पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
यथाकाममुपरमते' (तै.उ. २-८.) इति भोगमात्रस म्पलिङ्गात् । (४) अवृद्धिह्रासरूपत्वं मुक्तानां प्रायिकं भवेत् । कादाचित्कविशेषस्तु नैव तेषां निषिध्यते ॥ इति कौर्मे ॥ उक्तो भवति । कुतो नेत्यतस्तत्र नेत्यस्यावृत्त्या यतो न भोगविशेषा दिस्तद्वृद्ध्यादौ कारणमिति सूचितश्चशब्दसमुच्चितो हेतुरन्वेतव्यः । भोगविशेषादेर्वृद्ध्याद्यकारणत्वं कुतो ज्ञायत इत्यतस्तत्र 'एतमानन्द मयम्' इत्यारभ्य लिङ्गादित्यन्तो हेतुर्योज्यः । सायुज्यमुक्तः 'आनन्द मयं' आनन्दपूर्णमेतं परमात्मानं प्राविश्य पुनर्देहेतो न जायते न म्रिय ते गुणतो न हसते न वर्धते 'यथाकामं' यथेच्छं 'चरति' भक्षयति पिबति चेत्यर्थः । रमते उपरमत इत्याभ्यां भोगविशेषतदभावावुच्ये ते । इति श्रुतादिति शेषः । भोगमात्रेति हेतुवाक्यार्थः पूर्ववत् ॥ (४) ननु यदि भोगो न वृद्धिहेतुस्तर्हि व्यर्थोऽसौ किमिति मुक्तैः क्रियत इत्यतः क्रीडयेति परिहारे स्थिते मुक्ताविरिञ्चेतरमुक्तानां चश ब्दसूचितं विशेषं चाह—अवृद्धीति ॥ वृद्धिह्रासरहितज्ञानादिधर्मवत्त्व मित्यर्थः । 'मुक्तानां' विरिञ्चेतरमुक्तानाम् । यथोक्तमनुव्याख्याने— मुक्तानां तु तदन्येषां समुद्रतरलोपमा ॥ इति ॥ व्याख्यातं चैतत्सुधायाम्— ब्रह्मण इति विशिष्याभिधाने को हेतुरित्यत आह—मुक्तानां त्वि ति । विशेषबलेन वृद्धिह्रासवतीत्यर्थः । यथोक्तं—'अवृद्धिह्रासरूपत्वम्' इत्यादीति । अत्र मतिविवक्षया स्त्रीलिङ्गनिर्देशः । आदिशब्देन प्रवाह तो वचनं गृह्यते । भोगादिना तर्हि किञ्चिद्वृद्धिविरोध इत्यत आह— प्रायिकमिति । बाहुल्येन सार्वकालिकमित्यर्थः । प्रायिकमित्युक्तेः कृत्य माह—कादाचित्केति । विशेषो वृद्ध्यादिः । 'तेषां' विरिञ्चेतरमुक्ता नां 'नैव निषिध्यते' किन्त्वङ्गीक्रियत इत्यर्थः । अवृद्धिह्रासरूपत्वहान्या पादकत्वाभावादिति भावः। केचित्तु—मुक्तानामित्यस्य यथाभूत एवा र्थो न विरिञ्चेतरेषामिति । कादाचित्कविशेष इत्यादेस्तु मुक्तौ तत्त त्कालीनभोगबाहुल्येन आनन्दे कश्चिद्विशेषो नैव निषिध्यते इत्यर्थः। न चानुभाष्यविरोधः, ऽत्र तदन्येषामित्युक्तेरिति वाच्यम् । तत्र चतुर्मु खस्य सर्वज्ञत्वेन तज्ज्ञाने विशेषाभावस्योक्तत्वात् । यदा दक्षिणाना
:
व्य क्ति?
Let's read line 27 from the start:
त्र्यं लक्ष्यते क्वचित् ' इत्यस्य स्वेनानुभूयमानेषु विषयकृतानेकसौख्य
Wait! Is it सौख्य?
Wait, look at सौ: स with au-matra?
No, look at line 28:
क्तेषु -> wait, व्यक्तिषु!
If line 28 is क्तेषु, what ends line 27?
Could it be विषयकृतानेकव्यक्ति?
Look at line 27 end:
वि ष य कृ ता ने क then:
व्य क्ति!
Wait! Is it व्य?
It has a व and a य! That is व्य!
Then क्ति? No, the ि matra goes over... wait, look at line 28 first word:
क्तेषु!
Wait, could line 27 end with: वि ष य कृ ता ने क व्य?
And line 28 start with: क्तेषु?
व्यक्तिषु -> व्य at end of line 27, क्तिषु at start of line 28!
Wait, does line 28 have क्तिषु or क्तेषु?
Look at line 28:
Letter 1: `क्
११०८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] इति नारायणतन्त्रे ॥ २२ ॥ — * — ११. अधिकरणम् ॥ ( १ ) सू– ॐ ॥ अनावृत्तिश्शब्दादनावृत्तिश्शब्दात् ॥ ॐ ॥ २३ ॥ अथस्य कारणत्वोक्तेः प्रागुक्तो वृद्ध्यादौ कारणाभावहेतुरसिद्ध इति वाच्यम् । बहुतरवृद्ध्यादिकारण शून्यत्वादिति हेतोर्विशेषणात् । इ ति नारायणतन्त्रे विवक्षितार्थो विवृत इति शेषः ॥ १० ॥ ॥ इति स्थित्यधिकरणम् ॥ ११. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्म प्राप्यभोगान् भुञ्जानस्य मुक्तस्यापुनरा वृत्तिस्समर्थ्यते । अस्ति मुक्तस्य पुनरावृत्तिः । स्वर्गादिगतानां पुनरा वृत्तिदर्शनात् । न च स्वर्गादिगतानां युगमन्वन्तरादिमात्रवासित्वानु क्ता पुनरावृत्तिः, न तु मुक्तस्य, तस्य समस्तकालवासित्वादिति वा च्यम्
[ अधि - ११. सू - २३. ] दीपिकासहितम्. ११०९ ‘न च पुनरावर्त्तते न च पुनरावर्तते’ ( छा. ८-१५-१.) श्रुं व्याचष्टे—न चेति । छान्दोग्यश्रुतौ—‘ स खल्वेवं वर्तयन् यावदायुषं ब्रह्मलोकमभिसम्पद्यते’ (छा.८-१५-१.) इति पूर्ववाक्ये प्रकृतो मुक्तः ब्रह्मलोकं हित्वा पुनः ‘नावर्तते’ न संसृतिं प्राप्नोतीत्यर्थः । चशब्द एवार्थः । शब्दादित्येतत्प्रकारान्तरेण व्याचष्टे—सर्वानिति । ऐतरेये द्वितीयारण्यके ‘स एवं विद्वानस्माच्छरीरभेदादूर्ध्वमुत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान् कामानाप्त्वाऽमृतस्समभवत् समभवत्’ (ऐ.आ.२- ५-१-१५.) इति श्रूयते । अस्यायमर्थः—‘सः’ उपासक एवं विद्वान् ‘अ स्माच्छरीरभेदात’ शरीरसम्बन्धात् ‘ऊर्ध्वमुत्क्रम्य’ ब्रह्मनाड
१११० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] ' सर्वान् कामानाप्त्वाऽमृतः समभवत्समभवत् ' ( पै. आ. २-५-१-१५.) इत्यादिश्रुतिभ्यः ॥ २३ ॥ ( २ ) ज्ञानानन्दादिभिः सर्वैर्गुणैः पूर्णाय विष्णवे । नमोऽस्तु गुरवे नित्यं सर्वथाऽतिप्रियाय मे ॥ र्माणः उत्क्रमणेन त्यक्तदेहाः अर्चिरादिपथा यथायोग्यस्थाने स्थिताः अण्डलयकाले स्वोत्तमान् प्रविष्टाः वैकुण्ठवासिनं हरिं प्राप्ताः हिरण्य गर्भेण सह विरजास्नानेन भिन्नलिङ्गशरीराः विध्वस्तप्रकृतयः अत्यन्त निवृत्तानिष्टा भवन्ति । ये तु मनुष्योत्तमाः निष्कामुकभगवदर्थश्रुत्या दिव्यिहितकार्यानुष्ठानेन शुद्धान्तःकरणाः प्रक्षीणरागादिदोषाः सञ्जा तभगवद्भक्तिमन्तः श्रवणमनननिदिध्यासनाभ्यासवन्तः परमभागव ताः स्वयोग्यभगवदपरोक्षानन्तरं अत्यन्तनिवृत्तानिष्टसञ्चितकर्माणः आगामिदुष्कर्मलेपविधुरा यावत्प्रारब्धं भागवतधर्मनिष्ठाः उत्तरायण मार्गेण त्यक्तदेहाः भगवल्लोकगमनार्थमर्चिरादिपथा महरादिलोके स मासीनाः लयकाले स्वोत्तमप्रवेशेनोर्ध्वं गताः ब्रह्माण्डलयान्तरं लि ङ्गशरीरभङ्गकाले उपस्थिते सुषुम्नामार्गेण त्यक्तान्यदेहाः हिरण्यगर्भे ण सह विरजास्नानेन भिन्नलिङ्गशरीराः प्रध्वस्तस्वगुणाच्छादिकाः विध्वस्तप्रकृतयः अत्यन्तवृत्तानिष्टा भवन्ति । ये त्वत्यल्पाः मानुषाः स्थावराद्यश्च एकगुणोपासकाः कार्यब्रह्मकालान्त्यभागे स्वस्वयोग्या वतारापरोक्षिणः उत्क्रमणार्चिरादिमार्गरहिताः प्रभुक्तोत्यल्पप्रारब्धक र्माणः अण्डलयकाले स्वोत्तमप्रवेशेनोर्ध्वं गताः ब्रह्मणा सह त्यक्तलि ङ्गशरीराः विध्वस्तप्रकृतयोऽत्यन्तवृत्तानिष्टाः भवन्ति । ते सर्वेऽपि महाप्रलये भगवदुदरे स्थित्वा पुनस्सृष्टौ भगवल्लोकाविर्भावे श्वेतद्वी पगतभगवद्दर्शनेनापगतभगवदिच्छावरकाः सम्यगाविर्भूतज्ञानानन्दा दिगुणाः वासुदेवपरिक्लृप्तस्वस्वयोग्यस्थानेषु स्थिताः भगवन्तमुपा सीनाः सायुजः भगवद्देहे बहिश्च अन्ये बहिरेव स्वरूपदेहेन लीलागृही तविग्रहैर्वा सङ्कल्पमात्रसाध्यान् दिव्यान् भोगान् तारतम्येन भुञ्जानाः न कदाचित्पुनरावर्तन्त इति ॥ ( २ ) अथायं भाष्यकारो यं गुणगणार्णवतया आदौ प्रतिपादित वान् । यच्छिष्यतया चैतादृशीमतिविशदां संविदं लब्धवान् । यस्मि न् श्वात्मनो निरुपाधिकप्रीतिस्तमेव देवतात्वेन गुरुत्वेन चान्तेऽपि न मति--ज्ञानेति ॥ गुणैरित्यस्य विवरणं—सर्वैरिति । अनेन नम्यताप्र
[ अधि - ११. सू - २३. ] दीपिकासहितम्. ११११ (३) यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बद् तद्दर्शितमित्थमेव निहितं देवस्य भर्गो महत् । योजकं विशिष्टत्वमुक्तं भवति । गुरुं इति निमित्तान्तरोक्तिः । 'स र्वथा' सर्वस्मात्सर्वप्रकारेण 'अतिप्रियो' निरुपाधिकप्रियः । अनेनेष्टत्व म्, ब्रह्मशब्दसमानार्थक विष्णुशब्दप्रयोगेन ब्रह्मविचारात्मकशास्त्राधि कृतत्वम्, सूत्रसङ्ख्या चोक्ता भवति ॥ (३) अथ स्वभाषितभाष्यस्याभिमूलत्वसमर्थनाय श्रुतिप्रसिद्धं स्व स्य परमाप्तत्वं दर्शयन्नाह- यस्येति ॥ यद्वा - मुमुक्षोर्भगवज्ज्ञानस्येव स्वज्ञानस्याप्यपेक्षितत्वात्स्वस्वरूपं ख्यापयन् स्वकृतिं भगवति समर्प यति-यस्येति । 'यस्य' वायोः वायुनामकस्य देवस्य 'बळित्था' इ त्यादिवेदवचनेऽलं 'दिव्यानि' क्रीडादिगुणयुक्तानि अत्यन्तप्रकाशव न्ति स्तुत्यानि देवसेव्यानि च त्रीणि रूपाणि उदितानि, तस्य यत्तृतीयं रूपं तेनेदं श्रीमद्ब्रह्मसूत्रभाष्यं 'हरौ' हरिविषयतया कृतमित्यन्वयः । 'हि' प्रसिद्धौ । तत्त्वप्रदीपे तु 'मध्वो यत्तु तृतीयमेतदमुना भाष्यं कृ तं केशवे' इति पठित्वा 'यस्य त्रीणि' इति श्लोकानन्तरं 'ज्ञानान न्दादिभिः' इति श्लोकोऽवतारितः । कीदृशं चास्य मूलं, किं च स्वरू पं, कानि च त्रीणि रूपाणि कीदृशानि च, तत्राह- अलमिति । तस्य वायोः 'तत्' मूलरूपं 'बद्' बलात्मकं 'दर्शितं' ज्ञानरूपं ज्ञानात्मकं ततमिति वा । अनेन केन निमित्तेन तन्मूलं वायुनामकमिति प्रश्नस्या प्युत्तरमदायि । वशब्दस्य बलवाचित्वात् अयतेर्ज्ञानार्थत्वात् । तन्मूलं 'भर्गः' सकारान्तोऽयं शब्दः । जगद्धरणगमनगुणं 'महत्' महनीयं च । मूलरूपादवताररूपस्येन्द्रार्जुनादेरिव गुणवैषम्यं न मन्तव्यमित्या ह-इत्थमेवेति । यदुक्तगुणं तन्मूलरूपं यद्गुणं तद्गुणकमेवावतारा यापि भगवता 'निहितं' प्रेरितमवतीर्णं चेत्यर्थः । त्रयाणामपि रूपा णां सव्यापारं नामान्याह-रामेत्यादिना । 'प्रथमकं' प्रथमं वपुः हनु मदाख्यं 'रामवचोनयं' रामवचांसि सीतां प्रति नीतवत् । रामाविष यवचांसि मूलरामायणरूपाणि शिष्येषु नीतवद्वा । रामस्य वचसि यो नयो न्यायः आज्ञारूपः तद्युक्तं वा । तथात्वे बहुव्रीहिः । द्वितीयं व पुः भीमनामकं कुरुपृतनाक्षयकारित्वात्पृक्षः । यत्तु तृतीयकं 'तन्मध्वः' मध्वनामकमानन्दरूपस्य हरेः प्रतिपादकशास्त्रकृत्त्वात् । आनन्दस न्धायिसुशास्त्रनिर्मातृत्वाद्वा ।
१११२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयकं कृतमिदं भाष्यं हरौ तेन हि ॥ नित्यानन्दो हरिः पूर्णो नित्यदा प्रीयतां मम । नमस्तस्मै नमस्तस्मै नमस्तस्मै च विष्णवे ॥ —:※:— इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्र भाष्ये चतुर्थाध्यायस्य चतुर्थः पादः. ॥ चतुर्थाध्यायस्समाप्तः ॥ —— ॥ ॐ ॥ ॥ श्रीमद्ब्रह्मसूत्रभाष्यं ॥ ॥ सम्पूर्णम् ॥ यथोक्तम् — मध्वित्यानन्द उद्दिष्टो वेति तीर्थमुदाहृतम् ॥ इति ॥ अतः परमाप्तप्रणीतत्वादिदं भाष्यं सकलैस्सुजनैरादरेणाङ्गीकार्य मिति भावः ॥ ११ ॥ ॥ इति अनावृत्यधिकरणम् ॥ —:❖:— भाष्यान्ते 'नित्यानन्द' इति श्लोकान्तरं क्वचित्पठ्यते । तस्येत्थं गमनिका—भक्त्यतिशयात्पौनःपुन्येन प्रीतिप्रार्थनपूर्वकं विष्णुं नमति- नित्येति । नित्यानन्दो देशकालगुणैः 'पूर्णः' अपरिच्छिन्नो हरिः 'नि- त्यदा' सर्वदा मम प्रीयताम् । तस्मै विष्णवे मम नमश्चास्त्वित्यन्वयः॥ —··—
[ अधि - ११. सू - २३. ] दीपिकासहितम्. १११३ कुशाग्रबोधैर्जयतीर्थपादैः कृतामहं व्याकृषि सूत्रभाष्यम् । टीकां तथाऽऽर्योर्वचोऽनुसृत्य ततोऽनुधर्तुं भवेन्ममागः ॥ मन्मानसाम्बुजस्थेन हरिणा कृतयाऽञ्जसा । भाष्यदीपिकया कृष्णः प्रीयतां कमलाकरः ॥ —-::—-— इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना- थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपि- कायां चतुर्थाध्यायस्य चतुर्थः पादः • ॥ चतुर्थाध्यायस्समाप्तः ॥ —::— ॥ ॐ ॥ ॥ श्रीमद्ब्रह्मसूत्रभाष्यदीपिका ॥ ॥ सम्पूर्णा ॥ १४०
इस पृष्ठ पर कोई पाठ (टेक्स्ट) उपलब्ध नहीं है; यह एक रिक्त (blank) पृष्ठ है।
॥ प्रथमः परिशिष्टः ॥ ───:✤:─── ॥ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतात् भाष्यात् ॥ ॥ प्रतीयमानः सिद्धान्तः ॥ ───:✤:─── ( १ ) प्र ॥ जगत्कारणं किम् ? उ ॥ विष्णुः, स एव परं ब्रह्म ॥ १-१-२. ( २ ) प्र ॥ विष्णुरिति कथं ज्ञातव्यम् ? उ ॥ शास्त्रात् ॥ १-१-३. ( ३ ) प्र ॥ कानि शास्त्राणि प्रमाणानि ? उ ॥ सर्वे वेदाः भारतं पञ्चरात्रं मूलरामायणं एतानि शा- स्त्राणि, तेषां अनुकूलानि इतरशास्त्राणि च प्रमाणा- नि, नेतराणि ॥ १-१-३. ( ४ ) प्र ॥ अन्यशास्त्राणि केन रचितानि, कस्मात् तान्यप्रमाणा- नि ? उ ॥ अयोग्यजीवानां मोहनार्थं विष्णोराज्ञया तानि शास्त्रा- णि रुद्रेण कृतानि कारितानि च ॥ १-१-१०. ( ५ ) प्र ॥ वेदे अनेकपरस्परविरोधाः सन्ति, एकत्र आकाशः ज- गत्कारणमिति उक्तं, अन्यत्र परमात्मेति । एकत्र पृथिवी वीस्वर्गाद्याधारः रुद्र इति, अन्यत्र विष्णुरिति उक्तम् । इत्यादिपरस्परविरोधाः बहवः सन्ति, एतादृशवेदः कथं प्रमाणमिति अङ्गीकर्तव्यः ? उ ॥ यद्यपि वेदे आपाततः परस्परं विरोधाः प्रतीयन्ते, त- थाऽपि पूर्वापरवाक्यपर्यालोचनया उपक्रमोपसंहारा- दिभिः विमर्शे कृते सति वेदे एकवाक्यता सिध्यति । युष्माभिः उक्ताः आकाशरुद्रादिशब्दाः विष्णुपराः ने- तरपराः, मुख्यवृत्त्या सर्वे शब्दाः परमात्मवाचकाः, य-
१११६ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् । त्र मुख्यार्थग्रहणे बाधकं नास्ति तत्र मुख्यार्थ एव ग्रा- ह्यः यत्र मुख्यार्थग्रहणे बाधकं तत्र अमुख्यार्थग्रहणं युक्तम् ॥ १-१-१०, १-१-४, १-३-३, १-४-२, १-१-६, २-१-१३. ( ६ ) प्र ॥ विष्णुः जगत्कारणमिति भवद्भिः उक्तं, सृष्टेः पूर्वं जी- वाः सन्ति वा न वा ? उ ॥ सृष्टेः पूर्वं जीवाः सन्त्येव, यथा परमात्मा अनादिः त- था जीवा अपि अनादयः, जीवानां बाह्यदेहसम्बन्धः प- रमात्मना भवति, सैव जीवसृष्टिः ॥ २-३-१८, २-३-१९, २-३-३०. ( ७ ) प्र ॥ स्वप्नादिषु दृष्टद्रव्याण्यपि परमात्मना सृष्टानि वा, मा- याकल्पितानि वा ? उ ॥ तान्यपि परमात्मना सृष्टानि न मायाकल्पितानि तेषां सृष्टिः विनाशश्च परमात्मना भवति ॥ ३-२-१, ३-२-५. ( ८ ) प्र ॥ तथा सति स्वप्नप्रतीताः यथार्था वा ? उ ॥ स्वप्नदृष्टपदार्थाः सत्या एव, तथाऽपि जाग्रति दृष्टपदा- र्थ एव अयमिति यत् ज्ञानं तत् भ्रमात्मकम् ॥ ३-२-१, ३-२-३. ( ९ ) प्र ॥ सृष्ट्या परमात्मनः किं प्रयोजनम् ? उ ॥ प्रयोजनं नास्ति, लोके आनन्दोद्रेकवतः पुरुषस्य नृत्त- गानादिवत् प्रयोजनानपेक्षयैव सृष्टिः ॥ २ - १ - ३३, २-१-३४. ( १० ) प्र ॥ जीवाः परमात्मनः अत्यन्तभिन्ना वा ? उ ॥ जीवाः परमात्मनः अत्यन्तभिन्नाः ॥ २-३-२८, २-३-४३, ३-२-१८, २-१-१४. ( ११ ) प्र ॥ जीवः अणुर्वा व्यापी वा ? उ ॥ जीवः अणुरेव । सः हृदये वर्तते । तथाऽपि यथा चन्द
प्रतीयमान सिद्धान्तः ॥ १११७ नं एकस्थले वर्तमानमपि अन्यत्र अंशेन व्यापकं भव ति, यथा दीपः एकत्र विद्यमानोऽपि प्रकाशगुणेन व्याप को भवति तथा जीवः अंशेन वा गुणेन वा देहे सर्वत्र व्यापी भवति ॥ २-३-२०, २-३-२४, २-३-२५, २-३-२६. ( १२ ) प्र ॥ जीवस्य स्वरूपं कीदृशम् ? उ ॥ त्रिविधं, मुक्तियोग्यानां ज्ञानानन्दस्वरूपं, तमोयोग्या नां अज्ञानदुःखस्वरूपं, नित्यसंसारिणां मिश्रस्वरूपम्॥ २-३-३२. ( १३ ) प्र ॥ एवं सति त्रिविधानां विपरीतानुभवः कथं संभवति ? उ ॥ स्वरूपं अविद्यया आवृतं, अतः अन्यथाऽनुभवः औपा धिकः ॥ २-३-३२. ( १४ ) प्र ॥ जीवाः भगवदधीना वा स्वतन्त्रा वा ? उ ॥ परमात्माधीना एव, तथाऽपि तेषां किञ्चित् भगवद्दत्त स्वातन्त्र्यं अस्ति, तथा न चेत् शास्त्रस्य निष्प्रयोजन त्वं स्यात् खलु ॥ २-३-३३, २-३-४१, २-३-४२. ( १५ ) प्र ॥ जीवानां भूतसम्बन्धः देहान्ते निवर्तते वा न वा ? उ ॥ न निवर्तते, जीवाः कर्मानुसारेण भूयोभूयः जन्मान्तरं प्राप्नुवन्ति ॥ ३-१-१, ३-१-८. ( १६ ) प्र ॥ जीवानां जन्मान्तरादिक्लेशात् कथं मुक्तिः ? उ ॥ परमात्मानुग्रहजन्यतदपरोक्षेण मोक्षः सम्भवति ॥ ३-२-२३, ३-२-२७, ३-३-४८, ३-३-४९, ३-३-५४. ( १७ ) प्र ॥ परमात्मानुग्रहः कथं सम्भवति ? उ ॥ श्रवणमननादिभिः हरिगुरुभक्तिशमदमादिभिः सम्भ वति ॥ ( १८ ) प्र ॥ कर्मणः प्रयोजनं नास्ति किम् ? उ ॥ अस्ति, कर्म द्विविधं काम्यं अकाम्यं इति, काम्यकर्म
११९८ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् । ऐहिकफलं ददाति, अकाम्यकर्म अपरोक्षात् पूर्वभा वि चेत् ज्ञानसाधनं भवति, उत्तरभावि चेत् मोक्षे अ तिशयं ददाति ॥ ३-१-७. (१९) प्र ॥ स्वर्गादिफलं केन भवति ? उ ॥ देवाद्यंशानां ज्ञानेनैव सर्वफलं भवति, कर्मणा अतिश यः, इतरेषां तु मोक्षेतरदृष्टादृष्टफलं कर्मणा भवति, ज्ञा नेन अतिशयः ॥ ३-४-१, ३-४-९. (२०) प्र ॥ वेदाधिकारिणः के ? उ ॥ त्रिवर्णानां मध्ये ये विष्णुभक्ताः गुरुभक्ताः शमदमादि मन्तः त एव वेदाधिकारिणः ॥ ३-४-१२. (२१) प्र ॥ शूद्राणां वेदविद्याधिकारः नास्ति वा ? उ ॥ पूर्वजन्मनि प्राप्तापरोक्षज्ञानव्यतिरिक्तशूद्राणां वेदवि द्याधिकारो नास्ति ॥ १-३-३८. (२२) प्र ॥ सर्वे वेदाधिकारिणः अपरोक्षयोग्याः किम् ? उ ॥ न, केचित् जीवा एव स्वभावेन योग्याः तेषां एव भग वदपरोक्षं भवति, केचित् जीवाः नित्यसंसारिणः के चित् जीवाः स्वभावेन तमोयोग्याः । तेषां अपरोक्षं क दाऽपि न भवति । सर्वे जीवाः योग्यताऽनुसारेण कर्म कुर्वन्ति, सम्यग्ज्ञानं वा विपरीतज्ञानं वा प्राप्नुवन्ति, तदनुसारेण फलं अनुभवन्ति । श्रवणमननादिषु यत्न वतामपि अयोग्यानां जीवानां ज्ञानं कदाऽपि न सम्भव ति, तेषां नित्यनरकस्यैव प्राप्तिः, नित्यसंसारिणां नित्यं संसार एव स्थितिः ॥ ३-४-३४, ३-४-३५, ३-४-३६, ३-४-३७, ३-४-३८, ३-४-४०. (२३) प्र ॥ वेदाध्ययनाधिकाराभावे केवलशूद्रादीनां ज्ञानं कथं सम्भवति ? उ ॥ भारतादिपुराणश्रवणादिषु तेषां अधिकारः, तच्छ्रवणा दिना अपरोक्षज्ञानं सम्भवति, अतः मोक्षः ॥ १-१-१०.
प्रतीयमानसिद्धान्तः ॥ (२४) प्र ॥ स्त्रीणां वेदाधिकारः अस्ति वा न वा ? नास्ति चेत् तासां ज्ञानं कथम् ? उ ॥ देवऋष्यादिस्त्रीणां वेदाधिकारो वर्तते, इतरासां वेदा- धिकारो नास्ति, तासां शूद्रवत् पुराणश्रवणादिना ज्ञा- नं. अतः मोक्षः ॥ १-१-१०. (२५) प्र ॥ भगवदपरोक्षात् मोक्ष इति भवद्भिः उक्तम्, रामकृष्णा- द्यवतारकाले अनेकजनानां भगवदपरोक्षं आसीत्खलु. तेषां सर्वेषां मोक्षः अस्ति किम् ? उ ॥ तेषां उत्तमलोकप्राप्तिरेव, न मोक्षः, हृदयस्थबिम्बद- र्शनादेव मुक्तिर्भवति ॥ ३-३-५३. (२६) प्र ॥ भगवदपरोक्षात्परं ज्ञानिनां यथेच्छानुचरणं युक्तं वा ? उ ॥ भगवदपरोक्षानन्तरं दुष्कर्मणा मोक्षहानिः नास्ति, कि- न्तु आनन्दहासः भवति, सत्कर्मानुष्ठानेन मोक्षे फला- तिशयो भवति, तस्मात् स्वेच्छया सत्कर्मानुष्ठानमेव कर्तव्यम् ॥ ३-४-१९, ३-४-३३. (२७) प्र ॥ सत्कर्मानुष्ठानं कर्तव्यं इति भवद्भिः उक्तं तत्कर्म इच्छा- नुसारेण कर्तव्यं वा विध्यनुसारेण वा ? उ ॥ मनुष्याः विधिप्रकारेणैव कर्म कुर्युः, देवाः अनुष्ठेयक- र्ममध्ये यत्कर्मणि इच्छा, तत्कर्म कुर्युः, विरिञ्चस्तु इ- च्छानुसारेण कर्म कुर्यात् तस्य इच्छैव विधिः ॥ ३-४-२२, ३-४-२३, ३-४-२४. (२८) प्र ॥ मोक्षः कीदृशः ? उ ॥ भूतबन्धनिवृत्तिरेव मोक्षः ॥ ३-१-१०. (२९) प्र ॥ मोक्षे फलतारतम्यं अस्ति वा ? उ ॥ अस्ति, मोक्षे जीवानां योग्यताऽनुसारेण आनन्दः ॥ ३-३-३३.
११९० ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् । ( ३० ) प्र ॥ अपरोक्षानन्तरं तत्क्षणमेव विष्णुलोकप्राप्तिः भवति वा ? उ ॥ प्रारब्धकर्मप्रतिबन्धाभावे शरीरपातानन्तरं मुक्तिः, त- द्भावे तत्फलभोगानन्तरमेव ॥ ३-४-५१. ( ३१ ) प्र ॥ प्रारब्धकर्मसद्भावे अपरोक्षः कथं भवति ? उ ॥ अपरोक्षप्रतिबन्धकप्रारब्धकर्मसद्भावे अपरोक्षः न भ- वति, प्रतिबन्धककर्माभावे अपरोक्षो भवति ॥ ३-४-५०. ( ३२ ) प्र ॥ अपरोक्षानन्तरं पूर्वकृतं अप्रारब्धकाम्यकर्म कुत्र गच्छ- ति ? उ ॥ तत् पुण्यकर्म सुहृदं प्राप्नोति, पापकर्म द्वेषिणं प्राप्नो- ति ॥ ४-१-१७. ( ३३ ) प्र ॥ जीवाः केन मार्गेण विष्णुलोकं गच्छन्ति ? उ ॥ वक्ष्यमाणदेवतादिव्यतिरिक्तज्ञानिनः देहान्ते अर्चिरा- दिमार्गेण आतिवाहिकवायुलोकं प्राप्य तस्मात् तडिल्लो- कं ततः वायुलोकं प्राप्नुवन्ति, ततः विरिञ्चिन सह वि- ष्णुलोकं गच्छन्ति । देवताः शतऋषयः शतगन्धर्वाः शतं राजानः स्वोत्तमदेहे निलिय परम्परया उत्तमोत्त- मद्वारेण परमात्मानं प्राप्नुवन्ति ॥ ४-३-१, ४-३-५, ४-३-१०, ४-३-१५, ४-२-१, ४-२-२, ४-२-३, ४-२-४, ४-२-६, ४-२-१५. ( ३४ ) प्र ॥ मुक्ताः विष्णुलोकं प्रविश्य किं कुर्वन्ति ? उ ॥ विष्णुलोकं प्रविश्य तत्र वा विष्णोरनुज्ञया तदितर- लोकेषु वा योग्यताऽनुसारेण सालोक्यं वा सारूप्यं वा सामीप्यं वा सायुज्यं वा प्राप्तास्सन्तः, स्वसंक- ल्पानुसारेण सृष्ट्यादिव्यतिरिक्तसर्वकामान् चिद्रूपेण वा शुद्धसत्त्वरूपेण वा देहेन भुञ्जते, सायुज्यभाजस्तु परब्रह्मदेहेनापि स्वयोग्यभोगान् भुञ्जते, तेषां सर्वेषां पुनरावृत्तिर्नास्ति ॥ ४-४-५, ४-४-६, ४-४-८, ४-४-११, ४-४-१२, ४-४-१४, ४-४-१७, ४-४-१९, ४-४-२३. ( ३५ ) प्र ॥ कर्मिणां देहान्ते का गतिः ?
प्रतीयमानसिद्धान्तः ॥ ११२१ उ ॥ पुण्यकर्म्मिणः धूमादिमार्गेण चन्द्रलोकं प्राप्य तत्र भोगा न् भुक्त्वा शेषेण कर्मणा इमं लोकं आयान्ति । पापक र्म्मिणः तिर्यग्जन्म वा नरकं वा प्राप्नुवन्ति, तत्र दुःखं अनु भूय के चित् जीवाः पुनरपि मनुष्यजन्म प्राप्नुवन्ति, के चित् जीवाः तमसि अवरोहन्ति ॥ ३-१-८, ३-१-९, ३-१-१८, ३-१-१४. ( ३६ ) प्र ॥ नरके भेदः अस्ति किम् ? उ ॥ अस्ति, नरकाणि सप्त, द्वे नित्ये, पञ्च अनित्यानि, नि त्यनरके पतितस्य आरोहणं नास्ति ॥ ३-१-१६, ३-१-१४. ( ३७ ) प्र ॥ मोक्षदातुः विष्णोः लक्षणानि ज्ञातुं इच्छामि ? उ ॥ विष्णुः आनन्दपूर्णः ॥ १-१-१३. ( २ ) सर्वान्तर्यामी ॥ १-१-१८. ( ३ ) पृथिवीस्वर्गाद्याधारः ॥ १-३-१. ( ४ ) अदृश्यः ॥ १-२-२१. ( ५ ) प्राकृतरूपरहितः ॥ ३-२-१४. ( ६ ) गुणगुणिभेदरहितः ॥ ३-२-२८. ( ७ ) अवयवावयविभेदरहितः ॥ १-१-१५. ( ८ ) ज्ञानानन्दाद्यात्मकशरीरवान् ॥ २-२-४१. ( ९ ) सर्वपालकः ॥ ३-२-२२. ( १० ) सृष्टिसंहारकर्ता ॥ १-१-२. ( ११ ) अव्यक्तः ॥ ३-२-२३. ( १२ ) मुक्तप्राप्यः ॥ १-३-२. ( १३ ) सर्वगतः ॥ १-२-१०. ( १४ ) सर्वशब्दवाच्यः ॥ १-४-१०, १-४-११. ( १५ ) युक्तिविरुद्धाविरुद्धचिन्त्याचिन्त्यसर्वगुणोपेतः ॥ २- १-३८. ( ३८ ) प्र ॥ विष्णुः अदृश्यश्चेत् उपासकानां कथं तस्य साक्षात्का रः भवति ? उ ॥ अदृश्योऽपि स्वप्रसादात् उपासकानां व्यक्तः भवति ॥ ३-२-२७. १४१
॥१२२ ब्रह्मसूत्राणां भगवता मध्वाचार्येण कृतभाष्यात् ॥ (३९) प्र ॥ परमात्मा अवाच्य इति वेदे उक्तं खलु तस्य गुणाः क- थं वर्णनीयाः ? उ ॥ परमात्मा साकल्येन अवाच्योपि यत्किञ्चिद्रूपेण वाच्य एव ॥ १-१-५. (४०) प्र ॥ विष्णोः गुणाः अनन्ताः खलु, तस्य गुणोपासना कथम्? उ ॥ विष्णुः सत्यं ज्ञानं आनन्दं ब्रह्म इति चतुर्गुणैः मानुषैः उपसंहारः कर्तव्यः देवैः योग्यताऽनुसारेण एककाले यावन्तो गुणाः स्फुरन्ति तावद्गुणैः उपसंहारः कर्तव्यः। विरिञ्चस्तु सर्वगुणैः उपासनां कर्तुं योग्यः। सर्वैरपि परमात्मा मम स्वामी इति उपासना कार्या ॥ ४-१-३, ३-३-१०, ३-३-१२, ३-३-१४, ३-३-१८. (४१) प्र ॥ अधिकगुणोपासनेन किं प्रयोजनं ? उ ॥ अधिकफलं भवति ॥ ३-३-११. (४२) प्र ॥ मोक्षानन्तरमपि जीवानां उपासना अस्ति किम् ? उ ॥ मोक्षे मुक्ताः स्वेच्छया उपासनां कुर्वन्ति, न बद्धतया ॥ ३-३-२९, ४-१-१२. (४३) प्र ॥ लक्ष्मीः नित्यमुक्ता खलु तस्या अपि उपासना अस्ति किम् ? उ ॥ साऽपि भक्तिविशेषात् स्वेच्छया उपासनां करोति ॥ ३-३-४१. (४४) प्र ॥ स्वयोग्यबिम्बरूपव्यतिरिक्तरूपाणि उपास्यानि किम् ? उ ॥ अमुमुक्षुभिः काम्यार्थे उपास्यानि । मुमुक्षुभिः मोक्ष प्रतिबन्धकदुरितादिनिवारणार्थे उपास्यानि ॥ ३-३-६२, ३-३-६१. —:*:—
॥ द्वितीयः परिशिष्टः ॥ —::— ॥ शंकरभगवत्पादभाष्यानुसारी सिद्धान्तः ॥ —::— ( १ ) प्र ॥ किं ब्रह्म ? उ ॥ यतः सर्वज्ञात् सर्वशक्तेः कारणात् जगतः जन्मस्थिति भङ्गं भवति तत् नित्यशुद्धबुद्धमुक्तस्वभावं ब्रह्म ॥ १- १ - २ ० ( २ ) प्र ॥ ब्रह्म नित्यशुद्धतया निर्गुणं चेत् तथाविधस्य ब्रह्मणः सर्वज्ञत्वं सर्वशक्तित्वं च कथम् ? उ ॥ ब्रह्मणो निर्गुणस्यापि सर्वज्ञत्वं सर्वशक्तित्वं चाविद्या त्मकोपाधिपरिच्छेदापेक्षं न परमार्थतः ॥ २-१-१४. ( ३ ) प्र ॥ अविद्या सत्पदार्थो वा असत्पदार्थो वा ? उ ॥ सती असती इति वक्तुं न शक्यते ? अविद्या सर्वज्ञस्य ईश्वरस्य माया शक्तिः प्रकृतिः इति श्रुतिस्मृतिषु उच्य ते ॥ २-१-१४. ( ४ ) प्र ॥ ब्रह्म जगतः कारणं चेत्, किं उपादानकारणं किं वा नि मित्तकारणम् ? उ ॥ जगतः उपादानकारणं निमित्तकारणं च ब्रह्मैव ॥ १-४-२३, ( ५ ) प्र ॥ ब्रह्म जगतः उपादानकारणं चेत् ब्रह्म एकदेशेन परिण मते किम् ? उ ॥ ब्रह्म अखण्डं तस्य एकदेशः परिणमते इति वक्तुं न श क्यते ॥ २-१-२७. ( ६ ) प्र ॥ ब्रह्म विशिष्टं परिणमते किम् ? उ ॥ न ॥ २-१-२७. ( ७ ) प्र ॥ खण्डेन वा अखण्डरूपेण वा परिणामाभावे ब्रह्मणः उ पादानकारणत्वं कथम् ?
११२४ द्वितीयःपरिशिष्टः ॥ उ ॥ उपादानकारणं द्विविधं परिणाम्युपादानं विवर्तोपा- दानं चेति, ब्रह्म विवर्तोपादानकारणं न परिणाम्युपादा- नकारणम् ॥ २-१-२७. ( ८ ) प्र ॥ विवर्तोपादानकारणं कीदृशम् ? उ ॥ रज्जौ सर्पभ्रमे रज्जुः सर्पस्य कारणं इति यत् तादृशं विवर्तोपादानकारणम् ॥ ( ९ ) प्र ॥ सर्परज्जुदृष्टान्ते सर्पः यथा मिथ्या तथा जगदपि मिथ्या किम् ? उ ॥ मिथ्यैव, न सत्यं, तर्हि स्वप्नदृष्टकल्पितपदार्थ इव जगत् केवलं मिथ्या ? न, यत स्वप्ने दृष्टं तत् स्मृतमात्रं यत् जा- गरे दृष्टं तत् उपलब्धं, अतः स्वप्नकाले दृष्टपदार्थ इव के- वलं मिथ्या न, ब्रह्म विना सत्पदार्थ एव नास्ति अतः ज- गत् सत्यमिति वक्तुमपि न शक्यते॥ २-२-२९, १-४-२३. ( १० ) प्र ॥ जगत् केवलं मिथ्या न केवलं सत्यं न इति चेत् किमि- ति मन्तव्यम् ? उ ॥ व्यवहारे सत्यं पारमार्थिकदशायां असत्यं इति मन्तव्यं स्वप्ने दृष्टपदार्थाः स्वप्नान्तपर्यन्तं यथा सत्याः तथा स- र्वं ब्रह्म इति ज्ञानात्पूर्वं जगत् सत्यं अनन्तरं मिथ्या इति मन्तव्यम् ॥ २-१-१४. ( ११ ) प्र ॥ ब्रह्मणः अन्यस्य वस्तुनः अभावे जगत् ब्रह्म कथं सृजति ? उ ॥ अविद्याकल्पिते प्रपञ्चस्य बीजभूते अनिर्वचनीये नामरू- पे स्तः ते ब्रह्म प्रकटीकरोति, तदेव सृष्टिः॥ २-१-१४, १-४-१५. ( १२ ) प्र ॥ नामरूपाभ्यां ईश्वरः अन्यो वा अनन्यो वा ? उ ॥ अन्यः ॥ २-१-१४. ( १३ ) प्र ॥ जगत्सृष्ट्या ब्रह्मणः किं प्रयोजनम् ? उ ॥ प्रयोजनं नास्ति लीलया सृष्टिं करोति ॥ २-१-३३.
द्वितीयः परिशिष्टः ॥ ११२६ (१४) प्र ॥ ब्रह्म कांश्चित् जनान् दुःखभाजः करोति कांश्चित् जना न् सुखभाजः करोति तस्य कारणं किम् ? उ ॥ जीवानां अनादिकर्म कारणम् ॥ २-१-३४, २-१-३५. (१५) प्र ॥ यः इदं इदमिति जानाति स जीवोऽपि जगदिव मिथ्या किम् ? उ ॥ न, जीवः ब्रह्मैव, तथाऽपि मायाकल्पितदेहेन्द्रियोपाधि वशात् तस्य भेदव्यपदेशः ॥ १-२-२०, १-४-२२. (१६) प्र ॥ ब्रह्मणः उपाधिः कथं आगतः ? उ ॥ उपाधिः अनादिः ॥ २-१-१४. १७) प्र ॥ जीवः ब्रह्मणः अभिन्नश्चेत् शास्त्रे विधिनिषेधयोः किं प्रयोजनम् ? उ ॥ यथा स्वप्नदृष्टपदार्थाः स्वप्नान्तपर्यन्तं सत्याः अनन्तरं मिथ्या, तथा यावत्पर्यन्तं अहमेव ब्रह्म इति ज्ञानं जीव स्य न सम्भवति तावत्पर्यन्तं जीवभेदादिकं सत्यं भेद सत्यताज्ञानात् तावत्पर्यन्तं जीवः शास्त्रोक्तप्रकारेण क र्म कुर्यात् एव । व्यवहारकाले विधिनिषेधयोः प्रयोज नं अस्ति ॥ २-३-४८, २-१-१४. (१८) प्र ॥ जीवानां देहसम्बन्धरूपसंसारात् मुक्तिः अस्ति वा ? उ ॥ अस्ति, अहं ब्रह्मैव इति ज्ञानं यदा सम्भवति तदा मु क्तिः ॥ १-१-१९, ३-३-३२, ४-३-१४. (१९) प्र ॥ कर्मणां प्रयोजनं नास्ति किम् ? उ ॥ प्रयोजनं अस्ति, कर्म परम्परया ज्ञानसाधकम् ॥ ४-१- १६, १८,३-४-२७. (२०) प्र ॥ ज्ञानानन्तरं पूर्वकृतं कर्म किं भवति ? उ ॥ सुकर्म सुहृदं प्राप्नोति, दुष्कर्म द्वेषिणं प्राप्नोति । प्रार