भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

अमुनैव वदन्त्यन्ये गृहपीडां मनीषिणः । क्षेमेण यद्यविघ्नः स्यादासङ्गश्चागमो यदि ॥ ५० ॥ वनान्तरे तदा क्षेमं सुभिक्षं च समादिशेत् अर्घदानविधिना विधानविद् द्रव्यमागतमिहार्चयेद् गृही । प्रत्युपेते^१कुलिशायुधध्वजं द्रव्यमुज्ज्वलमुतावनीपतिः ॥ ५१ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे वनप्रवेशो नाम षोडशोऽध्यायः ।

अथ इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः ।

सुराणामर्थसिद्ध्यर्थं वधाय च सुरद्रुहाम् । यथा शक्रध्वजोत्थानं प्राह ब्रह्मा तथोच्यते ॥ १ ॥ भगवन्तमथाम्भोजसंभवं वचसांपतिः । प्रोवाच कथमिन्द्रेण जेतव्यास्त्रिदशद्विषः ॥ २ ॥ सोऽब्रवीत् सर्वरत्नानां ध्वजं कुरुत सङ्गताः । तं चाभिचारिकैर्मन्त्रैरुद्द्वहन्तोऽभिमन्त्रितम् ॥ ३ ॥ स्थितं चोपरि यन्त्रस्य सम्यक् पक्षिशतान्वितम् । अग्रतो देवसैन्यस्य नयन्तो जेष्यथ द्विषः ॥ ४ ॥ सहस्रधारमप्येकमन्यं रिपुकुलान्तकम् । दिव्यरूपमयं प्रादाद् ध्वजमिन्द्राय दुर्धरम् ॥ ५ ॥ वीर्यप्रवर्धनी चेष्टिरेतदर्थं विधीयते । कर्मणानेन निःशेषाञ् शक्रः शत्रूञ् जयेदिति ॥ ६ ॥ जहृषी तमथ क्षिप्रमसृजच्चेतसा ध्वजम् । यन्त्रस्थितं स येनाजावमोहयदरीन् हरिः ॥ ७ ॥ आदित्या वसवो रुद्रा विश्वेदेवास्तथाश्विनौ । अलञ्चक्रुस्तमालोक्य मरुतश्च विभूषणैः ॥ ८ ॥


१ द. ख. प्रत्युपेत्य ।

७२ समराङ्गणसूत्रधारे तेजो वीर्यं वपुश्चेष्टां बलमप्येष पश्यताम् । अहरच्छत्रुसैन्यानां तेजस्वी तरसा ध्वजः ॥ ९ ॥ तमभ्यर्च्य सुराधीशः शत्रून् बलवतोऽप्यसौ । त्रिरात्रेणाजयद् युद्धे कुलिशेन बलाद् बली ॥ १० ॥ ततः प्रीतस्तमृक्षेऽसौ वैष्णवे द्वादशे तिथौ । त्रैलोक्यराज्यं प्राप्याभ्यषिञ्चद् बलनिषूदनः ॥ ११ ॥ स सर्वलोकमभ्यर्च्य सर्वलोकाभिपूजितः । ध्वजमभ्यर्च्य तुष्टाव वाक्यैर्वृत्रनिषूदनः ॥ १२ ॥ ततस्तमन्तिके वीक्ष्य ध्वजं प्रोवाच वासवः । इन्द्रध्वजाक्षया लोकाः करिष्यन्ति तवार्चनम् ॥ १३ ॥ वीक्षमाणा निमित्तानि भूमिपालाश्च शास्त्रतः । ततः प्रभृत्यसौ लोके सर्वलक्षणसंभृतः ॥ १४ ॥ वरप्रदानादिन्द्रस्य नृपैः शक्रध्वजोऽर्च्यते । दुर्गमायतनं वह्निशरणं वेदिकाः कृताः ॥ १५ ॥ विचित्राः स्थालिकापाका भक्ष्यपानानि यानि च । एतान्यायतनार्तं प्राक् स्युर्यद्द्रव्यानि प्रकल्पयेत् ॥ १६ ॥ विजेतुं यदि वाञ्छन्ति दुर्धर्षान् द्वेषिणो रणे । तेजो बलं यशश्चाप्तुं तदैन्द्रं कारयेद् ध्वजम् ॥ १७ ॥ सेनायां वा पुरे वापि प्रतिष्ठाप्य पुरन्दरम् । विजयार्थं महीपालैरभिप्रशमनाय च ॥ १८ ॥ यथा शक्रध्वजोत्थानविधानं जगतीभुजः । करिष्यन्ति तथा सम्यक् कार्त्स्न्येन प्रतिपाद्यते ॥ १९ ॥ वनादुपाहृतं द्रव्यमथ प्राग्विधिना सुधीः । पाद्यार्घ्यादिभिरभ्यर्च्य गन्धैर्माल्यैरलङ्कृतम् ॥ २० ॥ द्विजान् संपूज्य च शुचौ देशे सम्यक्समाहितः । पूर्वाग्रमुत्तराग्रं वा प्रयत्नादवतारयेत् ॥ २१ ॥


१ द. ख. इन्द्रध्वजाख्यया । २ शा. काक्षताः । ३ द. न्यायतनानि स्युर्यं । ४ शा. ॰रेमिः ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७३ प्रागुदग् वा पुरस्याथ स्थपतिः कर्मवानपि । कारयेत् सर्वयन्त्राणि ध्वजपूर्वाणि शिल्पिभिः ॥ २२ ॥ श्रेष्ठं द्वात्रिंशता हस्तैर्विंशत्या युतंयाष्टभिः । मानं स्यान्मध्यमं तस्य चतुरन्वितयाधमम् ॥ २३ ॥ मूलविस्तृतिरायामादङ्गुलाधं करे करे । विष्कम्भोऽग्रे च मूलाधोत् तत्तूर्याशाद् वाखिलेष्वपि ॥ २४ ॥ ध्वजमूलाष्टमांशोनं विस्तारात् कुष्यमिष्यते । २विस्तारार्धेन च स्थूलं स्थूलत्वत्रिगुणायतम् ॥ २५ ॥ ध्वजविस्तारबहलं साङ्घ्रिबाहल्यविस्तृतम् । भ्रमपीठं विधातव्यं सार्धायामं शुभावहम् ॥ २६ ॥ सम्मितो ३ध्वजकुष्येण वेधः स्याद् भ्रमपीठगः । कुष्यकोष्ठ्यधिकां४वृत्तावक्षौ कोटिद्वयायतौ ॥ २७ ॥ कार्यावङ्घ्री भ्रमस्थूलौ भ्रमविस्तृतिविस्तृतौ । तद्युक्तिवेधे तावेत(वि ? द्वि) स्तुतेर्द्विगुणोच्छ्रितौ ॥ २८ ॥ ध्वजायतितुर्भागात् पीठमत्र प्रकल्पयेत् । मल्लप्रतिष्ठितं मध्ये प्रान्तयोः स्तम्भधारितम् ॥ २९ ॥ तत्पीठस्तम्भनीयाभ्यां द्वाराभ्यामन्वितं दृढम् । याम्योत्तरप्रतिक्षोभं प्राङ्मुखं सुदृढार्गलम् ॥ ३० ॥ केतुव्यासार्धविस्तारं तद्दैर्ध्याष्टांशकोच्छ्रितम् । विस्तारसदृशायामं मध्ये स्याद् वज्रिणो गृहम् ॥ ३१ ॥ मल्लश्च पीठिकाङ्घ्री च बाहू स्तम्भविनिर्गतौ । शक्रमाता कुमार्यश्च ध्वजविस्तृतिविस्तृताः ॥ ३२ ॥ निम्नभागाश्च सर्वेषां स्वविस्तृतिचतुर्गुणाः । कार्या वा पञ्चगुणिताः सैप्त (का ? वा) मूलदेश(कं ? तः) ॥३३॥ १ द. विस्तरात् । २ द. विस्तारार्धेन । ३ द. ध्वजकुप्येण वधः । ४ शा. द. °त्रिको वृत्ता कक्षौ । ५ द. स्रत्वक्तामूलदेशकः । वा, १०

७४ समराङ्गणसूत्रधारे। कन्यानामुदयः प्रोक्तो यः ष(ष्ठ्यो ?)¹ष्ठांशस्त्रिसंगुणः। इन्द्रमाता तु सर्वाभ्यः स्यात् तदष्टांशतोऽधिका ॥ ३४ ॥ वेधः खविस्तरैः सप्तभागे स्यात् कन्यकोदयात् । निर्वेधश्चतुरश्रः स्याल्लकटस्य समाहितः ॥ ३५ ॥ निर्वेधावरय चोर्ध्वाधः सप्तांशान्तरवर्तिनौ । कार्यौ सूचीव्यधावन्यौ सूचीमानप्रमाणतः ॥ ३६ ॥ कन्याव्यासत्रिभागेन सूची विस्तारतो भवेत् । पादोनबहुला चारुदारुजा दृढसंहिता ॥ ३७ ॥ कुमारीव्याससंयुक्तो² द्विगुणा लकटायतिः । एतद्वाह्यान्तरं ज्ञात्वा यन्त्रं संयोजयेत् ततः ॥ ३८ ॥ तयोरधस्तदर्धेन मृगाल्यौ सूचिविस्तृतौ । क्षेत्रस्य लेखितं कार्यं सम्बन्धै³ सूचिकन्ययोः ॥ ३९ ॥ साङ्घ्रिकेतनमूलार्धं लकटे विस्तृतायती । अक्षाभ्यां योजयेत् सम्यग् दृढं बाह्रक्षवेधयोः ॥ ४० ॥ पञ्चानामपि तुल्यैव कन्यानां स्यात् प्रकल्पना । कृत्वानुपूर्व्या यन्त्राणि स्थापयेदखिलान्यपि ॥ ४१ ॥ आश्विने मासि पक्षे च धवले प्रतिपत्तिथौ । स्थिरोदयैर्ग्रहैः सौम्यैर्वीक्षि⁴ते त्वाष्ट्रभेऽपि च ॥ ४२ ॥ पौरजानपदैः सर्ववादित्रध्वनितेन च । यन्त्राण्युत्क्षिप्य यष्टिं च कर्मस्थानान्नयेज्जलम् ॥ ४३ ॥ चित्रप्रतिसराकीर्णां यष्टिं तत्राज्यलेपिताम् । चूर्णैः सर्वौषधीमिश्र स्थपतिः स्नापयेत् स्वयम् ॥ ४४ ॥ जलाशयात् समुत्तार्य नृणां कलकलस्वनैः । प्रागग्रां स्थापयेद् दारुहस्तिन्योः प्राक्समुन्नताम् ॥ ४५ ॥


१ द. ˚प्रोक्तो यष्टाष्टांशस्˚ २ द. ˚संयुक्तां द्विगुणां लक्रटायतिम् । ३ द. सम्बन्धि- सूचिकानयोः । ४ द. ख. ˚क्षि˚ ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७५ अहतेप्सितवासोभिराच्छाद्याचार्य स्रगादिभिः । १विक्षिप्य च बलिं दिक्षु द्विजातीन् स्वस्ति वाचयेत् ॥ ४६ ॥ त्रिसन्ध्यं पूजितां तत्र सर्वप्रकृतिभिस्ततः । पञ्चाहं वासयेद् यष्टिं गुप्तां चापधरैर्नरैः ॥ ४७॥ तस्मिन्नेवाह्नि यन्त्राणि सर्वाण्यपि च यष्टिवत् । स्नातान्याच्छादितानीन्द्रस्थानदेशं प्रवेशयेत् ॥ ४८ ॥ सूत्रितेऽथ ध्वजस्थाने यष्टेरष्टांशदैर्घ्यतः । तदर्धविस्तृते दिक्स्थे समे प्रागायते शुभे ॥ ४९ ॥ विभक्तेऽत्र विभागानामेकाशीत्या ततः क्रमात् । विन्यस्तास्वथ सर्वासु देवतासु यथातथम् ॥ ५० ॥ प्राचि मध्ये मैत्रपदे तन्मध्यान्मरुतो दिशि । मल्लं निम्नप्रमाणेन् पादकोणे निवेशयेत् ॥ ५१ ॥ भृङ्गुमुख्यपदद्वन्द्वंमध्ययोर्वायुकोणयोः । न्यस्येत् स्तम्भौ तयोः पीठीं मल्ले च विनिवेशयेत् ॥ ५२ ॥ पीठिका निर्गता बाहुयुग्मात् तत्रा३ग्रयोगतः । स्तम्भिन्यौ रोपयेद् ब्राह्मं पृथक्पदयुगं श्रिते ॥ ५३ ॥ प्रतिक्षोभाविह द्वौ द्वौ बाहुद्वितयमाश्रितौ । बाह्यतः प्रान्तपदयोर्मैत्रयोर्विनिवेशयेत् ॥ ५४ ॥ प्राच्यां मल्लाग्रतो ज्ञात्वा शक्रस्योर्ध्वगतिं क्रमात् । योजयेद् भ्रमणोपेतौ भ्रमपादावभङ्गुरौ ॥ ५५ ॥ मल्लात् पश्चिमदिग्भागे वरुणस्याश्रितां पदम् । भद्रां निवेशयेन्निम्नमानतः शक्रमातरम् ॥ ५६ ॥ स्युः पर्जन्यान्तरिक्षद्वा५र्यें (क्ष्मा ? क्ष्म) णां पदमाश्रिताः । क्रमान्नन्दोपनन्दारूयजय्याख्यविजयाभिधाः ॥ ५७ ॥ १ द. निक्षिप्य । २ द. ख. भृंगमुख्यापदं द्वन्द्वं मध्याभ्यां वायु । ३ शा. तत्त्वाग्र । ४ द. गतिः क्रमात् । शा. गतिक्रमः । ५ द. वार्यक्षमाणां ।

७६ समराङ्गणसूत्रधारे विन्यस्तास्वथ सर्वासु कुमारीषु विभागशः । त्रयस्त्रयः प्रतिक्षोभा योज्या दाढ्र्याय बाह्यतः ॥ ५८ ॥ निक्षिपन्नखिलं द्रव्यं भावयेत् पददेवताः । प्राप्नोति तत्तदाख्यां तद् द्रव्यं पूजां च तद्गताम् ॥ ५९ ॥ पीठपृष्ठसमं कन्यापार्श्वयोरुभयोरपि । कुर्यादनुसरद्वन्द्वं कीलकैर्बद्धमायसैः ॥ ६० ॥ संश्रित्याँनुसरद्वन्द्वं पीठौं चोपरि सङ्ग्रहात् । बध्नीयात् कीलकैर्लोहैर्यन्त्रनिश्चलताकृते ॥ ६१ ॥ यन्त्रकर्मणि निर्वृत्त इति शास्त्रविधानतः । प्रवेशयीत स्वस्थाने त्रिदशाधिपमैन्द्रभे ॥ ६२ ॥ स्नातस्य विधिवद् वस्त्रच्छन्नस्यालेपितस्य च । श्रीखण्डाद्यैः सुरभिभिः कुसुमैरर्चितस्य च ॥ ६३ ॥ रौहिणादिमुहूर्तेषु त्रिषु मैत्रेऽथ वज्रिणः । प्रवेशमभिनन्दन्ति करणेष्वर्चितेषु च ॥ ६४ ॥ स्थपतिर्वा पुरोधा वा शुचिः स्नातः समाहितः । गन्धमाल्यार्चिनान् विप्रॉस्तर्पयेद् दक्षिणादिभिः ॥ ६५ ॥ ततो मङ्गलघोषेण वादित्रनिनदेन च । पुण्याहजयशब्दैस्तमुत्क्षिपेयुः समाहिताः ॥ ६६ ॥ अलङ्कारभृतः पौराः प्रहृष्टमनसोऽखिलाः । नीरुजो बलिनः शक्ताः प्रकृत्यभिमताश्च ये ॥ ६७ ॥ स्तुवीरन् पुण्यमनसः स्तुतिभिः सूतमागधाः । वन्देरन् वन्दिनश्चैनं सेवेरन् गणिका अपि ॥ ६८ ॥ प्रविशन्तं निजं स्थानमनुगच्छेद्वराधिपः । सुराधिपं बलामात्यपौरजानपदान्वितः ॥ ६९ ॥ १ शा. द. विभागतः । २ क. नादयेत् । ३ द. ख. ॰ख्यानां द्रव्यं । ४ क. संश्रितानु॰ । ५ द. ख. पीठं ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७७ प्रोद्यत्कलकलारावसुखराः पुरुषा यदि । उत्क्षिपेयुः प्रहृष्टा वा वहेयुर्वा सुराधिपम् ॥ ७० ॥ तदा भवति भूपालो जयी नन्दन्ति च प्रजाः । राष्ट्रे सुखं पुरे हर्षो भवेन्नश्यन्ति चेतयः ॥ ७१ ॥ मुञ्चत्युत्थापितः कृच्छ्राद् यदि शय्यां स गौरवात् । तदा नृपतिरभ्येति महतीं विमनस्कताम् ॥ ७२ ॥ स्खलन्तो दुःखिना दीना निःश्वसन्तः पदे पदे । २वैचित्त्यभाजो गच्छेयुर्देशहानिस्तदा ध्रुवम् ॥ ७३ ॥ भूमौ यदैकदेशेन हसितः(?)पतति ध्वजः । न सुभिक्षं न च क्षेमो न राज्ञो विजयस्तदा ॥ ७४ ॥ दीर्णे भग्नेऽथ पतिते कृत्स्ने चास्मिन् समुद्धृते । स्यान्नृपस्यावनिच्छेदः सुतध्वंसोऽथवा मृतिः ॥ ७५ ॥ वस्त्रालङ्कृतिमाल्यानां हरणात् पतनादुत । तादृशद्रव्यविध्वंसः पौराणां भवति ध्रुवम् ॥ ७६ ॥ पुरं भवति निःशब्दं निष्प्रभं वा प्रवेशने । समुच्छ्रये वा शक्रस्य तदा तन्नाशमृच्छति ॥ ७७ ॥ शक्रं स्वस्थानमानीतं शीघ्रं सुखमविघ्नतः । प्राग्वत् प्रदक्षिणं न्यस्येत् प्रागग्रं शयने निजे ॥ ७८ ॥ कुर्यात् तत्रैव नक्षत्रे शय्यास्थस्यामरेशितुः । भ्रमे ३कुष्ये च संयोगं यथाभागविकल्पितम् ॥ ७९ ॥ ४कुष्ये संयोग्यमानश्चेद् ध्वजो निपतति क्षितौ । तदा नरपतेः स्थानभ्रंशो भवति निश्चितः ॥ ८० ॥ ५कुष्ययोगे यदा शक्रो वामतः परिवर्तते । तदा स्यात् स्थपतेर्मृत्युर्भवेद् भङ्गश्च दक्षिणे ॥ ८१ ॥ १ क. च पाठः । २ द. वैच्छित्त्यं । ३ द. ख. कृष्ये । ४ द. पुष्ये । ५ द. पुष्ययोगे ।

७८ समराङ्गणसूत्रधारे खवेधं प्रतिपद्येत तयष्टिर्यदि कृच्छ्रतः । प्रमादिनस्तदा राज्ञो जायते व्यसनं महत् ॥ ८२ ॥ निष्कृष्य योजितः शक्रध्वजो विघटते यदि । विश्लिष्यति तदा सन्धिः सामन्तैः सह भूपतेः ॥ ८३ ॥ स्फुटेद्$^१$ भज्येत वा कुष्ये योज्यमानोऽथ सर्वतः । तदा भङ्गे नृपव्याधिः स्फुटनादङ्गनावधः$^२$ ॥ ८४ ॥ अविदीर्णमपर्यस्तमव्यङ्गमविलम्बितम् । यथावन्न्यासमायाति योगं चेद् वासवध्वजः ॥ ८५ ॥ धनभृत्याङ्गनापत्यैः सामन्तैश्चान्वितोऽनुगैः$^४$। निरातङ्को बलाङ्गश्च वृद्धिमेति तदा नृपः ॥ ८६ ॥ यत्नतो रक्ष्यमाणस्य शय्यास्थस्यैव वज्रिणः । तस्याङ्गान्यखिलान्येव कुटन्त्यादीनि योजयेत् ॥ ८७ ॥ ऐन्द्रं बर्लाकं$^६$ यक्षेशं सर्पमादं दिगाह्वयम् । मयूरं चेन्द्रशीर्षं च पिटकाष्टकमित्यदः ॥ ८८ ॥ स्वप्रमाणेण कर्तव्यं स्पष्टरूपसमन्वितम् । तदाख्याश्चान्तरेष्वेषां सन्धयो वस्त्रनिर्मिताः ॥ ८९ ॥ मूलादन्वग्रमायातः स्वंवंशैर्विदलैर्दृढैः$^९$ । गुणैश्च वेष्टयेदेनं घनैर्शिशथिलैर्ध्वजम् ॥ ९० ॥ साङ्घ्रिणा ध्वजनाहेन सत्र्यंशेनाथ विस्तृतिः । विधेया शक्रपिटकस्योच्छ्रयस्तु तदर्धतः ॥ ९१ ॥ अस्मिन्नष्टौ दिशः कृत्वा वंशाव्यवहिते ततः । न्यस्येद् दिगीशांश्चतुरस्तस्योपरि यथादिशम् ॥ ९२ ॥ पञ्चमांशगते कुष्याद् वज्रिणः पिटके कृते । शेषाण्यप्यष्टभागोनान्यस्मिन् न्यस्येद् यथाक्रमम् ॥ ९३ ॥ १ द. स्फटेद् । २ द. स्फटनाद् । ३ क. मवल॑ । ४ द. ॰द्भगैः । ५ द. कुटभ्या- दीनि, ख. कूटभ्या॑ ६ शा. बजार्कं । ७ शा. स्वेष्टं , द. स्पष्टं । ८ क. दाक्षाश्च । ९ द. ख. तैस्तं वंशै।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ७९ बलाकादीनि विस्तृत्या चरणोनानि चोच्छ्रितौ । खवर्णवन्ति वृत्तानि रामणीयकवन्ति च ॥ ९४ ॥ १भङ्गपातविपर्या(सो?स)सिद्धयः पिटकोद्भवाः । पीडार्त्तिमृत्युवेऽव्यर्थमेकैकस्य प्रकीर्त्तिताः ॥ ९५ ॥ शुद्धान्तामात्यचित्तानां बलस्य यशसोऽपि च । वसुमत्याश्च धाम्नां च नृपते राष्ट्र(म?प)स्य च ॥ ९६ ॥ केतुषड्भागविस्तारा रज्जवोऽष्टौ सुवर्त्तिताः । विधेयाः स्युर्ध्वजायामत्रिगुणायतयो दृढाः ॥ ९७ ॥ छादितं छ(वि?दि)भिः पूर्वं कुट्टनीसहितं शुभम् । यत्नेनासन्नदिवसे विदध्यादमरध्वजम् ॥ ९८ ॥ अर्केन्दुग्रहताराङ्कं वेणुगुल्मेन्द्रशीर्षकम् । साष्टकण्ठगुणं दण्डसूत्रादर्शान्वितं शुभम् ॥ ९९ ॥ ससस्यफलपुष्पाढ्यं शुभवस्त्रमलङ्कृतम् । दृढमन्वितमष्टाभिः सन्तताभिश्च रज्जुभिः ॥ १०० ॥ ३ध्वजपट्टं विदध्याच्च चित्रं सुरचितं तथा । निमित्तार्थं च लोकानां शोभाहेतोर्ध्वजस्य च ॥ १०१ ॥ सपत्तनपुरारामगन्धर्वत्रिदशासुरम् । निखिलं जगदालेख्यमस्मिन्नद्रिद्रुमाकुलम् ॥ १०२ ॥ ध्वजाग्रे रश्मिभिर्नद्धं (स?सु)विन्यस्तं च भूतले । विन्यसेत् तमResource/तमसम्मूढमधोभागसमाश्रितम् ॥ १०३ ॥ प्रमोदगीतवादित्रनटनर्तकैःसंयुतः । तदग्रे जागरः कार्यः समस्तामेव तां निशाम् ॥ १०४ ॥ पुरोहितस्ततो भास्वत्युदिते प्रयतेन्द्रियः । अग्नेः परिग्रहं कुर्यान्मूलस्य प्रागुदग्दिशि ॥ १०५ ॥


१ द. भङ्गे पात विपर्य्यासासिद्धयः; शा० विपर्यासात् । २ क. पूर्ण । ३ द. ध्वजयष्टे । ४ द. °नर्तन° ।

कृतवोपलेपनं तस्मिन्नुल्लेखाभ्युक्षणैस्ततः । संस्कृत्यास्तीर्य दर्भांश्च ज्वालयेत् तत्र पावकम् ॥ १०६ ॥ तत्राज्यपात्राण्याज्यं च गन्धांश्च कुसुमानि च । द्रव्याणि वाचनीयानि समिधश्च पलाशजाः ॥ १०७ ॥ सौवर्णौ स्रुक्स्रुवाविन्द्रभक्तं च बलयोऽपि च । इत्येतत्सर्वमाहृत्य जुहुयात् पावकं ततः ॥ १०८ ॥ पुत्रदारपशुद्रव्यसैन्ययुक्तस्य भूपतेः । विजयावाप्तिजनकैर्मन्त्रैः शान्तिविधायिभिः ॥ १०९ ॥ सुस्वनः सुमहर्चिश्च स्निग्धश्चेद्धोऽपि च स्वयम् । कान्तिमान् सुरभिर्जिघ्रन् होतारं शस्यतेऽनलः ॥ ११० ॥ तप्तकाञ्चनसच्छाया लाक्षाभः किंशुकच्छविः । प्रवालविद्रुमाशोकसुरगोपसमद्युतिः ॥ १११ ॥ ध्वजाङ्कुशगृहच्छत्रयूपप्राकारतोरणैः । सदृशार्चिः प्रशस्तोऽग्निर्माङ्गल्यैरपरैस्तथा ॥ ११२ ॥ स्निग्धः प्रदक्षिणशिखो विधूमो विपुलोऽनलः । सुभिक्षक्षेमदः प्रोक्तो दीप्यमानश्चिरं तथा ॥ ११३ ॥ धूम्रो विवर्णः परुषः पीनो वा नीलकोऽथवा । विच्छिन्नो भैरवरवो वामावर्त्तशिखोऽल्पकः ॥ ११४ ॥ मन्दार्चिर्धुतिमुक्तोऽसृग्वसागन्धैः स्फुलिङ्गवान् । धूमावृतः सफेनश्च हुतभुग् न जयावहः ॥ ११५ ॥ दर्भाणां संस्तरं वह्निर्होमाङ्गान्यपराणि वा । हूयमानो दहति चेद्धानिस्तदभिनिर्दिशेत् ॥ ११६ ॥ होमे वोत्सर्पयेत् पीठं दह्यमानो (?) यदाग्निना । भूम्येकदेशनाशः स्याल्लाभः स्यादुपकर्षणात् ॥ ११७ ॥ सर्वतो वाप्यगाधो यः स वर्धयति पार्थिवान् । यां दिशं यान्ति च ज्वालास्तस्यां विजयमादिशेत् ॥ ११८ ॥ १ द. कृतोप°, शा. कृतोपलेवनं । २ द. ख. वसागन्धिः ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८१ दुर्वर्णाशुचि दुर्गन्धि मक्षिकाखुविडम्बितम् । आज्यं राज्यच्छिदे प्राहुर्हूयते यच्च भस्मनि ॥ ११९ ॥ हीनाधिकप्रमाणाश्च विदीर्णा घुणभक्षिताः । वातरुग्णद्रुमोत्थाश्च समिधोऽर्थक्षयावहाः ॥ १२० ॥ सगर्भाश्च सपुष्पाश्च विच्छिन्नाग्रास्तृणान्विताः । कुर्वन्त्युपद्रवं दर्भा दुष्प्रलूनाश्च ये तथा ॥ १२१ ॥ दुष्टानि पांसुकीर्णानि कीटजर्जरितानि च । बीजानि बीजनाशाय स्युरपुष्टानि यानि च ॥ १२२ ॥ माल्यं विगन्धि प्रम्लानं न पीतं न सितं च यत् । कीटैः खण्डितपीतं च न जयाय न वृद्धये ॥ १२३ ॥ विस्रावीण्युद्गतान्युग्रखण्डितस्फुटितानि च । दुर्भिक्षरोगकारीणि प्राहुः पात्राणि सर्पिषः ॥ १२४ ॥ अशुचौ पतिते च स्यान्मक्षिकाकीटदूषिते । बलौ च शक्रभक्ते च क्षुन्मारः केश¹भाजि च ॥ १२५ ॥ यथोदितान्यरूपाणि सर्पिरादीन्यनुक्रमात् । भवन्ति राष्ट्रपुरयोर्भयाय निखिलान्यपि ॥ १२६ ॥ वितीर्य गन्धमाल्यादीन् देवताभ्यो यथादिशम् । पुरोधाः स्थपतिर्वाथ प्रीतचित्तः क्षिपेद् बलिम् ॥ १२७ ॥ ध्वजनैर्ऋतदिग्भागे द्विजमुख्यानुपस्थितान् । शीलवृत्तयुतान् भूरिगन्धमाल्यैः² स्वलङ्कृतान् ॥ १२८ ॥ वृद्धान् षट्कर्मनिरतान् सुहृदो वेदपारगान् । मनःप्रियान् पूर्णगात्रान् समर्थान् सर्वतः शुचीन् ॥ १२९ ॥ शुक्लाम्बरान् दर्शनीयान् गौरप्रायान् बलान्वितान् । अमुण्डा³जटिला⁴क्लीबा(न् ?)दीक्षितान् व्याधिताकृशान् ॥ १३० ॥ यथेष्टं दक्षिणाभिस्तान् संयोज्याष्टशतेन वा । साक्षतैः प्रीतमनसः कुसुमैः स्वस्ति वाचयेत् ॥ १३१ ॥ १ क. ‘केशैश्चैव विदूषिते । २ क. ‘ल्यैरलं’ । ३ ‘ण्डान् ज’, । ४ ‘लान् क्ली’, । वा. ११

८२ समराङ्गणसूत्रधारे शक्रं ते चाष्टभिः कुम्भैः सुहृदैर्वारिपूरितैः । स्वर्चितैरभिषिञ्चेयुर्मूले 'चाकृष्टमण्डलैः ॥ १३२ ॥ स्तुतैर्वैजयिकैर्मन्त्रैः स्तुतिभिश्च द्विजोत्तमैः । राज्यमाघोषयेदेतैरात्मना च महीपतिः ॥ १३३ ॥ कुर्वीत सर्वबन्धानां मोक्षं हिंसां समुत्सृजेत् । दोषान् जनपदस्यापि दशाहं विषहेत वै ॥ १३४ ॥ सुवासा भूषितः स्नातः सदाचारप्रयत्नवान् । ध्वजोच्छ्रायं शुचिर्भूयः सबलः प्रतिपालयेत् ॥ १३५ ॥ सोपवासः शुचिः स्नातः प्रयतो विजितेन्द्रियः । कृताञ्जलिपुटश्चेमं मन्त्रं स्थपतिरुच्चरेत् ॥ १३६ ॥ ओं नमो भगवति वागुले सर्वविटप्रमर्दनि स्वाहा । सुरासुराणां सङ्ग्रामे प्रवृत्ते त्वं यथोत्थितः । तथा नृपस्य देवेन्द्र ! जयायोत्तिष्ठ पूजितः ॥ १३७ ॥ स्तुत्वेति स्थपतिस्तस्य कृत्वा चानुप्रदक्षिणम् । कारयेद् देवराजस्य ध्वजदण्डसमुच्छ्रयम् ॥ १३८ ॥ स्वलङ्कृतैः सितस्वच्छमाल्याम्बरविलेपनैः । पौरैर्जानपदैस्तद्वत् प्रयतैः परिचारकैः ॥ १३९ ॥ सालिङ्गझल्लरीशङ्खनन्दिडिण्डिमगोमुखैः । हृष्टैरन्यैश्च वादित्रैर्वाद्यमानैर्महास्वनैः ॥ १४० ॥ गायद्भिश्च नटद्भिश्च गायनैर्नटनर्तकैः । हृष्टोत्कृष्टोद्धतध्वानैर्गजस्यन्दनवाजिभिः ॥ १४१ ॥ तैश्च वादित्रनिनदैस्तैश्च पुण्याहनिस्वनैः । दृढरज्जुभिराकृष्टं श्रवणे ध्वजमुच्छ्रयेत् ॥ १४२ ॥ यत्नेनोत्थाप्यमानस्य तस्योच्छ्रायगतस्य च । नृपक्ष्शिवाहनादीनां निमित्तान्यवलोकयत् ॥ १४३ ॥ १ 'वा', । २ 'अ' ख. पाठः।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८३ कुटनीनिहिताभोगं पताकादर्पणोज्ज्वलम् । चिलपट्टस्फुटाटोपमर्केन्दुगुणभूषणम् ॥ १४४ ॥ अस्रस्तमाल्यालङ्कारमशीर्णच्छत्रमस्तकम् । अकम्पितमदीर्णाङ्गमदिग्भ्रष्टं सुरेश्वरम् ॥ १४५ ॥ सममूर्ध्वं१समश्लिष्टमनवक्षतमद्भुतम् । अविलम्बितविश्रान्तं२ऋजुमार्गंसमुद्धतम् ॥ १४६ ॥ इत्थं शक्रध्वजोत्थानं कृतं राज्ञो जयावहम् । पौरजानपदानां च क्षेमारोग्यसुभिक्षकृत् ॥ १४७॥ यदा शक्रध्वजः प्राचीमुच्छ्रितः३ प्रतिपद्यते । तदामन्त्रिगणक्षत्रनृपप्राग्वासिवृद्धिदः ॥ १४८ ॥ आग्नेयीं ककुभं याते वर्धन्ते वह्निजीविनः । प्रारब्धकार्यनिष्पत्तिर्यत्नाच्चोपजायते ॥ १४९ ॥ दक्षिणां दिशमायाते केतने नमुचिद्विषः । तदा स्युर्वैश्यलोकस्य पूजाधान्यधनर्द्धयः ॥ १५० ॥ सर्वाशासंपदः श्रेष्ठा जायन्ते नैर्ऋताश्रिते । न स्याद् गर्भो वृथा तद्वद् वधबन्धभयं न च ॥ १५१ ॥ श्रिते प्राचेतसीमाशामास्मिञ् शूद्रजयो भवेत् । क्षुत्तृष्णाग्निभयं न स्याद् वृष्टिरिष्टा च जायते ॥ १५२ ॥ द्रुमशस्यफलर्द्धिः स्यात् केतौ वायोः श्रिते दिशम् । चतुष्पदविवृद्धिश्च रोगोच्छित्तिश्च जायते ॥ १५३ ॥ चतुर्णामपि वर्णानां सम्पत् स्यात् सौम्यदिग्गते । विशेषात् सा द्विजेन्द्राणां तथा सिध्यन्ति चाध्वराः ॥ १५४ ॥ ऐशीमाशां श्रिते धर्मपरो भवति पार्थिवः । वृद्धिर्जनपदस्य स्यात् तथा पाषण्डिनामपि ॥ १५५ ॥ यदि किञ्चिद् व्रजेत् पूर्वं रज्ज्वाकृष्टः शतक्रतुः । विजिगीषोर्नरेन्द्रस्य तदा यात्रा प्रसिध्यति ॥ १५६ ॥ १ 'सुश्लिष्टमनवक्षतमद्भुतम्' ख. पाठः । २ 'न्तं नृपमा' क. पाठः । ३ द. मुत्थितः ।

८४ समराङ्गणसूत्रधारे प्रतिष्ठां लभते भूमौ भ्रमं भित्त्वा यदि ध्वजः । सशैलकाननामुर्वी तदा जयति पार्थिवः ॥ १५७ ॥ दिक्सर्पणे फलं प्रोक्तमित्यव्यङ्गस्य वज्रिणः । विपरीतं तदेवोक्तं व्यङ्गस्य निखिलं पुनः ॥ १५८ ॥ यदि स्वलङ्कृतः पूर्वं योज्यमानः शतक्रतुः । उत्क्षिप्तो रज्जुयन्त्रेण स्तोकमर्धे स्थितोऽपि वा ॥ १५९ ॥ शय्यायां यदि वा भूमावुत्सङ्गे वा पतत्यसौ । तदा नृपं राजदारान् कुमारं वा विनाशयेत् ॥ १६० ॥ उत्थितोऽर्धोत्थितो वापि यदि क्षुभ्यति कम्पते । स्थानान्तरं व्रजेद् वापि सञ्चरेद् वा कथञ्चन ॥ १६१ ॥ विगृह्यते तदा भूपो भ्रश्येति स्थानतोऽपि वा । भयाज्जनपदो वास्य चलत्येव न संशयः ॥ १६२ ॥ आकृष्टासु यदाष्टासु छिद्यते कापि रज्जुषु । अमात्यमरणं तत् स्यादेकैकांशन निश्चितम् ॥ १६३ ॥ मूलमध्याग्रभागे वा प्रोच्छ्रितो³ यदि ⁴भज्यते । पौरसेनापतिनृपान् क्रमशॊ हन्त्यसौ तदा ॥ १६४ ॥ छत्रार्कवेणुगुल्मेन्द्रशीर्षकण्ठगुणा यदि । पतन्ति भूमाविन्द्रो वा तदा हन्ति महीपतिम् ॥ १६५ ॥ नृपो वधमवाप्नोति तैर्भग्नैः पतितैर्धुतैः⁵ । अभग्नैर्विधुतैरेतैः क्षयं व्रजति साधनम् ॥ १६६ ॥ क्रमशॊ हन्युरादर्शवैजयन्तीन्दुतारकाः । पतन्त्यो ह्वचमूनाथपुरोधःस्त्रीर्महीपतेः ॥ १६७ ॥ माल्यैर्विभूषणैर्यानैः शस्त्रवस्त्रफलाशनैः । यान्ति केतुच्युतैरेतै राज्ञस्तान्येव संक्षयम् ॥ १६८ ॥ १ द. स्तोकमर्धोत्थितोऽपि वा । २ क. भ्रश्यते । ३ द. प्रोत्थितो । ४ क. भिद्यते । ५ क. द्रुतैः । ६ क. ˚द्रुतै˚ ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८९ शीर्यते शक्रपिटकं कूटैभ्यः शक्रवेक्ष्म वा । यस्यां ककुभि तत्राहुर्हानिं पूर्वे विपश्चितः ॥ १६९ ॥ भङ्गे मृगालीलकटाक्षार्गलानामनुक्रमात् । पीडा सञ्जायते वेश्यानृपतिश्रेष्ठिरक्षिणाम् ॥ १७० ॥ भग्ना भ्रमाक्षपादैर्वा मल्लमातृकुमारिकाः । राष्ट्रं हन्युर्नरेन्द्रस्य प्रियामातृसुतान् क्रमात् ॥ १७१ ॥ निर्घातोऽशनिरुल्का वा ध्वजे यदि पतेत् तदा । अनावृष्टिभयं राज्ञः पराजयमथादिशेत् ॥ १७२ ॥ कुर्वन्ति मक्षिकाः शके मधुच्छत्रं समुच्छ्रिते । यस्मिंस्तत्र द्विषद्रोधं षण्मासाच्चादिशेत् पुरे ॥ १७३ ॥ मक्षिका वा खगा वा चेद् अमेयुः पार्श्वतो हरेः । प्रदक्षिणा बहिस्थानंमासाच्चाहुस्तदा मृतिम् ॥ १७४ ॥ गृध्रश्येनकपोताश्चेल्लीयन्ते शक्रमूर्धनि । तदा कुर्वन्ति दुर्भिक्षविग्रहक्षितिपक्षयान् ॥ १७५ ॥ यदि केतौ निलीयन्ते कुररोलूकवायसाः । राज्ञः क्रमात् तदा हन्युर्मन्त्रिपुत्रपुरोधसः ॥ १७६ ॥ मयूरो यदि वा हंसः समाश्रयति वासवम् । समस्तलक्षणोपेतस्तदा स्यान्नृपतेः सुतः ॥ १७७ ॥ चक्री बलाका हंसी वा यदि केतौ निलीयते । तदा नरपतिर्भार्यामवाप्नोत्यतिसुन्दरीम् ॥ १७८ ॥ खगैः सुवृष्टिर्जलजैः सुभिक्षं स्यात् फलाशिभिः । विष्ठाशिभिश्च दुर्भिक्षं भीतिः स्यात् पिशिताशिभिः ॥ १७९ ॥ यदि चित्रपटन्यस्ताः सुरयक्षोरगोत्तमाः । विचित्राकृतिभिर्युक्ता वाहनायुधभूषणैः ॥ १८० ॥ १. द. ख. 'नमासमाहुस्तदितिरा मृ.' (?) ।

८६ समराङ्गणसूत्रधारे अष्टौ च ककुभो मूर्ताः प्रनृत्ताश्चाप्सरोगणाः । सग्रहास्तारका मेघाः स्फीता नद्यस्तथाब्धयः ॥ १८१ ॥ वाप्यः पङ्केरुहच्छन्ना हंसवन्ति सरांसि च । फलपुष्पावतंसानि वनान्युपवनानि च ॥ १८२ ॥ देवतायतना(न्याद्य?न्यष्ट)गोपुराणि पुराणि च । भवनान्यतिशुभ्राणि शयनासनवन्ति च ॥ १८३ ॥ प्रहृष्टाः पार्थिवा भृत्या बलवाहनशालिनः । पौरा जानपदा लोकाः क्रीडाभाजः कुमारकाः ॥ १८४ ॥ चत्वारो मुदिता वर्णा नटनर्तकशिल्पिनः । सगोत्रजलतागुल्मद्रुमौषधिभृतो नगाः ॥ १८५ ॥ मृगपक्षिगणाः शस्ता मङ्गलान्यखिलानि च । विचित्रापानवसुधाः फलभक्षाश्च पक्षिणः ॥ १८६ ॥ यथानिवेशं शोभन्ते तदा देशे पुरेऽपि च । क्षेमारोग्यसुभिक्षाणि जयं राज्ञश्च निर्दिशेत् ॥ १८७ ॥ एतेषां कुट्टने पाते छेदे नाशेऽथवा हृतौ । प्लोषे वाप्यशुभं वाच्यं यथायोनि यथादिशम् ॥ १८८ ॥ स्थिते वा पतिते वापि चित्रपट्टे भुवस्तले । उपप्लवो नरेन्द्रस्य भवेज्जनपदस्य च ॥ १८९ ॥ राजते यद्यलङ्कारः सकलो यावदुत्सवम् । अनस्तोऽविप्लुतश्चोर्वीं तदा कृत्स्नां जयेन्नृपः ॥ १९० ॥ नटनर्तकसङ्घेषु प्रनृत्यत्सु पठत्सु च । शुभे शुभं समादेश्यमितरस्मिन्नशोभनम् ॥ १९१ ॥ ये वर्गाः सम्प्रहृष्यन्ति मङ्गल्या गजवाजिनः । सुवेषचेष्टालङ्काराः शुभं तेष्वादिशेद् ध्रुवम् ॥ १९२ ॥ १ क. राज्ये विनिर्दिशेत् । २. क. पठत्स्वपि ।

इन्द्रध्वजनिरूपणं नाम सप्तदशोऽध्यायः । ८७ अमङ्गलैषिणो¹ ये स्युर्विकृता दीनचेतसः । पुरुषा योषितो वापि निर्दिशेत् तेषु वैशसम् ॥ १९३ ॥ प्रभिन्नकरटा नागा बृहन्तस्तोयदा इव । अदीनाश्च स्वतन्त्राश्च नृपतेर्विजयावहाः ॥ १९४ ॥ आलिखन्तः खुरैः क्षोणीं दक्षिणैर्हृष्टचेतसः । हेषमाणा हयाश्चापि शंसन्ति नृपतेर्जयम् ॥ १९५ ॥ सतडिद्गर्जिताम्भोदा वृष्टिश्चैज्जायते तदा । महीपतेर्जयं विद्यात् सुभिक्षं क्षेममेव च ॥ १९६ ॥ अथार्धरात्रे सम्प्राप्ते रोहिण्यां दशमेऽहनि । शक्रस्य ²पातमिच्छन्ति मुनयः प्रतिवत्सरम् ॥ १९७ ॥ ततः समाजे ³निर्वृत्ते शक्रकेतौ प्रतिष्ठिते । गन्धतोयैश्च पुष्पैश्च विदधीताम्बुसेवनम् ॥ १९८ ॥ अमेध्यैर्वस्त्रखण्डैर्वा भस्मकेशास्थिकर्दमैः । यदा क्रीडन्ति मनुजा दुर्भिक्षं जायते तदा ॥ १९९ ॥ विप्राः प्राँच्यां विल(म्पे?म्बे)युः पतन्तं वासवध्वजम् । सुभिक्षं क्षेममारोग्यमन्यथा स्याद् विपर्ययः ॥ २०० ॥ अष्टाङ्गोक्तो ध्वजाङ्गे यो विशेषः सोऽथ कथ्यते । पुरे ब्रह्मपुरात् प्राच्यामिन्द्रस्थानं विधीयते ॥ २०१ ॥ मात्राशयेन हस्तेन प्रमाणं तस्य कीर्तितम् । चतुःषष्टिसमायामं चतुरश्रं समन्ततः ॥ २०२ ॥ एकाशीतिपदेनैव भजेत् क्षेत्रं विभागतः । शैलस्यार्धेन कुर्वीत ध्वजायामं प्रमाणतः ॥ २०३ ॥ ततो वृद्धिर्विधातव्या हस्ते हस्तेऽङ्गुलं बुधैः अर्धाङ्गुलं वा वृद्धिः स्याद् ध्वजस्येन्द्रस्य कुत्रचित् ॥ २०४ ॥ १ द. ख. अमङ्गल्यै° २ द. ख. शत° । ३ द. निवृत्ते । ४ ख. ताम्बुसेचनम् । ५ द. ख. प्राक्चैर्विलम्पेयुः; क. प्राच्यां विलुपे ।

८८ समराङ्गणसूत्रधारे तावद् वृद्धिविधातव्या यावत् क्षेत्रसमोऽङ्गुलैः । ततः प्रमाणमाग्यं यत् तत् पुनर्विनियोजयेत् ॥ २०५ ॥ प्रमाणमङ्गुलैः केतोः स्याच्चत्वारिंशता मितम् । तस्य संवत्सरे वृद्धिः कर्तव्या द्व्यङ्गुलैर्बुधैः ॥ २०६ ॥ ब्रह्मस्थाने च कुर्वीत ब्रह्मावर्त्तं विचक्षणः । ब्रह्मणोऽनन्तरं प्राच्यां भवेद् दैवतमार्यमा ॥ २०७ ॥ तत्र यन्त्रस्य पादौ स्तः समुच्छ्रायेण षट्पं(मौ?दौ) । तस्यैव पश्चिमे भागे मित्रो भवति देवता ॥ २०८ ॥ ततः प्रभृति यन्त्रस्य( वाम ? ) वेधो नतो भवेत् । पूर्वापरं च निम्नं स्यादेष यन्त्रविधिः स्मृतः ॥ २०९ ॥ यन्त्रस्य पश्चिमे भागे वरुणो दैवतं भवेत् । वरुणस्य पदान्ते च वंशस्थे द्वे कुमारिके ॥ २१० ॥ खानिले(?)चतुरो हस्तान् दशहस्तोच्छ्रिते च ते । रुद्रस्थाने च कर्तव्या कुमारी सुप्रतिष्ठिता ॥ २११ ॥ सोमयोगे चतुर्थी स्यादापभागे च पञ्चमी । षष्ठी च सवितुर्भागे यमभागे च सप्तमी२ ॥ २१२ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे इन्द्रँध्वजनिरूपणं नाम सप्तदशोऽध्यायः ॥ अथ नगरादिसंज्ञा नामाष्टादशोऽध्यायः । नगरं मन्दिरं दुर्गं पुष्करं साम्परायिकम् । निवासः सदनं सद्म क्षयः क्षितिलयस्तथा ॥ १ ॥ १ द. ख. षट्यमौ । २ द. सप्तमीत्यनन्तरम् अष्टमीत्यधिकः पाठः । ३ द. ख. इन्द्रसंपदाध्या° ।

नगरादिसंज्ञा नामाष्टादशोऽध्यायः । ८९ यत्रास्ते नगरे राजा राजधानीं तु तां विदुः । शाखानगरसंज्ञानि ततोऽन्यानि प्रचक्षते ॥ २ ॥ शाखानगरमेवाहुः कर्वटं नगरोपमम् । ऊनं कर्वटमेवेह गुणैर्निगम उच्यते ॥ ३ ॥ ग्रामः स्यान्निगमादूनो ग्रामकल्पो गृहस्त्वसौ । गोकुलावासमिच्छन्ति गोष्ठमल्पं तु गोष्ठकम् ॥ ४ ॥ उपस्थानं भवेद् राज्ञां यत्र तत् पत्तनं विदुः । बहुस्फीतवणिग्युक्तं तदुक्तं पुटभेदनम् ॥ ५ ॥ विधाय कुटिका यत्र पत्रशाखातृणोपलैः । पुलिन्दाः कुर्वते वासं पल्ली स्वल्पा तु पल्लिका ॥ ६ ॥ नगरं वर्जयित्वान्यत् सर्वं जनपदः स्मृतः । नगरेण समं कृत्स्नं राष्ट्रं देशोऽथ मण्डलम् ॥ ७ ॥ आवासः सदनं सद्म निकेतो मन्दिरं मतम् । संस्थानं निधनं धिष्ण्यं भवनं वसतिः क्षयः ॥ ८ ॥ अगारं संश्रयो नीडं गेहं शरणमालयः । निलयो लयनं वेश्म गृहमोकः प्रतिश्रयः ॥ ९ ॥ गृहस्योपरिभूमिर्या हर्म्यं तत् परिकीर्तितम् । तस्यारोहणमार्गो यः सोपानं तत् प्रचक्षते ॥ १० ॥ कोष्ठकैर्यत्र रचितं स्थूणयोरधिरोहणम् । सा निःश्रेणिरिति प्रोक्ता सोपानैर्विपुलैः पदैः ॥ ११ ॥ स्मृतः काष्ठविटङ्कोऽसौ यत् काष्ठैः संवृतं गृहम् । सुधालिप्ततलं हर्म्यं सौधं स्यात् कुट्टिमं च तत् ॥ १२ ॥ वर्षाभयेन या छन्ना तालशाँकदलादिभिः । स्मृताभिगुप्तिरन्तस्था सर्वोपरि गृहस्य सा ॥ १३ ॥ १ द. ख. कल्पगृहं । २ क. पुटभेदकम् । ३ क. कोष्ठकैः । ४ क. शाल । वा. १२

९० समराङ्गणसूत्रधारे वातायनं तु भित्तीनामवलोकनमुच्यते । लघुर्वातयनो यः स्यादवलोकनकं हि तत् ॥ १४ ॥ हर्म्यस्य मध्ये यच्छिद्रं स उ लोक इति स्मृतः । १हर्म्यप्राकारकः स स्यात् कण्ठो² हर्म्यतलस्य योँ³ ॥ १५ ॥ वितर्दिकाष्ठमाला स्यात् सर्वतश्छदमूलगा⁴ । तत्तस्तम्भेषु मृगा ये तु ते स्युरीहामृगा इति ॥ १६ ॥ निर्यूहो हर्म्यदेशाद्⁵ यः काष्ठानामुपनिर्गमः । वलीकमिति विज्ञेयं काष्ठं छेदाद् विनिर्गतम् ॥ १७॥ ६छन्नैश्चतुर्भिः पार्श्वैर्यत् तच्चतुश्शालमुच्यते । त्रिभिस्त्रिशालं तत् प्राहुर्द्वाभ्यां तत् स्याद् द्विशालकम् ॥ १८ ॥ एकशालकमेकेन च्छन्नेन गृहमुच्यते । गृहमेकं तु यच्छन्नं सर्वं⁷ शालेति सा स्मृता ॥ १९ ॥ शालानां यत् पुनर्मध्यं वापी पुष्करिणी च सा । संछन्ना (चा ? सा)पि यस्य स्यात् तद् गर्भगृहमुच्यते ॥ २० ॥ गृहे महाजनस्थानं त्रिकुड्यं यत् प्रकल्पितम् । उपस्थानं तदत्राहुः स्याच्चोपस्थानकं लघु ॥ २१ ॥ प्रासादस्तु स एव स्यादल्पा प्रासादिका स्मृता । दीर्घप्रासादिका यासौ वलभत्यभिधीयते ॥ २२ ॥ शालाग्रे वलभी या स्यादलिन्देति वदन्ति ताम् । शालां विना तु वलभी वलभेति⁸ निगद्यते ॥ २३ ॥ अल्पाल्पास्तु चतुष्कुड्या ये तेऽपवरका मताः । गृहे चाभ्यन्तरंस्थानं शुद्धान्त इति कीर्त्यते ॥ २४ ॥ १०प्रतोलीं तां विदुर्लोकः सुरङ्गामिव यां वसेत् । सा कक्षेत्युदिता तज्ज्ञैर्यदवस्थान्तरं गृहे ॥ २५ ॥

१ द. ख. हर्म्यः प्रा० । २ क. कण्ठो । ३ क. यः । ४ क. श्छद्° । द. ख. शा. श्छेद्° । ५ देशाग्रका° । ६ क. छिन्नै° । ७ क. सर्वशाले । ८ द. ख. वलभ्येति विधीयते । ९ क. ॰न्तरे । १० द. प्रतोलीनां विदुर्लोके सुरंगामित्रं ।