रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
| २१६ | रघुवंशमहाकाव्ये |
|---|
हविः शमीपल्लवलाजगन्धी ( शमीपल्लवमिश्राँल्लाजानग्निना धपति ) इति कात्यायनः । पुण्यो धूमः कृशानोः पावकादुदियायोद्भूतः । कपोलयोः संसर्पिणी प्रसरणशीला शिखा यस्य स तथोक्तः स धूमस्तस्या वध्वा मुहूर्तं कर्णोत्पलतां प्रपेदे ।
**भाषार्थ—**घी शमीपल्लव और लावों के गन्धवाला पवित्र धूआं अग्नि से निकलकर जब इन्दुमती के कपोल तक पहुँचा तब ऐसा मालूम पड़ा मानो इन्दुमती ने नीले कमल का कर्णफूल पहना हो ॥ २६ ॥
तदञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरम् ।
वधूमुखं पाटलगण्डलेखमाचारधूमग्रहणाद्वभूव ॥ २७ ॥
**अन्वयः—**तत् वधूमुखम् आचारधूमग्रहणात् अञ्जनक्लेदसमाकुलाक्षं प्रम्लानबीजाङ्कुरकर्णपूरं पाटलगण्डलेखं बभूव ।
तदिति । तद्वधूमुखमाचारेण प्राप्ताद्धूमग्रहणात् अञ्जनस्य क्लेदोऽञ्जनक्लेदः अञ्जनमिश्रबाष्पोदकमित्यर्थः । तेन समाकुलाक्षम् । प्रम्लानो बीजाङ्कुरो यवाङ्कुर एव कर्णपूरोऽवतंसो यस्य तत्पाटलगण्डलेखमरुणगण्डस्थलं च बभूव ।
**भाषार्थ—**उस वैवाहिक अग्नि का धूआं लगने से इन्दुमती की आँखों से आञ्जन मिला हुआ आंसू बहने लगा, कानों के कर्णभूषण कुम्हला गये, और गाल लाल हो गये ॥ २७ ॥
तौ स्नातकैर्बन्धुमता च राज्ञा पुरन्ध्रिभिश्च क्रमशः प्रयुक्तम् ।
कन्याकुमारौ कनकासनस्थावार्द्राक्षतारोपणमन्वभूताम् ॥ २८ ॥
**अन्वयः—**कनकासनस्थौ तौ कन्याकुमारौ स्नातकैः बन्धुमता राज्ञा च पुरंध्रिभिः च क्रमशः प्रयुक्तम् आर्द्रक्षतारोपणं अन्वभूताम् ।
ताविति । कनकासनस्थौ तौ कन्याकुमारौ स्नातकैर्गृहस्थविशेषैः कृतसमावर्तनैरित्यर्थः । 'स्नातकस्त्वप्लुतो व्रती' इत्यमरः । बन्धुपुरः सरेणेत्यर्थः । राज्ञा च पुरन्ध्रिभिः पतिपुत्रवतीभिनारीभिश्च क्रमशः प्रयुक्तं स्नातकादीनां पूर्वपूर्ववैशिष्ट्यात्क्रमेण कृतमार्दाक्षतानामारोपणमनुभूतवन्तौ ।
**भाषार्थ—**सुवर्ण के सिंहासन पर बैठे हुए उन इन्दुमती और अज दोनों के ऊपर स्नातक एवं बन्धुओं के साथ राजा भोज और पति पुत्रवती सौभाग्यवती स्त्रियों ने बारी-बारी से गीले अक्षत छोड़कर उन्हें आशीर्वाद दिया ॥ २८ ॥
इति स्वसुर्भोजकुलप्रदीपः संपाद्य पाणिग्रहणं स राजा ।
महीपतीनां पृथगर्हणार्थं समादिदेशाधिकृतानविधिज्ञः ॥ २९ ॥
सप्तमः सर्ग २१७
सप्तमः सर्ग २१७
**अन्वयः—**अधिश्रीः भोजकुलप्रदीपः सः राजा इति स्वसुः पाणिग्रहणं सम्पाद्य, महीपतीनां पृथक् अर्हणार्थं अधिकृतान् समादिदेश।
इतीति। अधिश्रीः अधिगता प्राप्ता श्रीः संपत्तिः येन सः अधिकसंपन्नो भोजकुलप्रदीपः स राजा इति स्वसुरिन्दुमत्यः पाणिग्रहणं विवाहं संपाद्य कारयित्वा महीपतीनां राज्ञां पृथगेकैकशोऽर्हणार्थं पूजार्थमधिकृतानधिकारिणः समादिदेशा-ज्ञापयामास।
**भाषार्थ—**इस प्रकार सम्पत्तिशाली भोज वंश के दीपक राजा ने अपनी बहन इन्दुमती का विवाह संस्कार समाप्त करके दूसरे राजाओं को पृथक्-पृथक् आदर सत्कार करने के लिए अपने अधिकारियों को आदेश दिया ॥ २९ ॥
लिङ्गैर्मुदः संवृतविक्रियास्ते ह्रदाः प्रसन्ना इव गूढनक्राः।
वैदर्भमामन्त्र्य ययुस्तदीयां प्रत्यर्प्य पूजामुपदाच्छलेन ॥ ३० ॥
**अन्वयः—**मुदः लिङ्गैः संवृतक्रियाः ते गूढनक्राः प्रसन्नाः ह्रदाः इव आमन्त्र्य तदीयां पूजां उपदाच्छलेन प्रत्यर्प्य ययुः।
लिङ्गैरिति। मुदः संतोषस्य लिङ्गैश्चिह्नः कपटहासादिभिः संवृतविक्रिया निगूहितमत्सराः अत एव प्रसन्नावहिर्निर्मला गूढनक्रा अन्तर्लीनग्राहा ह्रदा इव स्थितास्ते नृपा वैदर्भं भोजमामन्त्र्यापृच्छद्य तदीयां वैदर्भीयां पूजामुपदाच्छलेनोपा-यनभिषेण प्रत्यर्प्य ययुर्गंतवन्तः।
**भाषार्थ—**जिस प्रकार भयंकर जल जन्तुओं से युक्त होते हुए भी गंभीर सरोवर ऊपर से स्वच्छ जलवाले मालूम पड़ते हैं उसी तरह अन्दर द्वेष रखने वाले राजालोग अपने हृद्गत द्वेष हँसी आदि के कपट को छिपाकर बाहरी प्रसन्नता व्यक्त करते थे। वे सभी विदर्भ राज से आज्ञा लेकर और उनकी दी हुई सामग्री को भेंट के व्याज से पुनः उन्हें लौटाकर बिदा हुए ॥ ३० ॥
स राजलोकः कृतपूर्वसंविदारम्भसिद्धौ समयोपलभ्यम्।
आदास्यमानः प्रमदामिषं तदावृत्य पन्थानमजस्य तस्थौ ॥ ३१ ॥
**अन्वयः—**आरम्भसिद्धौ कृतपूर्वसंवित् सः राजलोकः समयोपलभ्यं तत् प्रमदामिषं आदास्यमानः (सन्) अजस्य पन्थानं आवृत्य तस्थौ।
स इति। आरम्भसिद्धौ कार्यसिद्धौ विषये पूर्वं कृता कृतपूर्वा। सुप्सेपेति समासः कृतपूर्वा संवित्संकेतो मार्गविरोधरूप उपायो स तथोक्तः। 'संविद्युद्धे प्रति-ज्ञायां संकेताचारनामसु' इति केशवः। स राजलोकः समयोपलभ्यमजप्रस्थानकाले लभ्यम् तदा,तस्यैकाकित्वादिति भावः। 'समरोपलब्धम्' इतिपाठे युद्धसाध्यमित्यर्थः
२१० रघुवंशमहाकाव्ये
तत्प्रमदैवामिषं भोग्यवस्तु 'आमिषं त्वस्त्रियां मांसे तथा स्याद्द्रोग्यवस्तुनि' इति केशवः । आदास्यमानो ग्रहीष्यमाणः सन्नजस्य पन्थानमावृत्यावरुध्य तस्थौ ।
भाषार्थ—उन राजाओं ने मिलकर पहले ही निश्चय कर लिया था कि जब अज इन्दुमती को लेकर चलें तब उन्हें घेर लिया जाय और उनसे इन्दुमती को छीन लिया जाय, इसलिए वे अज का मार्ग रोककर बीच में ही रुक गये थे ॥ ३१ ॥
भर्तापि तावत्क्रथकैशिकानामनुष्ठितानन्तरजाविवाहः ।
सत्त्वानुरूपाहरणीकृतश्रीः प्रास्थापयद्राघवमन्वगाच्च ॥ ३२ ॥
**अन्वयः—**अनुष्ठितानन्तरजाविवाहः क्रथकैशिकानां भर्ता अपि तावत् सत्त्वा-नुरूपाऽऽहरणीकृतश्रीः ( सन् ) राघवं प्रस्थापयत् ( स्वयम् ) अन्वगात् च ।
भर्तेति । अनुष्ठितः संपादितोऽनन्तरजाया अनुजाया विवाहो येन स तथोक्तः क्रथकैशिकानां देशानां भर्ता स्वामी भोजोऽपि तावत्तदा सत्त्वानुरूपमुत्साहानुरूपं यथा तथा आ समन्तात् अनेनानियतवस्तुदानमित्यर्थः । हरणं कन्यायै देयं धनम् । तदेवाह कात्यायनः—'ऊढया कन्यया वापि पत्युः पितृगृहेऽपि वा । भ्रातुः सकाशात्पित्रोर्वा लब्धसौदायिकं स्मृतम् ।' 'यौतुकादि तु तद्देयं सुदायो हरणं च तत्' इत्यमरः । आहरणीकृता श्रीर्येन तथोक्तः सन् राघबमजं प्रस्थापयत्प्रस्थापित-वान्स्वयमन्वगादनुजगाम च ।
**भाषार्थ—**अपनी छोटी बहन इन्दुमती का विवाह कर देने के बाद विदर्भ नरेश भोज ने अपनी सम्पत्ति के अनुसार दहेज देकर अज को विदा किया और वे स्वयं पहुँचाने के लिए उनके पीछे-पीछे चले ॥ ३२ ॥
तिस्रस्त्रिलोकप्रथितेन सार्धमजेन मार्गे वसतीरुषित्वा ।
तस्मादपावर्तत कुण्डिनेशः पर्वात्यये सोम इवोष्णरश्मेः ॥ ३३ ॥
**अन्वयः—**कुण्डिनेशः मार्गे त्रिलोकप्रथितेन अजेन सार्द्धं तिस्रः वसतीः उषित्वा पर्वात्यये उष्णरश्मेः सोमः इव तस्मात् अपावर्तत ।
तिस्र इति । कुण्डिनं विदर्भनगरं तस्येशो भोजस्त्रिषु लोकेषु प्रथितेनाजेन सार्धं मार्गे पथि तिस्रो वसती रात्रीरुषित्वा स्थिता 'वसती रात्रिवेश्मनोः' इत्य-मरः । "कालाध्वनोरत्यन्तसंयोगे" इति द्वितीया । पर्वात्यये दर्शान्ते उष्णरश्मेः सूर्यात्सोमश्चन्द्र इव तस्मादजादपावर्तत । तं विसृज्य निवृत्त इत्यर्थः ।
भाषार्थ—( यह ज्योतिष शास्त्र का सिद्धान्त है कि सूर्य और चन्द्रमा अमा-वास्या के दिन एक साथ रहते हैं और बाद चन्द्रमा सूर्य से अलग हो जाते हैं )
सप्तमः सर्गः | २१६
जिस प्रकार अमावस्या के अन्त में सूर्य के पास से चन्द्रमा लौट जाते हैं उसी प्रकार तीनों लोक में प्रसिद्ध अज के साथ मार्ग में तीन रात बिताकर विदर्भ नरेश भोज लौट गये ॥ ३३ ॥
प्रमन्यवः प्रागपि कोसलेन्द्रे प्रत्येकमात्तस्वतया बभूवुः ।
अतो नृपाश्चक्षमिरे समेताः स्त्रीरत्नलाभं न तदात्मजस्य ॥ ३४ ॥
अन्वयः— नृपाः प्राक् अपि आत्तस्वतया कोसलेन्द्रे प्रमन्यवः बभूवुः, अतः समेताः (सन्तः) तदात्मजस्य स्त्रीरत्नलाभं न चक्षमिरे ।
प्रमन्यव इति । नृपा राजानः प्रागपि प्रत्येकमात्तस्वतया दिग्विजये गृहीतधनत्वेन कोसलेन्द्रे रघौ प्रमन्यवो रूढवैरा बभूवुः । अतो हेतोः स्वयंवरार्थं समेताः सङ्गताः सन्तस्तदात्मजस्य रघुसूनोः स्त्रीरत्नलाभं न चक्षमिरे न सेहिरे ।
भाषार्थ— रघु ने अपने दिग्विजय के समय सभी राजाओं का धन छीन लिया था इसलिए वे सब उनके पहले से ही विरोधी हो चुके थे । इस कारण स्वयंवर में एकत्र सम्मिलित हुए वे सभी राजे इस समय रघु के पुत्र अज का स्त्रीरत्नलाभ सहन नहीं कर सके ॥ ३४ ॥
तमुद्वहन्तं पथि भोजकन्यां रुरोध राजन्यगणः स दृप्तः ।
बलिप्रदिष्टं श्रियमाददानं त्रैविक्रमं पादमिवेन्द्रशत्रुः ॥ ३५ ॥
अन्वयः— दृप्तः सः राजन्यगणः भोजकन्याम् उद्वहन्तं तं बलिप्रदिष्टां श्रियम् आददानं त्रैविक्रमे पादम् इन्द्रशत्रुः इव पथि रुरोध ।
तमिति । दृप्त उद्धतः स राजन्यगणो राजसङ्घातः भोजकन्यामुद्वहन्तं नयन्तं तमजं बलिना वैरोचनिना प्रदिष्टां दत्तां श्रियमाददानं स्वीकुर्वाणं त्रिविक्रमस्येमं त्रैविक्रमं पादमिन्द्रशत्रुः प्रह्लाद इव पथि रुरोध । तथा च ब्रह्माण्डपुराणे— ( विरोचनविरोधेऽपि प्रह्लादः प्राक्तनं स्मरन् । विष्णोस्तु क्रममाणस्य पादाम्भोजं रुरोध ह । ) इति ॥
भाषार्थ— जिस प्रकार बलि द्वारा दी गई लक्ष्मी को ग्रहण करते समय इन्द्रशत्रु प्रह्लाद ने वामन के चरण को बीच में ही रोक लिया था उसी प्रकार इन्दुमती को ले जाते हुए अज को उस उद्धत राजसमूह ने रास्ते में रोक लिया ।
तस्याः स रक्षार्थमनल्पयोधमादिश्य पित्र्यं सचिवं कुमारः ।
प्रत्यग्रहीत्पार्थिववाहिनीं तां भागीरथीं शोण इवोत्तरङ्गः ॥ ३६ ॥
अन्वयः — सः कुमारः तस्याः रक्षार्थम् अनल्पयोधं पित्र्यं सचिवम् आदिश्य उत्तरङ्गः शोणः भागीरथीम् इव, तां पार्थिववाहिनीम् प्रत्यग्रहीत् ।
२२० रघुवंशमहाकाव्ये
तस्या इति। स कुमारोऽजस्तस्या इन्दुमत्या रक्षार्थमनल्पयोधं बहुभटं पितु- रागतः पित्र्यम् आप्तमित्यर्थः। सचिवमादिश्याज्ञाप्य तां पार्थिववाहिनीं राज- सेनाम्। 'ध्वजिनी वाहिनी सेना' इत्यमरः। भागीरथीमुत्तरङ्गः शोणः शोणा- ख्यो नद इव प्रत्यग्रहीदभियुक्तवान्।
**भाषार्थ—**वह अज इन्दुमती की रक्षा के लिए बहुत से योद्धाओं के साथ पिता के समय से ही वर्तमान विश्वासपात्र मन्त्री को नियुक्त कर स्वयं उस सेना को रोककर उसी प्रकार खड़े हो गये, जिस प्रकार बाढ़ के समय विशाल तरङ्गों वाला सोनभद्र गंगाजी की धारा को रोक देता है ॥ ३६ ॥
पत्तिः पदातिं रथिनं रथेशस्तुरङ्गसादी तुरगाधिरूढम्।
यन्ता गजस्याभ्यपतद्गजस्थं तुल्यप्रतिद्वन्द्वि बभूव युद्धम् ॥ ३७ ॥
**अन्वयः—**पत्तिः पदातिं रथेशः रथिनं तुरङ्गसादी तुरगाधिरूढं गजस्य यन्ता गजस्थम् अभ्यपतत् इत्थं तुल्यप्रतिद्वन्द्वि युद्धम् बभूव।
पत्तिरिति। पत्तिः पादचारो योद्धा पदातिं पादचारमभ्यपतत् पदा पादाभ्या- मततीति पदातिः। "पादस्य पदाज्यातिगोपहितेषु" इत्यनेन पदादेशः। 'पदाति- पत्तिपदगपादातिकपदाजयः' इत्यमरः। रथेशो रथिको रथिनं रथारोहम- भ्यपतत् तुरङ्गसाद्यश्वारोहस्तुरङ्गाधिरूढमश्वारोहमभ्यपतत्। 'रथिनः स्यन्दना- रोहा अश्वारोहास्तु सादिनः' इत्यमरः। गजस्य यन्ता हस्त्यारोहो गजस्थं पुरुष- मभ्यपतत्। इत्यनेन प्रकारेण तुल्यप्रतिद्वन्द्व्येकजातीयप्रतिभटं युद्धं बभूव। अन्योन्यं द्वन्द्वं कलहोऽस्त्येषामिति प्रतिद्वन्द्विनो योधाः 'द्वन्द्वं कलहयुग्मयोः' इत्यमरः।
**भाषार्थ—**दोनों दलों में युद्ध शुरू हो गया पैदल पैदलों से भिड़ गये, रथ वाले रथ वालों से जूझ गये, घुड़सवार घुड़सवारों से उलझ पड़े, हाथी सवार हाथी सवारों पर टूट पड़े, इस प्रकार दोनों दलों में बराबर जोर का युद्ध होने लग गया ॥ ३७ ॥
नदत्सु तूर्येष्वविभाव्यवाचो नोदीरयन्ति स्म कुलोपदेशान्।
बाणाक्षरैरेव परस्परस्य नामोर्जितं चापभृतः शशंसुः ॥ ३८ ॥
**अन्वयः—**तूर्येषु नदत्सु सत्सु अविभाव्यवाचः चापभृतः कुलोपदेशान् न, उदीरयन्ति स्म, परस्परस्य ऊर्जितम् नाम बाणाक्षरैः एव शशंसुः।
नदत्स्विति। तूर्येषु नदत्सु सत्स्वविभाव्यवाचोऽनवधार्यगिरश्चापभृतो धानुष्काः कुलमुपदिश्यते प्रख्याप्यते यैस्ते कुलोपदेशास्तान्कुलनामानि नोदीरयन्ति स्म नोच्चा-
सप्तमः सर्गः २२१
रयामासुः । १श्रोतुमशक्यत्वाद्वाचो नाभ्रुवन्नित्यर्थः । किंतु बाणाक्षरैर्बाणेषु लिखिताक्षरैरेव परस्परस्यान्योन्यस्योजितं प्रख्यातं नाम शशंसुरुचुः ।
भाषार्थ—वहां इतना जोर से रणदुन्दुभि बज रही थी कि स्पष्ट कुछ भी सुनाई नहीं पड़ता था इसलिए धनुर्धारी योद्धा अपना कुल और नाम भी नहीं पुकारते थे किन्तु वे जो बाण चला रहे थे उन पर खुदे हुए अक्षरों से ही उनके नामों का ज्ञान हो जाता था ॥ ३८ ॥
उत्थापितः संयति रेणुरश्वैः सान्द्रीकृतः स्यन्दनवंशचक्रैः ।
विस्तारितः कुञ्जरकर्णतालैर्नेत्रक्रमेणोपहररोध सूर्यम् ॥ ३९ ॥
अन्वयः—संयति अश्वैः उत्थापितः स्यन्दनवंशचक्रैः सान्द्रीकृतः कुञ्जरकर्णतालैः विस्तारितः रेणुः नेत्रक्रमेण सूर्यम् उपहररोध ।
उत्थापित इति । संयति संग्रामेऽश्वैस्तुरगैरुत्थापितः । स्यन्दनवंशानां रथसमूहानां चक्रै रथाङ्गैः ‘चक्रं सैन्ये जलावर्ते रथावयवराष्ट्रयोः । संसारे मण्डले वृत्ते धर्मभेदास्त्रभेदयोः ॥’ इति वैजयन्ती सान्द्रीकृतो घनीकृतः ‘वंशः पृष्ठास्थिन गोहोर्ध्वंकाष्ठे वेणौ गणे कुले’ इति केशवः । कुञ्जरकर्णानां तालैस्ताडनैर्विस्तारितः प्रसारितो रेणुर्नेत्रक्रमेणांशुकपरिपाट्यां अंशुकमित्यर्थः । ‘स्याज्जडांशुकयोर्नेत्रम्’ इति । ‘क्रमोऽङ्घ्रौ परिपाट्यां च’ इति च केशवः । सूर्यमुपहररोधान्च्छादयामास ।
भाषार्थ—युद्धस्थल में घोड़ों की टापों से उठी हुई धूलि रथ के पहिए से उठी हुई धूली के साथ मिलकर दुगुनी हो गई और हाथियों के कानों को हिलाने से वह धूली चारों तरफ इस प्रकार फैल गई मानों सूर्य को कपड़े से ढक दिया गया हो ॥ ३९ ॥
मत्स्यध्वजा वायुवशाद्विदीर्णैर्मुखैः प्रवृद्धध्वजिनीरजांसि ।
बभुः पिबन्तः परमार्थमत्स्याः पर्याविलानीव नवोदकानि ॥ ४० ॥
अन्वयः—वायुवशात् विदीर्णैः मुखैः प्रवृद्धध्वजिनीरजांसि पिबन्तः मत्स्यध्वजाः पर्याविलानि नवोदकानि पिबन्तः परमार्थमत्स्याः इव बभुः ।
मत्स्येति । वायुवशाद्विदीर्णैर्विवृतैर्मुखैः प्रवृद्धानि ध्वजिनीरजांसि सैन्यरेणूनिपबन्तो गृह्णन्तो मत्स्यध्वजा मत्स्याकारा ध्वजाः पर्याविलानि परितः कलुषाणि नवोदकानि पिबन्तः परमार्थमत्स्या सत्यमत्स्या इव बभुर्भान्ति स्म ।
भाषार्थ—मछली के आकार वाली सेना की झण्डियों के मुंह खुल गये थे वायु के कारण जब उनमें सेना की धूल उड़कर पड़ती थी तब वे ऐसी मालूम
| २२२ | रघुवंशमहाकाव्ये |
|---|
पड़ती थी कि मानों वर्षा का गंदला पानी पीती हुई सच्ची मछलियाँ हैं ॥ ४०॥
रथो रथाङ्गध्वनिना विजज्ञे विलोलघण्टाक्वणितेन नागः ।
स्वभर्तृनामग्रहणाद्बभूव सान्द्रे रजस्यात्मपरावबोधः ॥ ४१ ॥
अन्वयः—सैनिकैः सान्द्रे रजसि रथाङ्गध्वनिना रथः विजज्ञे नागः विलोलघण्टाक्वणितेन विजज्ञे आत्मपरावबोध स्वभर्तृनामग्रहणात् बभूव ।
रथ इति । सान्द्रे प्रवृद्धे रजसि रथो रथाङ्गध्वनिना चक्रस्वनेन विजज्ञे ज्ञातः। नागो हस्ती विलोलानां घण्टानां क्वणितेन नादेन विजज्ञे । आत्मपरावबोधः स्वपरविवेकः योधानामिति शेषः । स्वभर्तॄणां स्वस्वामिनां नामग्रहणात्नामोच्चारणाद्बभूव । रजोन्धतया सर्वे स्वं परं च शब्दादेवानुमाय प्रजघ्नुरित्यर्थः ।
भाषार्थ—उस युद्ध में धूली इतनी छा गई कि पहियों के शब्द को सुनकर ही मालूम पड़ता था कि रथ आ रहा है, बजती हुई घंटाओं की ध्वनि से हाथी मालूम पड़ते थे और अपने तथा पराये का ज्ञान तब होता था जब दोनों दलों के सैनिक अपने २ राजाओं का नाम ले लेकर युद्ध करते थे ॥ ४१ ॥
आवृण्वतो लोचनमार्गमाजौ रजोऽन्धकारस्य विजृम्भितस्य ।
शस्त्रक्षताश्वद्विपवीरजन्मा बालारुणोऽभूद्रुधिरप्रवाहः ॥ ४२ ॥
अन्वयः—लोचनमार्गम् आवृण्वतः आजौ विजृम्भितस्य रजोऽन्धकारस्य शस्त्रक्षताश्वद्विपवीरजन्मा रुधिरप्रवाहः बालारुणः अभूत् ।
आवृण्वत इति । लोचनमार्गमावृण्वतो दृष्टिपथमुपरुन्धतः आजौ युद्धे विजृम्भितस्य व्याप्तस्य रज एवान्धकारं तस्य शस्त्रक्षतेभ्योऽश्वद्विपवीरेभ्यो जन्म यस्य स तथोक्तो रुधिरप्रवाहो बालारुणो बालार्कोऽभूत् । 'अरुणो भास्करेऽपि स्यात्' इत्यमरः । बालविशेषणं रुधिरसावर्ण्यम् ।
भाषार्थ—नेत्रपथ को आच्छादित करने वाला, और युद्धस्थल में व्याप्त, धूलिरूपी अन्धकार को दूर करने के लिए शस्त्रों से कटे हुए घोड़े हांथी और योद्धाओं के शरीर से निकला हुआ रुधिर प्रवाह उत्पन्न प्रातःकाल के सूर्य के समान लाल मालूम पड़ता था ॥ ४२ ॥
स च्छिन्नमूलः क्षतजेन रेणुस्तस्योपरिष्टात्पवनावधूतः ।
अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितो धूम इवावभासे ॥ ४३ ॥
अन्वयः—क्षतजेन च्छिन्नमूलः तस्य उपरिष्टात् पवनावधूतः सः रेणु अङ्गारशेषस्य हुताशनस्य पूर्वोत्थितः धूमः इव आवभासे ।
सप्तमः सर्गः | २२३
स इति । क्षतजेन रुधिरेण छिन्नमूलः त्याजितभूतलसम्बन्ध इत्यर्थः । तस्य क्षतजस्योपरिष्टात्पवनावधूतो वाताहतः स रेणुः अङ्गारशेषस्य हुताशनस्याग्नेः पूर्वोत्थितो धूम इव आबभासे दिदीपे ।
भाषार्थ—उस समय पृथ्वी पर इतना रुधिर बहा कि नीचे की धूल दब गई और ऊपर की धूल वायु के सहारे इधर-उधर फैल कर इस तरह लगती थी मानों अग्नि से ऊपर उठकर धूआँ ऊपर फैल गया है नीचे केवल अंगार मात्र शेष अग्नि रह गया है ॥ ४३ ॥
प्रहारमूर्च्छापगमे रथस्थ्या यन्तॄनुपालभ्य निवर्तिताश्वान् ।
यैः सादिता लक्षितपूर्वकेतूंस्तानेव सामर्षतया निजघ्नुः ॥ ४४ ॥
अन्वयः—रथस्थाः प्रहारमूर्च्छाऽपगमे निवर्तिताश्वान् यन्तॄन् उपालभ्य यैः सादिताः लक्षितपूर्वकेतून् तान् एव सामर्षतया निजघ्नुः ।
प्रहारेति । रथस्था रथिनः प्रहारेण या मूर्च्छा तस्या अपगमे इति मूर्च्छितानामन्यत्र नीत्वा संरक्षणं सारथिधर्म इति कृत्वा निवर्तिताश्वान्यन्तॄन्सारथीनुपालभ्यासाधु कृतमित्यधिक्षिप्य पूर्वं यैः स्वयं सादिता हता लक्षितपूर्वकेतून् पूर्वदृष्टैः केतुभिः प्रत्यभिज्ञातानित्यर्थः । तानेव सामर्षतया सकोपत्वेन हेतुना निजघ्नुः प्रजहुः ।
भाषार्थ—जो योद्धा अपने प्रतियोद्धा के प्रहार से मूर्च्छित हो गये थे उनको उनके सारथी लेकर युद्धस्थल से बाहर चले गये, पर जब उनकी मूर्च्छा छूटी तब वे अपने सारथी को भला बुरा कहने लगे और जिनसे घायल हुए थे उन्हें रथ की पताका से पहचान कर उनके ऊपर क्रोध से प्रहार करने लगे ॥ ४४ ॥
अप्यर्धमार्गे परबाणलूना धनुर्भृतां हस्तवतां पृषत्काः ।
सम्प्रापुरेवात्मजवानुवृत्त्या पूर्वार्धभागैः फलिभिः शरव्यम् ॥ ४५ ॥
अन्वयः—हस्तवतां धनुर्भृतां पृषत्का अर्धमार्गे परबाणलूनाः अपि आत्मजवानुवृत्त्या फलिभिः पूर्वार्द्धभागैः शरव्यम् एव सम्प्रापुः ।
अपीति । अर्धञ्चासौ मार्गश्च अर्धमार्गस्तस्मिन्नर्धमार्गे परेषां बाणैर्लूनाश्छिन्ना अपि हस्तवतां कृतहस्तानां धनुर्भृतां पृषत्काः शरा आत्मजवानुवृत्त्या पूर्वार्धभागैः शृणातीति शरः तस्मै हितं शरव्यं लक्ष्यम् । "दगवादिभ्यो यत्" इति यत्प्रत्ययः । 'लक्षं लक्ष्यं शरव्यं च' इत्यमरः । सम्प्रापुरेव । न तु मध्ये पतिता इत्यर्थः ।
भाषार्थ—सिद्धहस्त धनुर्धारियों से छोड़े गये बाण यद्यपि शत्रुओं के बाणों
२२४ रघुवंशमहाकाव्ये
से बीच में ही कट जाते थे फिर भी इतना वेग होता था कि उनका फल लगा हुआ अगला भाग लक्ष्य तक पहुँच ही जाता था ॥ ४५ ॥
आधोरणानां गजसन्निपाते शिरांसि चक्रैर्निशितैः क्षुराग्रैः ।
हृतान्यपि श्येननखाग्रकोटिव्यासक्तकेशानि चिरेण पेतुः ॥ ४६ ॥
अन्वयः—गजसन्निपाते निशितैः क्षुराग्रैः चक्रैः हृतानि अपि श्येननखाग्र- कोटिव्यासक्तकेशानि आधोरणानां शिरांसि चिरेण पेतुः ।
आधोरणानामिति । गजसंनिपाते गजयुद्धे निशितैस्त एव क्षुराग्रैः क्षुरस्या- ग्रमिवाग्रं येषां तश्चक्रैरायुधविशेषैर्हृतानि छिन्नान्यपि श्येनानां पक्षिविशेषाणाम् । 'पक्षी श्येनः' इत्यमरः । नखाग्रकोटिषु व्यासक्ताः केशा येषां तानि आधोरणानां हस्त्यारोहाणाम् । 'आधोरणा हस्तिपका हस्त्यारोहा निषादिन' इत्यमरः । शिरांसि चिरेण पेतुः पतितानि । शिरः पातात्प्रागेवारुह्य पश्चादुत्पततां पक्षिणां नखेषु केशसङ्गश्चिरपातहेतुरिति भावः ।
भाषार्थ—हाथियों के युद्ध में तेज तथा क्षुरे के समान फलवाले चक्रों से कटे हुए महावतों के मस्तकों को लेकर बाज पक्षी ऊपर उड़ जाते थे । लम्बे लम्बे बाल बाजों के नखों में बंध जाते थे जिससे वे मस्तक कुछ देर में पृथ्वी पर गिरते थे । ४६ ॥
पूर्वं प्रहर्ता न जघान भूयः प्रतिप्रहाराक्षममश्वसादी ।
तुरङ्गमस्कन्धनिषण्णदेहं प्रत्याश्वसन्तं रिपुमाचकांक्ष ॥ ४७ ॥
अन्वयः—पूर्वं प्रहर्ता अश्वसादी प्रतिप्रहारक्षमं तुरङ्गमस्कन्धनिषण्णदेहम् रिपुं भूयः न जघान किन्तु प्रत्याश्वसन्तम् आचकांक्ष ।
पूर्वमिति । पूर्वं प्रथमं प्रहर्त्ताश्वसादी तोरङ्गिकः प्रतिहारेऽक्षममशक्तं तुरङ्गम- स्कन्धे निषण्णदेहम् मूर्छितमित्यर्थः । रिपुं भूयो न जघान पुनर्न प्रजहार किन्तु प्रत्याश्वसन्तं पुनरुज्जीवन्तमाचकाङ्क्ष । 'नायुधव्यसनं प्राप्तं नातं नातिपरिक्षतम्' इति निषेधादिति भावः ।
भाषार्थ—एक घुड़सवार ने अपने शत्रु घुड़सवार पर प्रहार किया जिससे वह घोड़े के कन्धे पर झूल गया उसे अपना शिर उठाने की भी शक्ति नहीं रही । पहले प्रहार करने वाले घुड़सवार ने मूर्छित होने के कारण अपने ऊपर अस्त्र चलाने में असमर्थ उस शत्रु पर फिर प्रहार नहीं किया किन्तु उसके जीने की ही इच्छा की । क्योंकि ऐसे शत्रुओं पर प्रहार करना निन्दित माना गया है।
सप्तमः सर्गः | २२५
सप्तमः सर्गः | २२५
तनुत्यजां वर्मभृतां विकोशैर्बृहत्सु दन्तेष्वसिभिः पतद्भिः । उद्यन्तमग्निं शमयांबभूवुर्गजा विविग्नाः करशीकरेण ॥ ४८ ॥
अन्वयः—तनुत्यजां वर्मभृतां बृहत्सु दन्तेषु पतद्भिः विकोशैः असिभिः उद्यन्तम् अग्निं विविग्नाः गजाः करशीकरेण शमयाम्बभूवुः ।
तनुत्यजामिति । तनुत्यजां तनुषु निस्पृहाणामित्यर्थः । वर्मभृतां कवचिनां सम्बन्धिभिर्वृहत्सु दन्तेषु पतद्भिरत एव विकोशैः विधानादुद्धृतैः । 'कोशोऽस्त्री कुड्ग्मले खड्गविधाने' इत्यमरः । असिभिः खङ्गैरुद्यन्तमुत्थितमग्निं विविग्ना भीता गजाः करशीकरेण शुण्डादण्डजलकणेन शमयाम्बभूवुः शान्तं चक्रुः ।
भाषार्थ—अपने प्राणों की परवाह न करके लड़ने वाले कवचधारी योद्धाओं की नंगी तलवारों से हाथियों के बड़े २ दांतों पर प्रहार करने पर उनसे चिनगारियां निकलने लगीं, उनसे डर कर व्याकुल हाथी अपने सूँड के पानी से उस आग को बुझाने लगे ॥ ४८ ॥
शिलीमुखोत्कृत्तशिरःफलाढ्या च्युतैः शिरस्त्रैश्चषकोत्तरेव । रणक्षितिः शोणितमद्यकुल्या रराज मृत्योरिव पानभूमिः ॥ ४९ ॥
अन्वयः—शिलीमुखोत्कृत्तशिरः फलाढ्या च्युतैः शिरस्त्रैः चषकोत्तरा इव शोणितमद्यकुल्या रणक्षितिः मृत्योः पानभूमिः इव रराज ।
शिलीमुखेति । शिलीमुखैर्बाणैरुत्कृत्तानि शिरांस्येव फलानि तैराढ्या सम्पन्ना च्युतैर्भ्रष्टैः शिरांसि त्रायन्त इति शिरस्त्राणि शीर्षण्यानि । शीर्षण्यं च 'शिरस्त्रेऽथ' इत्यमरः । तैश्चषकोत्तरा 'चषकः' पानपात्रमुत्तरं यस्यां सेव । 'चषकोऽस्त्री पानपात्रम्' इत्यमरः । रणक्षितिर्युद्धभूमिर्मृत्योः पानभूमिरिव रराज ।
भाषार्थ—वह युद्ध-स्थल मृत्यु के उस मदिरापान स्थल के समान मालूम पड़ रहा था जिसमें बाणों से कटे हुए सिर ही मानों फल हों, उलटे गिरे हुए मुकुट ही पान-पात्र हों, बहता हुआ रुधिर ही मानों मदिरा हो ॥ ४९ ॥
उपान्तयोर्निष्कुषितं विहङ्गैर्राक्षिप्य तेभ्यः पिशितप्रियापि । केयूरकोटिक्षततालुदेशा शिवा भुजच्छेदसपावकार ॥ ५० ॥
अन्वयः—विहङ्गैः उपान्तयोः निष्कुषितं भुजच्छेदं तेभ्यः आक्षिप्य पिशितप्रिया अपि शिवा केयूरकोटिक्षततालुदेशा सती अपाचकार ।
उपान्तयोरिति । उपान्तयोः प्रान्तयोर्विहङ्गैः पक्षिभिर्निष्कुषितं खण्डितम् । "इणिष्ठायाम्" इतीडागमः । भुजच्छेदं भुजखण्डं तेभ्यो विहङ्गेभ्य आक्षिप्याच्छिद्य पिशितप्रियाऽपि शिवा क्रोष्ट्री । 'शिवः कीलः शिवा क्रोष्ट्री' इति विश्वः । केयूर-
१५ र० सम्पू०
| २२६ | रघुवंशमहाकाव्ये |
|---|
कोट्याऽङ्गाग्रेण क्षतस्तालुदेशो यस्याः सा सती अपाचकारापसारयामास । किरतेः करोतेर्वा लिट् ।
**भाषार्थ—**पक्षियों से दोनों तरफ चोंच मारे गये हाथ के टुकड़े को उनसे छीन कर सियारिन ज्यों ही खाने लगी त्यों ही बांह में बँधे हुए बिजायठ का नुकीला अग्र भाग उसके तालु में गड़ गया । जिससे मांसप्रिय होने पर भी वह उसे छोड़कर चली गई ॥ ५० ॥
कश्चिद्द्विषत्खड्गहतोत्तमाङ्गः सद्यो विमानप्रभुतामुपेत्य ।
वामाङ्गसंसक्तसुराङ्गना स्वं नृत्यत्कबन्धं समरे ददर्श ॥ ५१ ॥
**अन्वयः—**द्विषत्खड्गहतोत्तमाङ्गः कश्चित् सद्यः विमानप्रभुताम् उपेत्य वामाङ्गसंसक्तसुराङ्गनाः सन् समरे नृत्यत् स्वं कबन्धं ददर्श ।
कश्चिदिति । द्विषतः खङ्गेन हतोत्तमाङ्गश्छिन्नशिराः । 'उत्तमाङ्गं शिरः शीर्षम्' इत्यमरः । कश्चिद्वीरः सद्यो विमानप्रभुतां विमानधिपत्यं देवत्वमित्यर्थः । उपेत्य प्राप्य वामाङ्गसंसक्तः सव्योत्सङ्गसङ्गिनी सुराङ्गना यस्य स तथोक्तः सन् । अग्निपुराणे 'वाराप्सरः सहस्राणि भूपमायोधने हतम् । त्वरितान्युपधावन्ति मम भर्त्ता ममेति च ।' इति समरे नृत्यत्स्वं निजं कबन्धं विशिरष्कं कलेवरं ददर्श । 'कबन्धोऽस्त्री क्रियायुक्तमपमूर्धकलेवरम्' इत्यमरः ।
**भाषार्थ—**शत्रु की तलवार से एक योद्धा का शिर कट गया । युद्ध में मृत्यु होने के कारण वह योद्धा तत्काल देवता हो गया और अपने बायें तरफ एक अप्सरा को लिए हुए विमान पर बैठकर युद्ध स्थल में नाचते हुए अपने धड़ को देखने लगा ॥ ५१ ॥
अन्योन्यसूतोन्मथनादभूतां तावेव सूतौ रथिनौ च कौचित् ।
व्यश्वौ गदाव्यायतसंप्रहारौ भग्नायुधौ बाहुविमर्दनिष्ठौ ॥ ५२ ॥
**अन्वयः—**कौचित् अन्योन्यसूतोन्मथनात् तौ एव सूतौ रथिनौ च अभूताम् व्यश्वौ (सन्तौ) गदाव्यायतसम्पहारौ अभूताम् भग्नायुधौ (सन्तौ) बाहुविमर्द्दनिष्ठौ (अभूताम्) ।
अन्योन्येति । कौचिद्वीरावन्योऽन्यस्य सूतयोः सारथ्योरुन्मथनान्निघनात्तावेव सूतौ रथिनो योद्धारौ चाभूताम् । तावेव व्यश्वौ सन्तो गदाभ्यां व्यायतो दीर्घः संप्रहारो युद्धं ययोस्तावभूताम् । ततो भग्नायुधौ भग्नगदौ सन्तो बाहुविमर्दे निष्ठा नाशो ययोस्तो बाहुयुद्धासक्तावभूताम् । 'निष्ठा निष्पत्तिनाशान्ताः' इत्यमरः ।
सप्तमः सर्गः | २२७
सप्तमः सर्गः | २२७
**भाषार्थ—**कोई दो योद्धा अपने २ सारथियों के मारे जाने पर स्वयं रथ को हांकते हुए युद्ध करने लगे पर जब उनके घोड़े भी कट गये तब वे योद्धा गदा से युद्ध करने लगे, बाद गदा के भी टूट जाने पर मल्ल युद्ध करने लगे ॥ ५२ ॥
परस्परेण क्षतयोः प्रहर्त्रोरुत्क्रान्तवाय्वोः समकालमेव ।
अमर्त्यभावेऽपि कयोश्चिदासीदेकाप्सरः प्रार्थितयोर्विवादः ॥ ५३ ॥
**अन्वयः—**परस्परेण क्षतयोः समकालम् एव उत्क्रान्तवाय्वोः एकाप्सरःप्रार्थितयोः कयोश्चित् प्रहर्त्रोः अमर्त्यभावे अपि विवादः आसीत् ।
परस्परेणेति । परस्परेणान्योन्यं क्षतयोः क्षततन्वोः समकालमेककालं यथा तथोत्क्रान्तवाय्वोर्युगपदुद्गतप्राणयोः एकैवाप्सराः प्रार्थिता याभ्यां तयोरेकाप्सरःप्रार्थितयोः प्रार्थितैकाप्सरसोरित्यर्थः । "वाहिताग्न्यादिषु" इति परनिपातः । अथवा एकस्यामप्सरसि प्रार्थितं प्रार्थना ययोरिति विग्रहः । 'स्त्रियां बहुष्वप्सरसः' इति बहुत्वाभिधानं प्रायिकम् । कयोश्चित्प्रहर्त्रोर्योधयोरमर्त्यभावेऽपि देवत्वेऽपि विवादः कलह आसीत् । एकामिषाभिलाषो हि महद्वैरबीजमिति भावः ।
**भाषार्थ—**एक दूसरे के प्रहार से एक समय में ही मरे हुए दो योद्धा देवता होकर जब स्वर्ग में गये, तब वहाँ एक ही अप्सरा पर दोनों रीझ गये और वहाँ भी फिर आपस में झगड़ने लगे ॥ ५३ ॥
व्यूहावुभौ तावितरेतरस्माद्भङ्गं जयं चापतुरव्यवस्थम् ।
पश्चात्पुरोमारुतयोः प्रवृद्धौ पर्यायवृत्त्येव महार्णवोर्मी ॥ ५४ ॥
**अन्वयः—**तौ उभौ व्यूहौ पश्चात्पुरोमारुतयोः पर्यायवृत्त्या प्रवृद्धौ महार्णवोर्मी इव इतरेतरस्मात् अव्यवस्थं जयं भङ्गं च आपतुः ।
व्यूहाविति । तावुभौ व्यूहौ सेनासंघातौ । 'व्यूहस्तु बलविन्यासः' इत्यमरः । पश्चात्पुरश्च यौ मारुतौ । द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते । तयोः पर्यायवृत्त्या क्रमवृत्त्या प्रवृद्धौ महार्णवोर्मी इव इतरेतरस्मादव्यवस्थं व्यवस्थारहितमनियतं जयं भङ्गं पराजयं चापतुः प्राप्तवन्तौ ।
**भाषार्थ—**जिस प्रकार वायु के वेग से समुद्र की तरंगें अव्यवस्थित रूप से आगे पीछे बढ़ती हटती रहती हैं उसी प्रकार वे दोनों सेनायें कभी हारती थी कभी जीतती थी ॥ ५४ ॥
परेण भग्नेऽपि बले महौजा ययावजः प्रत्यरिसैन्यमेव ।
धूमो निवर्त्येत समीरणेन यतस्तु कक्षस्तत एव वह्निः ॥ ५५ ॥
२२८ रघुवंशमहाकाव्ये
अन्वयः—महौजाः अजः परेण बले भग्ने अपि अरिसैन्यं प्रति एव ययौ । समीरगेन धूमः निवर्त्येत वह्निः तु यतः कक्षः भवति ततः एव प्रवर्तते ।
परेणेति । बले स्वसैन्ये परेण परबलेन भग्नेऽपि महौजा महाबलोऽजोऽरिसैन्यं प्रत्येव ययौ । तथाहि समीरगेन वायुना धूमो निवर्त्येत कक्षादपसार्येत । वर्त्ततेर्ण्यन्तात्कर्मणि संभावनायां लिङ् । वह्निस्तु यतो यत्र कक्षस्तृणम् । 'कक्षौ तु तृणवीरूधौ' इत्यमरः । तत एव तत्रैव प्रवर्तत इति शेषः । सार्वविभक्तिकस्तसिः ।
भाषार्थ—जिस प्रकार हवा से धूंवां के इधर-उधर हो जाने पर भी आग घासफूस की तरफ ही जाती है उसी प्रकार शत्रुओं द्वारा अपनी सेना इधर-उधर हो जाने पर भी महापराक्रमी अज शत्रु की सेना में बढ़ते ही चले गये ॥ ५५ ॥
रथी निषङ्गी कवची धनुष्मान्दृप्तः स राजन्यकमेकवीरः ।
निवारयामास महावराहः कल्पक्षयोद्वृत्तमिवार्णवाम्भः ॥ ५६ ॥
अन्वयः—रथी निषङ्गी धनुष्मान् दृप्तः एकवीरः सः महावराहः कल्पक्षयोद्वृत्तम् अर्णवाम्भः इव राजन्यकं निवारयामास ।
रथीति । रथी रथारूढो निषङ्गी तूणीरवान् । 'तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः' इत्यमरः । कवची वर्मधरो धनुष्मान्धनुर्धरो दृप्तो रणदृप्त एकवीरोऽसहायशूरः सोऽजो राजन्यकं राजसमूहम् । "गोत्रोक्षोष्ट्रोरभ्रराजराजन्यराजपुत्रवत्समनुष्याजाद्वुञ्" इत्यनेन वुञ्प्रत्ययः । महावराहो वराहावतारो विष्णुः कल्पक्षये कल्पान्तकाले उद्वृत्तमुद्वेलमर्णवाम्भ इव निवारयामास ।
भाषार्थ—जिस प्रकार प्रलय के समय वाराह रूपधारी भगवान् विष्णु समुद्र के बढ़े हुए जल को चीरते हुए आगे चलते गये उसी प्रकार रथ पर बैठे हुए कवच तथा तरकस को धारण किये हुए वे अद्वितीय वीर अज अकेले ही शत्रुओं की सेना को चीरते चले जा रहे थे ॥ ५६ ॥
स दक्षिणं तूणमुखेन वामं व्यापारयन्हस्तमलक्ष्यताजौ ।
आकर्णकृष्टा सकृदस्य योद्धुर्मोर्वीव बाणान्सुषुवे रिपुघ्नान् ॥ ५७ ॥
अन्वयः—सः आजौ दक्षिणं हस्तं तूणमुखेन वामं व्यापारयन् सन् अलक्षत योद्धुं अस्य सकृत् आकर्णकृष्टा मौर्वी रिपुघ्नान् बाणान् सुषुवे इव ।
स इति । सोऽजः आजौ संग्रामे दक्षिणं हस्तं तूणमुखेन निषङ्गविवरेण वाममतिसुन्दरम् 'वामं सव्ये प्रतीपे च द्रविणे चातिसुन्दरे' इति विश्वः। व्यापारयन्नलक्षयत । शरसंधानादयस्तु दुर्लक्ष्या इत्यर्थः । सकृदाकर्णकृष्टा योद्धुरस्याजस्य मौर्वी ज्या
सप्तमः सर्गः २२१
सप्तमः सर्गः २२१
रिपून्घ्नन्तीति रिपुघ्नाः तान्। ''अमनुष्यकर्तृके च'' इति ठक्प्रत्ययः। बाणान्सुषुव इव सुषुवे किमु इत्युत्प्रेक्षा।
भावार्थ—अज युद्ध में इतनी जल्दी बाण चला रहे थे कि यह पता नहीं चलता था कि उन्होंने कब अपना दाहिना हाथ तरकस पर रखा और कब बाण निकाल कर बायें हाथ से धनुष पर रखा किन्तु ऐसा मालूम पड़ता था कि वे जब कान तक धनुष की डोरी खींचते थे तब उसमें से शत्रुओं का नाश करने वाले बाण बराबर निकलते चले जा रहे हैं ॥ ५७ ॥
स रोषदष्टाधिकलोहितोष्ठैर्व्यक्तोर्ध्वरेखा भ्रुकुटीर्वहद्भिः ।
तस्तार गां भल्लनिकृत्तकण्ठैर्हुंकारगर्भैर्द्विषतां शिरोभिः ॥ ५८ ॥
अन्वयः—सः रोषदष्टाधिकलोहितोष्ठैः व्यक्तोर्ध्वरेखाः भ्रुकुटीः वहद्भिः भल्लनिकृत्तकण्ठैः हुंकारगर्भैः द्विषतां शिरोभिः गां तस्तार।
स इति। सोऽजः रोषेण दष्टा अत एवाधिकलोहिता ओष्ठा येषां तानि तैः व्यक्ता ऊर्ध्वा रेखा यासां तां भ्रुकुटीभ्रूभङ्गान्वहद्भिः भल्लनिकृत्ता बाणविशेषच्छिन्नाः कण्ठा येषां तैः हुँकारगर्भैः सहुंकारैः हुंकुर्वद्भिरित्यर्थः द्विषतां शिरोभिर्गां भूमिं तस्तार छादयामास।
भावार्थ—जिन राजाओं ने क्रोध से अपने ओठों को चबाकर लाल कर लिया था और जो भौंहें तान-तान कर हुंकार करते हुए आगे बढ़ रहे थे उनके मस्तकों को भाले से काट-काट कर अज ने धरातल को ढँक दिया ॥ ५८ ॥
सर्वैर्बलाङ्गैर्द्विरदप्रधानैः सर्वायुधैः कङ्कटभेदिभिश्च ।
सर्वप्रयत्नेन च भूमिपालास्तस्मिन्प्रजह्रु र्युधि सर्व एव ॥ ५९ ॥
अन्वयः—सर्व एव भूमिपालाः द्विरदप्रधानैः सर्वैः बलाङ्गैः कङ्कटभेदिभिः सर्वायुधैः, च सर्वप्रयत्नेन च युधि तस्मिन् प्रजह्रुः।
सर्वैरिति। द्विरदप्रधानैर्गजमुख्यै सर्वैर्बलाङ्गैः सेनाङ्गैः । 'हस्त्यश्वरथपादातं सेनाङ्गं स्याच्चतुष्टयम्' इत्यमरः। कङ्कटभेदिभिः कवचभेदिभिः । 'उरश्छदः कङ्कटको जगरः कवचोऽस्त्रियाम्' इत्यमरः। सर्वायुधैश्च बाह्यबलमुक्त्वान्तरमाह—सर्वप्रयत्नेन च सर्व एव भूमिपाला युधि तस्मिन्नजे प्रजह्रुः तं प्रजह्रुरित्यर्थः । सर्वत्र सर्वकारकसंभवात्कर्मणोऽप्याधिकरणविवक्षायां सप्तमी। तदुक्तम्—''अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः। सर्वदा सर्वथाभावात्क्वचित्किंचिद्विवक्ष्यते ॥'' इति ॥
भावार्थ—सभी राजा सब प्रकार की सेनाओं से, कवच को काट देने वाले
२३० रघुवंशमहाकाव्ये
सब प्रकार के तीक्ष्ण अस्त्रों से और सर्वप्रकार के उपायों द्वारा एक साथ अज पर प्रहार करने लगे ॥ ५९ ॥
सोऽस्त्रव्रजैश्छन्नरथः परेषां ध्वजाग्रमात्रेण बभूव लक्ष्यः । नीहारमग्नो दिनपूर्वभागः किंचित्प्रकाशेन विवस्वतेव ॥ ६० ॥
अन्वयः—परेषाम् अस्त्रव्रजैः छन्नरथः सः नीहारमग्नः दिनपूर्वभागः किञ्चित्प्रकाशेन, विवस्वता इव ध्वजाग्रमात्रेण लक्ष्यः बभूव ।
स इति । परेषां द्विषामस्त्रव्रजैः शस्त्रसमुदायैश्छन्नरथः सोऽजः नीहारैर्हिमैर्मग्नो दिनपूर्वभागः प्रातःकाल किंचित्प्रकाशेनेषल्लक्ष्येण विवस्वतेव आच्छादितरथः ध्वजाग्रमात्रेण लक्ष्यो बभूव । ध्वजाग्रादन्यन्न किंचिल्लक्ष्यते स्मेत्यर्थः ।
भावार्थ—इन राजाओं ने अज पर इतना बाण बरसाया कि उनके अस्त्रों से अज का रथ ढँक गया । जिस प्रकार कुहरे की दिनों में सुबह होने का ज्ञान धुंधले प्रकाश वाले सूर्य को देखकर होता है उसी प्रकार उसके रथ का ज्ञान पताका के सिरे को देखकर ही होता था ॥ ६० ॥
प्रियंवदात्प्राप्तमसौ कुमारः प्रामुङ्क्त राजस्वधिराजसूनुः । गान्धर्वमस्त्रं कुसुमास्त्रकान्तः प्रस्वापनं स्वप्ननिवृत्तलोलः ॥ ६१ ॥
अन्वयः—अधिराजसूनुः कुसुमास्त्रकान्तः स्वप्ननिवृत्तलौल्यः असौ कुमार प्रियंवदात् प्राप्तं प्रस्वापनं गान्धर्वम् अस्त्रं राजसु प्रामुङ्क्त ।
प्रियंवदादिति । अधिराजसूनुर्महाराजपुत्रः कुसुमास्त्रकान्तो मदनसुन्दरः स्वप्ननिवृत्तलौल्यः स्वप्नबितृष्णः । जागरूक इत्यर्थः । असौ कुमारोऽजः प्रियंवदात्पूर्वोक्ताद्गन्धर्वात्प्राप्तगान्धर्वं गन्धर्वदेवताकम् । "सास्य देवता" इत्यण् । प्रस्वापयतीति प्रस्वापनं निद्राजनकमस्त्रं राजसु प्रामुङ्क्त प्रयुक्तवान् ।
भावार्थ—उसके बाद कामदेव के समान सुन्दर सदा सावधान रहने वाले उस रघुकुमार अज ने प्रियम्वद नाम के गन्धर्व से प्राप्त उस प्रस्वापन नामक गान्धर्व अस्त्र को हजारों के ऊपर चलाया जिससे उन्हें नींद आ जाती है ॥६१॥
ततो धनुष्कर्षणमूढहस्तमेकांसपर्यस्तशिरस्त्रजालम् । तस्थौ ध्वजस्तम्भनिषण्णदेहं निद्राविधेयं नरदेवसैन्यम् ॥ ६२ ॥
अन्वयः—ततः धनुष्कर्षणमूढहस्तं एकांसपर्यस्तशिरस्रजालं ध्वजस्तम्भनिषण्णदेहम्, नरदेवसैन्यं निद्राविधेयं सत् तस्थौ ।
तत इति । ततो धनुष्कर्षणे चापकर्षगे मूढहस्तमव्यापृतहस्तम् एकस्मिन्नंसे
सप्तमः सर्गः २३१
सप्तमः सर्गः २३१
पर्यस्तं त्रस्तं शिरस्त्राणां शीर्षण्यानां जालं समूहो यस्य तत् । ध्वजस्तम्भेषु निषण्णा अवष्टब्धा देहा यस्य तत् नरदेवानां राज्ञां सेनैव सैन्यं चातुर्वण्यादित्वात्स्वार्थे ष्यञ्प्रत्ययः । निद्राविधेयं निद्रापरतन्त्रं तस्थौ । भावार्थ—गान्धर्वास्त्र के छोड़ते ही राजाओं की सेना सो गई, नींद से सैनिकों के हाथ ऐसे रुक गये कि वे अपने धनुष तक को नहीं खींच पाये उनकी पगड़ियाँ गिर कर एक तरफ कन्धे पर झूलने लगीं और शरीर पताका के खम्भों के सहारे स्थित हो गया ॥ ६२ ॥
ततः प्रियोपात्तरसेऽधरोष्ठे निवेश्य दध्मौ जलजं कुमारः । तेन स्वहस्तार्जितमेकवीरः पिवन्यशो मूर्तमिवावभासे ॥ ६३ ॥ अन्वयः—ततः कुमारः प्रियोपात्तरसे अधरोष्ठे जलजं निवेश्य दध्मौ तेन एकवीरः स्वहस्तार्जितं मूर्तं यशः पिवन् इव आबभासे । तत इति । ततः कुमारोऽजः प्रिययेन्दुमत्योपात्तरसे आस्वादितमाधुर्ये अतिश्लाघ्य इति भावः । अधरोष्ठे जलजं शङ्खं निवेश्य । 'जलजं शङ्खपद्मयोः' इति विश्वः । दध्मौ मुखामारुतेन पूरयामास । तेनौष्ठनिविष्टेन शङ्खेनैवैकवीरः स स्वहस्तार्जितं मूर्तं मूर्तिमद्यशः पिवन्निवावभासे । यशसः शुभ्रत्वादिति भावः । भाषार्थ—इसके बाद अद्वितीय वीर कुमार अज ने अपनी प्रिया इन्दुमती के चुम्बन का रसास्वाद लेने वाले अधरोष्ठ पर शंख को रख कर बजाया । उस समय वे ऐसे जान पड़ते थे मानो अपने बाहुबल से उपार्जित मूर्तिमान् अपने यश को पी रहे हों ॥ ६३ ॥
शङ्खस्वनाभिज्ञतया निवृत्तास्तं सन्नशत्रु ददृशुः स्वयोधाः । निमीलितानामिव पङ्कजानां मध्ये स्फुरन्तं प्रतिमा शशाङ्कम् ॥ ६४ ॥ अन्वयः—स्वयोधाः शङ्खस्वनाभिज्ञतया निवृत्ताः सन्त निमीलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् इव सन्नशत्रुं तं ददृशुः । शङ्खेति । शङ्खस्वनस्याजशङ्खध्वनेरभिज्ञातया प्रत्यभिज्ञत्वानिवृत्ताः प्राक्- पलाय्य संप्रति प्रत्यागताः स्वयोधाः, सन्नशत्रुं निद्राणशत्रुं तमजं निमीलितानां पङ्कजानां मध्ये स्फुरन्तं प्रतिमा चासौ शशाङ्कश्च तं प्रतिमाशशाङ्कं प्रतिबिम्बचन्द्र- मिव ददृशुः । भावार्थ—शंख की ध्वनि को पहचान कर लौटे हुए अज के सैनिकों ने सोते हुए शत्रुओं के बीच में अज को इस प्रकार देखा जिस प्रकार मुकुलित कमलों के बीच में चन्द्रमा चमक रहा हो ॥ ६४ ॥
२३२ रघुवंशमहाकाव्ये
सशोणितैस्तेन शिलीमुखाग्रैर्निक्षेपिताः केतुषु पार्थिवानाम् । यशो हृतं संप्रति राघवेण न जीवितं वः कृपयेति वर्णाः ॥ ६५ ॥
अन्वयः—'सम्प्रति राघवेण वः यशः हृतं कृपया जीवितं तु न' इति वर्णाः तेन सशोणितैः शिलीमुखाग्रैः पार्थिवानां केतुषु निक्षेपिताः ।
सशोणितैरिति । संप्रति राघवेण रघुपुत्रेण पूर्वं रघुणेति भावः । हे राजानः ! वो युष्माकं यशो हृतम्, जीवितं तु कृपया न हृतम् । न त्वशक्त्येति भावः । इत्येवंरूपा वर्णाः एतदर्थप्रतिपादकं वाक्यमित्यर्थः । सशोणितैः शोणितदिग्धैः शिलीमुखाग्रैर्बाणाग्रैः साधनैस्तेनाजेन प्रयोजककर्त्रा पार्थिवानां राज्ञां केतुषु ध्वज-स्तम्भेषु निक्षेपिताः प्रयोज्यैरन्यैर्निवेशिताः । लेखिता इत्यर्थः । क्षिपतेर्ण्यन्ता-त्कर्मणि क्तः ।
**भाषार्थ—**उन मूर्च्छित पड़े हुए राजाओं की पताकाओं पर रुधिर से लिप्त बाणों के अग्रभाग से अज ने यह लिखवा दिया कि हे राजाओ ! इस समय रघुपुत्र अज ने आप लोगों के यश को तो ले लिया किन्तु दया करके प्राण नहीं लिये ॥ ६५ ॥
स चापकोटिनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः । ललाटबद्धश्रमवारिबिन्दुभीतां प्रियामेत्य वचो बभाषे ॥ ६६ ॥
**अन्वयः—**चापकोटिनिहितैकबाहुः शिरस्त्रनिष्कर्षणभिन्नमौलिः ललाटबद्ध-श्रमवारिबिन्दुः सः भीतां प्रियां प्रेत्य वचः बभाषे ।
स इति । चापकोट्यां निहित एकबाहुर्येन स शिरस्रस्य निष्कर्षणेनापनयनेन भिन्नमौलिः श्लथकेशबन्धः। 'चूडा किरीटो केशाश्च संयता मौलयस्त्रयः' इत्यमरः । ललाटे बद्धाः श्रमवारिबिन्दवो यस्य सः सोऽजो भीतां प्रियामिन्दुमतीमेत्यासाद्य वचो बभाषे ।
**भाषार्थ—**धनुष के एक छोर पर हाथ रखे हुए युद्ध कालीन टोप के हटा देने से बिखरे केश वाले और ललाट पर पसीने की बूंदों से युक्त वे अज युद्ध के देखने से डरी हुई अपनी प्रिया इन्दुमती के पास आकर बोले ॥ ६६ ॥
इतः परानर्भकहार्यशस्त्रान्वैदर्भि ! पश्यनुमता मयासि । एवंविधेनाहवचेष्टितेन त्वं प्रार्थ्यसे हस्तगता ममेतिः ॥ ६७ ॥
**अन्वयः—**हे वैदर्भि ! त्वं इतः अर्भकहार्यशस्त्रान् परान् पश्य, मया द्रष्टुम् त्वं अनुमता असि, एभिः एवंविधेन आहवचेष्टितेन मम हस्तगता त्वं प्रार्थ्यंसे ।
सप्तमः सर्गः २३३
इत इति। हे वैदर्भि इन्दुमति ! इत इदानीमर्भंकहार्यशस्त्रान्बालकापहार्यायुधा- न्यपराञ्शत्रून्पश्य । मयानुमतासि द्रष्टुमिति शेषः । एभिर्नृपैरेवंविधेन निद्रारूपेणा- हवचेष्टितेन रणकर्मणा मम हस्तगता हस्तगतवद्दुर्ग्रहेत्यर्थः । त्वं प्रार्थ्यसे अपजि- हीष्यंस इत्यर्थः । एवंविधेनेत्यत्र स्वहस्तनिर्देशेन सोपहासमुवाचेति द्रष्टव्यम् ।
भाषार्थ—अयि विदर्भराजकुमारी ! मैं तुम्हें आज्ञा देता हूँ, देखो तो सही युद्धस्थल में राजा लोग इस प्रकार सोये हुए हैं कि बालक भी इनके अस्त्र छीन सकते हैं। देखो, इसी बल पर ये मेरे हाथों से तुमको छीनना चाहते थे ॥६७॥
तस्याः प्रतिद्वन्द्विभवाद्दिषादात्सद्यो विमुक्तं मुखमाबभासे ।
निःश्वासबाष्पापगमात्प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥ ६८ ॥
अन्वयः—प्रतिद्वन्द्विभवात् विषादात् सद्यः विमुक्तं तस्याः मुखं निःश्वासबा- ष्पापगमात् आत्मीयं प्रसादं प्रपन्नः नात्मदर्शः इव आबभासे ।
तस्या इति । प्रतिद्वन्द्विभवाद्विपूत्याद्विषादाद् दैन्यात्सद्यो विमुक्तं तस्या मुखं निःश्वासस्य यो बाष्प ऊष्मा । ‘वाष्पो नेत्रजलोष्मणोः’ इति विश्वः । तस्यापग- माद्धेतोरात्मीयं प्रसादं नैर्मल्यं प्रपन्नः प्राप्तः आत्मा स्वरूपं दृश्यतेऽनेनेत्यात्मदर्शं दर्पण इव आबभासे ।
भाषार्थ—जब इन्दुमती को यह निश्चय हो गया कि शत्रु मारे गये तब उसका मुँह उस दर्पण के समान सुशोभित हो गया जिस पर पड़ी हुई सांस की भांप पोछ दी गई हो ॥ ६८ ॥
हृष्टापि सा ह्रीविजिता न साक्षाद्वाग्भिः सखीनां प्रियमभ्यनन्दत् ।
स्थली नवाम्भःपृषताभिवृष्टा मयूरकेकाभिरिवाभ्रवृन्दम् ॥ ६९ ॥
अन्वयः—सा हृष्टा अपि ह्रीविजिता सती प्रियं साक्षात् स्वयं न अभ्यनन्दत् किन्तु नवाम्भःपृषताभिवृष्टा स्थली अभ्रवृन्दं मयूरकेकाभिः इव सखीनां वाग्भिः अभ्यनन्दत् ।
हृष्टेति । सेन्दुमती हृष्टापि पत्युः पौरुषेण प्रमुदितापि ह्रिया विजिता यतोऽत प्रियमजं साक्षात्स्वयं नाभ्यनन्दन्न प्रशंस । किन्तु नवैरम्भःपृषतैः पयोबिन्दुभिर- भिवृष्टाऽसिक्ता स्थल्यकृत्रिमा भूमिः । “जानपदकुण्डगोणस्थल०” इत्यादिना- ऽकृत्रिमार्थे ङीप् । अभ्रवृन्दं मेघसंघं मयूरकेकाभिरिव सखीनां वाग्भिरभ्यनन्दत् ।
भाषार्थ—जिस प्रकार नये बादलों की बूंदों से भीगी हुई बनस्थली मयूर के शब्दों से मेघों का अभिनन्दन करती है, उसी प्रकार अपने पति के पराक्रम से
| २३४ | रघुवंशमहाकाव्ये |
|---|
अत्यन्त प्रसन्न हुई इन्दुमती लज्जा के कारण स्वयं तो कुछ नहीं कह सकी किन्तु सखियों के वचनों द्वारा अज का अभिनन्दन किया ॥ ६९ ॥
इति शिरसि स वामं पादमाधाय राज्ञामुद्वहदनवद्यां तामवद्यादपेतः ।
रथतुरगरजोभिस्तस्य रूक्षालकाग्रा समरविजयलक्ष्मीः सैव मूर्ता बभूव ॥ ७० ॥
अन्वयः—अवद्यात् अपेतः सः इति राज्ञां शिरसि वामं पादम् आधाय अनवद्यां तां उदवहत् रथतुरगरजोभिः रूक्षालकाग्रा सा एव तस्य मूर्त्ता समरविजयलक्ष्मीः बभूव ।
इतीति । नोद्यते नोच्यत इत्यवद्यं गर्ह्यम् । “अवद्यपण्यवय्यगर्ह्यपणितव्यानिरोधेषु” इत्यनेन निपातः । “कुपूयकुत्सितावद्यखेटगर्ह्याणकाः समाः” इत्यमरः । तस्मादपेतः निर्दोष इत्यर्थः सोऽज इति राज्ञां शिरसि वामं पादमाधायानवद्यामदोषां तामिन्दुमतीमुद्वहदुपानयत् । आत्मसाच्चकारेत्यर्थः । अयमर्थः ‘समुद्वहन्तं पथि भोजकन्याम्’ इत्यत्र न श्लिष्टः । तस्याजस्य रथतुरगाणां रजोभी रूक्षाणि परुषाण्यलकाग्राणि यस्याः सा सेन्दुमत्येव मूर्ता मूर्तिमती समरविजयलक्ष्मीर्बभूव । एतल्लाभादन्यः को विजयलक्ष्मीलाभ इत्यर्थः ।
भाषार्थ—इस प्रकार निर्दोष वे अज उन राजाओं के शिरों पर बांया पैर रख कर सर्वाङ्ग सुन्दरी उस इन्दुमती को लेकर चले । रथ के घोड़ों की टापों से उड़ी हुई धूलि से इन्दुमती के केश भर गये थे उस समय वह साक्षात् विजय लक्ष्मी जैसी जान पड़ती थी ॥ ७० ॥
प्रथमपरिगतार्थस्तं रघुः सन्निवृत्तं
विजयिनमभिनन्द्य श्लाघ्यजायासमेतम् ।
तदुपहितकुटुम्बः शान्तिमार्गोत्सुकोऽभू-
न्नहि सति कुलधुर्ये सूर्यवंशा गृहाय ॥ ७१ ॥
अन्वयः—प्रथमपरिगतार्थः रघुः विजयिनं श्लाघ्यजायासमेतं सन्निवृत्तं तम् अभिनन्द्य, तदुपहितकुटुम्बः सन् शान्तिमार्गोत्सुकः अभूत् । हि कुलधुर्ये सति सूर्यवंश्याः गृहाय न भवन्ति ।
प्रथमेति । प्रथममजागमनात्प्रागेव परिगतो ज्ञातोऽर्थो विवाहविजयरूपो येन स प्रथमपरिगतार्थो रघुर्विजयिनं विजययुक्तं श्लाघ्यजायासमेतं सन्निवृत्तं प्रत्यागतं तमजमभिनन्द्य तस्मिन्नज उपहितकुटुम्बः सन् । ‘सुतविन्यस्तपत्नीकः’ इति याज्ञवल्क्य-
अष्टमः सर्गः
अष्टमः सर्गः २३५
स्मरणादिति भावः । शान्तिमार्गे मोक्षमार्गे उत्सुकॊऽभूत् । तथाहि कुलधुर्ये कुल- धुरंधरे सति सूर्यवंश्या गृहस्थाश्रमाय न भवन्ति ।
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये अजपाणिग्रहणो नाम सप्तमः सर्गः ॥ ७ ॥
भाषार्थ—महाराज रघु को यह सब समाचार अज के पहुँचने के पहले ही मिल चुका था, इसलिए उन्होंने विजयी तथा योग्य स्त्री के सहित आये हुए अज का अभिनन्दन किया और उन्हें कुटुम्ब का भार सौंप कर मोक्ष मार्ग की प्राप्ति के लिए उत्सुक हो गये। क्योंकि सूर्य वंशी राजाओं का यह नियम है कि वे पुत्र के योग्य हो जाने पर गृहस्थाश्रम में रहना पसन्द नहीं करते ॥७१॥
यह त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित अन्वय और चन्द्रकला नाम की हिन्दी टीका में रघुवंश महाकाव्य का अजपाणिग्रहण नामक सप्तम सर्ग समाप्त हुआ।
अष्टमः सर्गः
हेरम्बमवलम्बेऽहं यस्मिन्पातालकेलिषु ।
दन्तेनोद्धस्यति क्षोणीं विश्राम्यन्ति फणीश्वराः ॥
अथ तस्य विवाहकौतुकं ललितं बिभ्रत एव पार्थिवः ।
वसुधामपि हस्तगामिनीमकरोदिन्दुमतीमिवापराम् ॥ १ ॥
अन्वयः—अथ पार्थिवः ललितं विवाहकौतुकम् बिभ्रतः एव अपराम् इन्दु- तीम् इव वसुधाम् अपि हस्तगामिनीम् अकरोत् ॥ १ ॥
अथेति। अथ पार्थिव रघुर्ललितं सुभगं विवाहकौतुकं विवाहमङ्गलं विवाहहस्तसूत्रं वा बिभ्रत एव । ‘कौतुकं मङ्गलं हर्षे हस्तसूत्रे कुतूहले' इति शाश्वतः। तस्याजस्य परामिन्दुमतीमिव वसुधामपि हस्तगामिनीमकरोत् । राज्ये तमभ्यषिञ्चदित्यर्थः अस्मिन्सर्गे वैतालीय छन्दः ।