भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

त्रयोदशः सर्गः ४३५

ओर तो देखो, दूर चले आने के कारण यह जंगलों से भरी हुई भूमि ऐसी दिखाई दे रही है मानों समुद्र से अभी निकल पड़ी हो ॥ १८ ॥

क्वचित्पथा सञ्चरते सुराणां क्वचिद्घनानां पततां क्वचिच्च ।
यथाविधो मे मनसोऽभिलाषः प्रवर्त्तते पश्य तथा विमानम् ॥ १९ ॥

अन्वयः— ( हे देवि ! ) विमानं मे मनसः अभिलाषः यथाविधः प्रवर्त्तते, तथा पश्य, क्वचित् सुराणां क्वचित् घनानां क्वचित् पततां च पथा संचरते ।

क्वचित्पथेति । हे देवि ! विमानं पुष्पकं मे मनसोऽभिलाषो यथाविधस्तथा प्रवर्त्तते पश्य । क्वचित्सुराणां पथा मार्गेण सञ्चरते क्वचिद् घनानां क्वचित्पततां पक्षिणां च पथा संचरते । "समस्तृतीयायुक्तात्" इति सम्पूर्वाच्चरतेरात्मनेपदम् ।

भाषार्थ— हे प्रिये ! मैं जिधर चाहता हूँ उधर ही यह विमान घूम जाता है, यह कभी तो देवताओं के मार्ग में उड़ता चलता है, कभी बादलों के मार्ग से पहुँच जाता है और कभी पक्षियों के मार्ग ( आकाश ) में उड़ने लगता है ॥ १९ ॥

असौ महेन्द्रद्विपदानगन्धिस्त्रिमार्गगावीचिविमर्दशीतः ।
आकाशवायुर्दिनयौवनोत्थानाचामति स्वेदलवान्मुखे ते ॥ २० ॥

अन्वयः— महेन्द्रद्विपदानगन्धिः त्रिमार्गगावीचिविमर्दशीतः असौ आकाश-वायुः दिनयौवनोत्थान् ते मुखे स्वेदलवान् आचामति ।

असाविति । महेन्द्रद्विपदानगन्धिरैरावतमदगन्धिः । त्रिभिर्मार्गैर्गच्छतीति त्रिमार्गगा गङ्गा । "तद्धितार्थोत्तरपदसमाहारे च" इत्यनेनोत्तरपदसमासः । तस्या वियद्गङ्गाया वीचीनां विमर्देन सम्पर्केण शीतोऽसावाकाशवायुर्दिनयौवनोत्था-मध्याह्नसंभवांस्ते मुखे स्वेदलवानाचामति हरति । अनेन सुरपथसञ्चारो दर्शितः ।

भाषार्थ— ऐरावत के मद से सुगन्धित आकाश गङ्गा की लहरों के स्पर्श से शीतल यह आकाश का वायु तुम्हारे मुखपर दोपहर की गर्मी से उत्पन्न हुए पसीने की बूंदों को सुखा रहा है ॥ २० ॥

करेण वातायनलम्बितेन स्पृष्टस्त्वया चण्डि ! कुतूहलिन्या ।
आमुञ्चतीवाभरणं द्वितीयमुद्भिन्नविद्युद्वलयो घनस्ते ॥ २१ ॥

अन्वयः— हे चण्डि ! कुतूहलिन्या त्वया वातायनलम्बितेन करेण स्पृष्टः उद्भिन्नविद्युद्वलयः घनः ते द्वितीयं आभरणं आमुञ्चति इव ।

करेणेति । हे चण्डि कोपने ! 'चण्डस्त्वत्यन्तकोपनः' इत्यमरः । कुतूहलिन्या विनोदायिन्या त्वया कर्त्र्या वातायने गवाक्षे लम्बितेनासंसितेन करेण स्पृष्ट

४३६ रघुवंशमहाकाव्ये

उद्भिन्नविद्युद्वलयो घनस्ते द्वितीयमाभरणं वलयमामुखतीवार्पयतीव । चण्डी- त्वनेन कोपनशीलत्वाद्व्रीतः क्षिप्रं त्वां मुञ्चति मेघ इति व्यज्यते । भाषार्थ—हे प्रिये ! जब तुम कौतुकवश अपना हाथ विमान से बाहर निकालकर बादल को छूने लगती हो तो तुम्हारे मणिबन्ध चारों तरफ बिजली चमक जाती है उस समय मालूम पड़ता है मानो वह बादल तुम्हारे हाथ में दूसरा कंकण पहना रहा हो ॥ २१ ॥

अमी जनस्थानमपोढविघ्नं मत्वा समारब्धनवोटजानि । अभ्यासते चीरभृतो यथास्वं चिरोज्झितान्याश्रममण्डलानि ॥ २२ ॥

अन्वयः—अमी चीरभृतः जनस्थानम् अपोढविघ्नं मत्वा समारब्धनवोटजानि चिरोज्झितानि आश्रममण्डलानि यथास्वं अभ्यासते ।

अमी इति । अमी चीरभृतस्तापसा जनस्थानमपोढविघ्नमपास्यविघ्नं मत्वा ज्ञात्वा समारब्धा नवा उटजाः पर्णशाला येषु तानि । 'पर्णशालोटजोऽस्त्रियाम्' इत्यमरः । चिरोज्झितानि राक्षसभयादित्यर्थः । आश्रममण्डलान्याश्रमविभागान्य- थास्वं स्वमनतिक्रम्याभ्यासतेऽधितिष्ठन्ति ।

भावार्थ—प्रिये ! नीचे देखो, रावण आदि राक्षसों के मारे जाने की बात सुनकर वल्कल वस्त्रधारी इन तपस्वियों ने समझ लिया है कि अब कोई बाधा नहीं रही । इसलिए ये नई २ कुटिया बनाकर बहुत दिनों से छोड़े हुए आश्रमों में पहले के समान निवास कर रहे हैं ॥ २२ ॥

सैषा स्थली यत्र विचिन्वता त्वां भ्रष्टं मया नूपुरमेकमुर्व्याम् । अदृश्यत त्वच्चरणारविन्दविश्लेषदुःखादिव बद्धमौनम् ॥ २३ ॥

अन्वयः—सा स्थली एषा यत्र त्वां विचिन्वता मया त्वच्चरणारविन्द- विश्लेषदुःखात् इव बद्धमौनं उर्व्यां भ्रष्टं एकं नूपुरं अदृश्यत ।

सैषेति । सा पूर्वानुभूता स्थल्येषा दृश्यत इत्यर्थः । यत्र स्थल्यां त्वां विचिन्वताऽन्विष्यता मया । त्वच्चरणारविन्देन यो विश्लेषो वियोगस्तेन यद् दुःखं तस्मादिव बद्धमौनं निःशब्दम् । उर्व्यां भ्रष्टमेकं नूपुरं मञ्जीरः । 'मञ्जीरो -नूपुरोऽस्त्रियाम्' इत्यमरः । अदृश्यत दृष्टम् । हेतूत्प्रेक्षा ।

भावार्थ—प्रिये ! देखो यह वही स्थान है जहाँ तुम्हें ढूंढते हुए मैंने पृथ्वी पर पड़े हुए तुम्हारे एक नूपुर को पाया था । गुप-चुप पड़ा हुआ वह ऐसा मालूम पड़ रहा था मानों तुम्हारे चरणों से अलग हो जाने के दुःख से चुप हो गया हो ॥ २३ ॥

त्रयोदशः सर्गः । ४३७

त्रयोदशः सर्गः । ४३७

त्वं रक्षसा भीरु ! यतोऽपनीता तं मार्गमेताः कृपया लता मे ।
अदर्शयन्वक्तुमशक्नुवत्यः शाखाभिरावर्जितपल्लवाभिः ॥ २४ ॥

अन्वयः—हे भीरु ! त्वं रक्षसा यतः अपनीता, तं मागं वक्तुं अशक्नुवत्यः एताः लताः आवर्जितपल्लवाभिः शाखाभिः अदर्शयन् ।

त्वमिति । हे भीरु भयशीले ! “ऊङुतः” इत्यूङ् । ततो नदीत्वात्संबुद्धौ ह्रस्वः । त्वं रक्षसा रावणेन यतो येन मार्गेण । सार्वविभक्तिकस्तसिः । अपनीताऽपहृता तं मागं वागिन्द्रियाभावाद्वक्तुमशक्नुवत्य एता लतावीरुध आवर्जिता नमिताः पल्लवाः पाणिस्थानीया याभिस्ताभिः शाखाभिः स्वावयवभूताभिः कृपया मेऽदर्शयन् । हस्तचेष्टया सूचयन्नित्यर्थः । 'शाखा वृक्षान्तरे भुजे' इति विश्वः । लतादीनामपि ज्ञानमस्त्येव । तदुक्तं मनुना—
"अन्तःसंज्ञा भवन्त्येते सुखदुःखसमन्विता" इति ।

भावार्थ—हे भीरु प्रिये ! रावण तुम्हें जिस मार्ग से ले गया था उस मार्ग को ये लतायें मुझको बताना चाहती थी पर बोल न सकने के कारण इन्होंने अपनी पत्तों वाली डालियों को ही उधर झुकाकर मुझे तुम्हारा पता बता दिया था ॥ २४ ॥

मृग्यश्च दर्भाङ्कुरनिर्व्यपेक्षास्तवागतिज्ञं समबोधयन्माम् ।
व्यापारयन्त्यो दिशि दक्षिणस्यामुत्पक्ष्मराजीनि विलोचनानि ॥ २५ ॥

अन्वयः—दर्भाङ्कुरनिर्व्यपेक्षा मृग्यः उत्पक्ष्मराजीनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः तव अगतिज्ञं मां समबोधयन् ।

मृग्यश्चेति । दर्भाङ्कुरेषु भक्ष्येषु निर्व्यपेक्षा निस्पृहा मृग्यो मृगाङ्गनाश्चोत्पक्ष्मराजीनि विलोचनानि दक्षिणस्यां दिशि व्यापारयन्त्यः प्रवर्तयन्त्यः सत्यस्तवागतिज्ञं गत्यनभिज्ञं समबोधयन् । दृष्टिचेष्टया त्वद्गतिमबोधयन्नित्यर्थः ।

भावार्थ—हरिणियों ने भी जब देखा कि मुझे तुम्हारे जाने के मार्ग का पता नहीं लग रहा है तब वे अपनी उठी हुई पलकों वाली आँखें दक्षिण की ओर करके मुझे तुम्हारा मार्ग समझाने लगीं ॥ २५ ॥

एतद्गिरेर्माल्यवतः पुरस्तादाविर्भवत्यम्बरलेखि शृङ्गम् ।
नवं पयो यत्र घनैर्मया च त्वद्विप्रयोगाश्रु समं विसृष्टम् ॥ २६ ॥

अन्वयः—माल्यवतः गिरेः अम्बरलेखि शृङ्गं एतत् पुरस्तात् आविर्भवति, यत्र घनैः नवं पयः मया त्वद्वियोगाश्रु समं विसृष्टम् ।

एतदिति । माल्यवतो नाम गिरेरम्बरलेख्यभ्रंकषं शृङ्गं शिखरमेतत्पुरस्तादग्रं आविर्भवति । यत्र शृङ्गे घनैर्मेघैर्नवं पयो मया त्वद्विप्रयोगेन यदश्रु तच्च समं युगपद्विसृष्टं मुक्तम् । मेघदर्शनाद्धर्षातुल्यमश्रु विमुक्तमिति भावः ।

४३८ रघुवंशमहाकाव्ये

भाषार्थ—देखो, सामने जो यह माल्यवान् नामक पर्वत की गगनस्पर्शी ऊँची चोटी दिखाई पड़ रही है, वहाँ जब बादलों ने नया जल बरसाना आरम्भ किया था, तब तुम्हारे न रहने से मेरी आँखें भी जल बरसाने लगी। अर्थात् यहाँ बरसते हुए मेघों को देखकर तुम्हारे लिए मैं खूब रोया था ॥ २६ ॥

गन्धश्च धाराहतपल्वलानां कादम्बमर्धोद्गतकेसरं च।
स्निग्धाश्च केकाः शिखिनां बभूवुर्यस्मिन्नसह्यानि विना त्वया मे ॥२७॥

अन्वयः— यस्मिन् धाराहतपल्वलानां गन्ध अर्द्धोद्गतकेसरं कादम्बं च स्निग्धा शिखिनां केकाः त्वया विना मया असह्यानि बभूवुः ।

गन्धश्चेति । यस्मिञ्छृङ्गे धाराभिर्वर्षाधाराभिराहतानां पल्वलानां गन्धश्च अर्धोद्गतकेसरं कादम्बं नीपकुसुमं च स्निग्धाः मधुराः शिखिनां बर्हिणाम् । 'शिखिनो वह्निबर्हिणौ' इत्यमरः । केकाश्च त्वया विना मेऽसह्यानि बभूवुः । "नपुंसकमनपुंसकेन०" इति नपुंसकैकशेषः ।

भाषार्थ— उस समय यहाँ वर्षा के कारण तालाबों से उठी हुई गन्ध, अधखिले केशोंवाले कदम्ब के फूल और मयूरों के मनोहर शब्द तुम्हारे बिना मुझे असह्य हो गये ॥ २७ ॥

पूर्वानुभूतं स्मरता च यत्र कम्पोत्तरं भीरु ! तवोपगूढम् ।
गुहाविसारोण्यतिवाहितानि मया कथञ्चिद्धनगर्जितानि ॥ २८ ॥

अन्वयः— हे भीरु ! यत्र पूर्वानुभूतं कम्पोत्तरं तवोपगूढं स्मरता मया गुहा-विसारीणि घनगर्जितानि कथंचित् अतिवाहितानि ।

पूर्वेति । किंच हे भीरु ! यत्र शृङ्गे पूर्वानुभूतं कम्पोत्तरं कम्पप्रधानं तवोपगूढमुपगूह्नं मेघस्तनितश्रवणेन भीरुस्वभावत्वात्त्वया कृतमालिङ्गनमित्यर्थः । स्मरता मया गुहाविसारीणि घनगर्जितानि कथञ्चिदतिवाहितानि । स्मारकत्वेनोद्दीपकत्वात्क्लेशेन गमितानीत्यर्थः ।

भाषार्थ— जब वहाँ बादल गरजते थे और गुफाओं में उसकी प्रतिध्वनि होने लगती थी तब तुम बादलों के भयंकर गर्जन से डरकर काँपती हुई मुझसे लिपट जाती थी । उन दिनों को स्मरण करके मैंने उन्हें बड़े कष्ट से बिताया है ॥ २८ ॥

आसारसिक्तक्षितिबाष्पयोगान्मामक्षिणोद्यत्र विभिन्नकोशैः ।
विडम्ब्यमाना नवकन्दलैस्ते विवाहधूमारुणलोचनश्रीः ॥ २६ ॥

अन्वयः— यत्र विभिन्नकोशैः नवकन्दलैः आसारसिक्तक्षितिबाष्पयोगात् विडम्ब्यमाना ते विवाहधूमारुणलोचनश्रीः माम् अक्षिणोत् ।

त्रयोदशः सर्गः ४३९

त्रयोदशः सर्गः ४३९

आसारेति । अथ शृङ्गे विभिन्नकोशैर्विकसितकुड्मलैर्र्नवकन्दलैः कन्दली- पुष्पैररुणवर्णैरासारेण धारासंपातेन । 'धारासंपात आसारः' इत्यमरः । सिक्तायाः क्षितेर्बाष्पस्य धूमवर्णस्य योगाद्धेतोर्विडम्ब्यमानाऽनुक्रियमाणा ते विवाहधूमेनारुणा लोचनश्रीः सादृश्यात्स्मर्यमाणेति शेषः । मामक्षिणदपीडयत् ।

भाषार्थ—धारा पूर्वक वर्षा होने से भीगी हुई पृथ्वी से जो वहाँ भाप निक- लती थी उससे कन्दलियों की कलियाँ खिल उठीं और वैसी ही लाल हो गईं जैसे विवाह के समय होम का धुंआँ लगने से तुम्हारी आँखें लाल हो गई थीं, यह स्मरण आ जाने से मुझे बड़ा कष्ट हुआ ॥ २९ ॥

उपान्तवानीरवनोपगूढान्यालक्ष्यपारिप्लवसारसानि । दूरावतीर्ण पिवतीव खेदादमूनि पम्पासलिलानि दृष्टिः ॥ ३० ॥

अन्वयः—उपान्तवानीरवनोपगूढानि आलक्ष्य पारिप्लवसारसानि अमूनि पम्पासलिलानि दूरावतीर्णा मे दृष्टिः खेदात् पिवति इव ।

उपान्तेति । उपान्तवानीरवनोपगूढानि पार्श्ववज्जुलवनच्छन्नान्यलक्ष्या ईष- द्ददृश्याः पारिप्लवाश्चञ्चलाः सारसा येषु तान्यमूनि पम्पासलिलानि पम्पासरोज- लानि दूरादवतीर्णा मे दृष्टिरत एव खेदात्पिवतीव । न विहातुमुत्सह्त इत्यर्थः ।

भाषार्थ—प्रिये ! देखो अधिक ऊँचे होने के कारण और समीपस्थ वेत के जंगलों से ढंके रहने के कारण पम्पासर का पानी ठीक-ठीक नहीं दिखाई दे रहा है उनपर दूर से पड़ती हुई दृष्टि मानों खेद से उन्हें पी रही है ॥३०॥

अत्रावियुक्तानि रथाङ्गनाम्नामन्योन्यदत्तोत्पलकेसराणि । द्वन्द्वानि दूरान्तरवर्तिना ते मया प्रिये ! सस्पृहमीक्षितानि ॥३१॥

अन्वयः—हे प्रिये ! अत्र अन्योऽन्यदत्तोत्पलकेसराणि अवियुक्तानि रथाङ्ग- नाम्नां द्वन्द्वानि ते दूरान्तरवर्तिना मया सस्पृहं ईक्षितानि ।

अत्रेति । अत्र पम्पासरस्यन्योन्यस्मै दत्तोत्पलकेसराण्यविमुक्तानि रथाङ्ग- नाम्नां द्वन्द्वानि चक्रवाकमिथुनानि ते तव दूरान्तरवर्तिना दूरदेशवर्तिना मया। हे प्रिये ! सस्पृहं साभिलाषमीक्षितानि । तदानीं त्वामस्मार्षमित्यर्थः ।

भाषार्थ—हे प्रिये ! यहाँ चकवा चकवी के जोड़े एक दूसरे को प्रेमपूर्वक कमल का केशर दिया करते थे, तुमसे दूर होने के कारण उन्हें देखकर मैं यही सोचा करता था कि मुझे भी ये दिन कब देखने को मिलेंगे ॥ ३१ ॥

इमां तटाशोकलतां च तन्वीं स्तनाभिरामस्तबकाभिनम्राम् । त्वत्प्राप्तिबुद्ध्या परिरब्धुकामः सौमित्रिणा साश्रुरहं निषिद्धः ॥३२॥

४४० रघुवंशमहाकाव्ये

अन्वयः—स्तनाभिरामस्तबकानि नम्रां तन्वीं इमां तटाशोकलतां त्वत्प्राप्ति-बुद्ध्या परिरब्धुकामः अहं सौमित्रिणा साश्रुः निषिद्धः ।

इमामिति । किंच स्तनवदभिरामाभ्यां स्तबकाभ्यामभिनम्रां तन्वीमिमां तटाशोकस्य लतां शाखामतस्त्वत्प्राप्तिबुद्ध्या त्वमेव प्राप्तेति भ्रान्त्या परिरब्धु-मालिङ्गितुं कामो यस्य सोऽहं सौमित्रिणा लक्ष्मणेन साश्रुर्निषिद्धः । नेयं सीतेति निवारितः । परिरब्धुकाम इत्यत्र "तुं काममनसोरपि" इति वचनान्मकारलोपः ।

भाषार्थ—प्रिये ! तुम्हारे वियोग में मैं ऐसा पागल हो गया था कि एक दिन स्तन के समान मनोहर गुच्छे से झुकी हुई पतली तटवर्तिनी अशोक लता को मैंने यह समझकर गले लगाना चाहा था कि तुम ही हो । तब तक मेरे इस पागलपन को देखकर लक्ष्मण ने रोते हुए मुझे वहां से हटा दिया ॥ ३२ ॥

अमूविमानान्तरलम्बिनीनां श्रुत्वा स्वनं काञ्चनकिङ्किणीनाम् ।
प्रत्युद्द्रजन्तीव खमुत्पतन्त्यो गोदावरीसारसपंक्तयस्त्वाम् ॥ ३३ ॥

अन्वयः—विमानान्तरलम्बिनीनां काञ्चनकिंकिणीनां स्वनं श्रुत्वा उत्प-तन्त्यः अमू गोदावरीसारसपंक्तयः त्वां प्रत्युद्द्रजन्ति इव ।

अमूरिति । विमानस्यान्तरेष्ववकाशेषु लम्बन्ते यास्तासां काञ्चनकिङ्किणीनां स्वनं श्रुत्वा स्वयूथशब्दभ्रमात्खमाकाशमुत्पतन्त्योऽमूर्गोदावरीसारसपंक्तयस्त्वां प्रत्यु-द्द्रजन्तीव ।

भाषार्थ—यह देखो, विमान में लगे हुए छोटे-छोटे सुवर्ण के घुंघुरुओं की आवाज को सुनकर गोदावरी नदी के सारस पक्षियों की पंक्तियाँ अपने झुण्ड के भ्रम से आकाश में ऊपर उड़ती हुई चली आ रही हैं मानो ये तुम्हारी अगवानी करने आ रही हैं ॥ ३३ ॥

एषा त्वया पेशलमध्ययाऽपि घटाम्बुसंवर्धितबालचूता ।
आनन्दयत्युन्मुखकृष्णसारा दृष्टा चिरात्पञ्चवटी मनो मे ॥ ३४ ॥

अन्वयः—पेशलमध्ययापि त्वया घटाम्बुसंवर्द्धितबालचूता, उन्मुखकृष्णसारा चिराद्दृष्टा एषा पञ्चवटी मे मनः आनन्दयति ।

एषेति । पेशलमध्ययाऽपि भाराक्षमयाऽपीत्यर्थः । त्वयाघटाम्बुभिः संवर्धिता बालचूता यस्याः सा । उन्मुखा अस्मदभिमुखास्त्वत्संवर्धिता एव कृष्णसारा यस्याः सा । चिराद्दृष्टैषा पञ्चवटी मे माम् आनन्दयत्याह्लादयति । पञ्चवटी पूर्वमेव व्याख्यातः ।

भाषार्थ—बहुत दिनों पर पञ्चवटी को देखकर आज मेरा हृदय खिल उठा है यह देखो, यहाँ के मृग ऊपर शिर उठाकर विमान को देख रहे हैं । यहीं

त्रयोदशः सर्गः ४४१

पर तो तुमने अपनी पतली कमर पर घड़े लेकर छोटे-छोटे आम के वृक्षों को सींचकर पाला-पोसा था ॥ ३४ ॥

अत्रानुगोदं मृगयानिवृत्तस्तरङ्गवातेन विनीतखेदः ।
रहस्त्वदुत्सङ्गनिषण्णमूर्धा स्मरामि वानीरगृहेषु सुप्तः ॥ ३५ ॥

अन्वयः—अत्र अनुगोदं मृगयानिवृत्तः तरंगवातेन विनीतखेदः रहः त्वदुत्संगनिषण्णमूर्धा ( सन् अहं ) वानीरगृहेषु सुप्तः स्मरामि ।

अत्रेति । अत्र पञ्चवट्यां गोदा गोदावरी तस्या, समीपेऽनुगोदम् । 'अनुर्यत्समया'' इत्यव्ययीभावः । मृगयाया निवृत्तस्तरङ्गवातेन विनीतखेदो रहो रहसि । अत्यन्तसंयोगे द्वितीया । त्वदुत्सङ्गनिषण्णमूर्धा सन्नहं वानीरगृहेषु सुप्तः स्मरामि । वाक्यार्थः कर्म । सुप्त इति यत्तत्स्मरामीत्यर्थः ।

भाषार्थ—मुझे उन दिनों का स्मरण हो रहा है जब मैं यहाँ एकान्त में वेतों की कुञ्जों में तुम्हारी गोद में शिर रखकर सोया करता था और गोदावरी की ठंडी हवा मेरे शिकार के श्रम को मिटाया करती थी ॥ ३५ ॥

भ्रूभेदमात्रेण पदान्मघोनः प्रभ्रंशयां यो नहुषं चकार ।
तस्याविलाम्भःपरिशुद्धिहेतोर्भीमो मुनेः स्थानपरिग्रहोऽयम् ॥ ३६ ॥

अन्वयः—यः भ्रूभेदमात्रेण नहुषं मघोनः पदात् प्रभ्रंशयांचकार आविलाम्भ परिशुद्धिहेतोः तस्य मुनेः भौमः स्थानपरिग्रहः अयम् ( अस्ति ) ।

भ्रूभेदेति । यो मुनिर्भ्रूभेदमात्रेण भ्रूभङ्गमात्रेणैव नहुषं राजानं मघोनः पदादिन्द्रत्वात्प्रभ्रंशयाञ्चकार प्रभ्रंशयति स्म । आविलाम्भः परिशुद्धिहेतोः कलुषजलप्रसादहेतोस्तस्य मुनेरगस्त्यस्य अगस्त्योदये शरदि जलं प्रसीदतीत्युक्तं प्राक् । भूमौ भवो भौमः । स्थानपरिग्रह आश्रमोऽयं दृश्यत इति शेषः । भौम इत्यनेन दिव्योऽप्यस्तीत्युक्तम् । परिगृह्यत इति परिग्रहः स्थानमेव इति विग्रहः ।

भाषार्थ—यह देखो, सामने ही उस अगस्त्य मुनि का आश्रम है जिन्होंने केवल भ्रूकुटी टेढ़ी करके ( शाप देकर ) राजा नहुष को इन्द्रपद से गिरा दिया । ये जब उदय होते हैं तब वर्षों का गन्दा जल स्वच्छ हो जाता है ॥ ३६ ॥

त्रेताग्निधूमाग्रमनिन्द्यकीर्तेस्तस्येदमाक्रान्तविमानमार्गम् ।
घ्रात्वा हविर्गन्धि रजोविमुक्तः समश्नुते मे लघिमानमात्मा ॥ ३७ ॥

अन्वयः—अनिन्द्यकीर्तेः तस्य आक्रान्त विमानमार्गं हविर्गन्धि त्रेताग्निधूमाग्रं घ्रात्वा रजोविमुक्तः मे आत्मा लघिमानं समश्नुते ।

४४२रघुवंशमहाकाव्ये

त्रेतेति । अनिन्द्यकीर्तेस्तस्यागस्त्याक्रान्तविमानमार्गम् । हविर्गन्धोऽस्यास्तीति हविर्गन्धि त्रेताग्नेरग्नित्रयम् । 'अग्नित्रयमिदं त्रेता' इत्यमरः । पृषोदरादित्वादेत्वम् । त्रेताग्नेर्धूम्रामिदं घ्रात्वाऽऽघ्राय रजसो गुणाद्विमुक्तो मे ममात्मान्तःकरणं लघिमानं लघुत्वगुणं समश्नुते प्राप्नोति ।

भाषार्थ—उसी प्रशंसनीय यशवाले अगस्त्य ऋषि द्वारा गार्हपत्य, दाक्षिणात्य एवं आहवनीय अग्नियों में दी गई हवन सामग्री की गन्ध से मिला हुआ यह धुआं विमान के पास तक उठा चला आ रहा है जिसे सूंघते ही मेरी आत्मा पवित्र हो गई और मेरे अन्तःकरण से रजोगुण निकल गया । अर्थात् मैं शान्ति का अनुभव कर रहा हूँ ॥ ३७ ॥

एतन्मुनेर्मानिनि ! शातकर्णेः पञ्चाप्सरो नाम विहारवारि ।
आभाति पर्यन्तवनं विदूरान्मेघान्तरालक्ष्यमिवेन्दुबिम्बम् ॥ ३८ ॥

अन्वयः—हे मानिनि ! शातकर्णेः मुनेः पञ्चाप्सरो नाम पर्यन्तवनं एतत् बिहारवारि विदूरात् मेघान्तरालक्ष्यं इन्दुबिम्बं इव आभाति ।

एतदिति । हे मानिनि ! शातकर्णेर्मुनेः संबन्धि पञ्चाप्सरो नाम पञ्चाप्सर इति प्रसिद्धम् । पञ्चाप्सरसो यस्मिन्निति विग्रहः पर्यन्तेषु वनानि यस्य तत्पर्यन्तवनमेतद्विहारवारि क्रीडासरो विदूरात् मेघानामन्तरे मध्य आलक्ष्यमीषदृदृश्यम् । 'आङीषदर्थेऽभिव्याप्तौ' इत्यमरः । इन्दुबिम्बमिव आभाति ।

भाषार्थ—हे मानिनि प्रिये ! यह आगे शातकर्णी ऋषि का पञ्चाप्सर नामक क्रीड़ा सरोवर चारों ओर काले-काले जंगलों से घिरा हुआ दूर से ऐसा दिखाई पड़ रहा है मानो बादलों के बीच में कुछ-कुछ दिखाई देने वाला चमकीला चन्द्रमा का बिम्ब हो ॥ ३८ ॥

पुरा स दर्भाङ्कुरमात्रवृत्तिश्चरन्मृगैः सार्धमृषिर्मघोना ।
समाधिभीतेन किलोपनीतः पञ्चाप्सरोयौवनकूटबन्धम् ॥ ३९ ॥

अन्वयः—पुरा दर्भाङ्कुरमात्रवृत्तिः मृगैः सार्द्धं सह चरन् स ऋषिः समाधिभीतेन मघोना पञ्चाप्सरो-योजनकूटबन्धं उपनीतः किल ।

पुरेति । पुरा पूर्वस्मिन्काले दर्भाङ्कुरमात्रवृत्तिस्तन्मात्राहारो मृगैः सह चरन्स ऋषिः समाधेस्तपसो भीतेन मघोनेन्द्रेण पञ्चानामप्सरसां यौवनम् । 'तद्धितार्थोत्तरपदसमाहारे च' इत्यनेनोत्तरपदसमासः । तदेव कूटबन्धं कपटयन्त्रमुपनीतः । 'उन्माथः कूटयन्त्रं स्यात्' इत्यमरः । किलेत्यैतिह्ये । मृगसाहचर्यान्मृगवदेव बद्ध इति भावः ।

त्रयोदशः सर्गः ४४३

त्रयोदशः सर्गः ४४३

**भाषार्थ—**पहले ये ऋषि तपस्या करते समय मृगों के साथ केवल कुशांकुर खाकर जीवन निर्वाह करते थे, इनकी ऐसी उग्र तपस्या देखकर इन्द्र को यह भय हो गया कि कहीं ये हमारा इन्द्रासन न छीन लें। इसलिए इनको तप से गिराने के लिए इन्द्र ने एक साथ पाँच अप्सराओं का जाल इन पर फेंका और ये बेचारे उनके कपट जाल में फँस गये। अर्थात् इन्द्र ने इनके तप से डरकर पाँच अप्सराओं को भेजकर इन्हें तपसे भ्रष्ट कर दिया ॥ ३९ ॥

तस्यायमन्तर्हितसौधभाजः प्रसक्तसंगीतमृदङ्गघोषः ।
वियद्गतः पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ॥ ४० ॥

**अन्वयः—**अन्तर्हितसौधभाज; तस्य अयं प्रसक्तसंगीत मृदङ्गघोषः वियद्गतः ( सन् ) पुष्पकचन्द्रशालाः क्षणं प्रतिश्रुन्मुखराः करोति ।

तस्येति । अन्तर्हितसौधभाजो जलान्तर्गतप्रासादगतस्य तस्य शातकर्णेरयं प्रशक्तः संततः संगीतमृदङ्गघोषो वियद्गतः सन्पुष्पकस्य चन्द्रशालाः शिरोगृहाणि । 'चन्द्रशाला शिरोगृहम्' इत्यमरः । क्षणं प्रतिश्रुद्भिः प्रतिध्वानिभिर्मुखरा ध्वनन्तीः करोति । 'स्त्री प्रतिश्रुत्प्रतिध्वाने' इत्यमरः ।

**भाषार्थ—**यह जो नाच, गाना सुनाई दे रहा है वह जल के भीतर बने हुए उन्हीं के भवन का है, वहीं के मृदङ्ग की ध्वनि आकाश में पुष्पक विमान से टकरा कर गूंज रही है ॥ ४० ॥

हविर्भुजामेधवतां चतुर्णां मध्ये ललाटंतपसप्तसप्तिः ।
असौ तपस्यत्यपरस्तपस्वी नाम्ना सुतीक्ष्णश्चरितेन दान्तः ॥ ४१ ॥

**अन्वयः—**नाम्ना सुतीक्ष्णः चरितेन दान्तः असौ अपरः तपस्वी एधवतां चतुर्णां हविर्भुजां मध्ये लालटन्तपसप्तसप्तिः तपस्यति ।

हविरिति । नाम्ना सुतीक्ष्णः सुतीक्ष्णनामा चरितेन दान्तः सौम्योऽसावपरस्तपस्वी एधवतामिन्धनवताम् 'काष्ठं दार्विन्धनं त्वेधः' इत्यमरः । चतुर्णां हविर्भुजामग्नीनां मध्ये ललाटं तपतीति ललाटन्तपः सूर्यः । "असूर्यललाटयोर्दृशितपोः" इति खश्प्रत्ययः । "अरुर्द्विषदजन्तस्य मुम्" इत्यनेन मुमागमः । ललाटंतपः । सप्तसप्तिः सप्ताश्वः सूर्यो यस्य स तथोक्तः सन् । तपस्यति "कर्मणो रोमन्थतपोभ्यां वर्त्तिचरोः" इति क्यङ् । 'तपसः परस्मैपदं च' इति वक्तव्यम् ।

**भाषार्थ—**ये जो इन्धनयुक्त चार अग्नियों के बीच में ललाट पर सूर्य की किरणों से तपते हुए तपस्वी बैठे हैं इनका नाम सुतीक्ष्ण है, परन्तु ये चरित्र के सीधे और शान्त हैं ॥ ४१ ॥

४४४ रघुवंशमहाकाव्ये

अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि। नालं विकर्तुं जनितेन्द्रशङ्कं सुराङ्गनाविभ्रमचेष्टितानि ॥ ४२ ॥

अन्वयः—जनितेन्द्र शङ्कं अमुं सहासप्रहितेक्षणानि व्याजार्धसंदर्शितमेखलानि सुराङ्गनाविभ्रमचेष्टितानि विकर्तुं न अलम् अस्ति ।

अमुमिति । जनितेन्द्रशङ्कं जनिता इन्द्रस्य शङ्का भयं येन तं । तपसेति शेषः । अमुं सुतीक्ष्णं सहासं प्रहितानीक्षणानि दृष्टयो येषु तानि व्याजेन केनचिन्मिषेण । 'पुंस्यर्थोऽर्धं समेंऽशके' इति विश्वः । अर्धमीषत्संदर्शिता मेखला काञ्ची येषु तानि सुराङ्गनानामिन्द्रप्रेषितानां विभ्रमा विलासा एव चेष्टितानि विकर्तुं स्खलयितुमलं समर्थानि न, बभूवुरिति शेषः ।

भाषार्थ—इनकी तपस्या से डरकर इन्द्र ने इनके पास भी अप्सराओं को भेजा वे मुस्कुरा-मुस्कुरा कर तिरछी निगाहें चलाती नाचती गाती हुई किसी बहाने अपनी करधनी को उतार कर दिखा देती थीं पर उनकी यह सब चटक-मटक इन्हें न लुभा सकीं ॥ ४२ ॥

एषोऽक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावम् । सभाजने मे भुजमूर्ध्वबाहुः सव्येतरं प्राध्वमितः प्रयुङ्क्ते ॥ ४३ ॥

अन्वयः—ऊर्ध्वबाहुः एषः अक्षमालावलयं मृगाणां कण्डूयितारं कुशसूचिलावं सव्येतरं भुजं मे सभाजने इतः प्राध्वं प्रयुङ्क्ते ।

एष इति । ऊर्ध्वबाहुरेष सुतीक्ष्णोऽक्षमालैव वलयं यस्य तं मृगाणां कण्डूयितारं कुशा एव सूचयस्ता लुनातीति कुशसूचिलावस्तम् । "कर्मण्यण्" इत्यण् । एभिर्विशेषणैर्जयशीलत्वं भूतदया कर्मक्षमतवं च द्योत्यते । सव्यादितरं दक्षिणं भुजं मे मम सभाजने सम्माननिमित्ते । "निमित्तात्कर्मयोगे" इति सप्तमी । इतः प्राध्वं प्रकृतानुकूलबन्धं प्रयुङ्क्ते प्रेरयति । 'आनुकूल्यार्थकं प्राध्वम्' इत्यमरः । अव्ययं चैतत् ।

भाषार्थ—देखो, वे मुझे देखकर रुद्राक्ष की माला बँधी हुई, मृगों को खुजलाने वाली और कुश उखाड़ने वाली अपनी दाहिनी भुजा को उठाकर मेरा स्वागत कर रहे हैं ॥ ४३ ॥

वाचंयमत्वात्प्रणतिं ममैष कम्पेन किंचित्प्रतिगृह्य मूर्ध्नः । दृष्टिं विमानव्यवधानमुक्तां पुनः सहस्रार्चिषि संनिधत्ते ॥ ४४ ॥

अन्वयः—एषः वाचंयमत्वात् मम प्रणतिं किंचित् मूर्ध्नः प्रतिगृह्य विमानव्यवधानमुक्तां दृष्टिं पुनः सहस्रार्चिषि संनिधत्ते ।

त्रयोदशः सर्गः ४४५

त्रयोदशः सर्गः ४४५

वाचंयमेति—एष सुतीक्ष्णः वाचं यच्छति नियमयतीति वाचंयमो मौनव्रती । “वाचि यमो व्रते” इति खच्प्रत्ययः । “वाचंयमपुरन्दरो च” इति मुम् । तस्य भावस्तत्त्वान्मम प्रणति किञ्चिन्मूर्द्धनः कम्पेन प्रतिगृह्य विमानेन व्यवधानं तिरोधानं तस्मान्मुक्ताम् । “अपैतापोढमुक्तपतितापत्रस्तरल्पशः” इत्यनेन पञ्चमीसमासः । दृष्टि पुनः सहस्रार्चिषि सूर्ये संनिधत्ते सम्यङ् निघत्त इत्यर्थः । अन्यथाऽकर्मकत्वप्रसङ्गात् ।

भाषार्थ—ये मौन रहते हैं इसलिए इन्होंने केवल सिर हिलाकर मेरे प्रणाम को स्वीकार किया है। मेरे विमान को बीच में आने से जो इनकी दृष्टि सूर्य से अलग हो गई थी वह पुनः इन्होंने सूर्य में लगा ली ॥ ४४ ॥

अदः शरण्यं शरभङ्गनाम्नस्तपोवनं पावनमाहिताग्नेः ।
चिराय संतर्प्य समिद्भिरग्निं यो मन्त्रपूतां तनुमप्यहौषीत् ॥ ४५ ॥

अन्वयः—शरण्यं पावनम् अदः तपोवनम् आहिताग्नेः शरभङ्गनाम्नः यः चिराय अग्निं समिद्भिः सन्तर्प्य मन्त्रपूतां तनुम् अपि अहौषीत् ।

अद इति । शरणे रक्षणे साधुः शरण्यम् । पावयतीति पावनम् । अदो दृश्यमानं तपोवनमाहिताग्नेः शरभङ्गनाम्नो मुनेः संबन्धि । यः शरभङ्गश्चिराय चिरमग्निं समिद्भिः सन्तर्प्य तर्पयित्वा ततो मन्त्रैः पूतां शुद्धां तनुमप्यहौषीदहुतवान् । जुहोतेर्लङ् ।

भाषार्थ—यह सामने शरणागतों की रक्षा करने वाले अग्निहोत्री शरभङ्ग ऋषि का तपोवन है, जिन्होंने बहुत दिनों तक अग्नि को समिधा से तृप्त करके अन्त में मन्त्रों से पवित्र अपने शरीर को भी उसमें हवन कर दिया था ॥ ४५ ॥

छायाविनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेष्वमीषु ।
तस्यातिथीनामधुना सपर्या स्थिता सुपुत्रेष्विव पादपेषु ॥ ४६ ॥

अन्वयः—अधुना तस्य अतिथीनां सपर्या छाया विनीताध्वपरिश्रमेषु भूयिष्ठसंभाव्यफलेषु अमीषु पादपेषु सुपुत्रेषु इव स्थिता ।

छायेति । अधुनाऽस्मिन्काले तस्य शरभङ्गस्य संबन्धिन्यतिथीनां सपर्याऽतिथिपूजा । ‘पूजा नमत्यापचितिः सपर्यार्चार्हणाः समाः’ इत्यमरः । छायाभिर्विनीतोऽध्वरिश्रमो यैस्तेषु भूयिष्ठानि बहुतमानि संभाव्यानि श्लाघ्यानि येषां तेष्वमीषु पादपेष्वाश्रमवृक्षेषु सुपुत्रेष्विव स्थिता तत्पुत्रैरिव पादपैरनुष्ठीयत इत्यर्थः ।

भाषार्थ—जिस प्रकार सुपुत्र अपने पिता के धर्म का पालन करते हैं उसी प्रकार अतिथि सेवा का कार्य शरभंग ऋषि के बदले ये आश्रम के वृक्ष करते हैं जिनकी सघन छाया में बैठकर पथिक अपनी थकावट दूर करते हैं और जिनमें बड़े मीठे-मीठे फल भी लगते हैं—अर्थात् अतिथियों के आने पर शरभंग मुनि के

४४६ . रघुवंशमहाकाव्ये

पुत्रों के समान ये वृक्ष छाया एवं मधुर फलों से अतिथियों का सत्कार करते हैं ॥ ४६ ॥

धारास्वनोद्गारिदरीमुखोऽसौ शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः ।
बध्नाति मे बन्धुरगात्रि ! चक्षुर्दृप्तः ककुद्मानिव चित्रकूटः ॥ ४७ ॥

अन्वयः—धारास्वनोद्गारिदरीमुखः शृङ्गाग्रलग्नाम्बुदवप्रपङ्कः असौ चित्रकूटः, हे बन्धुरगात्रि ! दृप्तः ककुद्मान् इव मे चक्षुः बध्नाति ।

धारेति । धारा निर्झरधाराः यद्वा धारया सातत्येन स्वनोद्गारिदर्येव मुखं यस्य सः । शृंगं शिखरं विषाणं च तस्याग्रे लग्नोऽम्बुद एव वप्रपङ्को वप्रक्रीडासक्तपङ्को यस्य सः । असौ चित्रकूटो । हे बन्धुरगात्रि ! उन्नतानतांगि ! बन्धुरं तून्नतानतम्’ इत्यमरः । दृप्तः ककुद्वान्वृषभ इव मे चक्षुर्बध्नात्यन्यत्रासक्तं करोति ।

भाषार्थ—हे सुन्दर शरीरवाली सीते ! यह चित्रकूट पर्वत मस्त सांड़ के समान मुझे बड़ा ही सुहावना लग रहा है, मानों इसकी गुफा ही इसका मुख है, इससे निकलनेवाली जल की धारा का शब्द ही इसका डकार है, इसके शिखर ही इसके सींग हैं और उस पर छाये हुए बादल ही मानो उसमें लगा हुआ कीचड़ है ॥ ४७ ॥

एषा प्रसन्नस्तिमितप्रवाहा सरिद्विदूरान्तरभावतन्वी ।
मन्दाकिनी भाति नगोपकण्ठे मुक्तावली कण्ठगतेव भूमेः ॥ ४८ ॥

अन्वयः—प्रसन्नस्तिमितप्रवाहा विदूरान्तरभावतन्वी मन्दाकिनी एषा नगोपकण्ठे भूमेः कण्ठगता मुक्तावलीव इव भाति ।

ऐषेति । प्रसन्नो निर्मलः, स्तिमितो निःस्पन्दः, प्रवाहो यस्याः सा विदूरस्यान्तरस्य मध्यवर्त्यवकाशस्य भावात्तन्वी दूरदेशवर्तित्वात्तनुत्वेनावभासमाना मन्दकिनी नाम काचिच्चित्रकूटनिकटगैषा . सरिन्नगोपकण्ठे भूमेः कण्ठगता मुक्तावलीव भाति । अत्र नगरस्य शिरस्त्वं तदुपकण्ठस्य कण्ठत्वं च गम्यते ।

भाषार्थ—यह लो, मन्दाकिनी नदी आ गई । इसका जल कैसा स्वच्छ और धीरे-धीरे वह रहा है दूर होने के कारण वह इतनी पतली दिखाई दे रही है मानो पृथ्वी रूपी नायिका के गले में मोतियों की माला पड़ी हुई हो ॥ ४८ ॥

अयं सुजातोऽनुगिरं तमालः प्रवालमादाय सुगन्धि यस्य ।
यवाङ्कुरापाण्डुकपोलशोभी मयावतंसः परिकल्पितस्ते ॥ ४९ ॥

अन्वयः—अनुगिरं सुजातः ( स ) तमालोऽयं ( दृश्यते ) यस्य सुगन्धि प्रवालं आदाय मया ते यवांकुरापाण्डुकपोलशोभि अवतंसः परिकल्पितः ।

त्रयोदशः सर्गः ४४७

त्रयोदशः सर्गः ४४७

अयमिति। गिरेः समीपेऽनुगिरम्। "गिरेश्च सेनकसय" इति समासान्तष्ट- च्प्रत्ययः। सुजातः स तमालोऽयं दृश्यते यस्य तमालस्य शोभनो गन्धो यस्य तत्सुगन्धि। "गन्धस्येदुत्पूतिसुसुरभिभ्यः" इत्यनेकारः समासान्तः। प्रवालं पल्लवमादाय मया ते यवांकुरवदापाण्डो कपोले शोभी शोभते यः सोऽवतंसः कर्णालङ्कारः परिकल्पितः। भावार्थ—इस पर्वत के पास ही जो तमाल का वृक्ष दिखाई दे रहा है, यह वही है जिसके पल्लवों का कर्णफूल बनाकर मैंने तुम्हारे कानों में पहनाया था और जो तुम्हारे पीले गालों पर लटकता हुआ यव के अंकुर के समान पीला बड़ा सुन्दर लगता था॥ ४९॥

अनिग्रहत्रासविनीतसत्त्वमपुष्पलिङ्गात्फलवन्धि वृक्षम् । वनं तपःसाधनमेतदत्रेराविष्कृतोदग्रतरप्रभावम् ॥ ५० ॥

अन्वयः—अनिग्रहत्रासविनीतसत्त्वं अपुष्पलिङ्गात् फलबन्धि वृक्षम् आवि- ष्कृतोदग्रतरप्रभावम् अत्रेः तपः साधनं एतत् वनम् (अस्ति)।

अनिग्रहेति। अनिग्रहत्रासा दण्डभयरहिता अपि विनीताः सत्त्वा जन्तवो यस्मिंस्तत्। अपुष्पलिङ्गात्पुष्परूपनिमित्तं विनैव फलबन्धिनः फलग्राहिणो वृक्षा यस्मिंस्तत्। अत एवाविष्कृतोदग्रतरप्रभावमत्रेर्मुनेस्तपसः साधनं वनमेतत्। भावार्थ—यह आगे अत्रि मुनि का तपोवन है, जहाँ कि सिंह आदि पशु बिना मारे पीटे ही सीधे हो गये हैं वे किसी से कुछ बोलते नहीं। यह तपोवन इतना प्रभावशाली है कि यहाँ बिना फूल आये ही वृक्षों में फल लग जाते हैं॥ ५०॥

अत्राभिषेकाय तपोधनानां सप्तर्षिहस्तोद्धृतहेमपद्माम्। प्रवर्तयामास किलानुसूया त्रिस्रोतसं त्र्यम्बकमौलिमालाम् ॥ ५१ ॥

अन्वयः—अत्र अनुसूया सप्तर्षिहस्तोद्धृतहेमपद्मां त्र्यम्बकमौलिमालां त्रिस्रो- तसं तपोधनानां अभिषेकाय प्रवर्तयामास।

अत्रेति। अत्र वनेऽनुसूयात्रिपत्नी सप्त च त ऋषयश्च सप्तर्षयः। "दिक्संख्ये संज्ञायाम्" इति तत्पुरुषसमासः। तेषां हस्तैरुद्धृतानि हेमपद्मानि यस्यास्तां त्र्यम्बकमौलिमालाम् हरशिरःस्रजं त्रिस्रोतसं भागीरथीं तपोधनानामृषीणाम- भिषेकाय स्नानाय प्रवर्तयामास प्रवाहयामास। किलेत्यैतिह्ये। भावार्थ—अत्रि की धर्मपत्नी अनसूया जी ऋषियों के स्नान करने के लिए उस त्रिपथगा गङ्गाजी को यहाँ लाई हैं, जिसमें सप्तर्षिगण अपने हाथों से सुवर्ण कमल तोड़ा करते हैं और जो शिव जी के शिर पर माला से समान सुन्दर लगती है॥ ५१॥

४४८ || रघुवंशमहाकाव्ये

वीरासनैर्ध्यानजुषामृषीणाममी समध्यासितवेदिमध्याः ।
निवातनिष्कम्पतया विभान्ति योगाधिरूढा इव शाखिनोऽपि ॥ ५२ ॥

अन्वयः—वीरासनैः ध्यानजुषां ऋषीणां समध्यासितवेदिमध्याः अमी शाखिनः अपि निवातनिष्कम्पतया योगाधिरूढा इव विभान्ति ।

वीरेति । वीरासनैर्जयसाधनैः ध्यानं जुषन्ते सेवन्त इति ध्यानजुषः । समाधि-सेविन इत्यर्थः । तेषां तैरुपविश्य ध्यायतामृषीणां संबन्धिनः समध्यासितवेदि-मध्याः । इदं वीरासनस्थानीयम् । अमी शाखिनोऽपि निवाते निष्कम्पतया योगाधिरूढा इव ध्यानभाज इव विभान्ति । ध्यायन्तोऽपि निश्चलाङ्गा भवन्ति । वीरासने वसिष्ठः—"एकपादमथैकस्मिन्विन्यस्योरुणि संस्थितम् । इतरस्मिस्तथा चान्यं वीरासनमुदाहृतम्" इति ।

भाषार्थ—इस आश्रम के वृक्षों के नीचे वेदियों पर तपस्वी लोग वीरासन लगा-लगाकर ध्यान करते हैं और यहाँ के वृक्ष भी वायु न चलने के कारण ऐसे स्थिर खड़े रहते हैं मानों वे भी योग साधन कर रहे हों ॥ ५२ ॥

त्वया पुरस्तादुपयाचितो यः सोऽयं वटः श्याम इति प्रतीतः ।
राशिर्मणीनामिव गारुडानां स पद्मरागः फलितो विभाति ॥ ५३ ॥

अन्वयः—त्वया पुरस्तात् उपयाचितः श्याम इति प्रतीतः सः अयं वटः फलितः ( सन् ) स पद्मरागः गारुडानां मणीनां राशिः इव विभाति ,

त्वयेति । त्वया पुरस्तात्पूर्वं य उपयाचितः प्रार्थित । तथा च रामायणे—'न्यग्रोधं तमुपस्थाय वैदेही वाक्यमब्रवीत् । नमस्तेऽस्तु महावृक्ष ! पालयेन्मे व्रतं पतिः ॥' इति । श्याम इति प्रतीतः स वटोऽयं फलितः सन् सपद्मरागो गारुडानां मणीनां मरकतानां राशिरिव विभाति ।

भाषार्थ—वह काला-काला वही वट का वृक्ष है जिसकी तुमने मनौती मानी थी इसमें लाल-लाल जो फल लगे हैं उनसे यह वृक्ष ऐसा मालूम पड़ता है जैसे नीलम के ढेर में बहुत से लालमणि भरे हों ॥ ५३ ॥

'क्वचित्—' इत्यादिभिश्चतुर्भिः श्लोकैः प्रयागे गङ्गायमुनासङ्गमं वर्णयति—

क्वचित्प्रभालेपिभिरिन्द्रनीलैर्मुक्तामयी यष्टिरिवानुविद्धा ।
अन्यत्र माला सितपङ्कजानामिन्दीवरैरुत्खचितान्तरेव ॥ ५४ ॥

क्वचित्खगानां प्रियमानसानां कादम्बसंसर्गवतीव पंक्तिः ।
अन्यत्र कालागुरुदत्तपत्रा भक्तिर्भुवश्चन्दनकल्पितेव ॥ ५५ ॥

त्रयोदशः सर्गः ४४९

त्रयोदशः सर्गः ४४९

क्वचित्प्रभा चान्द्रमसी तमोभिश्छायाविलीनैः शबलीकृतेव ।
अन्यत्र शुभ्रा शरदभ्रलेखा रन्ध्रेष्विवालक्ष्यनभःप्रदेशा ॥ ५६ ॥
क्वचिच्च कृष्णोरगभूषणेव भस्माङ्गरागा तनुरीश्वरस्य ।
पश्यानवद्याङ्गि ! विभाति गङ्गा भिन्नप्रवाहा यमुनातरङ्गैः ॥ ५७ ॥

अन्वयः—क्वचित्प्रभालेपिभिः इन्द्रनीलैः अनुविद्धा मुक्तामयी यष्टिः इव इन्दीवरैः उत्खचितान्तरा सितपङ्कजानां माला इव यमुनातरङ्गैः भिन्नप्रवाहा गंगा विभाति । क्वचित् कादम्बसंसर्गवती प्रियमानसानां खगानां पंक्तिः इव अन्यत्र कालागुरुदत्तपत्रा भुवः चन्दनकल्पिता भक्तिः इव ( विभाति ) । क्वचित् छायाविलीनैः तमोभिः शबलीकृता चान्द्रमसी प्रभा इव अन्यत्र रन्ध्रेषु आलक्ष्य-नभःप्रदेशा शुभ्रा शरदभ्रलेखा इव ( विभाति ) । हे अनवद्याङ्गि ! पश्य क्वचिच्च कृष्णोरगभूषणभस्माङ्गरागा ईश्वरस्य तनुः इव यमुनातरङ्गैः भिन्न-प्रवाहा गंगा विभाति ।

क्वचिदिति— हे अनवद्याङ्गि ! यमुनातरङ्गैर्भिन्नप्रवाहा व्यामिश्रौघा गङ्गा जाह्नवी विभाति त्वं पश्य । केव क्वचित्प्रदेशे प्रभया लिम्पन्ति सन्निहितमिति प्रभालेपिभिरिन्द्रनीलैरनुविद्धा सह गुम्फिता मुक्तामयी यष्टिरिव हारावलिरिव विभाति । अन्यत्र प्रदेशे इन्दीवरैर्नीलोत्पलैरुत्खचितान्तरा सह ग्रथिता सितपङ्कजानां पुण्डरीकाणां मालेव । विभातीति सर्वत्र संबन्धः । क्वचित्कादम्बसंसर्गवती नीलहंससंसृष्टा प्रियं मानसं नाम सरो येषां तेषां खगानां राजहंसानां पंक्तिरिव । 'राजहंसास्तु त चञ्चुचरणैर्लोहितैः सिताः' इत्यमरः । अन्यत्र कालागुरुणा दत्तपत्रा रचितमकरिकापत्रा भूवश्चन्दनकल्पिता भक्तिरिव क्वचिच्छायासु विलीनैः स्थितैस्तमोभिः शबलीकृता कर्बुरीकृता चान्द्रमसी प्रभा चन्द्रिकेव । अन्यत्र रन्ध्रेष्वालक्ष्यनभःप्रदेशा शुभ्रा शरदभ्रलेखा शरन्मेघपंक्तिरिव क्वचित्कृष्णोरगभूषणा भस्माङ्गरागेश्वरस्य तनुरिव विभाति । शेषो व्याख्यातः । कलापकम् ।

भाषार्थ—हे सुन्दर सीते ! देखो यमुनाजी की काली लहरों से मिली श्वेत लहरों वाली गंगाजी कैसी-कैसी सुन्दर लग रही हैं। कहीं तो ये चमकीली इन्द्रनील मणियों से गूंथी हुई माला जैसी लगती हैं और कहीं-कहीं नीले और श्वेत कमलों से मिश्रित माला के समान शोभित हो रही हैं कहीं श्यामवर्ण के हंसों की श्रेणी से मिले हुए श्वेत हंसों की श्रेणी के समान शोभा दे रही हैं। कहीं श्वेत चन्दन से लिप्त पृथ्वी पर बीच-बीच में काले अगर से बनाई गई रचना के समान सुशोभित हो रही हैं। कहीं-कहीं ये वृक्ष के नीचे की उस चांदनी के समान लगती हैं, जिसके बीच-बीच में पत्तों की छाया पड़ी हो और कहीं पर शरद

२९ र० सम्पू०

४५० रघुवंशमहाकाव्ये

ऋतु के उन बादलों के समान जान पड़ती हैं जिनके बीच-बीच में नीला आकाश झांक रहा हो। कहीं भस्म लगाये हुए शिवजी के उस शरीर के समान दिखाई दे रही हैं जिस पर काले-काले सर्प लिपटे हों। इस प्रकार यमुना की लहरों से मिली गंगाजी सुन्दर लग रही हैं ॥ ५४, ५५, ५६, ५७ ॥

समुद्रपत्न्योर्जलसंनिपाते पूतात्मनामत्र किलाभिषेकात्।
तत्त्वावबोधेन विनाऽपि भूयस्तनुत्यजां नास्ति शरीरबन्धः ॥ ५८ ॥

**अन्वयः—**अत्र समुद्रपत्ल्योः सन्निपाते अभिषेकात् पूतात्मनां तत्त्वावबोधेन विना अपि तनुत्यजां भूयः शरीरबन्धः नास्ति ।

समुद्रेति। अत्र समुद्रपत्न्योर्गङ्गायमुनयोर्जलसंनिपाते सङ्गमेऽभिषेकात्स्नानात्पूतात्मनां शुद्धात्मनां तत्त्वावबोधेन तत्वज्ञानेन विनाऽपि तनुत्यजां प्रारब्धशरीरत्यागानन्तरं भूयः पुनः शरीरबन्धः शरीरयोगो नास्ति किल। अन्यत्र ज्ञानादेव मुक्तिः, अत्र तु स्नानादेव मुक्तिरित्यर्थः ।

**भाषार्थ—**यहाँ गंगा यमुना दोनों नदियों के संगम में जो स्नानकर पवित्र हो जाते हैं, वे तत्त्वज्ञानी न होने पर भी संसार बन्धनों से छूट जाते हैं। फिर शरीर धारण नहीं करते ॥ ५८ ॥

पुरं निषादाधिपतेरिदं तद्यस्मिन्मया मौलिमणिं विहाय।
जटासु बद्धास्वरुदत्सुमन्त्रः कैकेयि ! कामाः फलितास्तवेति ॥ ५९ ॥

**अन्वयः—**निषादाधिपतेः तत् पुरम् इदं यस्मिन् मया मौलिमणिं विहाय जटासु बद्धासु सुमन्त्रः 'हे कैकेयि ! तव कामाः फलिता' इति अरुदत् ।

पुरमिति। निषादाधिपतेर्गुहस्य तत्पुरमिदम्, यस्मिन्पुरे मया मौलिमणिं विहाय जटासु बद्धासु रचितासु सतीषु सुमन्त्रः 'हे कैकेयि ! तव कामा मनोरथाः फलितः सफलाः जाताः' इत्यरुदत् । 'रुदिर् अश्रुविमोचने' इति धातोलुँङ् ।

**भाषार्थ—**यह आगे निषादराज गुह का शृङ्गवेरपुर नामक नगर है जहाँ मैंने अपना मुकुटमणि उतार कर जटा बांधी थी और जिसे देखकर सुमन्त्र यह कहकर रोने लगे थे कि हे कैकेयी ! तेरी इच्छा सफल हो गई ॥ ५९ ॥

पयोधरैः पुण्यजनाङ्गनानां निर्विष्टहेमाम्बुजरेणु यस्याः ।
ब्राह्मं सरः कारणमाप्तवाचो बुद्धेरिवाव्यक्तमुदाहरन्ति ॥ ६० ॥

**अन्वयः—**पुण्यजनाङ्गनानां पयोधरैः निर्विष्टहेमाम्बुजरेणुः ब्राह्मं सरः यस्याः बुद्धेः अव्यक्तम् कारणम् आप्तवाचः उदाहरन्ति ।

पयोधरैरिति । पुण्यजनाङ्गनानां यक्षस्त्रीणां पयोधरैः स्तनैर्निर्विष्ट उपमुक्तो

त्रयोदशः सर्गः ४५१

त्रयोदशः सर्गः ४५१

हेमाम्बुजरेणुर्यस्य तत् तत्र ताः क्रीडन्तीति व्यज्यते। ब्रह्मण इदं ब्राह्मम्। "नस्तद्धिते" इति टिलोपः। ब्राह्मं सरो मानसाख्यं यस्या सरय्वाः बुद्धेर्महत्त्वस्याव्यक्तं प्रधानमिव कारणम्। आसस्य वाच आसवाचो वेदाः, यद्वा बहुव्रीहिणा मुनयः उदाहरन्ति प्रचक्षते।

**भाषार्थ—**जिस प्रकार ऋषि लोग कहते हैं कि अव्यक्त से बुद्धि उत्पन्न हुई है, उसी प्रकार यह सरयू नदी भी उस मानसरोवर से निकली है जिसके स्वर्ण कमलों का पराग यक्षों की स्त्रियां अपने स्तनों में लगाती हैं ॥ ६० ॥

जलानि या तीरनिखातयूपा बहत्ययोध्याममु राजधानीम् ।
तुरङ्गमेधावभृथावतीर्णैरिक्ष्वाकुभिः पुण्यतरीकृतानि ॥ ६१ ॥

**अन्वयः—**तीरनिखातयूपा या तुरंगमेधावभृथावतीर्णैः इक्ष्वाकुभिः पुण्यतरीकृतानि जलानि अयोध्यां राजधानीं अनु वहति ।

जलानीति । यूपः संस्कृतः पशुबन्धनार्हो दारुविशेषः, तीरनिखातयूपा या सरयूस्तुरङ्गमेधा अश्वमेधास्तेष्ववभृथार्थमेवावतीर्णैरवरूढैरिक्ष्वाकुभिरिक्ष्वाकुगोत्रापत्यैर्नः पूर्वैः । तद्राजत्वादणो लुक् । पुण्यरीकृतान्यतिशयेन पुण्यानि कृतानि जलान्ययोध्यां राजधानीं नगरीमनु समीपे तया लक्षितयेत्यर्थः । अनुशब्दस्य "लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यन्वः' इत्यनेन कर्मप्रवचनीयत्वात्तद्योगे द्वितीया । वहति प्रापयति ।

**भाषार्थ—**यह नदी इक्ष्वाकुवंशी राजाओं की राजधानी अयोध्या से लगी बहती है उसके तट पर जहाँ-तहाँ यज्ञों के स्तम्भ गड़े हुए हैं। अश्वमेध यज्ञ के अन्त में सूर्यवंशी राजाओं के स्नान करने से इसका जल परम पवित्र हो गया है ॥ ६१ ॥

यां सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानाम् ।
सामान्यधात्रीमिव मानसं मे सम्भावयत्युत्तरकोसलानाम् ॥ ६२ ॥

**अन्वयः—**यां मे मानसं सैकतोत्सङ्गसुखोचितानां प्राज्यैः पयोभिः परिवर्धितानां उत्तरकोसलानां सामान्यधात्रीम् इव सम्भावयति ।

यामिति । यां सरयूम् । मे मानसं कर्तृ सैकतं पुलिनं तदेवोत्सङ्गं तत्र तत्सुखं तत्रोचितानां प्राज्यैः प्रभूतैः पयोभिरम्बुभिः क्षीरैश्च । 'पयः क्षीरं पयोऽम्बु च' इत्यमरः । परिवर्धितानां पुष्टानामुत्तरकोसलानामुत्तरकोसलेश्वराणां सामान्यधात्रीं साधारणमातरमिव । 'धात्री जनन्यामलकी वसुमत्युपमातृषु' इति विश्वः ।

**भाषार्थ—**मैं इस नदी का बड़ा आदर करता हूँ क्योंकि यह उत्तर कोसल

४५२रघुवंशमहाकाव्ये

के राजाओं की धाय के समान है इसके बालू में खेल-खेलकर वे सब पलते हैं और इसी का मीठा जल पीकर पुष्ट होते हैं ॥ ६२ ॥

सेयं मदीया जननीव तेन मान्येन राज्ञा सरयूवियुक्ता।
दूरे वसन्तं शिशिरानिलैर्मां तरङ्गहस्तैरुपगूहतीव ॥ ६३ ॥

अन्वयः— मदीया जननी इव मान्येन तेन राज्ञा वियुक्ता सा इयं सरयूः वसन्तं मां शिशिरानिलैः तरंगैः उपगूहति इव।

सेयमिति। मदीया जननी कौसल्येव मान्येन पूज्येन तेन राज्ञा दशरथेन वियुक्ता सेयं सरयूर्दूरे वसन्तं प्रोष्यागच्छन्तमित्यर्थः। मां पुत्रभूतं शिशिरानिलैस्तरङ्गैरेव हस्तैरुपगूहतोवालिङ्‌गतीव।

भाषार्थ— माननीय महाराजा दशरथ से बिछुड़ी हुई मेरी माता के समान यह शरयू नदी अपने शीतल तरंग रूपी हाथों से दूर से ही मुझे गले लगाना चाहती है ॥ ६३ ॥

विरक्तसंध्याकपिशं पुरस्ताद्यतो रजः पार्थिवमुज्जिहीते।
शङ्के हनूमत्कथितप्रवृत्तिः प्रत्युद्गतो मां भरतः ससैन्यः ॥ ६४ ॥

अन्वयः— विरक्तसन्ध्याकपिशं पार्थिवरजः पुरस्तात् यतः उज्जिहीते (तस्मात्) हनूमत्कथितप्रवृत्तिः भरतः ससैन्य मां प्रत्युद्गतः (इति) शङ्के।

विरक्तेति। विरक्तातिरक्ता या संध्या तद्वत्कपिशं ताम्रवर्णं पृथिव्या इदं पार्थिवं रजो धूलिः पुरस्तादग्रे यतो यस्मात्कारणादुज्जिहीत उद्गच्छति तस्मात्। हनुरस्यास्तीति हनूमान्। "शरादीनां च" इति दीर्घः। तेन कथिता प्रवृत्तिरस्मदागमनवार्ता यस्मै स भरतः ससैन्यः सन्मां प्रत्युद्गत इति शङ्के तर्कयामि। 'शङ्का भयवितर्कयोः' इति शब्दार्णवे। अत्र यत्तदोर्नित्यसंबन्धात्तच्छब्दलाभः।

भाषार्थ— देखो ! लाल सन्ध्या के समान जो धूलि पृथ्वी से उड़ रही है उससे जान पड़ता है कि हनूमान्‌जी से मेरे आने का समाचार सुनकर भरत सेना लेकर मेरा स्वागत करने आ रहे हैं ॥ ६४ ॥

अद्या श्रियं पालितसङ्गराय प्रत्यर्पयिष्यत्यनघां स साधुः।
हत्वा निवृत्ताय मृधे खरादीन्संरक्षितां त्वामिव लक्ष्मणो मे ॥ ६५ ॥

अन्वयः— साधुः सः पालितसंगराय मे अनघां संरक्षितां श्रियं मृधे खरादीन् हत्वा निवृत्ताय लक्ष्मणः त्वाम् इव प्रत्यर्पयिष्यति।

अद्येति। किंच साधुः सज्जनः स भरतः। 'साधुर्वाधुषिके चारौ सज्जने चापि

त्रयोदशः सर्गः ४५३

त्रयोदशः सर्गः ४५३

वाच्यवत्' इति विश्वः। पालितसङ्कराय पालितपितृप्रतिज्ञाय मे महामनघाम-दोषां भोगाभावोदनुच्छिष्टां किन्तु संरक्षितां श्रियं मृधे युद्धे खरादीन्हत्वा निवृत्ताय मे लक्ष्मणः संरक्षितामनघां त्वामिव प्रत्यर्पयिष्यत्यद्धा सत्यम्। 'तत्त्वे त्वद्धाञ्जसा द्वयम्' इत्यमरः।

भाषार्थ—खर, दूषण आदि राक्षसों को मारकर जब मैं लोटा था उस समय लक्ष्मण ने तुम्हें मेरे हाथ सुरक्षित रूप में सौंप दिया था, मालूम पड़ता है कि उसी प्रकार अब सज्जन भरत वनवास की अवधि पूरी करके लोटे हुए मुझे सुरक्षित राज्यलक्ष्मी को अवश्य सौंप देंगे॥ ६५॥

असौ पुरस्कृत्य गुरुं पदातिः पश्चादवस्थापितवाहिनीकः।
वृद्धैरमात्यैः सह चीरवासा मामर्घ्यपाणिर्भरतोऽभ्युपैति॥ ६६॥

अन्वयः—असौ पदातिः चीरवासा भरतः पश्चादवस्थापितवाहिनीकः (सन्) गुरुं पुरस्कृत्य वृद्धैः अमात्यैः सह अर्घ्यपाणिः (सन्) अभ्युपैति।

असाविति। असौ पदातिः पादाभ्यामततीति पदातिः पादचारी चीरवासा वल्कलवसनो भरतः। पश्चात्पृष्ठभागेऽवस्थापिता वाहिनी सेना येन स तथोक्तः सन्। "नद्यृतश्च" इति कप्। गुरुं वसिष्ठं पुरस्कृत्य वृद्धैरमात्यैः सहाघ्यंपाणिः सन्मामभ्युपैति।

भाषार्थ—वल्कलवस्त्र पहन पैदल चलते हुए ओर हाथ में पूजा की सामग्री लिए हुए भरत वृद्ध मन्त्रियों के साथ मेरे ही पास आ रहे हैं, देखो! इनके आगे-आगे वसिष्ठजी चल रहे हैं और पीछे-पीछे सेना चली आ रही है॥ ६६॥

पित्रा विसृष्टां मदपेक्षया यः श्रियं युवाप्यङ्कगतामभोक्ता।
इयन्ति वर्षाणि तया सहोग्रमभ्यस्यतीव व्रतमासिधारम्॥ ६७॥

अन्वयः—यः पित्रा विसृष्टाम् अङ्कगतां यां श्रियं युवापि मदपेक्षया अभोक्ता (सन्) इयन्ति वर्षाणि तया सह उग्रं असिधारव्रतम् अभ्यसति इव।

पित्रेति। यो भरतः पित्रा विसृष्टां दत्तामङ्कमुत्सङ्गं च गतामपि यां श्रियं युवाऽपि मदपेक्षया मद्भक्त्याऽभोक्ता सन्। तृजन्तत्वात् "न लोकाव्ययनिष्ठाखलर्थ-तृनाम्" इति षष्ठीनिषेधः। इयन्ति वर्षाण्येतावतो वत्सराम्। अत्यन्तसंयोगे द्वितीया। तया श्रिया सहास्त्रियेति च गम्यते। उग्रं दुश्चरमासिधारं नाम व्रत-मभ्यस्यतीव वर्तयतीव। 'युवा युवत्या सार्धं यन्मुग्धभर्तृवदाचरेत्। अन्तर्निवृत्त-सङ्गः स्यादासिव्रतं हि यत्।' इति यादवः। इदं चासिधाराचंक्रमणतुल्य-त्वादसिधारव्रतमित्युक्तम्।

भाषार्थ—जैसे किसी युवा पुरुष की गोद में कोई सुन्दरी स्त्री आकर बैठ

४५४ रघुवंशमहाकाव्ये

जाय और वह उससे भोग न करके तलवार की धारा पर चलने के समान कठोर इन्द्रियों को वश में रखने का व्रत कर ले वैसे ही भरत ने भी पिता की दी हुई राज्यलक्ष्मी को भोग करने की शक्ति रहते हुए भी मेरी भक्ति के कारण उसका भोग न करके १४ वर्ष तक कठिन असिधारा व्रत का पालन किया है ॥ ६७ ॥

एतावदुक्तवति दाशरथौ तदीया- मिच्छां विमानमधिदेवतया विदित्वा । ज्योतिष्पथादवततार सविस्मयाभि- रुद्वीक्षितं प्रकृतिभिर्भरतानुगाभिः ॥ ६८ ॥

अन्वयः—दाशरथौ एतावदुक्तवति विमानं तदीयां इच्छाम् अधिदेवतया विदित्वा सविस्मयाभिः, भरतानुगाभिः प्रकृतिभिः उद्वीक्षितं सत् ज्योतिष्पथात् अवततार ।

एतावदिति । दाशरथौ राम एतावदुक्तवति सति विमानं पुष्पकं कर्तृ, तदीयां रामसंबन्धिनीमिच्छामधिदेवतया मिषेण विदित्वा तत्प्रेरितं सदित्यर्थः । सविस्मयाभिर्भरतानुगाभिः प्रकृतिभिः प्रजाभिरुद्वीक्षितं ऊर्ध्वदृष्टं सज्ज्योतिष्पथादाकाशादवततार ।

भावार्थ—जब राम इस प्रकार कह रहे थे उसी समय रामकी इच्छा को ही विमान का चालक मानकर वह विमान आकाश से नीचे उतर आया और भरतजी के पीछे चलनेवाली सारी जनता आश्चर्य-चकित होकर उन्हें देखने लगी ॥ ६८ ॥

तस्मात्पुरःसरविभीषणदर्शितेन सेवाविचक्षणहरीश्वरदत्तहस्तः । यानादवातरददूरमहीतलेन मार्गेण भङ्गिरचितस्फटिकेन रामः ॥ ६९ ॥

अन्वयः—रामः सेवाविचक्षणहरीश्वरदत्तहस्तः पुरःसरविभीषणदर्शितेन अदूरमहीतलेन भंगि रचितस्फटिकेन मार्गेण तस्मात् यानात् अवातरत् ।

तस्मादिति । रामः सेवायां विचक्षणः कुशलो हरीश्वरः सुग्रीवस्तेन दत्तो हस्तो हस्तावलम्बनो यस्य तादृशः सन् स्थलज्ञत्वात्पुरःसरो विभीषणस्तेन दर्शितेनादूरमासन्नं महीतलं यस्य तेन भङ्गिभिर्विच्छित्तिभी रचितस्फटिकेन बद्धस्फटिकेन सोपानपर्वणा मार्गेण तस्माद्यानात्पुष्पकादवातरदवतीर्णवान् । तरतेर्लङ् ।

भावार्थ—सेवा में चतुर सुग्रीव के हाथों का अवलम्बन करके स्फटिक मणियों से जड़ी हुई सीढ़ी से रामचन्द्रजी विमान से उतरे और विभीषण आगे-आगे मार्ग दिखाते चले ॥ ६९ ॥