भारतकोश
संग्रह पर लौटें

नैषधीयचरितम् (महाकवि श्रीहर्ष - बृहत्त्रयी महाकाव्य सटीक)

Naishadhiya Charitam of Sriharsha with Commentary

महाकवि श्रीहर्ष / पं. शिवदत्त शर्मा द्वारा

DevanagariSanskritpublished226 पृष्ठ

५२ नैषधचरितम् । [ प्रथमः पेक्षेति सङ्करः। अस्य चन्द्रस्ययमव कुहूराह्वानाया स्यात् , तत्कान्तिराहित्यसम्भवा- दिति भावः ॥॥१००॥ साक्षात् चन्द्रमा के समान, वियोगी राजा नल के ( अम्लान ) मुख को देख- कर, लाल-लाल आँखें निकाल कर कोयल ने—बार-बार ‘कुहू’ ‘कुहू’ की आवाज करके चन्द्रमा की वैरिन ‘कुहू’ (अमावस्या) को बुलाया ॥१००॥ अशोकमर्थान्वितनामताशया गतान् शरण्यं गृहशोचिनोऽध्वगान्। अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वलदस्त्रजालकम् ॥१०१॥ अशोकमिति । एष = नलः, पल्लवैः [ प्रतीष्टकामज्वलदस्त्रजालकं ] प्रतीष्टानि प्रतिगृहीतानि, संच्छन्नानि, कामस्य ज्वलदस्त्राणि तद्रूपकाणि जालकानि क्षारकानि बालमुकुलगुच्छा येन तं; पल्लवसंच्छन्नकुसुमरूपकामास्त्रमित्यर्थः । अन्यथा, तद्दर्शनादेव ते म्रियेरन्निति भावः । अशोकम्, अत एव [अर्थान्वितनामताशया] अर्थान्वितनामता नास्ति शोकोऽस्मिन्नित्यन्वर्थसंज्ञा, तत्कृतया आशया; अस्मानप्य- शोकान् करिष्यतीत्यभिलाषेण । [शरण्यं] शरणे रक्षणे साधुं समर्थं शरण्यं, मत्वेति शेषः । ‘शरणं रक्षणे गृहे’ इति विश्वः । ‘तत्र साधु’ इति यत्प्रत्ययः । आगतान् = शरणागतानित्यर्थः । गृहान् दारान् शोचन्तीति गृहशोचिनः = गृहानुद्दिश्य शोचन्त इत्यर्थः । ‘गृहः पत्न्यां गृहे स्मृतः’ इति विश्वः । अध्वगान् = प्रोषितान् अवन्त- मिव = शरणागतरक्षणे महाफलस्मरणादन्यथा महादोषस्मरणाच्च रक्षन्तमिवेत्यर्थः । अमन्यत = ज्ञातवान् । अस्त्रभीरूणां तद्गोपनमेव रक्षणोपाय इति भावः ॥१०१॥ नल ने—पल्लवों ( कर-पल्लवों ) के रूप में, कामदेव के जलते हुए ( प्रदीप्त कुसुम ) अस्त्र-समूह ग्रहण करने वाले, अशोक पेड़ को—उसका नाम सार्थक होने की (अर्थात् अशोक के पास जाने से, हम वियोग के शोक से रहित हो जायंगे इस) आशा से शरण में आए हुए, घरनी की चिन्ता करने वाले बटोहियों का—रक्षक समझा ॥१०१॥ विलासवापीतटवीचिवादनात् पिकालीगीतेः शिखिलास्यलाघवात् । वनेऽपि तौर्यत्रिकमारराध तं क भोगमाप्नोति न भाग्यभाग्जनः ॥१०२॥ विलासेति । [ विलासवापी-तट-वीचि-वादनात् ] विलासवापी विहार- दीर्घिका, तस्यास्तटे वीचीनां वादनात्, [पिकालीगीतेः] पिकानामलीनाञ्च गीतेर्गा- नात्; [शिखिलास्यलाघवात्] शिखिनां मयूराणां, लास्यलाघवात् नृत्यनैपुण्यात्

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ५३ च। वनेऽपि तं = नलं, तौर्यत्रिकं = नृत्यगीतवाद्यत्रयं, कर्तृ, आरराध = आरा- धयामास। तथा-हि भाग्यभाक् = भाग्यवान् जनः, कं [ भोगं ] भुज्यत इति भोगः सुखं तं, नाप्रोति = सर्वत्रैवाप्नोतीत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्त- रन्यासः ॥ १०२ ॥ विहार क्रीडा की बावलियों ने अपने तीर की लहरों के शब्द (वादन) से, कोयलों और भ्रमरियों ने अपनी गीत (गायन) सुनाकर, तथा मोरों ने अपने लास्य (नृत्य) के सौन्दर्य से, उस वन में नाचने-गाने-बजाने वाले नल को आनन्द दिया। ठीक है, भाग्यशाली जन कहाँ नहीं सुख पाते ? ॥१०२॥ तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन् । स्वरामृतेनोपजगुश्च शारिकास्तथैव तत्पौरुषगायनीकृताः ॥१०३॥ तदर्थमिति । जनेन=सेवकजनेन, तदर्थं = नलप्रीत्यर्थम्, अध्याप्य = स्तुतिं पाठयित्वा [ तद्वनं ] तस्मिन् वने, विमुक्ताः=विसृष्टाः पटवः = स्फुटगिरः शुकास्तं =नलम्, अस्तुवन् तथैव=शुकवदेव; तदर्थमध्याप्य मुक्ताः । [ तत्पौरुषगायनीकृताः ] तत्पौरुषस्य नलपराक्रमस्य, गायिन्यो गायकाः कृता गायनीकृताः, शारिकाः = शुक- वध्वः स्वरामृतेन = मधुरस्वरेणेत्यर्थः, उपजगुश्च ॥१०३॥ जनता द्वारा नल की स्तुति के लिए सिखा-पढ़ाकर, उनके पराक्रम के गायन में निपुण, उस वन में (पिंजड़े से) छोड़े गये सुग्गे उनकी स्तुति करते थे । उसी प्रकार (जनता द्वारा नल की स्तुति के लिए०) छोड़ी गयी मैना अपने अमृत (मधुर) स्वर से उनकी प्रशंसा गान करती थीं ॥१०३॥ इतीष्टगन्धाढ्यमटन्नसौ वनं पिकोपगीतोऽपि शुकस्तुतोऽपि च । अविन्दतामोदभरं बहिश्चरं विदर्भसुभ्रूविरहेण नान्तरम् ॥१०४॥ इतीति । इति=इत्थम् इष्टगन्धाढ्यं = इष्टसौगन्धसम्पन्नं वनमटन् । 'देश- कालाध्वगन्तव्याः कर्म्मसंज्ञा ह्यकर्म्मणाम्' इति वनस्य देशत्वात् कर्म्मत्वं । असौ = नलः [पिकोपगीतः] पिकैः कोकिलैरुपगीतोऽपि, शुकैः स्तुतोऽपि च, परं केवलं । 'परं स्यादुत्तमानाप्तवैरिदूतो केवले' इति विश्वः । बहिरामोदभरं = सौरभ्यातिरेक- मेव अविन्दत विदर्भसुभ्रुविरहेण हेतुना । आन्तरम्=आमोदभरम्, आनन्दाति- रेकरूपं नाविन्दत = न लब्धवान्, प्रत्युत दुःखमेवान्वभूदिति भावः । 'आमोदो गन्धहर्षयोः' इति विश्वः ॥१०४॥

५४ नैषधचरितम् । [ प्रथमः इस तरह अभीष्ट सुगन्ध से व्याप्त उपवन में, विचरण करते हुए नल ने— कोयलों से गाये जाने तथा सुग्गों से स्तुति किये जाने पर—( उपवनसौन्दर्य, फूल आदि देख-सूँघकर ) वाह्यरूप से तो प्रमोद प्राप्त किया; पर विदर्भतनया दमयन्ती के विरह के कारण वे आभ्यन्तरिक ( मानसिक ) आनन्द न पा सके ॥१०४॥ करेण मीनं निजकेतनं दधत् द्रुमालवालाम्बुनिवेशशङ्कया । व्यतर्कि सर्वर्तुघने वने मधुं स मित्रमत्रानुसरन्निव स्मरः ॥१०५॥ करेणेति । स = नलः, निजकेतनं = निजलाञ्छनं मीनं [द्रुमालवालाम्बु- निवेशशङ्कया] द्रुमालवालाम्बुषु निवेशशङ्कया प्रवेशभिया, करेण दधत् = तादृक्- शुभरेखाव्याजेन दधान इत्यर्थः । सर्वर्तुघने = सर्वर्तुसङ्कुले अत्र = अस्मिन् वने मित्रं = सखायं मधु = वसन्तम् अनुसरन् = अन्विष्यन्, स्मर इव व्यतर्कि = तर्कितः । इत्युत्प्रेक्षा ॥१०५॥ पेड़ों के थाले के जल में मछली न चली जाय—इस शङ्का से अपने चिह्न- मत्स्य को हाथ में धारण करने वाले नल को लोगों ने, मत्स्यचिह्नधारी कामदेव समझा— जो सब ऋतुओं से परिपूर्ण उपवन में मानो अपने मित्र वसन्त को ढूँढ़ रहा हो ॥ लताबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः । असेवतामुं मधुगन्धवारिणि प्रणीतलीलाप्लवनो वनानिलः ॥१०६॥ लतेति । [लताऽबला-लास्य-कला-गुरुः] लता एवाऽबलास्तासां लास्यकलासु मधुरनृत्तविद्यासु, गुरुरुपदेष्टेति मान्योक्तिः । [तरुप्रसून-गन्धोत्कर-पश्यतोहरः] तरुप्रसूनगन्धोत्कराणां द्रुमकुसुमसौरभसम्पदां, पश्यतो हरः पश्यन्तमनादृत्य हरः, प्रसह्मापहर्तेत्यर्थः । 'पश्यतो यो हरत्यर्थं स चौरः पश्यतोहरः' इति हलायुधः, पचा- द्यच् । 'षष्ठी चानादरे' इति षष्ठी । 'वाग्दिक्पश्यन्द्भ्यो युक्तिदण्डहरेषु' इति वक्त- व्यादलुक् । एतेन सौरभ्यमुक्तं । [मधु-गन्धवारिणि] मधु मकरन्द एव, गन्धवारि गन्धोदकं, तत्र प्रणीतलीलाप्लवनः = कृतलीलावगाहनः, इति शैत्योक्तिः । ईदृग्- वनानिलोऽमुं=नलम्, असेवत । गुणवान् सेवकः सेव्यप्रियो भवतीति भावः॥१०६॥ लतारूपी अबलाओं को नृत्य-कला सिखाने वाले, पेड़ों के फूल के सुगन्धि-समूह को नज़रों के सामने चुराने वाले, फूलों के रस (मकरन्द) के गन्धयुक्त जलाशय में लीलापूर्वक विहार करने वाले-उपवन-पवन ने, नल की सेवाशुश्रूषा की ॥१०६॥

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ५५ अथ स्वमादाय भयेन मन्थनाच्चिरन्तरत्नाधिकमुच्चितं चिरात् । निलीय तस्मिन्नवसन्नपां निधिर्वने तडागे ददृशेऽवनीभुजा ॥१०७॥ अथेति । अथ = वनालोकनानन्तरं मन्थनाद्भयेन = धनार्थे पुनर्मथिष्यतीति भयादित्यर्थः । चिरादुच्चितं = सञ्चितं चिरन्तरत्नाधिकं चिरन्तं चिरन्तनं । 'चिर- परुत्परुत्त्वादिभ्यस्त्रन् वक्तव्यः' इति त्रन्प्रत्ययः । तच्च तद्रत्नाधिकं श्रेष्ठवस्तु भूयिष्ठं चेति चिरन्तरत्नाधिकं । 'रत्नं स्वजातौ श्रेष्ठेऽपि' इत्यमरः । स्वं = धनमादाय तस्मिन् वने निलीय = अन्तर्धाय निवसन् वर्त्तमानोऽपांनिधिरिव इत्युत्प्रेक्षा । तेन नलेन तडागः = सरोविशेषोऽवनीभुजा = राज्ञा ददृशे = दृष्टः ॥१०७॥ इसके बाद नरपति नल ने तालाब देखा—जो ऐसा प्रतीत होता था मानों चिरकाल से सञ्चित किए हुए प्राचीन (ऐरावत आदि) रत्नों से युक्त अपनी विशाल सम्पत्ति को (देवताओं द्वारा, लुटेरे शासकों द्वारा ) मन्थन के भय से अपने भीतर छिपाए हुए, जलनिधि ( सागर ) ही उस उपवन में छिपकर निवास करता हो ॥ पयोनिलीनाभ्रमुकावलीरदाननन्तोरगपुच्छसच्छवीन । जलाद्धरुद्धस्य तटान्तभूमिदो मृणालजालस्य निभान्बभार यः॥१०८॥ तदुक्तं धनमादायेति तदेवात्र सम्पादयति नवभिः श्लोकैः-पय इत्यादिभिः । यः=तडागः, जलेनाद्धरुद्धस्य [जलाद्धरुद्धस्य] अर्द्धछन्नस्य, तटान्तभूमिदः = तटप्रान्तनिर्गतस्येत्यर्थः । मृणालजालस्य = बिसवृन्दस्य निभाद् = व्याजाद् इत्यपह्रवालङ्कारः । 'निभो व्याजसदृक्षयोः' इति विश्वः । [ अनन्तोरगपुच्छ- सच्छवीन् ] अनन्तोरगस्य शेषाहेः पुच्छेन सच्छवीन्, तद्वद्धवलानित्यर्थः । [ पयोनिलीनाऽभ्रमुकामुकाऽवली-रदान् ] पयोनिलीनानाम्, अभ्रमुकामुकाव- लीनाम्, ऐरावतश्रेणीनां रदान् दन्तान् । बभार । तत्रैक ऐरावतः, अत्र त्वसंख्या इति व्यतिरेकः । अभ्रमुकामुका इति द्वितीयासमासो मधुपिपासुवत् । 'न लोक' इत्यादिना षष्ठीप्रतिषेधात् । 'लषपते'इत्यादिना कमेरुकञ्प्रत्ययः ॥१०८॥ वह तालाब ( आधे जल के भीतर और आधे जल के ऊपर, इस प्रकार ) आधे ढँके हुए, किनारे की जगह को फोड़कर निकले हुए ( तीर समीप स्थल को तोड़नेवाले ), कमल-नाल के बहाने-मानों शेषनाग की पूँछ के समान छविवाले, जल में डूबे हुए अभ्रमु हथिनियों के कामुक पतियों ( अर्थात् ऐरावत हाथियों ) के झुण्ड के दाँतों को--धारण करता था ॥१०८॥

५६ नैषधचरितम् । [ प्रथमः तटान्तविश्रान्ततुरङ्गमच्छटा-स्फुटानुविम्बोदयचुम्बनेन यः । बभौ चलद्वीचिकाशान्तशातनैः सहस्रमुच्चैःश्रवसामिव श्रयन् ॥१०९॥ तटान्तेति । यः = तडागः [ तटान्तविश्रान्ततुरङ्गमच्छटास्फुटानुबिम्बो- दयचुम्बनेन ] तटान्ते तीरप्रान्ते, विश्रान्ता या तुरङ्गमच्छटा नलानीताश्वश्रेणी, तस्याः स्फुटानुविम्बोदयचुम्बनेन प्रकटप्रतिबिम्बाविर्भावप्रीत्या निमित्तेन च, एकैक- शस्तासां [ वीचिकाशान्तशातनैः ] वीचीनामन्तःशातनैः उम्रताडनैः । 'अश्वा- देस्ताडनी कशा' इत्यमरः । चलद् = उछलद् उच्चैःश्रवसां सहस्रं श्रयन् = प्राप्नु- वन्निव बभौ । इत्युत्प्रेक्षा व्यतिरेकश्च पूर्ववत् । एतेन नलाश्वानामुच्चैःश्रवःसाम्यं गम्यत इत्यलङ्कारेण वस्तुध्वनिः ॥१०६॥ किनारे पर विश्राम करनेवाले नल के घोड़ों की झुण्ड के स्पष्ट प्रतिबिम्ब के चुम्बन के बहाने, मानों लहररूपी चाबुक की छोर से ताड़ना होने पर, चञ्चल होते हुए हजारों उच्चैःश्रवा को धारण कर रहा हो-इस प्रकार वह तालाब सुशोभित हो रहा था ॥१०६॥ सिताम्बुजानां निवहस्य यश्छलाद्भूभावलिश्यामलितोदरश्रियाम् । तमःसमच्छायकलङ्कसङ्कुलं कुलं सुधांशोर्बहुलं वहन् बहु ॥११०॥ सितेति । यः = तडागः [ अलिश्यामलितोदरश्रियाम् ] अलिभिः श्याम- लितोदरश्रिया श्यामीकृतमध्यशोभानां, सिताम्बुजानां = पुण्डरीकाणां निवहस्य च्छलात् [ तमःसमच्छायकलङ्कसङ्कुलं ] तमःसमच्छायः तिमिरवर्णः यः कलङ्कः तेन सङ्कुलं बहुलं सम्पूर्ण बहु = अनेकं सुधांशोः = चन्द्रस्य, कुलं = वंशं, वहन् सन् बभौ । अत्र च्छलशब्देन पुण्डरीकेषु विषयापह्नवेन चन्द्रत्वाभेदापह्नवभेदः, व्यतिरेकस्तु पूर्ववत् ॥११०॥ जो तालाब भौरों के कारण जिनके मध्यभाग काले दिखाई पड़ते थे-ऐसे खिले हुए (चन्द्रमा के समान गोल आकारवाले) सफेद कमलों के समूह के बहाने मानों अन्धकारतुल्य (कृष्णवर्ण) कान्ति के समान कलङ्क (मृगलाञ्छन) से व्याप्त, असंख्य चन्द्रमा के समूह को धारणकर रहा हो--ऐसा सुशोभित हो रहा था ॥११०॥ रथाङ्गभाजा कमलानुषङ्गिणा शिलामुखस्तोमसखेन शार्ङ्गिणा । सरोजिनीस्तम्बकदम्बकैतवान्मृणालशेषैरिव संव्यधायि यः ॥१११॥ रथाङ्गेति । यः = तडागः [ रथाङ्गभाजा ] रथाङ्गं चक्रवाकः, चक्रायुधश्च ।

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ५७ यद्यपि चक्रवाके रथाङ्गनामेति च प्रयोगो रूढः, तथापि प्रायेणास्य चक्रशब्दपर्यायत्व- प्रयोगदर्शनात् पदस्याप्युभयत्र प्रयोगं मन्यते कविः । तद्भाजा । भजो ण्विः, [ कमलानुषङ्गिणा ] कमलैः कमलया च, अनुषङ्गिणा संसर्गवता, शिलीमुख- स्तोमसखेन = अलिकुलसहचरेण; अन्यत्र सखिशब्दः सादृश्यवचनः, तत्सवर्ण- नेत्यर्थः । [ मृणालशेषादिशिगुवा ] मृणालं शेषादिरिवेत्युपमितसमासः । तद्रुवा तदाकारेण; अन्यत्र मृणालमिव शेषादिः तद्रुवा तदाधारेण, शार्ङ्गिणा = विष्णुना [ सरोजिनी-स्तम्बकदम्बकैतवात् ] सरोजिनीनां स्तम्बा गुल्माः । 'अप्रकाण्डे स्तम्बगुल्मम्'इत्यमरः । तेषां कदम्बस्य कैतवान्मिषात्, अन्वयायि = अनुयातो- ऽनुसृतोऽधिष्ठित इति यावत् । अत्रापि कैतवशब्देन स्तम्बत्वपमहुत्य शार्ङ्गित्वायो- पादपह्रवभेदः ॥ १११ ॥ जिस प्रकार शाङ्गधनुषधारी सुदर्शनचक्रधारी, कमला (लक्ष्मी) के साथ रहनेवाले, भौरों की तरह कृष्णवर्णवाले विष्णुभगवान् मृणाल के सदृश शेषनाग- शय्या पर शयन करते हैं उसी प्रकार वह तालाब भी था क्योंकि उसमें चकवे, कमल और भौंरें थे । इस प्रकार कमलिनी की झाड़ियों के समूह के बहाने, वह तालाब मृणालरूप शेषनाग का उत्पत्तिस्थल था ॥१११॥ तरङ्गिणीरङ्कजुषः स्ववल्लभास्तरङ्गलेखा बिभराम्वभूव यः । दरोद्गतैः कोकनदौघकोरकैर्धृतप्रवालाङ्कुरसञ्चयश्च यः ॥११२॥ तरङ्गिणीरिति । यः = तडागोऽङ्कजुषः = अन्तिकभाजः, उत्सङ्गसङ्गिन्यश्च वा । तरङ्गलेखाः = तरङ्गराजिरेव स्ववल्लभाः = तरङ्गिणीरिति व्यस्तरूपकं बिभराम्वभूव = बभार । 'भीह्रीभृहुवां श्लुवच्च'इति भृञो विकल्पादाम् प्रत्ययः । किञ्च यः = तडागो दरोद्गतैः = ईषद्बुद्धैः कोकनदौघकोरकैः = रक्तोत्पलखण्ड- कलिकाभिः, धृतप्रवालाङ्कुरसञ्चयश्च = धृतविद्रुमाङ्कुरनिकरश्चेति । अत्रापि कोक- नद-कोरकाणां विद्रुमत्वे रूपणाद्रूपकालङ्कारः ॥११२॥ वह तालाब अपनी गोद में अठखेली करती हुई तरंग रूपी कामिनी से युक्त होकर और अधखिली लालकमलों की कलियों से व्याप्त होकर, ऐसा सुशोभित हो रहा था—जैसे अपने उत्संग में शयन करनेवाली प्रियतमा नदियों से युक्त हो और मूँगे के अङ्कुर समूह को धारण कर, समुद्र हो ॥११२॥ महीयसः पङ्कजमण्डलस्य यशश्छलेन गौरस्य च मेचकस्य च ।

५८ नैषधचरितम् । [ प्रथमः नलेन मेने सलिले निलीनयोस्त्विषं विमुञ्चन् विधुकालकूटयोः ॥११३॥ महीयस इति । यः = तडागः महीयसः = महत्तरस्य, गौरस्य च, मेच- कस्य च पङ्कजमण्डलस्य = सितासितसरोजयोश्छलेन सलिले निलीनयोः विधु-कालकूटयोः, सितासितयोरिति भावः । त्विषं विमुञ्चन्=विसृजन्निव नलेन मेने । अत्रच्छलेन विमुञ्चन्निवेति सापह्नवोत्प्रेक्षा ॥११३॥ वह तालाब (रूप सागर) बहुत से सफेद तथा नीले कमल के बहाने, जल में विलीन चन्द्रमा तथा काल-कूट विष की (श्वेत तथा कृष्ण) द्युति को, जल के ऊपर उछाल रहा है—ऐसा नल ने अनुमान किया ॥११३॥ चलीकृता यत्र तरङ्गरिङ्गणैरबालशैवाललतापरम्पराः । ध्रुवं दधुर्बाडवहव्यवाडव-स्थितिप्ररोहत्तमभूमधूमताम् ॥११४॥ चलीकृता इति । यत्र = यस्मिन् तडागे, तरङ्गरिङ्गणैः = तरङ्गकम्पनैः चलीकृताः चञ्चलीकृताः [अबाल-शैवाललता-परम्पराः] अबालानां कठोराणां, शैवाललतानां परम्पराः पंक्तयः [ वाडव-हव्यवाडवस्थितिप्ररोहत्तम-भूम- धूमतां ] हव्यं वहतीति हव्यवाडग्निः । 'वहश्च' इति ण्विप्रत्ययः । तस्य छन्दोमात्र- विषयत्वाद् अनादरेण भाषायां प्रयोगः । वाडवहव्यवाहो वाडवाग्नेरेव स्थित्यान्तर- वस्थानेन, प्ररोहत्तमो बहिः प्रादुर्भवत्तमो भूमा येषां ते च ते धूमाश्च तेषां भावस्तत्ता दधुः ; बहिरुत्थितधूमपटलवद्बभुरित्यर्थः । ध्रुवम् इत्युत्प्रेक्षायाम् ॥११४॥ उस तालाब (रूप सागर) में लहरों के कम्पन से चलायमान किये गये, कठोर सेवार-लताओं के समूह—ऐसे प्रतीत होते थे मानो वडवानल के निवास से, खूब धूम-बाहुल्य उठ रहा हो ॥११४॥ प्रकाममादित्यमवाप्य कण्टकैः करम्बितामोदभरं विवृण्वती । धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्रभवाप्सरायिता ॥११५॥ प्रकाममिति । आदित्यं = सूर्यम् । अवाप्य प्रकामं कण्टकैः = नालगतैः तीक्ष्णाग्रैरवयवैः, करम्बिता = दन्तुरिता ; अन्यत्राऽऽदित्यम् अदितिपुत्रमिन्द्रम् अवाप्य कण्टकैः पुलकैः करम्बिता । अत एव आमोदभरं = परिमलसम्पदम्, आनन्दसम्पदं च, विवृण्वती = प्रकटयन्ती दिवा = दिवसे [ धृत-स्फुटश्रीगृह- विग्रहा ] धृतानि स्फुटश्रीगृहाणि पद्मानि यया सा, विग्रहः स्वरूपं यस्याः सा ; अन्यत्र दिवा स्वर्गेण स्फुटश्रीगृहमुज्ज्वलशोभास्पदं, विग्रहो देहो यस्याः सा ; स्वर्गलोक-

सर्गः १ जीवातु-मद्यन्तिकासहितम् ५९ वासिनीत्यर्थः । [ यत्प्रभवा ] यस्तडागः प्रभवः कारणं यस्याः सा, तज्जन्या । सरोजिनी = पद्मिनी अप्सरायिता = अप्सर इवाचरिता । उपमानात् 'कर्त्तुः क्यङ् सलोपश्च'इति कर्त्तरि कः । ओजसोऽप्सरसोरित्यप्सरसः सकारलोपः, श्लिष्ट- विशेषणेयमुपमा ॥११५॥ आदित्य ( सूर्य, अदितिपुत्र इन्द्र ) को पाकर, खूब कण्टकों ( कमल नालगत तीक्ष्णाग्र, पुलकावली ) से करम्बित ( सुशोभित, रोमाञ्चित ) हो, आमोद-भर (परिमल सम्पत्, आनन्दसम्पत् ) को प्रकट करती हुई, दिवस ( दिन, स्वर्ग ) में स्फुट श्रीगृह ( विकसित कमला-लक्ष्मी-निवास ) शरीरवाली हो, उस तालाब (रूपी सागर) में उत्पन्न हुई कमलिनी-अप्सरा के समान मालूम हुई ॥११५॥ यदम्बुपूरप्रतिबिम्बितायतिर्मरुत्तरङ्गैस्तरळस्तटद्रुमः निमज्य मैनाकमहीभृतः सतस्ततान पक्ष न् धुवतः सपक्षताम् ॥११६॥ यदि । [ यदम्बुपूर प्रतिबिम्बितायातः ] यस्य तडागस्याम्बुपूरे, प्रति- बिम्बितायतिः प्रतिफलितायामः, मरुत्तरङ्गैः = वातवीजनैस्तरळः=चञ्चलः तटद्रुमः निमज्य सतः = वर्त्तमानस्य, पक्षान् धुवतः = कम्पयतो मैनाकमहीभृतः=तदा- ख्यस्य पर्वतस्य, सपक्षतां = साम्यं, पक्षवत्त्वाञ्च ततान इत्युपमा ॥११६॥ जिस ( तालाब रूपी सागर ) की जलराशि में प्रतिबिम्बित तीर पर का लम्बा पेड़-पवन के झकोरों से चलायमान की गयी लहरों से चञ्चल हो-ऐसा मालूम पड़ता था, मानों भीतर घुस कर, अपने पंखों को कँपाता हुआ मैनाक- पर्वत हो ॥११६॥ पयोधिलक्ष्मीमुषि केलिपल्वले रिरंसु हंसोकलनादसादरम् । स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ॥११७॥ पयोधीति । अथ स नैषधः = निषधानां राजा नलः । जनपदशब्दात् क्षत्रि- यादञ्प्रत्यन् । पयोधिलक्ष्मीमुषि = तत्सदृश इत्यर्थः । तत्र केलिपल्वले = क्रीडा- सरसि, [ रिरंसु-हंसी-कलनाद-सादरम् ] रिरंसूनां रन्तुमिच्छूनां, हंसीनां कल- नादेषु मधुरस्वरेषु सादरं सस्पृहं तत्रान्तिके = तत्समीपे विचरन्तं चित्रम् = अद्भुतं, हिरण्मयं = सुवर्णमयं । दाण्डिनायनादिना निपातनात् साधुः । हंसम्, अबोधि = ददर्शेत्यर्थः । 'दीपजन'इत्यादिना कर्त्तरि चिण् ॥११७॥ निषधाधिपति नल ने-समुद्र की शोभा को मात करनेवाले, क्रीड़ा-सरोवर के-

६० नैषधचरितम् । [ प्रथम Digitized by Sarayu Trust Foundation and eGangotri पास विचरण करते हुए, एक विचित्र सुनहले राजहंस को देखा, जो विहारामिला- षिणी हंसिनी के अस्फुट मधुरस्वर पर लवलीन हो, रति की कामना कर रहा था । प्रियासु बालासु रतिक्षमासु च द्विपत्त्रितं पल्लवितञ्च बिभ्रतम् । स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्च्वोश्चरणद्वयस्य च ॥११८॥ पुनस्तमेव विशिनष्टि—प्रियास्विति । बालासु = अरतिक्षमासु, किन्त्वासन्न- यौवनास्वित्यर्थः । अन्यथा, रागाङ्कुरासम्भवात् ; रतिक्षमासु = युवतीषु द्विविधासु प्रियासु विषये क्रमात् चञ्च्वोः=ओष्ठयोः । 'चञ्चुस्त्रोटिरुभे स्त्रियाम्' इत्यमरः । चरणद्वयस्य च मिषेण, द्विपत्त्रितं = सञ्जातद्विपत्रं, पल्लवित = संक्रातपल्लवञ्च, चञ्च्वोर्द्वयोः सम्पुटितत्वे साम्यात् द्विपत्त्रित्वं । चरणयोस्तु विभ्रमरागमत्वेन पल्लव- साम्यात् पल्लवत्वं, राजहंसानां लोहितचञ्चुचरणत्वात् तस्मिन् मिषेणेत्युक्तम् । स्मरा- र्जित = स्मरेणैव वृक्षारोपणेनोत्पादितमित्यर्थः । राग एव महीरुहः, तस्याङ्कुरं राग- मह रुहाराङ्कुरं, बिभ्रतं, चञ्चुपुटामिषेण द्विपत्त्रितं बालिकागोचररागं, चरणमिषेण पल्लवितं युवतीविषये रागञ्च बिभ्रतमित्यर्थः । ईदृशं हंसमबोधीति पूर्वेणान्वयः। 'नाभ्यस्ताच्छतुः'इति नुम्प्रतिषेधः । वृक्षाङ्कुरो हि प्रथमं द्विपत्त्रितो भवति, पश्चाद् पल्लवित इति प्रसिद्धम् । तत्र रागं बिभ्रत इति हंसविशेषणात् , तद्रारागस्य हंसाधि- करणत्वोक्तिः, प्रियास्वधिकरणभूतास्वित्युपाध्यायविश्वेश्वरव्याख्यानं प्रत्याख्येयं अन्य- निष्ठस्य रागस्यान्याधिकरणत्वायोगात् । न चायमेक एवोभयनिष्ठ इति भ्रमितव्यम्, तस्येच्छापरतरपर्यायस्य तथात्वायोगात् , अन्यथा बुद्ध्यादीनामपि तथात्वापत्तौ सर्व- सिद्धान्तविरोधात्, विषयानुरागाभावप्रसङ्गाच्च । उभयोरपि रागत्त्वसाम्यादुभयनिष्ठ- भ्रमः केषाञ्चित् । तस्मात् कामिनोरन्योन्याधिकरणरागयोरन्योन्यविषयत्वमेव नाधि- करणत्वमेवमिति सिद्धान्तः । प्रियास्विति विषयसप्तमी न त्वाधारसप्तमीति सर्वं रम- णीयम् । अत्र रागमहीरुहाङ्कुरमिति रूपकं, चञ्चुचरणमिषेणेत्यपह्नवानुप्राणितमिति सङ्करः । तेन च बाह्याभ्यन्तररागयोर्भेदे अभेद्दलक्षणातिशयोत्थापिता चञ्चुचरण- व्याजेनान्तरस्यैव बहिरङ्कुरितत्वोत्प्रेक्षा व्यज्यत इत्यलङ्कारेणालङ्कारध्वनिः ॥११८॥ ( वह राजहंस ) बाला ( मुग्धा ) और रमणयोग्य युवती प्रियतमा हंसी के लिए, अपनी ( रक्त ) चोंच और ( रक्त ) युगल चरण के बहाने, क्रमशः काम- देव से उत्पादित अनुराग रूपी वृक्ष के दो लाल लाल शाखाएँ और दो पल्लव धारण करता था । (अर्थात् वह राजहंस कामदेव का क्रीडावृक्ष था। जिस के नव अंकुरित

सर्गः १ ] जीवातु-मदयन्तिकासहितम् ६१ दो पत्र रूपी चोंच उसकी बाला प्रियतमा के चुम्बन के लिए और जिस के नव अंकुरित पल्लव रूपी युगल रक्त चरण उस की सम्भोग-योग्या प्रेयसी के आलिङ्गन करने के लिए समर्थ थे ) ॥ ११८ ॥ महीमहेन्द्रस्तमवेक्ष्य स क्षणं शकुन्तमेकान्तमनोविनोदिनम् । प्रियावियोगाद्विधुरोऽपि निर्भरं कुतूहलाक्रान्तमना मनागभूत् ॥ ११९॥ महीति । महीमहेन्द्रः = भूदेवेन्द्रः, स = नलः, [एकान्तमनोविनोदिनम्] एकान्तं नितान्तं मनो विनोदयतीति तथोक्तं । तं शकुन्तं = पक्षिणं, क्षणम् अवेक्ष्य प्रियावियोगात् निर्भरम् = अतिमात्रं विधुरः = दुःस्थोऽपि मनाक् = ईषत् कुतू- हलाक्रान्तमनाः = कौतुकितचित्तोऽभूत् = गृहीतकामोऽभूदित्यर्थः ॥११९॥ अत्यन्त विनोद देनेवाले, उस हंसपक्षी को क्षणभर देख कर, दमयन्ती के वियोग से अत्यन्त दुःखी होने पर भी, राजा नल के मन में ( उसे पकड़ने का ) कुछ-कुछ कुतूहल पैदा हुआ ॥ ११९॥ अवश्यंभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयानुगम्यते जनस्य चित्तेन भृशावशात्मना ॥१२०॥ कथमहग्शे चापल्ये प्रवृत्तिरस्य धीरोदात्तस्येत्याशङ्क्य, नात्र जन्तोः स्वातन्त्र्यं; किन्तु भाव्यार्थानुसारिणी विधातुरिच्छैव तथा प्रेरयतीत्याह--अवश्येति । भव- श्यंभव्येषु अवश्यं भाव्यर्थेषु विषये । 'भव्यगेय'आदिना कर्त्तरि यत्प्रत्ययान्तो निपातः 'लुपेदवश्यमः कृत्ये' इत्यवश्यमो मकारलोपः । अनवग्रहग्रहा = अप्रतिबन्धानिर्वन्धा, निरङ्कुशाभिनिवेशेति यावत् । 'ग्रहोऽनुग्रहानिर्वन्धग्रहणेषु रणोद्यमः' इति विश्वः । वेधसः स्पृहा = विधातुरिच्छा, यया दिशा धावति=येनाध्वना प्रवर्त्तते तया एव दिशा, भृशावशात्मना = अत्यन्तपरतन्त्रस्वभावेन, जनस्य चित्तेन तृणेन वात्या वातसमूह इव । पाशादिभ्यो यः । अनुगम्यते, वेधसः स्पृहा कर्म ॥१२०॥ जो अवश्य होनेवाला है, उसके पीछे--बिना बाधा के जानेवाली ( अङ्कुश- हीन ) विधाता की इच्छा--जिस दिशा में जाती है, उसी दिशा में लोगों के अत्यन्त बेबस चित्त इस प्रकार जाते हैं, जैसे जिधर आँधी जाती है, उसी ओर तिनका उड़ कर जाता है ॥१२०॥ अथावलम्ब्य क्षणमेकपादिकां तदा निदद्रावुपपल्वलं खगः । स तिर्यगावर्जितकंधरः शिरः विधाय पक्षेण रतिक्लमालसः ॥१२१॥

६२ नैषधचरितम्। [ प्रथम सर्ग चिकीर्षितार्थे देवानुकूल्यं कार्यतो दर्शयति-अथेति । अथ=नलदृष्टिद्राप्त्यनन्तरं, रतिक्रमालसः स=खगो हंसः, तदा=नलकौतूहलकालक्षणम्, एकपादो यस्यां क्रिया- यामित्येकपादिका, एकपादेनावस्थानं । मत्वर्थीयष्ठन् प्रत्ययः 'तद्धितार्थ'इत्यादिना सङ्ख्यासमासः, 'यस्य इति'लोपस्य स्थानिवद्भावेन ताद्रूप्याभावान्न पादः पदादेशः, ताम् एकपादिकामवलम्ब्य तिर्यगावजितकन्धरः=आवर्त्तितग्रीवः सन् पक्षेण शिरः पिधाय उपपलवलं = पल्वले क्षणं निदद्रौ=सुस्वापं । स्वभावो क्तिरलङ्कारः । स्वभावोक्तिरलङ्कारो यथावद्वस्तुवर्णनम्'इति लक्षणात् ॥१२१॥ नल की नज़र पड़ने के बाद सुरत-जन्य खेद के कारण सुस्त हो, वह राजहंस उसी समय, पंखों से शिर ढँककर, गर्दन टेढ़ी झुकाकर और एक पंजे का सहारा लेकर, क्षणभर में सो गया ॥१२१॥ सनालमात्मानननिर्जितप्रभं हियानतं, काञ्चनमम्बुजन्म किम् ? अबुद्ध तं विद्रुमदण्डमण्डितं स पीतमम्भःप्रभुचामरत्न किम् ? ॥१२२॥ सनालमिति । स नलः, तं = निद्राणं हंसम् [ आत्मानननिर्जितप्रभं ] आत्माननेन निर्जितप्रभं निजमुखनिराकृतशोभम्; अत एव हियानतं सनालं = नालसहितं, काञ्चनं = सौवर्णम् अम्बुजन्म = अम्बुजं किम् ? तथा, [ विद्रुम- दण्डमण्डितं ] विद्रुमदण्डेन मण्डितं भूषितं, पीतं = पीतवर्णम् [ अम्भःप्रभु- चामरत्न ] अम्भःप्रभोः अपांपत्युः वरुणस्य, चामरं किम् ? इतिशब्दोऽत्राहार्यः । इति अबुद्ध = बुद्धवानुत्प्रेक्षितवानित्यर्थः । बुध्यतेर्लुङि तङः 'झषस्तथोर्धोऽधः'इति तकारस्य धकारः ॥१२२॥ क्या यह (एक पंजे के सहारे) डण्ठलसहित सोने का कमल है--जो (मेरी मुखकान्ति से ) अपने को विजित समझकर, लज्जा के मारे मुँह लटका कर, एक ओर पड़ गया है ? अथवा-क्या यादसां पति वरुण का--(लाल पंजा होने के कारण) मूँगे के डण्डे से अलंकृत, पीले रंग का--चँवर है ? नल ने राजहंस के बारे में इस तरह अनुमान किया ॥१२२॥ कृतावरोहस्य हयादुशानहौ ततः पदे रेततुरस्य बिभ्रती । तयोः प्रवालैर्वनयोस्तथाम्बुजैर्नियोद्धुकामे किमु बद्धवर्मणी ? ॥१२३॥ कृतेति । ततः = तन्निदर्शनानन्तरं, हयाद् = अश्वात् कृतावरोहस्य = कृता- वतरणस्य अस्य=नलस्य उपानहौ=वर्मणी पादत्राणे । 'पादत्राणे उपानहौ इत्यमरः ।

: १] जीवातु-मदयन्तिकासहितम् ६३ बभ्रती = बिभ्राणे, पद् = चरणे तयोर्वनयोः = सलिल-काननयोः । 'वनं सलिल- कानने' इत्यमरः । प्रवालैः = पल्लवैः तथाम्बुजैः = पद्मैश्च सहेत्यर्थः । सहार्थे तृतीया । नियोद्धुं कामोऽभिलाषो ययोस्ते नियोद्धुकामे = युद्धकाम इत्यर्थः । 'तुं काममनसोरपि' इति तुमुनो मकारलोपः । अतो बद्धवर्मणो किमु = बद्धकवचे इव ते रेजतुः किम् इत्युत्प्रेक्षा ॥१२३॥ तब घोड़े पर से उतरे हुए नल के जूते पहने हुए पैर—ऐसे शोभित हुए मानों वे-उस उपवन के पल्लवों और जल के कमलों के साथ युद्ध करने की अभिलाषा से, कवच पहन कर, वहाँ आये हों ॥१२३॥ विधाय मूर्त्तिं कपटेन वामनीं स्वयं बलिध्वंसिविडम्बिनीमयम् । उपेतपार्श्वश्चरणेन मौनिना नृपः पतङ्गं समधत्त पाणिना ॥१२४॥ विधायेति । अयं नृपः स्वयमेव कपटेन = छद्मना वामनीं = ह्रस्वां । गौरादित्वात् ङीष् । बलिध्वंसिविडम्बिनीं कपटवामनविष्णुमूर्त्त्यनुकारिणीमित्यर्थः । मूर्त्तिं विधाय=कायं सङ्कुच्येत्यर्थः । मौनिना = निःशब्देन चरणेन, उपेतपार्श्वः = प्राप्तहंसान्तिकः पाणिना पतङ्गं = पक्षिणं समधत्त = सन्धृतवान्, जग्राहेत्यर्थः । स्वभावोक्तिरलङ्कारः ॥१२४॥ राजा नल कपट (छल) से बलि के छलने वाले (वामन भगवान्) के अनुरूप अपनी वामनी मूर्त्ति (शरीर को झुकाकर, छोटा आकार) बनाकर, चुपचाप दबे पाँव से उसके पास जाकर, उसे अपने हाथ से पकड़ लिया ॥१२४॥ तदात्तमात्मानमवेत्य सम्भ्रमात् पुनः पुनः प्रायसदुत्प्लवाय सः । गतो विरुत्योड्डयने निराशतां करौ निरोद्धुर्ददशति स्म केवलम् ॥१२५॥ तदिति । स = हंसः आत्मानं तदा तु [ तदात्तं ] तेन नलेनात्तं गृहीतम् अवेत्य = ज्ञात्वा, सम्भ्रमाद् उत्पॢवाय=उत्पतनाय पुनः पुनः प्रायसत् = आय- स्तवान् । 'यसुप्रयत्ने'इति धातोर्लुङि पुषादित्वात् च्लेरङादेशः । उड्डयने = उत्पतने निराशतां गतो विरुत्य = विक्रुश्य निरोद्धुः = गृहीतुः, करौ केवलं = करावेव दशति स्म = दष्टवान् । अत्रापि स्वभावोक्तिरेव ॥१२५॥ जब उस राजहंस ने अपने को उन नल के द्वारा पकड़ा हुआ जाना तो डर के मारे घबड़ाकर उड़ जाने की बार-बार चेष्टा की। लेकिन उड़ने में बेबस हो, विशेष प्रकार से शब्द करके, वह केवल पकड़नेवाले के दोनों हाथों को काटने लगा ।

६४ | नैषधचरितम् । [ प्रथमः ससम्भ्रमोत्पातितपतत्कुलाकुलं सरः प्रपद्योत्कतयाऽनुकम्पिताम् । तमूर्मिलोलैः पतगग्रहात्नृपं न्यवारयद्वारिरुहैः करैरिव ॥१२६॥ स इति । [ससम्भ्रमोत्पातित-पतत्कुलाकुलं] ससम्भ्रमं सत्वरम्, उत्पातिना उड्डीयमानेन, पतत्कुलेन पक्षिसङ्घेन, आकुलं सङ्कुलं, सरः कर्तृ । उत्कतया = उन्मनस्तया । 'उत्क उन्मनाः' इति निपातनाद्विधानाच्च साधुः । अनुकम्पितां प्रपद्य = कृपालुतां प्राप्य, तं नृपम्, ऊर्मिलोलैः = चलैर्वारिरुहैः करैरिति व्यस्त- रूपकं । पतगग्रहात् = पक्षिग्रहात्, न्यवारयत् इव इत्युत्प्रेक्षा; वास्तवनिवारणा- सम्भवादुत्प्रेक्षा । निवारणस्य करसाध्यत्वात् तत्र रूपकाश्रयणम् । अत एवैवं शब्दस्य उपमाबाधेनार्थनुसाराद्व्यवहितान्ययेनाप्युत्प्रेक्षा व्यञ्जकत्वमिति रूपकोत्प्रेक्षयोरङ्गाङ्गि- भावेन सङ्करः ॥१२६॥ ( उधर ) डर के मारे हड़बड़ी में उड़ते हुए पक्षियों के समूह से अस्थिर हुए सरोवर ने— मानो ( पक्षियों के पंखों से कुल-कुल उठा हुआ जल वाला अर्थात् ) उन्मना हो, हंस पर करुणा करके, लहरों से चञ्चल हुए, कमलरूपी करों द्वारा, राजा नल को हंस के पकड़ने से मना किया-- ऐसा प्रतीत होता था ॥१२६॥ पतत्रिणा तद्रुचिरेण वञ्चितं श्रियः प्रयान्त्याः प्रविहाय पल्वलम् । चलत्पदाम्भोरुहनूपुरोपमा चुकूज कूले कलहंसमण्डली ॥१२७॥ पतत्रिणेति । रुचिरेण पतत्रिणा=हंसेन, वञ्चितं = विरहितं तत्पल्वलं = सरः प्रविहाय, प्रयान्त्याः = गच्छन्त्याः श्रियः = लक्ष्म्याः, [चलत्पदाम्भोरुह- नूपुरोपमा] चलद्रयां पदाम्भोरुहनूपुराभ्याम्, उपमा साम्यं, यस्याः सा, कलहंस- मण्डली कूले चुकूज । स्वयूथभ्रंशे कूजनमेषां स्वभावः । तत्र हंसेनेव सह गच्छन्त्या सरःशोभायाः, श्रीदेव्या सहाभेदाध्यवसायेन कूजत्कलहंसमण्डल्यां तन्नूपुरत्वमुत्प्रे- क्ष्यते । उपमाशब्दोऽपि मुख्यार्थानुपपत्तेः सम्भावणालक्षक इत्यवधेयम् ॥१२७॥ सुन्दर राजहंस से विहीन उस सरोवर को परित्यागकर, जाती हुई सुन्दर हंस- मण्डली ने किनारे पर, ऐसा मधुर गुञ्जन किया, मानो प्रस्थान करती हुई सरोवर- सौन्दर्य-श्री के चञ्चल चरण-कमलों के पाजेब की छुमछुम की आवाज़ हो ॥१२७॥ न वास्ययोग्या वसुधेयमीदृशस्त्वमङ्ग ! यस्याः पतिरुज्झितस्थितिः । इति प्रहाय क्षितिमाश्रिता नभः खगास्तमाचुक्रुशुरारवैः खलु ॥१२८॥ नेति । इयं वसुधा त्वया न वासयोग्या = निवासार्हा न । कुतः ? अङ्ग = भो !

सर्गः १ ] जीवात-मदयन्तिकासहितम् । ६५ यस्याः = वसुधायाः, उज्जितस्थितिः = त्यक्तमर्यादः, ईदृशः = अनपराधपक्षि- घातकः त्वं पतिः = पालकः, इति = इत्थं खगाः क्षितिं प्रहाय नभ आश्रितास्तं = नलम् आरवैः = उच्चध्वनिभिः, आचुक्रुशुः खलु = उक्तरीत्या सनिन्दोपालम्भनं चक्रुरिव, इत्युत्प्रेक्षा गम्या ।। १२८ ।। धरती को छोड़कर, आकाश में जाते हुए, पक्षिगण मानो अपने शब्दों से नल की निन्दा कर रहे थे कि-- शिव शिव ! तुम्हारे जैसे मर्यादा का परित्याग करने वाले व्यक्ति, जिसके अधिपति हों, वह वसुन्धरा अब हम लोगों के बसने योग्य नहीं है ।। १२८ ।। न जातरूपच्छदजातरूपता द्विजस्य दृष्टेयमिति स्तुवन् मुहुः । अवादि तेनाथ स मान्सौकसा जनाधिनाथः करपञ्जरस्पृशा ।। १२९ ।। नेति । इयम् = ईदृ क्, [जातरूपच्छद्जातरूपता] जातरूपच्छदैः सुवर्ण- पक्षैः, जातरूपता उत्पन्नसौन्दर्यत्वं, द्विजस्य = पक्षिणः, न दृष्टा = हिरण्मयः पक्षी न कुत्रापि दृष्ट इत्यर्थः । इति मुहुः स्तुवन्, स जनाधिनाथः, अथ = अस्मिन्नन्तरे करपञ्जरस्पृशा = करतलगतेन । मानसं सरः ओकः स्थानं यस्येति सः, तेन मान- सौकसा = हंसेन । 'हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसाँकसः' इत्यमरः । अवादि = उक्तः । वदेः कर्म्मणि लुङ् ।। १२६ ।। 'ऐसा सोने के पंखों से उत्पन्न सौन्दर्य किसी पक्षी में आज तक कहीं नहीं देखा'-- इस प्रकार बार-बार प्रशंसा करनेवाले राजा नल से-- हाथ रूपी पिजड़े में फँसे हुए, उस मानसरोवर निवासी राजहंस ने--कहा ।। १२६ ।। धिगस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान्मम हेमजन्मनः । तवार्णवस्येव तुषारशीकरैर्भवेदमीभिः कमलोदयः कियान् ।। १३० ।। तदेव चतुर्भिराह-- धिगित्यादि । हेम्नो जन्म येषां तान् हेमजन्मनः = हैमान्, मम पक्षान् = पत्राणि समीक्ष्य तृष्णातरलम् = आशावशगं भवन्मनो धिगस्तु इति निन्दा । 'धिङ्निर्भर्त्सन-निन्दयोः' इत्यमरः । 'धिगुपर्यादिषु त्रिषु' इति धिग्योगात् मन इति द्वितीया । तुषारशीकरैः = हिमकिरणैः, अर्णवस्य इव, तव अमीभिः = एभिः पक्षैः कियान् [कमलोदयः] कमलाया लक्ष्म्याः, कमलस्य जलस्य च, उदयो वृद्धिः, भवेत् ? न कियानपीत्यर्थः ।। १३० ।। (राजन् !) सोने के बने हुए, मेरे पंखों को देखकर, तृष्णा से चपल हुए, ५

६६ नैषधचरितम् । [ प्रथमः आपके (लोभाविष्ट) चित्त को धिक्कार है। जैसे बरफ के टुकड़े (बनौरी गिरने) से, सागर के जल की वृद्धि नहीं होती, उसी तरह इन कतिपय (चन्द सोने के पङ्खों) से आपकी राजलक्ष्मी की कितनी वृद्धि होगी ? ॥१३०॥ न केवलं प्राणिबधो बधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः । विगर्हितं धर्मधनैर्निबर्हणं विशिष्य विश्वासजुषां द्विषामपि ॥१३१॥ नेति । हे नृप ! त्वदीक्षणात्=त्वन्मूर्त्तिदर्शनादेव, विश्वसितान्तरात्मनः= विस्रब्धचित्तस्य, विश्वस्तस्येत्यर्थः । मम बधः केवलं प्राणिमात्रबधो न, किन्तु विश्वासघातपातक मित्यर्थः । ततः किमत आह-विश्वासजुषां = विस्रम्भभाजां द्विषामपि निबर्हणं = हिंसनं धर्मधनैः = धर्मपरैः मन्वादिभिः, विशिष्य = अति- रिच्य विगर्हितम् = अत्यन्तनिन्दितमित्यर्थः ॥१३१॥ आपके दर्शन से, मेरे अन्तःकरण में विश्वास उत्पन्न हो गया था (इसी से मैं विश्वस्त हो, सो गया था; इस बीच आपने मुझे पकड़ लिया) अतः मुझ जैसे (निश्छल तथा विश्वास करने वाले साधारण) जीव के बध करने से, न केवल आपको प्राणिवध का पाप लगेगा, बल्कि विश्वासघात का भी पाप लगेगा; क्योंकि धर्मरूपी धन वाले (धर्मपरायण मनु आदि) महर्षियों ने (मित्रों की कौन कहे ?) विश्वास करके आये हुए शत्रुओं के बध करने की भी विशेष रूप से (घोर) निन्दा की है ॥१३१॥ पदे पदे सन्ति भटा रणोद्धटा न तेषु हिंसारस एष पूर्यते ? धिग्वीदृशं ते नृपतेः कुविक्रमं कृपाश्रये यः कृपणे पतत्रिणि ॥१३२॥ पदे पद इति । रणोद्धटाः=रणेषु प्रचण्डाः, भटाः=योधाः, पदे पदे सन्ति= सर्वत्र सन्तीत्यर्थः । वीप्सायां द्विर्भावः । एषः हिंसारसः = हिंसारागः तेषु = भटेषु न पूर्यते । अत्र काकुः-न पूर्यते किमित्यर्थः ? । नृपतेः = महाराजस्य ते = तव ईदृशम्=अवध्यवधरूपं कुविक्रमं =कुत्सितपराक्रमं धिक् यः=कुविक्रमः कृपाश्रये= कृपाविषये अनुकम्पनीये कृपणे = दीने पतत्रिणि क्रियत इति शेषः ॥१३२॥ पग-पग पर (सर्वत्र) रण-मत्त योद्धा भरे पड़े हैं। क्या उनसे आपके हिंसा- रस (हत्या-प्रेम) की पूर्ति नहीं होती ? महाराज के इस प्रकार के (अवध्यरूप) कु-पराक्रम को धिक्कार है—जो मुझ जैसे दीन तथा कृपापात्र पक्षी पर अपनी शूरता प्रकट कर रहे हैं ! ॥१३२॥

सर्गः १ ] जीवातू-मदयन्तिकासहितम् । ६७ फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः । त्वयाद्य तस्मिन्नपि दण्डधारिणा कथं न पत्या धरणी हृणीयते ? ॥१३३॥ फलेति । यस्य मम मुनेरिव वारिभूरुहां = जलरुहां पद्मादीनाम् ; अन्यत्र वारिरुहां भूरुहाञ्च, फलेन मूलेन च इत्थम् = अनेन दृश्यमानप्रकारेण वृत्तयः = जीविकाः, तस्मिन् अपि = अनपराधेऽपीति भावः । दण्डधारिणा = दण्डकारिणा, अदण्ड्यदण्डकेनेत्यर्थः । पत्या त्वया हेतुना । अद्य धरणी कथं न हृणीयते = जुगुप्सत एवेत्यर्थः । हृणीयतेः कण्ड्वादियगन्ताल्लट् । तत्र हृणीङिति ङित्करणादा- त्मनेपदम् । अकार्यकारिणं भर्तारमपि गर्हन्ते स्त्रिय इति भावः ॥१३३॥ कन्द-मूल, फल, कमल-नाल आदि को खा करके, मुनियों के समान जीवन- निर्वाह करनेवाले, मुझ सरीखे जीवों की—आप जैसे (पृथ्वी-पति) व्यक्ति हिंसा करते हैं तो उन दण्डधारी 'पति' पर मेरी 'माता' धरती क्यों नहीं घृणा करती ? ॥ इतीदृशैस्तं विरचय्य वाङ्मयैः सचित्रवैलक्ष्यकृपं नृपं खगः । दयासमुद्रे स तदाशयेऽतिथीचकार कारुण्यरसापगा गिरः ॥१३४॥ इतीति । इति = इत्थं, स खगः = हंसः, तं नृपम्, ईदृशैः = दोषालम्भे- रित्यर्थः । वाङ्मयैः = वाग्विकारैः । 'एकाचो नित्यं मयटमिच्छन्ति'इति विकारार्थे मयट्प्रत्ययः । पक्षिकथनात् चित्रं, परैः स्वकार्योद्घाटनादपत्रपा वैलक्ष्यं, परार्तिदर्शने तन्निवर्त्तनेच्छा या कृपा, ताभिः सह वर्त्तत इति सचित्रवैलक्ष्यकृपं विरचय्य = विधाय । 'ल्यपि लघुपूर्वात्' इत्यादेशः । दयासमुद्रे तदाशये = तच्चित्ते कारुण्यरसापगाः = करुणरासनदीः गिरः अतिथीचकार = प्रवेशयामासेत्यर्थः । समुद्रे नदीप्रवेशो युक्त इति भावः । रूपकालङ्कारः ॥१३४॥ इस तरह के (धिक्कारयुक्त) कथन से, राजहंस ने राजा नल को चकित, लज्जित और कृपालु बनाने के बाद, उनके दया-समुद्ररूपी हृदय में—अपनी करुणा- रसमयी नदी रूपी (वक्ष्यमाण करुणरस-व्यञ्जक) वाणी को—अतिथि बनाकर, प्रवेश करा दिया ॥१३४॥ मदेकपुत्रा जननी जरातुरा नवप्रसूतिर्वरटा तपस्विनी । गतिस्तयोरेष जनस्तमर्हयन्नहो विधे ! त्वां करुणा रुणद्धि नो ॥१३५॥ तावद्गिरः प्रपञ्चयति--मदित्यादिना । तत्र तावद्दैवमुपालभते हे विधे ! जननी = माता, अहमेवैकः पुत्रो यस्याः सा मदेकपुत्रा, जरातुरा =

६८ नैषधचरितम् । [ प्रथमः नास्तीत्यर्थः । जरातुरा = स्वयमप्यसमर्थेत्यर्थः, वरटा = स्वभार्य्या । 'हंसस्य योषि- द्वरटा'इत्यमरः । नवप्रसूतिः = अचिरप्रसवा, तपस्विनी = शोच्या एष जनः= स्वयमित्यर्थः । तयोः = जाया-जनन्योः गतिः = शरणं तं = जनं, मामित्यर्थः । अर्दयन्=पीडयन् अहो विधे ! = विधातः ! त्वां करुणा न रुणद्धि=मत्पीडनान्न निवारयतीति काकुः । न रुणद्धि किमित्यर्थः ? ॥१३५॥ वृद्धावस्था के कारण पीडित, अपनी जननी का मैं ही एकमात्र पुत्र हूँ, मेरी हंसिनी--पत्नी-अभी हाल में ही प्रसूता हुई है और उसकी दशा भी अच्छी नहीं है । यही जन ( अर्थात् अकेला मैं ) ही उन दोनों का अवलम्ब है । ऐसी परि- स्थिति में मुझे बे-मौत मारते ( कष्ट पहुँचाते ) हुए, हे विधाता ! क्या तुझे करुणा नहीं आती ? ॥ १३५ ॥ मुहूर्त्तमात्रं भवनिन्दया दयासखाः सखायः स्रवदश्रवो मम । निवृत्तिमेष्यन्ति परं दुरुत्तरस्त्वयैव मातः ! सुतशोकसागरः ॥१३६॥ अथ मातरं शोचयति—मुहूर्त्तेति । हे मातः ! मम सखायः = सुहृदो दयासखाः = सदयाः अत एव स्रवदश्रवः सन्तः । अश्रु नेत्राग्बु । 'रोदनं चास्र- मश्रु च'इत्यमरः । मुहूर्त्तमात्रं = क्षणमात्रं भवनिन्दया = संसारगर्हणेन निवृत्ति= शोकोपरतिम् , एष्यन्ति, किन्तु त्वयैव [सुतशोकसागरः ] सुतशोक एव सागरः परम् = अत्यन्तः, दुखेनोत्तीर्यत इति दुरुत्तरः = दुस्तरः । तरतेः कृच्छ्रार्थे खल्प्रत्ययः ॥ १३६ ॥ मेरे ( लँगोटिया यार ) दयालु मित्र ( क्षणभङ्गुर ) संसार की निन्दा करके और आँसू वहा करके, क्षणभर के बाद अपने कष्ट को भूल जायेंगे; पर हे माता ! एकमात्र आपके लिए, पुत्र-शोकरूपी सागर को, पार करना कठिन होगा ॥१३६॥ मदर्थसन्देशमृणालमन्थरः प्रियः कियद्दूर इति त्वयोदिते । विलोकयन्त्या रुदतोऽथ पक्षिणः प्रिये ! स कीदृग्भविता तव क्षणः ॥१३७॥ अथ भार्य्यामुद्दिश्य विलपति-मदर्थेत्यादिना । हे प्रिये ! [ मदर्थसन्देश- मृणालमन्थरः ] मह्यमिमे मदर्थे । 'अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या ।' तयोः सन्देशमृणालयोः वाचिकबिसयोः मन्थरस्तत्प्रेषणे विलम्बितप्रवृत्तिः प्रियः कियददूरे = कियति दूरे देशे वर्तत इति त्वया उदिते = उक्ते, पृष्टे सती- त्यर्थः । अथ = प्रस्थानानन्तरं रुदतः = अनिष्टोच्चारणाशक्त्या अश्रूणि विमुञ्चतः,

सर्गः १ ] जीवातु·दमयन्तिकासहितम् । ६९ पक्षिणः इतो गच्छतो गतान् विलोकयन्त्यास्तव स क्षणः = स कालः, कीदृक् भविता = भविष्यति, वज्रपातप्राय इति भावः । कर्त्तरि लुट् ॥१३७॥ 'मेरा प्रियतम कितनी दूर है और मेरे लिए सन्देश तथा मृणाल भेजने में उसने बड़ी देर कर दी' — इस प्रकार हे प्यारी ! जब तू ( चारा लेकर लौटे हुए अन्य) पक्षियों से पूछेगी और ( तब कुछ न कहकर, केवल मेरे शोक में) पक्षियों को रोता हुआ देखेगी तो तेरा वह समय कितने कष्ट से बीतेगा ? ॥१३७॥ कथं विधातमयि पाणिपङ्कजात्तव प्रियाशैत्यमृदुत्वशिल्पिनः । वियोक्ष्यसे वल्लभयेति निर्गता लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥१३८॥ कथमिति । हे विधातः ! प्रियायाः वरटायाः शैत्यमृदुत्वशिल्पिनः = तादृक् तदङ्गशैत्यमार्दवनिर्माणकात् तब पाणिपङ्कजात् = पङ्कजमृदुशिशिरात् पाणे- रित्यर्थः । मयि विषये 'वल्लभया सह वियोक्ष्यसे' इति एवंतरूपा अत एव [ललाटन्तपनिष्ठुराक्षरा ] ललाटं तपन्ति दहन्तीति ललाटन्तपानि । 'सूर्यं- ललाटयोर्दृशितपोः' इति खल्प्रत्ययः । 'अरुर्द्विषत्' इत्यादिना मुमागमः । तानि निष्ठुराणि कर्ककठोराणि, चाक्षराणि यस्याः सा । लिपिः = अक्षरविन्यासः, कथं निर्गता = निःस्रुता ? । अत्र कारणात् विरुद्धकार्योत्पत्तिकथनाद्विषमालङ्कारभेदः । 'विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य भावयेत् । विरूपघटना वा स्याद्विषमालङ्कृतिर्मता' इति॥ हे विधाता ! मेरी पत्नी के शीतल ( अङ्ग ) तथा कोमल ( स्वभाव ) बनाने वाले आपके इन्हीं कर-कमलों द्वारा — 'प्राणवल्लभा के साथ तेरा वियोग होगा'— यह ( अङ्ग-शीतलता के विरुद्ध ) उत्तमाङ्ग-शिर में ताप-जनक और ( मृदुत्व के प्रतिकूल ) निष्ठुर उक्ति मेरे माथे में—कैसे लिखी गयी ? ॥१३८॥ अथ स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता । मुखानि लोलाक्षि ! दिशामसंशयं दशानि शून्यानि विलोकयिष्यसि ॥१३९॥ अद्येति — अद्य = अस्मिन् दिने । 'सद्यः परुत्' इत्यादिना निपातः । स्वयूथ्यैः = स्वसहचरैर्हंसैः कर्तृभिः अशनिक्षतोपमं = वज्रप्रहारप्रायं मम इमं वृत्तान्तम् = अनर्थवार्त्ता उदिता = उक्ता सती । वदेब्रु'अर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः । 'वचिस्वपि'इत्यादिना सम्प्रसारणम् । अयि लोलाक्षि ! चञ्चलनेत्रे दश अपि दिशां मुखानि शून्यानि = आलम्ब्य लक्ष्याकाराणि विलोकयिष्यसि, असंशयं = सन्देहो नास्तीत्यर्थः । अर्थाभावेऽव्ययीभावः । बत इति खेदे ॥१३९॥

२. इन्द्रादि लोकपाल दूतत्व व नल संवाद (सर्ग ६-९)

७० नैषधचरितम् । [ प्रथमः Digitized by Sarayu Trust Foundation and eGangotri अरी चपलनयनवाली ! अपने यूथ के हंस जब वज्रप्रहार के समान, मेरे विषय में यह अनर्थकारी (मरण-) समाचार देंगे, तो हाय ! हाय ! निःसन्देह तुझे दशो दिशाओं के मुख (अगले हिस्से) शून्य दिखाई देंगे (आँखों के आगे अँधेरा छा जायगा) ॥१३६॥ ममैव शोकेन विदीर्णवक्षसा त्वयापि चित्राङ्गि ! विपद्यते यदि । तदस्मि दैवेन हतोऽपि हा हतः स्फुटं यतस्ते शिशवः परासवः ॥१४०॥ ममैवेति । हे चित्राङ्गि ! = लोहितचञ्चुचरणत्वाद्दिचित्रगात्रे ! मम शोकेन एव = मद्विपत्तिदुःखेनैव, विदीर्णवक्षसा=विदलितहृदा त्वयाऽपि विपद्यते= म्रियते यदि, तत् तर्हि दैवेन हतः स्फुटं = व्यक्तं पुनर्हतोऽस्मि हा इति विषादे । 'हा विस्मय-विषादयो'रिति विश्वः । कुतः ? यतः ते शिशवः परासवः = मातुरप्यभावे पोषकाभावान्मृताः । अतः शिशुमरणभावनया द्विगुणितं मे मरणदुःखं प्राप्तमित्यर्थः ॥ हे आश्चर्यजनक अङ्गलावण्यवाली ! यदि मेरे शोक के कारण हृदयविदीर्ण हो जाने से, तेरी मृत्यु हो जाय-तब तो हाय ! मैं मरा हुआ भी भाग्य से, फिर मारा जाऊँगा क्योंकि तेरे दुधमुँहे बच्चे (तेरे पोषण के अभाव से) अवश्य मर जायेंगे ॥ तवापि हाहा विरहात् क्षुधाकुलाः कुलायकूलेषु बिलुठ्य तेषु ते । चिरेण लब्धा बहुभिर्मनोरथैर्गताः क्षणेनास्फुटितेक्षणा मम ॥१४१॥ ननु मन्मृतौ कथं तेषां मृतिरत आह- तवापाति । हे प्रिये ! बहुभिर्मनो- रथैश्चिरेण लब्धाः = कृच्छ्रलब्धा इत्यर्थः । अस्फुटितेक्षणाः = अद्याप्यनुन्मीलि- तेक्षणा मम ते = पूर्वोक्ताः शिशवः तवापि = न केवलं ममैवेति भावः । विरहात्= विपत्तेः क्षुधाकुलाः = क्षुत्पीडिताः तेषु = स्वसम्पादितेष्वित्यर्थः । कुलायकूलेषु = नीडान्तिकेपु । 'कुलायो नीडमस्त्रियाम्' इत्यमरः । बिलुठ्य = परिवृत्य क्षणेन गताः = मृतप्रायाः । हा हा इति खेदे ॥१४१॥ हाय ! हाय ! जो बहुत से मनोरथों से बहुत दिनों के बाद उत्पन्न हुए हैं और जिनकी आँखें भी अभीतक नहीं खुली हैं—ऐसे मेरे और तेरे बच्चे-तेरे विरह से भूख-प्यास से विकल हो, (हमारे बनाए हुए) उस घोंसले के छोर से गिर-गिर कर, क्षण भर में ही मौत के शिकार हो जायंगे ॥१४१॥ सुताः ! कमद्वयञ्चिराय चुम्बकैरविक्षता मन्मथयोः मुखानि कं प्रति । कथासु शिष्यध्वमिति प्रमील्य स स्रुत्तस्य सेकाद्बुबुधे नृपाश्रुणः ॥१४२॥

सर्गः १ ] जीवातू-मद्यन्तिकासहितम् । ७१ Digitized by Sarayu Trust Foundation and eGangotri सुता इति। हे सुताः ! चूङ्कृतैः = चूत्कारैः, चिराय कं प्रति आहूय कमपि प्रति मुखानि कम्प्राणि = चञ्चलानि विधाय कथासु शिष्यध्वं = कथा- मात्रशेषा भवत; कुत्रापि पित्रोरदर्शनान्म्रियध्वम् । प्राप्तकाले लोट् । मरणकालः प्राप्त इत्यर्थः । इति = इत्युक्त्वेत्यर्थः । गम्यमानार्थत्वादप्रयोगः । मील्य = मूर्च्छां प्राप्य स = हंसः स्रुतस्य = दयार्द्रभावात् प्रवहतो नृपस्याश्रुणः सेकाद्बुबुधे = संज्ञां लेभे । प्रायेणात्र स्वभावोक्तिरूह्या ॥१४२॥ बच्चो ! बहुत देर तक चूँ-चूँ करके, तुम किसे बुलाओगे ? अपनी चोंच हिला- हिलाकर, उसमें किसके मुँहों को डाल-डालकर, बोलना सीखोगे ? अब तो ('दूसरे पक्षियों के लिए) तुम्हारी कहानी ही रह जायगी--ऐसा विलाप करके, मूर्छित हुआ वह राजहंस, राजा नल के गिरे हुए नयन-जल से सिक्त होने पर, फिर चैतन्य हुआ ॥ इत्थममुं विलपन्तममुञ्चद्दीनदयालुतयावनिपालः । रूपमदर्शि धृतोऽसि यदर्थं गच्छ यथेच्छमथेत्यभिधाय ॥१४३॥ अत्र 'सर्वत्र भिन्नसर्गान्तैः' इति काव्यलक्षणाद्वृत्तान्तरेण श्लोकद्वयमाह — इत्थ- मित्यादिना । इत्थं बिलपन्तं = परिदेवमानम् अमुं = हंसं, अवनिपालः = नलो [दीनदयालुतया ] दीनेष्वार्तेषु, दयालुतया कारुणिकतया । रूपम् = आकृतिः अदर्शि = अपूर्वत्वादवलोकितं । यस्मै यदर्थं = रूपदर्शनार्थमेव, धृतः = गृहीतोऽसि । अथ यथेच्छ गच्छेत्यभिधाय अमुञ्चत् = मुक्तवान् । दोधकवृत्तमिदम् 'भभभा गौ' इति लक्षणात् ॥१४३॥ इस तरह विलाप करते हुए राजहंस को अवनिपाल नल ने, दीनदयालुतया के कारण, यह कह कर छोड़ दिया कि 'हे हंस ! जिस (रूपदर्शन) के लिए मैंने तुम्हें पकड़ा था उस सौन्दर्य को देख लिया; अब तुम जहाँ जाना चाहो, जा सकते हो' ॥ आनन्दजाश्रुभिरनुश्रियमाणमार्गान् प्राक्शोकनिर्गलितनेत्रपयःप्रवाहान् । चक्रे स चक्रनिभचङ्क्रमणच्छलेन नीराजनां जनयतां निजबान्धवानाम् ॥१४४॥ आनन्देति । स = हंसः, [चक्रनिभचङ्क्रमणच्छलेन] चक्रनिभचङ्क्रमणस्य मण्डलाकारभ्रमणस्य, छलेन, नीराजनां जनयतां = कुर्वतां निजबान्धवानां बन्धमुक्तं बान्धवाः नीराजयन्तीति समयाचारः [ प्राक्शोकनिर्गलितनेत्रपयः- प्रवाहान् ] प्राङ् मोचनात्पूर्वं, शोके निर्गलिता निःसरिता नेत्रपयःप्रवाहाः बाष्पपू- रास्तान आनन्दजाश्रुभिः = आनन्दबाष्पैः, अनुश्रियमाणमार्गान् = अनुगम्य-