भारतकोश
संग्रह पर लौटें

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

सर्गः २ ] जीवातु-मदयन्तिकासहितम् । ७१ Digitized by Sarayu Trust Foundation and eGangotri कोटिकुट्टनैः ] पटुचञ्चूपुटस्य समर्थत्रोटेः कोट्योः अग्रेण कुट्टनैः घट्टनैस्तनुरल्पा कण्डूर्यस्मिन्, तनुकण्डु यथा तथा । गोस्त्रियोरुपसर्जनस्य' इति ह्रस्वः । नुनुदे = निवारितवान् । 'स्वरितञितः' इत्यात्मनेपदम् ॥ ४ ॥ दुर्गरूपी पंखों के समूह में इधर-उधर घुसजाने से पकड़ में न आने वाले; कहीं (गुप्तस्थान में) रहनेवाले और तीव्रता से काटनेवाले कीड़ों को—खुजलाने में पण्डित उस हंस ने, —अपनी मजबूत चोंच की नोंक के प्रहार से धीरे-धीरे खुजला कर, निकाल बाहर किया (मारडाला) ॥ ४ ॥ अयमेत्य तडागनीडजैर्लघु पर्य्यश्रियताथ शङ्कितैः । उदड यत वैकृतात् करग्रहजादस्य विकस्वरस्वरैः ॥ ५ ॥ अयमिति । अयं = हंसः तडागनीडजैः = सरःपक्षिभिस्तत्रत्यहंसैः । 'नीडो- द्भवा गरुत्मन्तः' इत्यमरः । लघु=क्षिप्रम् एत्य=आगत्य पर्य्यश्रियत = परिवृतः । वृणोतेः कर्मणि लङ् । अथ=परिवेष्टनानन्तरम् अस्य =हंसस्य करग्रहजात् = नलकर- पीडनजन्यात् विकृतादेव वैकृताद् = विलुण्ठितपक्षस्वरूपादिकारदर्शनादित्यर्थः । स्वार्थेऽण् प्रत्ययः । शङ्कितैः = चकितैः । अत एव विकस्वरस्वरैः = उच्चघोषैस्तैः उदडीयत = उड्डीनं । डीङो भावे लङ् ॥ ५ ॥ तालाब के पक्षियों ने जल्दी से आकर, उस राजहंस को घेर लिया पर बाद में, नल के हाथों में जाने से उस के अस्त-व्यस्त हुए पंखों के देखने से, त्रस्त होकर, विस्पष्टरूप से जोर-जोर शब्द करते हुए वे उड़ गये ॥ ५ ॥ दधतो बहुशैव लक्षमतां धृतरुद्राक्षमधुव्रतं खगः । स नलस्य ययौ करं पुनः सरसः कोकनदभ्रमादिव ॥ ६ ॥ दधत इति । अथ स खगः = हंसः, [ बहुशैवळक्षमतां ] बहुशैवला भूरि- शैवला, क्ष्मा भूर्यस्य तद्बहुशैवल्दमं, तस्य भावः तत्ता तां दधतः = दधानात् सरसः = पल्वलात् [ बहुशैव-लक्षमता ] बहूनि शैव-लक्ष्मशानि शिवभक्तचिह्नानि यस्य स बहुशैव-लक्ष्म तस्य भावः, तत्ता तां दधतः = दधानस्य नलस्य [धृतरुद्रा- क्षमधुव्रतं ] रुद्राक्षाणि मधुव्रता इवेत्युपमितसमासः । ते धृता येन तं करं कोक- नदभ्रमात् = रक्तोत्पलभ्रान्तेः इव पुनर्ययौ । कोकनदं तु रुद्राक्षसदृशमधुव्रतं खलु । अत्र बहुशैवलेत्यादौ शब्दश्लेषः। सरसि वणिता रुद्राक्षमधुव्रतमित्युपमा, तत्सा- पेक्षा चेयं कोकनदभ्रमादिवेत्युत्प्रेक्षेति सङ्करः ॥ ६ ॥

७६ नैषधचरितम् । [ द्वितीयः वह राजहंस—चतुर्दिक् पृथ्वी में व्याप्त बहुत सी सेवार वाले और रुद्राक्ष के समान भ्रमर धारण करने वाले सरोवर से--विविध शैवचिह्नों ( भस्म, त्रिपुण्ड्र ) के धारण करने वाले और भौरों की पंक्ति के समान रुद्राक्ष धारण करने वाले ( सरोवरतुल्यशरीर वाले ) नल के ( रक्तवर्ण ) हाथ में, कोकनद ( लाल कमल ) की भ्रान्ति ( धोखे ) से, मानों फिर चला आया ॥ ६ ॥ पतगश्चिरकाललालनादतिविश्रम्भमवापितो नु सः । अतुलं विदधे कुतूहलं भुजमेतस्य भजन् महीभुजः ॥ ७ ॥ अथास्य स्वयमागपनादुत्प्रेक्षते—पतग इति । स पतगः=हंसः चिरकालला- लन द् = उपलालनाद् अतिविश्रम्भम् = अतिविश्वासं । 'समौ विश्रम्भ-विश्वासौ' इत्यमरः । अवापितः = प्रापितो नु = किम् इत्युत्प्रेक्षा । अन्यथा कथं पुनः स्वय- मागच्छेदिति भावः । किञ्च एतस्य महीभुजो भुजं भजन् = स्वयमाप्नुवन् , अतुलं कुतूहलं, विदधे = कौतुकञ्चकारेत्यर्थः । अत्रोत्प्रेक्षावृत्त्यनुप्रासयोः शब्दार्थालङ्कार- योस्तिलतण्डुलवत् संसृष्टिः । 'एकद्वित्र्यादिवर्णानां पुनरुक्तिर्भवेद्यदि । सङ्ख्यानियम- मुल्लङ्घ्य वृत्त्यनुप्रास इरितः' इति ॥ ७ ॥ उस हंस ने—बहुत देर तक लालन के निमित्त ( कोमल भाव से हाथ में ) लिये रहने के कारण, मानों अत्यन्त विश्वस्त हो, उन के हाथ का आश्रय लेकर— राजा नल के ( मन में ) अनुपम कुतूहल उत्पन्न किया ॥ ७ ॥ नृपमानसमिष्टमानसः स निमज्जत्कुतुकामृतोर्मिषु । अवलम्बितकर्णशष्कुलीकलसीकं रचयन्नवोचत ॥ ८ ॥ नृपमानसमिति । इष्टमानसः = प्रियमानसः स = राजहंसः । [ कुतुका- मृतोर्मिषु ] कुतुकं हर्षस्तदेव अमृतं सुधा तस्योर्मिषु निमज्जद् = अन्तर्गतं नृप- मानसं = नलमनः । [ अवलम्बित-कर्णशष्कुली-कलसीकं ] कर्णौ शष्कुल्याविवि कर्णशष्कुल्यौ ते एव कलस्यौ ते अवलम्बिते अवधीकृते धृते च येन तत्तथोक्तं । 'नद्यृतश्च'इति कन् । रचयन्=कुर्वन् अवोचत=उक्तवान् । जले मज्जन्नपि तरणार्थं कलसमवलम्बते, तद्वत् । कर्णशष्कुली-कलश्यावित्युपमारूपकयोः संसृष्टिः ॥ ८ ॥ मानसरोवर-प्रिय हंस ने—कुतूहलरूप अमृत-तरङ्गों में डूबते हुए, राजा नल के चित्त को, ( जिस प्रकार कोई व्यक्ति दो कलशों को फेंक कर, जल-तरङ्गों में

सर्गः २ ] जीवातु-मदयन्तिकासहितम् । ७७ Digitized by Sarayu Trust Foundation and eGangotri डूबते हुए मनुष्य को बचाता है, उसी प्रकार ) कानों के ( दो ) छेद रूपी दो कलशों का अवलम्बन ( सहारा ) देकर, — कहा ॥ ८ ॥ मृगया न विगीयते नृपैरपि धर्मागममर्मपारगैः । स्मरसुन्दर ! मां यदत्यजस्तव धर्मः स दयोदयोज्ज्वलः ॥ ९ ॥ मृगयेति । धर्मागममर्मपारगैः = धर्मशास्त्रतत्त्वपारदर्शिभिः अपि । 'अन्तात्यन्ताध्वरदूरपारसर्वानन्तेषु डः' इति गमेर्डप्रत्ययः । नृपैर्मृगया = आखेटो न विगीयते=न गर्ह्यते, तथापि हे स्मरसुन्दर ! माम् अत्यज इति यत् स=त्याग- स्तव [ दयोदयोज्ज्वलः ] दयोदयेनोज्ज्वलो विमलः, निरुपाधिक इति यावत् । धर्मः=सुकृतं; न केवलमाकारादेव सुन्दरोऽसि, किन्तु धर्मतोऽपीति भावः ॥ ६ ॥ धर्मशास्त्र के मर्मज्ञ राजा लोग भी शिकार की निन्दा नहीं करते । तथापि हे कामदेव के समान सुन्दर राजन् ! आपने जो ( पकड़ कर भी ) छोड़ दिया, सो इस का (एकमात्र) कारण आपका धर्म है--जो दया के आविर्भाव से सुन्दर है ॥ अबलस्वकुलाशिनो झषान् निजनीडद्रुमपीडिनः खगान् । अनवद्यतृणार्दिनो मृगान् मृगयाघाय न भूभृतां घ्नताम् ॥१०॥ ननु प्राणिहिंसा कथं न विगीयते तत आह- - अबलेति अबलस्वकुलाशिनो झषान् । दुर्बलस्वकुलघातिनो मत्स्या इति प्रसिद्धिः । निजनीडद्रुमपीडिनः = विण्मूत्रफलभक्षणादिना स्वाश्रयवृक्षपीडाकरान् खगान्, अनवद्यतृणार्दिनः = अनपराधितृणहिंसकान् मृगान् । 'अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विताः' इति मनुस्मृत्या तरुतृणादीनामपि प्राणित्वात्तद्धिंसा पीडैव' इति भावः । सर्वत्रापि ताच्छील्ये णिनिप्रत्ययः । घ्नतां = हिंसतां भूभृतां=राज्ञां मृगया अघाय=पापाय, न भवति ; तद्दण्डस्य दण्डरूपत्वात्, प्रत्युताकरणे दोष इति भावः ॥१०॥ अपने कुल के दुर्बल जीवों को खा जाने वाली मछलियों के, अपने घोंसला के पेड़ों को ( पत्ते, टहनी आदि को तोड़ कर, फल खा कर उस पर बीट कर ) कष्ट पहुँचाने वाले पक्षियों के और निरपराध ( कुश-कास आदि ) तिनकों को भक्षण कर पीड़ा पहुँचाने वाले मृगों के मारने वाले राजाओं को, शिकार करने से पाप नहीं लगता ॥१०॥ यदवादिषमप्रियं तव प्रियमाधाय नुनुत्सुरस्मि तत् । कृतमातपसंज्वरं तरोरभिवृष्ट्यामृतमंशुमानिव ॥ ११ ॥

७८ नैषधचरितम् । [द्वितीयः तथापि किमर्थं पुनरागत इत्यत आह—यदिति । तब यद् अप्रियम् अव- दिषम् = अवोचम् । प्रियम् आधाय=प्रियं कृत्वा, तत् अप्रियं, तरोः कृतं=स्व- कृतम् [आतपसञ्ज्वरं] आतपसन्तापम् अमृतम् = उदकम् अभिवृष्य । 'पयः कीलालममृतम्'इत्यमरः । अंशुमानिव नुनुत्सुः = नोदितुं प्रमाष्टुमिच्छुः अस्मि ! 'नुदप्रेरणे' इत्यस्माद्धातोः सन्नन्तादुप्रत्ययः ॥ ११ ॥ जिस प्रकार आतप (धूप) से की गयी वृक्ष की पीडा को, जल बरसा कर, सूर्य निवारण कर देता है, उसी प्रकार हे राजन् ! (पूर्व में) आपसे जो मैंने अप्रिय (कर्णकटु) वचन कहे थे, उन (अप्रिय शब्दों) का, प्रिय शब्दों को कहकर, परिमार्जन करना चाहता हूँ ॥ ११ ॥ उपनम्रमयाचितं हितं परिहर्तुं न तवापि साम्प्रतम् । करकल्पजनान्तराद्विधेः शुचितः प्रापि स हि प्रतिग्रहः ॥ १२ ॥ तर्हि भवन्मोचनं सुकृतमेव मम पर्याप्तम् किं दृष्टोपकारेणेति न वाच्यमित्याह- उपनम्रमिति । अयाचितम् = अप्रार्थितम् , उपनम्रम् = उपनतं हितम् = इह चामुत्र चोपकारकं, तवापि परिहर्तुं न साम्प्रतं = न युक्तम् । 'अयाचितं हितं ग्राह्यमपि दुष्कृतकर्मणः'इति स्मरणादिति भावः । तदपि मादृशात् कथं ग्राह्यमत आह--करेति । हि = यस्मात्कारणात्, स प्रतिग्रहः [कर-कल्प-जनान्तरात् ] करकल्पं करस्थानीयमित्यर्थः । ईषदसमाप्तौ कल्पप्प्रत्ययः । यज्जनान्तरं स्वयं यस्य तस्मात् शुचितः = शुद्धाद् विधेः = ब्रह्मणः प्रापि = प्राप्तः, न तु मत्त इति भावः । आप्नोतेः कर्मणि लुङ् । विधिरैव ते दाता, अहं तस्योपकरणमात्रम् ; अतो न याच्ञालाघवं तवेति भावः ॥ १२ ॥ बिना माँगे, किन्तु स्वयमेव आए हुए, कल्याण-कारक पदार्थ का परित्याग करना—आप (जैसे चक्रवर्ती सम्राट्) को भी उचित नहीं है; क्योंकि यह प्रति- ग्रह (उपहार) अपने हाथ सदृश (सर्वथा परिचित एवं स्वाधीन) दूसरे पवित्र जन (अर्थात् मुझ) से प्राप्त होने पर भी वस्तुतः विधाता (सौभाग्य) द्वारा प्राप्त हुआ है, यह समझना चाहिए ॥ १२ ॥ पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते ? । इति वेद्मिन तु त्यजन्ति मां तदपि प्रत्युपकर्तुमर्त्तयः ॥ १३ ॥ ननु सार्वभौमस्य मे तिरश्चा त्वया किमुपकरिष्यत ? तत्राह—पतगेनेति ।

सर्गः २ ] जीवातु-मदयन्तिकासहितम् । ७९ पतङ्गेन = पक्षिमात्रेण मया जगतपतेः = सार्वभौमस्य तव, उपकृत्य = उपकाराय प्रभूयते = क्षम्यते किं = न भूयत एवेत्यर्थः । भावे लट् । इति वेद्मि = अक्षमत्वं जानामि, तु तदपि = तथापि, अत्तयः, यास्तु त्वया विनिवर्तिता इति भावः । मां प्रत्युपकर्त्तुं न त्यजन्ति, प्रत्युपकरणाय प्रेरयन्तीत्यर्थः । अत्र पतगोऽप्यहं महोपकारिणस्ते महोपकारं करवाणीति भावः ॥ १३ ॥ मैं पक्षी होकर भी, आप जैसे चक्रवर्ती का उपकार करने में क्या समर्थ हो सकता हूँ ?-यह बात मैं जानता हूँ, तथापि प्रत्युपकार करने की, मेरी मानसिक पीड़ा, मेरा पीछा नहीं छोड़ रही है ॥ १३ ॥ अचिरादुपकर्त्त राचरेदथवाऽऽत्मौपयिकीमुपक्रियाम् । पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥ १४ ॥ अथ वा यथाशक्ति पक्षोऽस्त्वित्याह-अचिरादिति । अथवा उपकर्त्तुः, अचिरात्, = अविलम्बात् । उपाय एवौपयिकः । विनयादित्वात् स्वार्थे ठक् । 'उप- धाया ह्रस्वत्वञ्च' इति ह्रस्वः । तत आगता औपयिकी, ताम् आत्मौपयिकीं = स्वोपायसाध्यामित्यर्थः । तत आगत इत्यण्प्रत्यये 'टिड्ढाणञ्'इत्यादिना ङीप् । उपक्रियामाचरेत् = प्रत्युपकारं कुर्यात् । चरधातो र्विधिलिङ् । इत्थम् = एवं सति सा = उपक्रिया पृथुः = अधिका अस्तु अथ = अथवा अणुः =अल्पाऽस्तु विदुषां = विवेकिनाम् इह = अस्मिन् विषये विशेषे ग्रहः = आग्रहो न । गुण- ग्राहिणो विवेकिनः कृतज्ञतामेव अस्य पश्यन्ति, न दोषमन्विष्यन्तीत्यर्थः ॥१४॥ अथवा, मनुष्य को चाहिए कि उपकार करने वाले के प्रति, यथासम्भव यथा- शक्ति अपनी उपाय क्रिया द्वारा अविलम्ब उपकार कर दें । वह प्रत्युपकार चाहे छोटा या बड़ा-इस विषय में विवेकीजन विशेष आग्रह नहीं मानते ॥ १४ ॥ भविता न विचारचारु चेत्तदपि श्रव्यमिदं मदोरितम् । खगबागियमित्यतोऽपि किं न मुदं दाभ्यति कीरगीरिव ? ॥ १५ ॥ अथ स्ववाक्ये आदरं याचते-भवितेति । हे नृप ! इदं = वक्ष्यमाणं मदो- रितं = मद्बचनं । [ विचारचारु ] विचारे विमर्शो, चारु युक्तं, न भविता = न भविष्यति चेत्तदपि = अविचारितरमणीयमपि श्रव्यं = श्रोतव्यम् । इयं खगवाक् इति अतः अपि हेतोः कीरगीः = शुकवाक् इव मुदं किं न दास्यति ? दास्यत्येव । प्रयोजनान्तराभावेऽपि कौतुकादपि श्रोतव्यमित्यर्थः । ददातेः लुट् ॥१५॥

८० नैषधचरितम् । [ द्वितीयः Digitized by Sarayu Trust Foundation and eGangotri भले ही मेरी बात विचार के योग्य न हो, तो भी आप को सुननी चाहिए। पक्षी की बोली होने के कारण, तोते की बोली की भाँति, क्या ये आनन्ददायक न होंगी ? ॥ १५ ॥ स जयत्यरिसार्थसार्थकी-कृतनामा किल भीमभूपतिः । यमवाप्य विदर्भभूः प्रभुं हसति द्यामपि शक्रभर्तृकाम् ॥ १६ ॥ अथ यद्वक्तव्यं तदाह-स इति । [अरिसार्थसार्थकीकृत-नामा ] अर्थेन अभिधेयेन सह वर्त्तत इति सार्थ कम् । 'तेन सह' इति तुल्ययोगे इति बहुव्रीहिः । 'वोप- सर्जनस्य' इति सहशब्दस्य विकल्पात् सभावः । 'शेषाद्विभाषा' इति कप् समासान्तः । ततश्च्विरभूततद्भावे, अरिसार्थेषु शत्रुसङ्घेषु, सार्थकीकृतं नाम भीम इत्याख्या येन स तथोक्तः । स=प्रसिद्धः । बिभ्यत्यस्मादिति भीमः, 'भियो मः' इत्यपादानार्थे निपातनान्मप्रत्यय औणादिकः । भीम इति भूपतिः = नृपः, जयति किल = सर्वोत्कर्षेण वर्त्तते खलु । विदर्भभूः = विदर्भदेशः, यं = भूपतिं प्रभु = भर्त्तारम् अवाप्य शक्रो भर्त्ता यस्यास्तां शक्रभर्तृकां । 'नद्यृतश्च' इति कप् । द्यां = दिवं अपि हसति, किमुतान्यभर्तृकदेशानित्यर्थः । स्त्रियो हि भर्तु रुत्कर्षाद्वासं कुर्वन्तीति भावः। अत्र विदर्भभुवोऽपि द्युहासासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः ॥ १६ ॥ शत्रुओं के वर्ग में अपने (भीम) नामक को सार्थक करने वाले (अर्थात् भीम के नाम से शत्रुओं को भीषण भय होता था), विख्यात भूपति भीम की जय हो। जिन्हें अपना पति पाकर, विदर्भ-भूमि-इन्द्रपति वाली अमरावती पुरी का भी उपहास करती है ॥ १६ ॥ दमनादमनाक प्रसेदुषस्तनयां तथ्यगिरस्तपोधनात् । वरमाप स दिष्टविष्टपत्रितयानन्यसदृग्गुणोदयाम् ॥ १७ ॥ दमनादिति । स = भीमभूपतिः, अमनाक = अनल्पं प्रसेदुषः = निजो- पासनया प्रसन्नात् । 'भाषायां सदवसश्रुवः' इति सदेर्लिटः कसादेशः । दमनात् = दमनाख्यात् तथ्यगिरः = अमोघवचनात् तपोधनात् = ऋषेः [ दिष्ट-विष्टप-त्रित- याऽनन्यसदृग्गुणोदयां ] दिष्टानां कालानां, विष्टपानां लोकानाञ्च, त्रितययोरनन्य- सदृशी गुणोदयां, कालत्रये लोकत्रये चानन्यसाधारणगुणप्रकर्षों तनयां = दुहितरं वरमाप = वरत्वेन लब्धवानित्यर्थः । 'देवाद्दृते वरः श्रेष्ठे त्रिषु क्लीबं मनाक् प्रिये' इत्यमरः ॥ १७ ॥ CC-0. Prof. Satya Vrat Shastri Collection.

सर्गः २ ] जीवातु-मदयन्तिकासहितम् ८१ भीम राजा ने—परितोष से अत्यन्त प्रसन्न, दमनक नाम के... (Digitized by Sarayu Trust Foundation and eGangotri) नामक तपस्वी से--यह वरदान पाया कि उन्हें तीनों कालों और तीनों लोकों में लोकोत्तर सौन्दर्य आदि विविध गुणावली से सम्पन्न एक कन्या होगी ॥ १७ ॥ भुवनत्रयसुभ्रुवामसौ दमयन्ती कमनीयतामदम् । उदियाय यतस्तनुश्रिया दमयन्तीति ततोऽभिधां दधौ ॥ १८ ॥ अथास्या नामधेयं व्युत्पादयन्नेवाह-भुवनत्रयेति । असौ=वरप्रसादलब्धा तनया कर्त्री यतः तनुश्रिया = निजशरीरसौन्दर्येण करणेन । भुवनत्रयसुभ्रुवां=त्रैलोक्य- सुन्दरीणां कमनीयतामदं = सौन्दर्यगर्वं दमयन्ती = अस्तं गमयन्ती । दमेर्ण्यन्तात् 'न पादमि' इत्यादिना कर्त्रभिप्राय आत्मनेपदापवादः परस्मैपदप्रतिषेधेऽप्यकर्त्रभिप्राय- विवक्षायां परस्मैपदे लटः शत्रादेशः । उदियाय = उदिता । इणो लिट् । ततः = तस्मादेव निमित्ताद् दमयन्तीत्यभिधाम् = आख्यां दधौ । दधातेर्लिट् ॥१८॥ यतः वह कन्या अपने शरीर की कान्ति से त्रैलोक्य-सुन्दरियों के सौन्दर्य-गर्व का दमन करती हुई उत्पन्न हुई, इसीलिए उसका 'दमयन्ती' नाम ( सार्थक योगरूढ ) हो गया ॥ १८ ॥ श्रियमेव परं धराधिपाद्गुणसिन्धोरुदितामवेहि ताम् । व्यवधावपि वा विधोः कलां मृडचूडानिलयां न वेद कः ॥१९॥ अथैकविंशतिश्लोकैश्चिकुरादारभ्य पादपर्यन्तं दमयन्तीं वर्णयति-श्रियमिति । हे नृप ! ताम् = दमयन्तीं, गुणसिन्धोः = गुणसागरात्, धराधिपात् = भीमनरे- न्द्रात्, उदिताम् = उत्पन्नां श्रियं = साक्षाल्लक्ष्मीम् एव परं = ध्रुवम् अवेहि=जानीहि । अवपूर्वादिणो लोटि 'सेर्हिः' इति ह्यादेशे डित्त्वान्न सार्वधातुकगुणः संहितायामाद्गुणः । अत्र केवलादवपूर्वस्य इणो ज्ञानार्थत्वादाङ् प्रश्लेषे तदलाभात् । प्रश्लेषेऽपि 'ओमाङोश्च' इति पररूपमिति केषाञ्चित् प्रक्रियोपन्यासो वृथा प्रक्षाल्य त्यागः । अवैहीति वृद्धिरव- द्येति वामनसूत्रमप्यनाङ् प्रश्लेष एव भ्रान्तिप्राप्तवृद्धिप्रतिषेधपरम् । गुण एव युक्तः इति व्याख्यानात्, अन्यथा 'ओमाङोश्च' इति पररूपमेव युक्तमित्युच्येत इति । न च देशव्यवधानान्न श्रीरेवेति वाच्यमित्याह-व्यवधौ = व्यवधाने सत्यपि । 'उप- सर्गे घोः किः' इति किप्रत्ययः । मृडचूडानिलयां=हरशिखाश्रयां कलां विधोः= इन्दोरेव कलां को वा न वेद = सर्वोऽपि वेदैवेत्यर्थः । 'विदो लटो वा' इति वैकल्पिको णलादेशः । यथा हरशिरोगतापि कला चन्द्रकलैव तथा भीमभवनोदिताप्येषा ६

८२ नैषधचरितम् । [ द्वितीयः श्रीरेवेति सन्दर्भेनातिशयोक्तिः । अत्र श्रीकलयाः नृपमृडोर्वाक्यद्वये बिम्बप्रतिबिम्ब- भावेन सामान्यधर्मवत्तया निर्दिष्टाविति दृष्टान्तालङ्कारः । 'यत्र वाक्यद्वये बिम्बप्रति- बिम्बतयोच्यते । सामान्यधर्मः काव्यज्ञैः स दृष्टान्तो निगद्यते' ।। इति लक्षणात् ।। १६ ।। गुण-सागर राजा भीम से उत्पन्न उस दमयन्ती को साक्षात् लक्ष्मीस्वरूप ही समझिए । व्यवधान ( शिवजी के अप्रत्यक्ष ) होने पर भी कौन नहीं जानता कि उनके भाल पर चन्द्रकला विराजमान रहती है ? ।। १६ ।। चिकुरप्रकरा जयन्ति ते विदुषी मूर्द्धनि सा बिभर्ति यान् । पशुनाप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥२०॥ चिकुरप्रकरा इति । ते चिकुरप्रकराः = केशसमूहाः, जयन्ति = सर्वोत्क- र्षेण वर्तन्ते । यान्, वेत्तीति विदुषी = विशेषज्ञज्ञा । विदेः शतृर्वसुः । 'उगितश्च' इति ङीप् । वसोः सम्प्रसारणम् । सा = दमयन्ती मूर्द्धनि बिभर्ति । विद्वद्ग्रह एव सर्वस्याप्युत्कर्षहेतुरिति भावः । अत एव पशुना = तिरश्चा चमरीमृगेणापि अपुरस्कृतेन = अनादृतेन चामरेण = चमरीपुच्छेन सह तत्तुलनां = तेषां चिकुराणां समीकरणं क इच्छतु; न कोऽपीत्यर्थः । सम्भावनायां लोट् । अत्र तुलनानिषेधस्यापुरस्कृतपदार्थहेतुकत्वात् पदार्थहेतुकं काव्यलिङ्गम् । 'हेतोर्वाक्यपदा- र्थत्वे काव्यलिङ्गमुदाहृतम्' इति लक्षणात् ॥२०॥ वे केशकलाप धन्य हैं-जिन्हें विदुषी दमयन्ती अपने मस्तक पर धारण करती है । ऐसा कौन ( सहृदय ) व्यक्ति होगा जो ( चमर ) पशु ( महामूर्ख ) से भी अपुरस्कृत ( पूँछ होने के कारण पीछे धारण किए हुए; तिरस्कृत ) चमर नामक मृग की पूँछ की रोम-राजि से उस दमयन्ती के केश-कलाप की तुलना करने की इच्छा करे ? ॥ २० ॥ स्वदृशोर्जनयन्ति सान्त्वनां खुरकण्डूयनकैतवान्मृगाः । जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोभया भयात् ॥ २१ ॥ स्वदृशोरिति । मृगाः = हरिणाः [तदखर्वेक्षणशोभया] तस्या दमयन्त्याः, अखर्वयोरयतयोरीक्षणयोर्दृष्ट्योः शोभया कान्त्या, जितयोः, अत एव भयादुदय- त्प्रमीलयोः = उत्पद्यमाननिमीलनयोः स्वदृशोः = निजनयनयोः, [ खुरकण्डू- यनकैतवात् ] खुरैः शफैः । 'शफं क्लीबे खुरः पुमान्'इत्यमरः । कण्डूयनस्य कर्षणस्य कैतवाच्छलात्, सान्त्वनां जनयन्ति = लालनां कुर्वन्ति । यथा लोके

सर्गः २ ] जीवातु-मदयन्तिकासहितम् ८३ परपराजिता निमीलिताक्षाः स्वजनभयविनिवृत्तये करतलस्पर्शादिभिः सान्त्व्यन्ते, तद्वदिति भावः । अत्र कैतवशब्देन कण्डूयनमपहुत्य सान्त्वनारोपादपह्नवभेदः ॥२१॥ उस दमयन्ती के विशाल नयनों की शोभा से पराजित हो जाने के कारण, मानों हरिण भय से आँखें बन्द हो जानेवाली मूर्च्छा आ जाने के कारण अपने नेत्रों को खुजलाने के बहाने ( उसी प्रकार ) सान्त्वना देते हैं ( जिस प्रकार शत्रु से पराजित हो जाने के कारण कोई व्यक्ति उसके त्रास के कारण आँखें मींच लेता है, फिर किसी के हाथ फेरने से सान्त्वना प्राप्त करता है ) ॥२१॥ अपि लोकयुगं दृशावपि श्रुतदृष्टा रमणीगुणा अपि । श्रुतिगामितया दमस्वसुर्व्यतिभाते सुतरां धरापते ! ॥२२॥ अपीति । हे धरापते ! [ दमस्वसुः ] दमो नाम भीमस्यैवात्मजस्तस्य स्वसुर्दमयन्त्याः, लोकयुगं = मातापितृकुलयुगं अपि श्रुतिगामितया = वेदप्रसिद्ध- तया, सुतरां व्यतिभाते = परस्परोत्कर्षेण भातः । तथा दृशौ = नेत्रे अपि श्रुति- गामितया = कर्णान्तविश्रान्ततया व्यतिभाते = परस्परोत्कर्षेण भातः । तथा [ श्रुत- दृष्टाः ] श्रुताः श्रुतिप्रसिद्धाः, ते च ते दृष्टाः लोकप्रसिद्धाश्च । विशेषणयोरपि विशेषणविशेष्यभावविवक्षायां विशेषणसमासः । ते रमणीगुणाः = स्त्रीधर्मा अपि श्रुतिगामितया = जनैः श्रूयमाणतया । 'श्रुतिः श्रोत्रे तथाऽऽम्नाये वार्त्तायां श्रोत्र- कर्मणि' इति विश्वः । सुतरां व्यतिभाते = व्यतिहारेण भान्ति । 'आत्मनेपदेष्वनतः' इति झस्यादादेशः । सर्वत्र कर्त्तरि कर्मव्यतिहारे' इत्यात्मनेपदम् । अदादित्वाच्छपो लुक्, सर्वत्र टेरेत्वम् । अत्र लोकयुगादीनां त्रयाणामपि प्रकृतत्वात् केवलप्रकृतविषयु- तुल्ययोगिताभेदः । 'प्रस्तुताप्रस्तुतानाञ्च केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता' इति लक्षणात् ॥२२॥ हे राजन् ! दमयन्ती के दोनों ( माता-पिता के ) कुल—श्रुतिगामी ( वेद- प्रसिद्ध ) होने के कारण; उसके दोनों लोचन-श्रुतिगामी ( कर्णपर्यन्त विस्तृत ) होने के कारण; और श्रुत-दृष्ट ( श्रुति-प्रसिद्ध तथा लोक-प्रसिद्ध अर्थात् वैदिक एवं लौकिक; जो सुने जाते हैं और उसमें प्रत्यक्ष देखे जाते हैं वे ) उसके ( सौन्दर्य, कला, विद्या, नारीधर्म आदि ) रमणी-गुण श्रुतिगामी ( सब लोगों के श्रवण-गोचर ) होने के कारण अत्यन्त श्लाघनीय हैं ॥२२॥

८४ नैषधचरितम् । [ द्वितीयः नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे । अपि खञ्जनमञ्जनान्विते विदधाते रुचिगर्वदुर्विधम् ॥२३॥ नलिनमिति । नलिनं = पद्मं, मलिनम् = अचारु विवृण्वती = कुर्वणे पृषतीं = मृगीम् अस्पृशती । असमानत्वात् दूरादेव परिहार इत्यर्थः । तदीक्षणे= तल्लोचने अञ्जनान्विते = कजलपरिष्कृते सती, खञ्जनं = खञ्जरीटाख्यं, खञ्जन- नामकः पक्षिविशेषः । 'खञ्जरीटस्तु खञ्जनः' इत्यमरः । तमपि । रुचिगर्वदुर्विधं= चारुत्वगर्व निःस्वं विदधाते = कुरुतः; सर्वथाऽप्यनुपमेये इत्यर्थः । 'निःस्वस्तु दुर्विधो दीनो दरिद्रो दुर्गतोऽपि सः' इत्यमरः । ईक्षणयोर्नलिनादिमलिनीकरणाद्यसम्बन्धे सम्बन्धोक्तेरतिशयोक्तिः । तया चोपमा व्यज्यत इत्यलङ्कारेणालङ्कारध्वनिः ॥ २३ ॥ उसकी आँखें-जब सुरमे की सलाई का स्पर्श नहीं करतीं तब तो-नलिनी को मलिन बनाती हैं और हरिणी की आँखों का दूर ही से परित्याग कर (उपहा- सास्पद बना ) देती हैं, किन्तु उसकी सुरमा लगी हुई आँखें तो (सुन्दर कृष्णवर्ण रेखा सम्पन्न) खञ्जन पक्षी के सौन्दर्य-अभिमान को भी टूक २ कर देती हैं ॥२३॥ अधरं खलु बिम्बनामकं फलमाभ्यामिति भव्यमन्वयम् । लभतेऽधरबिम्बमित्यदः पदमस्या रदनच्छदं वदत् ॥२४॥ अधरमिति । 'अधरबिम्बम्' इत्यदः पदम् अधरं बिम्बमिवेत्युपमितसमासा- साश्रयेण स्त्रीणामधरेषु यत्पदं प्रयुज्यते तदित्यर्थः । अस्याः = दमयन्त्याः रदन- च्छदम् = ओष्ठम् वदत् = अभिदधत् , तदभिधानाय प्रयुक्तं सदित्यर्थः । बिम्ब- नामकं फलं बिम्बम् अस्माद् दमयन्तीरदनच्छदाद् अधरं किल = अपकृष्टं खलु इति अधरशब्दस्यापकृष्टार्थत्वे अधरं बिम्बं यस्मात्तदिति बहुव्रीहिसमासे च सति । भव्यम् = अबाधितम् अन्वयं = वृत्तिपदार्थसंसर्गलक्षणं लभते अन्यथा समर्थसमा- साश्रयणे 'समर्थः पदविधिः' इति समर्थपरिभाषा भज्येत । तर्हि नोपमा स्यादिति भावः । अत्र दमयन्तीदन्तच्छदस्य बिम्बाधरीकरणासम्बन्धेऽपि सम्बन्धोक्तेरति- शयोक्तिः, पूर्ववत् ध्वनिश्च ॥२४॥ 'अधर-बिम्ब' पद दमयन्ती के ओठ की भव्यरूपता को प्रकट करता है । (दूसरी महिलाओं के सम्बन्ध में 'अधरबिम्ब' पद का अर्थ बिम्ब फल के समान अधर' उपमितसमासाश्रयेण समर्थित भले ही होवे ) पर दमयन्ती के सम्बन्ध में

सर्गः २ ] जीवातु-मदयन्तिकासहितम् ८५ उसका वास्तविक अर्थ यही निकलता है कि बिम्ब (पके हुए कुन्दरू) केवल आकार में, वर्ण में और स्वाद में ) दमयन्ती के होठ से वस्तुतः अधर (हीन) हैं ॥२४॥ हृतसारमिवेन्दुमण्डल दमयन्तीवदनाय वेधसा । कृतमध्यबिलं विलोक्यते धृतगम्भीरखनीखनीलिम ॥२५॥ हृतसारमिति । इन्दुमण्डल दमयन्तीवदनाय = तन्निर्माणायेत्यर्थः । 'क्रियार्थोपपदस्य'इति चतुर्थी । वेधसा हृतसारम्=उद्धृतमध्यांशम् इव । कुतः ? कृतमध्यबिल = विहितमध्यरन्ध्रम् अत एव [ धृतगम्भीरखनीख-नीलिम ] धृतो गम्भीरखनीखस्य निम्नमध्यरन्ध्राकाशस्य, नीलिमा नैल्यं तथा विलोक्यते । 'खनिः स्त्रियामाकरः स्यात्'इत्यमरः । 'कृदिकारादक्तिनः' इति ङीप् । अत्र कलङ्का- पह्नवेन खनीलिमारोपादपह्नवभेदः । स च कृतमध्यबिलमित्येतत्पदार्थहेतुककाव्य- लिङ्गाद्यनुप्राणितः । तदपेक्षा चेयं हृतसारमित्युत्प्रेक्षेति सङ्करः । तया चोपमा व्यज्यत इति पूर्ववत् ध्वनिः ॥ २५ ॥ ब्रह्मा ने दमयन्ती का मुख बनाने के लिए, चन्द्र-बिम्ब का मानो सार-भार निकाल लिया है, इसी कारण उसके बीच में बिल (सूराख) हो गया है । चन्द्रमा के उस गम्भीर खात ( गहरे छेद ) से वास्तव में आकाश की नीलिमा दिखलायी पड़ती है ॥ २५ ॥ धृतलाञ्छनगोमयाञ्छनं विधुमालेपनपाण्डरं विधिः । भ्रमयत्युचितं विदर्भजानननीराजनवर्द्धमानकम् ॥२६॥ धृतेति । विधिः = ब्रह्मा [ धृत-लाञ्छन-गोमयाञ्छनं ] धृतं लाञ्छन- मङ्क एव गोमयाञ्छनं मध्यस्थितगोमयसंश्लेषणम् येन तम् । आलेपनपाण्डरं = निजकान्तिसुधाधवलितमित्यर्थः । विधुं = चन्द्रमेव [ विदर्भजानन-नीराजन- वर्द्धमानकं ] विदर्भजाननस्य वैदर्भीमुखस्य, नीराजनवर्द्धमानकं नीराजनशरावम्। 'शरावो वर्द्धमानके' इत्यमरः । किरणदीपकलिकायुक्तमिति भावः । भ्रमयति, उचित । लोकोत्तरत्वात् इति भावः । एवं नीराजयन्तीति देशाचारः । अत्र विधु- तलाञ्छनादेर्नीराजनशरावगोमयादित्वेन रूपणात् सावयवरूपकम् ॥ २६ ॥ ( जिस प्रकार नज़र लगने पर ऐपन और गोबर एक में मिला, परई में रखकर, उस व्यक्ति के शिर पर घुमाया जाता है, उसी प्रकार ) कलङ्क रूप गोबर के लेप वाले, ऐपन के समान सफेद लगने वाले चन्द्रमा को, विदर्भराजकुमारी

८६ नैषधचरितम् । [ द्वितीयः दमयन्ती के मुख की आरती उतारने के लिए, ब्रह्मा उस आरती-पात्र ( कसोरे ) के समान घुमाते रहते हैं ॥२६॥ सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात् । अधुनापि न भङ्गलक्षणं सलिलोन्मज्जनमुज्झति स्फुटम् ॥२७॥ सुषमेति । [ सुषमाविषये ] सुषमा परमा शोभा, सैव विषयः, यस्मिन् । परीक्षणे = जलदिव्यशोधने कृते निखिलं पद्मं = पद्मजातं तन्मुखात् अपादानात्, भङ्गावधित्वात् अभाजि = अभञ्जि, स्वयमेव भग्नमभूदित्यर्थः । स्फुटं । कर्त्तरि लुङ् । 'भञ्जेश्च चिणि' इति वैभाषिको नकारलोपः । अत एव अधुनापि भङ्गलक्षणं= पराजयचिह्नं [ सलिलोन्मज्जनं ] सलिलादुन्मज्जनं क्षणमपि नोज्झति = न जहाति । जलदिव्योन्मज्जनस्य पराजयलिङ्गत्वस्मरणादिति भावः । उन्मज्जनक्रिया- निमित्तेयं भङ्गोत्प्रेक्षा ॥२७॥ सर्वोत्तम शोभा की परीक्षा ( अर्थात् कमलों की परमा शोभा है, अथवा दमयन्ती के मुख की; इस परीक्षा-प्रतिद्वन्द्विता ) में सब कमल दमयन्ती के मुख से स्वयं ही पराजित हो गये । वे जल के ऊपर मस्तक उठाये रहते हैं—जिससे स्पष्ट है कि आज भी वे अपनी पराजय के चिह्न को नहीं छोड़ रहे हैं। [ जिस प्रकार प्राचीन काल में जल-दिव्य परीक्षा में कोई धनुष खींचकर तीर छोड़ता था और दूसरा व्यक्ति वहाँ दौड़कर आता था और उस समय तक दिव्यकारी पुरुष को जल में सिर डुबाये हुए देखता था तो उसकी जय मानता था; और जल से ऊपर मस्तक उठाये देखता था तो उसकी पराजय मानता था । उसी प्रकार कमल का जल के ऊपर मस्तक उठाये रखने से स्पष्ट है कि सुषमा की जल-दिव्य-परीक्षा में दमयन्ती के मुख से उसकी पराजय हुई है ] ॥२७॥ धनुषी रतिपञ्चबाणयोरुदिते विश्वजयाय तद्भ्रुवौ । नलिके न तदुच्चनासिके त्वयि नालीकविमुक्तिकामयोः ॥२८॥ धनुषी इति । तद्भ्रुवौ विश्वजयाय उदिते=उत्पन्ने रति-पञ्चबाणयोर्ध- नुषी, नूनमित्यादिव्यञ्जकाप्रयोगाद्गम्योत्प्रेक्षा । किञ्च; [ तदुच्चनासिके ] तस्याः दमयन्त्याः, उच्चनासिके उन्नतनासापुटे, त्वयि [ नालीक-विमुक्ति-कामयोः ] नालीकानां द्रोणिचापशराणां, विमुक्ति कामयेते इति तथोक्तयोः तयोः । 'शिलिका-

सर्गः २ ] जीवातु-मदयन्तिकासहितम् ८७ नमक्ष्याचरिभ्यो णः' इति णप्रत्ययः । 'नालीकं पद्मखण्डेऽस्त्री नाली बन्दूकशस्त्रयोः' इति विश्वः । नलिके न = द्रोणिचापे न किमिति काकुः । पूर्ववदुत्प्रेक्षा ॥२८॥ क्या दमयन्ती की दोनों भौंहें - अखिल विश्व की विजय करने के लिए -- कामदेव और रति के दो धनुष-उदित हुई हैं ? क्या दमयन्ती की उठी हुई नाक के दोनों छिद्र आपके ऊपर दुन्नाली बन्दूक द्वारा गोली का प्रहार करने की इच्छा करने वाले रति-कामदेव की दो नलिकाएँ नहीं हैं ? ॥२८॥ सदृशी तव शूर ! सा परं जलदुर्गस्थमृगालजिद्भुजा । अपि मित्रजुषां सरोरुहां गृह्यालुः करलीलया श्रियः ॥२९॥ सदृशीति । हे शूर ! [ जलदुर्गस्थमृगाल-जिद्भुजा ] जलदुर्गस्थानि मृणालानि जयत इति तज्जितौ भुजौ यस्याः सा । मित्रजुषाम् = अर्कसेविनां सुहृत्सलिलानाञ्च, सहायसम्पन्नानामपीत्यर्थः । 'मित्रं सुहृदि मित्रोऽर्के' इति विश्वः । सरोरुहामपि श्रियः = शोभा, सम्पदश्च । 'न लोक'इत्यादिना षष्ठीप्रतिषेधः । कर- लीलया = भुजविलासेन, भुजव्यापारेण बलिग्रहणेन च । 'बलिहस्तांशवः कराः, लीलाविलासक्रिययोः' इति चामरः । गृह्यालुः = ग्रहीता । 'ग्रह्महणे' इति धातो- श्चौरादिकात् स्पृहि-गृहि'इत्यादिना आलुच् प्रत्ययः । 'अयामन्त' इत्यादिना णेरया- देशः । सा = दमयन्ती तव परम् = अत्यन्तं सदृशी = अनुरूपा इत्युपमालङ्कारः । शूरस्य शूरैव भार्या भवितुमर्हतीति भावः ॥ २६ ॥ हे शूर ! (जिस प्रकार आपकी दोनों भुजाएँ जलरूपी दुर्ग में रहने वाले शत्रुओं को जीतने वाली हैं और आपके हाथ अस्त्र-सञ्चालन क्रिया द्वारा मित्र- सहाय सम्पन्न शत्रुओं की राज्यलक्ष्मी को ग्रहण करनेवाले हैं, उसी प्रकार वीराङ्गना) दमयन्ती की दोनों भुजाएँ जलरूपी दुर्ग में रहनेवाले कमल-तन्तु को जीतनेवाली हैं और हाथ के सौन्दर्य-विलास रूपी लीला से, सूर्य के अनुरागी कमलों की शोभा को ग्रहण करनेवाली हैं। अतः वह एकदम तुम्हारे योग्य है ॥ २६ ॥ वयसी शिशुतातदुत्तरे सुदृशि स्वाभिविधिं विधित्सुनी । विधिनापि न रोमरेखया । कृतसीम्री प्रविभज्य रज्यतः ॥३०॥ वयसी इति । सुदृशि = दमयन्त्यां, स्वाभिविधिं = स्वव्याप्तिं, विधित्सुनी = विधातुमिच्छन्ती, अहम्अहमिकया स्वयमेवाक्रमितुमिच्छती इत्यर्थः । शिशुता- तदुत्तरे = बाल्ययौवने वयसी विधिना सीमाचिह्नेन रोमरेखया सीमाचिह्नेन

८८ नैषधचरितम् । [ द्वितीयः प्रविभज्य, रोमराजः प्रागेव अत्र शैशवेन स्थातव्यं, ततः परं यौवनेनेति कालतो विभागं कृत्वा, कृतसीम्नी = कृतमर्यादे अपि । 'विभाषा ङिश्श्योः' इत्यलोपः । न रज्यतः = न सन्तुष्यतः । रम्यवस्तु दुस्त्यजमिति भावः । एतेन वयःसन्धिरुक्तः । अत्र प्रस्तुतवयोविशेषसाम्यादप्रस्तुतविवादप्रतीतेः समासोक्तिरलङ्कारः ॥ ३० ॥ शैशव और उसके बाद आनेवाले यौवन-इन दोनों अवस्थाओं को विधाता ने, समानरूप से विभाग करके (उदर और पीठ में रोओं के रेखा-चिह्न) रोम- राजि रूप से उनकी सीमा बाँध दी; परन्तु उस सुनयनी दमयन्ती पर, अपना स्वामित्व जमाने की अभिलाषा से (मैं ही इसे व्याप्त करके अड्डा जमाऊँ-यही प्रत्येक की इच्छा रहती है जिससे) वे परस्पर सन्तुष्ट नहीं रहते ॥ ३० ॥ अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिझरैरगाधताम् । स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ॥ ३१ ॥ सम्प्रति मौनमेवाश्रित्याह-अपीति। कान्तिझरैः = लावण्यप्रवाहैः, अगाधतां = दुरवगाहतां गमिते तद्वपुषि = दमयन्तीशरीरे, प्रसर्पतोः = तरतोः, स्मरयौवन- योः द्वयोरपि, उभौ कुचौ [ प्लवकुम्भौ ] प्लवस्योन्मजनस्य कुम्भौ, प्लवनार्थे कुम्भावित्यर्थः । प्रकृतिविकारभावाभावादश्वघासादिवत्तादर्थ्ये षष्ठीसमासः । लोके तरद्भिः, अनिमज्जनाय कुम्भादिकमवलम्ब्यत इति प्रसिद्धं । भवतः खलु । अत्र कुचयोः स्मरयौवनप्लवनकुम्भत्वोत्प्रेक्षया तयोरौत्कट्यं कुचयोश्चातिवृद्धिर्व्यज्यत इत्यलङ्कारेण वस्तुध्वनिः ॥ ३१ ॥ दोनों स्तन उसके-लावण्य-प्रवाह से अगाध हुए-शरीर (-पयोधि) पर विहार करते हुए, कामदेव तथा यौवन के तैरने के दो घड़े हैं ॥ ३१ ॥ कलशे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः । स तदुच्चकुचौ भवन् प्रभाझरचक्रभ्रममातनोति यत् ॥ ३२ ॥ कलश इति । निजहेतुदण्डजः = स्वनिमित्तकारणजन्यः, [ चक्रभ्रम- कारिता-गुणः ] चक्रभ्रमकारिता कुलालभाण्डभ्रमणजनकत्वं, सैव गुणो धर्मो रूपादिश्च । गुणः प्रधाने रूपादावित्यमरः । सः कलशे किमु = दण्डकार्ये कलशे संक्रान्तः किमु इत्यर्थः ? कुतः ? यतः = यस्मात् स = कलशः [तदुच्चकुचौ] तस्या दमयन्त्या उच्चकुचौ भवन् = तत्कुचात्मना परिणतः सन्, [ प्रभाझर-चक्रभ्रमं ] प्रभाझरे लावण्यप्रवाहे, चक्रभ्रमं चक्रवाकभ्रान्ति, कुलालदण्डभ्रमणं च, आतनोति ।

सर्गः २ ] जीवातु-मदयन्तिकासहितम् ८९ 'चक्रो गणे चक्रवाके चक्रं सैन्येरथाङ्गयोः' 'भ्रमजालं कुलालस्य भाण्डं शङ्कास्त्रयोरपि' इत्युभयत्रापि विश्वः । अत्र समवायिकारणगुणा रूपादयः कार्ये संक्रामन्ति न निमित्तगुणा इति तार्किकाणां समये स्थिते, गुण इति चक्रभ्रम इति चोभयत्रापि वाच्यप्रतीयमानयोरभेदाध्यवसाय एव 'स तदुच्चकुचौ भवन्' इति कुचकलशयोर- भेदातिशयोक्त्युत्थापितझरचक्रभ्रमात्मकक्रियानिमित्ता कुचात्मनि कलशे कार्ये चक्र- भ्रमकारितालक्षणनिमित्तकारणगुणसंक्रमलक्षणेनोत्प्रेक्षेति सङ्क्षेपः । तार्किकसमये विरोधात् विरोधाभासोऽलङ्कार इति कैश्चिदुक्तम् । तदेतदत्यन्ताश्रुतचरमलङ्कार- पारदृश्वानः शृण्वन्तु ॥ ३२ ॥ कलश में—जो चाक को घुमाने का गुण दिखाई पड़ता है, वह क्या उसे अपने निमित्तकारणीभूत कुम्हार के डण्डे से मिला है ? क्योंकि कलश—दमयन्ती के उच्चस्तन का रूप धारण कर, अपने लावण्य के प्रवाह से, कामीजनों के चित्त में, चक्र ( चाक और चकवा ) का भ्रम उत्पन्न करता है ॥ ३२ ॥ भजते खलु षण्मुखं शिखी चिकुरैर्निर्मितबर्हगर्हणः । अपि जम्भरिपुं दमस्वसुर्जितकुम्भः कुचशोभयेभराट् ॥ ३३ ॥ भजत इति । दमस्वसुः = दमयन्त्याश्चिकुरैर्निर्मितबर्हगर्हणः = कृतपिच्छ- निन्दः, जितबर्ह इत्यर्थः । शिखी = मयूरः षण्मुखं = कार्त्तिकेयं भजते खलु । तथा कुचशोभया जितकुम्भ इभराट् = ऐरावतोऽपि जम्भरिपुं = इन्द्रं भजते । परपरिभूताः प्राणत्राणाय प्रबलमाश्रयन्त इति प्रसिद्धम् । अत्र शिख्यैरावतयोः षण्मुखजम्भारिभजनस्य जितबर्हत्व-जितकुम्भत्वपदार्थहेतुकत्वात् तद्धेतुके काव्यलिङ्गे तदसम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्तिश्च ॥ ३३ ॥ दमयन्ती के केश-कलाप से, अपनी पूँछ को तुच्छ समझकर, मोर तो स्कन्द- कुमार की सेवा करता है और उसके स्तनों की कान्ति से, अपने कुम्भों को पराजित ( हीन ) समझकर, ऐरावत इन्द्र की परिचर्या करता है ॥ ३३ ॥ उदरं नतमध्यपृष्ठता-स्फुरदङ्गुष्ठपदेन मुष्टिना । चतुरङ्गुलिमध्यनिर्गतत्रिबलिभ्राजि कृतं दमस्वसुः ॥ ३४ ॥ उदरमिति । दमस्वसुः उदरं, [ नतमध्य-पृष्ठता-स्फुरदङ्गुष्ठपदेन ] नत- मध्यं निम्नमध्यप्रदेशं, पृष्ठं यस्योदरस्य तस्य भावस्तत्ता तया स्फुरत् दृढग्रहणात् पृष्ठफलके स्फुटीभवदङ्गुष्ठपदमङ्गुष्ठन्यासस्थानं यस्य तेन मुष्टिना करणेन, [चतुरङ्गुलि-

९० नैषधचरितम् । [द्वितीयः मध्य-निर्गत-त्रिवलिभ्राजि ] चतसृणामङ्गुलीनां समाहारश्चतुरङ्गुलि, 'तद्धित' इत्यादिना समाहारे द्वि block गुरेकवचननपुंसकत्वे । तस्य मध्येभ्योऽन्तरालेभ्यो निर्गतं यत्त्रिवलि, पूर्ववत् समासादिः कार्यः । यत्तूक्तं वामनेन-'त्रिवलिशब्दः संज्ञा चेत्'इति सूत्रेण सप्तर्षय इत्यादिवत् 'दिक्संख्ये संज्ञायां' इतिद्विगुरिति तदपि चेत्करणसामर्थ्यात्, त्रिवलय इति बहुवचनप्रयोगदर्शने स्थितं गतिमात्रं न सार्वत्रिकमिति प्रतीमः । तेन भ्राजत इति तद्भ्राजि, वलित्रयशोभि कृतम् इत्युत्प्रेक्षा कौतुकिनेति शेषः । मुष्टिग्राह्यमध्ययमित्यर्थः । मुष्टिग्रहणादङ्गुष्ठनोदनात् पृष्ठमध्ये नम्रता उदरे च चतुर- ङ्गुलिनोदनाद्वलित्रयाविर्भावश्चेत्युत्प्रेक्षते ॥ ३४ ॥ दमयन्ती के उदर को - ब्रह्माजी ने मुट्ठी में पकड़कर बनाया क्योंकि पीठ का विचलाभाग (कसकर पकड़ने के कारण) पिचका होने से वहाँ अँगूठे का दबाव झलकता है और चारो अंगुलियों के बीच से निकली हुई तीन रेखाओं (त्रिवली) से उदर शोभायमान है ॥ ३४ ॥ उदरं परिमाति मुष्टिना कौतुकी कोऽपि दमस्वसुः किमु । धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः ॥ ३५ ॥ उदरमिति । कोऽपि कौतुकी दमस्वसुः उदरं मुष्टिना परिमाति किमु = परिच्छिनत्ति किम् ? इत्युत्प्रेक्षा । कुतः ? यत्=यस्मात् सहेमकाञ्चिभिर्वलिभिः= हेमकाञ्च्या सह चतसृभिस्त्रिवलिभिरित्यर्थः । एतस्याः कनकसावर्ण्य सूचितम् [धृत- तच्चतुरङ्गुलीव] धृतं तस्य मातुश्चतुरङ्गुली अङ्गुलिचतुष्टयं येन तत्, इव भाति इत्युत्प्रेक्षा । अत्रोत्प्रेक्षयोर्हेतुहेतुमद्भूतयोरङ्गाङ्गिभावेन सजातीयः सङ्करः । पूर्वश्लोके वलीनां तिसृणां चतुरङ्गुलिमध्यनिर्गतत्वमुत्प्रेक्षितम् । इह तु तासामेव काञ्चीसहितानां चतुरङ्गुलित्वमुत्प्रेक्षत इति भेदः प्रेक्षितुरिति भावः । ३५ कोई कौतुकी अपनी मुट्ठी से (कृशोदरी) दमयन्ती के उदर को, नापने लगा (कि देखें, वह मुट्ठी की पकड़ में आता है या नहीं) तो सोने की (महीन) करधनी और त्रिवली (तीनों रेखाओं) के साथ वह (उदर) ऐसा शोभित हुआ कि मानो नापने वाले की चारों अंगुलियों के, उस पर रखने से चिह्न पड़ गये हैं ॥ ३५ ॥ पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया । विधिरेककचक्रचारिणं किमु निर्मित्सति मान्मथं रथम् ॥३६॥

[सर्गः २ ] जीवातु-मदयन्तिकासहितम् ९१

पृथ्विति । [ पृथु-वर्तुल-तन्नितम्बकृत् ] पृथु वर्तुलं च तस्याः नितम्बं करोतीति नितम्बकृन्नितम्बं कृतवान्, बिधिः=ब्रह्मा, मिहिरस्यन्दनशिल्प- शिक्षया= रविरथनिर्माणाम्यासपाटवेन, [ एकक-चक्र-चारिणं ] एककमेकाकिं । 'एकादाकिनिच्चासहाये' इति चक्रारात् कप्रत्ययः । तेन चक्रेण चरतीति तच्चारिणं मान्मथं रथं निर्मित्सति किमु ?, सूर्यस्येव मन्मथस्यापि एकचक्रं रथं निर्मातु- मिच्छति किमु ? इत्युत्प्रेक्षा । अन्यथा, किमर्थमिदं नितम्बनिर्माणमिति भावः । माङेः सन्नन्ताल्लट् । 'सनि मीमा'इत्यादिना ईसादेशः । 'स्त्यत्स्यार्द्धधातुके' इति सकारस्य तकारः । 'अत्र लोपोभ्यासस्य' इत्यभ्यासलोपः ॥३६॥ सूर्य के ( एक पहिए वाले ) रथ के निर्माण की निपुणता द्वारा, (नितम्बिनी) दमयन्ती के नितम्ब को विशाल और गोलाकार बनाने वाले ब्रह्मा, क्या ( अधुना ) एक ( अद्वितीय ) पहिए से चलनेवाला कामदेव का रथ बनाना चाहते हैं ? ( ऐसा प्रतीत होता है ) ॥ ३६ ॥ तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् । तरुणीमपि जिष्णुरेव ता धनदापत्यतपःफलस्तनीम् ॥३७॥ तरुमिति । सुन्दरी, = दमस्वसा, परिणाहिना = विपुलेन, ऊरुयुगेन रम्भां = रम्भां नाम तरुं परं तरुमेव । 'न लोक'इत्यादिना षष्ठीप्रतिषेधः । जिष्णुः किमु ? किन्तु, [ धनदापत्यतपःफल-स्तनीं ] धनदापत्यस्य नलकूबरस्य, तपसः फलस्तनीं फलभूतकुचां, तां रम्भां नाम तरुणीमपि जिष्णुरेव । 'रम्भाकदल्प्स- रसोः' इति विश्वः । रम्भे इव, रम्भाया इव, चोरू यस्याः सा, इत्युभयथा रम्भोरुरित्यर्थः ॥ ३७ ॥ यह आभास होता है कि सर्वाङ्गसुन्दरी दमयन्ती अपनी विशाल युगल जंघाओं से एकमात्र वृक्षरूपी रम्भा ( कदली ) को भी जीतने की अभिलाषा रखती है । यह भी प्रतीत होता है कि वह-उस पूर्णयौवना रम्भा ( अप्सरा ) को भी जीतना चाहती है - जिसके स्तन कुबेर-तनय नलकूबर को तपस्या के फल से स्पर्श करने को प्राप्त हुए थे [ अर्थात् रम्भा = १कदलीस्तम्भ २ अप्सरा से भी बढ़कर विशाल, सुचिकण, सुडौल, आकर्षक और रमणीय उसकी जांघ हैं ] ॥३७॥ जलजे रविसेवयेव ये पदमेतत्पदतामवापतुः । ध्रुवमेत्य रतः सहस्रकी कुरुतस्ते विधिपत्रदम्पती ॥३८॥

९२ नैषधचरितम् । [ द्वितीयः जलजे इति ॥ जलजे = द्विपद्मे रविसॆवया = सूर्योपासनया इव [ एतत्पदतां ] एतस्याः पदतां चरणत्वमेव पदं = प्रतिष्ठाम् अवापतुः । ते = जलजे कर्मभूते, विधिवत्रदम्पती = द्वन्द्वचारिणौ ब्रह्मवाहन-हंसौ, एत्य = आगत्य, रुतः = रवात्, कूजनादित्यर्थः । रौतेः सम्पदादित्वात् क्विपि तुगागमः । सहंसकी= सकटकौ सहंसकी च, कुरुतः । अभूततद्भावे च्विः । 'हंसकः पादकटकः' इत्यमरः। हंसपक्षे वैभाषिकः कप्रत्ययः । ध्रुवम् इत्युत्प्रेक्षायाम् । पद्महंसयोरविनाभावात् कयो- श्चिद्दिव्यपद्मयोस्तत्पदत्वमुत्प्रेक्ष्य दिव्यहंसयोरेव हंसकत्वं चोत्प्रेक्षते ॥३८॥ जिन कमल-दम्पती ने मानो सूर्य की उपासना करके, दमयन्ती के पद (चरण) रूप ( उच्च ) पद पाया, वे ब्रह्मा के वाहन ( पत्र ) स्वरूप हंसदम्पती को, ( मरालग़ामिनी दमयन्ती के चरणयुगल के ) पास लाकर, यह निश्चित है कि नूपुर ( पाजेब ) द्वय के रूप में परिणत कर, उसे मुखरित ( छम छम की आवाज़ ) कर रहे हैं ॥ ३८ ॥ श्रितपुण्यसरःसरित् कथं न समाधिक्षपिताखिलक्षपम् । जलजं गतिमेतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि ॥३९॥ श्रितेति । [ श्रित-पुण्य-सरःसरित् ] श्रिताः सेविताः, पुण्याः, सरःसरितः मानसादीनि सरांसि गङ्गाद्याः सरितश्च ये तत् । [ समाधि-क्षपिताखिलक्षपं ] समाधिना ध्यानेन निमीलनेन क्षपिताखिलक्षपं यापितसर्वरात्रं, जलजं [ दमयन्ती- पद-नाम्नि ] दमयन्तीपदमिति नाम यस्मिन् जन्मनि, मञ्जुलां गतिं = रम्य- गतिम्, उत्तमदशाञ्च । 'गतिर्मार्गे दशायां च' इति विश्वः । कथं नैतु=एत्वे- वेत्यर्थः । पदस्य गतिसाधनत्वात् तत्रापि दमयन्तीसम्बन्धाच्चोभयगतिलाभः । तथापि जन्मान्तरेऽपि सर्वथा तपः फलितमिति भावः । सम्भावनायां लोट् ॥३६॥ पवित्र ( मान- ) सरोवर एवं ( गङ्गा आदि ) नदियों में ( स्वाभाविक रूप से, धर्मार्जन की अभिलाषा से ) आश्रय लेने ( रहने ) वाले तथा ( सूर्य के दिख- लायी न पड़ने से कलीरूप में आँखें मूंदकर ) समाधि में, ध्यानावस्थित हो, सारी रात बिताने वाले कमल—'दमयन्ती के चरण' नाम वाले ( अर्थात् दमयन्ती के पद रूप में उत्पन्न) जन्मान्तर में, क्यों न मनोहर गति (चाल, दशा) पावें ? ॥३६॥ सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता । अतिथित्वमनायि सा दृशोः सदसत्संशयगोचरोदरी ॥४०॥

सर्गः २] जीवातु-मद्यन्तिकासहितम् ९३ अथ कथं त्वमेनां व्यलोकीरित्याह—सरसीरिति। सरसः=जलानि परि- चोलितुं = परिचेतुं, तत्र विहर्तुमित्यर्थः। चुरादिणेरनित्यत्वादण्यन्तप्रयोगः। [गमि- कर्मीकृत-नैक-निवृता] गमिर्गमनं शब्दपरशब्देनार्थो गम्यते। तस्य कर्मीकृताः कर्मकारकीकृताः, नैके अनेके, नञर्थस्य नशब्दस्य 'सुप्सुपा' इति समासः। नितरां वर्तन्ते जना येष्विति नीवृतः, जनपदाः येन तेन क्रान्तानेकदेशेनेत्यर्थः। 'नहि- वृति'इत्यादिना दीर्घः। मया [सदसत्संशयगोचरोदरी] सदसदिति संशय- गोचरः सन्देहास्पदं उदरं यस्याः सा, कृशोदरीत्यर्थः। 'नासिकोदर'इत्यादिना ङीप्। सा = दमयन्ती दृशोरतिथित्वमनायि = स्वविषयतां नीता, दृष्टेत्यर्थः। नयतेः कर्मणि लुङ् ॥ ४० ॥ सरोवरों में स्नान, जलक्रीडा आदि करने के उद्देश्य से, अनेक देशों में गमन करके मैंने अपनी आँखों को—'दमयन्ती को कमर है या नहीं है' इस द्विविध संशय के बारे में, उसे अपना अतिथि बनाया (अर्थात् विश्वसुन्दरी दमयन्ती को दृष्टिगोचर किया) ॥ ४० ॥ अवधृत्य दिवोऽपि यौवतैर्न सहाधीतवतीमिमामहम् । कतमस्तु विधातुराशये पतिरस्या वसतीत्यचिन्तयम् ॥ ४१ ॥ अवधृत्येति। अहम्, इमां = दमयन्तीं दिवः = स्वर्गस्य सम्बन्धिभिः यौवतैः = युवतिसमूहैरपि। 'गार्भिणं यौवतं गणे' इत्यमरः। भिक्षादित्वात्समूहार्थे अण्प्रत्ययः। तत्राप्यस्य युवतीति स्त्रीप्रत्ययान्तस्यैव प्रकृतित्वेन तद्ग्रहणात् तत्साम- र्थादेव 'भस्याढे तद्धिते'इति पुंवद्भाव इति वृत्तिकारः। न सहाधीतवतीम् = असदृशीं ततोऽप्यधिकसुन्दरीमित्यर्थः। नञर्थस्य न शब्दस्य 'सुप्सुपा' इति समास इति वामनः। अवधृत्य = निश्चित्य, विधातुः = ब्रह्मणः, आशये = हृदि अस्याः पतिः कतम स्तु = कतमो वा, वसति इत्यचिन्तयम्। तदैवेति शेषः ॥ ४१ ॥ मैंने दमयन्ती को, देवलोक की युवतियों के साथ, अध्ययन न करनेवाली (अर्थात् देवाङ्गनाओं से भी बढ़कर सुन्दरी) निश्चय किया, 'ब्रह्मा के मन में इसके लिए कौनसा पति है ?'—फिर इसकी चिन्ता मेरे मन में समायी ॥ ४१ ॥ अनुरूपमिमं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् । युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तधियं न्यवेशयम् ॥ ४२ ॥ अनुरूपमिति। अथ = इदानीम् अनुरूपं = योग्यं इमं निरूपयन् = तस्याः

पतित्वेनालोचयन्, सर्वेष्वपि युवसु पूर्वपक्षतां = पूर्वकोटित्वं व्यपनेतुमक्षमः सन् त्वयि सिद्धान्तधियं न्यवेशयम् = त्वमेवास्याः पतिरिति निरचैषमित्यर्थः। अयमेव विधातुरप्याशय इति भावः ॥ ४२ ॥ इस चिन्ता के बाद अपने मन में दमयन्ती के पति योग्य होने का निरूपण करते हुए, मैंने अन्य सभी युवकों में 'पूर्वपक्ष' ( दमयन्ती के अयोग्य रूप होने की 'पूर्वपक्ष' के समान धारणा ) के दूर करने में असमर्थ होकर, ( शास्त्रों में जिस प्रकार 'पूर्वपक्ष' के निरसन के बाद 'सिद्धान्त' का प्रतिपादन होता है, उसी प्रकार ) आप में ( उसके सौन्दर्य के अनुरूप पति होने की ) अपनी 'सिद्धान्त-' बुद्धि को दृढ़ किया ॥ ४२ ॥ अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे । चिरमप्यवलोकिताद्य सा स्मृतिमारूढवती शुचिस्मिता ॥ ४३ ॥ अथ त्वद्रूपदर्शनमेव सम्प्रति तत्स्मारकमित्याह—अनयेति । चिरमवलोकि- ताऽपि सा शुचिस्मिता = सुन्दरी अद्य = अधुना—हस्तेन निर्दिशन्नाह—अनया तव रूपसीमया = सौन्दर्य-काष्ठया कृतसंस्कारविबोधनस्य = उद्बुद्धसंस्कारस्य मे स्मृतिमारूढवती = स्मृतिपथं गता, सदृशदर्शनं स्मारकमित्यर्थः ॥४३॥ आपके इस सौन्दर्य की पराकाष्ठा से, पूर्वकालजन्य संस्कार ( भावना ) के कारण स्मृति हो आने से, बहुत दिनों पहले देखी हुई, भोली मुस्कानवाली दमयन्ती की स्मृति, आज हमारे मन में जाग उठी ॥ ४३ ॥ त्वयि वीर ! विराजते परं दमयन्ती-किलकिञ्चितं किल । तरुणीस्तन एव दीप्यते मणिहारावलिरामणीयकम् ॥ ४४ ॥ ततः किमत आह-त्वयीत्यादि । हे वीर ! [दमयन्ती-किलकिञ्चितं] दम- यन्त्याः किलकिञ्चितम् । 'क्रोधाश्रुहर्षभीत्यादेः सङ्करः किलकिञ्चितम्' इत्युक्तलक्षण- लक्षितशृङ्गारचेष्टितं, त्वयि परं = त्वय्येव विराजते किल=शोभते खलु । तथाहि- [मणिहारावलि-रामणीयकं] मणिहारावलेर्मुक्ताहारपङ्क्तेः, रामणीयकं रमणी- यत्वम् । योपधाद्गुरूपोत्तमाद्वुञ् । तरुणीस्तने एव दीप्यते; नान्यत्रेत्यर्थः । स्तना- दीनां द्वित्वविशिष्टा जातिः प्रायेणेति प्रायग्रहणादेकवचनप्रयोगः । अत्र हारकिलकिञ्चि- तयोरुपमानोपमेययोर्वाक्यद्वये बिम्बप्रतिबिम्बतया स्तननृपयोः समानधर्मत्वोक्तेर्दृष्टान्ता- लङ्कारः । लक्षणं तूक्तम् ॥ ४४ ॥