भारतकोश
संग्रह पर लौटें

रसतरङ्गिणी (सदानन्द शर्मा - पारद, धातु, उपधातु एवं भस्म रसायन शास्त्र सटीक)

Rasatarangini of Sadananda Sharma with Prasadani Commentary

सदानन्द शर्मा (टीकाकार: पं. हरिदत्त शास्त्री) द्वारा

DevanagariHindipublished799 पृष्ठ

नवमस्तरङ्गः २०७ वैशिष्ट्यादनुपानानां करोति विविधान् गुणान् । मात्रयोचितया दत्तो रोगसंघञ्च नाशयेत् ॥ ४८ ॥ भा.टी.—यह दरदामृत योग, ऊरुस्तम्भ, आमवात, पक्षाघात में विशेष लाभदायक है। शीतांग-सन्निपात में यह विशेष लाभदायक माना जाता है। इसके अतिरिक्त पुरानी सान्निपातिक प्लीहावृद्धि तथा भयंकर नपुंसकता को यह शीघ्र ही दूर करता है। विशेष-विशेष अनुपानों के साथ प्रयोग करने पर यह अनेक गुणदायक औषधि है। यदि उचित मात्रा में देश-काल आदि का विचार से प्रयोग किया जाय तो अनेक रोगों को दूर करता है ॥ ४६-४८ ॥ अस्य मात्रा गुञ्जार्धसंमिता त्वस्य पूर्णमात्रा प्रशस्यते । बलकालादिकं वीक्ष्य ह्रासयेच्चाथ वर्द्धयेत् ॥ ४६ ॥ भा.टी.—दरदामृत की मात्रा आधी रत्ती की पूर्ण मात्रा समझनी चाहिये । रोगी के बल और काल आदि को देखकर मात्रा में अधिकता या न्यूनता भी की जा सकती है ॥ ४६ ॥ हिंगुलीयो माणिक्यरसः विशोधितं हिंगुलञ्च तोलकाष्टकसंमितम् । सौगन्धिकञ्च तत्तुल्यं तथा शैलूषभूषणम् ॥ ५० ॥ पलाशपुष्पस्वरसैः पेषयेद्दिनसप्तकम् । शोषयित्वा रसञ्चाथ विदध्यात् श्लक्ष्णचूर्णकम् ॥ ५१ ॥ काचकूप्यां निधायाथ वालुकायन्त्रमध्यगम् । क्रमवृद्ध्यानलेनात्र पचेद् वै दिवसत्रयम् ॥ ५२ ॥ स्वतः शीतं ततो ज्ञात्वा कूपिकाकण्ठसंस्थितम् । रससिन्दूरसंकाशं माणिक्यरसमाहरेत् ॥ ५३ ॥ हिंगुलीयो माणिक्यरसः—शुद्ध हिंगुलं ८ तो०, गन्धकं ८ तो०, हरिताल ८ तो०, माणिक्यमिति कान्तिमत्तया संज्ञा ॥ ५०-५३ ॥ भा.टी.—शुद्धहिंगुल आठ तोला, शुद्ध गन्धक तथा हरिताल आठ-आठ तोला लेकर इनको खरल में एकत्र करके ढाक के फूलों के स्वरस के साथ सात दिन तक मर्दन करके अच्छी तरह सुखाकर बारीक चूर्ण करके कपड़मिट्टी की हुई काँच की शीशी में भरकर वालुकायन्त्र में रख के मन्द, मध्य तथा तीव्र अग्नि से तीन दिन तक पकावें । जब वालुकायन्त्र स्वांगशीतल हो जाय तो कूपी के प्रदेश में लगे हुये रससिन्दूर के सदृश वर्ण के माणिक्य रस को निकल लें ॥ ५०-५३ ॥

२०८ रसतरङ्गिणी हिंगुलीयमाणिक्यरसस्य गुणाः ग्रहणीगदवारणदर्पहरस्त्वतिसारनिवारणदक्षतरः । रुधिरोत्थितरोगविनाशकरो बलवीर्यशरीरसमुद्धिकरः ॥५४॥ क्षुद्रकुष्ठहरः कामं वयःस्थापनकारकः । माणिक्यरससंज्ञोऽयं सर्वामयहरो मतः ॥ ५५ ॥ वारणो हस्ती, रुधिरोत्थितरोगाः पिडकादयः । मात्राल्पत्वं हरितालसत्त्व- संयोगात् । स्पष्टमन्यत् ॥ ५४-५५ ॥ आ.टी.--यह माणिक्यरस ग्रहणी रोगरूपी हाथी के अभिमान (घमंड) को चूर करनेवाला और पुरातन अतीसार को नष्ट करने में अत्यन्त सफल है। रक्त- विकृतिजन्य रोगों को नष्ट करता है । बल-वीर्य और शरीर की वृद्धि करता है । क्षुद्र कुष्ठों (त्वग्रोग) को नष्ट करता है । शीघ्र आनेवाले बुढ़ापे को रोकता है । इस प्रकार यह माणिक्यरस सब रोगों को नष्ट करता है ॥ ५४-५५ ॥ अस्य मात्रा यवैकतः समारभ्य यवत्रितयसंमितम् । युञ्जीत रसमाणिक्यं बलकालाद्यपेक्षया ॥ ५६ ॥ भा.टी.-माणिक्यरस की मात्रा रोग तथा रोगी के बल काल आदि के अनुसार एक जौ से लेकर तीन जौ तक प्रयोग की जा सकती है ॥ ५६ ॥ श्रीसिद्धहिंगुलेश्वरः विशोधितं हिंगुलञ्च धत्तूरमूलजद्रवैः । विभावयेत्सप्तवारं ततः संशोषयेद् बुधः ॥ ५७ ॥ तत्तुल्यं टङ्कणं क्षिप्त्वा श्लक्ष्णचूर्णं प्रकल्पयेत् । रसज्ञैः कीर्तितो नाम्ना श्रीसिद्धहिंगुलेश्वरः ॥ ५८ ॥ विश्वमोचरसोपेतं पुरूहूतयवान्वितम् । गुञ्जार्द्धप्रमितं दद्याद्रसतन्त्रविशारदः ॥ ५६ ॥ ततोऽनुपाययेच्छीघ्रं धान्यशीतकषायकम् । दाहमूर्च्छापिपासादीन् नाशयेद्वै ह्युपद्रवान् ॥ ६० ॥ पाचनो दीपनश्चायं नाडीगतिनियामकः । ज्वरघ्नः कृमिसंहारी कफघ्नो मृदुधारकः ॥ ६१ ॥ कोष्ठवातप्रशमनो भृशं वातानुलोमनः । नैतत्समो रसो लोके ज्वरातीसारनाशनः ॥ ६२ ॥

१४ नवमस्तरङ्गः २०६ श्रीसिद्धहिंगुलेश्वरः—धत्तूरमूलरसैः सप्तवारं सम्यग्भावनं दरदस्य विशेष- गुणाधानकरम् । विश्वं शुण्ठी, पुरुहूतयवाः इन्द्रयवः । शीघ्रं धान्यशीतकषाय- पानं योगजनितपित्तोद्रेकानुत्पत्त्यर्थम् । तत्फलं प्राह-दाहेत्यादि । स्पष्टम् । ५७–६२। इति हिंगुलविज्ञानीयो नाम नवमस्तरङ्गः भा.टी.—शुद्ध हिंगुल को धत्तूरमूलस्वरस से सात भावना देकर सुखालें । अब इसमें हिंगुल के बराबर सुहागा मिलाकर बारीक चूर्ण करलें । इसको रसशास्त्रज्ञ "श्रीसिद्धहिंगुलेश्वर" कहते हैं । इसमें से आधी रत्ती प्रमाण मात्रा में लेकर इसमें शुण्ठी, मोचरस तथा इन्द्रजौ का चूर्ण मिलाकर सेवन करायें, इसके पश्चात् अनुपान के रूप में धनिये का शीत कषाय पिलायें । इसके प्रयोग से दाह, मूर्च्छा, तृषा आदि उपद्रव नष्ट हो जाता है । यह रस पाचक तथा दीपक है । इसके प्रयोग से अनियमित नाड़ी नियमित हो जाती है। इसके अति- रिक्त यह रस ज्वरनाशक, कृमिनाशक, कफ स्रावक और साधारण रूप से ग्राही है । यह कोष्ठ में प्रकुपित वायु का शमन करता है और अपान वायु का अनु- लोमन करता है । सारांश यह है कि ज्वरातिसार रोग के लिये संसार में इस रस के समान कोई दूसरी औषधि नहीं है ॥ ५७–६२ ॥ यह हिंगुलविज्ञानीय नाम नवमतरङ्ग समाप्त हुआ चपलः गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु चतुर्विधः । हेमाभश्चैव ताराभो विशेषाद्रसबन्धनः ॥ १ ॥ शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ । वंगवद् द्रवते वह्नौ चपलस्तेन कीर्तितः ॥ २ ॥ चपलो लेखनः सिद्धो देहलोहकरो मतः । रसराजसहायः स्यात् तिक्तोष्णमधुरो मतः ॥ ३ ॥ चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः । त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः ॥ ४ ॥ महारसेषु कैश्चिद्धि चपलः परिकीर्तितः । जम्बीरकङ्कोटकशृङ्गवेरैर्विभावनाभिश्चपलस्य शुद्धि॥ ५ ॥ चपलस्य सत्त्वपातनम् शैलं तु चूर्णयित्वाथ धान्याम्लोपविषैर्विषैः । पिण्डं बद्ध्वा तु विधिवत् पातयेच्चपलं तथा ॥ ६ ॥ ( इति रसरत्नसमुच्चयात् )

२१० रसतरङ्गिणी कविराजनरेन्द्रनाथमित्रकृतः चपलनिर्णयः दुर्देववशादायुर्वेदेष्वज्ञाता विद्वांसो नोपलभ्यन्त अद्यत्वे । न चाप्यस्ति काचि- त्संसद् या ह्यभिधेयेषु नियंत्री स्यात् । फलञ्चास्य यद् बहूनि द्रव्याणि सन्दिग्ध- कोटिष्वज्ञातकोटिषु वः स्थाप्यन्ते । किमधिकम्, तेष्वेव द्रव्येषु चपलोऽप्येवम् । न चायुर्वेदसरणिमनुसृत्य जीवितदातारो भिषजश्चपलमुपयुञ्जतेऽधुना। चपलस्या- नवबोध एव तत्र हेतुः । इदानीं यावन्नात्र विषये केनापि तत्त्वं प्रकाशितम् । यत्किमपि श्रूयते मन्दवाचोच्यमानं न मनःप्रीणनं तत् । केचित्तं "बिस्मथ" इत्यामनन्ति, तदसाम्प्रतम् । नहि चपलरूपः सः, न च तत्र चपलाश्रिता गुणाः। चपलः किं वस्तु इति निर्णायोक्तेः प्राग् अस्य स्वरूपे गुणेषु चावहितमनसा भवितव्यम् । प्राचीनेषु रसत्तन्त्रेष्वेक एनं महारसेष्वन्ये च साधारणरसेषु पठन्ति ! सोमदेवकृतरसेन्द्रचूडामणौ यथा— "कम्पिल्लश्चपलो गौरीपाषाणो नवसारकः । कपर्दो वह्निजारश्च गिरिसिन्दूरहिंगुलौ ॥ मृद्दारशृङ्गमित्यष्टौ साधारणरसाः स्मृताः ॥ रसार्णवे महारसेष्वयं परिगणितः— "माक्षीको विमलः शैलश्चपलो रसकस्तथा । सस्यको दरदश्चैव स्रोतोऽञ्जनमथाष्टमम् ॥ अष्टौ महारसाः................................॥” तथैवान्येषु तन्त्रेष्वपि । रसरत्नसमुच्चये तु— “अभ्रवैक्रान्तमाक्षीकविमलाद्रिजसस्यकम् । चपलो रसकश्चेति ज्ञात्वाष्टौ संग्रहेद्रसान् ॥” इत्यनेन महारसेष्वस्य परिगणनं विधायाग्रे आचार्याणामत्र विकल्पः स्वयमेवोक्तः— “महारसेषु कैश्चिद्धि चपलः परिकीर्तितः ।” इत्यनेन । ग्रन्थसन्दर्भतत्त्वमिदं तु तन्त्रान्तरादेव याथातथ्येनोद्धृतं ग्रन्थकर्त्रा । अन्यथा— स्वयमेव महारसेषु संख्याय महारसेष्वित्यादिवचनमसङ्गतम् । उपरसास्तु गन्धा- श्मेत्यादिना तत्र पृथगुक्ता एव । स्यान्नाम चपलः साधारणरसो वा महारसो वा, नात्र विवेचनीयः सः । न चाप्यस्त्यस्मत्सन्निधौ कश्चिन्निकषग्रावा यत्र हि साधारणरसत्वं महारसत्वं वा परीक्ष्येत ।

चपलनिर्णयः २११ "गौरः श्वेतोऽरुणः कृष्णश्चपलस्तु चतुर्विधः । हेमाभश्चैव ताराभां विशेषाद्रसबन्धनः ॥ शेषौ तु मध्यौ लाक्षावच्छीघ्रद्रावौ तु निष्फलौ ॥" "वङ्गवद् द्रवते वह्नौ चपलस्तेन कीर्तितः । चपलः स्फटिकच्छायः षडस्री स्निग्धको गुरुः ॥" समुपलभ्यमानानि सर्वाणि तन्त्राण्यत्रैकमत्यं त्तमेवोद्घोषयन्ति । अत उक्तमेव स्वरूपं निर्णायकं प्रमाणं च । नात्रास्ति कश्चिद्विसंवादो यद्द्रव्यं गौरादिभेदेन चतुर्विधं वङ्गवद् द्रुतिशीलं वह्नौ, स्फटिकच्छायं, षडस्रि, गुरु च स चपलः । न चेदं स्वरूपमेकान्तेन बिस्मथधातौ, अन्वेषयद्भिश्चास्माभिः सेलिनियम (Selenium) द्रव्ये स्वरूपमिदं दृष्टम् । तथा चेदमस्माकमध्यवसायो यच्चपलः सेलिनियम एव । उक्तं च स्वरूपवर्णने सेलिनियमस्य— "Colour and properties—Steel-grey, non-metallic rods or buttons; very high lustter crystalline surface on being broken. Also occurs in the form of dark- red crystals or powder, soluble in carbon disulphide and melting between 170° and 180° C. Burns in air with a bluish red flame forming selenium dioxide," अस्यायमभिप्रायः—तीक्ष्णलोहाभधूम्रवर्णः, अधात्वीयशलाकासंस्थानः कुचेलकाकृतिर्वा, अतितीक्ष्णकान्तिश्चाकचिक्याढ्यः, त्रोटिते च पुष्पाकारोपरितलो भवति सेलिनियमः । पश्यन्तु समत्वम्—१. गौरश्चपलः, अत्र तीक्ष्णलोहाभधूम्रवर्णत्त्वं गुणः । धूम्रवर्णश्च श्वेतकृष्णवर्णयोः सङ्गमेन जायते । नतु गौरः श्वेतस्तत्र । श्वेतवर्ण- चपलस्य पृथगेव पाठात् । २. चपलः स्फटिकच्छायो भवति । अत्र च अधा- त्वीयशलाकाकृतिसंस्थान इत्यारभ्य पुष्पाकारोपरितल इति पर्यन्तं तस्यैव व्याकरणमात्रम् । तथा अयं च गाढरक्तवर्णोऽप्युपलभ्यते पुष्पाकृतिना चूर्णरूपेण वा, स च कोकिलद्विगन्धिकिते विलीनो भवति । सप्तत्युत्तरशतादशीत्युत्तरशतं यावदंशं शतांशतापमानयन्त्रस्य विद्रवीभवति तारल्यमुपलभ्यते वा । स च नीलिममिश्रि- तेन रक्तेनार्चिषा ज्वलन् वायौ सेलिनियमं द्व्यंापजनीयमापादयति । अत्रोक्तेन गाढरक्तवर्णेनारुणवर्णचपलस्य साम्यं स्पष्टम् । तथा च द्रुतिशी- लत्वमपि सदृशो गुणः ।

२१२ रसतरङ्गिणी "Constants—Melting point 217° C. Boiling point 690° C. Soluble in concentrated sulphuric acid, inso- luble in water and alcohol," अस्यायमाशयः यत् सेलिनियमद्रव्यस्य द्रवीभावमानं २१७° शतांशस्य। आवर्तनमानञ्च ६६०° शतांशस्य, इमौ च स्थिरौ गुणौ। तीक्ष्णे विजले गन्धक- द्रावे विलीनो भवति। जले कोहलसङ्गे चायमविलेयः। चपलश्च वङ्गवद् द्रुतिशीलत्वेनैवास्य नाम चपल इत्यप्युक्तं प्राक्। "चपल" इतिनामकरणेऽस्य द्रुतिगुण एव मुख्यो हेतुः। सोऽपि द्रुतिगुणः वङ्गधात्वाश्रित- द्रुतिगुणेन सम एव चपले भवतीति प्राच्याः। वङ्गस्य द्रवीभावमानं यदाधुनिकै- वैज्ञानिकैः स्थिरं कृतं तत्तु २३२° शतांशयन्त्रस्येति। नात्रापि महदन्तरम्। "Derivation—Occurs in nature in copper ores from which it is removed during the electrolytic refining of copper in the mud which settles in the cells. It is obtained by extraction with alkali cyni- des and precipitation with hydrochloric acid followed by oxidation with nitric acid and evaporation sele- nium dioxide remaining." Method of Purification—By sublimation and re- duction by means of an aqueous of sulphur dioxide, "Uses—Bacteriology biological Chemistry etc." F. M. Turner, अत्रेदमाकूतम्—अयं हि खनेः समानीते ताम्रमिश्रितमुपलभ्यते। विद्युता च ताम्रनिर्मलीकरणप्रक्रियायां तत्र कोष्ठाधःपतितालतङ्कात् पृथक् क्रियते। क्षारीयाः साइनाइड-इत्याख्याः सेलिनियमं तस्मादपनयन्ति, पश्चादधः पात्यते लवणा- मूलसंयोगेन, ततश्च सोरकामूलयोगादोषजनाधानं कृत्वा वाष्पीकरणप्रक्रियया विशोष्यते। प्राप्तिश्च भवति द्व्योपजनीयसेलिनियमस्य। निर्मलीकरणप्रकारः—ऊर्ध्वपातनविधिना जलयोगापादितद्व्योषजनी- मन्धकद्रवसाहाय्येन पुनः स्वरूप आनयनेन च शुद्धो भवति सेलिनियमः। प्रयोगस्थानम्—कीटाणुविज्ञानप्राणिविज्ञानकरसायनतन्त्रादयः। आयुर्वे- दोक्तः शोधनप्रकारः— "शैलं विचूर्ण्यित्वा तु धान्याम्लोपविषैर्विषैः। पिण्डीं बद्ध्वा तु विधिवत्पातयेच्चपलं तथा॥" रसरत्नसमुच्चये।

चपलनिर्णयः २१३ शैलमत्र सोरकः इति रसकामधेनुकारः । धान्यामूलेनोपविषैश्च सह सोरकं चूर्णयित्वा चपलमनिर्मलं तत्र सम्मेल्य पिण्डी कार्या । शुष्के च वह्नियोगेन चपलपातनं कार्यम् । तथा च नव्या वैज्ञानिका अप्यत्र मिश्रितानां धातूनाम- पनोदार्थं सोरकमुपयुञ्जते— "The selenium thus obtained contains lead and other metals from which it may be separated either by distillation or by fusing to with a mixture of nitre and sodium carbonate by which means sodium selenate is formed and this then again treated with hydrochloric acid and sulphur dioxide as above described." Roscoe and Schorlemmer. अथान्यः प्रकारः—"जम्बीरकंटकशृङ्गवेरैर्विभावनामिश्रपलस्य शुद्धिः " चपलं सञ्चूर्ण्य जम्बीरादीनां रसैः पृथक् सप्तधा भावनया तस्य शुद्धिरुक्ता । रसार्णवप्रोक्तश्चपलमारणविधिः— "मारयेत्पुटपाकेन चपलं गिरिमस्तके ।" अत्रापि गिरिमस्तकं सोरकम् इति रसकामधेनुकारः । अन्यः प्रकारः— "चपलेन समः सूतो निर्गुण्डोरसमर्दितः । पाचितो वालुकायन्त्रे रक्तभस्म प्रजायते ॥” न केवलं द्रुतिशीलत्वेनास्य चपल इति नाम परं वर्णमूर्तिपरिवर्तनै- रपि चपलः-अस्थिरः । उक्तं च रसमङ्गले-- "श्वेतं रक्तं तथा पीतं श्यामं कृष्णं च कर्बुरम् । जायते चपलं श्रेष्ठमेकवर्णं क्रमेण वै ॥” तथा च सेलिनियमस्याकृतयो या हि पाश्चात्यैरुक्ताः— "Forms ef Selenium—Various modifications of Selenium are known according to Saunders (1900) These fall into three main groups, (1) Amorphous Selenium - This exists as (a) Vit- reous selenium, obtained as an opaque lustrous mass, SP. gr, 4,28, almost black in colour. but giving a red powder, by suddenly cooling melted selenium it sof- tens at 50° and if very rapidly heated to 220° it is liquid although visceous, At temperatures above

२१४ | रसतरङ्गिणी

60°-80° it changes fairly quickly into mettallic sele- nium. (b) Colloidal selenium obtained as a red solu- tion by mixing dilute tqueous solutions of selenious and sulphurous acids, the solution slowly deposits (c) red amorphous selenium, a dark red powder. (2) Monoclinic Selenium—Produced from (a) are (b) on standing in contact with carbon disulphide. Two stable red Monoclidic crystalline verieties are known. If hoated rapidly the crystals fuse at 200° partial conversion into metallic selenium has proba- bly occured, and the unstable melting point of the crystals is probably 170°-180°. (3) Metallic Selenium is formed when any other veriety is heated at 200-220° for sometime. It is a silvery grey mass giving a black powder (red if very fine) and is insoluble in carbon disulphide but is soluble in chloraform. The boiling point of selanium is 690°; the vapour is dark red.''

सेलिनियमस्यानेका आकृतयो विज्ञाता वैज्ञानिकैः, तिसृषु श्रेणीषु ता विभक्ताः। पुष्पाकृतित्रिभिन्नेन सेलिनियमेन प्रथमा श्रेणी। अत्र त्रयः प्रभेदाः प्रधानाः। प्रथमस्तावत् काचाकृतिर्यो हि दीप्तिमान् सघ- रूपो भवति परमपारदर्शी। आपेक्षिकं गौरवं च तस्य ४.२८ इति। वर्णेन कृष्णः क्षुण्णो रक्तवर्णमयः। विद्रुतः क्षणेनैव शीतीक्रियते चेत्तर्हि पञ्चा- शत्यंशे शतांशतापमानयन्त्रस्य मृदुः सञ्जायते। अथ चातिद्रुतं यद्युष्णो- क्रियेत त्रिंशत्युत्तरे द्विशतांशे द्रवोभावमापद्यते, यद्यपि तत्र पैच्छिल्यमु- पल्लभते। अयं च यावदाषष्ट्यंशादशीत्यंशमुत्तरतो नातिचिरेण धात्वीयं रूपं वृणोति। संस्कृताभिधानग्रन्थेषु मेदिनीनामको ग्रन्थः सुप्रसिद्धस्तत्र चपलः प्रस्तरविशेष इत्युक्तम्। रसग्तनसमुच्चयेऽपि त्रिंशेऽध्याये 'चपलोपलनिर्गु- ण्डीरसाभ्यां' इत्युपलशब्देन स्मरणम्। काचाकृतीनि रत्नानि यथोप- लप्रस्तरादिशब्दैः पाषाणवाचकैः कथ्यन्ते तथा चपलोऽपि काचसादृ- श्यात्। तथा 'वर्णेन कृष्ण' इति वचनेन प्रशस्तचतुर्विधजात्युक्तकृष्णच- पले निर्देशस्तस्य सुगमः।

द्वितीयस्तु घनद्रवरूपः प्रभेदो रक्तवर्णः—स ह्याप्यते जलयोग- मृदूकृताभ्यां हीनौषजनीय-सेलिनियममूलगन्धकामूलाभ्यां मिश्रणेन । शनैरत्र चाधः पतितः । तृतीयो गाढरक्तवर्णः से लिनियमश्चूर्णरूपः । द्वितीया श्रेणी--उक्तयोः प्रथमतृतीयप्रभेदयोः कोकिलेद्विगन्धिकि- तेन सह निरन्तरमवस्थानात् प्राप्यते । द्वावेव स्थिरौ प्रभेदावस्था रक्त- वर्णौ पुष्पाकारावधुना यावज्ज्ञातौ । द्रुतमग्नितापेन द्विशतेंऽशे तरली- भवन्ति पुष्पाण्यनयोः, प्रादेशिकी च परिवृत्तिर्भवति धात्वीये रूपे । तथा च पुष्पाणां द्रवोभावायास्थिरतापज्ञापको बिन्दुः सप्तत्युत्तरशताद- शीत्युत्तरशतं यावदंशं कथ्यते । तृतीया श्रेणी धात्वीयरूपा--प्राप्यते चेत् कोऽप्युक्तः सेलिनियमः द्विशताद्विंशत्युत्तर द्विशतमंशमुष्णीक्रियते । धात्वाकारः सेलिनियमो हि ताराभश्वेतः पिण्डरूपश्च भवति । अस्य चूर्णं कृष्णवर्णं, अतिश्लक्ष्णं सत् रक्तवर्णं जायते । कोकिलद्विगन्धकितेऽविलेयः । क्लोरोफार्म इत्याख्ये च विलेयः । सेल्लिनियमस्यावर्तनबिन्दुश्च नवत्युत्तरषट्शतमंशमिति । बाष्पाणि चोत्तिष्ठन्ति गाढरक्तवर्णकानि । अत्रापि चपलेन साम्यं स्पष्टम् । चपलोऽरुणवर्णः, द्वितीयायां श्रेण्यामागतौ सेलिनियमप्रभेदावपि रक्तवर्णौ । चपलः श्वेतः ताराभश्चः । तृतीयायां श्रेण्यामागतो धात्वीयः सेल्लिनियमोऽपि ताराभः श्वेतः । चपलस्य षडस्रित्वमप्येको गुणः स्वरूपनिर्णायकः । सेलिनियमोऽपि षडस्र भवति । उक्तं च-- "A third variety, isomorphous with the crystals of cellurium and belonging to the hexagonal system is obtained at temperature above 120.° Roscoe and Schorlemmer. त्रिंशोत्तरशतादधिकेन तापेन टेलुरिकम (तत्त्वविशेष )-पुष्पाकृ- तीनि षडस्रीणि चास्य पुष्पाण्युपपाद्यन्ते । 'ये च घनद्रवरूपादिप्रभेदाः सेलिनियमस्य ते च लाक्षावच्छीघ्रद्रा- वास्तु निष्फलाः' इत्यनेनैव रसतन्त्रेषु गृहीताः । अनेन व्याख्यानेनेदं तु व्यक्तं यद्रसतन्त्रोक्तश्चपलो गौरादिवर्णकः स्फटिकच्छायो वङ्गवद् द्रुतिशीलः स्निग्धो गुरुश्च सेलिनियमेन बाह्येषु

२१४ रसतरङ्गिणी 60°-80° it changes fairly quickly into mettallic sele- nium. (b) Colloidal selenium obtained as a red solu- tion by mixing dilute tqueous solutions of selenious and sulphurous acids, the solution slowly deposits (c) red amorphous selenium, a dark red powder. (2) Monoclinic Selenium—Produced from (a) are (b) on standing in contact with carbon disulphide. Two stable red Monoclidic crystalline verieties are known. If hoated rapidly the crystals fuse at 200° partial conversion into metallic selenium has proba- bly occured, and the unstable melting point of the crystals is probably 170°-180°. (3) Metallic Selenium is formed when any other veriety is heated at 200-220° for sometime. It is a silvery grey mass giving a black powder (red if very fine) and is insoluble in carbon disulphide but is soluble in chloraform. The boiling point of selanium is 690°; the vapour is dark red.'' सेलिनियमस्यानेका आकृतयो विज्ञाता वैज्ञानिकैः, तिसृषु श्रेणीषु ता विभक्ताः । पुष्पाकृतिविभिन्नेन सेलिनियमेन प्रथमा श्रेणी । अत्र त्रयः प्रभेदाः प्रधानाः । प्रथमस्तावत् काचाकृतियों हि दीप्तिमान् सघ- रूपो भवति परमपारदर्शी । आपेक्षिकं गौरवं च तस्य ४२८ इति । वर्णान कृष्णः क्षुण्णो रक्तवर्णमयः । विद्रुतः क्षणेनैव शीतीक्रियते चेत्तर्हि पञ्चा- शत्यंशे शतांशतापमानयन्त्रस्य मृदुः सञ्जायते । अथ चातिद्रुतं यद्युष्णो- क्रियेत विंशत्युत्तरे द्विशतंशे द्रवोभावमापद्यते, यद्यपि तत्र पैच्छिल्यमु- पलभते । अयं च यावदापष्ठ्यंशादशीत्यंशमुत्तरतो नातिचिरेण धातवीयं रूपं वृणोति ! संस्कृताभिधानग्रन्थेषु मेदिनीनामको ग्रन्थः सुप्रसिद्धस्तत्र चपलः प्रस्तरविशेष इत्युक्तम् । रसगत्नसमुच्चयेऽपि त्रिंशेऽध्याये 'चपलोपलनिर्र्गु- ण्डीरसाभ्यां' इत्युत्रोपलशब्देन स्मरणम् । काचाकृतीनि रत्नानि यथोप- लप्रस्तरादिशब्दैः पाषाणवाचकैः कथ्यन्ते तथा चपलोऽपि काचसदृ- श्यात् । तथा 'वर्णोन कृष्ण' इति वचनेन प्रशस्तचतुर्विधजात्युक्तकृष्णच- पले निर्देशस्तस्य सुगमः ।

चपलनिर्णयः २१५ द्वितीयस्तु घनद्रवरूपः प्रभेदो रक्तवर्णः-स ह्याप्यते जल्योग- मृदूकृताभ्यां हीनौषजनीय-सेलिनियममूलगन्धकामूलाभ्यां मिश्रणेन । शनैरत्र चाधः पतितः । तृतीयो गाढरक्तवर्णो सेलिनियमश्चूर्णरूपः । द्वितीया श्रेणी--उक्तयोः प्रथमतृतीयप्रभेदयोः कोकिलेद्विगन्धकि- तेन सह निरन्तरमवस्थानात् प्राप्यते । द्वावेव स्थिरौ प्रभेदावस्या रक्त- वर्णौ पुष्पाकारावधुना यावज्ज्ञातौ । द्रुतमग्नितापेन द्विशतेंऽशे तरली- भवन्ति पुष्पायनयोः, प्रादेशिकी च परिवृत्तिर्भवति धात्वीये रूपे । तथा च पुष्पाणां द्रवोभावायास्थिरतापज्ञापको बिन्दुः सप्तत्युत्तरशताद- शीत्युत्तरशतं यावदंशं कथ्यते । तृतीया श्रेणी धात्वीयुरूपा--प्राप्यते चेत् कोऽप्युक्तः सेलिनियमः द्विशतादाविंशत्युत्तरद्विशतमंशमुष्णोक्रियते । धात्वाकारः सेलिनियमो हि ताराभश्वेतः पिण्डरूपश्च भवति । अस्य चूर्णं कृष्णवर्णं, अतिश्लक्ष्णं सत् रक्तवर्णं जायते । कोकिलद्विगन्धकितेऽविलेयः । क्लोरोफार्म इत्याख्ये च विलेयः । सेल्लिनियमस्यावर्तनबिन्दुश्च नवत्युत्तरषट्शतमंशमिति । बाष्पाणि चोत्तिष्ठन्ति गाढरक्तवर्णकानि । अत्रापि चपलेन साम्यं स्पष्टम् । चपलोऽरुणवर्णः, द्वितीयायां श्रेण्यामागतौ सेलिनियमप्रभेदावपि रक्तवर्णौ । चपलः श्वेतः ताराभश्चः । तृतीयायां श्रेण्यामागंतो धात्वीयः सेल्लिनियमोऽपि ताराभः श्वेतः । चपलस्य षडस्रित्वमप्येको गुणः स्वरूपनिर्णायकः । सेलिनियमोऽपि षडस्र भवति । उक्तं च-- "A third variety, isomorphous with the crystals of cellurium and belonging to the hexagonal system is obtained at temperature above 120.° Roscoe and Schorlemmer. त्रिंशोत्तरशतादधिकेन तापेन टेलुरिङ्गम (तत्त्वविशेष)-पुष्पाकृ- तीनि षडस्रीणि चास्य पुष्पाण्युपपाद्यन्ते । 'ये च घनद्रवरूपादिप्रभेदाः सेलिनियमस्य ते च लाक्षावच्छीघ्रद्रा- वास्तु निष्फलाः' इत्यनेनैव रसतन्त्रेषु गृहीताः । अनेन व्याख्यानेनेदं तु व्यक्तं यद्रसतन्त्रोक्तश्चपलो गौरादिवर्णकः स्फटिकच्छायो वङ्गवद् द्रुतिशीलः स्निग्धो गुरुश्च सेलिनियमेन बाह्येषु

२१६ रसतरङ्गिणी

रूपेषु सदृशः। अधुनाऽस्य भेषजसम्बन्धिनो गुणाः परीक्षणीयाः। रसतन्त्रेषूक्तम्— “चपलो लेखनः सिद्धो देहलोहकरो मतः। रसराजसहायः स्यात्तिक्तोष्णमधुरो मतः॥” तथा— “त्रिदोषघ्नोऽतिवृष्यश्च रसबन्धविधायकः।” अत्र प्रधानो गुणोऽतिवृष्यत्वम्, देहलोहकरत्वञ्च। पश्यन्तु च साम्यंमत्रापि सेलिनियमेन— “Marked effects on the genito-urinary organs and often indicated in elderly men especially for prosta- titis and sexual atony. Great debility, worse heat, easy exhaustion, mental and physical in old age. Debility after exhausting diseases.” लक्षणानि यत्र सेलिनियमस्य प्रयोगः क्रियते—प्रजननमूत्रावयवेषु अतिवीर्यवांश्चपलः प्रायशो वृद्धेषु प्रयुज्यते। विशेषेण पौरुषग्रन्थिप्रदाहे षाण्ढ्ये च। बलाभावोऽतीव दाहः, वार्द्धक्ये स्वल्पेनापि हेतुना मन- सोऽवसादः श्रमश्च, क्षैयकरव्याधिभवं दौर्बल्यञ्च। इति लक्षणसमुदायः प्रयोगस्थानं सेलिनियमस्य। तथा— “Dribbling of semen during sleep. Dribbling of prostatic ffuid. Irritability after coitus loss of sexual power with Lascivious fancies......Semen thin, odor- less sexual neurasthenia. On attempting coition penis rehales.” Dr. William Boericke. शयानस्य शुक्रबिन्दुस्रवणम्, पौरुषग्रन्थिभवरसस्य बिन्दुशः स्रव- णम्, मिथुनीभावानन्तरं क्षोभो ग्लानिर्वा, रत्युत्सुकत्वेऽपि षाण्ढ्यम्, शुक्रधातुश्च नितरां तरलो विगतगन्धश्च, अतिशयस्त्रीगमनेन जातो मनसोऽ वसादः, मैथुनाय प्रवृत्ते ध्वजशैथिल्यम्। तथा च— “Seminal weakness, with erethism and nervous exhaustion: voluntary or involuntary seminal omi- ssions are followed by irritability, mental confusion, headache, almost paralytic weakness of spine, involu- ntary escape of prostatic fluid, dribbling of semen during sleep and after stool and urination increasing

चपलनिर्णयः २१७ during the relaxation, impotence, lewd thoughts, but physically unable, erections slow insufficient." Samuel Lilienthal M. D. "सत्त्वोभावसादं शुक्रदौर्बल्यम्, क्षोभोदर्कः कृतोऽकृतो वा वीर्यस्रावः, मानसो विक्षोभः, शिरःशूलम्, पक्षाघातेष्विव मेरुदौर्बल्यम्, असङ्ग- मोत्सुकत्वेऽपि पौरुषग्रन्थिद्रवस्रवणम्, शुक्रस्य बिन्दुशः स्रवणं चेन्नाम शयानस्य मूत्रणोपवेशनान्तरं वा, यच्च विश्रान्तिक्राले वृद्धिशीलम्, मैथुनाक्षमत्वम्, असम्मताः भोगसङ्कल्पाः, परं रतिक्रियायामसामर्थ्यम्, मन्दमपूर्णाञ्च ध्वजोत्थानम्।" एभिरुद्धरणैः सेलिनियमस्यातिवृष्यत्वं देहलोहकरत्वञ्च परिस्फुटं प्रतिपादितम्। किमधिकम् ? स्वरूपगुणयोः सादृश्यात्समञ्जसमस्माकं निश्चयो यच्चपलः सेलिनियम एव। प्रसङ्गवश चपल का निर्णय लिख रहे हैं भा.टी—गौर, श्वेत, अरुण, कृष्ण, यह चार भेद चपल के होते हैं। इनमें जो सुवर्ण की तरह होता है वह गौर है और जो चाँदी की तरह होता है वह श्वेत है—यह दोनों पारद का बन्धक करते हैं। जो अरुण और कृष्ण होते हैं वह शीघ्र आग में रखने पर पिघल जाते हैं, इसलिए निष्फल हैं। वंग (रांगा) की तरह अग्नि में गल जाता है, अतः चपल कहा जाता है। चपल दोषों को शरीर से बाहर निकालनेवाला, देह को लोह तुल्य बनाने- वाला, पारद का सहायक, तिक्त, उष्ण, मधुर, स्फटिक-मणि की तरह, षटकोण, स्निग्ध, गुरु, दोष को दूर करनेवाला, वृष्य और पारद को बन्धन करनेवाला है। किन्ही आचार्यों के विचार से चपल का पाठ महारसों में है। इनकी शुद्धि करनी हो तो—जमीरी नीम्बू, खेखसा और अदरक के स्वरस से ३ भावना देनी चाहिये ॥१-५॥ शुद्ध चपल को लेकर आरनाल उपविष (धत्तूरादि) और विष, (वत्सना- भादि) यथालाभ द्रव्यों के साथ पीसकर एक गोल सा बना ले फिर सत्त्वपातन विधि के अनुसार सत्त्वपातन कर लें ॥६॥ वक्तव्य—दुर्भाग्यवश आयुर्वेदज्ञ वैद्यों में ऐसे विद्वान् अन्वेषक की कमी है जो अपने रिसर्च द्वारा संदेहास्पद द्रव्यों का निर्णय कर जनता के सामने उपस्थित करें। अथवा ऐसी कोई सभा भी नहीं है जो सन्देहास्पद द्रव्यों का निर्णय करे। फलतः इसका असर बहुत बुरा होता है और बहुत सी औषधियाँ

२१८ रसतरङ्गिणी

संदेहास्पद ही रह जाती हैं। इसी संदेह कोटि में चपल भी है। इसका प्रयोग न जानने के कारण कोई भी वैद्य प्रयोग नहीं करता है, बात भी यथार्थ है। जब तक द्रव्य का पूर्णरूपेण ज्ञान न हो तब तक प्रयोग ही कैसे कोई करेगा ? कोई-कोई विद्वान् "विस्मथ" को चपल मानते हैं, किन्तु उनका ज्ञान भ्रमा- त्मक है। कारण कि न चपल का स्वरूप और न गुण ही विस्मथ में पाया जाता है। चपल सत्यतः कौन सा द्रव्य है इसके पूर्व प्राचीन रसग्रन्थ में इसका वर्णन कैसे और कहाँ पर मिलता है यह बताते हैं। सोमदेवकृत रसेन्द्रचूडामणि में बताया है कि कम्पिल्लचपल, गौरीपाषाण, नौसादर, कौड़ी, वह्निजार, गिरिसिन्दूर, हिंगुल, मुर्दाशंख यह साधारण रस हैं। और रसार्णव में माक्षिक, विमल, शैल, चपल, रसक, सस्यक, दरद, सौवीर इन आठों का नाम महारस में दिया गया है। चपल के गलने में—वङ्गधातु के द्रव समकाल ही काल लगता है। वङ्ग के द्रवीभाव में नवीन पाश्चात्य विद्वान् लोग २३२ तापांश समय लगता है ऐसा मानते हैं। अर्थात् चपल के भी द्रवं में २३२ तापांश लगेगा। सेलिनियम के द्राव में २१७ तापांश लगता है। यह कोई विशेष अन्तर नहीं है। प्राचीनकाल में यन्त्रों के सहारे तो यह ज्ञान प्राप्त नहीं किया गया था, अतः कुछ अन्तर पड़ना स्वाभाविक है। सेलि- नियम को खान से प्राप्त करते हैं तो इसमें ताम्र का संयोग रहता है, जिसको बिजली के द्वारा अलग करके साइनाइड् क्षार नामक सेलिनियम को अलग कर लेते हैं। इसकी शुद्धि ऊर्ध्वपातन विधान से करते हैं। इसका प्रयोग कीटाणु विज्ञान, प्राणिविज्ञान पुस्तकों में पाया जाता है। आयुर्वेद में—इसकी शुद्धि निम्न प्रकार से बतायी गयी है। सोरा, धनियाँ का मूल, उपविष और विषों को पीसकर पिण्ड सा बना उसी में चपल मिला ऊर्ध्वपातन विधान से पातन कर लें। पाश्चात्य विद्वान् भी मिश्रित धातुओं को पृथक् करने के लिए सोरा का प्रयोग करते हैं। अन्य प्रकार—जमीरी नींबू का रस, खेखसा, और अदरक की सात भावना से चपल की शुद्धि होती है। रसार्णव में बताया है कि सोरा से पुट देने पर चपल का मारण होता है। भस्म का दूसरा प्रकार—चपल के समभाग शुद्ध पारा को निर्गुण्डी के रस से भावना देकर बालुका यन्त्र द्वारा पाक करने पर रक्त भस्म हो जाता है।

चपलनिर्णयः २१६ रसमङ्गल नामक ग्रन्थ में तो—श्वेत, रक्त, पीत, श्याम, कृष्ण, कर्बुर (चित्राङ्ग), चपल होता है, किन्तु एक वर्णवाला पूर्व पूर्व श्रेष्ठ होता है ऐसा वर्णन मिलता है। पाश्चात्य विद्वान् लोग सेलिनियम का ठीक स्वरूप निम्न प्रकार से वर्णन किये हैं। सेलिनियम—३ प्रकार का होता है। पहला पुष्पाकृति होता है। इसमें ३ भेद हैं— पहला काँच की तरह दीप्तिमान्, समुदाय रूप, अपेक्षाकृत भारयुक्त ४२८ होता है, वर्ण काला होता है, परन्तु चूर्ण करने पर रक्त हो जाता है। द्रव होने पर जब शीत करते हैं तो ताप यन्त्र के ५० अंश पर मृदु हो जाता है। यदि अतिरिक्त द्रुत को अधिक गरम करते हैं तब २२० तापांश पर गल जाता है और इसमें पिच्छिलता रहती है। यह ६० और ८० अंश पर शीघ्र धातु स्वरूप हो जाता है। और भी पुस्तकों में ऐसा ही पाया जाता है। रसरत्नसमुच्चय में अभ्रक, वैक्रान्त, माक्षिक, विमल, शिलाजीत, सस्यक, चपल, रसक, इन आठों का नाम महारस में दिया है। इन सब बातों से स्पष्ट है कि इसका पाठ किसी के मत में महारस में है और किसी के मत से साधारण रस में है। यह सब वर्णन रस ग्रन्थों से ज्यों का त्यों किया गया है, किन्तु मुझे यहाँ महारस या साधारण रस इसमें न पड़कर चपल का निर्णय करना है। इसका लक्षण आयुर्वेद में निम्न प्रकार का बताया गया है। स्वर्ण की तरह गौर, चाँदी की तरह श्वेत, लाख की तरह शीघ्र गलनेवाला, कृष्ण, लाल, षट्कोण, चिकना, भारयुक्त, स्फटिकमणि की तरह चपल होता है। इस लक्षण में आयुर्वेदज्ञ वैद्यों का एक ही मत है तो इन लक्षणों का समा- वेश “बिस्मथ” में कुछ भी नहीं पाया जाता है। किन्तु सेलिनियम Selenium में इसका स्वरूप मिलता है। इसलिए चपल नामक द्रव्य जो आयुर्वेद में पाया जाता है। वह निश्चय ही सेलिनियम है। सेलिनियम का लक्षण पाश्चात्य विद्वानों ने इस प्रकार किया है। तीक्ष्ण नामक लोह की तरह धूम्रवर्ण, शलाका की तरह या गन्दे कपड़े की तरह चकमदार, तोड़ने पर ऊपर का भाग पुष्प के आकार का होता है। इनमें समानता—गौर चपल में तीक्ष्ण लोह की तरह धूम्रवर्ण गुण पाया जाता है। धूम्रवर्ण की उत्पत्ति श्वेत कृष्णवर्ण के संयोग से होती है और गौर श्वेत नहीं होता है।

२२८ रसतरङ्गिणी चपल स्फटिक मणि की तरह होता है। इसी बात का वर्णन शलाकाकार या गन्दे कपड़े की तरह इत्यादि है। यह सेलिनियम—एक गाढ़े रक्तवर्ण का भी होता है जो अरुण चपल के तुल्य है, यह पुष्प चूर्ण की तरह भी होता है १७० या १८० अंश ताप पर द्रव या तरल हो जाता है। गलने पर रक्ततेज में नीलरंग मिश्रित होता है जो वायु में हाइड्रोजन (ओषजन) के रूप में मिल जाता है। इसमें चपल की तरह द्रुति शीलन भी गुण साफ ही है। सेलिनियम का २१७ ताप अंश पर द्रव होना और ६६० ताप अंश पर आवर्त होना यह स्थिर गुण है। यह जलरहित तीक्ष्ण गन्धक द्राव में घुल जाता है और जलयुक्त अलकोहल में नहीं घुलता है। चपल, वङ्ग (रांगा) की तरह द्रुतिशील . है, शीघ्र द्रव होने से ही इसका नाम चपल रखा गया है। १—(क) मेदिनी ग्रंथ में और रसरत्नसमुच्चय में भी चपल को काचाकृति बताया है तथा 'वर्णेन कृष्णः' यह भी बताया है। इससे स्पष्ट है कि कृष्ण चपल, प्रथम भेद सेलिनियम ही है। (ख) घनद्रव स्वरूप रक्तवर्ण का होता है, जल और गन्धक इत्यादि के मिश्रण से हाइड्रोजन द्वारा इसका द्रवभाग प्राप्त होता है। (ग) इसके ही द्वारा अधः पतित रक्तवर्ण का चूर्ण रूप में प्राप्त होता है। २—इसके दो भेद हैं—प्रधान जो रक्तवर्ण है वह स्थिर है, २०० तापांश पर तरल होता है और धातुरूप में परिवर्तित हो जाता है। पुष्पाकार सेलिनियम के द्रुति होने के लिए तापांश १३० या १८० की आवश्यकता होती है। ३—धातुरूप में प्राप्त होता है, २०० तापांश के ऊपर २२० तापांश तक यह उष्ण होता है। श्वेत पिंडाकार होता है। इसका वर्ण काला चिकना होते हुए लाल होता है। रक्त चपल द्वितीय श्रेणी में और श्वेत चपल ३ श्रेणी में आता है और उसका साम्य है। चपल षट्कोण है सेलिनियम भी षट्कोण होता है। इसमें १३० से अधिक ताप पर टेलुरिङ्गम पदार्थ पुष्पाकृति का षट्कोण प्राप्त होता है। और जो घनद्रवरूप सेलिनियम प्राप्त होता है वह लाख की तरह शीघ्र द्रावी चपल है, लक्षण से साम्यता स्पष्ट मिलती है।

दशमस्तरङ्गः २२१ अत्र प्रयोग होने पर गुणतः साम्य होना आवश्यक है। चपल में प्रधान गुण—अतिवृष्य और शरीर को लौह सदृश करना है, सेलेनियम का प्रयोग निम्नावस्था में किया जाता है— पौरुष ग्रन्थि दाह में, नपुंसकता में, दुर्बलता में, अत्यन्त दाह में, वृद्धावस्था में, मन में श्रम होने पर, धातुक्षयजन्य दुर्बलता में, शयनावस्था में शुक्रस्राव होने पर, पौरुष ग्रन्थि से रसस्राव में, मैथुन के बाद मन में ग्लानि होने पर आन्तरिक मैथुन की इच्छा होने पर भी लिङ्ग की शैथिल्यावस्था में, अति स्त्री- प्रसङ्ग से मन में दुःख होने पर, शुक्र का पतलापन और विगन्ध होने पर, शिरः- शूल में, लिङ्ग की दुर्बलता में, मैथुन इच्छा मात्र से ही शुक्रस्राव होने पर, पेशाब के पहले या बाद में शुक्रस्राव होने पर, रतिक्रिया में असामर्थ्य पर ध्वज- भङ्ग होने पर, इन लक्षणों के होने पर जो औषधि अतिवृष्य और देहलौहसम करनेवाला न होगा तो कार्य क्या करेगा और चपल में यही प्रधान गुण है। अतः सेलेनियम ही चपल है—ऐसा मेरा निर्णय है। अथ अभ्रकविज्ञानीयो दशमस्तरङ्गः अभ्रकस्य नामानि अभ्रकं गगनं भृङ्गमभ्रं खं व्योमनामकम् । वज्रं घनञ्च गिरिजं बहुपत्रमनन्तकम् ॥ १ ॥ आकाशमम्बरं शुभ्रं त्वमलं गरजध्वजम् । मेघाख्यमन्तरिक्षञ्च तदेव परिकीर्तितम् ॥ २ ॥ अभ्रकनामानि—अभ्रकमित्यादिना ॥ १–२ ॥ भा.टी.—अभ्रक, गगन, भृंग, अभ्र, ख, व्योम, वज्र, घन, गिरिज, बहु- पत्र, अनन्तक, आकाश, अम्बर, शुभ्र, अमल, गरजध्वज, मेघ, अन्तरिक्ष, ये सब अभ्रक के नाम कहे जाते हैं ॥ १–२ ॥ अभ्रकस्य चातुर्विध्यम् अभ्रं सितारुणश्यामपीतवर्णविभेदतः । चतुर्विधं समाख्यातं कृष्णं तत्र गदापहम् ॥ ३ ॥ अभ्रभेदाः—"कृष्णं तत्र गदापहम्" इत्यनेन कृष्णस्यैव रोगप्रयोगयोग्यता सूचिता—दाक्षिणात्यास्तु श्वेताभ्रमपि पित्तज्वरादिषु योजयन्ति, तन्नु स्वल्पगु- णत्वात्प्राचीनाचार्यैः प्रायश उपेक्षितमासीदिति ज्ञेयम् ॥ ३ ॥

२२२ रसतरङ्गिणी भा.टो.—श्वेताभ्र, रक्ताभ्र, कृष्णाभ्र, पीताभ्र, भेद से चार प्रकार का होता है। इन चारों में से कृष्णाभ्रक रोगनाशक होता है ॥ ३ ॥ वक्तव्य—आजकल यद्यपि श्वेताभ्रक का भी बहुत से वैद्य प्रयोग करने लगे हैं, परन्तु यह कृष्णाभ्रक की अपेक्षा बहुत अल्पगुण होने से प्राचीन काल में प्रसिद्ध नहीं था। अतएव इसके गुणादि का वर्णन शोधन का वर्णन पूर्ण रूप से नहीं मिलता है। कृष्णाभ्रकस्य भेदाः पिनाकनागमण्डूकवज्राह्वयविभेदतः। चतुर्विधन्तु कृष्णाभ्रं मतं रसविशारदैः ॥४॥ भा.टी.—पिनाक, नाग, मण्डूक तथा वज्र भेद से कृष्णाभ्रक के चार भेद होते हैं ॥ ४ ॥ अग्नौ सन्तापितं यत्तु दलानि परिमुञ्चति। रसतन्त्ररहस्यज्ञैस्तत् पिनाकं प्रकीर्तितम् ॥ ५ ॥ भा.टी.—जो अभ्रक अग्नि में तपाने से सूक्ष्म दलों (पत्र) को छोड़ने लगता है उसे रसतन्त्रकार पिनाक नामक कृष्णाभ्रक कहते हैं ॥ ५ ॥ तस्य दोषाः पिनाकाभ्रं मलं रुद्धवा कुरुते मरणं ध्रुवम्। कुष्ठादिकान्महारोगान् जनयत्यपि निश्चितम् ॥६॥ भा.टी.—पिनाक नामक कृष्णाभ्रक सेवन करने पर तीव्र मलबन्ध करके मृत्यु का कारण होता है। इसके अतिरिक्त कुष्ठ, भगन्दर, प्रमेह, अर्श आदि महारोगों को भी उत्पन्न करता है ॥ ६ ॥ नागाभ्रकस्य लक्षणम् पावकोत्तापितं यत्तु फूत्कारं परिमुञ्चति। क्रुद्धाहिश्वासवच्छीघ्रं नागाभ्रं तदिहोच्यते ॥७॥ भा.टी.—जो अभ्रक अग्नि में तपाने पर सहसा कुपित सर्प की भांति फूत्कार शब्द करने लगता है उसे नाग अभ्रक कहते हैं ॥ ७ ॥ तस्य दोषाः नागाभ्रं सेवितं कुर्यान्महाघोरं भगन्दरम्। मण्डलं वा महाकुष्ठं तद्द्वयं वा न संशयः ॥८॥

दशमस्तरङ्गः २२३ भा.टी.—नागाभ्रक का सेवन करने से भयंकर भगन्दर रोग उत्पन्न होता है और मण्डल कुष्ठ या महाकुष्ठ ( गलितकुष्ठ ) अथवा दोनों ही प्रकार के कुष्ठ उत्पन्न होते हैं ॥ ८ ॥ मण्डूकाभ्रस्य लक्षणम् अग्नौ सन्तापितं यत्तु भेकवत्कुरुते रवम् । उत्प्लुत्योत्प्लुत्य च पतेन्मण्डूकं तदिहोच्यते ॥६॥ भा.टी.—जो अभ्रक अग्नि में तपाने पर मेढक के समान शब्द करता है और चिटक चिटक कर बिखरने लगता है उसे मण्डूकाभ्रक कहते हैं ॥ ६ ॥ तस्य दोषाः मण्डूकसंज्ञकं त्वभ्रं सततं परिशीलितम् । अश्मरीं जनयत्याशु शस्त्रसाध्यमसंशयम् ॥१०॥ कृष्णाभ्रकस्यैव चत्वारो भेदाः पिनाकादयः । तेषां लक्षणानि दोषाश्च व्याख्याताः ॥ १० ॥ भा.टी.—मण्डूकाभ्रक का कुछ काल निरन्तर सेवन करने से निश्चित ही शस्त्रसाध्य भयंकर अश्मरी रोग हो जाता है ऐसा लिखा है ॥ १० ॥ वज्राभ्रकस्य लक्षणम् पावकोत्तापितं यत्तु विकृतिं नैव गच्छति । तिष्ठत्यग्नौ भिदुरवत् वज्राभ्रं तत्प्रकीर्तितम् ॥११॥ वज्राभ्रकलक्षणम्—भिदुरवत् वज्रवत् ॥ ११ ॥ भा.टी.—जो अभ्रक अग्नि में तपाने पर किसी प्रकार भी विकृत नहीं होता और वज्र के समान तद्रूप बना रहता है उसे वज्राभ्रक कहते हैं ॥ ११ ॥ तस्य गुणाः सर्वश्रेष्ठं तु वज्राभ्रं महाव्याधिहरं परम् । देहसिद्धिकरञ्चापि जरावैरूप्यनाशनम् ॥१२॥ भा.टी.—वज्राभ्रक सब अभ्रकों में श्रेष्ठ होता है । इसके सेवन से महा रोग नष्ट हो जाते हैं । यह शरीर को सर्वगुणसंपन्न करता है तथा इसके प्रयोग से बुढ़ापे से आने वाली कुरूपता भी नष्ट हो जाती है ॥ १२ ॥ जात्याभ्रकस्य स्वरूपम् नीलाञ्जनोपमं स्निग्धं भारपूर्णं महोज्ज्वलम् । निर्मोच्यपत्रं मृदुलं त्वभ्रं श्रेष्ठमिहोच्यते ॥१३॥

२२४ रसतरङ्गिणी जात्याभ्रस्वरूपं यथा—निर्मोच्यपत्रं सुखेन विभागयोग्यपत्रसञ्चयम् ॥ १३ ॥ भा.टी.—नीले सुरमे के सदृश काला, चमकीला, वजनदार, पृथक् पृथक् होने योग्य पत्रोंवाला और कोमल, अभ्रक श्रेष्ठ समझना चाहिये ॥ १३ ॥ देशभेदेनाभ्रकस्य वैशिष्ट्यम् अभ्रकं हिमशैलोत्थमुत्तमं परिकीर्तितम् । मध्यमं पूर्वशैलोत्थं त्वधमं दक्षिणाद्रिजम् ॥१४॥ भा.टी.—हिमालय पर्वत की खान से प्राप्त होनेवाला अभ्रक उत्तम माना जाता है और पूर्वीय देशों के पर्वतों से प्राप्त मध्यम, दक्षिणी पर्वतों से प्राप्त अधम अर्थात् निषिद्ध होता है ॥ १४ ॥ अभ्रकखननविधिः गजप्रमाणं पुरुषप्रमाणं वा खानयेद्वै खनिमामयज्ञः । ततो गुणाढ्यं खलु भारपूर्णं समाहरेदभ्रकमञ्जनाभम् ॥१५॥ गजप्रमाणमिति-अविनष्टसत्त्वगगनग्रहणाय । तथाहूः-“राजहस्तादधस्ताद् यत् समानीतं घनं खनेः । भवेत्तदुक्तफलदं निःसत्त्वं निष्फलं परम् ॥” इति ॥ १५ ॥ भा.टी.—अभ्रक की खानों में गजप्रमाण नीचा या पुरुषप्रमाण साढ़े तीन हाथ या चार हाथ नीचा खोदकर उसमें से काले अञ्जन के सदृश चमकीला, काला और भारो मान का अभ्रक लेना चाहिये । इसी में अभ्रक के उत्तम गुण होते हैं ॥ १५ ॥ अशोधिताभ्रकस्य दोषाः बाधां विदध्याद्विविधां शरीरे हृत्पार्श्वपीडां तनुते नितान्तम् । शोफं क्षयं पाण्डुगदञ्च कुष्ठं त्वशोधिताभ्रं खलु मारितं यत् ॥१६॥ धान्याभ्रकरणे चैव मारणे सत्त्वपातने । रसतन्त्रविशेषज्ञः शुद्धमभ्रं नियोजयेत् ॥१७॥ अशोधिताभ्रकदोषाः—विविधां नानाप्रकाराम् । हितत्वात् धान्याभ्रकरणे मारणे सत्त्वपातने च शुद्धाभ्रविनियोगः ॥ १६-१७ ॥ भा.टी.—अशोधित अभ्रक या चन्द्रिकायुक्त अभ्रक सेवन करने से शरीर में अनेक प्रकार के रोग और पार्श्वपीडा, शोथ, पाण्डुरोग और कुष्ठ रोग उत्पन्न होते हैं । अतः अभ्रक की भस्म करने अथवा सत्वपातन करने या धान्याभ्रक के बनाने के लिये शुद्ध अभ्रक का ही प्रयोग करना चाहिये ॥ १६-१७ ॥