भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

२७८ समराङ्गणसूत्रधारे नन्दः । चतुरश्रीकृते क्षेत्रे दशभागविभाजिते ॥ ९१ ॥ चतुरश्रो भवेन्मध्ये देवकोष्ठो द्विभागिकः । द्वारबन्धोऽस्य भागोच्चः कार्यो भागार्धविस्तृतः ॥ ९२ ॥ स्याद् बहिर्द्वादशधरोऽलिन्दको¹ देवकोष्ठतः । भागिकः स च विज्ञेयो भित्तियुक्तस्ततोऽपरः ॥ ९३ ॥ अयं द्विभागिकैर्युक्तः प्राग्रीवैर्भागनिर्गमैः । तथा तृतीयोऽलिन्दः स्यात् समन्ताद् भित्तिवेष्टितः ॥ ९४ ॥ प्राग्रीवकैश्चतुःस्तम्भैः सप्रवेशैर्विभूषितः । भागिकी स्याद् बहिर्भित्तिरितरा तु धरैः समा ॥ ९५ ॥ इत्येष श्रीतरुर्नाम प्रासादः परिकीर्तितः । श्रीतरुः । अस्यैव स्तम्भगर्भस्य द्वितीयालिन्दभित्तिषु ॥ ९६ ॥ षड्दारूणि विधेयानि पूर्वरूपव्यवस्थिते² । द्वौ द्वौ प्राग्रीवकौ कार्यौ तृतीयालिन्दकाद् बहिः ॥ ९७ ॥ तौ च द्वि(भागा)न्तरितौ सर्वतो भागनिर्गतौ । एवं पञ्चांशता (?) स्तम्भैर्द्वाभ्यां च परिवेष्टितः ॥ ९८ ॥ चतुःस्तम्भैः सप्रवेशैः समन्तादुपनिर्गमैः । प्रासादोऽयं समाख्यातो नामतः प्रमदाप्रियः ॥ ९९ ॥ प्रमदाप्रियः । भागविस्तारविष्कम्भमस्य प्राग्रीवकं यदा । भिन्नालिन्दाग्रतस्तिर्यग् द्वे शाले तन्मुखं शुभम् (?) ॥ १०० ॥ द्वितीयालिन्दकस्थाने कर्णप्रासादकैर्युतः । एवं व्यामिश्रसंज्ञोऽयं प्रासादः परिकीर्तितः ॥ १०१ ॥


१ क. ग. तो । २ क. ते, ख. तैः ।

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २७९ व्यामिश्रः । विजयस्यास्य च यदा कर्णलाङ्गलकैर्युता । भवेद् भित्तिस्तदा हस्तिजातीय इति कथ्यते ॥ १०२ ॥ हस्तिजातीयः । सीमाप्राग्रीवभूमीषु यदा स्युः पृथिवीजये । द्विभागाश्चाभितोऽलिन्दास्तिर्यक्शालामुखेषु च ॥ १०३ ॥ अलिन्दे पश्चिमा शाला सर्व(र्वा)शालोकना शुभा । षड्दारुकं तथैवात्र चतुर्भागायतं भवेत् ॥ १०४ ॥ पूर्ववत् सर्वमन्यच्च कुबेरः स तदा भवेत् । कुबेरः । प्रासादः कथ्यतेऽन्यश्च सम्प्रतीह धराधरः ॥ १०५ ॥ कुबेरोपत्तरोक्षिप्तः(?) कर्णप्रासादभूषितः । मध्यद्वारान्वितः श्रीमान् धराधर इति स्मृतः ॥ १०६ ॥ वसुधाधरः । यत्रायतश्चित्रकूटस्तस्माद् यः सर्वतोदिशम् । धराधरतदम्भासः(?) सर्वतोभद्र उच्यते ॥ १०७ ॥ सर्वतोभद्रः । कर्णप्राग्रीवकौ द्वौ द्वौ शालाप्राग्रीवंकाअ(व)पि । स्यातां यर्दास्य प्रोक्तोऽसौ विमानाख्यस्तदा शुभः ॥ १०८ ॥ विमानाख्यः । विमानंपीठे निर्मुक्तः शालाभिः सर्वतो वृतः । अन्योन्यशालासम्बन्धे विमानो न्यस्यते यदा ॥ १०९ ॥ कर्णप्रासादकोपेताः कोणैः शालोज्झितैर्युतः । स विमुक्तकोणः स्यात् प्रासादोऽत्यर्थशोभितः ॥ ११० ॥ १ ख. ॰वेद्भस्तितदा । २ क. क्तालमु । ३ क. ख. ग. आ । ४ ख. ग. न्दो । ५ क. धाग्रभश्चि । ६ द. ग्री । ७ द. ग्री । ८ द. द्य । ९ क. नं । १० क. त्ता । ११ ख. ग्रीवको; द. ग्रीव° ।

२८० समराङ्गणसूत्रधारे मुक्तकोणः , प्रासादाश्चतुरश्राः स्वैर्विशेषैर्वर्णिताः पृथक् । इदानीमभिधीयन्ते वृत्ताः स्वैः स्वैर्विशेषणैः ॥ १११ ॥ तत्रादौ वलयाकारो वलयः स च कथ्यते । समन्ताद् वर्तिते क्षेत्रे चतुर्भागविभाजिते ॥ ११२ ॥ कुर्यात् सारोहणं पीठं सार्धभागोच्छ्रितं शुभम् । परिक्षिप्तं गजमुखैर्मकर(रा)स्याम्बुनिर्गतम् ॥ ११३ ॥ बहिर्भागसमोपेतस्तस्मिन् कार्यः सुरालयः । पादोनविस्तृतिर्द्विघ्नद्वारोच्छ्रायविभूषितः ॥ ११४ ॥ तस्याष्टस्तम्भकोऽलिन्दो बहिर्वलय इत्यसौ । वृत्तच्छायः सिंहकर्णैस्तथा जालकरूपवान् ॥ ११५ ॥ † भूलवयः । प्राग्रीवका(वृतः) स स्याद् यद्वा §स्तम्भोच्छ्रैयानतः । तदैष *दुन्दुभिः प्रोक्तस्त्रिभिस्तैः प्रान्त उच्यते ॥ ११६ ॥ अयमेव चतुर्भिः स्यात् पद्मः प्राग्रीवकैः शुभैः । स्तम्भैश्चतुर्भिस्तस्यैव यदा पश्चान्निवेश्यते ॥ ११७ ॥ मध्यवृत्तो गर्भकोष्ठो भित्तिश्चोभयतः स्थितां । स कान्त इति विख्यातः प्रासादो वर्तुलाकृतिः ॥ ११८ ॥ चत्वारि वलयस्यैव यत्र द्वाराण्यलिन्दकः । स्याच्चतुर्विंशतिस्तम्भैर्द्वितीयो भागसम्मितः ॥ ११९ ॥ प्राग्रीवकाश्च स्तम्भाभ्यां द्वाभ्यां द्वाभ्यां समन्विताः । चत्वारो यत्रं स प्रोक्तः प्रासादोऽत्र चतुर्मुखः ॥ १२० ॥


१ द. र्तं । २ क. तिर्द्विघ्न । ३ क. °र्गतदीयजा°; द. त । ४ द. ग्री । ५ ख. च्छ्रय- द्वयान्वितः; द. य. द्वयान्वित । ६ ख. द. तदेव । ७ क. ख. द. °श्येत् । ८ द. ताः । ९ द. ग्री । १० द. स्य । † लक्ष्ये लक्षणे च वलय इत्ययं पठितः । §स्तम्भद्वयान्वितः इति पाठः स्यात् । * इत आरभ्य तत्तत्प्रासादनामानि पृथक्तया मातृकायां न लिखितानि ।

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८१ अस्यैवैकं यदा द्वारं प्राग्रीवोऽलिन्दवेष्टितः । एक एव तथाचान्यः प्राग्रीवस्तस्य चाग्रतः ॥ १२१ ॥ ख्यातो माण्डूक इत्येष वृत्तप्रासादसत्तमः (वृत्तः ?) । दिक्कोणेषु यदास्यैव भवेत् प्राग्रीवकल्पना ॥ १२२ ॥ प्रासादोऽयं तदा कूर्मसंज्ञः स्यादपराजितः । कूर्मस्यैव यदा दिक्षु स्तम्भैरष्टाभिरष्टभिः ॥ १२३ ॥ प्राग्रीवकाः प्रकल्प्यन्ते चत्वारोऽलिन्दवेष्टिताः । प्र.ग्रीवकास्तिर्यगग्रे भवन्त्यन्ये तदग्रतः ॥ १२४ ॥ षोडशस्तम्भयुक्तस्य मध्यभागे यदा भवेत् । † जानीयाद्दोषविज्ञेयाः प्राग्रीवहरितोत्तमः (?) ॥ १२५ ॥ इति वृत्ताः समाख्याताः प्रासादा नामलक्षणैः । चतुरश्रायतान् ब्रूमः प्रासादानिह साम्प्रतम् ॥ १२६ ॥ अष्टभागायते क्षेत्रे चतुरंशकविस्तृते । द्विभागसार्धभागैकभागोऽयं पीठे इष्यते ॥ १२७ ॥ पश्चिमं भागमुत्सृज्य देवकोष्ठं द्विभागिकम् । तस्मिन् निवेशयेत् सीमा स्यादस्याग्रेऽष्टभिर्घटैः ॥ १२८ ॥ ससीम्नो देवकोष्ठस्यै भागिकालिन्दको बहिः । युक्तो धराणां विंशत्या वेदिकाजालवेष्टितः ॥ १२९ ॥ प्राग्रीवकस्य तस्याग्रे स्तम्भद्वितयभूषितः । द्विच्छाद्यच्छादितः श्रीमान् सिंहकर्णैरलङ्कृतः ॥ १३० ॥ प्रासादोऽयं भवो नाम विशालः कथ्यतेऽधुना । यदास्यैवं सनिष्क्रान्ते सीमायामे च वर्ध(र्धि)ते ॥ १३१ ॥ १ द. °दां । २ क. वा । ३ क. ख. न्डू; द. मांडूक । ४ द. ची । ५ क. कत्र्तः; द. क । ६ ट. र्मा । ७ द. ता । ८ क. °णैः । वृत्तप्रासादः । चं । ९ ख. द. टमिव्य; । १० द. र्हं । ११ द. °ष्ठः स्यात् । १२ द. मु । १३ द. वाश । १४ क. ख. द. योगे च वर्धते । † इह कियांश्चिद् ग्रन्थो गलित इव भाति, यतो वृत्तप्रासादभेदेषु लक्ष्ये परिगणितयोरुपान्त्ययोः तालीगृहोलूपीनामकयोर्लक्षणं न दर्शितम्, अत्र दृश्यमानस्य च श्लोकार्धस्य नार्थसामञ्जस्यम् । वा. ३६

२८२ समराङ्गणसूत्रधारे वलभ्यौ पार्श्वयोः स्यातां विशालाख्यस्तदा भवेत् । विशालस्य यदा गर्भे भित्तिर्भवति दिक्त्रये ॥ १३२ ॥ द्वौ द्वौ गवाक्षकौ चापि साम्मुख्यैः स भवेत् तदा । प्राग्रीवास्त्रिदिंशं तस्य गर्भकोष्ठायता यदा ॥ १३३ ॥ हित्वा वलभ्यौ प्राग्रीवौ विधीयेते तथापरौ । कर्णेषु भागमेकैकं त्यक्त्वा स्यात् प्रभवस्तदा ॥ १३४ ॥ एतस्यैव मुखे स्यातां यदा प्राग्रीवकावुभौ । पार्श्वयोरपरौ द्वौ द्वौ प्राग्रीवौ भवतॊ यदा ॥ १३५ ॥ कर्णेषु भित्तयश्च स्युस्तदा स्याच्छिबिराग्रहः । यदास्यैव मुखे शाला भागद्वितयविस्तृतां ॥ १३६ ॥ आयामेन च षड्भागा प्राग्रीवौ द्वौ तदग्रतः । द्वौ द्वौ गवाक्षकौ स्यातां तद्भित्त्योरुभयोरपि ॥ १३७ ॥ सीमायां द्वादश स्तम्भा मुखशालस्तदा भवेत् । अलिन्दो भागिकः कार्यों विशालंस्यैव बाह्यतः ॥ १३८ ॥ प्राग्रीवभूमिषु वृतो भित्त्या च सगवाक्षकः । अग्रतः सहितः स्तम्भैः षड्भिश्च क्रियते यदा ॥ १३९ ॥ द्विशाल इति विख्यातः प्रासादो जायते तदा । यदास्यैव विधीयन्ते स्तम्भाः सर्वे समन्ततः ॥ १४० ॥ प्राग्रीवकौ चोभयतो गृहराजस्तदा भवेत् । सर्वस्यैव (?) यदालिन्दः स्यादन्यो भागविस्तृतैः ॥ १४१ ॥ सीमान्तविस्तृते स्यातां वलभ्यौ भागनिस्सृते । भित्तिर्विधीयते शेषा गवाक्षैरुपशोभिता ॥ १४२ ॥ मुखे षड्दारुकं च स्यात् तदा स्यादमलाभिधः । एकादशायते क्षेत्रे तथा षड्भागविस्तृते ॥ १४३ ॥ १. क. त । २ क. स्यात् स; द. सोऽमुख्या । ३ द. द । ४ द. य । ५ द. त । ६ द. वो । ७ द. ते । ८ द. त् स्थविरग्रहः । ९ द. ताः । १० क. ॰लाल्ये च बा॰ । ११ क. तौ । १२ क. वि । १३ द. स्तृ॑ । १४ द. भ्यो । १५ क. विस्तृते । १६ द. षड्ढारकं ।

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । १८३ मुक्त्वा भागद्वयं पश्चाद् देवकोष्ठं निवेशयेत् । भागं मुक्त्वाग्रतः कुर्यात् सीमां भागचतुष्टयम् ॥ १४४ ॥ अष्टस्तम्भास्ततोऽलिन्द विंशतिस्तम्भभागिकोः । भागिकः परितोऽलिन्दोऽष्टाविंशतिघरोऽपरः ॥ १४५ ॥ द्विद्विस्तम्भयुताः कार्याः प्राग्रीवाः कोष्ठजास्त्रयः । सीमासँमे वलभ्यौ च प्राग्रीवौ मध्यतस्तयोः ॥ १४६ ॥ द्विद्विस्तम्भौ पुरश्चान्यौ वेदिकाजालशोभितौ । वेदिकाजालरूपाढ्यः सिंहकर्णोपशोभितः ॥ १४७ ॥ प्रासादोऽयं विसुर्नाम कथितो भर्तृनन्दनः । एवमेते समाख्याताश्चतुरश्रायता दश ॥ १४८ ॥ चतुरश्रांयतांस्तिर्यगायत्यांथापरानपि । प्रासादानभिधास्यामो नवसंस्थानलक्षणैः ॥ १४९ ॥ द्वौ भागौ विस्तीर्गर्भे द्विगुणां तिर्यगायतिः । मध्ये भागोच्छ्रितं द्वारं तदर्धेन तु विस्तृतम् ॥ १५० ॥ स्तम्भश्चतुर्भिः संयुक्ता सीमा द्वारस्य चाग्रतः । द्विभागायामविस्तारा तावन्मात्रसमुच्छ्रितिः ॥ १५१ ॥ तां सीमां गर्भसहितां भागेनान्येन वेष्टयेत् । भित्तिस्तत्र विधातव्या सगवाक्षा चतुर्दिशम् ॥ १५२ ॥ षड्दारुकयुतो ह्येष प्रासादो भव उच्यते । अस्यैव भागनिष्कासा शाला मुखचतुष्टये ॥ १५३ ॥ यदा षड्दारुकोपेता विशालः स तदोच्यते । स्तम्भैर्मुखैमुखे षड्भिर्बहिः साम्मुख्य इत्यसौ ॥ १५४ ॥ अस्यैव सं.मा कर्णस्था द्विद्विस्तम्भयुता यदा । प्राग्रीवैभागनिष्क्रान्ता बहिस्था प्रभवस्तदा ॥ १५५ ॥ १ द. म्भ । २ द. मासिकाः । ३ क. त । ४ द. सी । ५ क. व्ययप; द. ग्याथो । ६ ख. भाग । ७ द. णो । ८ द. काः । ९ द. र । १० ख. द. ते । ११ ख. ६।; द. यद्वा षड्दारको । १२ द. स्ये । १३ ख. द. वभाग; ।

१८४ समराङ्गणसूत्रधारे सीम्नोऽग्रतो यदास्यैव स्तम्भद्वययुतो भवेत् । प्राग्रीवो भागनिष्क्रान्तस्तदा स्याच्छिबिराग्रहः ॥ १५६ ॥ विशालसन्निवेशस्य मुखे शाला भवेद् यदा । पार्श्वयोश्चोभयोः शाले प्राग्रीवाश्च त्रयो यदा ॥ १५७ ॥ निष्क्रान्तभाग एकैकैः स्तम्भद्वितयसंयुतः । प्रासादः स तदा ज्ञेयो मुखशालोऽभिधानतः ॥ १५८ ॥ मुखशालाग्रशालाया यदा स्तम्भाश्चतुर्दश । प्राग्रीवो द्विविधश्चाग्रे द्विशालः स तदा भवेत् ॥ १५९ ॥ †भित्तिस्तदानीं(?) प्रासादो गृहराजः प्रजायते । गर्भायामसमावग्रपृष्ठयोर्भागविस्तृतौ ॥ १६० ॥ चतुश्चतुर्धरौ यत्र प्राग्रीवौ द्वौ च पार्श्वयोः । तौ तु द्विद्विधरौ गर्भविस्तारेण तु संमितौ ॥ १६१ ॥ अमलो नाम स प्रोक्तः प्रासादः शुभलक्षणः । अस्यैव चाग्रे पृष्ठे च द्विद्विस्तम्भयुतौ यदा ॥ १६२ ॥ प्राग्रीवौ स तदा प्रोक्तः प्रासादो दशमो विभुः । प्रासादान् कथयामोऽन्यान दश वृत्तायतान् पुनः ॥ १६३ ॥ अष्टभागमुखायतया विस्तृत्या चतुरश्रकम् । वृत्तायतं प्रकुर्वीत सबाह्याभ्यन्तरं ततः ॥ १६४ ॥ गर्भं पश्चिमभागेऽस्य चतुर्भागं समन्ततः । कुर्यात् तस्याग्रतः सीमां भागद्वितयविस्तृताम् ॥ १६५ ॥ भागत्रयमितां भागेनैकेनान्तरितां च ताम् । संयुक्तामष्टभिः स्तम्भैः सुदृढैश्चारुदर्शनैः ॥ १६६ ॥ अलिन्देन परिक्षिप्तां ससीमा देवकोष्ठकम् । षोडशस्तम्भयुक्तेन कुर्यात् प्राग्रीवमग्रतः ॥ १६७ ॥ १ द. 'मेकेकं । २ द. तं । ३ द. प्रा । † इहापि कियांश्चिद् ग्रन्थो गलित इव । इतः श्लोकद्वयात् प्रागेव क. पुस्तके पत्राणि आचतु- ष्पञ्चाशाध्यायैकद्दे.। लुप्तानि । ग. ग्रन्थस्तु पुरैवावसितः ।

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८९ छन्नाइछाद्यद्वयेनायमामोद इति कीर्तितः । वृत्तायतेषु प्रथमः प्रासादः स्वामिनो हितः ॥ १६८ ॥ समाहितौ यदास्यैव प्राग्रीवौ भागमिश्रितौ । चतुःस्तम्भै रैकिकस्तु वृत्ताभ्यां तुङ्ग उच्यते ॥ १६९ ॥ यदा सीमावधिर्भिर्त्तिर्गवाक्षैरुपशोभिना । वृत्तप्राग्रीव एकोऽन्ये (?) तदा चारुरुदाहृतः ॥ १७० ॥ सीमामध्ये विधातव्यौ प्राग्रीवौ भागविस्तृतौ । विस्तारसदृशायामौ दक्षिणेति (?) त्रिषु त्रयः ॥ १७१ ॥ कार्याः प्राग्रीवकास्ते च गर्भकोष्ठेन सम्मिताः । भूतिरित्येष (सं)प्रोक्तः प्रासादः शुभलक्षणः ॥ १७२ ॥ मुखायतौ स्याच्चतुरो भागान्यत्तिर्यगायतान्(?) । क्षेत्रवृत्तं ततः कुर्यात् तन्मध्ये गर्भवेश्म च ॥ १७३ ॥ चतुर्भागायतं तत् स्याद् भागद्वितयविस्तृतम् । अलिन्दो बाह्यतस्तस्य द्वादशस्तम्भसंयुक्तः ॥ १७४ ॥ भागद्वितयविस्तारः प्राग्रीवश्चांशनिर्गतः । निषेध इति वि(वक इति ) ख्यातः प्रासादोऽयं पुरातनैः ॥१७५॥ यदा(?) निषेधः स्यादस्य पुरः प्राग्रीवको यदि । चतुर्द्वारपरिक्षिप्तोऽलिन्देनाष्टधरेण वा ॥ १७६ ॥ अयमेवांशकेन स्याद् यदालिन्देन वेष्टितः । मुखभागत्रयं मुक्त्वा भित्त्या च परिवेष्टितः ॥ १७७ ॥ यदा च कर्णप्राग्रीवौ प्राग्रीवश्चाग्रतो भवेत् । विशेषरचना या च द्वा.विंशतिधरान्वितौ(?) ॥ १७८ ॥ गवाक्षैः शोभनैर्युक्तस्तदा सिंहः प्रकीर्तितः । द्वादशांशायते क्षेत्रे तथा षड्भागविस्तृते ॥ १७९॥


१ द. रिरिकस्तु । २ द. रि । ३ द. मुखायतो ।

३८६ समराङ्गणसूत्रधारे। पश्चादंशद्वयं त्यक्त्वा द्विभागायामविस्तृतः । देवकोष्ठो विधातव्यस्तद्द्वारं भागमुच्छ्रितम् ॥ १८० ॥ सीमाग्रे सान्तरा द्व्यंशविस्तृता चतुरानता । अष्टस्तम्भोऽस्य गर्भो वै षोडशस्तम्भको बहिः ॥ १८१ ॥ अलिन्दस्तस्य पुरतो वृत्तप्राग्रीवकोऽपि च । सीमाप्राग्रीव१कालिन्दकोष्ठान् वृत्तान् प्रकल्पयेत् ॥ १८२ ॥ प्राग्रीवौ पार्श्वयोः सीमासमौ भागविनिर्गतौ । द्वाभ्यां द्वाभ्यां युतौ ज्ञेयौ२ स्तम्भाभ्यां वर्तुलाकृती ॥ १८३ ॥ एतत्सर्वं विधानव्यमलिन्देनाभिवेष्टितम् । चतुर्विंशधरोऽयं३ च भागिकोऽयं प्रशस्यते ॥ १८४ ॥ द्विस्तम्भयुक्तान् प्राग्रीवान् कुर्याद् गर्भस्य दिक्त्रये । एवमेष समाख्यातः प्रासादः सुप्रभः शुभः ॥ १८५ ॥ भागद्वितयविस्ताराः प्राग्रीवा येऽस्य कीर्त्तिताः । चतुरश्रास्त एव स्युर्द्विद्विस्तम्भयुता यदि ॥ १८६ ॥ शेषा भवति भित्तिश्च गवाक्षैरुपशोभिता । प्रासादोयं तदा ज्ञेयो दशमो४ लोचनोत्सवः ॥ १८७ ॥ अष्टाश्रमथ वक्ष्यामः प्रासादांल्लक्षणैः सह । चतुर्भागान्विते क्षेत्रे तथाष्टाश्रीकृते पुनः ॥ १८८ ॥ द्वौ भागौ गर्भकोष्ठः स्यादलिन्दो भागिकस्तदा । स्तम्भाष्टकमलिन्दे स्यात् प्राग्रीवस्तस्य चाग्रतः ॥ १८९ ॥ द्व्युच्छ्रायच्छा(च्छा)दिनः श्रीमान् प्रासादो वज्रको भवेत् । अस्यैवाग्रे यदा सीमा चतुरश्रा चतुर्धरा ॥ १९० ॥ स्याच्चतुर्विंशतिस्तम्भश्चालिन्दो भागिकोऽपरः । नन्दनोऽयं समाख्यातः शङ्कुः प्राग्रीवकैस्त्रिभिः ॥ १९१ ॥ --------- १ द. को। २ द. यं। ३ द. यांश्च। ४ द. क। ५ द. नाः। ६ द. नो। ७ द. था। ८ द. राः।

रुचकादिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः । २८७ तस्य भित्तिर्विधानव्या क्षेत्रेऽष्टाश्रियुते बुधैः । वामनश्च(स्य) पुनद्वौँद्वौ गवाक्षौ दिक्त्रये मतौ ॥ १९२ ॥ अस्यैवाग्रे यदा सीमाभागाद् भागत्रयायता । द्विभागं विस्तृता ह्यंशसमुच्छेदाष्टभिर्धरैः (?) ॥ १९३ ॥ अलिन्दोवेष्टिता युक्ता प्राग्रीवैर्मेखलेऽ१तदा । भित्तिक्षेत्रे यदास्यैव प्राग्रीवाः परिवेष्टिताः ॥ १९४ ॥ अलिन्देन धरैः षड्भिः षड्भिर्युक्तास्तदा लयः । अष्टभागमिते क्षेत्रे कृतेऽष्टाश्रिणि सर्वतः ॥ १९५ ॥ भागद्वयमितं कुर्याद् देवकोष्ठं मनोरमम् । चतुर्भिः शोभितं द्वारैर्भागिका(लिन्दवेष्टितम्) ॥ १९६ ॥ अलिन्दस्य विधानव्याः स्तम्भाश्चाष्टौ ततोऽपरः । स्याच्चतुर्विंशतिस्तम्भो भागिकोऽलिन्दकः पुनः ॥ १९७ ॥ तथाविधस्तृतीयोऽपि प्राग्रीवाश्च चतुर्दिशम् । प्रासादोऽयं महापद्मो ब्रह्मणः शङ्करस्य च ॥ १९८ ॥ द्वितीयो(ये)ऽलिन्दक(के)ऽस्यैव प्राग्रीवाः स्युश्चतुर्दिशम् । अलिन्देन परिक्षिप्तो हंस एष प्रकीर्तितः ॥ १९९ ॥ प्राग्रीवोऽस्य महापद्मस्यालिन्देनाष्टनो यदा । कर्णप्राग्रीवकौ द्वौ द्वौ व्योमसंज्ञस्तदा भवेत् ॥ २०० ॥ हंसस्यैव वलभ्यः स्युः प्राग्रीवाणां५ पदे यदा । चतुःस्तम्भाः परिक्षिप्ता अलिन्देन चतुर्दिशम् ॥ २०१ ॥ तदा चन्द्रोदयो नाम प्रासादो जायते शुभः । एवमेषां चतुष्षष्टिः प्रासादानामुदाहृता ॥ २०२ ॥ इति सुरभवनानां सप्ततिर्दारवाणा- मिह सदनचतुष्केणान्वितेयं प्रदिष्टा । १ द. न्द । २ द. ॰लैस्तदा । ३ द. स्त्रि । ४ द. गो । ५ द. वा । ६ द. ॰नां पदे यथा । ७ द. आ । ८ द. ताः । § इहानुक्रमो व्यत्यस्तः । § लदये तु मेखल इति पठितः ।

२८८ समराङ्गणसूत्रधारे जनमयमवकोशानन्दशुभ्रांशुलेखा (?) भवति सुविदितैषा शिल्पिनां कामधेनुः ॥ २०३ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे रुचकादिचतुष्षष्टिप्रासादलक्षणं नामैकोनपञ्चाशोऽध्यायः। अथ प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः। प्रासादानामथ ब्रूमो लक्षणानि भवन्ति ये । प्रशस्ताश्चाप्रशस्ताश्च तस्मिन्नवनिमण्डले ॥ १ ॥ ये समाः समकर्णाश्च समस्तम्भाः समक्षणाः । नैवोच्चा नातिह्रस्वाश्च कर्णायामादविह्वलाः ॥ २ ॥ असंमूढा विभागेन प्रमाणेन सुसंस्थिताः । ऊर्ध्वाधः कर्णपादीभिरुपेताः सलिलान्तरैः ॥ ३ ॥ असङ्कीर्णोद्यैश्छद्यैः स्वमानपरिकल्पितैः । सुविभक्ताः सुसंस्थाश्च रेंम्यैरविकलैः कृताः ॥ ४ ॥ समभागविभक्तैश्च युक्ताश्चालिन्दकैः समैः । स्वजातिपरिवेषाय्या नान्यजातिप्रदूषिताः ॥ ५ ॥ असङ्कीर्णाः शरीरंण संस्थानेन सुसंस्थिताः । केवला जातिशुद्धाश्च प्रासादाः शुभदा नृणाम् ॥ ६ ॥ सुदृढैर्मूलपादैश्च दृढाश्चामूलमस्तकम् । नाधरोत्तरयुक्ताश्च सुश्लिष्टद्रव्यसन्धिभिः ॥ ७ ॥ देव(श)जातिप्रसिद्धैश्च भूषणैः सुविभूषिताः । प्रासादाः शुभदा नित्यं पूजासंस्कारवर्धनैः ॥ ८ ॥ कर्ता कारयिता चैषां परां वृद्धिमवाप्नुयात् । अभ्रमानपि वक्ष्यामः प्रासादानवलक्षणैः ॥ ९ ॥ १ द. वा । २ द. द्व । ३ द. क्ता । ४ द. र्णा । ५ द. ता । ६ द. ०हैद्रैं० । ७ द. ना ।

प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः । २८९ विषमाः कर्णहीनाश्च क्लेशबन्धभयावहाः । स्तम्भैः क्षणैश्च विषमैः स्वामिनो मृत्युहेतवः ॥ १० ॥ अत्युच्चैः स्याद् भयं राज्ञो ह्रस्वैः सेना च॑ मथ्यते । कर्णायामेन विकलाः प्रासादाः स्युर्भयङ्कराः ॥ ११ ॥ विभागेन विहीनास्तु दारिद्र्यभयदाः स्मृताः । नष्टाभिः कर्णपादीभिरुद्वेगजननं नृणाम् ॥ १२ ॥ छाद्यैः सङ्कीर्णकैर्हीनः कुलक्षयकराः स्मृताः । दुर्विभक्ताः कुसंस्थाश्च द्रव्यैर्विकलसंयुतैः ॥ १३ ॥ रोगं क्लेशं च मृत्युं च क्रमशॊ विने॑रन्ति ते । विषमैर्भागहीनश्चाप्यलिन्दैर्व्याधितो भयम् ॥ १४ ॥ पराजयं परिवृंतैरन्यजातिप्रदूषितैः । ये परावृतयो ये ऽन्यसङ्कीर्णा येऽन्यविग्रहाः ॥ १५ ॥ कर्तुः कारयितुर्नैते नन्दका वापि चात्मनः । दुर्बला मूलपादेन विश्लिष्टैः पीठसन्धिभिः ॥ १६ ॥ अल्पायुषस्ते प्रासादा भवन्ति च भयावहाः । अधरोत्तरगैः श्लिष्टैर्विज्ञेया व्याधिकारिणः ॥ १७ ॥ आदेशैर्भूषणैर्युक्ताः प्रासादा न सुखावहाः । ये कीर्त्तिमिच्छन्ति जयन्ति भूतान् कुर्युः शुभैर्लक्ष्मभिरन्वितांस्ते । प्रासादमुख्यानितरे तु वर्ज्यास्तेजोयशःश्रीविजयादिकामैः ॥१८॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादशुभाशुभलक्षणं नाम पञ्चाशोऽध्यायः ॥ १ द. श्र । २ द. टी । ३ द. नं । ४ द. च । ५ द. यो । ६ द. दृष्टिं । ७ द. याँ । ८ द. णो । वा. ३७

२९० समराङ्गणसूत्रधारे अथायतननिवेशो नामैकपञ्चाशोऽध्यायः । एवं नृपस्य प्रासादे कृते कॢप्तेऽथवा भुवि । तस्यानुजीविनः कुर्युः प्रासादान् परिधौ यदि ॥ १ ॥ तदा दिग्भागविन्यासस्थानमानान्यनुक्रमात् । तेषामिहाभिधीयन्ते सर्वेषां वृद्धिहेतवे ॥ २ ॥ दशाष्टौ षट् च धनुषां शतानि क्ष्माभृतां क्रमात् । मानमायतनस्योक्तं त्रेधा श्रेष्ठादिभेदतः ॥ ३ ॥ क्षेत्रमायतनस्यैव चतुरश्रं समन्ततः । तत्र भक्ताः प्रकुर्वीरंस्त्रिधा स्वे स्वामिवत्सलाः ॥ ४ ॥ ये चास्य सम्मताः केचित् कुले जाता हितैषिणः । द्वादशांशेन हीनानि क्रमात् तान्यनुजन्मनाम् ॥ ५ ॥ तस्यैव वामतः कुर्यादुत्सेधाद् द्विगुणान्तरे । कुर्याद् दशांशहीनानि नैर्ऋत्यां दिशि भूपतेः ॥ ६ ॥ प्रासादान्नृपपत्नीनां सर्वासामपि शास्त्रवित् । अष्टभागेन हीनानि प्रतीच्यां दिशि कारयेत् ॥ ७ ॥ देवधिष्ण्यानि तन्त्रैः स्यात् स्वसुराणां विधानतः (?) । सौम्यायां मारुतीं यावन्नवांशापचिताः क्रमात् ॥ ८ ॥ प्रासादा मन्त्रिसनानीप्रतीहारपुरोधसाम् । एतेषां पूर्वभागस्थं राजमातुर्निवेशनम् ॥ ९ ॥ हीनमेकादशांशेन तत् कार्यं राजकारिता (?) । ऐशीमाश्रित्य देवानां तुल्यमैन्द्रपदावधि ॥ १० ॥ स्वसॄणां मातुलानां च कुमाराणां तथा क्रमात् । आग्नेय्यां द्विजमुख्यानां विधातव्यं निवेशनम् ॥ ११ ॥ कार्यः पुरोधःप्रासादः तुल्यतत्पुनरेव वा (?) । याम्यायां कुर्युष्टांशहीनान्युर्वीशमन्दिरात् ॥ १२ ॥ १ द. नः ।

आयतननिवेशो नामैकपञ्चाशोऽध्यायः । २९१ सामन्तं१कुञ्जारोहभटं२पौरजनाः क्रमात् । एतान्यायतनान्येषां यथाभागं प्रकल्पयेत् ॥ १३ ॥ मर्मवेध३प्रदेशस्थान् द्वारवेधगतानपि । स्वस्थानान्तरितांश्चैतान् न कुर्याद्धितकाम्यया ॥ १४ ॥ अलिन्दैर्गर्भकोष्ठैश्च सीमास्तम्भगवाक्षकैः । द्वारद्रव्यतलोच्छ्रायैः प्राग्ग्रीवैः सिंहकर्णकैः ॥ १५ ॥ न कुर्याद् भूषणैस्तुल्यं समं वास्थंदरूपतः (?) । समरूपं भवेद्धर्म्यं नियुक्तं च न नन्दति ॥ १६ ॥ राजपीडा भवेत् तस्मिन्नाधिक्ये च कुलक्षयः । प्रासादाद् भूमिपालस्य निवेशं परिधौ स्थितं५म् ॥ १७ ॥ द्रव्येण कतरेणापि नोत्कृष्टं कारयेद् बुधः । संस्थानान्मानतश्चापि विस्तारेणोच्छ्रयेण वा ॥ १८ ॥ पूर्वोक्तेभ्यो विभागेभ्यः किञ्चिद्धीनतमः शुभः । अन्योन्यं द्विगुणच्छाद्यैरैककस्यान्तरं शुभम् ॥ १९ ॥ सुभोग्यं तं च कुर्वीत बहुभिर्भवनान्तरैः । कोष्ठिकाभोजनागारैर्भाण्डोपस्करधामभिः ॥ २० ॥ शिर्लोल्लूषात(?)शालाभिः शेषं तु परिपूरयेत् । प्रशस्तान् कारयेत् सर्वान् शुभरूपान् मनोरमान् ॥ २१ ॥ प्रायशः स्वालयांश्चान्यान् सर्वस्यान्यगृहाणि च । नरेन्द्रायतनस्यैव निवेशात् परिकल्पयेत् ॥ २२ ॥ अन्यथात्वे महादोषा वैपरीत्ये कुलक्षयः । इति कथितदिगादिभेदयोगैः सुरभवनानि भवन्ति यस्य राज्ञः । १ द. न्तः । २ द. ट्ट । ३ द. धः । ४ द. र्द्धम्यं । ५ द. शः । ६ द. तः । ७ द. स्त । ८ द. शिलोल्लूषते । ९ द. ज्ञा ।

२९२ समराङ्गणसूत्रधारे अविरतमुदितोदितप्रतापः स्वभुजजितां स चिरं प्रशास्ति पृथ्वीम् ॥ २३ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे आयतननिवेशो नामैकपञ्चाशोऽध्यायः ॥ अथ प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः । अवतारो निवेशानां विधानं वास्तुनो यतः । कार्त्स्न्येन तमतो ब्रूमः सभ्यस्य प्रसवोत्तमः (?) ॥ १ ॥ कुलजातिक्रमाणां च क्रमं दीर्घाल्यजीविनाम् । संस्थानमभिधास्यामो लक्ष्यलक्षणमेव च ॥ २ ॥ शुभाशुभानां वैराजमादिं तेषां प्रचक्षते । पूर्वोक्तस्य विमानस्य तस्यातो लक्ष्म कथ्यते ॥ ३ ॥ वैराजस्य यथाकारव्यवस्थानमशेषतः । चतुरश्रं समं क्षेत्रमशीत्यंशैर्विभाजयेत् ॥ ४ ॥ संयुक्तमष्टभिर्भागैः कुर्याद् गर्भगृहं शुभम् । द्विपञ्चाशद्दरैः सीमा गर्भकोष्ठसमन्विताः ॥ ५ ॥ द्वात्रिंशता देवकोष्ठैः सर्वैरेकान्तरैश्च तैः । बाह्यस्थाने ततः स्थानाद् द्वादशक्षोभणैर्धरैः ॥ ६ ॥ हेमरत्नमयैः स्तम्भैः शुक्त्रपट्टैश्च भूषितैः । शुक्लाङ्गारखचितैर्वितानैश्च विभूषणैः ॥ ७ ॥ स्फाटिकैर्विविधैर्जालैः सहरिन्मणिवेदिकैः । हंसकर्णकपोतालीतिर्यक्स्थाल्यर्थकर्णिकैः ॥ ८ ॥ पर्यन्तदेशधृतया गर्भस्योपरि घण्टया । लोकनाथेन तत् सृष्टमाद्यं वैराजसंज्ञितम् ॥ ९ ॥ १ द. चिरसमु° २ द. क्ष्य ।

प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः । २९३ तस्मात् स्वस्तिकसंज्ञः प्राग् गृहच्छन्दो विजायते । चतुश्शालस्त्रिशालश्च हिरण्यौकस्त्वतोऽपि च ॥ १० ॥ सिद्धार्थको द्विशालः स्यादेकशालस्तु कुम्भकः । सृष्टमन्यद् विमानं च वरं वीरं चतुर्मुखम् ॥ ११ ॥ गणानां देवतानां च स्कन्दस्य च यथाक्रमम् । प्रासादा द्वादशैतेऽन्ये जज्ञिरे शुभलक्षणाः ॥ १२ ॥ स्वस्तिकः श्रीतरुश्चैव तृतीयः क्षितिभूषणः । भूजयो विजयो भद्रैः श्रीकूतोष्णीषसंज्ञितौ ॥ १३ ॥ नन्द्यावर्तो विमानश्च सर्वतोभद्र एव च । विमुक्तकोणप्रासाद इति वैराजसंभवाः ॥ १४ ॥ एकैकस्मात् क्रमेणैवमेकैकः समजायत । स्वस्तिकाद् रुचको ज्ञेयः श्रीतरोः सिंहपञ्जरः ॥ १५ ॥ क्ष्माभूषणात् तु शाला स्याद् भूजयाद् गजयूथपः । विजयादवतंसश्च भद्रान्नन्दी विनिर्गतः ॥ १६ ॥ श्रीकूटाच्चित्रकूटाख्य उष्णीषात् प्रमदाप्रियः । व्यामिश्रो नन्दिकावर्ताद् विमानाद्धस्तिजाव(ति)कः ॥ १७ ॥ कुबेरः सर्वतोभद्रान्मुक्तकोणाद् धराधरः । एतेभ्योऽपि च संभूताः कनीयांसोऽभिधानतः ॥ १८ ॥ तद्भेदास्ते तदाकारैर्लक्ष्यैः स्वैः स्वैः पृथग्विधैः । भागैस्तेषूत्तमैः पूर्वान् मध्यमान् मध्यमस्तथा ॥ १९ ॥ कनीयसः कनीयोभिः प्रासादानुपकल्पयेत् । शिखरैरपरैः श्लिष्टाः प्रासादा जज्ञिरे ततः ॥ २० ॥ प्रथमो रुचकस्तेषु द्वितीयो वर्धमानकः । अवतंसस्तृतीयस्तु चतुर्थो भद्र उच्यते ॥ २१ ॥ १ ॰प्याकस्व॰ । २ द. द्रा । ३ द. ता । ४ द. क्षा ।

२९४ समराङ्गणसूत्रधारे पञ्चमः सर्वतोभद्रः षष्ठः स्यान्मुक्तकोणकः । मेरुर्मन्दर इत्यष्टौ विज्ञेयाः शिखरोत्तमाः ॥ २२ ॥ चतुरश्राः समाख्याता देवानामालयाः शुभाः । एते ते वंशजाः सर्वे निवेश्या ब्रह्मजातयः ॥ २३ ॥ वैराजकुलसंभूताः प्रासादाः परमोत्तमाः । एतेभ्योऽन्येऽपि संभूताः पुत्रपौत्रप्रपौत्र्य(जा)ः ॥ २४ ॥ स्ववंशाः सुपरिवाराः परवंशविवर्जिताः । कर्तव्या भूतिकामेन तेजसा शुभलक्षणाः ॥ २५ ॥ नन्दका वर्धनाश्चैव सर्वकामफलप्रदाः । हृष्टपुष्टजनाकीर्णाः पूजासंस्कारवर्धनाः ॥ २६ ॥ यदि हीना भवन्त्येते परवंशेन दूषिताः । तदुद्वेगं नृणां नित्यमर्थनाशं कुलक्षयम् ॥ २७ ॥ पीडां च स्वामिनः कुर्युर्यदन्यदपि गर्हितम् । तस्मादेते विधातव्या दूषिता नान्यजातिभिः ॥ २८ ॥ इति वैराजजातानामुत्पत्तिः परिकीर्तिता । वैराजजन्म सुरसद्मपरम्परेय- मुक्तेवमत्र शुभलक्ष्मवती समासात् । आनन्दकीर्त्तिधनधान्यकरी कृता स्या- दन्यादृशी पुनरनर्थफलैव कर्तुः ॥ २९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रासादजातिर्नाम द्विपञ्चाशोऽध्यायः ॥ अथ जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः । ब्रूमो जघन्यवास्तूनां द्वारमानमतः परम् । विस्तारं सतलोच्छ्रायं द्रव्यन्यासविधिं तथा ॥ १ ॥ १ द. ॰मन्दिर । २ द. ॰त्र्यजाः ॥ ३ द. तृ ।

जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः । २९५ कथिता ये निराधाराः प्रासादास्तिर्यगायताः । तेषां भागचतुष्केन गर्भवासं विभाजयेत् ॥ २ ॥ द्वारं सार्धेन भागेन कुर्वीत स्वार्धविस्तृतम् । द्वारविस्तारपादेन पेयाया विस्तृतिर्भवेत् ॥ ३ ॥ विस्तारार्धेन पिण्डः स्यात् तत्समः स्यादुदुम्बरः । सार्धमूलादुम्बरकः(?)शाखा व्यासवशाद् भवेत् ॥ ४ ॥ चतुर्विधश्च कर्तव्यः पेयापिण्डः प्रमाणतः । शाखा तु पेयापिण्डश्च(स्य) विस्तारेण विधीयते ॥ ५ ॥ शाखाविस्तारतो रूपशाखा स्यात् सार्धविस्तृतिः । अर्धेन पेयापिण्डस्य खल्वशाखा विधीयते ॥ ६ ॥ रूपशाखासमाः कार्या विस्तारात् तुङ्गशाखिकाः । तुङ्गाया बाह्यतः शाखाः क्रियन्ते यास्तु काश्चन ॥ ७ ॥ अष्टांशाभ्यधिकाः सर्वाः कर्तव्या विस्तरेण ताः । द्वारस्यायामविस्तारयोगात् सङ्ख्या भवेत् तु या ॥ ८ ॥ तलोदयस्य तन्मानं गर्भमण्डपयोः समम् । यदि भिन्नतलं कर्तुं मण्डपैः कश्चि हीयते(?) ॥ ९ ॥ द्वारोच्छ्रिते तद्गुणानां मण्डपे स्यात् तलोच्छ्रितिः । प्रासादेषु कनीयस्सु तलमानमुदाहृतम् ॥ १० ॥ षड्भागाभ्यधिकं ज्येष्ठे मध्येऽष्टांशाधिकं ततः । बलविधिः(?) समपदः प्रासादस्य विधीयते ॥ ११ ॥ नाधस्तात् स प्रयोक्तव्यो नोर्ध्वतश्चाप्युदुम्बरात् । कुम्भिकाभरणपट्टजयन्तीशीर्षकायफलकेषु तुला(नाम्) । उक्तं(मान)मिह यत् प्रथमं तन्नाधिकं प्रविदधीत न हीनम् ॥१२॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे जघन्यवास्तुद्वारं नाम त्रिपञ्चाशोऽध्यायः ॥ ४ द. सृ° । २ द. प । ३ द. द । ४ द. मुक्तमिह । ५ द. ना ।

३. द्वार, गवाक्ष, विमान व यंत्र-विधान (अध्याय ३६-५०)

२९६ समराङ्गणसूत्रधारे

अथ प्रासादद्वारमानादि नाम चतुष्पञ्चाशोऽध्यायः ।

इदानीमभिधास्यामः प्रासादानां यथाक्रमम् । द्रव्येषूदयविस्तारं बाहल्यं परिधिं तथा ॥ १ ॥ प्रासादभागिकोत्सेधं प्रासादद्वारमिष्यते । सत्त्र्यं शोच्छ्रितं वापि¹ सार्धांशोच्छ्रयमेव वा ॥ २ ॥ स्वीयस्वीयोदयादर्धविस्तारं च तदिष्यते । विस्तृतिभागतुर्यांशात् पेचायाः स्थौल्यमर्धतः ॥ ३ ॥ पेयाँबाहल्यविस्तीर्णा शाखा भवति मानतः । उत्तराङ्गानि कुर्वीत पेयाशाखासमानि तु ॥ ४ ॥ सपादपेचाविस्तारा रूपशाखा विधीयते । रूपशाखान्वितः कार्यः पीठबन्धस्तथोपरि ॥ ५ ॥ वृत्तं कार्यमधोवृत्ते पत्रकैश्च निरन्तरम् । स्तम्भाच्च द्विगुणव्यासं भरणं भूषणान्वितम् ॥ ६ ॥ रूपशाखासमं तच्च कर्तव्यमतिसुन्दरम् । ऊर्ध्वं समन्ताच्चाष्टांशमात्रे तच्चतुरश्रकम् ॥ ७ ॥ तदूर्ध्वं भरणोच्छ्रायः स्यात् पादोनसमुच्छ्रितिः । कपोतश्चाप्यधश्शीर्षगर्भः स च विधीयते ॥ ८ ॥ सरथालयपत्रो वा स्वोदयार्धविनिर्गमः । तस्योपरिष्टात् कर्तव्यं स्यादुच्छालयपत्रकम् (?) ॥ ९ ॥ रथिका (तु) विधातव्या द्वयोरप्युच्छ्रितिस्तयोः । सार्धप्रमाणभरणाद् भूषा स्यात् पुष्पकादिभिः ॥ १० ॥ रूपकैर्वा यथाशोभं स्तम्भिकाभिश्च सर्वतः । कण्टकोयत्रिभागेन(?) कूटाकारं भवेर्द्दतः ॥ ११ ॥


१ द. रि । २ द. ॰सं । ३ द. पेयाबाँ । ४ ख. द. थि । ५ द. ठा । ६ द. द ।

विभूषितं सिंहचक्रैर्हस्तिशुण्डैरथापि वा । कपोतादि विधातव्यमन्तरे रूपशाखयोः ॥ १२ ॥ कार्यं विषमसंख्यं च सर्वमेतद् विचक्षणैः । तस्माद् बहिर्विधातव्या सर्वतः परिमण्डली ॥ १३ ॥ अन्त्यशाखासमा सा^१ च प्रमाणेन विधीयते । तस्यां सद्धारशाखायां (प्रा)^२येशः पद्मपत्रिकाः ॥ १४ ॥ कार्यात्रा वाच(वा द्वार)शाखायास्तद्विस्तारसमुच्छ्रिताः । भवेदधस्तादर्धेन ग्रीवाया रसना तथा ॥ १५ ॥ ग्रीवया सार्धया तुल्यमन्तरं पत्रकाण्यधः । भागद्वयं प्रकुर्वीत जङ्घा त्र्यंशा ततोऽप्यधः ॥ १६ ॥ पेद्यापिण्डप्रमाणेने खल्वशाखा विधीयते । पेद्यापिण्डसमो बाह्यशाखान्यासः प्रकीर्तितः ॥ १७ ॥ क्रमेणानेन कर्तव्याः शाखाँः स्वल्पा यदृच्छया । न नवभ्यः परं कार्या द्वारशाखाः कथञ्चन ॥ १८ ॥ निर्गमो वा प्रवेशो वाँ विस्तारेण समन्वितः । पेद्याया यदि वार्धेन शाखानां स विधीयते ॥ १९ ॥ सार्धपेद्यापिण्डसमः पिण्डस्योदुम्बरो भवेत् । तलन्यासस्तदर्धेन भूमिरङ्गा च(ङ्गाञ्च) तत्समाँः ॥ २० ॥ उदुम्बरकपिण्डस्य मानात् सिंहमुखानि च । उदुम्बरात् पादहीनस्तुल्यो वाभ्यधिकोऽथवा ॥ २१ ॥ पट्टस्य पिण्डस्त्रिविधो विस्तारात् स्तम्भतोऽधिकः । भागपादैंसमस्तम्भो द्वादशांशं प्रपीडितः ॥ २२ ॥ भागद्वये च कर्तव्यो रूपलक्षणसंयुतः । चतुष्षष्टिप्रकारोऽयं नानारूपप्रपञ्चतः ॥ २३ ॥ १ द. स्ता । २ द. पश । ३ ख. द. ०ख्या शाखारतन्न यं । ४ ख. द. वा सविस्तारेण संमितः । ५ ख. र्धा । ६ द. उ । ७ क. मा । ८ क. ह । ९ ख. रस्त; द. र । १० ख. दः । वा. ३८