुंह नीचे किये खड़ा हो जाता है । ]
पञ्चमोऽङ्कः ३१६
मलयकेतु—भागुरायण ! स्वामी के आगे डरा हुआ तथा लज्जित यह नहीं कहेगा । इसलिए स्वयम् आर्य को बता दो ।
भागुरायण—कुमार की जो आज्ञा । अमात्य ! यह कह रहा है कि मुझे अमात्य राक्षस ने पत्र देकर और मौखिक संदेश कहकर चन्द्रगुप्त के पास भेजा है ।
राक्षस—भद्र सिद्धार्थक ! क्या ( यह ) सत्य है ?
सिद्धार्थक—[ लज्जा का अभिनय करते हुए ] $\cdots\cdots\cdots$ बहुत पीटे जाते हुए मैंने ऐसा निवेदन किया ।
राक्षस—कुमार ! यह असत्य है । पीटा जाता हुआ ( व्यक्ति ) क्या नहीं कह सकता है ?
मलयकेतु—भागुरायण ! पत्र दिखाओ, मौखिक संदेश तो यह इनको अपना भृत्य कहेगा ।
टिप्पणी—प्रसीदतु प्रसीदतु—शीघ्रता सूचित करने के लिए दो वार उच्चारण किया गया है । न पारितं रहस्यं धारयितुम्—इससे सत्यता को स्वीकार किया है ।
भागुरायणः—[ लेखमवलोकयन् ] 'स्वस्ति यथास्थाने कुतोऽपि पुरुष-विशेषमवगमयति' इति वाचयति ।
राक्षसः—कुमार ! शत्रोः प्रयोग एषः ।
मलयकेतुः—लेखस्याशून्यार्थमार्येणेदमाभरणमनुप्रेषितमिति तत् कथ शत्रोः प्रयोग एष स्यात् ? [ इत्याभरणं दर्शयति । ]
राक्षसः—[ आभरणं निर्वर्ण्य ] कुमार ! नैतन्मयाऽनुप्रेषितम्, एतद्धि कुमारेण मह्यं दत्तं; मया च परितोषस्थाने सिद्धार्थकाय दत्तम् ।
भागुरायणः—भो अमात्य ! ईदृशस्याभरणविशेषस्य, विशेषतः कुमारेण स्वगात्रादवतार्य दत्तस्येयं परित्यागभूमिः ?
मलयकेतुः—वाचिकमप्याप्ततमात्सिद्धार्थकाच्छ्रोतव्यमिति लिखित-मार्येण ।