समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
राजगृहं नाम त्रिंशोऽध्यायः । १६७ प्राङ्गणानि विधेयानि विशेषोऽत्रैष कीर्तितः । सर्वतोभद्रसंज्ञेऽथ शत्रुमर्दननामपि (नि)$^१$ ॥ ४३ ॥ अयमेव विधिः कार्यो मुण्डरेखाप्रसिद्धये । श्रीवत्सस्यापि मध्ये स्यात् स्तम्भाग्रं मुक्तकोणवत् ॥ ४४ ॥ सार्धं भागं परित्यज्य भागत्रितयविस्तृतम् । कर्णप्राग्ग्रीवमेतस्य भागेन च विनिर्गतम् ॥ ४५ ॥ भद्रं तस्यापि कर्तव्यं भागविस्तारनिर्गमम् । मुक्तकोणवदस्यापि मध्यभद्रं विधीयते ॥ ४६ ॥ अयं विधिः समग्रासु दिक्षु शेषं तु पूर्ववत् । प्रतिभद्रं धरास्त्रिंशद् भवन्त्यस्य दृढाः शुभाः ॥ ४७ ॥ शतं विंशमिदं (सर्व) धराणामिह कीर्तितम् । एवं समस्तस्तम्भानां चतुःषष्ठं शतद्वयम् ॥ ४८ ॥ सर्वतोभद्रसंज्ञस्य लक्ष्मेदानीं प्रचक्ष्महे । चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥ ४९ ॥ भागिकः स्याच्चतुष्कोऽस्य चतुःस्तम्भविभूषितः । स्तम्भैर्द्वादशभिर्युक्तः प्रथमः स्यादलिन्दकः ॥ ५० ॥ स्तम्भविंशतिसंयुक्तो द्वितीयः स्यादलिन्दकः । $^३$स्यादष्टाविंशतिस्तम्भस्तृतीयः स्याप्य(द)लिन्दकः ॥ ५१ ॥ षट्त्रिंशता चतुर्थः स्यादलिन्दो भूषितो धरैः । पञ्चमः स्याच्चतुश्चत्वारिंशता भूषितो धरैः ॥ ५२ ॥ द्वापञ्चाशद्धरैः षष्ठः सर्वेऽप्येतेऽस्य भागिकाः । भागार्धं शस्यते भित्तिः सर्वतः सुदृढा घना ॥ ५३ ॥ सार्धभागं परित्यज्य भागत्रितयविस्तृतः । कर्णप्राग्ग्रीवकश्च स्याद् भागमेकं च निर्गमः ॥ ५४ ॥
१ द. ख. ॰नामपि । २ द. ख. मं । ३ द. ख. स्तंभविंशति संयुक्त स्या॰ । द. ख. ॰यस्या॰ । ४ द. ख. ॰शद्धरः । ५ द. ख. ॰प्येतम्य ।
१६८ समराङ्गणसूत्रधारे भद्रमस्यापि कर्तव्यं भागनिर्गमविस्तृतम् । मध्ये^१ भद्रं विधातव्यं भागद्वयविनिर्गतम् ॥ ५५ ॥ अस्यापि भद्रं^२ मध्ये स्याद् भागत्रितयविस्तृतम् । भागिको निर्गमश्चास्य तदन्तर्भागनिर्गतम् ॥ ५६ ॥ भागविस्तार^३संयुक्तं भद्रमन्यत् प्रकल्पयेत् । दिक्षु सर्वास्र्वयं^४ प्रोक्तो विधिर्भद्रप्रकल्पने^५ ॥ ५७ ॥ स्तम्भानामस्य कर्तव्यं मध्ये षण्णवतं शतम् । भद्रेष्वेषु च स^६र्वेषु भवेत् षष्ट्यधिकं शतम् ॥ ५८ ॥ समेन प्रविभागेन स्तम्भानामेकसङ्ख्यया । इत्थं समस्तस्तम्भानां षट्पञ्चाशं शतत्रयम् ॥ ५९ ॥ किन्तु जङ्घा भवेदस्य भूमिकात्रितयोन्मिता । शत्रुमर्दनसंज्ञस्य धाम्नो लक्ष्माथ कथ्यते ॥ ६० ॥ पृथ्विजयसमं मध्ये भित्तिश्चापि तथाविधा । सार्धं भागं परित्यज्य भागेनायतविस्तृतम् ॥ ६१ ॥ भद्रं विदध्यात् तन्मध्ये भागत्रितयविस्तृतम् । भद्रमेवं विधातव्यं भागत्रितयनिर्गतम्^१० ॥ ६२ ॥ पार्श्वयोर्भागिकं भद्रमायत्यां (त्या) विस्तरेण च । भागत्रितयविस्तारं भागेनैकेन निर्गमम् ॥ ६३ ॥ मध्यभद्रं^११ ततोऽपि स्याद् भागेनायतविस्तृतम् । क्रमोऽयं दिक्षु सर्वासु विधातव्योऽस्य सिद्धये ॥ ६४ ॥ ऊर्ध्वं पृथ्विजयस्येव कार्यमस्यापरं पुनः । प्रतिभद्रं चतुश्चत्वारिंशत्स्तम्भसमन्वितम् ॥ ६५ ॥ मध्ये स्तम्भशतं^१२ चास्य^१३ विधेयं सुदृढं शुभम् । षट्सप्ततिस्तम्भशतद्वयमस्य भवेदिति ॥ ६६ ॥
१ द. ख. कर्णमध्ये । २ द. ख. क. भद्रं° । ३ द. ख. °स्तं° । ४ द. ख. °स्वि° । ५ द. ख. °द्रं प्रकल्पते । ६ द. ख. भद्रेष्वेवस्य स° । ७ द. ख. पृष्टं । ८ इयं पंक्ति द. ख. प्रतिद्वये नास्ति । ९ द. ख. क. °वं । १० द. ख. निर्गमं । ११ द. ख. भद्रं भद्रं तं° । १२ द. ख, प्रतिद्वये शतं इति पदं नास्ति । १३ द. ख. भाग्यं ।
राजगृहं नाम त्रिंशोऽध्यायः । १६९ पञ्चानामपि चैतेषां हस्ताष्टशतमुत्तमम् । मानमुत्सेधविस्तारात् कर्तव्यं श्रियमिच्छता ॥ ६७ ॥ मध्यमाधमयोर्मानं² कीर्तितं पृथिवीजये । राज्ञः क्रीडार्थमन्यच्च कथ्यते गृहपञ्चकम् ॥ ६८ ॥ क्षोणीविभूषणं त्वाद्यं पृथिवीतलकं परम् । प्रतापवर्धनं चान्यच्छ्रीनिवासं ततोऽपि च ॥ ६९ ॥ लक्ष्मीनिवाससंज्ञं च पञ्चमं परिकीर्तितम् । चतुरश्रीकृते क्षेत्रे दशभागैर्वि³भाजिते ॥ ७० ॥ चतुष्को भागविस्तीर्णो मध्ये कार्यश्चतुर्धरः । बहिश्च भागिकोऽलिन्दस्तदन्तें⁵शत्रयार्यताः ॥ ७१ ॥ कर्णप्रासादकाः कार्या भागत्रितयविस्तृताः । तेषां षड्दारुकं मध्ये भित्तिर्भागार्धसम्मितौ ॥ ७२ ॥ तद्बहिर्भागनिष्क्रान्तो भद्रे भागं च विस्तृतः । प्राग्रीवत्रयसंयुक्तो भागिकालिन्दवेष्टितः ॥ ७३ ॥ अर्धभागिकभित्त्या च चतुष्को वेष्टितो भवेत् । प्रासादोऽयं मनोहारी भवेदवनिशेखरः ॥ ७४ ॥ चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते । चतुष्को भागिको मध्ये बाह्यालिन्दौ च भागिकौ ॥ ७५ ॥ नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् । षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥ ७६ ॥ ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः⁶ । भद्रे भांगायतो भागविनिष्क्रान्तश्चतुर्दिशम् ॥ ७७ ॥ चतुष्को भागिकांऽलिन्दवेष्टितश्च विधीयते । अस्य भद्रत्रयं कार्यं भागविस्तारनिर्गमम् ॥ ७८ ॥ १ द. ख. मानस्तुबोधवि° । २ द. ख. मध्यासाधनयोगानि । ३ द. ख. ॰गवि° । ४ क. तृ° । ५ द. ख. ॰ताः । ६ द. ख. यद्वा । ७ द. ख. ॰त्रि° । ८ द. ख. ॰तोऽपि हि । ९ द. ख. भो° । १० क. ॰को° । वा. २२
१७० समराङ्गणसूत्रधारे अर्धभागिकभित्त्या च वेष्टितं तद् विधीयते । कर्णे कर्णेस(ऽस्य) विस्तीर्णे द्वे भद्रे भागनिर्गते ॥ ७९ ॥ प्रासादमेवं भुवनतिलकं परिचक्षते । चतुरश्रीकृते क्षेत्रे भागद्वादशभाजिते ॥ ८० ॥ चतुष्को भागिको मध्ये चतुःस्तम्भो विधीयते । तद्वहिर्भागिकोऽलिन्दो द्वितीयोऽपि च भागिकः ॥ ८१ ॥ नवकोष्ठांश्च कर्णेषु प्रासादान् विनिवेशयेत् । षड्दारुकं च कर्तव्यं तेषामन्तरसंश्रयम् ॥ ८२ ॥ ततोऽर्धभागिकी भित्तिः कर्तव्या सर्वतो बहिः । भद्रे भागायतो भद्रविनिष्क्रान्तश्चतुर्धरः ॥ ८३ ॥ चतुष्को³ भागिकालिन्दद्वयेन परिवेष्टितः । त्रिभागविस्तृतं भद्रं तद्वहिर्भागनिर्गतम् ॥ ८४ ॥ भागिकं प्रतिभद्रं च कुर्यादुभयतः समम् । भागार्धं बाह्यतो भित्तिर्भद्रस्य परितो भवेत् ॥ ८५ ॥ विधिरेष विधातव्यो दिक्ष्वेवं चतसृष्वपि । विलासस्तबको नाम प्रासादोऽयं प्रकीर्तितः ॥ ८६ ॥ कर्णप्राग्ग्रीवकौ द्वौ द्वौ शालाप्राग्ग्रीवकौ यदा । स्यातामस्य तदा कीर्त्तिं⁵पताकः परिकीर्तितः⁴ ॥ ८७ ॥ अस्यैव पीठे निर्मुक्तशां⁶लाभिः परितोऽष्टभिः । अन्योन्यशालांसंबद्धे यदासावेव दीयते⁹ ॥ ८८ ॥ कर्णप्रासादकोपेतः कोणैः शालोज्झितैर्युतः । प्रासादसुन्दरो ज्ञेयस्तदा भुवनमण्डनः ॥ ८९ ॥ एते प्रोक्तास्तलच्छन्दा जङ्घासंवरणादिकम् । भूमिमानादिकं यच्च तत् पृथ्वीजयैवद् भवेत् ॥ ९० ॥
१ द. ख. ॰ष्ठश्च । २ द. ख. यदा॰ । ३ द. ख. ॰ष्के । ४ द. ख. ॰र्तिः । ५ द. ख. ॰तः ॥ कीर्तिपताकः ॥ ६ द. ख. ॰मा॰ । ७ द. ख. ॰तोवृते । ८ द. ख. ॰ल॰ । ९ द. ख. ॰द्धे षटासावेतदीयते । १० द. ख. ॰र्णीः । ११ द. ख. ॰ष्ठि॰ । १२ द. ख. ॰क्तावल॰ । १६ द. ख. ॰नामा॰ । १४ द ख. पुष्टिंजं; क, स्तम्मेजं ।
राजगृहं नाम त्रिंशोऽध्यायः । १७१ इदानीं कथ्यते लक्ष्म क्षोणीभूषणवेश्मनः । पञ्चपञ्चाशता हस्तैः कल्पिते चतुरश्रके ॥ ९१ ॥ विभक्ते चाष्टभिर्भागैश्चतुष्को भागिकः स्मृतः । चतुर्भिरन्वितः स्तम्भैरालिन्दश्चास्य भागिकः ॥ ९२ ॥ युक्तो द्वादशभिः स्तम्भैर्विंशत्या च द्वितीयकः । स्यादष्टाविंशतिधरस्तृतीयश्चाप्यलिन्दकः ॥ ९३ ॥ भित्तेरप्यर्धभागेन सार्धं भागं विमुच्यते । भागपञ्चकविस्तीर्णं भद्रं भागेन निर्गतम् ॥ ९४ ॥ तन्मध्यभद्रमन्यच्च भागत्रितयविस्तृतम् । भागेन निर्गतं कार्यं भद्रमन्यत् ततोऽपि च ॥ ९५ ॥ भागेन विस्तृतं कार्यं भागेनापि च निर्गतम् । दिक्षु सर्वासु कर्तव्यो विधिरेषोऽस्य सिद्धये ॥ ९६ ॥ मध्यस्तम्भैश्चतुःषष्ट्या संयुक्तं सारदारुजैः । प्रतिभद्रं घरैः कार्यमष्टादशभिरन्वितम् ॥ ९७ ॥ षट्त्रिंशं शतमेवं स्यात् स्तम्भानामिह सर्वतः । चतुर्द्वारमिदं कार्यं यशःश्रीकीर्तिवर्धनम् ॥ ९८ ॥ पृथिवीतलकस्याथ लक्षणं परिकीर्त्यते । चत्वारिंशत्करे क्षेत्रे भागैर्भक्तेऽर्धषष्ठकैः ॥ ९९ ॥ भागिकः स्याच्चतुष्कोऽन्तश्चतुःस्तम्भविभूषितः । अलिन्दोऽपि च भागेन स्तम्भैर्द्वादशभिर्युतः ॥ १०० ॥ विंशत्या च द्वितीयोऽपि भित्तिः स्यादस्य पादिका । कर्णे प्रासादको भागैस्त्रिभिः स्यान्निर्गतायतः ॥ १०१ ॥ अस्य भद्रद्वयं कार्यं भागनिर्गतविस्तृतम् । कर्णप्रासादयोर्मध्ये भागपञ्चकविस्तृतम् ॥ १०२ ॥ १ द. ख. ॰र्त्तिं । २ क. शः कीर्त्तिविव । ३ द. ख. क्षोणी भूषणः पृथिं । ४ क. ॰र्द्वि॰ ५ द. ख. थ । ६ द. ख. ॰द्वं च यत्कार्यं भागे निं ।
१७२ समराङ्गणसूत्रधारे भागेन निर्गतं कार्यं भद्रं तस्यापि मध्यतः । भागत्रितयविस्तीर्णं भागेनैकेन निर्गतम् ॥ १०३ ॥ भद्रमस्यापि मध्येऽन्यद् भागेनायतनिर्गतम् । स्तम्भाः षट्त्रिंशदन्तः स्युर्भद्रेष्वष्टौ शतद्वयम् ॥ १०४ ॥ अथातः श्रीनिवासस्य लक्षणं सम्प्रचक्ष्महे । पृथ्वीतिलकवन्मध्यमेतस्य परिकीर्त्यते ॥ १०५ ॥ सपादं भागमुत्सृज्ये भागत्रितयविस्तृतम् । भागेन निर्गतं चास्य भद्रमाद्यं प्रकल्पयेत् ॥ १०६ ॥ तस्यापि मध्यवर्त्तन्द्यद् भागनिर्गतविस्तृतम् । अन्वितं दशभिः स्तम्भैः सुदृढैस्तद् विधीयते ॥ १०७ ॥ सर्वासपि च दिक्ष्वेवं विधेया भद्रकल्पना । अस्य षट्सप्ततिः स्तम्भाः भवन्त्येकत्र सङ्ख्यया ॥ १०८ ॥ प्रतापवर्धनस्याथ लक्ष्म साम्प्रतमुच्यते । पञ्चविंशतिहस्ताङ्के सार्धभागत्रयाङ्किते ॥ १०९ ॥ मध्ये चतुष्को भागेन चतुर्भिः सम्भृतो धरैः । अलिन्दो भागिकश्चास्य स्तम्भद्वादशकान्वितः ॥ ११० ॥ पादिका भित्तिरेतस्य भद्रं चास्य प्रकल्पयेत् । भागनिर्गमविस्तारं चतुःस्तम्भविभूषितम् ॥ १११ ॥ विधिरेष समग्रासु दिक्षु कार्योऽस्य सिद्धये । स्तम्भैर्द्वात्रिंशता युक्तो बहिरन्तरयं भवेत् ॥ ११२ ॥ धराणां चैव सर्वेषां चतुःषष्टिः प्रकल्पना । अथ लक्ष्मीविलासस्य सम्यग् लक्ष्माधुनोच्यते ॥ ११३ ॥ प्रतापवर्धनस्येव मध्यमस्य प्रकल्पयेत् । प्रतापवर्धनसमं सर्वतोऽप्येतदीरितम् ॥ ११४ ॥ १ द. ख. 'दन्तस्य भं' । २ क. कल्पते । ३ क. °ष्ट । ४ द. ख. ॰र्त्य' । ५ द. ख. संसृतो । ६ द. ख. आं । ७ द. ख. कार्यस्य । ८ द. ख. इयं पंक्तिर्नास्ति । ९ क. तो ।
राजगृहं नाम त्रिंशोऽध्यायः । १७३ किन्त्वस्य पार्श्वभद्राणि भद्राणामेव कारयेत् । कोणेष्वपि च भद्राणि पार्श्वयोरुभयोस्तथा¹ ॥ ११५ ॥ भागंस्य(श्च ) निर्गमोऽप्येषां विशेषोऽस्मादयं मतः । भद्रमस्य दशस्तम्भैर्मध्यं षोडशभिर्धरैः ॥ ११६ ॥ चतुर्द्वारं भवेदेतदिच्छया क्षणमध्यगम् । द्वारमन्यद् विधातव्यं स्वपदे स्यात् सुशोभितम् ॥ ११७ ॥ भूमिभिः सार्धषष्ठीभिर्विधेयः क्षोणिभूषणः । अर्धाष्टमीभिश्च भवेत् पृथ्वोतिलकसंज्ञकः ॥ ११८ ॥ स्यात् सार्धपञ्चमीभिस्तु श्रीनिवासोऽत्र भूमिभिः । लक्ष्मीविलाससंज्ञोऽर्धपञ्चमीभिर्विधीयते ॥ ११९ ॥ प्रतापवर्धनाख्योऽर्धचतुर्थीभिर्विधीयते । राज्ञां पृथ्वीजयादीनि निवासभवनानि च ॥ १२० ॥ क्षोणीविभूषणादीनि विलासभवनानि च । यान्युक्तानि निवासाय विलासाय च भूभृताम् ॥ १२१ ॥ तेषां पृथ्वीजयादीनां द्वारमानमथोच्यते । चतुःपञ्चाशदंशो यो विस्तृतः सकरत्रयः ॥ १२२ ॥ स द्वारस्योदयः प्रोक्तस्तदर्धेनास्य विस्तृतिः । स्वोदयस्य त्रिभागेन पिण्डः स्तम्भेषु शस्यते ॥ १२३ ॥ स्यात् सप्तविंशतितमः सपादः सचतुष्करः । गृहभागो भवेद् भूमिः प्रथमा राजवेश्मनाम् ॥ १२४ ॥ भूच्छ्राये नवधा भक्ते तदंशकचतुष्टयम् । निर्गमश्छाद्यकस्यांशद्वयं पादोनमुच्छ्रयः ॥ १२५ ॥ तथान्तरावणी कार्या छाद्यकोच्छ्रायनिर्गता । हीरग्रहणपिण्डार्धबाहुल्या सा प्रशस्यते ॥ १२६ ॥ १ द. ख. इयं पंक्ति र्नास्ति । २ द. ख. भागास्यान्नि° । ३ द. ख. °म्भं म° । ४ द. ख. °र्धमष्टाभि° । ५ द. ख. °थ्विं° । ६ द. ख. °तितमतः ।
१०४ समराङ्गणसूत्रधारं तस्याः खमेव बाहल्यं पादोनं विस्तृतिः स्मृता । अन्तरार्वाणकातुल्यो मदलाया विनिर्गमः ॥ १२७ ॥ स्वनिर्गमात् तथा चास्याः सपादः स्यात् समुच्छ्रयः । भूम्युच्छ्रयनवांशस्य पादोऽस्याः पिण्डमिष्यते ॥ १२८ ॥ भूनवांशस्त्रिभागोनो मदलायाश्च विस्तृतिः । †लुमामूलस्य स्तम्भार्धं विस्तारः परिकीर्तितः ॥ १२९ ॥ तत्तत्र्यंशादग्रविस्तीर्णा मूले साष्टांशयुग् भवेत् । तुम्बिनी लम्बिनी हेला शान्ता कोला मनोरमा ॥ १३० ॥ आध्माता चेत्यमूः प्रोक्ता लुमाः सप्त मनीषिभिः । ऋजुः सा लम्बिनी तासामाध्माता कर्णगा स्मृता ॥ १३१ ॥ अन्तराले क्रमेण स्युः पञ्चान्याः परिकीर्तिताः । स्तम्भे निदध्यान्मदलां छाद्यं धर्तुं दृढां शुभाम् ॥ १३२ ॥ स्तम्भाभावे पुनर्न्यस्येत् कुड्यपट्टेऽपि तां सुधीः । सप्त पञ्चाथवा तिस्रो मल्लच्छाद्ये लुमाः स्मृताः ॥ १३३ ॥ कोणेष्वेता इमाभ्योऽन्याः कर्तव्याः प्राञ्जलाः समाः । छाद्ये कर्णात् क्वचित् कार्या मकराननभूषिताः ॥ १३४ ॥ तेऽपि विद्याधरोपेताः क्वचित् सगजतुण्डिकाः । सकुम्भिकस्य स्तम्भस्य प्रविभज्योदयं त्रिधा ॥ १३५ ॥ तत्र भागद्वयं कुर्याद् भागानर्धचतुर्थकान् । तत्र पादोनभागेन राजितासनकं भवेत् ॥ १३६ ॥ ततः सोल्कलका वेदी साङ्घ्रिभागा विधीयते । कूटागारसमांशार्धं कार्योंऽत्रासनपट्टकः ॥ १३७ ॥ स स्यादभीष्टो(ष्ट)विस्तारो भागोच्चं मत्तवारणम् । स्वोदयस्य त्रिभागेन तिर्यक् कार्योंऽस्य निर्गमः ॥ १३८ ॥ १ द. ख. ॰ल्यां । २ द. ख. ॰ना° । ३ द. ख. ॰यमयां सस्या पादोश्या° । ४ द. ख. स्या । ५ द. ख. ॰न्या यः प्र° । ६ द. ख. ॰ले । ७ द. ख. सुना । ८ द. ख. ॰न्यो° । ९ द. ख. ॰द्य । १० द. ख. तातः सोत्कालका वेदी सांहि । ११ द. ख. कूट्राकार समो सार्द्ध कार्यों प्रा° । १२ द. ख. ॰भीष्टे विस्तारा° । † 'लुपा' इति शिल्पशास्त्रे प्रसिद्धिः ।
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १७५ रूपकैः करणायाभिः(?) सुपुत्रैरपि शोभितम् । वेदिकादिकमप्यस्य रूपपत्राचितं² शुभम् ॥ १३९ ॥ आयसीभिः शलाकाभिः कीलकैश्च दृढीकृतम् । एतानि पञ्चदशराजनिवेशनानि पृथ्वीजयप्रभृति यानि निरूपितानि । यो लक्षणेन सहितं परिमाणमेषां जानाति तस्य नृपतिः परितोषमेति ॥ १४० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे राजगृहं नाम त्रिंशोऽध्यायः ।
अथ यन्त्रविधानं नामैकत्रिंशोऽध्यायः । भ्राम्यद्दिनेशशशिमण्डलचक्रशत्सं⁴ (स्त)- मेतज्जगत्त्रितययन्त्रमलक्ष्यमध्यम् । भूतानि बीजमखिलान्यपि सम्प्रकल्प्य यः सन्ततं भ्रमयति स्मरजित् स वोऽव्यात्³ ॥ १ ॥ यन्त्राध्यायमध ब्रूमो यथावत् प्रक्रमागतम् । धर्मार्थकाममोक्षाणां यदेकमिह कारणम् ॥ २ ॥ यदृच्छया प्रवृत्तानि भूतानि स्वेन वर्त्मना । नियम्यास्मिन् नयति यत् तद् यन्त्रमिति कीर्तितम् ॥ ३ ॥ स्वरसेन प्रवृत्तानि भूतानि स्वमनीषया । कृतं यस्माद् यमयति तद्वा यन्त्रमिति स्मृतम् ॥ ४ ॥ तस्य बीजं चतुर्धा६ स्यात् क्षितिरापोऽनलोऽनिलः । आश्रयत्वेन चैतेषां वियदप्युपयुज्यते ॥ ५ ॥
१ द. ख. ॰णैरपि च शो॰ । २ द. ख. पात्रान्वितं । ३ ॰श्वि॰ । ४ क. क्र. । ५ द. ख. ॰ध्यात् । ६ द. ख. ॰र्था ।
१७६ समराङ्गणसूत्रधारे भिन्नः सूतैश्चैकै(यै)रुक्तस्ते च सम्यङ् न जानते । *प्रकृत्या पार्थिवैः सूतस्ला(स्त्रा)यात् †तत्र क्रिया भवेत् ॥ ६ ॥ पार्थिवत्वादयम्तो न कदाचिद् विभिद्यते । द्रव्यत्वादग्निजत्वं हि यद्यस्य परिकल्प्यते ॥ ७ ॥ तदा विरोधो नैवास्य पावकेनोपपद्यते । गन्धाद् वंहेरविरोधाच्च स्थिता पार्थिवता बलात् ॥ ८ ॥ आत्मैव बीजं सर्वेषां प्रत्येकम्पराण्यपि । एवं भेदा भवन्त्येषां भूयांसः सङ्करान्मियः ॥ ९ ॥ स्वयंवाहकमेकं स्यात् सकृत्प्रेर्यं तथापरम् । अन्यदन्तरितं वाह्यं वाह्यमन्यत्त्वदूरतः ॥ १० ॥ स्वयंवाह्यमिहोत्कृष्टं हीनं स्यादितरत् त्रयम् । तेषु शंसन्ति दूरस्थमलक्ष्यं निकटस्थितम् ॥ ११ ॥ यद्यु(दु)त्पन्नमलक्ष्यं यदेकं बहुषु साधकम् । तदन्यदपि शंसन्ति यस्माद् विस्मयकृन्नृणाम् ॥ १२ ॥ एका स्वीया गतिश्चित्रे वाह्येऽन्या वाह्यिकाश्रिता । अरघट्टाश्रिते कीटे दृश्यते द्वयमप्यदः ॥ १३ ॥ इत्थं गतिद्वयवशाद् वैचित्र्यं कल्पयेत् स्वयम् । अलक्षता विचित्रत्वं यस्माद् यन्त्रेषु शस्यते ॥ १४ ॥ अन्यत् स्यादन्तरोत्तप्रे(प्रे)र्यं द्वितीयं मध्यमं त्विदम् । द्वयत्रयादियोगेन चतुर्णामपि योगतः ॥ १५ ॥ अंशांशिभावाद् भूतानां सङ्ख्यैर्षामतिरिच्यते । यः सम्यगेतज्जानाति स पुमान् भवति प्रियः ॥ १६ ॥ १ क. ॰तै॰ । २ क. ग. ॰श्व। ३ द. ख. ॰य॰ । ४ क. ॰वस्तत्रापां च तत्र । ५ क. ॰भज्यते । ६ द. ख. द्रवत्वादग्नजात्वं । ७ द. ख. द्रहिवि॰ । ८ द. ख. वयवाहकमेतस्या॰ । ९ द. ख. अभ्यदत्त चित्तं । १० ख. ग. बा॰ । ११ ख. ग. बा॰ । १२ द. ख. ग. ॰त्रदू॰ । १३ क. ॰क्षं । १४ द. ख. ॰धं । १५ द. ख. ॰र्थेत्रे । १६ द. ख. ॰ह्यं॰ । १७ ख. ॰रात्प्रेर्यं । १८ द. ख. ॰का॰ ।
- ‘प्रकृत्या स्वभावेन पार्थिवो भागः बहुलः’ इति, † ‘तत्र उदकतेजोवायूनां क्रिया कार्यं भवेन्’ इति च टिप्पणमस्ति क. पुस्तके ।
यंत्रविधानं नामैकोनत्रिंशोऽध्यायः । १७७ प्रमदानां नृपाणां च प्रज्ञानां च मतस्य च । लाभं ख्यातिं च पूजां च यशो मानं धनानि च ॥ १७ ॥ प्राप्नोति किं किं न पुमान् य इदं वेत्ति तत्त्वतः । १गृहमेकं विलासानामाश्रर्यस्य परं पदम् ॥ १८ ॥ २तैरावासभवनं विस्मयस्यैकमास्पदम् । यथावद् देवतादीनां रूपचेष्टादिदर्शनात् ॥ १९ ॥ तास्तुष्यन्त्यथ तत्तुष्टिः३ पूर्वैर्धर्मः प्रकीर्तितः । नृपादितोषादर्थः स्यादर्थे कामः प्रतिष्ठितः ॥ २० ॥ वित्तैक्यादस्य निष्पत्तिर्मोक्षश्चास्मान्न दुर्लभः । पार्थिवं पार्थिवैर्बीजैः पार्थिवं जलजन्मभिः ॥ २१ ॥ तदेव तेजोजनितैस्तँदैव४ मरुदुद्भवैः५ । आप्यमाप्यैस्तथा बीजैरानँलै६रानिलैरपि ॥ २२ ॥ वह्निजैश्च मरुज्जातैः पार्थिवैर्वारुणैरपि । मारुतं मारुतैराप्यैः पार्थिवैरानलैस्तथा ॥ २३ ॥ वह्निजातेऽपि९ बीजं स्यात् सूतः सोऽपि च वान(नि)ले८ । पार्थिवानां भवेद् बीजमाप्यानामपि वारणे(रुणम्) ॥ २४ ॥ इति बीजानि सर्वेषां कीर्तितान्यखिलान्यपि । १०कुँड्यंकरणसूत्राणि भारगोलकपीडनम् ॥ २५ ॥ लम्बनं लम्बकारे च चक्राणि विविधान्यपि । ११अयँस्ताम्रं च तारं च त्रपु संवित्प्रमर्दने ॥ २६ ॥ काष्ठं च चर्म वस्त्रं च स्वबीजेषु प्रयुज्यते । उर्दकः कर्तरो यष्टिश्चक्रं अभ्रकस्तथा ॥ २७ ॥ शृङ्गावली च नाराचः स्वबीजान्यौर्वरे१२ विदुः । ताप उत्तेजनं स्तोभः क्षोभश्च जलसङ्गजः ॥ २८ ॥ १ द. ख. विशालामा० । २ द. ख. ए० । ३ क. ०ष्टेः । ४ द. ख. ०स्त्वैष त सद्भवेः । ५ क. मारुतोद्भू० । ६ क. ०नि० ७ द. ख. ग. ०षु । ८ द. ख. वालने । ९ द. ख. ग. भा० । १० द. ख. कुरुंव्यरकसू० । ग. उरुंव्यक । ११ द. ख. आप० । १२ क. ०र्व्य० । वा. २३
१७८ समराङ्गणसूत्रधारे
एवमाद्यग्निबीजानि पार्थिवस्य प्रचक्षते । धारा च जलभारश्च पयसो¹ भ्रमणं तथा ॥ २९ ॥
एवमादीनि भूजस्य जलजानि प्रचक्षते । यथोच्छ्रायो यथाधिक्यं यथा नीरन्ध्रतापि च ॥ ३० ॥
अत्यन्तमुर्ध्वगामित्वं स्वबीजान्ययसस्तथा । मरुत् स्वभावजो गाढैर्ग्राहकैश्च प्रतीप्सितः ॥ ३१ ॥
हत्याद्यैर्वर्जनाद्यैश्च³ गजकर्णादिभिः कृतः । (छा)चाणितो गालितश्चायं बीजं भवति भूमँवे⁶ ॥ ३२ ॥
काष्ठंभै(कृ)²त्तिश्च लोहं च जलजे⁵ पार्थिवं⁴ भवेत् । अन्यदम्भस्तदप्यस्तु निर्गूध्व⁷मधस्तथा ॥ ३३ ॥
बीजं स्वकीयं भवति यन्त्रेषु जलजन्मसु । तापाद्यं पूर्वकथितं वह्निजं जलजे भवेत् ॥ ३४ ॥
सङ्गृहीतश्च दत्तश्च पूरितः प्रतिनोदितः । मरुद् बीजत्वमायाति यन्त्रेषु जलजन्मसु ॥ ३५ ॥
वह्निजातेषु मृत्ताम्रलोहरुक्मादि तद्ग्रहे । पार्थिवं कथयन्तीह बीजं बीजविचक्षणाः ॥ ३६ ॥
वह्नेर्वह्निर्भवेद् बीजमाप आपस्तथा भवेत् । आद्यैर्हत्यादिभिः प्रोक्तैर्मरुद् गच्छति बीजताम् ॥ ३७ ॥
प्रत्येषकं¹⁰ च जनकं¹¹ प्रेरकं ग्राहकं तथा । सङ्ग्राहकं च⁸ भूजातं बीजं स्यादनिलोद्भवैः ॥ ३८ ॥
प्रेरणं चाभिघातश्च विवर्त्तो⁹ भ्रमणं तथा । जलजं मारुतोत्थेषु बीजं स्यादिति सम्मतम् ॥ ३९ ॥
सङ्गृहीतस्य तापाद्यैर्यानि पावकजन्मनि । प्रकीर्तितानि तान्येव भवन्ति पवनोद्भवैः ॥ ४० ॥
१ द. ख. पा° । २ क. °स्थिता । ३ द. ख. हत्याद्यैर्जननाभैश्च । ४ द. ख. °तले । ५ द. ख. वृ° । ६ द. ख. °ले । ७ द. ख. °दंतस्तदपाच्च ति° । ८ ख. °ना° । ९ क. °दृग्° । १० द. ख. प्रत्येकं । ११ द. ख. °हक्त्वं ।
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १७९ प्रेरितः सङ्गृहीतश्च जनितश्च समीरणः । आत्मनो बीजतां गच्छत्येवमन्यत् प्रकल्पयेत् ॥ ४१ ॥ भूतमेकमिहोद्रिक्तमन्यद्धीनं¹ ततोऽधिकम् । अन्यद्धीनतरं चान्यदेवंप्रायै²र्विकल्पितैः ॥ ४२ ॥ नाना भेदा भवन्त्येषां कस्तान् कात्स्न्येन वक्ष्यति । निष्क्रिया भूः क्रिया त्वंशे शेषेषु सहजा³ त्रिषु ॥ ४३ ॥ अतः प्रायेण सा जन्या⁴ क्षितावेवं प्रयत्नतः । साध्यस्य रूपवशतः सन्निवेशो यतो भवेत् ॥ ४४ ॥ यन्त्राणामाकृतिस्तेन निर्णेतुं नैव शक्यते । यथावद्बीजसंयोगः सौश्लिष्टयं श्लक्ष्णतापि च ॥ ४५ ॥ अलक्षता निर्वहणं लघुत्वं शब्दहीनता । शब्दे साध्ये तदाधिक्यमशैथिल्यमगाढता ॥ ४६ ॥ वहनीषु समस्तासु सौश्लिष्टयं चास्खलद्द्रुतिः । यथाभीष्टार्थकारित्वं लयताला³नुगामिता ॥ ४७ ॥ इष्टकालेऽर्थदर्शित्वं पुनः सम्यक्त्व संवृतिः । अनुल्बणत्वं ताद्रूप्यं दाढर्ये मसृणता तथा ॥ ४८ ॥ चिरकालसहत्वं च यन्त्रस्यैते गुणाः स्मृताः । एकं बहूनि चालयेद् बहुभिश्चाल्यतेऽपरम् ॥ ४९ ॥ सुश्लिष्टत्वमलक्षत्वं यन्त्राणां परमो गुणः । अथ कर्माणि यैन्त्राणां विचित्राणि यथाविधि ॥ ५० ॥ न विस्तरान्न सङ्क्षेपात् साम्प्रतं संप्रचक्ष्महे । कस्यचित् सा क्रिया साध्या कालः कस्यापि कस्यचित् ॥ ५१ ॥ शब्दः कस्यापि चोच्छ्रायो रूपस्पर्शौ च कस्यचित् । क्रियास्तु¹³ कार्यस्य वशादनन्ताः परिकीर्तिताः ॥ ५२ ॥
१ द. ख. ॰मन्यब्दीजं । २ क. ॰यो विक॰ । ३ द. ख. ॰यं॰ । ४ द. ख. जान्याक्षिण चेव । ५ ग. ॰ल्या । ६ ग. ॰तत् । ७ द. ख. ॰न्या॰ । ८ क. ॰नं॰ । ९ द. ख. च तद्रूपं दाढर्यं । १० द. ख. विकराल॰ । ११ द. ग॰ । १२ द. ख. ग. तथाविधिः । १३ द. ख. ॰नु ।
१८० समराङ्गणसूत्रधारे तीर्यग्दूर्ध्वमधः पृष्ठे पुरतः पार्श्वयोरपि । गमनं सरणं पात इति भेदाः क्रियोद्भवाः ॥ ५३ ॥ कालो मुहूर्तकाष्ठाद्यैर्भिन्नो भेदैरनेकधा । शब्दो विचित्रः सुखदो रतिकृद् भीषणस्तथा ॥ ५४ ॥ उच्छ्रायस्तु जलस्य स्यात् क्वचिद् भूजेऽपि शस्यते । गीतं नृत्यं च वाद्यं च पटहो वंश एव च ॥ ५५ ॥ वीणा च कांस्यतालश्च तृमिला करटापि च । यत्किञ्चिदन्यदप्यत्र वादित्रादि विभाव्यते ॥ ५६ ॥ समस्तमपि तद् यन्त्राज्जायते कल्पनावशात् । नृत्ये तु नाटकं चोक्ष¹स्ताण्डवं लास्यमेव च ॥ ५७ ॥ राजमार्गश्च देशी च यन्त्रात् सर्वं प्रसिध्यति । तथा ²जात्यनुगाश्चेष्टा विरुद्धा यास्तु³ जातितः ॥ ५८ ॥ ताः सर्वा अपि सिध्यन्ति सम्यग्यन्त्रस्य साधनात् । भूचराणां गतिर्व्योम्नि भूमौ व्योमचरागमः ॥ ५९ ॥ चेष्टितान्यपि मर्त्यानां तथा भूमिस्पृशामिव । जायन्ते यन्त्रनिर्माणाद् विविधानीप्सितानि च ॥ ६० ॥ यथासुरा जिता देवैर्यथा निर्मथितोऽम्बुधिः । हिरण्यकशिपुर्दैत्यो नृसिंहेन हतो⁴ यथा ॥ ६१ ॥ धावनं हस्तियुद्धं च गैजानामगडोऽपि च । नानाप्रकार(रा) या चेष्टा नानाधारागृहाणि च ॥ ६२ ॥ दोलाकेल्यो विचित्राश्च तथा रतिगृहाणि च । चित्रा सेन(ना) च कुथ्यश्च स्वयंवाहकसेवकाः ॥ ६३ ॥ सभाश्च विविधाकाराः सत्या मायाः प्रकल्पिताः । एवंप्रायाणि चान्यानि यन्त्रात् सिध्यन्ति कल्पनात् ॥ ६४ ॥ १ क. ॰क्ष्यं । २ द. ख. यां । ३ द. ख. ग. ॰श्च । ४ द. ख. कृतो । ५ द. ख. राजनां । ६ क. त्रासने च ।
यन्त्रविधानं नामैकात्रिंशोऽध्यायः । १८१ विधाय भूमिकाः पञ्च शय्यां त्वादिसुवि स्थितां । प्रतिप्रहरमन्यासु सर्पन्ती याति पञ्चमीम् ॥ ६५ ॥ एवंप्रायाणि चित्राणि सम्यक् सिध्यन्ति यन्त्रतः । क्रमेण त्रिंशतावर्त्तं स्थाले दन्ता भ्रमन्त्यसौ ॥ ६६ ॥ तन्मध्ये पुत्रिका क्लृप्ता प्रति नाडिं प्रबोधयेत् । वह्नेश्च दर्शनं तोये वह्निमध्याज्जलोद्गतिः ॥ ६७ ॥ अवस्तुनोऽपि वस्तुत्वं वस्तुतोऽपि तथान्यथा । निःश्वासेन वियद् याति श्वासेनायाति मेदिनीम् ॥ ६८ ॥ क्षीरोदमध्यगा शय्या प्रतीष्ठाधः फणाभृता । गोलश्च सूति(चि)विहितः सूर्यादीनां प्रदक्षिणम् ॥ ६९ ॥ परिभ्राम्यत्यहोरात्रं ग्रहाणां दर्शयन् गतिम् । गजादिरूपे रथिकरूपतां गमितः पुमान् ॥ ७० ॥ भ्रान्त्वा नाडिकया तस्याः पर्यन्ते हन्ति भो(यो)जनम् । दीपिकापुत्रिका क्लृप्ता क्षीणं क्षीणं प्रयच्छति ॥ ७१ ॥ दीपे तैलं प्रनृत्यन्ती तालगत्या प्रदक्षिणम् । यावत् प्रदीयते वारि तावत् पिबति सन्ततम् ॥ ७२ ॥ यन्त्रेण कल्पितो हस्ती न तद् गच्छत् प्रतीयते । शुकाद्याः पक्षिणः क्लृप्तास्तालस्यानुगमान्मुहुः ॥ ७३ ॥ जनस्य विस्मयकृतो नृत्यन्ति च पठन्ति च । पुत्रिका वा गजेन्द्रो वा तुरगो मर्कटोऽपि वा ॥ ७४ ॥ वलनैर्वर्तनैर्नृत्यंस्तालेन हरते मनः । येनैव वर्त्मना क्षेत्रं ध्रियते तेन तत्पयः ॥ ७५ ॥ यात्यायाति पुनस्तद्वद् गर्तान् पुष्करिणीष्वपि । फलके कानि(?)तिष्ठन्ति धावन्त्यनुमतानि च ॥ ७६ ॥
१ क. ॰व्याकृत्वा॰ । २ क. ॰ता एवं॰ । ३ द. त्रिंशतोवर्त्ती; ख. ग. त्रिंशते वर्ती । ४ क. ॰तिं॰ । ५ क. ॰तिं॰ । ६ द. ख. ग. ॰ल्ले । ७ क. ॰मृज्यन्ती । ८ द. ख. प्रतिक्षणं । ९ क. ॰र्नं॰ । १० द. ख. वल॑नैर्वर्तनैर्नृत्यंतां । ११ द. ख. ॰र्तां पुं॰ ।
१८२ समराङ्गणसूत्रधारं घातां(तं) ददति युध्यन्ते निर्यान्त्यशमनावृतम् । नृत्यन्ति गायन्ति तथा वंशादीन् वादयन्ति च ॥ ७७ ॥ निरुद्धमुक्तस्य वशान्मरुतो यन्त्रभङ्गिभिः । याश्चेष्टा दिव्यमानुष्यस्ता एवात्र न केवलम् ॥ ७८ ॥ दुष्करं यद्यदन्यच्च तत्तद् यन्त्रात् प्रसिध्यति । यन्त्राणां घटना नोक्ता गुप्त्यर्थं नाज्ञतावशात् ॥ ७९ ॥ तत्र हेतुरयं ज्ञेयो व्यक्ता नैते फलप्रदाः । कथितान्यत्र बीजानि यन्त्राणां घटनो न यत् ॥ ८० ॥ तस्माद् व्यक्तीकृतेष्वेषु न स्यात् स्वार्थो न कौतुकम् । वस्तुतः कथितं सर्वं बीजानामिह कीर्तनात् ॥ ८१ ॥ अभ्यूह्यं स्वधिया प्राज्ञैर्यन्त्राणां कर्म यद् यथा । यन्त्राणि यानि दृष्टानि कीर्तितान्यत्र तान्यपि ॥ ८२ ॥ नन्यानि यस्मात् तान्यर्तो विज्ञेयान्युपदेशतः । एतत् स्वबुद्धयैवास्माभिः समग्रमपि कल्पितम् ॥ ८३ ॥ अग्रतश्च पुनब्रूमः कथितं यत् पुरातनैः । बीजं चतुर्विधमिह प्रवदन्ति यन्त्रे- ष्वाम्भोऽग्निभूमिपवनैर्निहितैर्यथावत् । प्रत्येकतो बहुविधं हि विभागBlock: स्या- न्मिश्रैर्गुणैः पुनरिदं गणनामपास्येत् ॥ ८४ ॥ किमेतस्मादन्यद् भवति भुवने चित्रमपरं किमन्यद् वा तुष्ट्यै भवति किमु वा कौतुककरम् । किमन्यद् वा कीर्तेर्भवनमपरं कामसदनं किमस्मात् पुण्यं वा किमिव च परीतापशमनम् ॥ ८५ ॥
१ द. ख. न्ददामि । २ द. ख. ॰दीच्छादं । ३ द. ख. ॰त्मा॰ । ४ द. ख. ॰चे॰ । ५ द. ख. टनेनत् । ६ क. ख. ॰नु । ७ द. ख. तानि च । ८ द. ख. तन्यतो । ९ क. ॰दितोऽस्मा॰ । १० द ख. ॰तः परं । ११ द. ख. ॰ग्निमूर्य्य॰ । १२ क. ॰हं॰ ।
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८३ एतेऽत्यर्थं प्रीतिदा बीजयोगाः संजायन्ते योजिताः सूत्रधारैः । भ्रान्त्या नान्यश्चित्रकृद् दारुक्लृप्तं चक्रं दोलाद्यं पुनः पञ्चमं तत् ॥८६॥ पारम्पर्यं कौशलं सोपदेशं शास्त्राभ्यासो वास्तुकर्मोद्यमो धीः । सामग्रीयं निर्मला यस्य सोऽस्मिंश्चित्राण्येवं वेत्ति यन्त्राणि कर्तुम् ॥८७॥ चित्रैर्युक्तं ये गुणैः पञ्चरूपं जानन्त्येनं यन्त्रशास्त्राधिकारम् । ये वा कृत्स्नं योजयन्तेऽत्र सम्यक् तेषां कीर्त्तिर्व्या भुवं चावृणोति ॥८८॥ अङ्गुलेन मितमङ्गलपादेनोच्छ्रितं द्विपुटंकं तनुवृत्तम् । संविधेयमृजु मध्यगरन्ध्रं श्लिष्टसन्धि दृढताम्रमयं तत् ॥ ८९ ॥ दारवेषु विहङ्गेषु तदन्तः क्षिप्तमुद्गतसमीरवशेन । आतनोति विचसन्मृदुशब्दं शृण्वतां भवति चित्रकरं च ॥ ९० ॥ सुश्लिष्टखण्डद्वितयेन कृत्वा सरन्ध्रमन्तर्मुरजानुकारम् । ग्रस्तं तथा कुण्डलयोर्युगेन मध्ये पुटं तस्य मृदु प्रदेयम् ॥ ९१ ॥ पूर्वोक्तयन्त्रे विधिनोदरेऽस्य क्षिप्तेऽथ शय्यातलसंस्थमेतत् । ध्वनिं ततः सञ्चलनादनङ्गक्रीडारसोल्लासकरं करोति ॥ ९२ ॥ अस्मिञ् शय्यातलविनिहिते मुञ्चति व्यक्तरागं चित्राञ् शब्दान् मृगशिशुदृशां यान्ति(ति) भीत्येव मानः । किञ्चैतासां दयितमभितो निर्भरप्रेमभाजां प्रौढिं गच्छन्त्यधिकमधिकं मन्मथक्रीडितानि ॥ ९३ ॥ पटहमुरजे वेणुः शङ्खो विपञ्च्यथ काहला डमरुटिविले वाद्यातोद्यान्यमून्यखिलान्यपि । मधुरमधिकं यच्चित्रं च ध्वनिं विदधात्यलं तदिह विधिना रुद्धोन्मुक्तानिलस्य विजृम्भितम् ॥ ९४ ॥ लघुदारुमयं महाविहङ्गं दृढसुश्लिष्टतनुं विधाय तस्य । उदरे रसयन्त्रमादधीतं ज्वलनाधारमधोऽस्य चाति(ग्नि)पूर्णम् ॥९५॥ १ क. °कृ°। २ द. ख. °मे°। ३ द. ख. °हं°। ४ द. ख. ग. °प्र°। ५ द. ख. ग. °खेऽद्वि°। ६ क. स्फु°। ७ क. मे°। ८ द. ख. °नं°। ९ द. ख. रसयंत्र दधीत।
१८४ समराङ्गणसूत्रधारे तत्रारूढः पूरुषस्तस्य पक्षद्वन्द्वोचालप्रोज्झितेनानिलेन । सुप्तैस्वान्तः पारदस्यास्यै शक्त्या चित्रं कुर्वन्नम्बरे याति दूरम् ॥९६॥ इत्थमेव सुरमन्दिरतुल्यं सञ्चलत्यल्लघु दारुविमानम् । आदधीत विधिना चतुरोऽन्तस्तस्य पारदभृतान् दृढकुम्भान् ॥९७॥ अयःकपालाहितमन्दवह्निप्रतप्तकुम्भभुवा गुणेन । व्योम्नो झगित्याभरणत्वमेति सन्तप्तगर्जद्रसराजशक्त्या ॥ ९८ ॥ वृत्तंसन्धितमथायसयन्त्रं तद् विधाय रसपूरितमन्तः । उच्चदेशविनिधापिततप्तं सिंहनादमुरजं विदधाति ॥ ९९ ॥ स कोऽप्यस्य स्फारः स्फुरति नरसिंहस्य महिमा पुरस्ताद् यस्यैता मदजलमुचोऽपि द्विपघटाः । मुहुः श्रुत्वा श्रुत्वा निनदमपि गम्भीरविषमं पलायन्ते भीतास्त्वरितमवधूयाङ्कुशमपि ॥ १०० ॥ दृग्ग्रीवातलहस्तप्रकोष्ठबाहूरुहस्तशाखादि । सचिच्छिद्रं वपुरखिलं तत्सन्धिषु खण्डशो घटयेत् ॥ १०१ ॥ श्लिष्टं कीलकविधिना दारुमयं सृष्टचर्मणा गुप्तम् । पुंसोऽथवा युवत्या रूपं कृत्वोतिरमणीयम् ॥ १०२ ॥ रन्ध्रगतैः प्रत्यङ्गं विधिना नाराचसङ्गतैः सूत्रैः । ग्रीवाचलनप्रसरणविकुञ्चनादीनि विदधाति ॥ १०३ ॥ करग्रहणताम्बूलप्रदानजलसेचनप्रमाणा(णामा)दि । आदर्शप्रतिलोकनवीणावाद्यादि च करोति ॥ १०४ ॥ एवमन्यदपि चेदृशमेतत् कर्म विस्मयविधायि विधत्ते । जृम्भितेन विधिना निजबुद्धेः कृष्टमुक्तगुणचक्रवशेन ॥ १०५ ॥ १ द. ख. ॰क्षि॰ । २ द. ख. ससं॰ । ३ द. ख. दः सास्य । ४ द. ख. संवरयं लं । ५. द. ख. ॰तं । ६ द. ख. ग॰ । ७ द. ख. ग. ॰म॰ । ८ क. ॰प॰ । ९ द. ख. ॰नवमति॰ । १० द. ख. दृढग्री॰ । ११ द. ख. ॰बाहुबा॰ । १२ क. शोऽथ घ॰ । १३ द. ख. कीलकीलक- पित्रान। १४ द. ख. ॰त्वे॰ । १५ द. ख. ॰वावलय॰ । १६ क. ॰नि । १७ क. ॰ध ।
यन्त्रविधानं नामैकत्रिंशोऽध्यायः । १८९ पुंसो दारुजमूर्ध्वं^१ रूपं कृत्वा निकेतनद्वारि । तत्करयोजितदण्डं निरुणद्धि प्रविशतां वर्त्म ॥ १०६ ॥ खड्गहस्तमथ मुद्गरहस्तं कुन्तहस्त^२मथवा यदि तत् स्यात् । तन्निहन्ति विशतो निशि चौरान् द्वारि संवृतमुखं प्रसभेन ॥१०७॥ ये चापाद्या ये शतघ्न्यादयोऽस्मिन्नुष्ट्रग्रीवाद्याश्च दुर्गस्य गुप्त्यै । ये क्रीडाद्याः क्रीडनार्थं च राज्ञां सर्वेऽपि स्युर्योगतस्ते गुणानाम्॥१०८॥ इदानीं प्रक्रमायातं वारियन्त्रं प्रचक्ष्महे । क्रीडार्थं कार्यसिद्धयै च चतुर्धा तद्गतिं विदुः ॥ १०९ ॥ निम्नगं भवति द्रोणी^३देशादूर्ध्वस्थिताज्जलम् । यन्त्र तत् पातयन्त्रः^४ स्याद् वाटिका^५दिप्रयोजनम् ॥ ११० ॥ उच्च्छ्रायसमपाताख्यं यत्रोर्ध्वा नाडिका पयः । जलाधारगुणान्मुञ्चेदधस्तात् समनाडिका(कम्) ॥ १११ ॥ यन्त्रं^६ पातसमुच्छ्रायं पतित्वोच्छ्रायतो^७ जलम् । तिर्यग् गत्वा प्रयात्यूर्ध्वं सचिच्छ्रद्रस्तम्भयोगतः ॥ ११२ ॥ पतित्वोच्छ्रायतस्तोयं तिर्यगूर्ध्वोर्ध्वमेत्यथ । सचिच्छ्रद्रस्तम्भयोगेन तत् स्यात् पातसमोच्छ्रयम् ॥ ११३ ॥ वाप्यां वापि च कूपे विधानतो दीर्घिकादिका^८ विहिता । यत्रोर्ध्वमम्बु गमयति तदिहोच्छ्रयसंज्ञितं कथितम् ॥ ११४ ॥ दारुजमिभस्य रूपं यत् सलिलं पात्रसंस्थितं पिबति^१० । तन्माहात्म्यं निगदितमेतस्योच्छ्रायतुल्यस्य^९ ॥ ११५ ॥ सलिलं सुरङ्गे^११देशानीतं निम्नेन^१२ वर्त्मना दूरे । अद्भुतमम्भस्थानं तदिह समोच्छ्रायतः^१३ कुरुते ॥ ११६ ॥ धारागृहमेकं^१४ स्यात् प्रवर्षणाख्यं ततो द्वितीयं च । प्राणालं जलमग्नं^१५ नन्द्यावर्तं तथान्यदपि^१६ ॥ ११७ ॥ १ क. मूर्ध्नं । २ द. ख. कुम्भहं । ३ द. ख. ॰प्यां । ४ क. ॰दं । ५ ग. घा° । ६ द. ख. ग. ॰न्त्र । ७ द. ख. पतितोच्च्छ्रयतोऽज्वलं । ८ द. ख. ॰प्यां वा कूपे वा पिधानतो दीर्घिका । ९. द. ख. यं । १० द. ख. प्रियति । ११ द. ख. सुरंगं । १२ द. ख. ॰व । १३ क. ॰तं । १४ क. ॰वं । १५ क. ॰लनिमग्नं । १६ द. ख. ग. ॰वथान्य° । वा २४
१८६ समराङ्गणसूत्रधारे प्राकृतजनार्थमेतन्न विधेयं योग्यमेतदवनिभुजाम् । मङ्गल्यानां सदनं दिव्यमिदं तुष्टिपुष्टिकारम् ॥ ११८ ॥ सलिलाशयस्य सविधे कस्याप्याश्रित्य शोभनं¹ देशम् । यन्त्रोत्सेधाद् द्विगुणा त्रिगुणा वा नाडिका कार्या ॥ ११९ ॥ जलनिर्वाहसहासावन्तर्मसृणा बहिश्च नीरन्ध्रा । निर्²व्यूहाम्भसि तस्यां शुभे मुहूर्ते गृहं कार्यम् ॥ १२० ॥ सर्वाभिरोषधीभिर्युक्तं सहिरणयपूर्णकुम्भैश्च । सुविचित्रगन्धमाल्यं विनादितं ब्रह्मघोषेण ॥ १२१ ॥ रत्नोद्भवैर्विचित्रैः स्तम्भैर्युक्तं हिरण्यघटितैर्वा³ । रजतोद्भवैः कदाचित् सुरदारुसमुद्भवैरथवा⁴ ॥ १२२ ॥ श्रीखण्डोत्थैरथवा सालकमुख्यप्रशस्तवृक्षोत्थैः । शतसङ्ख्यैर्द्वात्रिंशत्सङ्ख्यैैर्यदि वापि षोडशभिः ॥ १२३ ॥ अथवा चतुस्समन्वितविंशतिसङ्ख्यैर्दिनेशसङ्ख्यैर्वा । भूषितमतिरमणीयैश्चतुर्भिरपि वा विधातव्यम् ॥ १२४ ॥ प्राग्ग्रीवै⁵रतिचित्रैः शैलैर्जालैर्विभूषितं विविधैः । वेदीभिः परिकरितं कपोतपालीभिरभिरामम् ॥ १२५ ॥ रमणीयसालभञ्जिकमनेकविधयन्त्रशकुनिकृतशोभम् । मिथुनैश्च वानराणां जम्भकनिवहैश्च नैकविधैः ॥ १२६ ॥ विद्याधरसिद्धभुजङ्गकिन्नरैश्चारणैश्च रमणीयम् । नृत्यद्भिः परमग(गु)णैः शिखण्डिभिर्मण्डितोद्देशम् ॥ १२७ ॥ कल्पतरुभिर्विचित्रैश्चित्रलतावल्लिगुल्मसंछन्नम् । परपुष्टषट्पदालिमरालमालामनोहारि ॥ १२८ ॥ प्रवहत्सङ्कलस्रोतःसुश्लिष्टनिविष्टनाडिकं मध्ये । सच्छिद्रनाडिकयुतं नानाविधरूपरमणीयम् ॥ १२९ ॥ १ द. ख. शासनं । २ क. ॰गृहं । ३ द. ख. ॰गदितै° । ४ द. ख. स्व° । ५ द. ख. प्राग्जीवै° । ६ द. ख. ग. मरालयाली° । ७ द. ख. ॰हदाकं ।