पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
९७४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
'ब्रह्मविदाप्नोति परम्' (तै. २-१.) इत्यादि फलं
स्वामिनां देवानामेव भवति । 'यदु किञ्चेमाः प्रजाः
शुभमाचरन्ति देवा एव तदाचरन्ति यदु किं चेमाः
प्रजा विजानते देवा एव तद्विजानते देवानां ह्येतद्भव
ति स्वामी हि फलमश्नुते नास्वामी कर्म कुर्वाणः' इ
ति माध्यन्दिनायनश्रुतेरित्यात्रेयो मन्यते ॥ ४४ ॥
(२) सू-ॐ॥ आर्त्विज्यमित्यौडुलोमिस्तस्मै हि परिक्रि
यते ॥ ॐ ॥ ४५ ॥
शंकं सूत्रमुपन्यस्य व्याचष्टे—स्वामिन इति ॥ इत्यादीति लुप्तविभ
क्तिकम् । उक्तमिति शेषः । फलं स्वामिनामित्यनेन स्वामिन इति स
मुदायैकवचनान्तं हेतुगर्भं, फलेति लुप्तविभक्तिकमिति सूचितम् । त
था च 'ब्रह्मवित्' इत्यादिनोक्तं ज्ञानफलं 'स्वामिनो' ज्ञानस्वामिनां
देवानामेव भवति, न प्रजानाम् । कुतः ? श्रुतेः 'यदु किञ्चेमाः' इति
फलश्रुतेः । देवानामिन्द्रियादिप्रेरकत्वेन ज्ञाने स्वामित्वाच्चैवाचार्य
आत्रेयोपि मन्यत इति योजना । श्रुतावुशब्द एवार्थः । तथा चेमाः
प्रजाः यदेव किञ्चन शुभं कर्माचरन्ति तद्देवा एवाचरन्ति । तेषां कर्म
साधनेन्द्रियादिप्रेरकत्वेन तत्स्वामित्वादिति भावः । एवं प्रजाः यदे
व किमपि विजानते तद्देवा एव जानन्तीत्यर्थः । भावस्तु पूर्वोक्त एव ।
ननु प्रजाकर्तृकयोः कर्मज्ञानयोः कथं देवस्वामिकत्वमित्यत आह—
देवानां हीति । 'हि' यतो देवानामेतच्छुभकर्मादि भवतस्तस्तेषामेव
फलं भवतीत्यर्थः । ननु कर्तुरेव फलावश्यंभावात् कथं स्वामिनः फ
लमित्यतो दृष्टान्तमाह—स्वामी हीति । लोक इति शेषः । कृष्यादि
स्थले तथा दर्शनादिति हिशब्दार्थः । तत्त्वप्रदीपे तु न हान्य उपास्ते
न हान्यः फलमश्नुत इति समञ्जसं भवेदित्यादिना प्रजानामेव फलं
न स्वामिनामिति प्राप्ते स्वामिनामपि फलं, तस्य महत्त्वाद्भाष्ये एवश
ब्दः । प्रजानां त्वल्पमिति सिद्धान्तपरतयेदं सूत्रं व्याख्यातम् ॥
(२) एवमात्रेयमतावलम्बेन पूर्वपक्षिते सिद्धान्तयत्सूत्रं पठति—
आर्त्विज्यमिति । अत्रार्त्विज्यमिति लुप्तोपमानम् । ऋत्विजामिदमा
र्त्विज्यम् । ऋत्विजां यज्ञफलमिवेति यावदित्याशयेन सूत्रं व्याचष्टे—
सत्रयागेष्विति । ऋत्विजामपीति । अगृहपतीनामिति शेषः । न केवलं
गृहपतेरित्यपेरर्थः । अगृहपतीनामपीति वा । फलं यज्ञफलम् । अनेन
[ अधि - ७. सू - ४६. ] दीपिकासहितम्. ९७५
सत्र यागेष्वृत्विजामपि फलदर्शनादल्पं फलं प्रजाना
मपि भवतीत्यौडुलोमिर्मन्यते । तदर्थं देवैः क्रियमाण
त्त्वात् ॥ ४५ ॥
( ३ ) सू--ॐ ॥ सहकार्यन्तरविधिः पक्षेण तृतीयं तद्वतो
विध्यादिवत् ॥ ॐ ॥ ४६ ॥
फलभागित्वं साध्ये पूर्वोक्तस्वामित्वहेतोरप्रयोजकत्वमुक्तं भवति ।
तस्मा इत्येतत् पञ्चम्यन्ततया प्रथमान्ततया तृतीयान्ततया च विपरिणा
म्य व्याचष्टे—अल्पफलमिति । ज्ञानफलमित्यर्थः । प्रजानामपीति । न
केवलं देवानामेव फलं, किन्तु प्रजानामपीत्यपेरर्थः । प्रजानामपि फ
लभाक्त्वं कुत इत्यतः प्रवृत्तं तस्मै हीत्यादि व्याचष्टे—तदर्थमिति ।
प्रजार्थमेवेत्यर्थः । अनेन सूत्रे तच्छब्दः प्रजापरः, तादर्थ्ये चतुर्थीत्यु
क्तं भवति । क्रियमाणत्वादिति । सम्पाद्यमानत्वादित्यर्थः । ज्ञानस्ये
ति शेषः । अनेन हि शब्दो हेत्वर्थः परिक्रियते इत्यस्य क्रियते इत्यर्थ
उक्तो भवति । तथा चायं सूत्रार्थः ‘आर्त्विज्यं’ आर्त्विज्यमिव यथा
सत्रयागेऽग्रहपतीनामप्यृत्विजां यज्ञफलं तथा ‘तासां’ प्रजानामस्वा
मिभूतानामपि तदल्पफलमस्ति । कुतो ? ‘हि’ यतः ‘तस्मै’ प्रजाफ
लार्थ ‘तैः’ प्रजास्थितैः तत्तत्करणप्रेरकैर्देवैः ‘तत्’ ज्ञानादि ‘परि
क्रियते’ सम्पाद्यतेऽत इति । तत्त्वप्रदीपे तु यथा सत्रयागेषु न केवलं
गृहपतेरेव, किन्तु ‘ऋत्विजां’ इष्टप्रथमयज्ञानां स्वानूत्स्वानग्नीन् तद्
ग्रिषु समारोप्य दीक्षितानामनात्तदक्षिणानामल्पं फलं दृश्यते गृहपतेः
द्रव्यादिस्तृणुरसमत्वेऽपि, तथा देवैः क्रियमाणस्य ज्ञानयज्ञस्यार्त्वि
ज्यं प्रजाभिः परिक्रियते । ‘तत्’ आर्त्विज्यं तासामप्यल्पफलदं भव
त्येव । कुतो ? ‘हि’ यतः ‘तस्मै’ तदर्थं प्रजानामपि फलसिद्ध्यर्थमे
व तासु स्थित्वा तत्तत्करणानि व्यापारयद्भिर्देवैः ज्ञानयज्ञः ‘परिक्रि
यते’ अनुष्ठीयते अत इति सूत्रार्थो वर्णितः । एतत्पक्षे आर्त्विज्यमि
त्यावर्तते । एवं परिक्रियत इत्येतदपि । अस्यार्त्विज्यमित्यनेन ज्ञानय
ज्ञ इत्यध्याहृतेन चान्वयः । तथा च सत्रयागेष्वार्त्विज्यमृत्विजामल्प
फलदं तथा देवैर्यो ज्ञानयज्ञः क्रियते तस्यार्त्विज्यं यत्प्रजाभिः क्रियते
तदार्त्विज्यं प्रजानामप्यल्पफलदं भवत्येव । कुतो हि यत इत्यादिरू
पा सूत्रयोजना द्रष्टव्या ॥
( ३ ) यदि देवैः प्रजार्थं ज्ञानादि साध्यते तर्हि तत्फलं प्रजानामेव
१७६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
तृतीयः स्वपक्षः ।
भवेत्, न किञ्चिद्देवानां इत्याशङ्कां परिहरत्सूत्रमुपन्यस्यति — सहका
रीति ॥ अत्र तृतीयमित्यस्यैतदित्यध्याहृतेनान्वयः । पक्षेणेति च भाव
प्रधानम् । तथा च ' एतत् ' वक्ष्यमाणं पक्षत्वेन तृतीयमित्यर्थ इत्याश
येन सम्बन्धिप्रदर्शनपूर्वकं पक्षेण तृतीयमित्यस्य फलितार्थमाह — तृ
तीय इति । स्वेति सावधारणम् । तथा च पूर्वोपन्यस्तपक्षद्वयापेक्षया
ऽयं तृतीयः स्वस्यैव भगवतो बादरायणस्यैव पक्षः न त्वौडुलोमिना
ज्ञात इत्यर्थः । यद्यपि पूर्णफलापेक्षया देवानामेव फलमिति श्रुत्यवष्ट
म्भेन प्रवृत्तस्याद्यपक्षस्य, अल्पफलापेक्षया प्रजानामपीति युक्त्यवष्ट
म्भेन प्रवृत्तस्य द्वितीयपक्षस्य तदुभयोपपादकस्य अस्य तृतीयपक्ष
स्य च विरोधाभावात्पक्षत्रयमपि बादरायणीयमेव, उत्तरप्रस्थाने त
थैव विवृतत्वात् । तथाऽपि मन्दानामात्रेयमतस्यापाततो विरुद्धतया
प्रतीतेरेवमुक्तम् । न चैवं पक्षत्रयस्य वस्तुतोऽविरोधसम्पादने आद्य
द्वितीयाभ्यां तृतीयस्य तदुभयोपपादकस्य कथं भेद इति वाच्यम् ।
यतो देवानां महाफलं प्रजानां त्वल्पफलमित्येवं सदृष्टान्तमौडुलोमिना
ऽभिहितं, न तु वक्ष्यमाणं ज्ञातम्, बादरायणेन तु प्रधानाङ्गभावोक्तिपू
र्वकं तदुपपादनं क्रियत इति । उक्तं हि तत्त्वप्रदीपे — देवानामेव मह
त्फलमित्यत्र श्रुतिमात्रेण श्रावयामास । प्रजानामप्यल्पफलमस्तीत्य
त्र युक्तिमौडुलोमिना प्रयोजयामास । स्वयन्तु सर्वविद्याचार्यतमः आ
चार्यप्रवेशेन प्रवक्तृत्वं प्रजासु स्थित्वा तत्तदिन्द्रियप्रवर्तनेन ज्ञापनमि
त्येतदुभयं देवानां फलाधिक्ये कारणं, सहकार्यान्तराभावे स्वविहित
ज्ञानदानासम्भवेन विहितानुष्ठानाङ्गत्वात्प्रजानामपेक्ष्यत्वं, तासामप्य
ल्पफलभावे कारणं, प्रजानामाचार्यस्य देवानां च फलेयत्ताविशेषं चे
ति बहून् विशेषानाहेति तृतीयः स्वपक्ष इत्याहेति । एवं प्रथमसूत्रे
स्वामिभृत्यभावमुखेन द्वितीये यजमानऋत्विग्भावेन तृतीये प्रधानाङ्ग
भावेन महदल्पफलत्वोपपादनाद्भेद इत्यपि समाधानं द्रष्टव्यम् । नन्वे
वमपि तत्त्वप्रदीपे सूत्रत्रयमपि सिद्धान्तपरतया व्याख्याय, यत्तु न्या
यविवरणेऽन्यथा व्याख्यानम्, तदात्रेयमतानुवादमुखेन मन्दाशङ्कानु
वादपरमिति न तत्प्रत्यनीकत्वं सिद्धान्तवादस्येति भाष्यस्य न्यायवि
वरणविरोधस्याऽपि परिहृतत्वात्तद्विरोधः स्यादिति चेन्न, आपाततो
विरोधमाश्रित्य न्यायविवरणभाष्ययोः प्रवृत्तिसम्भवात् । तदनुसारे
[ अधि - ७. सू - ४६. ] दीपिकासहितम्. ९७७
(४) देवानां ज्ञानादिकर्मणि सहकार्यन्तरत्वेन प्रजा विधी-
यन्ते । यथा प्रजावतो राज्ञः प्रजाः सहकारित्वेन वि-
धीयन्ते । यथा वाऽऽचार्यस्य शिष्याः ।
(५) वाराहे च —
ज्ञानादिदानं देवानां विष्णुना साधु चोदितम् ।
वेदेषु तेषां विहितं तत्राचार्यो महत्तरः ॥
ण टीकाया अपि प्रवृत्तेः । तत्त्वप्रदीपस्य च वस्तुस्थित्या प्रवृत्तत्वात् ॥
(४) कोऽसौ तृतीयः पक्ष इत्यतस्तत्प्रदर्शनाथं प्रवृत्तं सहकार्यन्त-
रविधिरित्यंशमपेक्षितोपस्कारेण व्याचष्टे—देवानामिति ॥ सहकार्य-
न्तरत्वेनेत्यनेन सूत्रे भावप्रधानो निर्देशः, तृतीयातत्पुरुषश्चेत्युक्तं भ-
वति । सूत्रे भाष्ये च आचार्यापेक्षया प्रजानां सहकार्यन्तरत्वादान्तर-
शब्दप्रयोगः । केचित्तु—अन्तरशब्दो विशेषार्थकः, स चानुग्राह्यत्वरू-
प इत्याहुः । विधीयन्त इत्यनन्तरं यत इति शेषः । अस्यात उभयोरपि
महदल्पफले स्त इत्युपस्कारेणेतिशब्दाध्याहारेण च तृतीय इत्यनेना-
न्वयः । तत्र देवानां प्रजाकृतपुण्यफलभाक्त्वमेव, न तु पापफलभा-
क्त्वं तत्फलं त्वसुराणामिति विवेको द्रष्टव्यः । कथं विधिरित्यतः प्रवृ-
त्तं तद्वतो विध्यादिवदित्यंशं व्याचष्टे—यथेति । तद्वत इत्यस्य व्या-
ख्या—प्रजावत इति । तस्य विवरणं—राज्ञ इति । सहकारित्वेनेति ।
पालनकर्मणीति शेषः । तद्वत इति प्रकारान्तरेण व्याचष्टे—आचार्य-
स्येति । शिष्यवत इत्यादावुपस्कर्तव्यम् । शिष्याः सहकारित्वेन वि-
धीयन्त इति सम्बन्धः । अत्राप्यत उभयोरपि महदल्पफले स्त इति वा-
क्यशेषः । तेन सौत्रादिशब्दार्थ उक्तो भवति । यथा प्रजावत इत्यादेः
शिष्या इत्यन्तस्य तथाशब्दाध्याहारेण देवानामित्यादिनाऽन्वयः ॥
(५) अत्रैवार्थे स्मृतिमाह—वाराहे चेति ॥ देवानां प्रजाभ्यो 'सा-
धु' सम्यक्साक्षादिति वा ज्ञानादिदानं विष्णुना 'चोदितं' आज्ञप्तम्।
आदिशब्देन मोक्षादिर्गृह्यते । 'तेषां' देवानां वेदे विहितं चेति चश-
ब्दान्वयः । 'तत्र' स्वविहिते ज्ञानदाने 'आचार्यों' गुरुः 'महत्तरो'
महान् मुख्यः । स्वार्थे तरप् । 'सहकारित्वे' सहकारित्वेन तच्छिष्ये
वा विहितः । सहकार्यन्तरं प्रजा इति पूर्वोत्तराभ्यां सम्बध्यते । तत्र
दार्ष्टान्तिके अन्तरशब्दोऽमुख्यान्यपरः दृष्टान्ते व्यक्तिविशेषार्थकः । अ-
१२३
९७८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
विहितस्सहकारित्वे सहकार्यन्तरं प्रजाः ।
पातृत्वेन यथा राज्ञो यथा शिष्या गुरोरपि ॥
तस्माच्छ्रुतं फलं तासामाचार्याणां महत्तरम् ।
ततो महत्तरं प्रोक्तं देवानामुत्तरोत्तरम् ॥ इति ॥ ४६ ॥
--
८. अधिकरणम् ॥
( १ ) सू—ॐ ॥ कृत्स्नभावात्तु गृहिणोपसंहारः ॥ ॐ ॥ ४७ ॥
त एव प्राक् स्ववाक्ये सहकारित्वेनेत्येतावदेवोक्तम् । राज्ञः पातृत्वेन
निमित्तेन प्रजास्तस्य सहकार्यन्तरमित्यन्वयः । पालने व्याख्याने चेति
क्रमेण शेषः । तस्माद्देवानां ज्ञानदाने प्रजानां सहकारिमात्रत्वादाचा-
र्याणां मुख्यसहकारित्वात्तासां प्रजानां 'यावच्छ्रुतं' यावत्प्रमाणसिद्धं
तावत्फलं भवति । अतो 'महत्तरं' महत्फलं आचार्याणां भवति । 'त-
तः' आचार्यात् 'देवानां' ब्रह्मान्तानां 'उत्तरोत्तरं' महत्तरं 'मुक्ताव-
ष्टगुणं शिष्याद्गुरोराप्नोति' इत्युक्तरीत्याऽतिशयितं फलं भवतीत्यर्थः ।
इति वाराहे इत्यन्वयः । न केवलं सूत्रकृतेति चशब्दार्थः । वाराह इत्य-
नन्तरं देवानामित्यादिनोक्तमभिहितमिति वाक्यशेषः ॥
सूत्रार्थस्तु 'तत्' वक्ष्यमाणं 'पक्षेण' पक्षत्वेन 'तृतीयं' तृती-
यः पक्षः । स च स्वस्य भगवतो बादरायणस्यैव पक्षः, नौडुलोमिना
ज्ञातः । कोऽसौ ? यो देवानां स्वविहिते ज्ञानदाने कर्मणि प्रजानां 'स-
हकार्यन्तरविधिः' यद्देवैराचार्याणां सहकारित्वेन प्रजानां सहकार्य-
न्तरत्वेन कारणम्, अत एवोभयोः फलवैलक्षण्यं च । तत् कथं ? 'त-
द्वतो विध्यादिवत्' यथा प्रजावतो राज्ञः शिष्यवतो गुरोश्च पालने
व्याख्याने च प्रजानां शिष्याणां च सहकारितया विधिः तथेति । आ-
दिशब्दो गुरो राज्ञश्च महत्फलमिति सूचयति ॥ ७ ॥
॥ इति फलभूत्यधिकरणम् ॥
--
८. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्मज्ञाने विशेषाधिकारिणां यतीनां सर्वाश्र-
मिभ्योऽतिशयसमर्थनेन ज्ञानमहिमा वर्ण्यते । पूर्वपक्षादिप्रदर्शनार्थं
सूत्रं पठति—कृत्स्नेति ॥ अत्र गृहिणोपसंहार इत्यंशसूचितं सयुक्ति
[ मधि - ८, सू - ४७. ] दीपिकासहितम्. ९७९
'कुटुम्बे शुचौ देशे स्वाध्यायमधीयानो धार्मिका-
न्विदधत्' इत्युक्त्वा 'न च पुनरावर्तते न च पुनरा-
वर्तते' ( छा. ८-१५-१. ) इति गृहिणोपसंहारः क्रिय-
कपूर्वपक्षमाह — कुटुम्ब इति। कुटुम्ब इत्यतः प्राक् तत्रेति, उक्तेत्यतः
प्राक् मोक्षमिति चोपस्कर्तव्यम्। गृहिणेत्यावर्तते। षष्ठ्यर्थे तृतीया।
उपसंहार उपनिषत्समापनम्। तथा चेत्थं योजना — गृहस्थस्यैव मु-
क्तावुत्तमत्वं, कुतो ? यस्मात् 'तत्र' छन्दोगोपनिषदि 'आचार्यकुला-
द्वेदमधीत्य यथाविधानं गुरोः कर्मातिशेषेणाभिसमावृत्य कुटुम्बे शु-
चौ देशे स्वाध्यायमधीयानो धार्मिकान् विदधदात्मनि सर्वेन्द्रियाणि
प्रतिष्ठाप्याहिंसन् सर्वाणि भूतान्यन्यत्र तीर्थेभ्यः स खल्वेवं वर्तयन्
यावदायुषं ब्रह्मलोकमभिसम्पद्यते' इति 'गृहिणा' गृहिणः गृहस्थस्यैव
मोक्षमुक्त्वा 'न च पुनरावर्तते' इति 'गृहिणोपसंहारः' तद्विषयकोप-
संहारः क्रियते तस्मादिति। न ह्याधिक्याभावे सर्वेषां मोक्षे समाने वि-
शिष्योक्तिर्युक्तेति भावः। उपसंहारपदप्रयोगेनास्य वाक्यस्याधिक्ये
तात्पर्यं सिद्धमिति ज्ञापितम्। उपसंहारस्य तात्पर्यनिर्णायकत्वात्।
श्रुत्यर्थस्तु — 'यथाविधानं' विधिमनतिक्रम्य 'आचार्यकुलात्' वंशा-
त् वेदमधीत्य 'यथाविधानं' सेवारूपं कर्म 'अतिशेषेण' अशेषेण
'अभिसमावृत्य' कृत्वा 'कुटुम्बे' गृहस्थाश्रमे वर्तमानः शुचौ देशे स्थि-
त्वा 'स्वाध्यायं' वेदमधीयानो 'धार्मिकान्' धर्मसम्बन्धिनो व्यापा-
रान् 'विदधत्' कुर्वन् तादृशजनान् पुत्रादीन् विशेषेण धारयन्निति
वा 'आत्मनि' परमात्मनीन्द्रियाणि 'सम्प्रतिष्ठाप्य' नियम्य 'तीर्थे-
भ्यो' यज्ञेभ्यः 'अन्यत्र' तान्बिना सर्वाणि भूतान्यहिंसन् यावदायुषं
स्वात्मानमेवं प्रवर्तयन् परमात्मानं दृष्ट्वाऽथ परब्रह्मलोकं 'अभिस-
म्पद्यते' प्राप्नोति। स्वर्गं प्राप्त इवायं पुनरावर्तते किं? नेत्याह — न चे-
ति। चोऽवधारणे। कदाचिदपि केनापि निमित्तेन नैवावर्त्तत इति। शु-
चौ कुटुम्बीति कचित् पाठः तत्त्वप्रदीपविरुद्धः। पूर्वपक्षं प्रतिषेधति —
न च वाच्यमिति। कुतो नेत्यतस्तत्र पूर्वपक्षहेतोरन्यथासिद्धयुक्ति-
परं कृत्स्नभावादिति सूत्रांशं हेतुत्वेन व्याचष्टे — यत इति। कृत्स्नगृह-
स्थानिति हेतुगर्भम्। कृत्स्नाः सम्पूर्णाः गृहस्थधर्मा येषां ते तथोक्ताः।
अस्य विवरणं — देवानिति। अनेन कृत्स्नो भावो गृहस्थधर्मो यस्य दे-
ववर्गस्य कृत्स्नस्य गृहस्थधर्मस्य भावो यस्मिन्निति वा स तथोक्त इ-
९८० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
ते । तस्माद्गृहस्थस्यैवोत्तमत्वमिति न वाच्यम् । यतः
कृत्स्नगृहस्थान् देवानपेक्ष्यैवोपसंहारः क्रियते ।
( २ ) 'कृत्स्ना ह्येते गृहिणो देवाः कृत्स्ना ह्येते यतयोऽत एते-
षां न पुत्रा दायमुपयन्ति न चैते गृहान्विसृजन्त्येरा-
ति सौत्रपदं व्याख्यातं भवति । सूत्रे एकवचनं जात्यभिप्रायम् । 'अ-
पेक्ष्य' विषयीकृत्येत्यनेन सूत्रे पञ्चमी ल्यब्लोपनिमित्तेत्युक्तं भवति ।
एवेति तुशब्दार्थोक्तिः । न तु मनुष्यगृहस्थानिति तदभिप्रायः । यतो
देवाः कृत्स्नगृहस्थाः अतो योग्यत्वात्कृत्स्नगृहस्थान् देवानपेक्ष्योपसं-
हारः क्रियते, न तु मनुष्यगृहस्थान् । यत एवमतो न तद्वलात् गृह-
स्थस्यैवोत्तमत्वमिति वाच्यमिति योजना । तथा च मनुष्य
[ अधि - ८. सू - ४८. ] दीपिका सहितम्. ९८१
गा अद्वेषा अलोभाः सर्वभोगाः सर्वज्ञाः सर्वकर्तारः'
इति पौत्रायणश्रुतिः ॥ ४७ ॥
( ३ ) सू — ॐ ॥ मौनवदितरेषामप्युपदेशात् ॥ ॐ ॥ ४८ ॥
न चाश्रमद्वयमेव देवानाम् । 'देवा एव ब्रह्मचारिणो
धरागा इत्यादिविशेषणानि त्रीणि यतित्वस्यैवोपपादकान्तराणि । पु-
नर्गार्हस्थ्ये साधनान्तरमाह — सर्वभोगा इति । पुनर्यतित्वे उपपादक-
माह — सर्वज्ञा इति । यथा यतीनां गृहिष्वध्यासङ्गाभावादधिकज्ञानस-
म्पादनं विद्यते एवं देवानां सार्वज्ञ्यं वर्तत इत्यतोऽपि तेषां यतित्वमि-
ति भावः । पुनर्गार्हस्थ्ये साधकान्तरमाह — सर्वकर्तार इति । पुत्रकृ-
त्वादिसर्वकर्तार इत्यर्थः । अत्र श्रुतौ कृत्स्ना यतय इति यतित्वस्याप्यु-
क्तिर्देवाना
९८२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.]
देवा एव गृहस्था देवा एव वनस्था यथा ह्येते मुनय
एवं सर्ववर्णाः सर्वाश्रमाः सर्वे ह्येते कर्म कुर्वन्ति'
इति कौण्ठरव्यश्रुतौ यतित्वदृष्टान्तेन अन्येषामप्युपदे
शात् ॥ ४८ ॥
——
९. अधिकरणम् ॥
(१) सू- ॐ॥ अनाविष्कुर्वन्नन्वयात् ॥ ॐ ॥ ४९ ॥
'एतां विद्यामधीत्य ब्रह्मदर्शी वाव भवति । स एतां म
देवा एव ब्रह्मचारिण इत्याद्युक्तार्थस्य 'यथा ह्येतेमुनयः' इत्यादिनोपपा
दनं क्रियते। अत्र 'यथा ह्येते' देवाः 'मुनयो' यतयः प्रसिद्धाः 'एवं'
तथा सर्वाश्रमा इत्येवंशब्दस्य व्यवधानेनान्वये सर्वाश्रमा इति दार्ष्टा
न्तिकोक्तिः। एवंशब्दस्य समुच्चयार्थत्वे न केवलं यतयः, किन्तु सर्व
वर्णास्सर्वाश्रमाश्चेति स्वस्थानेऽन्वयः। सर्ववर्णास्सर्वाश्रमा इत्युभयत्र
हेतुमाह—सर्वे हीति । 'हि' यतः सर्ववर्णाश्रमोचितं कर्म कुर्वन्ती
त्यर्थः। मुनेर्भावः कर्म वा मौनमित्याशयेन मौनवदित्येतद्व्याचष्टे—
यतित्वेति। कर्माप्युपलक्ष्यते। इतरेषामित्यस्य प्रतिपदं—यतित्वाद
न्येषामिति। ब्रह्मचर्यादीनामित्यर्थः। 'उपदेशात्' उक्तत्वात् । अनेन
देवानां 'मौनवदितरेषामप्युपदेशात्' मौनवद्यतित्ववदितरेषामप्या
श्रमधर्माणां तेषु भावः सिद्धः, न त्वाश्रमद्वयकर्मित्वमेव तेषां, तथा
च यदाऽऽश्रमद्वयकर्मित्वेनैव देवानां यतिभ्य उत्तमत्वं सिद्ध्यति तदा
किमु वाच्यं सर्वाश्रमकर्मित्व इति सूत्रार्थ उक्तो भवति ॥ ८ ॥
॥ इति कृत्स्नभावाधिकरणम् ॥
——
९. अधिकरणम् ॥
(१) अत्राधिकरणे अपरोक्षज्ञानसङ्गतपरोक्षज्ञानस्यातिगोप्यत्व
महिमा समर्थ्यते। सूत्रं पठति—अनाविष्कुर्वन्निति ॥ अत्र विषयोदा
हरणपूर्वकमनाविष्कुर्वन्नित्यनेन सूचितं पूर्वपक्षं दर्शयति—एतामि
ति। अत्रेत्थं योजना-यतः 'एताम्' इति माठरश्रुतौ विद्यादानं कर्तव्यं
श्रूयते, तथा स्वाधिक्यानुसारेण फलप्रदं चोच्यते। अतो ज्ञानदात्रा
स्वस्याधिकफलार्थं तदुपयोगितया 'बहूनां' शिष्याणां स्वीकारार्थं
'तत्' विद्यादानं 'आविष्कारेणैव' उच्चैः कार्यमिति। 'एतां' प्रकृ
[ अधि - ९. सू - ४९. ] दीपिकाসহিতम्. ९८३
नुष्येषु विब्रूयात् । यथा यथा हवै ब्रूयात्तथा तथाऽर्धि
को भवति' इति माठरश्रुतौ विद्यादानं श्रूयते । तच्च
बहूनां स्वीकारणार्थमाविष्कारेणेति न मन्तव्यम् । अ
न्वयात् युक्तेः । आविष्कारेऽयोग्यानामपि स्वीकार
प्राप्तिः । तच्च निषिद्धम् ।
(२) 'मानस्स्तेनेभ्यो ये अभिद्रुहस्पदे
निरामिणो रिपवोऽन्नेषु जागृधुः ।
येषां नैतन्नापरं किं च नैकं
तां 'विद्यां' ब्रह्मज्ञानसाधनवेदविद्यां 'अधीत्य' तदर्थं मत्वा ध्यात्वा
वेदविद्यां विचार्येति वा 'ब्रह्मदर्शी' ब्रह्मापरोक्षज्ञानी भवति शिष्यः ह
प्रसिद्धौ । वावेत्यवधारणे । 'सः' गुरुरेतां 'मनुष्येषु' बहुजनमध्ये य
था यथाऽधिकमिति शेषः । 'विब्रूयात्' उच्चैः सम्यक् उपदिशेत् 'त
थातथा' उपदेशाधिक्यानुसारेण फलेऽधिको भवतीति श्रुत्यर्थः । ए
वं प्रदर्शितं पूर्वपक्षं निषेधति—इति न मन्तव्यमिति । किन्त्वनावि
ष्कुर्वन्नेवोप Cantor... ष्कुर्वन्नेवोपदिशेदिति प्रतिज्ञाशेषः । कुत एतदित्यतः प्रवृत्तमन्वयादि
ति हेतुमनूद्य व्याचष्टे—अन्वयादिति । 'युक्तेः' उपपत्तेः । काऽसा
वुपपत्तिरित्यत आह—आविष्कार इति । सभाचत्वरादावित्याद्यावुप
स्कार्यम् । सभाचत्वरादावुपविश्योपदेशे इत्यर्थः । स्वीकारेति । 'स्वी
कारो' विद्यास्वीकारः । नन्वयोग्यानां ग्रहणप्रसङ्गेऽपि कुतोऽनावि
ष्कारेण वाच्यमित्यत आह—तच्चेति । चस्त्वर्थः । 'तत्' अयोग्येभ्यः
कथनं तु श्रुत्यादिनिषिद्धमित्यर्थः ॥
( २ ) तां श्रुतिमुदाहरति—मान इति ॥
मा नस्स्तेनेभ्यो ये अभिद्रुहस्पदे निरामिणो रिपवोऽ
[ न्नेषु जागृधुः ।
येषां नैतन्नापरं किञ्चनैकं ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित्॥
अथोपशमेनोपरता मनुष्या ये धर्मिणो ब्रूहि तेभ्यः सदा नः।
आदेवानामोहते विप्रयो हृदि बृहस्पते न परः साम्नो विदुः॥
इति ऋङ्मन्त्रद्वयस्यैतरेयभाष्यसुधातत्त्वप्रदीपटीकारीत्याऽयमर्थः—ए
तद्वायुं प्रति विद्यादेवतानां प्रार्थनरूपं वचनम् । तथा च हे ब्रह्मणस्पते
'आसन्यं प्राणमूचिरे . . एष उ एव ब्रह्मणस्पतिः' ( बृ. ३-३. ) इति श्रुतेः
ब्रह्मणो वेदस्य पते वायो ये रमणरूपत्वाद्रामो भगवान् स एव स्वामी
९८४ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ४.]
ब्रह्मणस्पते ब्रूहि तेभ्यः कदाचित्' (ऋ.२-२३-१६.) ॥
अथोपशमेनोपरता मनुष्याः
ये धर्मिणो ब्रूहि तेभ्यः सदा नः ।
आदेवानामोहते विप्रयो हृदि
बृहस्पते न परः साम्नो विदुः ॥ (ऋ.२-२३-१६.)
इति ॥
ति ज्ञानमेषामस्ति ते रामिणः तस्मान्निष्क्रान्ताः तस्य विमुखाः निरा-
मिणः भगवदुत्तमत्वाज्ञानिनः, निरो निषेधार्थत्वात् निरामिणस्तदज्ञा-
निनः प्रत्युत तस्य जीवरूपत्वज्ञानेन तन्नीचतावेत्तृत्वात्तद्विरोधिनः ।
यद्वा—रामो रमणमस्यास्तीति रामी भगवान् तस्मान्निष्क्रान्ताः तस्य
विमुखाः निरामिणः, अत एव तस्य रिपवः 'अन्नेषु' अन्नादिषु भोगे-
ष्वेव 'जागृधुः' आकांशां चक्रुः । आकांक्षावन्त इति यावत् । ते 'अ-
भिद्रुहस्पदे' अभितो द्रोहस्य विष्णुवैष्णवद्रोहफलस्य नित्यनिरतिश-
यदुःखस्यास्पदे आकरे तमसि स्थातुं योग्या भवन्तीति शेषः । यतोऽ-
तस्तेभ्यः स्तेनेभ्योऽस्मान् मा वोचः न ह्यस्मच्छ्रवणवान् दुःखमर्ह-
तीति भावः । एवमेषां एतद्वासुदेवाख्यं परं ब्रह्म न, अपरं तदपरं ज-
गच्च नास्ति, किन्तु 'किञ्च' यत्किञ्चित् निर्गुणं ब्रह्म 'नैकं' एकविधभि-
न्नं सदसद्विलक्षणं अनिर्वाच्यं च जगदभिमतं 'तेभ्यो' ब्रह्मस्तेनेभ्यो
'नः' अस्मान् मा ब्रूहि । अथ किं नाम ? हे 'बृहस्पते' 'वाग्घि बृहती'
(छा.१-२-११.) इति श्रुतेः बृहत्या वाचः पते वायो ये 'शमेन' विष्णु-
निष्ठया 'उप' समीपे तस्मिन्नेव 'रताः' मनुष्याः मननशीलाः 'धर्मिणो'
निष्कामकर्मिणः ये च देवानां 'वयः' नपुंसकं पदमेतत् । वरं नियाम-
कं च ब्रह्म हृदि वि आ ओहते व्योहते वहन्ति । सर्वत्र समत्वात् 'सा-
म्नो' विष्णोः सकाशात् 'परः' परं उत्तमं च न विदुः तेभ्यो नः अ-
स्मान् सदा ब्रूहीति । ऐतरेयभाष्ये तु 'तदेव' सामैव वासुदेवादिरू-
पेण 'हृदा' स्वेच्छया 'ओहते' प्राप्नोति सर्वमिति ओहते इत्येतत् भ-
गवद्विषयतया व्याख्यातम् । यद्यपि भाष्योदाहृतऋग्द्वये पूर्वोत्तरार्ध-
योरेव पाठः सांव्यावहारिकः । तथाऽपि 'मा नस्स्तेनेति पूर्वासु ह्यूनता
दृश्यतेऽर्थतः' इति ऋग्भाष्योक्तेः मध्यगतं 'येषां नैतत्, अथोपशमेन'
इत्यर्धर्चद्वयमवान्तरवेदे अन्तर्हितं मूलवेदे पठितमिति ध्येयम् । इती-
त्यस्य निषिद्धमित्यनेनान्वयः ॥
[ अधि - १०, सू - ५०, ] दीपिकासहितम्. ९८५
( ३ ) विद्या ह वै ब्राह्मणमाजगाम
गोपाय मां शेवधिष्टेऽहमस्मि ।
अनार्यकायानुजवे शठाय
न मां ब्रूया ऋजवे ब्रूहि नित्यम् ॥ इति च ॥ ४९ ॥
:--:
१०. अधिकरणम् ॥
( १ ) सू—ॐ॥ ऐहिकमप्रस्तुतप्रतिबन्धे तद्दर्शनात् ॥ ॐ ॥ ५०॥
' आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या
( ३ ) श्रुत्यन्तरं पठति—विद्येति ॥ ' ब्राह्मणं ' वायुं प्रति विद्या दे
वता आजगाम । आगत्य च हे वायो मां ' गोपाय ' गोपय रक्ष तेऽहं
' शेवधिः ' निधिरस्मि । मां ' अनार्यकाय ' भागवते--
तितिक्षवः कारुणिकाः सुहृदः सर्ववेदिनाम् ।
अजातशत्रवः शान्ताः साधवः साधुभूषणाः ॥
मय्यनन्येन भावेन भक्तिं कुर्वन्ति ये दृढम् ।
मत्कृते त्यक्तकर्माणः त्यक्तस्वजनबान्धवाः ॥
मदाश्रयकथाधृष्णः .... ॥
इत्यादिनोक्तार्यकलक्षणरहिताय ' अनुजवे ' अविपरीतचित्तादिप्रवृत्ति
मान् ऋजुः तद्भिन्नाय ' शठाय ' मूर्खाय दोषदृशे वा मा स्म ब्रूयाः ।
माशब्दोऽयं निषेधार्थः, न माङ् । तर्हि कस्मै वाच्येत्याकांक्षायामाह—
ऋजव इति । आर्यकाद्युपलक्षणमेतत् । तथा चार्यकाय अशठाय ऋ
जवे ' नित्यं ' नियमेन मां ब्रूहीति प्रार्थयामासेति श्रुत्यर्थः । अत्रापि इ
तीत्यस्य निषिद्धमित्येनान्वयः । श्रुतिसमुच्चये चः ॥ ९ ॥
॥ इति अन्वयाधिकरणम् ॥
-—
१०. अधिकरणम् ॥
( १ ) अत्राधिकरणे अपरोक्षज्ञानस्य प्रतिबन्धाभावे साधनसम्प
त्तिजन्मन्येवोत्पत्तिः समर्थ्यते । साधनसम्पूर्तावपि ज्ञानानुदये कार
णाभावात् साधनसम्पूर्तिजन्मन्येव ज्ञानस्य भाव्यत्वात् । तदभावे तु
कदाऽपि तदनुदय इति पूर्वपक्षे सिद्धान्तयत्सूत्रं पठति—ऐहिकमि
ति ॥ अत्र तदिति व्यस्तं समस्तं च । तत्र व्यस्तमावृत्तं विपरिणतं च
१२४
९८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
सितव्यः' (बृ. ४-४-५.) इति दर्शनार्थं श्रवणादि
विधीयते। तच्च दर्शनमैहिकमेव प्रारब्धप्रतिबन्धाभावे।
(२) श्रुत्वाऽऽत्मानं मतिपूर्वं ह्युपास्य
इहैव दृष्टिं परमस्य विन्देत्।
यद्यारब्धं कर्म निबन्धकं स्या
त्प्रेत्यैव पश्येद्योगमेवान्ववेक्ष्य ॥
श्रुतिप्रकृतपरामर्शीत्याशयेन तत्पदार्थं वदन् तस्यैहिकपदेनान्वयं प्रदर्श
यति—आत्मेति। तच्च तद्दर्शनं चेति विग्रहः। दर्शनं ब्रह्मदर्शनम्। च
शब्दो विशेषणसमुच्चये। तथा च 'आत्मा' इति श्रुतौ यद्दर्शनार्थं श्र
वणादि विधीयते तच्छ्रवणादिसाध्यत्वेन श्रुतं दर्शनं 'ऐहिकं' इह
जन्मनि भवमेव यस्मिन् जन्मनि श्रवणादिसम्पत्तिः तज्जन्मभवमेव,
न तु तस्मिन् जन्मन्येवेति नियम इत्यर्थः। न च क्वचिच्छ्रवणादिसम्प
त्तिजन्मनि ज्ञानानुदयविरोध इत्यतः प्रवृत्तस्याप्रस्तुतप्रतिबन्ध इत्य
स्यार्थमाह—प्रारब्धेति। ज्ञानोदयविघटकत्वेन प्रसक्तप्रतिबन्धकाभा
वे इत्यर्थः। तथा च प्रतिबन्धकाभावे तद्दर्शनमैहिकमेव, प्रतिबन्धे तु
जन्मान्तर इति अनियमाभ्युपगमात्। क्वचित्कारणे सत्यपि कार्यानुद
यस्य प्रतिबन्धकप्रयुक्तत्वान्नोक्तदोष इति भावः। अनेन सूत्रे ऐहिक
मित्यावर्तते तच्च सावधारणम्। तदिति व्यस्तमावर्तते। तथा च त
च्छ्रुतौ श्रवणादिफलत्वेनोक्तं ब्रह्मदर्शनमैहिकमेव। न च क्वचित्तदभा
वविरोधः। यतस्तद्दर्शनं प्रस्तुतप्रतिबन्धे जन्मान्तरे भवं' अप्रस्तुतप्र
तिबन्धे त्वैहिकमेवेत्यनियमाभ्युपगमोऽत इति सूत्रखण्डार्थ उक्तो भ
वति ॥
(२) उभयं कुत इत्यतः तद्दर्शनादित्येतद्व्याचष्टे—श्रुत्वेति॥ 'आ
त्मानं' परमात्मानं श्रुत्वा अथ 'मतिपूर्वं' मननपूर्वकं 'उपास्य' ध्या
त्वा 'इहैव' श्रवणादिसम्पत्तिजन्मन्येव 'परमस्य' विष्णोर्दर्शनं 'वि
न्देत्' प्राप्नुयात्। प्रारब्धप्रतिबन्धाभाव इति शेषः। तत्सत्त्वे त्वाह—
यदीति। 'निबन्धकं' नितरां बन्धकं आरब्धं ज्ञानप्रतिबन्धकं कर्म य
दि स्यात्। तर्हीति शेषः। 'प्रेत्य' अस्माच्छरीरान्मुक्त्वा
ज्ञानं तु योगमुद्दिष्टं युज्यते तेन यत्सुखम्।
क्वचियोग उपायस्स्यात्क्वचिच्चित्तनिरोधनम् ॥
इत्यभिधानाद्योगशब्दोक्तं श्रवणाद्युपायं पुनः किंचित् 'अन्ववेक्ष्य'
[ अधि - १०. सू - ५०. ] दीपिका सहितम्. ९८७
इति सौपर्णश्रुतौ तद्दर्शनात् ।
( ३) अनादिजन्म सम्बन्धं निर्भेत्तुं पापपञ्जरम् ।
यावत्या सेवया शक्यं तावत्कार्यं न संशयः ॥
यावद्दूरे स्थितो गम्यात्तावद्गन्तव्यमेव हि ।
इह जन्मान्तरे वापि तावत्यैव तु दर्शनम् ॥
(४) श्रवणं मननं चैव निधिध्यासनमेव च ।
परे गुरौ च या भक्तिः परिचर्यादिकं हरेः ॥
अपेक्ष्यैव कृत्वैव परमस्य दृष्टिं विन्देदित्यर्थः । श्रुतौ दर्शनादित्यनेन
तस्यां श्रुतौ तस्यार्थस्य प्रतिबन्धकसदसत्त्वयोरैहिकानन्तर्यकत्वरू-
पार्थस्य दर्शनादुक्तत्वादिति सूत्रखण्डार्थ उक्तो भवति ॥
( ३ ) श्रुतिसिद्धार्थे स्मृतिं चाह—अनादीति ॥ पञ्जरशब्दोऽस्त्री-
लिङ्गः पतत्रिगतिप्रतिबन्धकनीडवाची । तथा च प्रवाहतोऽनादिजन्म-
भिः सम्बन्धो यस्य तत्, अनादिजन्म सम्बन्धं अनादिजन्मकारणं पा-
पमेव पञ्जरसदृशं पापरूपज्ञानप्रतिबन्धकं ‘यावत्या सेवया’ यावज्ज-
न्मभवेन सेवनेन ‘निर्भेत्तुं’ विदारयितुं शक्यं तावत्सेवनं कार्यमित्यर्थः ।
अनादीति व्यस्तं वा पदं पापविशेषणम् । तथात्वे जन्मसम्बन्धमिति
कर्मणि घञन्तं, जन्मभिः सम्बन्धं यदनादि पापं तदेव पञ्जरमित्यर्थः ।
अत्र निदर्शनमाह—यावदिति । ‘गम्यात्’ प्राप्याद्ग्रामादेस्तदपेक्ष्य
यावद्दूरे स्थितो जनः तावद्दूरं तेन गन्तव्यमिति हि प्रसिद्धमित्यर्थः । ननु
‘तद्यथा पुष्करपलाशे’ (छां.४-१४-३.) ‘यथेषीकातूलम्’ (छा.५-२४-
३.) इत्यादि श्रुतेः ब्रह्मदर्शनैकसाध्यः पापपञ्जरनिर्भेदः कथं सेवया
भवेदित्यत आह—इहेति । इह सेवाजन्मनि जन्मान्तरे वा यावत्या
सेवया पापपञ्जरं निर्भेत्तुं शक्यं तावत्यैव सेवया दर्शनं भवति । अथ
पापपञ्जरनिर्भेदो भवतीत्यर्थः । तुशब्दः प्रतिबन्धकाभावभावयोरिह
जन्मान्तरे वेति विशेषद्योतकः । तथा च पापपञ्जरनिर्भेदस्येह जन्मनि
जन्मान्तरे वा सेवासाध्यदर्शनसाध्यत्वाभ्युपगमात् साक्षात्सेवासाध्य-
त्वानभ्युपगमान्न श्रुतिविरोध इति भावः ॥
(४) ननु श्रवणाद्येकसाध्यं ज्ञानं कथं शुश्रूषारूपसेवया स्यादित्य-
त आह—श्रवणमिति ॥ चशब्दः परस्परसमुच्चये । एवशब्दावेवमि-
त्यर्थौ । ‘परे’ परमात्मनि विषये परिचर्या पूजा । आदिपदाच्छमनादि
९८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
एषा सेवेति सम्प्रोक्ता यया तद्दर्शनं भवेत् ॥
इति बृहत्संहितायाम् ॥ ५० ॥
--
११. अधिकरणम् ॥
( १ ) सू-ॐ॥ एवं मुक्तिफलानियमस्तदवस्थावधृतेस्त-
दवस्थावधृतेः॥ ॐ ॥ ५१ ॥
एवमेव प्रारब्धकर्माभावे शरीरपातानन्तरमेव मोक्षः।
तद्भावे जन्मान्तराणीत्यनियमः ॥
( २ ) ' धर्मी स्वर्गे विधर्मी निरयमेत्येव ब्रह्मसंस्थोऽमृतत्वमे
ग्रहः । प्रथमयच्छब्दस्य या भक्तिः यश्च परिचर्यादिकमित्युभयत्रान्व
यः । अयमेव न सर्वत्र सेवाशब्दार्थः, किन्तु ज्ञानसाधनविषयैवेत्या
ह—ययेति । यया तद्दर्शनं ब्रह्मदृष्टिर्भवति सा सेवा ' एषा ' श्रवणा
दिरूपा सम्प्रोक्तेत्यर्थः । एवं च यावत्या सेवेत्यत्र सेवाशब्दार्थत्वेन
श्रवणादिसेवैव सम्प्रोक्ता, न शुश्रूषा, अतो न ज्ञानस्य श्रवणादिसा
ध्यत्वप्रतिपादकात्मा वा अरे इत्यादिप्रमाणविरोध इत्यर्थः । बृहत्संहि
तायामुक्तत्वादुक्तं युक्तमिति शेषः ॥ १० ॥
॥ इति ऐहिकाधिकरणम् ॥
--
११. अधिकरणम् ॥
( १ ) अत्राधिकरणे ब्रह्मज्ञानस्य स्वोत्पत्तिजन्मानन्तरमेव प्रतिब
न्धकाभावे मुक्तिसाधनत्वमहिमा वर्ण्यते । तत्र कारणे सति कार्यानु
दये हेत्वभावाद्यच्छरीरे ज्ञानमुत्पन्नं तच्छरीरपातानन्तरमेव मोक्ष इ
ति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्यति--एवमिति ॥ अत्र एवं मु
क्तिफलानियम इति साध्यांशं एवकारगर्भिततया व्याचष्टे—एवमेवे
ति । यथा ज्ञाने चानियमः, एवं मुक्तिफलेऽप्यनियम एव न तु नियम
इत्यर्थः । ननु निष्कारणमनियमे कदाऽपि मोक्षाभावप्रसङ्ग इत्यत एव
मित्येतद्विवृणोति—प्रारब्धेति । प्रारब्धकर्माख्यमुक्तिप्रतिबन्धकाभाव
इत्यर्थः । ' तद्भावे ' प्रतिबन्धकसत्त्वे जन्मान्तराणीति द्वितीयाबहुव
चनं, बहुत्वमविवक्षितम् । जन्मान्तरमित्यर्थः । प्राप्यैवेति शेषः । तथा
च प्रारब्धभावाभावयोरनियमकारणत्वात् नोक्तदोष इति भावः ॥
( २ ) ननु कुतोऽत्र प्रतिबन्धककल्पनमित्यतः तत्र हेतुत्वेन तदव
[ अधि - ११. - सू - ५१. ] दीपिकासहितम्. ९८९
त्येव ब्रह्मसंस्थोऽमृतत्वमेत्येव ' ( ) इति ब्र
ह्मसंस्थस्य मोक्षस्यैवावधारणात् ।
( ३ ) विद्वानमृतमाप्नोति नात्र कार्या विचारणा ।
अवसन्नं यदारब्धं कर्म तत्रैव गच्छति ॥
स्थावधृतेरित्यंशं तच्छ्रुत्युदाहरणपूर्वकं व्याचष्टे—धर्मीति ॥ 'धर्मी'
पुण्यकर्मवान् 'विधर्मी' पापकर्मवान् तत्कर्ता 'ब्रह्मसंस्थो' ब्रह्मद
र्शी 'अमृतत्वं' मुक्तिं 'एति' प्राप्नोति एवशब्देन क्वचित् तद्योगं व्य
वच्छिनत्ति एत्येव ब्रह्मसंस्थोऽमृतत्वमिति । द्विर्वचनं तात्पर्यद्योतनार्थ
म् । इतीत्यनन्तरं श्रुताविति शेषः । 'ब्रह्मसंस्थस्य' ब्रह्मदर्शिनः ब्रह्म
ज्ञानस्येति यावत् । 'मोक्षस्यैव' मुक्तिहेतुत्वस्यैव । आवर्तनीयोऽयमे
वशब्दः । तथा चैवशब्देन मुक्तिहेतुत्वस्यैवावधारणात् एतज्जन्मन्येवे
त्यनवधारणादित्यर्थः । अनेन प्रतिबन्धकदशायां सति ज्ञाने मोक्षाभा
वेनावधारणानुपपत्तिः । प्रतिबन्धकाभावेऽपि ज्ञाने सति मोक्षाभावे तु
ब्रह्मसंस्थस्य तद्दर्शनस्य मोक्षहेतुत्वावधारणानुपपत्तिरेव । अतः श्रौत
मोक्षहेतुत्वावधारणान्यथाऽनुपपत्त्या प्रतिबन्धककल्पना युक्ता । तथा
च प्रतिबन्धकसद्भावोऽनियमहेतुः, तदाक्षेपकं चावधारणं, तस्यासि
द्धिनिवारिका श्रुतिरित्युक्तं भवति । अथ वा—ज्ञानिनः तद्देहपातान
न्तरमेव मोक्षो जन्मान्तराणि प्राप्य वा इति मोक्षफलानियमे एव श्रु
तिः प्रमाणम् । अत्र पक्षे श्रुतौ ज्ञानिनो मोक्षस्यैवावधारणादेतद्देहपा
तानन्तरमेवेत्येवंरूपनियमस्यानवधारणान्नियमायोगस्याव्यवच्छेदान्नि
यमानुक्तेरिति हेतुवाक्यार्थस्यैव मुक्तिफलानियम इति साध्येनान्वयः ।
अत्र भाष्यस्थैवकारोऽन्ययोगव्यवच्छेदकः, श्रुतिगतस्त्वयोगव्यवच्छे
दक इति द्रष्टव्यम् ॥
( ३ ) ननु श्रुतौ नियमानुक्तिमात्रं नानियमसाधकमित्यतः स्मृति
मुदाहरति—विद्वानिति ॥ 'विद्वान्' ब्रह्मापरोक्षज्ञानी 'अमृतं' मुक्ति
माप्नोत्येव । नात्र सन्देहः कार्य इत्यर्थः । परन्तु यस्मिन् जन्मनि ज्ञान
मुत्पन्नं तद्देहपातानन्तरमेवेति न नियम इत्याह—अवसन्नमिति । 'य
त्' यदि आरब्धं कर्म 'तत्रैव' तद्देह एव 'अवसन्नं' पर्यवसन्नं तद्दे
हपातानन्तरमेवामृतं 'गच्छति' प्राप्नोति । अवसन्नं न चेत् बहूनि ज
न्मानि प्राप्यैव जन्मान्तरं प्राप्यैव 'अन्ते' प्रारब्धक्षयान्ते अमृतं गच्छ
ति नात्र संशय इत्यर्थः । नारायणाध्यात्म इत्यस्य 'प्रारब्धकर्माभावे'
९९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ४. ]
न चेद्बहूनि जन्मानि प्राप्यैवान्ते न संशयः ॥
इति नारायणाध्यात्मे ॥ ५१ ॥
---
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र
भाष्ये तृतीयाध्यायस्य चतुर्थः पादः.
॥ तृतीयाध्यायस्समाप्तः ॥
:--:
॥ ॐ ॥
─
इत्यादिनाको नियमः युक्त इति पूर्वेणान्वयः । सूत्रे फलशब्दो ज्ञानफ
लेषु मोक्षस्य प्राधान्यज्ञापनार्थः । तदुक्तं तत्त्वप्रदीपे—सर्वपुरुषार्थप्रा
प्तिदर्शनादित्युक्तेऽपि इतरेषामानुषङ्गिकत्वं, साक्षात्फलत्वं मुक्तेरेवेति
फलशब्द इति । द्विरुक्तिस्त्वेतदध्यायार्थस्य प्रामाणिकत्वसूचनार्थेति
द्रष्टव्यम् । तदुक्तमैतरेयभाष्ये—
सर्वप्रमाणसिद्धत्वं वक्तुमाध्यायमूलतः ।
अध्यायान्ते द्विरुक्तिस्स्यात्पूर्वोक्तस्यावधारणे ॥ इति ॥
'अवधारणे' निर्णयकग्रन्थे । 'आध्यायमूलतः' अध्यायमूलमारभ्य
पूर्वोक्तस्यार्थस्य सर्वप्रमाणसिद्धत्वं वक्तुं अध्यायान्ते द्विरुक्तिस्स्या
दित्यर्थः ॥ ११ ॥
॥ इति मुक्तिफलाधिकरणम् ॥
─────────────────
इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां
श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना
थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि
कायां तृतीयाध्यायस्य चतुर्थः पादः.
॥ तृतीयाध्यायस्समाप्तः ॥
--:-:-
॥ ॐ ॥
─
॥ श्रीः ॥
॥ ॐ तत्सद्ब्रह्मणे नमः ॥
॥ अथ चतुर्थाध्यायः ॥
१. अधिकरणम् ॥
(१) फलं निगद्यतेऽस्मिन्नध्याये। कर्मनाशाख्यं फलमस्मिन्
पादे। नित्यशः कार्यं सर्वथा भाव्यं साधनं प्रथमत उ
॥ अथ चतुर्थाध्यायः ॥
१. अधिकरणम् ॥
(१) एतदध्यायप्रतिपाद्यं दर्शयति—फलमिति ॥ साध्यमित्यर्थः।
ब्रह्मदर्शनेत्यादावुपस्कार्यम् । मोक्षरूपमिति शेषः । 'निगद्यते' कीदृ
शमिति विचार्यतेऽस्मिन् चतुर्थेऽध्याय इत्यर्थः। मोक्षस्य दर्शनसाध्य
त्वं तु 'अनियमः, विद्यैव' इत्यादावेवोक्तमिति भावः। एतत्पादार्थं द
र्शयति—कर्मेति । निगद्यत इत्यनुषज्यते । मोक्षलक्षणं हि ज्ञानफलं च
तुर्विधं—कर्मक्षयोत्क्रान्तिमार्गभोगभेदात् । तत्रास्मिन् पादे दर्शनपूर्व
कालीनसञ्चितकर्मनाशाख्यं फलं निगद्यत इत्यर्थः। नन्वावृत्तिरित्यादि
सूत्रे कर्मक्षयोक्त्यप्रतीतेः कथमेतत्पादप्रतिपाद्यकथनमित्यत आह—
नित्यश इति। सर्वदैवेत्यर्थः। परमादरेणेत्यप्यादावुपस्कार्यम् । किमर्थ
मेतदुच्यते इत्यत उक्तं—सर्वथा भाव्यमिति। सर्वप्रकारविघ्नेऽपि या
वच्छक्यमनुष्ठेयमित्यर्थः। नित्यशः करणविशिष्टसाधनं विनाऽपरोक्ष
ज्ञानाभावात्तदभावे च चतुर्विधमोक्षेषु मध्ये एकस्यापि मोक्षस्याभा
वादस्य सर्वथा भाव्यत्वमिति भावः। तथा च यतः सर्वथा भाव्यम
तो नित्यशः कार्यमिति योजना। साधनमिति। श्रवणाद्यावृत्त्यादिरूप
ज्ञानसाधनमित्यर्थः। 'प्रथमतः' सप्ताधिकरण्यां 'उच्यते' कर्तव्यत्वे
न प्रतिपाद्यते। सर्ववेदान्तनयेन गतार्थतापरिहाराय—नित्यशः सर्वथे
ति चोक्तम्। तथा च तत्रोक्तस्यैव साधनस्य सर्वप्रकारविघ्नेऽपि सर्व
दा परमादरेण यावच्छक्यमनुष्ठेयत्वरूपेत्थंभावोऽत्रोच्यत इति न गता
र्थतेति भावः। यदि फलाध्याये कर्मक्षयपादे च साधनमेवोच्यते तर्ह्य
ध्यायपादानामर्थव्यवस्थाऽभावः स्यादित्यत आह—प्रायिकत्वाच्चेति ।
प्रथमश्चोऽप्यर्थः। द्वितीयस्समुच्चये । तथा चाध्यायपादेष्वर्थान्तरोक्ता
१९२ ब्रह्मसूत्रभाष्यम् [ अध्या - ४. पा - १. ]
ष्यते । प्रायिकत्वाच्चाध्यायानां पादानां च न विरोधः ।
( २ ) सू—ॐ ॥ आवृत्तिरसकृदुपदेशात् ॥ ॐ ॥ १ ॥
'आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्या-
सितव्यः' ( बृ. ४-४-५. ) इत्यादीनां नाग्निष्टोमादिव-
देकवारेणैव फलप्राप्तिः, किन्त्वावृत्तिः कर्तव्या । ' स
वपि न व्यवस्थाऽभावलक्षणविरोधो भवति। कुतः ? समन्वयाध्याया-
नां नामादिपादानां च 'प्रायिकत्वात्' प्राचुर्येण स्वस्वैकार्थप्रतिपाद-
कत्वादिति योजना । न चास्य पादस्य कर्मक्षये प्रायिकत्वानुपपत्तिः,
अधिकरणसप्तके साधनविचारात् फलस्य चैकस्मिन्नेवाधिकरणे वि-
चारादिति वा वाच्यम् । योऽर्थः प्रायेण कार्त्स्न्येन प्राधान्येन च यत्र
प्रतिपाद्यते सोऽध्यायादिस्तदर्थक इत्यस्यार्थस्यात्र विवक्षितत्वात् । त-
था च कर्मक्षयवत् साधनस्य कार्त्स्न्येन प्राधान्येन एतत्पादविचार्य-
त्वाभावान्नोक्तानुपपत्तिरिति भावः ॥
( २ ) तत्र सङ्गत्यादिजिज्ञासाजननाय सूत्रमेवादौ पठति—आवृ-
त्तिरिति ॥ सूत्रे आवृत्तिरिति प्रतिज्ञांशं कर्तव्येति पदाध्याहारेणावृत्ति-
पदसूचितपूर्वपक्षनिषेधपूर्वकं व्याचष्टे—आत्मेति । इत्यादीनामिति ।
इति श्रुत्या आदीर्यन्ते उपादीयन्ते वाच्यतयेति इत्यादीनि तेषामित्य-
र्थः । श्रवणादीनामिति शेषः । यद्वा—इत्यादिश्रुत्युक्तानां श्रवणादीना-
मित्यर्थः । अत्रादिशब्देनैतज्जातीयवाक्यान्तरं गृह्यते । प्राप्तिरिति प्रथ-
मा पञ्चम्यर्थे । यत इति शेषो वा । नेत्यावर्तते, इतीति च । अग्निष्टोमा-
दीत्यादिशब्देन दर्शपूर्णमासादिकं गृह्यते आवृत्तिरिति सावधारणमे-
तत् । एकेन वाक्येनावगतस्य तत्त्वस्य पुनः पुनस्तेन वाक्येन अन्येन
वा अवगतिः श्रवणावृत्तिः । युक्त्या मननावृत्तिरप्येवमेव । तथा च
'अग्निष्टोमादिवत्' यथा सकृदनुष्ठिताग्निष्टोमादेः स्वर्गफलसिद्धिरस्त-
था श्रवणादीनामपि 'एकवारेण' सकृदनुष्ठानेनैव 'फलप्राप्तेः' फल-
सिद्धेः 'आत्मा' इत्यादिश्रुत्युक्तानां श्रवणादीनां नावृत्तिरतोऽनावृत्तिरि-
ति पूर्वपक्षो न, किन्तु श्रवणादीनामावृत्तिरेव कर्तव्येति योजना । कुत
इत्यतोऽसकृदुपदेशादिति हेत्वंशं व्याचष्टे-स इति । इत्यादीति । इत्यादि-
रूपो योऽयमसकृदुपदेशः अनेकवारमुक्तिस्तस्मादित्यर्थः । आदिशब्देन
'स आत्मा तत्त्वमसि' (छा.६-८-७.) इति शिष्टवाक्यं गृह्यते । श्वेतकेतुं
प्रति उद्दालकवाक्यमेतत् । प्रकृतः परदेवताख्यो विष्णुः सारत्वात्सः।
[ अधि - १. सू - २. ] दीपिकासहितम्. ९९३
य एषोऽणिमैतदात्म्यमिदं सर्वम्' (छा. ६-८-७.)
इत्याद्यसकृदुपदेशात् ॥ १ ॥
( ३ ) सू— ॐ ॥ लिङ्गाच्च ॥ ॐ ॥ २ ॥
‘स तपोऽतप्यत.. पुनरेव वरुणं पितरमुपससार’
(तै. ३-१,२.) इत्याद्यावर्तनलिङ्गाच्च ।
नियमनात् ज्ञानरूपत्वाद्वा यः । सर्वस्येष्टत्वादविग्नसर्वेच्छारूपत्वाद्वा
एषः। सूक्ष्मज्ञानविषयत्वादतिसूक्ष्मपरिमाणत्वाद्वा अणिमा। 'इदं सर्वं'
जगत् 'ऐतदात्म्यं' एतत् सत् आत्मा स्वामी यस्य तत्तथोक्तम्। यद्वा-
एष चासावात्मा च तदात्मा विचित्रा हि तद्धितगतिरिति वचनात्, त
स्येशमित्यर्थे ष्यञ्प्रत्ययः तद्वशमित्यर्थः । तत्तत्वात् तत् परमानन्दत्व
तः साधुस्वरूपत्वाद्वा सत्यं साधनात् सः पूर्णगुणत्वादात्मा। तत्त्वं अ
तत् त्वमिति च पदच्छेदः। तथा च त्वं 'तत्त्वं' तत्त्वतः 'अतदसि' त
स्मादन्योऽसीति छन्दोगश्रुत्यर्थः । अनेनोद्दालकेन श्वेतकेतुं प्रति परत
त्त्वस्य 'असकृत्' नवकृत्वः 'उपदेशादुपदिष्टत्वात् ज्ञानार्थं श्रवणा
दीनामावृत्तिः एव कर्तव्या । श्रवणादेः सकृदेव कर्तव्यत्वे किमर्थमसा
वसकृदुपदिशेदिति भाव इति सूत्रार्थ उक्तो भवति ॥
( ३ ) हेत्वन्तरेण श्रवणाद्यावृत्तिं साधयत्सूत्रं पठित्वा व्याचष्टे—
लिङ्गाच्चेति ॥ आदिशब्देन 'अधीहि भगवो ब्रह्मेति । तꣳ होवाच । तप
सा ब्रह्म विजिज्ञासस्व। तपो ब्रह्मेति' (तै. ३ - २.) इत्यादिकं
गृह्यते । 'स तपः' इत्यतः प्रागपि 'तस्मा एतत्प्रोवाच । अन्नं
प्राणं चक्षुःश्रोत्रं मनो वाचमिति । तꣳहोवाच । यतो वा इमानि
भूतानि जायन्ते' (तै. ३ - १.) इत्यादिकमप्युदाहरणीयम् । इत्थं
हि तैत्तिरीये आख्यायिका—वरुणपुत्रो भृगुः ब्रह्माध्यापयेति पित
रमुपसादितवान् । अथ वरुणस्तस्मै भृगवे अन्नमयादिरूपाष्टकमुप
दिदेश । तेषां जगज्जन्मादिकारणत्वादिलक्षणान्यप्युवाच । एवं श्रुता
न्नादिरूपो भृगुः पुनःपुनस्तद्विषय एवापृच्छत । तथैव वरुणो
ऽप्युपदिदेश । एवमुपदिष्टस्स भृगुः 'तपः' आलोचनं 'अतप्यत' अ
करोत् । स तपस्तप्त्वा अन्नमयाख्यमनिरुद्धरूपं जगज्जन्मादिकर्तृत्वल
क्षणवत्तया साक्षात्कृतवान् । स भृगुरेकरूपं साक्षात्कृत्य द्वितीयमपि
साक्षात्कर्तुं गुर्वनुग्रहार्थं पुनरेव वरुणं पितरं 'उपससार' उपसादि
तवान् । हे 'भगवो' भगवन् प्राणमयाख्यं ब्रह्म साक्षात्कर्तुमिति शेषः।
१२५