प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)
Prabodhachandrodaya of Krishnamishra with Commentary
कृष्णमिश्र यति द्वारा
कल्पान्तवातसंक्षोभलङ्घिताशेषभूभृतः । स्थैर्यप्रसादमर्यादास्ता एव हि महोदधेः ॥ ६ ॥ अपि च । भगवन्नारायणांशसंभूता भूतहिताय तथाविधाः पौरुष- भूषणाः पुरुषाः क्षितिमवतीर्य निष्पादितकृत्याः पुनः शान्तिमेव प्रपद्यन्ते । यथा परशुराममेवाकलयतु भवती तावत् । येन त्रिःसप्तकृत्वो नृपबहुलवसामांसमस्तिष्कपङ्क-
प्रतिष्ठापयितुम् । संरम्भः उग्रः प्रयासः । कर्णेनोपद्रुतं कीर्त्तिवर्माणं स्वपदे स्थापयि- तुमेवास्यायं प्रयत्न इति भावः । मोहेन प्रक्षुभ्यमानस्य पुरुषस्य । स्वरूपावासये एव विवेकस्य सकलप्रयास इति ध्वनिः । कल्पान्तेति० कल्पान्ते प्रलयकाले यो वातः प्रपञ्चानिलस्तेन यः संक्षोभः उद्वेली- भवनम् तेन लङ्घिताः आत्मनि निलीनाः कृता अशेषभूभृतः । सर्वेऽपि पर्वता येन तस्य प्रलयकालप्रबलानिलसञ्चारक्षुब्धतया सकलानपि पर्वतान्स्वपयःपूरेऽन्तरयत इत्यर्थः । महोदधेः सागरस्य (प्रलयसमयापाये) ता एव प्राचीना एव स्थैर्यप्रसादम- र्यार्दाःभवन्तीति शेषः । स्थैर्यम् निश्चलता, प्रसादः स्वच्छता, मर्यादा वेलानुलङ्घनम् । यथा प्रलयकाले समुद्वेलोऽपि सागरः पुनस्तत्समयापाये स्थिरः प्रसन्नो मर्यादितश्च भवति तद्वदयमपि गोपालः स्वभावसौम्यः सुहृत्कार्यवशात्तादृशीमुग्रतामङ्गीकृतवा- ञ्जाते तु तत्कार्ये पुनः सैवास्योपशमनिष्ठेति तात्पर्यम् ॥ ६ ॥ भगवन्नारायणांशसंभूताः—भगवदंशोद्भवाः । भूतहिताय-विश्वकल्याणाय पौरुष- भूषणाः-पराक्रमालङ्काराः । क्षितिमवतीर्य-पृथिव्यां जन्म गृहीत्वा । निष्पादित- कृत्याः-कृतकर्त्तव्याः । शान्तिमेव प्रपद्यन्ते-शान्तिनिष्ठा एव भवन्ति । परशुरामम् जमदग्निवंशालङ्कारम् भार्गवम् । आकलयतु-पश्यतु । सोऽपि भगवदवतारो भूभा- रोद्धाराय तास्ता घोराः क्षत्रियवधादिकाः क्रियाः कृत्वान्ते शममेव भेजे तद्वदयमपि भूपालो गोपाल इति भावः । येनेति० येन परशुरामेण त्रिःसप्तकृत्वः एकविंशतिवारान् नृपाणां हतक्षत्रियाणां
प्रलयकालकी हवासे समुद्रमें बाढ़ आती है जिसमे बडे बडे पर्वत डूब जाते हैं, परन्तु प्रलयके बाद समुद्रकी स्थिरता, प्रसन्नता तथा मर्यादा वही हो जाती है ॥ ६ ॥ भगवान् नारायण के अंशसे संसारकी भलाईके लिये उत्पन्न पराक्रमालङ्कृत तादृश नररत्न पृथ्वी पर अवतार लेते है और अपना कर्तव्य करके फिर शान्तिमे लीन हो जाया करते है । तुम सर्वप्रथम परशुरामको ही देखो— जिन्होंने इक्कीस बार राजगणके मांस-मज्जारूप तटसे घिरी क्षत्रियरुधिर नदीके
१२ प्रबोधचन्द्रोदयम् प्राग्भारेऽकारि भूरिच्युतरुधिरसरिद्वारिपूरेऽभिषेकः । यस्य स्त्रीबालवृद्धावधिनिधनविधौ निर्दयो विश्रुतोऽसौ राजन्योच्चांसकूटक्रथनपटुरटद्धोरधारः कुठारः ॥ ७ ॥ सोऽपि स्ववीर्यादवतार्य भारं भूमेः समुत्खाय कुलं नृपाणाम् । प्रशान्तकोपज्वलनस्तपोभिः श्रीमान्मुनिः शाम्यति जामदग्न्यः ॥ ८॥ तथायमपि कृतकर्तव्यः संप्रति परमामुपशमनिष्ठां प्राप्तः । बहुलः भूयान्, वसा मांसस्नेहः, मांसम्, मस्तिष्कपङ्कः लालाटरसस्रावकृतकर्दमश्च प्राग्भारे तटे यस्य तादृशे भूरि अत्यर्थम् च्युतम् क्षरितम् यद्रुधिरम् शोणितं तस्य सरिन्नदी तस्या वारिपूरे जलराशौ अभिषेकः स्नानतर्पणादिविधिः अकारि कृतः। यस्य असौ प्रसिद्धकर्मा कुठारः परशुः राजन्यानाम् क्षत्रियाणाम् उच्चाः उन्नताः येऽंसाः स्कन्धदेशास्तेषां कूटम् समुदायः यस्य क्रथने विपादने पटुः कुशला रटन्ती घोरा शब्दायमाना भीषणा च धारा यस्य तादृशः स्त्रीबालवृद्धावधिनिधनविधौ आबाल- वनितासंहारकर्मणि निर्दयः अकृपः विश्रुतः प्रख्यातः। यः पितृवधामर्षरुष्टः सन्नेक- विंशतिवारान् धरां निःक्षत्रियां कृत्वा तद्रोहास्त्रसरिति स्नानतर्पणादिविधिं निरवर्त्त- यद्यस्य च कुठारः स्त्रीबालवृद्धानपि क्षत्रियानवधीदिति भावः। एतेनास्य परमक्रूर- कर्मत्वमुक्तम् ॥ ७ ॥ सोऽपीति० सोऽपि अत्युग्रकर्मतया प्रसिद्धोऽपि परशुरामः स्ववीर्यात् स्वपराक्रम- मास्थाय नृपाणां क्षत्रियाणां कुलं वंशं समुत्खाय उन्मूल्य भूमेः पृथिव्याः भारम् अवतार्य अपसार्य प्रशान्तकोपज्वलनः शान्तक्रोधज्वालः श्रीमान् जामदग्न्यः मुनिः मननमाश्रितः शाम्यति शमनिष्ठो भवति । तादृशात्युग्रकर्मापि परशुरामः कृतकृत्यः सन् शान्तिमाश्रितवानतश्च गोपालस्यापि कर्णे विनिपातिते शान्तिनिष्ठानास्वाभा- विकीति भावः ॥ ८ ॥ तथा-परशुरामवत् । अयम्-गोपालः। परमामुपशमनिष्ठाम्-आत्यन्तिकीं शान्तिम् । प्रवाह में स्नानतर्पण किये, जिनका कुठार क्षत्रियोंके असदेशके खण्डनमें तीव्र तथा आबाल वृद्ध तकके वधमें विख्यात है ॥ ७ ॥ वह जामदग्न्य भी अपने पराक्रमसे पृथ्वीका भार दूर कर क्षत्रियोंके वधके बाद शान्त- कोप हो मुनिवृत्तिसे तपस्यामें लीन हो गये थे ॥ ८ ॥ उसी प्रकार यह भी इस समय आत्यन्तिक शान्तिमें निरत है ।
प्रथमोऽङ्कः १३ येन च— विवेकेनेव निर्जित्य कर्णं मोहमिवोर्जितम् । श्रीकीर्तिवर्मनृपतेर्बोधस्येवोदयः कृतः ॥ ६ ॥ ( नेपथ्ये ) आः पाप शैलूषाधम, कथमस्मासु जीवत्सु स्वामिनो महामोहस्य विवेककशात्पराजयमुदाहरसि । सूत्रधारः—( ससंभ्रमं विलोक्य ) आर्ये, इतस्तावत् । उत्तुङ्गपीवरकुचद्वयपीडिताङ्ग- विवेकेनेवेति० येन भूपगोपालेन ऊर्जितम् बलशालिनम् कर्णं तदाख्यं नृपम् निर्जित्य पराभूय ऊर्जितम् अत्युच्छ्रितम् मोहम् सांसारिकबन्धनं ममत्वादिकम् निर्जित्य विवेकेन विचारेण प्रबोधस्य आत्मस्वरूपज्ञानस्य उदयः प्रकाश इव श्रीकी- र्त्तिवर्मनृपतेः तदाख्यस्य उदयः साम्राज्यपदारोपणात्समोन्नतिः कृतः । यथा विवेकेन महाराजेन महामोहाख्यं रिपुं विजित्य बोधस्योदयः कृतस्तथा गोपालेन कर्णाख्यं राजानं निर्जित्य कीर्त्तिवर्मनृपतेरभ्युदयः कृत इति भावः ॥ ९ ॥ अत्र कथोद्घाताख्यमामुखाङ्गं निरूपितम् , सूत्रधारोक्तिमनुसृत्य पात्रप्रवेशात् । तदुक्तम्—'स्वेतिवृत्तसमं वाक्यमर्थं वा यत्र सूत्रिणः । गृहीत्वा प्रविशेत्पात्रं कथोद्घातो द्विधैव सः' इति । शैलूषाधम-नीचनट । अस्मासु = विवेकविरोधेषु मोहपक्षपातिषु च मदमात्सर्या- दिषु । जीवत्सु = प्राणान् धारयत्सु । स्वामिनः = प्रभोः । विवेककशात्=विवेकतः । पराजयम् = पराभवम् । उदाहरसि = कथयसि । अस्मासु मोहपक्षगेषु मदमात्सर्या- दिषु तिष्ठत्सु विवेककृतं मोहस्य पराजयं ब्रुवाणस्य तव नटाधमस्य मूर्खत्वं प्रकटमित्यर्थः । ससंभ्रमम्-सभयम् , भयञ्चात्राकस्मादतिप्रबलप्रतापकामदर्शनेन । उत्तुङ्गेति० उत्तुङ्गौ उन्नतौ पीवरौ पीनौ कुचौ स्तनौ तयोर्द्वयेन युग्मेन पीडितम् जिस प्रकार विवेकने उद्रिक्त मोहको जीतकर प्रबोधको उदय प्रदान किया उसी तरह गोपाल भूपालने कर्ण नृपतिको जीतकर कीर्त्तिवर्माको उदय दिया ॥ ९ ॥ ( नेपथ्यमें ) आः पाप, नीच नट, हमारे जीते स्वामी महामोहका विवेकसे हारना बताता है ! सूत्रधार—( घबड़ाहटसे देखकर ) आर्ये, इधर तो देखो— उत्तुङ्गस्तनद्वय द्वारा शरीरको मसलकर रोमाञ्चित बाहुओं से रति द्वारा आलिङ्गित
१४ प्रबोधचन्द्रोदयम् मालिङ्गितः पुलकितेन भुजेन रत्या । श्रीमाञ्जगन्ति मदयन्नयनाभिरामः कामोऽयमेति मदघूर्णितनेत्रपद्मः ॥ १० ॥ मद्वचनाच्चायमुपजातक्रोध इव लक्ष्यते । तदपसरणमेवास्माकमितः श्रेयः । ( इति निष्क्रान्तौ ) प्रस्तावना । ( ततः प्रविशति यथानिर्दिष्टः कामो रतिश्च ) आमृष्टम् अङ्गम् शरीरावयवः यत्र कर्मणि तथा पुलकितेन सात्त्विकभावोचितरोमा- ञ्चयुतेन भुजेन बाहुना करणेन रत्या कामदेवस्त्रिया आलिङ्गितः आश्लिष्टः, श्रीमान् शोभाशाली माहात्म्ययुक्तो वा, जगन्ति लोकान् मदयन् स्वैः प्रखरप्रतापैर्बाणैः कामातुराणि कुर्वन्, नयनाभिरामः नेत्रोत्सवप्रदः मदघूर्णितनेत्रपद्मः मद्यपानजनितेन विकारेण तरलदृष्टिकमलः अयम् पुरोवर्त्ती कामः एति आगच्छति । स्वस्त्रिया रत्या गाढमालिङ्ग्यमानो मदघूर्णितदृष्टिर्जगन्ति मदयंश्च कामोऽयमेतीति भावार्थः । अत्र कामोऽयमेतीत्येतावतावाक्यसमाप्तौ जातायां पुनः ‘मदघूर्णितनेत्रपद्मः’ इति विशेषण- दानात्समाप्तपुनरात्तत्वं दोषः । वसन्ततिलकं वृत्तम्, तल्लक्षणं यथा—‘उक्तं वसन्त- तिलकं तभजा जगौ गः’ इति ॥ १० ॥ मद्वचनात् = मदुक्तेः । उपजातक्रोधः = सञ्जातकोपः । लक्ष्यते = प्रतीयते । अप- सरणम् = पलायनम् । श्रेयः = हितकरम् । बलवति क्रोधशालिनि सन्निहिते पलाय- नादन्यन्न शरणमिति तात्पर्यम् । निष्क्रान्तौ = निर्यातौ नटीसूत्रधारावित्यर्थः । प्रस्तावना—‘नटी विदूषको वापि पारिपार्श्विक एव वा । सूत्रधारेण सहिताः संलापं यत्र कुर्वते ॥ चित्रैर्वाक्यैः स्वकार्योत्थैः प्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्त विज्ञेयं नाम्ना प्रस्तावनाऽपि सा’ ॥ संसारको मतवाला बना देनेवाला मस्तीमें आँखोंको घुमाता हुआ यह श्रीमान् कामदेव इधर आ रहा है ॥ १० ॥ हमारी बातोंसे यह रुष्ट सा मालूम पड़ रहा है, इसलिये यहाँ से हम लोगोंका हट जाना ही श्रेयस्कर है । ( दोनों जाते हैं ) प्रस्तावना ( वर्णितरूपमें काम और रतिका प्रवेश )
प्रथमोऽङ्कः १५ कामः—( सक्रोधम् । आः पापेति पुनः पुनः पठित्वा ) ननु रे भरताधम, प्रभवति मनसि विवेको विदुषामपि शास्त्रसंभवस्तावत् । निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥ ११ ॥ अपि च— रम्यं हर्म्यतलं नवाः सुनयना गुजद्द्विरेफा लताः प्रोन्मीलन्नवमल्लिकासुरभयो वाताः सचन्द्राः क्षपाः । यद्येतानि जयन्ति हन्त परितः शस्त्राण्यमोघानि मे इति लक्षणं तस्याः । तस्याश्चात्रावलगिताख्यो भेदः, स च सुधीभिः सङ्गमनीय- लक्षणः । ततः सूत्रधारविनिर्गमानन्तरम् । अत्र यद्यपि मोहामात्यानां मध्ये यस्य कस्यापि प्रवेशो निबन्धयितुं शक्यस्तथापि कामस्य मनःपुत्रतया प्राधान्येन तत्प्रवेश- एवोक्त इति बोध्यम् । यथानिर्दिष्टः = पूर्वोक्तावस्थः । भरताधम = अतिनीचनट । प्रभवतीति० विदुषाम् शास्त्राध्ययनोपार्जितज्ञानानाम् अपि मनसि हृदये शास्त्र- संभवः शास्त्रोक्तज्ञानजनितः विवेकः सदसन्निर्धारणसामर्थ्यम् तावदेव तदवध्येव प्रभवति स्वं प्रभावं प्रकटयति यावत् इन्दीवराक्षीणाम् कमलनयनानाम् दृष्टिविशिखाः नेत्रबाणाः न निपतन्ति तेषामुपरि नापतन्तीति यावत् । अयमाशयः—शास्त्राध्ययना- सादितज्ञाना अपि विवेकं तावदेव पालयितुं प्रभूभवन्ति यावत्कामिनीभिर्न ह्रियन्ते जाते तु तद्दृग्गोचरत्वे विवेको भ्रश्यत इति । उक्तञ्चायमेवार्थोऽपरत्र—'सन्मार्गे ताव- दास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणां लज्जां तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते यावल्लीलावतीनां न हृदि धृतिमुषो दृष्टिबाणाः पतन्ति' । आर्या वृत्तम् ॥ ११ ॥ रम्यमिति० रम्यम् हृदयहारि हर्म्यतलम् प्रासादपृष्ठम्, नवाः आरूढयौ- वनाः सुनयनाः सुन्दर्यः, गुञ्जद्द्विरेफाः शब्दायमानभ्रमराः लताः वल्लर्यः, प्रोन्मी- लन्त्यः नवमल्लिकाः पुष्पप्रभेदास्ताभिः सुरभयः सञ्जातगन्धाः वाताः वायवः, स- चन्द्राः चन्द्रधवलाः क्षपाः रात्रयः, एतानि प्रागुक्तानि हर्म्यतलप्रभृतीनि अमोघानि काम—( क्रोधसे 'आः पाप' इत्यादिको दुहराता है ) अरे रे नटाधम, विद्वानोंके भी हृदयमे शास्त्रोत्पन्न विवेक तभी तक अपना प्रभाव रखते हैं जब तक कमलनयनाओं के दृष्टिबाण उनके ऊपर नहीं पड़ते है ॥ ११ ॥ और—सुन्दर भवन, नई नवेली सुन्दरियाँ, भ्रमरमुखरित लताएं, नवविकसित मल्लिकासे सुगन्धित लतायें, चन्द्रकिरणसे उद्भासित रातें, यदि यह हमारे अमोघ अस्त्र
१६ प्रबोधचन्द्रोदयम् तद्भोः कीदृगसौ विवेकविभवः कीदृक्प्रबोधोदयः ॥ १२ ॥ रतिः—आर्यपुत्र, गुरुः खलु महाराजमहामोहस्य प्रतिपक्षो विवेक इति तर्कयामि । ( अज्जउत्त, गुरुओ क्खु महाराजमहामोहस्स पडिवक्खो विवेओ त्ति तक्केमि ) कामः—प्रिये, कुतस्तवैदं स्त्रीस्वभावसुलभं विवेकाद्भयमुत्पन्नम् । पश्य— अपि यदि विशिखाः शरासनं वा कुसुममयं ससुरासुरं तथापि । मम जगदखिलं वरोरु नाज्ञामिदमतिलङ्घ्य धृतिं मुहूर्तमेति ॥ १३ ॥ कदापि न व्यर्थतांगतानि मे मम कामस्य शस्त्राणि विजयसाधनानि प्रहरणानि यदि परितः जयन्ति सर्वोत्कर्षेण वर्तन्ते हन्त भोः ! अहह ! तत् तदाऽसौ विवेकविभावः विवे- कस्य प्रभावः कीदृक् कथंभूतः, प्रबोधोदयः ज्ञानोदयः (च) कीदृक् ? अयमर्थः-उद्दी- पनसाधनतया प्रसिद्धानि हर्म्ययुवतिजनलताभ्रमरवसुरभिवातचन्द्रातपदीनि मद- स्त्राणि यदि सन्ति तदा का कथा विवेकविभवस्य का वा कथा प्रबोधोदयस्य, नैकपि तयोः सेद्धुमर्हति, सर्वविजयिमदीयप्रभावैः सर्वेषामेव कामपरतन्त्रताया अवश्यं- भावित्वात्तत्पथानुसारणप्रवृत्तौ विवेकविभवप्रबोधोदययोर्दूरापेतत्वादिति । 'हर्म्यादि धनिनां वासः' इत्यमरः। शार्दूलविक्रीडितं वृत्तम् । लक्षण तस्यान्योक्तम् ॥ १२ ॥ गुरुः—महान् । प्रतिपक्षः = विपक्षः, शत्रुरित्यर्थः । तर्कयामि = ध्यायामि । स्त्रीस्वभावसुलभ=नारीजनप्रकृतिलभ्यम् । नार्यो ह्यल्पेनैव कारणेन महाभीति- मुपेत्य चञ्चला भवन्तीति भावः । अपीति० हे वरोरु सुन्दरजङ्गे, यदि अपि यदपि मम विशिखाः बाणाः ( कुसुम- मयाः ) शरासनम् धनुः वा कुसुममयम् पुष्पस्वरूपम् तथापि ससुरासुरम् देवदानव- सहितम् इदम् अखिलम् समग्रम् जगत् संसारः मम आज्ञाम् आदेशम् अतिलङ्घ्य अतिक्रम्य मुहूर्तम् क्षणम् अपि धृतिम् धैर्यम् स्वरूपावस्थानम् न एति प्राप्नोति । अयमाशयः— अहमेभिः पौष्पैर्बाणैः कुसुममयेन चानेनैव धनुषा निखिलस्यापि देव- वर्त्तमान ही है तब विवेकका विभव कैसा ? और प्रबोधका उदय कैसा ॥ १२ ॥ रति—आर्यपुत्र, महाराज मोहका विपक्षीविवेक बड़ा भारी दुश्मन है ऐसा प्रतीत होता है । काम—प्रिये ! क्यों तुझे स्त्रीस्वभावके कारण विवेक का भय हो गया ? देखो— यद्यपि मेरे बाण और धनुष फूल के ही हैं, फिर भी यह सारा संसार मेरी आज्ञाका एक क्षण के लिये भी उल्लङ्घन करके नही ठहर सकता है ॥ १३ ॥
प्रथमोऽङ्कः १७ तथाहि— अहल्यायै जारः सुरपतिरभूदात्मतनयां प्रजानाथोऽयासीद्भजत गुरोरिन्दुरबलाम् । इति प्रायः को वा न पदमपथेऽकारयत मया श्रमो मद्बाणानां क इव भुवनोन्माथविधिषु ॥ १४ ॥ रतिः—आर्यपुत्र, एवं नैतत् । तथापि महासहायसंपन्नः शङ्कितव्यो- दानवोपेतस्य विश्वस्योपरि स्वामाज्ञां प्रचारयितुं क्षमस्तदस्यां स्थितौ मोहमहाराजस्य विजयं प्रत्याशङ्का तव नितान्तनिर्र्मूला स्त्रीप्रकृतिमात्रप्रभवेति । अत्र 'विशिखाः' इत्यनेन भोगे कर्त्तव्ये 'कुसुममयम्' इति पदं विभक्तिलिङ्गयोर्विपरिणमनीयम् स्पष्टमन्यत् ॥ १३ ॥ अहल्यायै इति० सुरपतिः इन्द्रः अहल्यायै तदाख्यायै गौतममुनिपत्न्यै जारः प्रच्छ- न्नकामुकः अभूत्, प्रजानाथः ब्रह्मा आत्मतनयाम् शतरूपाम् अयासीत् कामेन मिथुनीभावंगतः । इन्दुः चन्द्रः गुरोः बृहस्पतेः अबलाम् स्त्रियम् अभजत सिषेवे । इति एवमुक्तप्रकारेण प्रायः कः मया अपथे अमार्गे पदम् न अकारयत कुमार्गे न नीतः, सर्वोऽपि कुमार्गं गमित इत्यर्थः । भुवनोन्माथविधिषु संसारकदर्धनकर्मणि मद्बाणा- नाम् मम सायकानाम् क इव श्रमः आयासः ? अनायासमेव मम बाणा भुवंमाकुल- यितुं क्षमा यतोऽनेन प्रायः सर्वेऽपि कुमार्गं गमितास्तथाहि देवेन्द्रोऽहल्याजारोऽ- भूद्ब्रह्मा स्वां दुहितरं शतरूपामकामयत शशाङ्कश्च गुरुस्त्रियं तारा मदुपयत्तदिह भुवनोन्माथे दक्षा मम बाणा इत्यस्ति मम पराक्रमप्रकर्षस्तन्मा मोह महाराजस्य पराभवं चिन्तयेति भावः । अत्राहल्यायै इति चतुर्थी श्रुत्यनुकरणेन । 'अपथे' इत्यत्र 'पथो विभाषा' इति समासान्तोऽप् । प्रसिद्धं च ब्रह्मणः स्वतनयाकामुकत्वं तथा चोक्तं पुष्पदन्तेनापि महिम्नः स्तोत्रे— 'प्रजानाथं नाथप्रसभमभिक स्वां दुहितरम्' इति । 'को वा न पदमपथेऽकारयत' इति वाक्ये क इति कर्म 'हृक्रोरन्यतरस्याम्' इति अणौ कर्त्तुर्णौ कर्मत्वानुशासनात् । 'अपन्थास्त्वपथं तुल्ये' इत्यमरः । शिखरिणीवृत्तम्—'रसै- र्रुद्रैश्छिन्ना यमनसभलागः शिखरिणी' इति च तल्लक्षणम् ॥ १४ ॥ 'एवं नेदम्' इति शौरसेन्याः 'एवं नैतत्' इति संस्कृतम् । भवदुक्तं न मिथ्येति क्योंकि—इन्द्र को अहल्या जार बनना पडा; प्रजापति अपनी कन्या पर आसक्त हुए, चन्द्रमा ने बृहस्पति की स्त्री को दूषित किया, इस तरह प्रायः सभी हमारे बाणों से कुमार्ग पर लाये गये हैं, इस संसार को मथ देने में हमारे बाणों को मिहनत ही कितनी है ? ॥ १४ ॥ रति—आपका कहना ठीक है, फिर भी सहायसम्पन्न शत्रु से डरना चाहिये, सुनती
१८ प्रबोधचन्द्रोदयम् ऽरातिः । यतोऽस्य यमनियमप्रमुखा अमात्या महाबलाः श्रूयन्ते । ( अज्ज- उत्त, एव्वं णेदं । तहवि महासहाअसंपण्णो संकिदव्वो अरादी । जदो अस्स जमणि- अमप्पमुहा अमच्चा महाबला सुणीअन्दि ) कामः- प्रिये, यानेतान्राज्ञो विवेकस्य बलवतो यमादीनष्टावमा- त्यान्पश्यसि त एते नियतमस्माभिरभियुक्तमात्रा द्रागेव विघटिष्यन्ते । तथाहि- अहिंसा कैव कोपस्य ब्रह्मचर्यादयो मम । लोभस्य पुरतः केऽमी सत्याऽस्तेयापरिग्रहाः ॥ १५ ॥ विवक्षा । महासहायसम्पन्नः-बलवता सहायकेन युक्तः । अरातिः-शत्रुः, विवेकरूपः । यमनियमप्रमुखाः-यमनियमप्रभृतयः । अष्टौ योगोक्ता यमनियमासनप्राणायाम- प्रत्याहारध्यानधारणासमाधयोऽत्र प्रभृतिपदग्राह्याः । अमात्याः-मन्त्रिणः । महा- बलाः-समधिकसामर्थ्याः । बलवतः-समधिकसामर्थ्ययुक्तान् । पश्यसि-उत्प्रेक्षसे । नियतम्-निश्चयेन । अभियुक्तमात्राः-अभियुक्ता एव केवलमाक्रान्ता एव । द्रागेव-झटित्येव । विघटयि- ष्यन्ते-भेदं प्राप्स्यन्ति । अहिंसेति० हिंसा परप्राणवियोजनम् , तदभावो हिंसा सा कोपस्य का क्रोधस्य पुरः कीदृशी ? न कथमपि अहिंसा कोपस्य पुरोवर्त्तिनी भवितुमर्हत्यर्थः । मम कामस्य ब्रह्मचर्यादयः के ? नेमेऽपि मम पुरः स्थातु शक्ता इत्याशयः । लोभस्य परद्रव्या- पहारेच्छारूपस्य पुरतः अग्रे अमी सत्यास्तेयापरिग्रहाः सत्याचौर्यपरिग्रहराहित्या- नि के कीदृशाः ? विवेकस्य सहायत्वेन यानहिंसाब्रह्मचर्यसत्यापरिग्रहान् यमभेदान् भवती संभावयति तेष्वहिंसा मद्धर्गीयस्य कोपस्य, ब्रह्मचर्यादयो मम, सत्यास्तेया- परिग्रहाश्च लोभस्य पुरः स्थातुं न क्षमास्तदेवं महासहायत्वेनाभिमतो विवेको विपरीत एव जायत इति भावः ॥ १५ ॥ हूँ विवेक के मन्त्री यम नियम आदि बडे बलवान् हैं । काम-प्रिये, विवेकके जिन आठ यमादि मन्त्रियोंको तुम बलशाली बता रही हो, निश्चय जानो, वे सभी हमारे द्वारा आक्रमण होने पर तुरत विघटित हो जायेगे । क्योंकि- कोपके सामने अहिंसा क्या चीज है ? हमारे आगे ब्रह्मचर्य आदि क्या बात ? और लोभके आगे सत्य, अस्तेय तथा अपरिग्रहकी कौन कथा है ? ॥ १५ ॥
प्रथमोऽङ्कः १५ यमनियमासनप्राणायामप्रत्याहारध्यानधारणासमाधयस्तु निर्विकार- चित्तैकसाध्यत्वाद्दीषत्करसमुन्मूलना एव । अपि च स्त्रिय एवामीषां कृत्या- स्तेनैतेऽस्मद्गोचरा एव वर्तन्ते । यतः— सन्तु विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः । स्मरणमपि कामिनीनामलमिह मनसो विकाराय ॥ १६ ॥ यमः कायचेष्टानिरोधः नियमो मनश्चेष्टानिरोधः आसनं धर्माधर्मक्षेपणम् । यद्वा वेदान्तवाक्यविचारोद्योग आसनम् । अथवा सिद्धासनपद्मासनादिकमत्रासन विव- क्षितम् । प्राणादीनां वायूनां मनसा सह संयमनं प्राणायामः । मनसो विषयादिभ्यो निवृत्तिः प्रत्याहारः । आत्मचिन्तनं ध्यानम् । आत्मचिन्तनस्यैव कञ्चित्कालमनुवृत्ति- र्धारणम् । समाधिः सम्यगाध्यानम् । ( अमी ) निर्विकारचित्तैकसाध्यत्वात् । अवि- कृतचित्तसाध्यत्वात् । ईषत्करसमुन्मूलनाः । सुखमुन्मूलयितु शक्याः । यमादीनामेशां सिद्धौ विकाररहितं चित्तमपेक्षितं चित्तविकारश्च मया सुकरस्तद्यमाद्युन्मूलनं मया नितान्तसुकरमिति भावः । अमीषाम् यमादीनाम् । कृत्याः डाकिन्यः । डाकिन्यो हि स्वीयमन्त्रतन्त्रप्रभावेण बालान्युन्मथ्य सहरन्ति तथैव कामिन्यश्चित्तविकारोत्पा- दनविधया यमान् विपादयन्तीति तासां तान्प्रति डाकिनीत्वेन रूपणम् । अस्म- द्गोचराः-अस्मद्वशगाः । कामिनीनां मदङ्गभूतत्वेन यमादीनां शक्यमुन्मूलनं मया कर्तुमिति भावः । सन्त्विति० विलोकनम् नायकयोरन्योन्यदृष्टिमेलनम् , भाषणम् अन्योन्यसंलापः, विलासः नायकस्य पुरस्ताल्लीलाप्रदर्शनम्, परिहासश्चतुरनर्मोक्तिः, केलिर्जलक्रीडादिः, परिरम्भः अन्योन्यालिङ्गनम् , अमी सन्तु पृथक् तिष्ठन्तु । कामिनीनां वनितानां स्मरणम् अपि इह शान्तप्रकृतिके पुरुषे मनसः चित्तस्य विकारायास्थैर्याय अलम् समर्थम् । दूरे तिष्ठन्तु विलोकनादयः केवलं कामिनीस्मरणेनैव पुरुषाणां चित्तानि व्याक्षिप्यन्ते तदन्न यमादीनां चित्तस्थैर्यमात्रावस्थायिनामुन्मूलनं नितान्तसरलमिति भावः आर्याभेदो वृत्तम् ॥ १६ ॥ निर्विकार चित्तमे उत्पन्न होनेवाले यम, नियम, आसन, प्राणायाम, प्रत्याहार, ध्यान, धारणा और समाधि आसानीसे नष्ट किये जा सकते हैं । जब स्त्रियां ही इनका संहार कर सकती हैं तब तो ये हमारे हाथमे ही हैं । क्योंकि— दर्शन, बातें करना, खेलकूद, दिल्लगी, क्रीड़ा, आलिङ्गन तो दूर रहें, स्त्रियों का स्मरण भी मनको विकृत करनेमें पर्याप्त होता है ॥ १६ ॥
२० प्रबोधचन्द्रोदयम् विशेषतश्चैते मदमात्सर्यदम्भोलोभादिभिरस्मत्स्वामिवल्लभैरभियुज्य- माना नरपतिमन्त्रिणोऽधर्ममेवाश्रयिष्यन्ते । रतिः—आर्यपुत्र, श्रुतं मया युष्माकं विवेकशमदमप्रभृतीनां चैकमुत्प- त्तिस्थानमिति । (अज्जउत्त, सुदं मए तुम्हाणं विवेश्रसमदमप्पहुदीणं च एक्कं उप्पत्तिट्ठाणं ति ) कामः—आः प्रिये, किमुच्यत एकमुत्पत्तिस्थानमिति । ननु जनक एवास्माकमभिन्नः । तथाहि— संभूतः प्रथममहेश्वरस्य सङ्गान्मायायां मन इति विश्रुतस्तनूजः । त्रैलोक्यं सकलमिदं विसृज्य भूयस्तेनाथो जनितमिदं कुलद्वयं नः ॥१७॥ विशेषतः प्रधानभावेन । एते यमादयः मदः गर्वः, मात्सर्यम् परगुणासहिष्णुत्वम्, दम्भः असद्गुणाभिमानः, लोभः परद्रव्यस्पृहा । आदिपदमत्र प्रमादालस्यादि- संग्राहकम् । अस्मत्स्वामिवल्लभैः—अस्मत्स्वामिनः मोहस्य वल्लभैः प्रियतमैः । अभि- युज्यमानाः आक्रम्यमाणाः प्रतिद्वन्द्विभावेनाहूयमाना इत्यर्थः । नरपतिमन्त्रिणः विवेक सचिवाः यमादय इत्यर्थः । अधर्मम् मोहपक्षम् । आश्रयिष्यन्ते भजिष्यन्ति । युष्माकम्-कामादीनाम् विवेकादीनां भवतां चोत्पत्तिस्थानं गोत्रं कुलमेक- मेवेति मया श्रुतमित्यर्थः । कामस्य विवेकस्य च मनोजन्मतया समानकुलत्वमिति मनसि कृत्वा प्रश्नोऽयम् । जनकः = पिता मनोरूपः । अभिन्नः एकः । अस्माकं विवेकादिभिः सह सगोत्रत्वं सकुलत्वं वास्तीति कि वक्तव्यमेते हि विवेकादयो वयं चैकस्यैव मनसः सुताःस्मस्तन्न समानजन्मतायां समर्थितायां सगोत्रताप्रश्नो नोदयत इत्याशयः । सम्भूत इति० प्रथमम् आदौ महेश्वरस्य ब्रह्मणः सङ्गात् सम्बन्धात् मायायाम् अनाद्यविद्यायाम् 'मनः' इति विश्रुतः प्रसिद्धः तनूजः पुत्रः सम्भूतः जातः तेन मनसा इदं प्रत्यक्षदृश्यम् सकलम् स्थावरजङ्गमात्मकम् त्रैलोक्यम् विसृज्य विशेषतः सृष्ट्वा खास करके हमारे स्वामीके भक्त मद, मात्सर्य, दाम और लोभ आदिसे सामना होने पर विवेकके मन्त्रिगण अधर्मकी ही शरण लेगे । रति—आर्यपुत्र, हमने सुना है आपका तथा विवेक आदिका कुल एक ही है । काम—हाँ प्रिये, एक ही कुल है इस सम्बन्धमे क्या कहना है? हमलोगोंके पिता ही एक है । क्योंकि— परब्रह्मका मायाके साथ संसर्ग होनेसे मन नामका एक ख्यात पराक्रम पुत्र उत्पन्न हुआ, उसीने इस त्रैलोक्यके साथ हमारे कुल तथा विवेकके वंशको जन्म दिया ॥ १७ ॥
प्रथमोऽङ्कः २१ तस्य च प्रवृत्तनिवृत्ती द्वे धर्मपत्न्यौ । तयोः प्रवृत्त्यां समुत्पन्नं महा- मोहप्रधानमेकं कुलम् । निवृत्यां च द्वितीयं विवेकप्रधानमिति । रतिः—आर्यपुत्र, यद्येवं तत्किं निमित्तं युष्माकं सोदराणामपि परस्पर- मेतादृशं वैरम् । (अज्जउत्त, जइ एवं ता किं णिमित्तं तुम्हाणं सोअराणंवि परोप्परं एआरिसं वैरम् ) कामः—प्रिये, एकाभिषप्रभवमेन सहोदराणा- मुज्जृम्भते जगति वैरमिति प्रसिद्धम् । पृथ्वीनिमित्तमभवत्कुरुपाण्डवानां अथो भूयस्तेन मनसो नः कामविवेकादीनाम् कुलद्वयम् मोहप्रधानमेकं विवेक- प्रधानञ्चापरम् इदम् जनितम् उत्पादितम् । परमब्रह्मणो मायासंसर्गे मनोऽजायत तेन निखिलमिदमुच्चावचभेदभिन्नं विश्वं निर्माय विवेकमोहप्रधानं कुलद्वयमजन्य- तेत्यर्थः । उक्तश्चायमर्थः श्रुतौ—'तुच्छेनाभ्यपिहितं यदासीन्मनसस्तन्महिम्नाऽजाय- तैकम् । कामस्तदग्रे समवर्त्तताधिमनसो रेतः प्रथम यदासीत्' इति ॥ अत्र प्रथम- महेश्वरपदेन ब्रह्मैव विवक्षितं तस्यैवांशतो मायासंसर्गे सर्गप्रवृत्तेः । विशेषतः परि- शिष्टेऽन्यत्र च द्रष्टव्यम् ॥ १७ ॥ तस्य मनसः । प्रवृत्तिः=औदासीन्यप्रच्युतिः । निवृत्तिः = औदासीन्यम् । धर्म- पत्न्यौ स्त्रियौ । प्रवृत्तिनिवृत्त्योर्महेश्वरभोगसाधनत्वेनाप्रेततया धर्मपत्नीत्वेन रूपकम् । तयोः प्रवृत्तिनिवृत्त्योर्मध्ये । यद्येवम्—यदि भवदुक्त एव विवेकादिभिः सह भवतां संबन्धस्तदा । सोदरा- णाम्-समानपितृजातत्वेन सादेरत्वव्यपदेशः । परस्परमन्योन्यम् । वैरम् विरोधः । एकाभिषेति० सहोदराणाम् समानवंशजातानाम् वैरम् विरोधः एकाभिषप्रभवम् समानभोग्यवस्तुजनितम् एव जगति संसारे समुज्जृम्भते प्रथते इति प्रसिद्धम् प्रख्यातम् । तत्र दृष्टान्तमाह—पृथ्वीति० हि तथा भुवनक्षयकृत् संसारक्षयजनक- स्तथा तीव्रः अतिदारुणः । कुरुपाण्डवानां विरोधः पृथ्वीनिमित्तम् साम्राज्यार्थम् मनकी दो पत्नियां हैं प्रवृत्ति और निवृत्ति । उनमे प्रवृत्तिसे मोहकुलका और निवृत्तिसे विवेककुलका जन्म हुआ है । रति—आर्यपुत्र, जब ऐसी बात है तब आपलोगोंका सोदरोंके प्रति ऐसा वैर क्यों है ? काम—प्रिये, सहोदरोंमें समान वस्तुकी अभिलाषासे ही वैर बढ़ता है यह प्रसिद्ध ही है । कुरु और पाण्डवोंमें संसारको समाप्तकर देने वाला वह उग्र विरोध आखिर पृथ्वीके
२२ प्रबोधचन्द्रोदयम् तीव्रस्तथा हि भुवनक्षयकृद्विरोधः ॥ १८ ॥ सर्वमेवैतज्जगदस्माकं पित्रोपार्जितं तच्चास्माभिस्तातवल्लभतया सर्व- मेवाक्रान्तम् । तेषां तु विरलः प्रचारः । तेनैते पापाः सांप्रतं पितरमस्मां- श्चोन्मूलयितुमुद्यताः । रतिः—शान्तं पापम् । आर्यपुत्र, किं तादृशं पापं विद्वेषणमात्रेण तैरा- रब्धम् । भवतु । अस्योपायः को वा मन्त्रितः ? ( सन्तं पावं । अज्जउत्त, किं एरिसं पावं विद्देसणमत्तेण तेहिं आरद्धं । होदु । अस्स उवाओ कोवि मन्तिदो ? ) अभवत् । सर्वंशानां विरोधः सदैव समानवस्तुलोभमूलको भवति महाभारतप्रव- र्तकः कुरुपाण्डवयोधिरोधो हि पृथिवीलोभनिमित्तक एवाभवदतोऽस्माकमपि विरो- धस्तथैवेति भावः । आमिषपदमत्र लक्षणया भोग्यवस्तुपरम् । वसन्ततिलकं वृत्तं, लक्षणमन्यत्रोक्तम् ॥ १८ ॥ एकाभिषाभिलाषमूलकं वैरमस्माकं विवेकादिभिरिति स्वोक्तं समर्थयति—सर्व- मेवेति० अस्माकम्-मोहादिकानाम् विवेकादीनाञ्च । पित्रा जनकेन मनसा । उपा- र्जितम्-अर्जितम् , मनसा हि जनितं जगत्तदुपार्जितत्वेनोत्प्रेक्ष्यते । तच्च जगत् । अस्माभिः मोहपक्षीयैः । तातवल्लभतया-पितृस्नेहितया । सर्वम्-अविभक्तमखि- लम् । आक्रान्तम्-वशीकृतम् । तेषाम्-विवेकादीनाम् । विरलः क्वाचित्कः । प्रचारः प्रसरगम् । तेन स्वस्य देशाधिकारराहित्येन प्रचारवैरत्येन च । एते विवेकप्रभृतयः । पापाः पापकर्मणः । पितरम् जनकम् मनोरूपम् । अस्मान् मोहपक्षीयॉँश्च । उन्मू- लयितुम् उच्छेत्तुम् । उद्युक्ता प्रवृत्ताः । लोकेऽपि सपत्नीद्वयसन्ततिमध्ये तातव- ल्लभदलं धनमधिकुरुतेऽन्यच्च दलं ततो वञ्चितं तिष्ठति तच्च तेन दुःखेन पीडितं सदुपायान् कृत्वा पितरं भ्रातृँश्च वैमात्रेयानून्मूलयितुं यतत इति प्रसिद्धम् । 'शान्तं पापम्' इति श्रुतस्य वृत्तस्य शब्दस्य वा समधिकनिन्द्यताद्योतनाय प्रयुज्यते । विद्वेषणमात्रेण केवलेन द्वेषेण । एतादृशम्-पितृभ्रातॄणां चोन्मूलन रूपम् । आरब्धम्-कर्त्तुमभिलष्य व्यापृतम् । मन्त्रितः-चिन्तितः । लिये ही तो हुआ था ॥ १८ ॥ इस सारी दुनियाँको हमारे पिता मनने ही अर्जित किया, पिताके लाड़ले होनेके कारण उस पर हम अधिकार किये हैं । उनलोगोंको कम स्थान मिला है । इसलिये यह पापी विवेक आदि हमलोगोंको और पिताजीको उखाड़ फेंकना चाहते हैं । रति—पाप दूर हो, आर्यपुत्र, क्या विरोध होने भरसे उनलोगोंने इतना भारी पाप करना चाहा है। अस्तु, आप लोगोंने इसका क्या उपाय सोचा है ?
प्रथमोऽङ्कः २३ कामः—प्रिये, अस्त्यत्र किंचिन्निगूढं बीजम् । रतिः—आर्यपुत्र, तत्किं नोद्घाट्यते ? (अज्जउत्त, ता किं ण उग्घाडीअदि ?) कामः—प्रिये, भवती स्त्रीस्वभावाद्वीरुरिति न दारुणकर्म पापीय- सामुदाह्रियते । रतिः—( सभयम् ) आर्यपुत्र, कीदृशं तत् ? ( अज्जउत्त, केरिसं तम् ? ) कामः—प्रिये, न भेतव्यं न भेतव्यम् । हताशानामाशामात्रमेवैतत् । अस्ति किलैषा किंवदन्ती । अत्रास्माकं कुले कालरात्रिकल्पा विद्यानाम राक्षसी समुत्पत्स्यत इति । रतिः— ( सभयम् ) हा धिक् हा धिक् । कथमस्माकं कुले राक्षसीति वेपते मे हृदयम् । (हद्धी हद्धी । कहं अम्हाणं कुले रक्खसीति वेवदि मे हिअअम्) निगूढम्–प्रच्छन्नम् । बीजम्–अनर्थकारणम् । उद्घाट्यते–प्रकाशीक्रियते । स्त्रीस्वभावात्–नारीत्वात् । भीरुः–भयशीला । दारुणकर्म–भीषणचेष्टा । पापीय- साम्–अतिपापाचाराणाम् । पापाचारा हि विवेकादयो भीषणं कर्म चिकीर्षन्ति तेषां तत्कर्म तव समक्षं न प्रकाश्यते यतस्त्वं स्त्रीत्वान्भीता भविष्यसीति तात्पर्यम् । हताशानाम्–निन्द्यानामभाग्यानां वा । आशामात्रम्–केवलो मनोरथः । किंव- दन्ती–प्रवादः । कालरात्रिकल्पा–प्रलयनिशासमाना । समुत्पत्स्यते–जास्यते । वि- द्यायाः प्रलयरात्रिकल्पता सर्वमोहपक्चीयसंहारकरत्वेनोक्ता वेद्या । राक्षसी त्वं च तस्याः स्वरूपतो भयप्रदत्वेन मोहबन्धुभिरास्थीयते । वेपते–कम्पते । काम—प्रिये, इसमें कुछ रहस्य बात है । रति—आर्यपुत्र, फिर आप बताते क्यो नही ? काम—प्रिये, स्त्रीस्वभावके कारण तुम भीरु हो, अतः उन पापियोंके भयङ्कर कर्म तुम्हारे सामने नही बताया जाता है । रति—( भयसे ) आर्यपुत्र, सो क्या ? काम—प्रिये, डरो मत, डरो मत ! उन अभागों की यह आशामर है । ऐसी अफवाह है कि हमारे कुलमे कालरात्रितुल्य विद्या नामकी राक्षसी पैदा होगी । रति—( भयसे ) हा धिक् ! हा धिक् ! क्यों हमारे कुलमे राक्षसी !! इस बातसे मेरा हृदय काँप रहा है ।
२४ प्रबोधचन्द्रोदयम् कामः—प्रिये, न भेतव्यं न भेतव्यम् । किंवदन्तीमात्रमेवैतत् । रति.—अथ तया राक्षस्या किं कर्तव्यम् । ( अध ताए रक्खसीए कादव्वम् । कामः—प्रिये, अस्ति किलैषा प्राजापत्या सरस्वती— पुंसः सङ्गसमुज्झितस्य गृहिणी मायेति तेनाप्यसा- वस्पृष्टापि मनः प्रसूय तनयं लोकानसूत क्रमात् । तस्मादेव जनिष्यते पुनरसौ विद्येति कन्या यया तातस्ते च सहोदराश्च जननी सर्वं च भक्ष्यं कुलम् ॥ १६ । किंवदन्तीमात्रम्-प्रवादमात्रम्, न तु यथार्थभावेन तदुदयो जातोऽतो भयं वृथेति भावः । तया-विद्याऽभिधानया । एषा-अग्रेऽभिधीयमाना । प्राजापत्या-ब्रह्मोक्ता । सरस्वती-वाणी । पुंस इति० सङ्गसमुज्झितस्य 'असङ्गो ह्ययं पुरुषः' इति श्रुत्युक्तदिशा सङ्गरहितस्य पुंसः पुरुषस्य गृहिणी भोगसाधनत्वेन भार्या इति प्रसिद्धा, तेन पुंसा अस्पृष्टा अनालिङ्गितापि (ईक्षणमात्रकृतार्था) असौ प्रकृतिः मनः अन्तःकरणं तनयं पुत्रं प्रसूय उत्पाद्य क्रमात् क्रमवशेन लोकान् भूर्भुवःस्वरादीन् असूत अजनयत् । पुनः अनन्तरम् असौ विद्येति प्रसिद्धा कन्या पुत्री तस्मात् मनस एव जनिष्यते उत्पत्स्यते यया विद्यया तातः स्वोत्पादकं मनः ते प्रसिद्धाः सहोदराः बान्धवाः च जननी माता माया (किं बहुना) सर्वम् निरवशेषम् । कुलम् (कुलान्तःपातित्वात् आत्माऽपि) भक्ष्यम् समाप्यम्, अस्पृष्टापि पुंसा कथं जनयतीति प्रश्नस्य-चुम्बक- पाषाणेनासम्बद्धाऽपि लोहशलाका चुम्बकं यान्तमन्वेतीति दृष्टं लोके तथैवेयम- स्पृष्टायीक्षणमात्रेण जनयतीत्युत्तरं बोध्यम् । असङ्गस्य पुरुषस्य तेनास्पृष्टा माया- नाम गृहिणी मनः पुत्रमसूत तदनन्तरं च सकलं विश्वमजनि, सम्प्रति मनसः सकाशात् विद्यां नाम कन्यां जनविष्यति यया विद्यया पितुः सहोदराणां जनन्याः काम—प्रिये, मत डरो, यह तो अफवाह ही भर है । रति—आर्यपुत्र, वह राक्षसी क्या करेगी ? काम—ऐसी प्रजापत्य सरस्वती है कि— निःसङ्ग पुरुषकी पत्नी माया है, उसने पुरुषस्पर्श के बिना ही मन नामक पुत्रको जन्म देकर इस संसारको आकाशादि क्रमसे उत्पन्न किया, उसीसे विद्या नामक कन्या जन्म ले गी जो पिता, सहोदर, माता तथा पूरे कुलको खा ले गी ॥ १९ ॥
प्रथमोऽङ्कः २५ रतिः—( सत्रासोत्कम्पम् ) आर्यपुत्र, परित्राहि परित्राहि । ( अज्जउत्त, परित्ताहि परित्ताहि ) ( इति भर्तारमालिङ्गति ) कामः—( स्पर्शसुखमभानीय । स्वगतम् ) स्फुरद्रोमोद्भेदस्तरळतरताराकुलदृशो भयोत्कम्पोत्तुङ्गस्तनयुगभरासङ्गसुभगः । अधीराक्ष्या गुञ्जन्मणिवलयदोर्वल्लिरचितः परीरम्भो मोदं जनयति च संमोहयति च ॥ २० ॥ समस्तस्य कुलस्य तदन्तःपातितया स्वस्य च विनाशः करिष्यते विद्योदये आवेद्य- कानां सर्वेषामेव पदार्थानां नाशस्यावश्यंभावादिति भावः। 'द्वे विद्ये वेदितव्ये, परा चैवापरा च । अथ परा यया तदक्षरमधिगम्यते' इत्युपक्रमे मूलाविद्यातो मनो जन्म मनसो विद्याजन्म, ततो जगद्भङ्ग इति मुण्डकोक्तोऽर्थोऽत्र सङ्गृहीतो वेद्यः । शार्दूलविक्रीडितं वृत्तम् ॥ १९ ॥ सत्रासोत्कम्पम्-त्रासोत्कम्पौ च रतेः सकुलसंहारकविद्याजन्मश्रवणेन । स्फुरदिति० तरलतरा अतिचपला तारा अक्ष्णः कनीनिका तया आकुला अति- व्यग्रा दृक् नयन यस्या सा तस्या चञ्चलकनीनिकाऽऽकुलनयनायाः अधीराक्ष्याः पारिप्लवनेत्रायाः स्फुरद्रोमोद्भेदः समुद्गद्रोमाञ्चः भयेन आन्तरभीत्या उत्कम्पौ उदितवेपथू यौ उत्तुङ्गौ अत्युच्चौ स्तनौ तयोर्युगं युगल तस्य भरः भारस्तस्यासक्त्या आक्रान्त्या सुभगः रमणीयः गुञ्जन्ती मणिवलये माणिक्यविरचिते करपरिधेये भूषणे ययोस्तादृश्यों ये दोर्वल्ली हस्तलते ताभ्यां रचितः कृतः परीरम्भः ससम्भ्रमा- लिङ्गनम् मोदं हर्षं जनयति सम्मोहयति विषयान्तरस्मरणवैधुर्यं च करोति । रोमा- ञ्जोदययुतः सभयतया कम्पमानकुचयुगभारासक्तिकृतसौभगशाली । चलकनीनिका- कुलिनयनाया अधीराक्ष्याः ( अस्या मम प्रियायाः ) अयं परीरम्भः मम हर्षं प्रथयति विषयान्तरवैमुख्यं चापादयतीत्याशयः । अत्राधीराक्ष्या इति विशेषण- रति—( भयसे कांपकर ) आर्यपुत्र, रक्षा करो, रक्षा करो । (स्वामीसे लिपट जाती है) काम—( स्पर्शसुखका अनुभव करके ) ( स्वगत ) भयसे तरलाक्षी प्रियतमाका यह रोमाञ्चित, भयकम्पित स्तनके सर्वाङ्ग आलिङ्गनसे सुभग, सशब्द कङ्कण भुजाओं द्वारा विहित यह आलिङ्गन आनन्द भी देता है और हृदयको सम्मोहित भी कर रहा है ॥ २० ॥
२६ प्रबोधचन्द्रोदयम् ( प्रकाशम् । दृढं परिष्वज्य ) प्रिये, न भेतव्यं न भेतव्यम् । अस्मासु जीवत्सु कुतो विद्योत्पत्तिः । रतिः—अथ किं तस्या एव राक्षस्या उत्पत्तिर्युष्माकं प्रतिपक्षाणां सम्मता ? ( अध कि ता एव रक्खसीए उप्पत्ती तुम्हाणं पडिवक्खाणं सम्मदा ? ) कामः—बाढम् , सा खलु विवेकेनोपनिषद्देव्यां प्रबोधचन्द्रेण भ्रात्रा समं जनयितव्या । तत्र सर्व एते शमदमादयः प्रतिपन्नोद्योगाः । रतिः—आर्यपुत्र, कथमेतैरात्मनो विनाशकारिण्या विद्याया उत्पत्तिरे- तैर्दुर्विनीतैः श्लाघ्यते ? ( अज्जउत्त, कहं एदेहिं अप्पणो विनासकारिणीए विज्जाए उप्पत्ती एदेहिं दुव्विणीदेहिं सलाहिज्जदि ? ) मात्रप्रयोगेणैव रत्या इति विशेष्यस्याप्यवगमो बोध्यः, तथैव वृद्धव्यवहारोऽपि, अतएवोक्तं वामनेन—'विशेषणमात्रप्रयोगो विशेष्यप्रतिपत्तौ' । अत एव रघुवंशे— 'निधानगर्भामिव सागराम्बराम्' इति मयूरकृतसूर्यस्तुतौ च 'जम्भारातीभकुम्भो- द्भवमिव' इति च प्रयुक्तम् । 'परीरम्भः' इत्यत्र 'उपसर्गस्य घञी'ति दीर्घः । स्पष्ट- मन्यत् । शिखरिणीवृत्तम् , 'रसैरीशैश्छिन्ना यमनसभला गः शिखरिणी' इति च तल्लक्षणम् ॥ २० ॥ दृढं परिष्वज्य—तथाकरणं च रतेर्भयनिवृत्त्यर्थम् । तस्याः-विद्यायाः । युष्माकं प्रतिपक्षाणाम्-विवेकपक्षीयणाम् । सम्मता-इष्टा । बाढम्-स्वीकृत्यर्थकम् । सा-विद्या । विवेकेन-ज्ञानेन । उपनिषद्देव्याम्-उपनि- षदभिधानायाम् महिष्याम् । प्रतिपन्नोद्योगाः-कृतप्रयत्नाः । एतैः-विवेकादिभिः । आत्मनो विनाशकारिण्याः-विद्यायां जातायामाविद्यक- पदार्थमात्रनिवृत्तिस्त्रिपुटीनाशश्च भवतीति दृष्ट्या विवेकादीनामपि तया नाश एव क्रियत इति मनसि निधायेत्थमुक्तम् । दुर्विनीतैः-अविनीतैः । श्लाघ्यते-प्रशस्यते । ( प्रकाश ) ( जोरोंसे लिपटकर ) प्रिये, मत डरो, मत डरो । हमारे रहते विद्या किस तरह उत्पन्न होगी ? रति—फिर क्या उस राक्षसीकी उत्पत्ति आपके दुश्मनोंको पसन्द है ? काम—हाँ, वह विवेकसे उपनिषद् देवीमे प्रबोधचन्द्र नामक भाईके साथ जन्म ले गी । इसलिये ये शम दम आदि उद्योगशील हैं । रति—आर्य्यपुत्र, इन लोगोंने आत्मविनाशकारिणी विद्याकी उत्पत्तिकी क्यों तारीफ शुरू कर दी है ?
प्रथमोऽङ्कः २७ कामः—प्रिये, कुलक्षयप्रवृत्तानां पापकारिणां कुतः स्वपरप्रत्यवाय- गणना । पश्य पश्य— सहजमलिनवक्रभावभाजां भवति भवः प्रभवात्मनाशहेतुः । जलधरपदवीमवाप्य धूमो ज्वलनविनाशमनु प्रयाति नाशम् ॥ २१ ॥ अत्र परिकरो नाम द्वितीयं नाट्याङ्गमनुपन्यस्तं वेद्यम्—'तद्बाहुल्यं परिकरः' इति च तल्लक्षणम्। कुलक्षयप्रवृत्तानाम्-वंशनाशसमुद्यतानाम्। पापकारिणाम्-पापिनाम् । स्वपरप्रत्यवायगणना—स्वस्य परेषां च प्रत्यवायः कष्टजनकदुरदृष्टविशेषस्तद्गणना तत्र विषये विचारः । ये स्ववंशमेव विनाशयितु प्रवृत्तास्ते कुतः परस्य स्वस्य भवन्तं विनाशं चेतयेयुस्तेषां तादृशविनाशस्यैवेष्टत्वादित्याशयः। सहजेति० सहजमलिनाः स्वभावतो मालिन्ययुक्ताः वक्रभावः कौटिल्यं तं भज- न्तीति वक्रभावभाजाः कुटिलाश्चेति सहजमलिनवक्रभावभाजस्तेषाम् स्वभावमलिन- कुटिलानाम् भव उत्पत्तिः प्रभवस्य उत्पादकस्य आत्मनः स्वस्य च नाशस्य हेतुः कारणं भवति जायते । स्वभावतो मलिनाः कुटिलाश्च जायमाना एव स्वप्रभवं स्वं च विनाशयन्तीत्याद्यपादद्वयार्थः । तत्र दृष्टान्तमाह—जलधरेति० धूमः जलधरपद- वीम् मेघभावम् अवाप्य प्राप्य ज्वलनविनाशमग्नेरुपशमम् अनु पश्चात् नाशम् अवसानम् प्रयाति। अयमर्थः—धूमो मलिनः कुटिलगतिश्च भवतीति प्रत्यक्षमेव, स हि वह्नेरुत्पद्यते, उत्पद्यमानश्चासौ मेघरूपतां प्रतिपद्यते प्राकृतिकनियमवशात् , मेघभावेन स्थितश्चासौ स्वप्रभवस्याग्नेः स्वरूपस्य धूमस्य च नाशं प्रयोजति वृष्टयो- भयोरपि शाम्यत्वादिति । धूमो मेघतां प्राप्नोति, तत्र कालिदासोऽपि प्रमाणम्— 'धूमज्योतिः सलिलमरुतां सन्निपातः क्व मेघः' इति। प्रभवत्यस्मादिति प्रभवः, तथा च पाणिनीयं सूत्रमपि—'भुवः प्रभवः' इति। अत्र दृष्टान्तालङ्कारेण—यमादेर्धूमस्य च परस्परं बिम्बप्रतिबिम्बभावेनौपम्यात्तेपाद्यथा धूमो वृष्टिमुत्पाद्याश्रयमग्निं विनाशय स्वयमपि नश्यति तथा यमादयोऽपि विद्यामुत्पाद्य स्वकारणं नाशयित्वा स्वयमपि नश्यन्तीत्यर्थो व्यज्यते। अत्र परिन्यासो नाम नाट्याङ्गम्—तल्लक्षणं यथा—'तस्य काम—प्रिये, कुलक्षयमे प्रवृत्त इन पापियोंको स्व-परका क्या ज्ञान है ? देखो— स्वभावमलिन तथा कुटिल पदार्थोंका जन्म जनक तथा जन्य दोनोके विनाशका कारण हुआ करता है। जब धूम मेघ बन जाता है, तब वह आगके साथ ही धूमका भी विनाश कर देता है ॥ २१ ॥
२८ प्रबोधचन्द्रोदयम् (नेपथ्ये) आः पाप दुरात्मन्, कथमस्मानेव पापकारिण इत्याक्षि- पसि। ननु रे ! गुरोरप्यवलिप्तस्य कार्याकार्यमजानतः। उत्पथप्रतिपन्नस्य परित्यागो विधीयते ॥ २२ ॥ इति पौराणिकीं गाथां पुराणविद् उदाहरन्ति। अनेन चास्माकं जन- केनाहङ्कारानुवर्तिना जगत्पतिः पितैव तावद्बद्धः। मोहादिभिश्च स एव बन्धः सुदृढतां नीतः। कामः—( विलोक्य ) प्रिये, अयमस्माकं कुले ज्यायान् मत्या देव्या सह विवेक इत एवाभिवर्तते। य एषः— दार्ढ्यं परिन्यासः' इति। पुष्पिताग्रावृत्तम्, अयुजि नयुगरेफतो यकारो युजि च नजौ जरजाश्च पुष्पिताग्रा' इति तल्लक्षणम् ॥ २१ ॥ अस्मान्–विवेकादीन्। आक्षिपसि–निन्दसि। गुरोरिति० अवलिप्तस्य गर्वोद्धतस्य कार्याकार्यम् इदं कर्त्तव्यमिदमकर्त्तव्यमिति अजानतः अबुद्ध्यमानस्य उत्पथप्रतिपन्नस्य उन्मार्गगामिनः गुरोः पित्रादेरपि परि- त्यागः विधीयते क्रियते। यदि गुरुरपि गर्वी कार्याकार्यविवेकादत्त उन्मार्गगश्च जायते तदा तस्यापि त्यागः कर्त्तव्य इत्यर्थः ॥ २२ ॥ पौराणिकीम्–पुराणगताम्। गाथाम्–उक्तिम्। उदाहरन्ति–कथयन्ति। अनेन- मनसा। अस्माकम्–विवेकादीनाम्। अहङ्कारानुवर्त्तिना–अहङ्कारानुगमनपरायणेन। जगत्पतिः–संसारस्वामी। पिता–परमेश्वरः। बद्धः बन्धनं नीतः। परमेश्वरसकाशादु- त्पन्नं मनो विषयोन्मुखीकरणद्वारा तस्यैव बन्धनं जनयतीत्यभिप्रेत्यायं ग्रन्थः। मोहा- दिभिश्च स एव बन्धो दृढतां नीतो यो मनसा जनितोऽतो मन एव बन्धकारणमतस्तस्यो न्मार्गगामिन उच्छेदाय यत्नो नास्माकं पापं प्रयोजयिष्यत्युक्तपुराणोक्तेरिति भावः। ज्यायान्–श्रेष्ठतमः। मतिर्नाम विवेकपत्नी। अभिवर्त्तते–आयाति। (नेपथ्ये) अरे पाप, दुरात्मन्, क्यों हमलोगोंको ही पापी बताकर कोस रहा है ? अरे ! अवलिप्त हो जानेपर कर्त्तव्याकर्त्तव्य ज्ञानसे वञ्चित तथा उत्पथप्रवृत्त गुरुका भी त्याग कर देना चाहिये ॥ २२ ॥ पुराण जानने वाले ये पौराणिक गाथा बताते हैं। इस हमारे जनकने अहङ्कारके साथ मिलकर जगत्पिताको ही बांध रखा है। मोह आदिने उसी बन्धनको दृढ़ किया है। काम—( देखकर ) हमारे कुलका श्रेष्ठ पुरुष विवेक देवी मति के साथ इधर ही आ रहा है। जो यह—
प्रथमोऽङ्कः २६ रागादिभिः स्वरसचारिभिरात्तकान्ति- र्निर्भर्त्स्यमान इव मानधनः कृशाङ्गः । मत्या नितान्तकलुषीकृतया शशाङ्कः कान्त्येव सान्द्रतुहिनान्तरितो विभाति ॥ २३ ॥ तन्न युक्तमिहास्माकमवस्थातुम् । ( इति निष्क्रान्तौ ) विष्कम्भः ( ततः प्रविशति राजा विवेको मतिश्च ) रागादिभिरिति० स्वरसचारिभिः स्वेच्छया व्यवहारिभिः रागादिभिः रागद्वेषलो- भादिभिः निर्भर्त्स्यमानः तिरस्क्रियमाण इव आत्तकान्तिः हृततेजाः कृशाङ्गः दुर्बलतनुः मानधनः अभिमानमात्रविभव इव नितान्तकलुषीकृतया अत्यन्तपीडितया कान्त्या स्वप्रभया रागादिभिरिति शेषः, मत्या स्वस्त्रिया सान्द्रतुहिनान्तरितः निबिडनीहारा- वृतः शशाङ्कः चन्द्रः कान्त्या स्वप्रभया इव विभाति। अयमाशयः-यथा नीहारावृतश्चन्द्र- माः स्वकान्त्या विभाति दुर्बलः पूर्णप्रकाशविकलश्च तथैवाय विवेकोऽपि यथेच्छाचारि- रागादिभिः हृतप्रभो निन्दित इव कथञ्चित्थमपि मानं रक्षन् पूर्णरूपेण स्वप्रभावस्थाप- नासमर्थतया कृशकाय इवोपलक्ष्यमाणे मत्या दुर्बलदेहलतया युक्तो विभातीति । विवेकोऽपि नीहाररूपयाऽविद्ययाऽऽव्रियत इति ध्वनिः। शेषमतिस्पष्टम्। वसन्त- तिलकं वृत्तम् , तल्लक्षणं यथा—'उक्त वसन्ततिलकं तभजा जगौ गः' इति ॥ २३ ॥ तत्—तस्मात् , विवेकसंनिधानात् । अस्माकम्-कामरत्यादिमोहपक्षीयाणाम् ! एतेन विवेकसंनिधाने कामरत्योर्निष्प्रभावत्वं व्यञ्जितम् । विष्कम्भः-मिश्रविष्कम्भः, तथा च लक्षणम्— अङ्कशेषकथांशानां भूतानां भाविनामपि । संक्षेपेण समस्तानां विष्कम्भः सूचनात्मकः ॥ रागादि यथेच्छाचारियोंने इसकी कान्ति हरली हैं, उपेक्षित होकर यह अभिमानी दुर्बल हो रहा है, इसकी सहचारिणी मति भी कलुषित हो रही है, इस तरह यह घने कुहरेमे पड़े हुए चन्द्रमाके—समान प्रतीत होता है ॥ २३ ॥ इस समय हमलोगोंका यहां रहना अच्छा नहीं है । ( दोनोंका प्रस्थान ) विष्कम्भ ( राजा विवेक तथा मतिका प्रवेश )
३० प्रबोधचन्द्रोदयम् राजा—( विचिन्त्य ) प्रिये, श्रुतं त्वयास्य दुर्विनीतस्य कामबटोर्मद- विस्फूर्जितं वचो यदस्मानेव पापकारिण इत्याक्षिपति । मतिः—आर्यपुत्र, किमात्मनो दोषं लोको विजानाति । ( अज्जउत्त, किं अप्पणो दोसं लोगो चिआणादि ) राजा—पश्य— असावहङ्कारपरैर्दुरात्मभि- र्निबध्य तैः पापशठैर्मदादिभिः । विरसोऽनुचितस्तत्र सूच्यः स्याद्वस्तुविस्तरः । शुद्धो मिश्रस्तु स द्वेधा मध्यपात्रप्रयोजितः ॥ शुद्धो भवति, मिश्रस्तु नीचमध्यप्रयोजितः । प्रधानादपरं मध्यं नायकादेरुदात्तवाक् ॥ नीचं स्यादनुदात्तोक्तेर्विना परिजनादिकम् । उदात्तवाक्-संस्कृतवाक् अनुदात्तवाक्-प्राकृतभाषा । विवेको नामश्रवणम् , मतिस्तत्र सहायिका काचना संभावना विपरीतभाव- नयोर्निवर्त्तिका बुद्धिवृत्तिर्मननात्मिका । श्रवणं प्रति मननस्याङ्गत्वेनेह मत्या विवेक- पत्नीत्वव्यपदेशः । तयोरेव विवेकमत्योरत्र पात्रीकरणमाध्यात्मिककथाविस्तृतये कृतं तत्र विवेकस्य राजत्वं मत्याश्च तत्पत्नीत्वं वेद्यम् । दुर्विनीतस्य—विनयशून्यस्य । मदविस्फूर्जितम्-गर्वयुक्तम् । अस्मान्-विवेका- दीन् । लोकः-साधारणो जनः । यतः साधारणो जनः स्वं दोषं न विजानाति तेनैव कामोऽपि स्वं दोषं नावैति येनास्मानेव पापकारितयाऽऽक्षिपति, तत्र तस्य साधारण- जनत्वमेव कारणमित्यर्थः । आसाविति० अहङ्कारः अहङ्कर्त्ताऽहम्भोक्तेत्येवरूपो मनोभावः परः प्रधानं येषु तैरहङ्कारानुवर्त्तिभिः दुरात्मभिः दुष्टान्तःकरणशालिभिः पापाश्च शठाश्च तैः पापशठैः मदादिभिः मदमात्सर्यलोभप्रभृतिभिः कर्त्तृभिः असौ विख्यातसद्गुणः चिदानन्दमयः चित्स्वरूपः आनन्दस्वरूपश्च निरञ्जनः निर्गताखिलवासनः जगत्प्रभुः संसारनियन्ता राजा— ( सोचकर ) प्रिये, तुमने इस पापी कामकी मनवाली बातें सुनी जिनके द्वारा यह हमलोगोंको ही पापी कहकर शिकायत करता है । मति—आर्यपुत्र, क्या अपना दोष लोग खुद देख पाते हैं । राजा—देखो-पापी ठग तथा दुरात्मा मद आदिसे परिवृत अहङ्कारने बांधकर चिदा-