नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)
Naishadhiya Charitam of Sriharsha with Commentary
महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा
सर्गः २ ] जीवातु-मदयन्तिकासहितम् । ९५ हे वीर ! केवल आप में, दमयन्ती के किल-किञ्चित ( मुस्कराने, हँसने, रूठने, मान करने आदि विलास चेष्टाओं ) के आविर्भाव विशेष रूप से शोभा देंगे; क्योंकि ( जिस प्रकार वृद्धा नारी के ढलके हुए स्तनों पर नहीं, प्रत्युत ) तरुणी के (दृढ़ तथा उन्नत ) उरोजों पर ही मोतियों के रत्न-हार की रमणीकता झलकती है (उसी प्रकार अद्वितीय सुन्दरी दमयन्ती की सभी चेष्टाएं, दुर्बल-अयोग्य-नपुंसक पति के योग्य नहीं, बल्कि आप जैसे वीर के योग्य हैं) ॥४४॥ तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः । इयमृद्धधना वृथावनी स्ववनी सम्प्रवदत्पिकापि का ॥४५॥ तवेति । हे वीर ! तवेदं रूपं = सौन्दर्यं तया = दमयन्त्या विना, अवके- शिनः = वन्ध्यवृक्षस्य । 'बन्ध्योऽफलोऽवकेशी च' इत्यमरः । पुष्पमिव विफलं = निरर्थकम् । ऋद्धधना = सम्पूर्णवित्ता इयमवनी वृथा = निरर्थिका । सम्प्रव- दत्पिका=कूजत्कोकिला स्वबनी=निजोद्यानमपि । गौरादित्वात् ङीष् । का=तुच्छा, निरर्थिकेल्यर्थः । तद्योगे तु सर्वं सफलमिति भावः । 'किं वितर्के परिप्रश्ने क्षेपे निन्दापराधयोः' इति विश्वः । अत्र नलरूपावनीनां दमयन्त्या विना रम्यतानिषेधाद्विनोक्तिरलङ्कारः । 'विना सम्बन्धि यत्किञ्चिद्रम्यमन्यत्र परा भवेत् । रम्यतारम्यता वा स्यात् सा विनोक्ति- स्तुस्मृता' इति लक्षणात् । तस्याश्च पुष्पमिवेत्युपमया संसृष्टिः ॥४५॥ आपका यह (अप्रतिम) लावण्य, दमयन्ती के बिना - फलहीन बाँझ पेड़ के फूल के समान - निरर्थक है; समृद्ध धन (प्रचुर सम्पत्ति) वाली (आप द्वारा शासित) यह पृथ्वी (साम्राज्य) व्यर्थ है और कुहू कुहू करके बोलने वाली कोयल जिसमें हो-ऐसी (आप की) सुन्दर उद्यान-वाटिका भी किस काम की ? ॥४५॥ अनयामरकाम्यमानया सह योगः सुलभस्तु न त्वया । घनसंमृतयाम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥ ४६ ॥ अत्रान्यापेक्षां दर्शयितुं तस्याः दौर्लभ्यमाह - अनयेति । [ अमर-काम्य- मानया ] अमरेरिन्द्रादिभिः, काम्यमानया ऽभिलष्यमाणया, अनया = दमयन्त्या सह, योगः, अम्बुदागमे घनसंवृतया = मेघावृतया निशाकरत्विषा सह योगः कुमुदेन इव त्वया न तु सुलभः=दुर्लभ इत्यर्थः । अत्र तत्संयोगदौर्लभ्यस्य अमर- कामनापदार्थ हेतुकत्वात् काव्यलिङ्गभेदः । तत्सापेक्षा चेयमुपमेति सङ्करः ॥ ४६ ॥ देवताओं द्वारा कामना की जानेवाली दमयन्ती के साथ आपका मिलन
९६ नैषधचरितम् । [ द्वितीयः ( सम्बन्ध ) उसी प्रकार दुर्लभ है—जिस प्रकार वर्षाकाल में, मेघ से ढँके हुए चन्द्रमा की चाँदनी के साथ, कुमुद का संयोग सुलभ नहीं होता ॥ ४६ ॥ तदहं विदधे तथा तथा दमयन्त्याः सविधे तव स्तवम् । हृदये निहितस्तया भवानपि नेन्द्रेण यथापनीयते ॥ ४७ ॥ अत्र का गतिरिति आह—तदिति । तत् = तस्मात्, कार्यस्य सप्रतिबन्धत्वाद् अहं दमयन्त्याः सविधे=समीपे तथा तथा तव स्तवं = स्तोत्रं विदधे=विधास्ये इत्यर्थः । सामीप्ये वर्त्तमाने प्रत्ययः । यथा तया हृदये निहितो भवानिन्द्रेणापि नापनीयते; नेतुमशक्य इत्यर्थः । यथेन्द्रादिप्रलोभितापि त्वय्येव गाढानुरागा स्यात्तथा करिष्यामीत्यर्थः ॥ ४७ ॥ इस लिए मैं दमयन्ती के सन्निकट आपकी प्रशंसा उस उस प्रकार से करूंगा— जिससे ( पति रूप से ) धारण किये गये उसके चित्त में निवास करनेवाले, आपको इन्द्र भी न हटा सके ॥ ४७ ॥ तव सम्मतिमत्र केवलमधिगन्तुं धिगिदं निवेदितम् । ब्रुवते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् ॥ ४८ ॥ तर्हि तथैव क्रियतां, किं निवेदनेनेत्यत आह—तवेति । अत्र = अस्मिन् कार्ये केवलम् = एकां तव सम्मतिम्=अङ्गीकारम्, अधिगन्तुमिदं निवेदितं= निवेदनं धिक् । तथा हि-साधवो निजोपयोगितां = स्वोपकारित्वं फलेन = कार्येण ब्रुवते = बोधयन्ति किंतु कण्ठेन = वाग्वृत्त्या 'निजोपयोगितां' न ब्रुवते । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ ४८ ॥ इस (तरुणी दमयन्ती) के बारे में केवल आप (तरुण) की सम्मति जानने के उद्देश्य से ही मैने यह (४७श्लोकोक्त) बात कही है अन्यथा यह (निवेदन) भी निन्दा के योग्य है। क्योंकि सहृदय व्यक्ति कण्ठ-स्वर (मौखिक- रूप) से नहीं (कहते), बल्कि फल के परिणाम से ही अपनी उपयोगिता स्पष्ट सूचित कर देते हैं ॥४८॥ तदिदं विशदं वचोऽमृतं परिपीयाभ्युदितं द्विजाधिपात् । अतितृप्ततया विनिर्ममे स तदुद्गारमिव स्मित सितम् ॥४९॥ तदिति । स = नलो द्विजाधिपात् = हंसाच्चन्द्राच्च, अभ्युदितम्=आविर्भूतं विशदं = प्रसन्नमिशदीतं च तत् = पूर्वोक्तम् इदम्=अनुभूयमानं [ वचोऽमृतं ]
सर्गः २] जीवातु-मदयन्तिकासहितम् । ९७ वच एवामृतमिति रूपकम् । तत्परिपानं अत एव अतितृप्तता च सङ्गीतेत्यनेन [तदुद्गारं ] तस्य वचोऽमृतस्य उद्गारमिव सितं स्मित विनिर्ममे = निर्मितवान् । माङः कर्त्तरि लिट् । अतितृप्तस्य किञ्चिन्निःसार उद्गारः । सितत्व- साम्यात् स्मितस्य वागमृतोद्गारोत्प्रेक्षा ॥ ४६ ॥ पक्षिराज हंस (द्विजराज चन्द्र) से निकले हुए, पूर्वोक्त विशद (स्पष्ट, नैसर्गिक श्वेत) वाक्य-सुधा (वचनरूप अमृत) का पान कर (आदरपूर्वक श्रवण कर, अशेषतः पीकर), और उस (अत्यधिक पान) से अतीव सन्तुष्ट होने के कारण, नल ने उस (विशद वचोमृत) के उद्गार (उफान) के समान, श्वेत मुस्कराहट प्रकट की ॥ ४६ ॥ परिमृज्य भुजाग्रजन्मना पतगं कोकनदेन नैषधः । मृदु तस्य मुदेऽगिरद्गिरः प्रियवादाऽमृत-कूप-कण्ठजाः ॥५०॥ परिमृज्येति । निषधानां राजा नैषधः = नलः । जनपदशब्दात् क्षत्रियादञ् । भुजाग्रजन्मना कोकनदेन = पाणिशोणपङ्कजेनेत्यर्थः । पतगं=हंसं परिमृज्य तस्य = हंसस्य तथा मुदे = हर्षाय [प्रियवादाऽमृत-कूप-कण्ठजाः ] प्रियवादा- नामेवामृतानां कूपो निधिः कण्ठो वागिन्द्रियं तज्जाः तज्जन्याः, गिरो मृदु यथा तथा । अगिरत् = प्रियवाक्यामृतैरसिञ्चदित्यर्थः । अत्र भुजाग्रजन्मना कोकनदेनेति विषयस्य पाणेर्निगरणेन विषयिणः कोकनदस्यैवोपनिवन्धनात् अतिशयोक्तिः । 'विष- यस्याद्यनुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात् कविप्रौढोक्तिसम्मता' इति लक्षणात् । सा च पाणिकोकनदयोरभेदोक्तिः अभेदरूपा । यस्याः प्रियवादामृत- कूपकण्ठेति रूपकसंस्सृष्टिः ॥५०॥ निषधाधिपति नल ने लाल-कमल-रूप-भुजा के अगले भाग में उत्पन्न हुए- हाथ से, उस हंस को सहला कर, उस के प्रमोद के लिए, स्नेहमय वचनरूपी अमृत के कूप रूपी कण्ठ से निकली हुई, कोमल वाणी कही-॥५०॥ न तुलाविषये तवाकृतिर्न वचो वर्त्मनि ते सुशीलता । त्वदुदाहरणाकृतौ गुणा इति सामुद्रकसारमुद्रणा ॥५१॥ न तुलेति । हे हंस ! तब आकृतिः=आकारः, तुलाविषये = सादृश्यभूमौ न वर्तते, असदृशीत्यर्थः । ते = तव, सुशीलता = सौशील्यं वचो वर्त्मनि न वर्तते, वक्तुमशक्येत्यर्थः । अत एव आकृतिं गुणाः = 'यत्राकृतिस्तत्र गुणाः' इति ७
९८ नैषधचरितम् । [ द्वितीयः [ सामुद्रकसारमुद्रणा ] सामुद्रिकाणां या सारमुद्रणा सिद्धान्तप्रतिपादनं सा, त्वमेवोदाहरणं यस्याः सा तथोक्ता । आकृतिसौशील्ययोस्त्वय्येव सामानाधिकरण्य- दर्शनादित्यर्थः । अत एवोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहेतुकत्वात् काव्यलिङ्गमलङ्कारः । 'हेतोर्वाक्यार्थहेतुत्वे काव्यलिङ्गमुदाहृतम्' इति लक्षणात् ॥५१॥ तुम्हारा स्वरूप किसी की तुलना का विषय नहीं है ( अर्थात् किसी के साथ तुम्हारे सौन्दर्य की उपमा नहीं दी जा सकती ), और तुम्हारी सुशीलता ( सुन्दर स्वभाव ) भी वाणीपथ का विषय नहीं है ( अर्थात् वर्णनातीत है ) । 'जहाँ आकृति होती है, वहीं गुण रहते हैं' - सामुद्रिकशास्त्र के सारांश के मुद्रण ( प्रतिपादित सिद्धान्त ) के तुम्हीं उदाहरण हो ॥५१॥ न सुवर्णमयी तनुः परं ननु किं वागपि तावकी तथा । न परं पथि पक्षपातिताऽनवलम्बे किमु मादृशेऽपि सा ॥५२॥ न सुवर्णेति । ननु हे हंस ! तवेयं तावकी । 'युष्मदस्मदोरन्यतरस्यां खञ् च' इति चकारादण् प्रत्यये ङीप् । 'तवक ममकावेकवचने' इति तवकादेशः । तनुः परं मूर्तिरेव सुवर्णमयी हिरण्मयी न । किं तु वागपि तथा = सुवर्णमयी, शोभनाक्षर- मयीत्यर्थः । अनवलम्बे = निरवलम्बे पथि परम् = आकाश एव पक्षपातिता = पक्षपातित्वं न । किमु=किंत्वित्यर्थः । निपातानामनेकार्थत्वात् । अनवलम्बे निराधारे मादृशेऽपि सा = पक्षपातिता, स्नेहवत्तेत्यर्थः । अत्र तनुवाचोः प्रकृताप्रकृतयोः सुवर्णमयीति शब्दश्लेषः एवं पथि मादृशेऽपि पक्षपातितेति सजातीयसंसृष्टिः । तया चोपमा व्यज्यते ॥ ५२ ॥ हे हंस ! तुम्हारी आकृति ही केवल सुवर्ण-मयी ( सोने की ) नहीं है; किन्तु तुम्हारी वाणी भी उसी प्रकार सुवर्ण-मयी ( सुन्दर वर्ण-अक्षर-मयी) है । अवलम्बन- शून्य गगन-मार्ग में ही केवल तुम्हारा पक्ष-पात ( पंखों से उड़ना ) नहीं है; पर यह स्पष्ट है कि मुझ जैसे आश्रयहीन व्यक्ति के प्रति भी तुम्हारा पक्ष-पात ( अनुकूल आचरण ) है ॥ ५२ ॥ भृशतापभृता मया भवान् मरुदासादि तुषारसारवान् । धनिनामितरः सतां पुनर्गुणवत् सन्निधिरेव सन्निधिः ॥ ५३ ॥ भृशेति। भृशतापभृता=अतिसन्तापभाजा मया भवान् [तुषार-सारवान्] तुषारैः शीकरैः, मरुत् = मारुतः सन्, आसादि, सन्तापहृत्त्वादिति
सर्गः २ ] जीवातु-मदयन्तिकासहितम् । ९९ भावः । तथा हि-धनिनां = धनिकानां कुबरादीनाम् इतरः = पद्मशंखादिः । संज्ञासौ निधिश्चेति सन्निधिः, सतां = विदुषां पुनः [ गुणवत् सन्निधिः ] गुणवतां गुणिनां सन्निधिः सान्निध्यमेव सन्निधिः महानिधिः, सन्तापहारित्वात् त्वमेव शिशिर- मारुतः, अन्यस्तु दहन एवेति भावः । दृष्टान्तालङ्कारः । लक्षणं तूक्तम् ॥ ५३ ॥ काम-ज्वर से अत्यन्त सन्तप्त हुए मुझे - तुम बरफ की वनौरी मिली हुई ( अत्यन्त शीतल ) हवा के रूप में मिले । धनियों की (शङ्ख, पद्म आदि निधि रूप आनन्ददायक ) सन्निधि ( खजाना ) दूसरी है; पर सज्जनों की तो गुणवानों की सन्निधि ( समागम ) ही सन्निधि ( श्रेष्ठ खजाना ) है ॥ ५३ ॥ शतशः श्रुतिमागतैव सा त्रिजगन्मोहमहौषधिमम । अधुना तव शंसितेन तु स्वदृशैवाधिगतामवैमि ताम् ॥ ५४ ॥ शतश इति । [ त्रिजगन्मोहमहौषधिः ] त्रिजगतः त्रैलोक्यस्य, मोहे सम्मोहने, महौषधिः महौषधमिति रूपकम् । सा = दमयन्ती शतशो मम श्रुतिं = श्रोत्रम् आगतैव । अधुना तव शंसितेन = कथनेन तु स्वदृशा = मम दृष्ट्या एवाधिगतां = दृष्टाम् अवैमि = साक्षाद् दृष्टां मन्ये । आप्तोक्तिप्रामाण्यादिति भावः ॥ त्रिलोकी के ( युवकों के ) मोहित करने की महौषधिरूप दमयन्ती ( का नाम ) मेरे कानों में सैकड़ों बार आयी रही ( अर्थात् उसके सौन्दर्य का वर्णन सुना था ); परन्तु अभी-अभी तुमने जो उसके ( नख-शिख पर्यन्त ) सौन्दर्यगुणों का वर्णन किया, उससे तो मैंने साक्षात् उसे अपनी आँखों से देख लिया-ऐसा मानता हूँ ॥ अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् । सविधेऽपि न सूक्ष्मसाक्षिणौ वदनालङ्कृतिमात्रमक्षिणी ॥ ५५ ॥ अथ स्वदृष्टेरप्याप्तदृष्टिरेव गरीयसीत्याह-अखिलमिति । सुहृदा = आप्तमुखेन च स्वहृदा = स्वान्तःकरणेन च सुहृत् ग्रहणं तद्गतसुहृदः श्रद्धेयत्वज्ञापनार्थम् अखिलं = कृत्स्नमर्थम् अनाविलम् = असन्दिग्धं अविपर्यस्तं यथा तथा पश्यताम् = अवधारयतां विदुषां = विवेकिनां सविधे = पुरोऽपि न सूक्ष्मसाक्षिणी = असू- क्ष्मार्थदर्शिनौ । 'सुप्सुपा'इति समासः । अक्षिणी वदनालङ्कृतिमात्र, न तु दूरसूक्ष्मार्थदर्शनोपयोगिनीत्यर्थः ॥ ५५ ॥ ( परम विश्वसनीय ) सुहृद् के द्वारा और अपने अन्तःकरण से सब पदार्थों को स्पष्टरूप से ( 'वाक्य' तथा 'अनुमान' द्वारा ) देखनेवाले ( निर्णय करनेवाले )
१०० नैषधचरितम् । [ द्वितीयः विवेकी पुरुषों के (चर्म-) चक्षु तो मुखमण्डल के अलङ्कार-मात्र हैं, क्योंकि वे सन्निकट की सूक्ष्म वस्तु भी नहीं देख सकते ॥ ५५ ॥ अमितं मधु तत्कथा मम श्रवणप्राघुणिकीकृता जनैः । मदनानलबोधनेऽभवत् खग ! धाय्या धिगधैर्यधारिणः ॥ ५६ ॥ अमितमिति । हे खग ! जनैः = विदर्भगतजनैः मम श्रवणप्राघुणिकी- कृता = कर्णातिथीकृता, तद्विषयीकृतेत्यर्थः । 'आवेशिकः प्राघुणिक आगन्तुरतिथि- स्तथा' इति हलायुधः । अमितम् = अपरिमितं मधु = क्षौद्रं, तद्वदतिमधुरेत्यर्थः । तत्कथा = तद्गुणवर्णना, अधैर्यधारिणः = अत्यन्ताधीरस्य मम मदनानल- बोधने = मदनाग्निप्रज्वलने धाय्या = सामिधेनी अभवत् । 'ऋक् सामिधेनी धाय्या च या स्यादमिसमिन्धने' इत्यमरः । 'पाय्यसान्नाय्य' इत्यादिना निपातः । धिक् वाक्यार्थो निन्द्यः । अत्र तत्कथायाः धाय्यात्मना प्रकृतमदनाग्नीन्धनोपयोगात् परिणा- मालङ्कारः । आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम इत्यलङ्कारसर्वस्वकारः ॥ ५६ ॥ हे हंस ! (विदर्भ देश से आये हुए) नागरिकों ने, अपरिमित मधु के समान (अति मधुर) दमयन्ती की कथा को, मेरे कानों का अतिथि बनाया है। जो (मधुर कथा) मेरी कामाग्नि प्रज्वलित करने में सामिधेनी ऋचा हो गयी (जिस प्रकार अग्नि प्रज्वलित करने में समर्थ ऋचा, अग्नि प्रज्वलित कर देती है, उसी तरह दमयन्ती की मधुर कथा मेरी कामाग्नि प्रज्वलित करने में समर्थ हो जाती है)। मुझ जैसे अधीर धारण करने वाले कामातुर पुरुष को धिक्कार है ॥५६॥ विषमो मलयाहिमण्डला-विषफूत्कारमयो मयोहितः । बत कालकलत्रदिग्भवः पवनस्तद्विरहानलैधसा ॥ ५७ ॥ विषम इति । विषमः = प्रतिकूलः कालकलत्रदिग्भवः = यमदिग्भवः, प्राणहर इति भावः । पवनः = दक्षिणमारुतः, तद्विरहानलैधसा = दमयन्तीविरहा- ग्निसमिधा, तद्दाह्येनेत्यर्थः । मया [ मलयाहिमण्डली-विषफूत्कारमयः ] मलये मलयाचले, या अहिमण्डली सर्पसङ्घः, तस्याः विषफूत्कारमयः, ऊहितः = तद्रूप इति तर्कित इत्यर्थः । लोके च अग्नीरेधांसि फूत्कारवातैर्धमायत इति भावः । बत इति खेदे । विरहानलैधसेति रूपकोत्थापितेयं दक्षिणपवनस्य मलयाहिमण्डली- फूत्कारत्वोत्प्रेक्षेति सङ्करः ॥ ५७ ॥ यमराज की भार्या की दिशा [अर्थात् प्राणान्तकारिणी दक्षिण दिशा] से
सर्गः २ ] जीवातु-मदयन्तिकासहितम् । १०१ उत्पन्न, दक्षिणानल को--हाय ! दमयन्ती की वियोगाग्नि को समीपवर्ती मैं,-- (दक्षिण के) मलय-पर्वत पर रहने वाले सर्प-समूहों की जहरीली फुफकारों से भराहुआ--असह्य (सन्तापकारी) मानता हूँ ॥५७॥ प्रतिमासमसौ निशाकरः खग ! सङ्गच्छति यदिनाधिपम् । किमु तीव्रतरैस्ततः करैर्मम दाह्याय स धैैर्यतस्करैः ॥ ५८ ॥ प्रतिमासमिति । हे खग ! असौ निशाकरो मासि मासि प्रतिमासं = प्रति- दर्शमित्यर्थः । वीप्सायामव्ययीभावः । दिनाधिपं = सूर्ये संगच्छति = प्राप्नोतीति यत् । ततः = प्राप्तेः स = निशाकरः तीव्रतरैरत एव धैर्यतस्करैर्मम = धैर्य- हारिभिः करैः = सौरैः तत आनीतैः मम दाह्याय संगच्छतीत्यनुषङ्गः । किमुशब्द उत्प्रेक्षायाम् । अत्र सङ्गमनस्य दाहार्थत्वोत्प्रेक्षणात् फलोत्प्रेक्षा ॥५८॥ हे हंस ! यह चन्द्रमा जो प्रतिमास (अमावास्या के दिन) सूर्य में प्रवेश करता है तो इसी (सूर्य के सम्पर्क के) कारण ही, उसकी अति तीक्ष्ण और धैर्य का अपहरण करनेवाली किरणों द्वारा मुझे जला रहा है- ऐसा मेरा अनुमान है, (क्योंकि चन्द्र-किरण तो शीतल होती है) ॥५८॥ कुसुमानि यदि स्मरेषवो न तु वज्रं विषवल्लिजानि तत् । हृदयं यदमूमुहन्ममम यच्चातिंतमामतीतपन् ॥५९॥ कुसुमानीति । स्मरेषवः यदि कुसुमान्येव वज्रम् = अशनिः न तु, सद्योमरणभावादिति भावः । तत् = तथा अस्तु, किन्तु विषवल्लिजानि = विष- लतोत्पन्नानि । यत् = अस्माद् अमूः = स्मरेषवः । 'पत्री रोप इषुद्वयोः' इति स्त्री- लिङ्गता,मम हृदयममूमुहन् = अमूर्च्छयन् । मुहृतेर्णौ चङ् । यच्च यस्माद् अतित- माम्=अतिमात्रम् । अव्ययादाम्प्रत्ययः । अतीतपन् = तापयंति स्म । तपतेर्णौ चङ् । मोहितापलक्षणविषमकार्यदर्शनाद्विषवल्लिजत्वोत्प्रेक्षा ॥५९॥ कामदेव के बाण (लोकप्रसिद्धि के अनुसार) यदि फूल ही हैं, वज्र नहीं हैं; तो वे फूल (साधारण पुष्प नहीं, प्रत्युत) विष-बेलि से उत्पन्न हुए हैं; क्योंकि उन्होंने मेरे हृदय को (दमयन्ती के) मोह में डाल दिया है और इसी लिए उस (हृदय) को खूब सन्तप्त करते रहते हैं (साधारण पुष्पों में दाहिका शक्ति नहीं होती) ॥ तदिहानवधौ निमज्जतो मम कन्दर्पशराधिनीरधौ । भव पोत इवावलम्बनं विधिनाऽकारि कतम्प्रणिधिः ॥ ६० ॥
१०२ नैषधचरितम् । [द्वितीयः तदिति । तत् = तस्माद् इह = अस्मिन् अनवधौ = अपारे [कन्दर्प-शराधि- नीरधौ] कन्दर्पशरैर्य आधिर्मनोव्यथा । 'पुंस्याधिर्मानसी व्यथा'इत्यमरः । तस्मि- न्नेव नीरधौ समुद्रे, निमज्जतः=अन्तर्गतस्य मम विधिना=दैवेन । [आकस्मिक- सृष्ट-सन्निधिः] अकस्मादकाण्डे भवमाकस्मिकम् । अध्यात्मादित्वाट् ठक् । अव्ययानां भमात्रे टिलोपः । तद्यथा तथा सृष्टः कृतः सन्निधिः सन्निधानं यस्य सः । भाग्यादागत इत्यर्थः । त्वं पोतः=यानपात्रम् इव । 'यानपात्रं तु पोतः' इत्यमरः । अवलम्बनं भव ॥ ६० ॥ अतः जिस प्रकार समुद्र में डूबते हुए व्यक्ति को, दैवयोग से कहीं से जहाज बनकर, उसके समीप पहुँच जाय और उसका सहायक हो जाय उस प्रकार, पूर्व- वर्णित अथाह कामबाण-जन्य मानसी-व्यथारूपी सागर में डूबते हुए मुझको-तुम दैवयोग से अचानक कहीं से जहाज के रूप में आये और अब (दमयन्ती के मिलने में) सहायक होओ ॥ ६० ॥ अथ वा भवतः प्रवर्त्तना न कथं पिष्टमियं पिनष्टि नः । स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥ ६१ ॥ अथवेति । अथवा इयं नः=अस्माकं सम्बन्धिनी । 'उभयप्राप्तौ कर्मणि'इति नियमात् कर्त्तरि कृद्योगे षष्ठीनिषेधेऽपि शेषषष्ठीपर्यवसानात् कर्त्तर्यर्थलाभः । भवतः । 'उभयप्राप्तौ कर्मणि'इति षष्ठी । प्रवर्त्तना प्रेरणा एथास्रन्थो युच् । कथं पिष्टं न पिनष्टि, स्वतः प्रवृत्तिविषयत्वात् पिष्टपेषणकल्पेत्यर्थः । हि = यस्माद् ग्रहणानां = ज्ञानानां यथार्थता=याथार्थ्यं यथा प्रामाण्यमिव, स्वतः सर्वप्रमाणानां प्रामाण्यमिव, 'गृह्यतां जाता मनीषा स्वत एव मानम्'इति मीमांसकाः । सतां परार्थता = परार्थ- प्रवृत्तिः स्वत एव, न तु परतः । उपमा-संसृष्टोऽर्थान्तरन्यासः ॥ ६१ ॥ अथवा, क्या आपको प्रेरित करनेवाली यह मेरी प्रार्थना पिष्ट-पेषण नहीं है ? क्योंकि सत्पुरुषों की परोपकारिता स्वतः (अपने आप) ही है; जैसे ज्ञान की यथार्थता (प्रामाणिकता) स्वतः होती है (अथवा, जैसे इन्द्रियों की यथार्थता स्वतः पदार्थ- ग्राहकता है) ॥ ६१ ॥ तव वर्त्मनि वर्त्ततां शिवं पुनरस्तु त्वरितं समागमः । अपि साधय साधयेप्सितं स्मरणीयाः समये वय वयः ! ॥ ६२ ॥ तवेति । हे वयः ! हे पक्षिन् ! तव वर्त्मनि शिवं = मङ्गलं वर्त्ततां, त्वरितं =
[सर्गः २ ] जीवातु-मदयन्तिकासहितम् । १०३
क्षिप्रमेव पुनः समागमोऽस्तु । अविसाध्यं कार्यं साधयेत्याह—साधय= सम्पादय; समये=कार्यकाले वयं स्मरणीयाः; अनन्यगामि कार्यं कुर्या इत्यर्थः ॥ हे हंस ! मार्ग में तुम्हारा कल्याण हो; फिर शीघ्र तुम्हारा समागम हो । जाओ, मेरे अभीष्टकार्य को पूरा करो और उपयुक्त समय पर मेरा स्मरण करना ॥ इति तं स विसृज्य धैर्यवान् नृपतिः सूनृतवाग्बृहस्पतिः । अविशद्वनवेश्म विस्मितः श्रुतिलग्नैः कलहंसशंसितैः ॥६३॥ इतीति । धैर्यवान् = उपायलाभात् सधैर्यः [ सूनृतवाग्बृहस्पतिः ] सूनृतवाक् सत्यप्रियवादेषु बृहस्पतिः तथा प्रगल्भ इत्यर्थः । 'सूनृतं च प्रिये सत्यम्' इत्यमरः । स नृपतिः इति = इत्थं तं = हंसं विसृज्य श्रुतिलग्नैः = श्रोत्रप्रविष्टैः [ कलहंसशंसितैः ] कलहंसस्य शंसितैर्विस्मितः सन् वनवेश्म = वनविहार गृहम् अविशत् ॥६३॥ कान में पड़े हुए, राजहंस के कहे हुए वाक्यों से विस्मित हो, सत्य तथा प्रिय बात कहने में बृहस्पति के समान राजा नल ने—इस प्रकार उस हंस को विदा करके-(दमयन्ती के मिलन पर) धैर्यवान् हो, उद्यान-भवन में प्रवेश किया ॥ अथ भीमसुतावलोकनैः सफलं कर्तुमहस्तदेव सः । क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ ॥६४॥ अथेति । अथ सोऽण्डजः = हंसः तत् एव अहः [भीमसुतावलोकनैः] भीमसुतायाः भैम्याः अवलोकनैः, सफलं कर्तुं तस्मिन्नेव दिने, तां द्रष्टुमित्यर्थः । [क्षितिमण्डलमण्डनायितं] क्षितिमण्डलस्य मण्डनायितमलङ्कारभूतं कुण्डिनं = कुण्डिनाख्यं नगरं ययौ ॥६४॥ तत्पश्चात् वह हंस—भीमराजकुमारी दमयन्ती के दर्शन से (अपने नेत्रों को) सफल बनाने के लिए, भूमण्डल के अलङ्कार के समान कुण्डिनपुर को, उसी दिन रवाना हुआ ॥६४॥ प्रथमं पथि लोचनातिथिं पथिकप्रार्थितसिद्धिशंसिनम् । कलशं जलसम्भृतं पुरः कलहंसः कलयाम्बभूव सः ॥६५॥ अथ श्लोकत्रयेण शुभनिमित्तान्याह-प्रथममित्यादिना। स कलहंसः प्रथमम् = आदौ पथि = मार्गे लोचनातिथिं = अक्षिप्रियं, पथिकानां प्रस्थातृणां, प्रार्थितस्य
१०४ नैषधचरितम् । [ द्वितीयः
इष्टार्थस्य, सिद्धिशंसिनं = सिद्धिसूचकं, जलसम्भृतं = जलपूर्णं कलशं = पूर्णकुम्भं पुरः = अग्रे कल्याम्बभूव = ददर्श ॥६५॥ उस राजहंस ने राह में पहले-पहल, यात्रियों के अभिलषित मनोरथों की सिद्धि की सूचना देनेवाले, सामने से आते हुए जलपूर्ण कलश को देखा ॥६५॥ अवलम्ब्य दिदृक्षयाम्बरे क्षणमाश्चर्यरसालसं गतम् । स विलासवनेऽवनीभृतः फलमैक्षिष्ट रसालसङ्गतम् ॥६६॥ अवलम्ब्येति । स = हंसो दिदृक्षया = स्वगन्तव्यमार्गालोकनेच्छया अम्बरे क्षणम् [ आश्चर्यरसालसं ] आश्चर्यरसेन तद्वस्तु दर्शननिमित्तेन अद्भुतरसेन, अलसं मन्दं, गतं=गतिम् अवलम्ब्य अवनीभृतः=नलस्य विलासवने=विहारवने [ रसाल-सङ्गतं ] रसालेन चूतवृक्षेण, सङ्गतं सम्बद्धम् । 'आम्रश्चूतो रसालोऽसौ' इत्यमरः । फलम् ऐक्षिष्ट = दृष्टवान् ॥६६॥ राजहंस ने (विलास-कानन के) देखने की इच्छा से, आकाश में क्षणभर तक, आश्चर्य-रस के कारण मन्द गति का आश्रय लेकर, राजा नल के क्रीडा-उद्यान में, आम्र के पेड़ में लटकता हुआ आम का फल देखा ॥६६॥ नभसः कलभैरुपासितं जलदैर्भूरितर-क्षुपन्नगम् । स ददर्श पतङ्गपुङ्गवो विटप-च्छन्न-तरक्षु-पन्नगम् ॥६७॥ नभस इति । पुमान् गौः वृषभः, विशेषणसमासः । 'गोरतद्धितलुकि' इति समासान्तष्टच् । स इव पतङ्गपुङ्गवः = पक्षिश्रेष्ठः उपमितसमासः । स नभसः कलभैः=खेचरकरिकल्पैरित्यर्थः । जलदैरुपासित=व्याप्तं । [भूरितर-क्षुपन्नगम् ] भूरयः बहवस्तरक्षवो मृगादनाः पन्नगा यस्य तम् । [विटप-च्छन्न-तरक्षु-पन्नगम् ] विटपैः शाखाविस्तारेण । 'विस्तारो विटपोऽस्त्रियाम्' इत्यमरः । छन्नतराः अतिशयेन छादिताः, क्षुपा ह्रस्वशाखाः । 'ह्रस्वशाखाशिफः क्षुपः' इत्यमरः । यस्य तम् । नगं पर्वत ददर्श । पूर्णकुम्भादिदर्शनं पान्थक्षेमकरमिति निमित्तज्ञाः ॥६७॥ पक्षिश्रेष्ठ हंस ने—आकाश के कलभ (हाथी के बच्चों) के आकार के (काले- काले) मेघों से व्याप्त और बहुत सी झाड़ियों से शोभायमान एक पहाड़ को देखा — जिसके पेड़ों की शाखाओं में लकड़बग्घा और सर्प छिपे हुए थे ॥६७॥ स ययौ धुतपक्षतिः क्षण क्षणमुदूर्ध्वायनदर्विभावनः । विततर्क्षततिर्निश्चलच्छदः क्षणमालोककदत्तकौतुकः ॥६८॥
सर्गः २ ] जीवातु-मदयन्तिकासहितम् । १०५ स इति । स = हंसः क्षण॑ धुतपक्षतिः = कम्पितपक्षमूलः क्षण [ऊर्ध्वाय- नदुर्विभावनः ] ऊर्ध्वायनेन ऊर्ध्वगमनेन, दुर्विभावनो दुष्करावधारणो दुर्लक्ष इत्यर्थः । [ विततीकृतनिश्चलच्छदः ] विततीकृतौ विस्तारीकृतौ निश्चलौ छदौ पक्षौ यस्य सः तथा क्षणम् [ आलोककदत्तकौतुकः ] आलोककानां द्रष्टृणां, दत्त- कौतुकः सन्, ययौ । स्वभावोक्तिः ॥६८॥ वह हंस कुछ देर तक अपने पंखों को फड़कड़ाता, फिर कुछ देर तक बहुत ऊँचाई पर उड़ने से अलक्ष्य हो जाता, बाद में कुछ देर तक अपने दोनों पंखों को निश्चल फैलाकर उड़ता—इस प्रकार दर्शकों को तमाशा देखाता हुआ ( कुण्डिनपुर की ओर ) चला ॥६८॥ तनुदीधितिधारया रयाद्गतया लोकविलोकानामसौ । छदहेम कषन्निवालसत् कषपाषाणनिभे नभस्तले ॥६९॥ तन्विति । असौ = हंसो रयात् हेतोः उत्पन्नयेति शेषः । [ लोकविलोकानां] लोकस्य आलोकिजनस्य, परीक्षकजनस्य च, विलोकनां दर्शनं, गतया = कौतुकादूर्ण- परीक्षां च विलोक्यमानयेत्यर्थः । [ तनुदीधितिधारया ] तनोः शरीरस्य, तन्वा सूक्ष्मया च, दीधितिधारया रश्मिरेखया निमित्तेन । कषपाषाणनिभे = निकषोपल- सन्निभे नभस्तले छदहेम = निजपक्षसुवर्णं कषन् = घर्षन् इव अलसत् = अशो- भतेत्युत्प्रेक्षा ॥६६॥ वह हंस वेग के कारण लोगों के दृष्टिगोचर हुए, अपने शरीर के ( पीले रंग की पतली रेखा के ) प्रभा-प्रवाह के कारण ऐसा शोभित हुआ, मानों कसौटी के समान ( नीले रंग के ) आकाश में पंख के सोने को कस (जाँचने के लिए घिस) रहा हो ॥६६॥ विनमद्भिरधःस्थितैः खगैर्झटिति श्येननिपातशङ्किभिः । स निरैक्षि दृशैकयोपरि स्यद-सांकारि-पतत्र-पद्धतिः ॥७०॥ विनमद्भिरिति । [ स्यद-सांकारि-पतत्र-पद्धतिः ] स्यदेन वेगेन, सांका- रिणी सामिति शब्दं कुर्वाणा, पतत्रिपद्धतिः पक्षिसरणिर्यस्य-स = हंसः [ श्येन- निपात-शङ्किभिः ] श्येननिपातं शङ्कत इति तच्छङ्किभिः अत एव विनमद्भिः = विलीयमानैः अधःस्थितैः खगैः झटिति = द्राक् एकया दृशा उपरि निरैक्षि = निरीक्षितः । कर्मणि लुङ् । स्वभावोक्तिः ॥ ७०॥
१०६ नैषधचरितम् । [द्वितीयः उस से नीचे उड़ते हुए पक्षियों ने—बाज़ के झपटने की आशंका से, एक ही नज़र से, झट ऊपर की ओर उस राजहंस की तरफ देखा—जिसके दोनों पंखों में से वेग के कारण साँय साँय की आवाज़ निकल रही थी ॥ ७० ॥ ददृशे न जनेन यन्नसौ भुवि तच्छायामवेक्ष्य तत्क्षणात् । दिवि दिक्षु वितीर्णचक्षुषा पृथुवेगद्रुतमुक्तदृक्पथः ॥७१॥ ददृश इति । यन् = गच्छन् । इणो लटः शत्रादेशः । असौ = हंसः, भुवि तच्छायां = तस्य हंसस्य छायां । 'विभाषा सेना' इत्यादिना नपुंसकत्वम् । अवेक्ष्य तत्क्षणात् प्रथमं दिवि पश्चात् दिक्षु च वितीर्णचक्षुषा = दत्तदृष्टिना जनेन [ पृथु-वेग-द्रुत-मुक्त-दृक्पथः ] पृथुवेगेन द्रुतं शीघ्रं मुक्तदृक्पथः सन्, न ददृशे = न दृष्टः, क्षणमात्रेण दृष्टिप्रथमतिक्रान्त इत्यर्थः ॥ ७१ ॥ पृथ्वी पर उसकी छाया देख कर, उसी क्षण आकाश और दिशाओं की ओर नज़र फेंकते हुए लोगों को—तेज चाल के कारण—शीघ्र ही दृष्टिमार्ग से ओझल हो जाने वाला, उड़ता हुआ वह हंस नहीं दिखलाई पड़ता ॥ ७१ ॥ न वनं पथि शिश्रियेऽमुना क्वचिदप्युच्चतर-द्रु-चारुतम् । न स गोत्रजमन्ववादि वा गति-वेग-प्रसरद्रुचा रुतम् ॥७२॥ नेति । [ गतिवेग-प्रसरद्रुचा ] गतिवेगेन प्रसरद्रुचा प्रसर्पत्तेजसा, अमुना =हंसेन पथि क्वचिदपि [ उच्चतर-द्रु-चारुतं ] उच्चतराणां अत्युन्नतानां द्रूणां द्रुमाणां, चारुता रम्यता, यस्मिंस्तत् । वनं न शिश्रिये । सगोत्रजं = बन्धुजन्यं रुतं = कूजितं वा नान्ववादि = नानूदितम् । मध्यमार्गे अध्वश्रमापनोदनं बन्धु- सम्भाषणादिकमपि न कृतमिति सुहृत्कार्यानुसन्धानपरोक्तिः । 'पलाशी द्रुद्रुमागमाः' इत्यमरः ॥ ७२ ॥ अपनी तेज चाल से कान्ति फैलाता हुआ वह हंस—मार्ग में कहीं भी बड़े ऊँचे-ऊँचे पेड़ों से सौन्दर्यशाली वनमें, (विश्राम करने के लिए) न ठहरा और न तो अपने स-जातीय हंसों के कूजन (के प्रत्युत्तर में उस) का अनुमोदन ही किया । अथ भीमभुजेन पालिता नगरी मञ्जरसौ धराजिता । पतगस्य जगाम दृक्पथं हर-शैलोपम-सौध-राजिता ॥ ७३ ॥ अथेति । अथ धराजिता = भूमिजयिना । 'सत्सू द्विष'इत्यादिना किपि तुक् । [ भीमभुजेन ] भीमस्य भीमभूपस्य, भुजेन पालिता, [ हर-शैलोपम-सौध-
सर्गः २ ] जीवातू-मदयन्तिकासहितम् । १०७ राजिता ] हरशैलोपमैः सौधैः राजसद्मभिः, राजिता, मंजुमनाशी असौ = पूर्वोक्ता नगरी = कुण्डिनपुरी पतगस्य = हंसस्य दृक्पथं जगाम = स तां ददर्शेत्यर्थः । अत्र यमकाख्यानुप्रासस्य हिमशैलोपमेति उपमायाश्च संसृष्टिः ॥ ७३ ॥ तदनन्तर पृथ्वी-विजेता भीमराजा की भुजाओं से पालित, सुन्दर, कैलास पर्वत के समान ( सफेदी से धवल ), राज-प्रासादों से सुशोभित ( कुण्डिन ) नगरी उस हंस के दृष्टिगोचर हुई ॥ ७३ ॥ दयितं प्रति यत्र सन्तता रतिहासा इव रेजिरे भुवः । स्फटिकोपलविग्रहा गृहाः शशभृद्भित्तानरङ्कभित्तयः ॥७४॥ तां वर्णयति — दयितमिति । यत्र = नगर्यां, स्फटिकोपलविग्रहाः = स्फुटि- कमयशरीरा इत्यर्थः । अत एव शशभृद्भित्तनिरङ्कभित्तयः = शशाङ्कशकलनिष्कल- ङ्कानि कुड्यानि येषां ते । 'भित्तं शकलखण्डे वा' इत्यमरः । भिदेः क्तिप्रत्ययः । 'भित्तं शकलम्' इत्यादि निपातनात् 'रदाभ्याम्' इत्यादिना निष्ठानत्वभावः । गृहाः दयितं = भीमं प्रति सन्तता भुवः = भूमेर्नायिकायाः, रतिहासाः = केलिहासा इव रेजिरे । इत्युत्प्रेक्षा ॥ ७४ ॥ जिस नगरी में बिल्लौर के बने हुए शरीर वाले, चन्द्रमा के टुकड़े की भाँति ( जड़ी हुई मणियों से ) निष्कलङ्क दीवाल वाले घर—अपने प्राणवल्लभ के प्रति निरन्तर किये गये, पृथ्वी-नायिका के रतिकाल के समय के (मन्द) हास्य के समान—शोभायमान हो रहे थे ॥ ७४ ॥ नृपनीलमणिग्रहोत्विषामुपधेर्यत्र भयेन भास्वतः । शरणाप्तमुवास वासरेऽप्यसदावृत्त्युदयत्तमं तमः ॥७५॥ नृपेति । यत्र=नगर्यां तमः=अन्धकारः भास्वतः=भास्करात् भयेन [ नृप- नीलमणी-गृह-त्विषाम् ] नृपस्य ये नीलमणीनां गृहाः, तेषां त्विषः, तासां उपधेः= कुहनादित्यपह्नवभेदः । 'रत्नं मणिर्द्वयोः' इत्यमरः । कृदिकारादक्तिनः इति ङीष् । शरणाप्तं शरणं गृहं रक्षितारमन्वागतम् । 'शरणं गृहरक्षित्रोः' इत्यमरः । वासरे = दिवसेऽप्यसदावृत्ति=अपुनरावृत्ति किञ्च उदयत्तमम्=उद्यत्तमं सद्उवास ॥७५॥ उस नगरी में नीलम मणि के बने हुए, राजमहलों की कान्ति के बहाने, अतिशय गहन अन्धकार, मानो सूर्य के भय से सदा एक भाव से विद्यमान, घरके भीतर आकर ( ऐसा रक्षक पाकर ) 'दिन' में भी रहता था ॥ ७५ ॥
१०८ नैषधचरितम् । [ द्वितीयः सित-दीप्र-मणि-प्रकल्पिते यद्गारे हसद्ङ्करोदसि । निखिलान्निशि पूर्णिमा तिथीनुपतस्थेऽतिथिरैकिका तिथिः॥७६॥ सितेति । [ सित-दीप्र-मणि-प्रकल्पिते ] सितैः दीप्रैश्च मणिभिः प्रकल्पिते = उज्ज्वलस्फटिकनिर्मिते हसद्ङ्करोदसि = विलसद्ङ्करोदस्के, द्यावापृथिवीव्यापि- नीत्यर्थः । यद्गारे = यस्या नगर्या गृहेष्वित्यर्थः । जातावेकवचनम् । निशि निखि- लान् तिथीन् एकिका = एकाकिनी, एकैवेत्यर्थः । 'एकादाकिनच्चासहाये' इति चकारात् कन्प्रत्ययः । 'प्रत्ययस्थात् कात् पूर्वस्य' इतीकारः । पूर्णिमा तिथिः = राकातिथिः । 'तदाद्यास्तिथयो द्वयोः' इत्यमरः । अतिथिः सन् उपतस्थे = अति- थिर्भूत्वा सङ्गतेत्यर्थः । 'उपाद्देवपूजा' इत्यादिना सङ्गतिकरणे आत्मनेपदम् । स्फटिक- भवनकान्तिनित्यकौमुदीयोगात् सर्वा अपि रात्रयो राकारात्रय इवासन्नित्यभेदोक्ते- रतिशयोक्तिभेदः ॥७६॥ उस नगरी के सफेद और दीप्तिशाली ( स्फटिक ) मणि के बने हुए, आकाश एवं पृथ्वी के बीच के हँसते हुए ( प्रकाशमान ) भाग वाले—भवनों में, 'रात्रि' के समय, अकेली पूर्णिमा तिथि, सब तिथियों के पास, अतिथि होकर आती थी ( अर्थात् स्फटिक मणि के बने हुए विशाल तथा गगनचुम्बी भवनों की शुभ्र चमक से, आकाश से लेकर धरातल के बीच का भाग, रात्रि में चन्द्रकिरण से सम्पर्क पाकर, जगमगाता रहता था; जिस से अमावास्या आदि तिथियों में भी अन्धकार का अभाव रहता था और लोग सब रात को पूर्णिमा की ही रात समझते थे ) ॥ सुदतीजन-मज्जनार्पितैर्घुसृणैर्यत्र कषायिताशया । न निशाखिलयापि वापिका प्रससाद ग्रहिलैव मानिनी ॥७७॥ सुदतीति । यत्र = नगर्यां [ सुदतीजन-मज्जनार्पितैः ] शोभना दन्ता यासां ताः सुदत्यः स्त्रियः । अत्रापि विधानाभावाद्दन्तादेशश्चिन्त्य इति केचित् । 'अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्च' इति चकारात् सिद्धिरित्यन्ये । सुदत्यादयः स्त्रीषु योगरूढाः, 'स्त्रियां संज्ञायाम्' इति, दत्रादेशात् साधव इत्यपरे । तदेतत्सर्वमभि- सन्धायह वामनः- 'सुदत्यादयः प्रतिषेधयाः इति । ता एव जना लोकाः तेषां मज्जनादवगाहनादर्पितैः क्षालितैः, घुसृणैः = कुङ्कुमैः कषायिताशया = सुरभिता- भ्यन्तरा भोगचिह्नैः कलुषितहृदया च, आशयेन वापिका=दीर्घिका ग्रहिला=ग्रहः । 'ग्रहोऽनुग्रहनिर्वन्धौ' इति विश्वः । तद्वती दीर्घरोषा । पिच्छादित्वादिलच्, दिवादिः ।
सर्गः २ ] जीवातु मद्यन्तिकासहितम् । १०९ मानिनी 'स्त्रीणामीर्ष्याकृतः कोपो मानोऽन्यासङ्गिनि प्रिये' इत्युक्तलक्षणो मानः । मदती नायिका इव अखिळया निशा = निशया, सर्वरात्रिप्रासादनेनेत्यर्थः । न प्रसाद् = प्रसन्नहृदया नाभूत्, तादृक् शोभादिति भावः ॥७७॥ उस नगरी की बावलियाँ-- सुन्दर दाँतवाली महिलाओं के जलविहार के समय आलिङ्गन के कारण, कुङ्कुम के रंग से कषायित ( लाल रंग से युक्त, सुगन्धि से युक्त, ) मध्यभागवाली हो जाती थीं और सारी रात बीत जाने पर भी उसी प्रकार प्रसन्न ( निर्मल ) नहीं होती थीं ( 'लाल' ही बनी रहती थीं ) जैसे अन्य रमणियों में अनुराग होने के कारण, पति के अवयव में लगे हुए कुंकुम आदि भोगचिह्नों को देखकर, ईर्ष्या से कलुषित हृदयवाली हो, हठ पकड़ने वाली मानिनी नायिका समूची रात बीत जाने पर भी प्रसन्न नहीं होती ( रोषयुक्ता ही बनी रहती है ) ॥ क्षणनीरवया यया निशि श्रितवप्रावलियोगपट्टया । मणिवेश्ममयं स्म निर्मलं किमपि ज्योतिरवाह्यमीक्ष्यते ॥७८॥ क्षणेति । निशि=निशीथे [क्षणनीरवया] क्षणं नीरवया एकत्र सुप्तजनात्वाद्, अन्यत्र ध्यानस्तिमितत्वान्निःशब्दया [ श्रितवप्रावलियोगपट्टया ] श्रितः प्राप्तः वप्रावलिः योगपट्ट इव, अन्यत्र वप्रावलिरिव योगपट्टो यया सा तथोक्ता,.यया = नगर्या मणिवेश्ममयं तद्रूपं निर्मल अबाद्यम् = अन्तर्वर्ति किमपि = अवाङ्मन- सगोचरं ज्योतिः = प्रभा, आत्मज्योतिश्च । ईक्ष्यते = सेव्यते स्म । अत्र प्रस्तुत- नगरीविशेषसाम्यादप्रस्तुतयोगिनीप्रतीतेः समासोक्तिः ॥७८॥ मध्य रात्रि में ( सबलोगों के सो जाने के कारण ) नीरवता को प्राप्त हो, वप्रावली ( प्राकार-पंक्ति ) रूप योगपट्ट ( योगाभ्यास काल में गेरुआ वस्त्र ) धारण करने वाली कुण्डिन नगरी, रात्रि के समय अबाद्य ( परकोटे के भीतर ) रत्न ( स्फटिकादि मणि ) निर्मित गृहरूप निर्मल ( भव्य ) और ( अलौकिक सौन्दर्य के कारण ) अवर्णनीय ज्योति ( तेज, छुटा ) को उसी प्रकार प्राप्त होती थी; जिस तरह आधी रात के समय ब्रह्मसाक्षात्कार काल में, ध्यान के कारण निःस्तब्ध हो कोई योग-साधिका रात्रि में अबाद्य ( हृत्पुण्डरीक के भीतर ), निर्मल ( अविद्यादि दोष रहित ) किसी अनिर्वचनीय ( वाणी तथा मन से परे ) ज्योति ( परम ब्रह्म ) का साक्षात्कार करती है ॥७८॥ विललास जलाशयोदरे क्वचन द्यौरनुबिम्बितेव या ।
११० नैषधचरितम् । [ द्वितीयः परिखा-कपट-स्फुट-स्फुरत्प्रतिबिम्बानवलम्बिताम्बुनि ॥७९॥ विललासेति । या = नगरी [ परिखा कपट-स्फुट-स्फुरत्-प्रतिबिम्बान- वलम्बिताम्बुनि ] परिखायाः कपटेन व्याजेन, स्फुटं परितो व्यक्तं, तथा स्फुरता प्रतिबिम्बेनावलम्बितं, मध्ये चागृह्यमाणं चाम्बु यस्मिन् तस्मिन् । प्रतिबिम्बाक्रान्त- मम्बु परितः स्फुरति, प्रतिबिम्बदेशे न स्फुरति तेनैव प्रतिबिम्बादिति भावः। क्वचन = कुत्रचिज्जलाशयोदरे = हृदमध्ये, कस्यचित् हृदस्य मध्य इत्यर्थः । अनुबिम्बिता = प्रतिबिम्बिता द्यौः = अमरावती इव विललास, इत्युत्प्रेक्षा ॥७६॥ यह नगरी-( अपने चारो स्थित ) खाई के जल के बहाने स्पष्टरूप से ( देवपुरी की ) प्रतिबिम्ब स्वरूप और ( उसकी अपेक्षा अधिक विस्तृत होने के कारण कहीं कहीं परिल्छाईं नहीं पड़ रही थी अतः ) अनाक्रान्त जल वाले, किसी सरोवर के भीतर प्रतिबिम्बित-स्वर्गपुरी के समान शोभायमान प्रतीत हो रही थी ( अर्थात् वह नगरी इस प्रकार प्रतिभासित हो रही थी मानो किसी जलाशय के भीतर ऊपरस्थित स्वर्गपुरी की ही परिल्छाईं पड़ रही हो । यह नगरी स्वर्गपुरी से भी अधिक बड़ी थी, इसलिए उसके समूचे खाई के जल में स्वर्ग की परिल्छाईं नहीं पड़ रही थी; शेष भाग उसी प्रकार अनाक्रान्त रह जाता था, अतः वहीं बाहरी खाई का जल मालूम पड़ रहा था ) ॥७६॥ व्रजते दिवि यद्गृहावली-चल-चेलाञ्चल-दण्ड-ताडनाः। व्यतरन्नरुणाय विश्रमं सृजते हेलि-हयालि-कालनाम् ॥ ८० ॥ व्रजत इति । [ यद्गृहावली-चल-चेलाञ्चल-दण्ड-ताडनाः ] यस्यां नगर्यां गृहावलीषु चलाः चञ्चलाः चेलाञ्चलाः पताकाग्राणि ता एव दण्डास्तैः ताडनाः कशाघाता इत्यर्थः । ताः कर्यो दिवं व्रजते = खे गच्छते [ हेलि हयालि-काल- नाम् ] हेलिहयालेः सूर्याश्वपङ्क्तेः । 'हेलिरालिङ्गने रवौ' इति वैजयन्ती । कालनां चोदनां सृजते = कुर्वते अरुणाय = सूर्यसारथये विश्रमं = स्वयं तत्कार्यकरणाद्वि- श्रान्तिम् । 'नोदात्तोपदेश' इत्यादिना घञि वृद्धिप्रतिषेधः । व्यतरन् = ददुः । अत्र हेलिहयालेश्चेलाञ्चलदण्डताडनासम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिभेदः । तेन गृहाणामर्कमण्डलपर्यन्तभौन्नत्यं व्यज्यत इति अलङ्कारेण वस्तुध्वनिः ॥८०॥ जिस नगरी की ( गगन-चुम्बी ) अट्टालिकाओं के ऊपर, ( हवा के वेग से ) चञ्चल हुए पतङ्गि-वस्त्र की नोंक पर लगे हुए डण्डे के आघात--( कुण्डिनपुर के
सर्गः २ ] जीवातु-मदयन्तिकासहितम् १११ पर ) आकाश-मार्ग में जाते हुए, सूर्य के अश्व-समूहों को—मानो चाबुक से हाँकते हुए, सूर्य-सारथि अरुण को—विश्राम दे रहे थे ॥८०॥ क्षितिगर्भधरान्वरालयैस्तलमध्योपरिपूर्णां पृथक् । जगतां खलु याखिलाद्भुताजनि सारैर्निजचिह्नधारिभिः ॥ ८१ ॥ क्षितीति । [ तलमध्योपरिपूर्णां ] तलमध्योपरि अधोमध्योर्ध्वदेशान् पूरयन्तीति तत्पूरिणां, जगतां = पातालभूमिखर्गाणां पृथक् = असङ्कीर्णं [ निज- चिह्नधारिभिः ] यानि निजानि प्रतिनियतानि निजचिह्नानि निध्यन्नपानस्रक्चन्द- नादिलिङ्गानि धारयन्तीति तद्धारिभिस्तथोक्तैः सारैः = उत्कृष्टैः [ क्षितिगर्भ-धराम्ब- रालयैः ] क्षितिगर्भे क्षितिकुहरे, पाताले धरायां भूपृष्ठे, अम्बरे आकाशे च, ये आलया गृहाः तैः भूम्यन्तर्बहिःशिरोगृहैरित्यर्थः । या = नगरी [ अखिलाद्भुता ] अखिला कृत्स्ना, अद्भुता चित्रा, अजनि = जाता । 'दीपजन' इत्यादिना जनेः कर्त्तरि लुङ्, च्लेश्चिणादेशः । खलु । अत्र क्षितिगर्भादीनां तलमध्योपरि जगत्सु सतां तच्चि- ह्नानाञ्च यथासंख्यसम्बन्धात् यथासंख्यालङ्कारः । एतेन त्रैलोक्यवैभवं गम्यते ॥८१॥ जो नगरी—तल ( निचली मञ्जिल, अर्थात् पाताल-स्वरूप ), मध्य ( बिचली मञ्जिल, अर्थात् भूलोकरूप ) और ऊपरी मञ्जिल (अर्थात् स्वर्गलोक स्वरूप ) को अपने रूप से व्याप्त करनेवाले, (अर्थात् पाताल, भूतल, स्वर्ग नामधारी) त्रिभुवन के श्रेष्ठ अंश से, पृथक्-पृथक्, अपने-अपने चिह्नों ( निचली मञ्जिल में पाताल चिह्न मणि आदि; बिचली मञ्जिल में भूतलचिह्न अनाज-पानी आदि; ऊपरी मञ्जिल में स्वर्गचिह्न स्थिरयौवना वराङ्गना, इत्र, फुलेल आदि ) को धारण करनेवाले, क्षितिगर्भस्थ भवनों (चोरी डकैती से बचने के लिए पातालचिह्न खजाना युक्त तहखाना वाले मकानों ), धरास्थित भवनों (भूतल पर बनी हुई दूसरी मञ्जिल में भूतलचिह्न अनाजपानी वाले मकानों) और अम्बर-स्थित भवनों (आकाशस्थित ऊपरी मञ्जिल में, तच्चिह्न स्थिरयौवना वराङ्गना, अङ्गराग आदि विलास के समस्त साधनों) द्वारा—समस्त नगरियों से बढ़कर आश्चर्यदायिनी हुई ॥ ८१ ॥ दधदम्बुदनीलकण्ठतां वहदत्यच्छसुधोज्ज्वलं वपुः। कथमुच्छ्लत्तु यत्र नाम न क्षितिभृन्मन्दिरमिन्दुमौलिताम् ॥ ८२ ॥ दधदिति । यत्र = नगर्याम् [ अम्बुद-नीलकण्ठतां ] अम्बुदैरम्बुदवन्नीलः कण्ठः शिखरोपकण्ठः गलश्च यस्य तस्य भावस्तत्ता ताम् । 'कण्ठो गले सन्निधाने' इति
११२ नैषधचरितम् । [ द्वितीयः विधः । [दधत्] [अत्यच्छसुधोज्ज्वलं] अच्छया सुधया लेपनद्रव्येण च सुधा- वदमृतवच्चोज्ज्वलं वपुर्वहत् । 'सुधालेपोऽमृतं सुधा'इत्यमरः । क्षितिभृन्मन्दिरं = राजभवनम् इन्दुमौलिताम् = इन्दुमण्डलपर्यन्तशिखरत्वं, कथं नाम न ऋच्छतु = गच्छत्वेवेत्यर्थः । राजभवनस्य तादृशौन्नत्यं युक्तमिति भावः । अन्यत्र नीलकण्ठस्य इन्दुमौलित्वमीश्वरत्वं च युक्तमिति भावः । अत्र विशेषणविशेष्याणां श्लिष्टानाम- भिधायाः प्रकृतार्थमात्रनियन्त्रणात् प्रकृतेश्वरप्रतीतेः ध्वनिरेव ॥ ८२ ॥ उस नगरी में - मेघों से श्यामरङ्ग शिखर प्रदेशवाला, अत्यन्त निर्मल चूने की छुहाई से सफेद आकार (सतह) वाला और इन्दु मण्डल पर्यन्त (अत्युच्च) शिखरवाला, क्षितिपाल भीम का राजमहल- (कालकूट विषपान करने से) मेघ के समान नीलकण्ठवाले, अतीव स्वच्छ अमृत के समान शुभ्र दीप्तिशाली शरीरवाले और शिर पर चन्द्रमा धारण करनेवाले इन्द्र-मौलि भगवान् शिव के साथ-क्यों न समानता प्राप्त करता ? ॥ ८२ ॥ बहुरूपकशालभञ्जिका-मुखचन्द्रेषु कलङ्करङ्कवः । यदनेककसौधकन्धरा-हरिभिः कुक्षिगतोकृता इव ॥ ८३ ॥ बह्विति । [बहु-रूपक-शाल-भञ्जिका-मुखचन्द्रेषु] बहुरूपकाः भूयिष्ठ- सौन्दर्याः । शैषिकः कप्रत्ययः । तेषु शालभञ्जिकानां कृत्रिमपुत्रिकाणां मुखचन्द्रेषु कलङ्करङ्कवः = चन्द्रत्वात् सम्भाविताः कलङ्कमृगाः ते [यदनेकक-सौधकन्धरा- हरिभिः] यस्यां नगर्याम् अनेककेषां बहूनां सौधानां कन्धरासु कण्ठ- प्रदेशेषु, ये हरयः सिंहाः, तैः कुक्षिगतीकृता इव = ग्रस्ताः किम् । इत्युत्प्रेक्षा मुख- चन्द्राणां निष्कलङ्कत्वनिमित्तात् । अन्यथा कथं चन्द्रे निष्कलङ्कतेति भावः ॥ ८३॥ जिस नगरी के बहुत से राजमहलों के खम्भों पर बनी हुई (पत्थर की) मूर्तियां ने - अनेक रूप की बनी हुई पुतलियों के मुख-चन्द्रों के-कलङ्क रूपी हरिणों को, मानो खा लिया है - ऐसा प्रतीत होता था ॥ ८३ ॥ बलिसद्मादिवं स तथ्यवागुपरि स्माह दिवोऽपि नारदः । अधराय कृता ययेव सा विपरीताजनि भूविभूषया ॥ ८४ ॥ बलीति । स = प्रसिद्धः तथ्यवाक् = सत्यवचनः नारदः बलिसद्मादिवं = पातालस्वर्गे दिवः = मेरुस्वर्गाद्, अप्युपरि = उपरि स्थितामुत्कृष्टाञ्च । आह स्म= उक्तवान् । अर्थ = यस्यां भूविभूषणभूषा यया = नगर्या । अधरा = न्यूना, अधस्ताच्च
सर्गः २ ] जीवातु-मद्यन्तिकासहितम् ११३ कृता इव = इत्युत्प्रेक्षा । साऽपि सत्यवादिना नारदेनोक्तेरपि विपरीता अजनि । सर्वोपरिस्थितायाः पुनरधःस्थितिः वैपरीत्यम् ॥ ८४ ॥ उस सत्यवादी नारद ने (विष्णुपुराण में) कहा था कि राजा बलि का पाताल रूपी स्वर्ग, स्वर्गलोक से भी ऊपर (उत्कृष्ट) है। पर, पृथिवी की अलङ्कार-रूपा इस कुण्डिन नगरी ने (अपनी स्थापना के अनन्तर, अपने सौन्दर्य से) उस (पाताल लोकरूपी स्वर्ग) को भी अधर कर (नीचा दिखला) दिया । अतः अब वह (बलिलोक) विपरीत (उल्टी अर्थात् निम्न श्रेणी की) हो गयी है ॥८४॥ प्रतिहट्टपथे घरट्टजात् पथिकाह्वानदसक्तुसौरभैः । कलहान्न घनान् यदुत्थितादधुनाप्युज्झति घर्घरस्वरः ॥८५॥ प्रतीति । [पथिकाह्वानद-सक्तुसौरभैः ] पन्थानं गच्छन्तीति पथिकाः, तेषामाह्वानं ददातीति तथोक्तमाह्वायिकम्, अध्वानं गच्छतामाकर्षकमित्यर्थः । सक्तूनां सौरभं सुगन्धो यस्मिन् प्रतिहट्टपथे = प्रत्यापणपथे । 'अव्ययं विभक्ति' इत्यादिना वीप्सायामव्ययीभावः । 'तृतीयासप्तम्योर्बहुलम्' इति सप्तम्या अम्भावः । [ घरट्ट- जात् ] घरट्टाः गोधूमचूर्णग्रावाणः तज्जात्, [ यदुत्थितात् ] यस्या नगर्याः उत्थि- तात् कलहात् घर्घरस्वरः = निर्झरस्वरः कण्ठध्वनिः घनान् = मेघान् अधुनापि नोज्झति = न त्यजति । सर्वदा सर्वहट्टेषु घरट्टा मेघध्वानं ध्वनन्तीति भावः । अत्र घनानां घरट्टकलहासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः । तथा च घर्घरस्वनस्य तद्धेतु- कत्वोत्प्रेक्षा व्यञ्जकाप्रयोगात् गम्येति सङ्करः ॥८५॥ प्रत्येक हाट में पथिकों को बुलाने वाली सत्तू की सुगन्धि से, जाँतों के कारण उत्पन्न हुए, कलह के द्वारा — घर्घर की आवाज़ — आज दिन भी मेघों को नहीं छोड़ रही है । [ अर्थात् काले-काले बादल अपनी गड़गड़ाहट से प्रवासी प्रेमियों को अपने अपने घर जाने के लिए प्रेरणा कर रहे हैं । उधर कुण्डिन नगर के हर बाजार में जाँता-चकियाँ चल रही हैं, जिनमें खूब सुगन्धित सत्तू पीसे जा रहे हैं । अतः वे इस प्रकार घर्घर-घर्घर की आवाज़ कर रही हैं मानों पथिकों को वहाँ रुकने के लिए निमन्त्रण दे रही हैं। यह देखकर (पथिक को प्रेरणा करनेवाले) मेघ और (पथिक को अपने यहाँ रोकनेवाली) जाँतों में पारस्परिक वाक्कलह हुआ (आपसी कहा-सुनी हो गयी) । इसमें स्वरभङ्ग हो (गला बैठ) जाने के कारण मेघों की घर्घर ध्वनि हो गयी—जो आज दिन तक सुनाई पड़ती है ] ॥८५॥ ८
११३] नैषधचरितम् । [द्वितीय ... गताम् । घनरलकवाटपक्षतिः परिरभ्यानुनयन्नुवास याम् ॥८६॥ वरण इति । कनकस्य सम्बन्धी वरणः=तद्विकारः प्राकारः स एव अमराद्रिः = मेरुः, यां=नगरीमेव मानिनीं=कोपसम्पन्नाम् अत एव अङ्कात्=निजोत्सङ्गात् आगतां भूलोकं प्राप्तां दिवम् = अमरावतीं [ घन-रत्न-कवाट-पक्षतिः ] घने निविडे रत्नानां कवाटे रत्नमयकवाटे एव पक्षती पक्षमूले यस्य स सन् परिरभ्य = उपगूह्य मेरोः पक्षवत्त्वात् पक्षतिरूपत्वम् अनुनयन् = अनुसरन् अनुवर्त्तमानः उवास । कामिनः प्रणयकुपितां प्रेयसीमाप्रसादमन्वगच्छन्तीति भावः । रूपकालङ्कारः स्फुट एव । तेन चेयं नगरी कुतश्चित् कारणादागता द्यौरेव वरणश्च स्वर्णाद्रिरेवेत्यु- त्प्रेक्षा व्यज्यते ॥८६॥ घने रत्न कपाटरूप दो पंखों वाला, सोने का परकोटावाला (देवपर्वत) सुमेरु- मानिनी ( प्रणयकुपिता; सम्मानयोग्या ) होने के कारण, अपनी गोद छोड़कर, ( भूतल पर ) आयी हुई, उस स्वर्ग-भू-तुल्या कुण्डिन नगरी (नायिका) का—मानो आवेष्टन ( घेरा, आलिङ्गन ) द्वारा, प्रसन्न ( अनुनय-विनय ) करता हुआ, निवास कर रहा था ॥ ८६ ॥ अनलैः परिवेषमेत्य या ज्वलदर्कपल-वप्र-जन्मभिः । उदय लयमन्तरा रवेरवहदद्वाणपुरीपरार्द्धयताम् ॥८७॥ अनलैरिति । या= नगरी रवेरुदयं लयम् = अस्तमयं चान्तरा=तयो- र्मध्यकाल इत्यर्थः । 'अन्तराऽन्तरेण युक्ते' इति द्वितीया । [ ज्वलदर्कपलो वप्र- जन्मभिः ] ज्वलतामर्कशुसम्पर्कात् प्रज्वलताम्, अर्कोफलानां वप्राइजन्म येषां तैः सूर्यकान्तैः प्राकारजन्यैः, अनलैः, परिवेषम् एत्य = परिवेष्टनं प्राप्य, [ बाणपुरी- परार्द्धयताम् ] बाणपुर्य्याः बाणासुरनगर्य्याः शोणितपुरस्य, परार्द्धयतां श्रेष्ठताम्, अवहत् । अत्रान्यधर्मस्यान्येन सम्बन्धासम्भवात् । तादृशीं परार्द्धयतामिति सादृश्या'- क्षेपान्निदर्शनालङ्कारः ॥८७॥ यह नगरी, सूर्य के उदय से लेकर अस्त तक (अर्थात् दिन भर), जलती हुई सूर्यकान्तमणि के बने हुए परकोटे से, ( सूर्यकिरणों के सम्पर्क से ) उत्पन्न हुई आग के परिवेष ( चारो ओर के घेरे ) को पाकर, बाणासुर-नगरी शोणितपुरी के तुल्य श्रेष्ठ ( अर्थात् प्रकाशमान ) थी ॥८७॥