समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
३२८ समराङ्गणसूत्रधारे जङ्घास्य पञ्चभिर्भागैः पीठं चास्य तदर्धतः । विरण्ड्यर्धांशिकाद्विश्च (?) भागश्चान्तरपत्रयोः ॥ ७३ ॥ तथोत्सेधत्रिभागैश्च नवभिः शिखरोच्छ्रितः । कुम्भश्चामलसारश्च सिंहेऽस्मिन्द्रा (स्मिन् भा) गमाग(न)तः ॥७४॥ सिंहः ॥ चतुरश्रीकृते क्षेत्रे चतुर्भिर्भाजितैः पदैः । सीमाविस्तारमानेन रथांस्तस्य प्रकल्पयेत् ॥ ७५ ॥ पादेनैकेन निर्यातान् दिक्षु सर्वास्रनुक्रमात् । प्राग्ग्रीवान् पुनरस्यैव भागद्वितयविस्तृतान् ॥ ७६ ॥ पदषड्भागनिर्यातान् विदधीन चतुर्दिशम् । चतुर्भागायतो गर्भः कार्योऽस्य द्व्यंशविस्तृतः ॥ ७७ ॥ जङ्घोत्सेधश्च पीठं च यथा भद्रे तथा भवेत् । प्रासादो भवसंज्ञोऽयं देवतात्रितयाश्रयः ॥ ७८ ॥ भवः ॥ भवस्यैव यदा कुर्याद् रथान् संजलनिर्गमान् । द्विभङ्गं संश्रयोऽन्यः सा ( ? ) प्रासादो विभवाभिधः ॥ ७९ ॥ ( त्रिलिङ्गः ? ) अष्टधा भाजिते क्षेत्रे चतुरश्रे समन्ततः । विदध्याद् गर्भसूत्राणि कर्णसूत्राणि च क्रमात् ॥ ८० ॥ दिक्षूत्रेष्वखिलेष्वस्य सीमार्थं पदमेव च । पदस्याष्टादशो भागस्तद्योगाद् वृत्तमालिखेत् ॥ ८१ ॥ विस्तारार्धं भवेद् गर्भो गर्भार्धास्तस्य भित्तयः । तद्वृत्तबाह्यसूत्रेण भागान् षोडश कारयेत् ॥ ८२ ॥ दिक्सूत्रकर्णसूत्रेषु रथकान् सम्प्रकल्पयेत् । द्विभागा रथिका कार्या सलिलान्तरभूषिता ॥ ८३ ॥ सलिलान्तरमेतस्य श्रीवत्सस्येव कल्पयेत् । जङ्घोत्सेधे² च पीठे च शिखरं ( ? )³ च तथा भवेत् ॥ ८४ ॥ १ द. थ । २ द. धश्च पीठं च । ३ द. रतं ।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३२९ मालाधारः स विज्ञेयः सबाह्याभ्यन्तरः समः । मालाधरः ॥ मालाधरस्य संस्थाने यत् क्षेत्रं पूर्ववत् स्थितम् ॥ ८५ ॥ उदकान्तरविच्छिन्नं पद्मं तत्र निवेशयेत् । तथाग्रे कारयेत् कर्ण²व्यासाधैन विनिर्गमान् ॥ ८६ ॥ पद्मपत्रनिभाकारान् जातिशुद्धान् सलक्षणान् । पद्मः ॥ षड्भागनायते³ क्षेत्रे विस्तारे⁴ चतुरश्रके ॥ ८७ ॥ द्विभागौ⁵ विपुलो गर्भश्चतुर्भागायतो भवेत् । गर्भंवासमितं सूत्रं पदपादसमन्वितम् ॥ ८८ ॥ वृत्ताधं भ्रमयेत् तेन दक्षिणेनोत्तरेण च । सीमाविस्तारसूत्रेण पदपाद्युतेन च ॥ ८९ ॥ पुरतः पृष्ठतश्चापि तद्वृत्तमन्वर्तयेत् । वृत्तक्षेत्रमिदं तस्य भागैर्द्वादशभिर्भवेत् ॥ ९० ॥ द्विभागो भद्रविस्तारो भागिकी भागविस्तृतिः भद्राणां च रथान्मध्ये भागेनैकेन विस्तृताँ⁷( ? ) ॥ ९१ ॥ उदकान्तरकं चात्र मालाधरवदाचरेत् । वृत्तायतस्तु कर्तव्यः प्रासादो मलयाभिधः ॥ ९२ ॥ मलयः ॥ मलयस्यैव कर्णेषु रथिकांन् यदि कल्पयेत् । ¹⁰उदकान्तरविच्छिन्नान् पदषड्भागनिर्गतान् ॥ ९३ ॥ पीठोत्सेधश्च जङ्घा च शिखरं चात्र यद् भवेत् । एकमात्रौसमायुक्तं लतिनाँ¹² ते(?) प्रतीयते(न्तर्विधीयते ) ॥ ९४ ॥ ¹³त्र्यंमाशा(त्र्यश्रा)णां चतुरश्राणां कोणेष्वर्धपरिक्षयात् (?)। अष्टाश्रं जायते यत्र वाजाग्रमपि तां नरम् (?) ॥ ९५ ॥ १ द. ध । २ द. कर्णा न्यां । ३ द. ता । ४ द. रा । ५ द. ग । ६ द. वृत्तार्ध...वृत्तमन्व- र्तयेत् । प्रतौ नास्ति । ७ द. नाः । ८ द. भवेत् । ९ द. थ । १० द. उदकान्तरविच्छिन्नान्...चात्र यद् भवेत् पुस्तके नास्ति । ११ द. न । १२ द. ललिनां तद्विधीयते । १३ द. प्रासादः सर्वकामार्थः भुक्तिमुक्तिप्रदायकः...सपादमिहधारयेत् । प्रति पाठः । वा. ४२
३३० समराङ्गणसूत्रधारे अष्टाश्रं चतुरो भागान् विदध्यात् तत्र भागिकी । भित्तिर्विधेया भागाभ्यां भवेद् गर्भगृहं ततः ॥ ९६ ॥ रथिकासु विधेयोऽस्य परितो जलनिर्गमः । वज्रको नाम कथितः प्रासादः शुभलक्षणः १ ॥ ९७ ॥ वज्रकः ॥ वज्रकस्यैव संस्थाने सलिलान्तरवर्जिते । चत्वारिंशद्भागभक्ते रथिकाः स्युस्त्रिभागिकाः ॥ ९८ ॥ अष्टासु दिक्षु कर्णाश्च भवन्त्यस्य द्विभागिकाः । कर्णैः ३ पद्मकतुल्योऽयं स्वस्तिकः समुदाहृतः ॥ ९९ ॥ स्वस्तिकः ॥ वज्रकस्यैव संस्थाने ये रथाः प्राक् प्रदर्शिताः । एकैकस्तेषु कर्तव्यश्चतुरश्चतुरोऽंशकान् ॥ १०० ॥ भागद्वयेन मध्यः स्याद् रथकोशाद् विनिर्गतः । शङ्कुर्नामायमुद्दिष्टः प्रासादोऽष्टाभिरश्रिभिः ॥ १०१ ॥ शङ्कुः ॥ चतुरश्राः षोडश प्रोक्ताश्चतुरश्रायतद्वयम् ( ? ) । वृत्तवृत्तायतौ द्वौ द्वावुक्ताश्चाष्टाश्रयस्त्रयः ॥ १०२ ॥ पञ्चविंशतिरित्येते प्रासादा ललिताः स्मृताः । मिश्रकाणामथ ब्रूमो लक्षणानि यथाक्रमम् ॥ १०३ ॥ भद्रकस्यैव संस्थाने भद्रे शृङ्गं यदा भवेत् । सुभद्रो नाम ( ? )संज्ञोऽयं कर्णकूटैः करीद्यसौ ( ? ) ॥ १०४ ॥ पूर्वोक्तस्य यदा शृङ्गं भद्रं केसरिणो भवेत् । लतारूढ्योक्तं ( ? ) तदा स स्यात् सर्वतोभद्रसंज्ञितः ॥ १०५ ॥ भद्रे शृङ्गं परित्यज्य सिंहं तत्रैव कारयेत् । मिश्रयोगे तयोर्मिश्रः स भवेत् सिंहकेसरी ॥ १०६ ॥
१ द. ॰दोऽयं सुलक्षणः । २ द. थ । ३ द. ॰र्णे । ४ द. ॰शांह्रिनि॰ । ५ द. शो । ६ द. तं । ७ द. ॰दाः ललिनः स्मृ॰ । ८ द. क्रिरीद्मसौ । ९ द. न । १० द. ॰गेन यो मिश्रः ।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३३१ श्रीवत्सस्यैव संस्थाने भद्रे¹ कूटं निवेशयेत् । कर्णे तनैव योगेन प्रतिशृङ्गोपशोभितम् ॥ १०७ ॥ कलशैः सप्तदशभिः पद्मघण्टामलैः सह । स चे² त्रिकूट इत्युक्तो विचित्रशिखरान्वितः ॥ १०८ ॥ कर्णे भद्रे प्रतिस्थाने पूर्णे³ शृङ्गे यदा भवेत् । अण्डकैः सप्तदशभिस्तदा स्यात् स धराधरः ॥ १०९ ॥ श्रीवत्सस्यैव संस्थाने कर्णे कूटं निवेशयेत् । शृङ्गं भद्रो⁴ + भद्रे च तदा तिलक उच्यते ॥ ११० ॥ यथा कर्णे तथा भद्रे यो भवेच्चित्रकूटवत् । उत्तमाङ्गे⁵ च यस्तद्वत् स स्यात् सर्वाङ्गसुन्दरः ॥ १११ ॥ प्रतिशृङ्गेषु सर्वेषु यदा कूटं निवेश्यते । मिश्रकः स तु विज्ञेयः श्रीनाम्ना चान्तिकोऽन्तिकः ॥ ११२ ॥ सर्वे कूटावृताः कार्याः सर्वे कार्याश्चतुर्मुखाः । मिश्रका बहुशृङ्गाश्च कुटीसंज्ञास्ततोऽपरे ॥ ११३ ॥ इदं नवानां मिश्राणामिह लक्षणमीरितम् । साधारणमतः स्पष्टं ब्रूमः सम्प्रति लक्षणम् ॥ ११४ ॥ चतुरश्रीकृते क्षेत्रे भागाष्टकविभाजिते । तस्य मध्ये भवेद् गर्भो द्विभागो देवालयः ॥ ११५ ॥ भागे निवेशयेद् भित्तिं कुर्याद् भागेन कारिकाम् । बाह्यंभित्ति पुनर्भागे विधेयास्तस्य सिद्धये (?) ॥ ११६ ॥ तस्य कर्णेषु कर्तव्या रथिकाश्च द्विभागिकाः¹² । शेषं भद्रं प्रकर्तव्यमुदकान्तरभूषितम् ॥ ११७ ॥ भागेन निर्गतं दिक्षु सर्वास्वेवं¹³ भवेद् विधिः । चतुर्भागोच्छ्रिता जङ्घा करकश्च तदर्धतः¹⁴ ॥ ११८ ॥
१ द. भटे । २ द. चित्र । ३ द. वे । ४ द. भद्रोपभद्रे च । ५ द. ष्टैव । ६ द. यथा । ७ द. ष्भ्रतिलकोङ्कितः । ८ द. सांवाराणामथ । ९ द. न्तिः कुर्याद्भागेन कारिका । १० द. बाह्यां- भित्तिः । ११ द. त । १२ द. विभागिका । १३ द. स्वेष्विति । १४ द. कुं° । १५ द. तः ।
वरण्ड्यन्तरपत्रं च भागेनैकेन कल्पयेत् । रथिकैकान्तरं तस्य सार्धभागत्रयोच्छ्रिताः(?) ॥ ११९ ॥ षड्भागे शिखरं मूले शेषांशकसमुच्छ्रितम् । तस्योच्छ्रयं त्रिधा कृत्वा वेणुकोशं समालिखेत् ॥ १२० ॥ स्कन्धकोशान्तरं तस्य चतुर्था विभजेत् ततः । पद्मशीर्षं तथा ग्री(वां) सार्धेनांशेन कारयेत् ॥ १२१ ॥ कुर्याद् भागेन भागेन कुम्भं^२ चामलसारकम् । भागाधेन प्रकुर्वीत तदूर्ध्वं बीजपूरकम् ॥ १२२ ॥ ^३प्रासादः कैसरी नाम सर्वतः सन्ततिप्रियः । कैसरी ॥ चतुरश्रं समं कृत्वा भूमिभागं विचक्षणः ॥ १२३ ॥ प्रासादो^(४ द)व्यासतः कुर्याज्जगतीं द्विगुणामिह । विदध्याज्जगतीपीठं प्रासादार्धसमुच्छ्रितम् ॥ १२४ ॥ पीठस्योपरि संस्थाप्य प्रासादं विभजेत् ततः । सर्वतोभद्रसंस्थानं हस्तसंख्या यदा^७ भवेत् ॥ १२५ ॥ हस्तैः सप्तत्रिंशता तु ज्येष्ठः सार्धै(?) उदाहृतः । मध्यमः सप्तविंशत्या प्रासादेः^९ स्यात् कलाधिकैः ॥ १२६ ॥ कनीयान् पञ्चदशभिः प्रासादः समुदीरितः । तैलच्छन्दो^१० यदा ह्येषां तथा चैवोर्ध्वतो गतिम् ॥ १२७ ॥ ज्येष्ठमध्यकनिष्ठानां तथा सम्यङ् निगद्यते । चतुरश्रीकृते क्षेत्रे शतमूलविभाजिते ॥ १२८ ॥ न्यसेत् तन्मध्यतो गर्भं चतुर्वर्गपदान्वितम् । गर्भपादेन^१२ भित्तिः स्यात् तद्वदेवान्धकारिका ॥ १२९ ॥ बाह्यभित्तिस्तथवां^१३(थैव) स्याद् देशाशास्युर्द्विभागिका(?)^१४ । प्रतिवर्णपदांशेन(?) षोडशेन^१५ जलान्तरम् ॥ १३० ॥
१ द. सा च भां° । २ द. कुंभमामं° । ३ द. प्रासादः केसरी नाम पार्वत्या सततप्रियः । ४ द. के° । ५ द. °दं । ६ द. उज । ७ द. यथा । ८ द. सार्द्धेरु° । ९ द. दा । १० द. तद्च्छंद्यो यथा चैवोर्द्धतो गतिः । ११ द. क् । १२ द. °र्भा । १३ द पुस्तके पाठः नास्ति । १४ द. द्वयिका । १५ द. °षु ।
रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३३३ शेषं भद्रं(?)प्रकर्तव्यं गर्भार्धेन विनिर्गतम् । भागार्धं क्षोभयेत् पार्श्वे निर्गमं च तथाचरेत् ॥ १३१ ॥ शेषः स्याद् भद्रविस्तारः पञ्चभागायतस्तथा । पीठं तस्यैव कर्तव्यं सार्धद्वयसमुच्छ्रितम् ॥ १३२ ॥ द्विगुणां च तथा जङ्घामुच्छ्रायेणास्य कल्पयेत् । मेखलामर्धभागेन भागेनान्त(र)पत्रकम् ॥ १३३ ॥ प्रथमा रथिका तत्र कार्या भागत्रयोच्छ्रिता । द्वितीया रथिका या सा सार्धभागेन चोच्छ्रिता ॥ १३४ ॥ भागे भागेऽन्तरं कार्यमुपर्य्युपरि चोभयोः । षड्भागान् विस्तृतं कुर्याच्छिखरं सप्तमोच्छ्रितम् ॥ १३५ ॥ एवं भूमिभिरष्टाभिः कुर्यादेनं विचक्षणः । जलनिर्गमविच्छिन्ना रथाः प्रतिरथास्तथा ॥ १३६ ॥ चतुर्गुणैः पृथक्सूत्रं (त्रैः) पद्मकोशं समालिखेत् । मञ्जरी ललिता कार्या नीलोत्पलदलाकृतिः ॥ १३७ ॥ ग्रीवा चैकार्धभागेन(भागेना)मलैसारकम् । पद्मशीर्षं च कर्तव्यं ग्रीवामानेन धीमता ॥ १३८ ॥ सार्धभागेन सोष्णीषः पद्मस्योपरिकुम्भकः । सर्वतोभद्र इत्युक्तो रेथीनानाम्(?) एष शेखरः ॥ १३९ ॥ विधाय सर्वतोभद्रं देवानामालयं शुभम् । लभते परमं लोकं दिवि स्वच्छन्दभाषितम् ॥ १४० ॥ सर्वतोभद्रः ॥ चतुरश्रीकृते क्षेत्रे दशधा प्रविभाजिते । व्यासपादेन गर्भस्तं (स्यात् त)दर्धादन्धकारिका ॥ १४१ ॥ १ द. °र्धे । २ द. °तिः । ३ द. प्रतिमा । ४ द. सार्धभागद्वयोच्छ्रिता । ५ द. भागं भागोत्तरं । ६ द. चैतयोः । ७ द. च्छ्रितं । ८ द. चो । ९ द. रथो प्रतिरथस्तथा । १० द. प्रतौ नास्ति । ११ द. वा । १२ द. र । १३ द. रथिनामेष शेपरः । १४ द. कारिणं । १५ द. स्थस्तदर्थाभ्यन्धकारिकाः ।
३३४ समराङ्गणसूत्रधारे
जङ्घा स्कन्धश्च तं कर्ण(?) भद्रं चाप्यस्य यद् भवेत् । सर्वतोभद्रवत् सर्वं तद् विधेयं चतुर्दिशम् ॥ १४२ ॥ तस्य भद्राणि सर्वाणि भित्तिभिः परिवेष्टयेत् । भद्रे भद्रे पुनश्चास्य वर्धमानं निवेशयेत् ॥ १४३ ॥ पञ्चभागास्तथा सार्धाः शिखरस्योदयो भवेत् । सर्वतोभद्रकाकारा रथिकांश्चात्र कारयेत् ॥ १४४ ॥ कुर्यात् षडंशो विस्तीर्णशिखरं प्र+धोच्छ्रितम्(?) । सर्वतोभद्रसंस्थानादेशां चास्वत्र योजयेत्(?) ॥ १४५ ॥ ग्रीवा चामलसारं च कुम्भश्चापि तथा भवेत् । प्रासादो नन्दनो नाम कर्तव्यो देवातालयः ॥ १४६ ॥ कृतेऽस्मिन् नन्दति स्वामी दुरितानि च निर्दहेत् । नन्दनः ॥ भक्ते द्वादशधा क्षेत्रे चतुरश्रीकृते ततः ॥ १४७ ॥ सप्तवर्गपदो^७ गर्भो भित्त्या सह विधीयते । सपादपादिकां भित्तिगर्भे(?)कुर्याद् विचक्षणः ॥ १४८ ॥ बाह्यभित्तिश्च तद्वत् स्यात् तद्वच्चाप्यन्धकारिकां । पीठोच्छ्रयस्तथा जङ्घा कर्णेषु रथिकाश्च यांः ॥ १४९ ॥ सर्वतोभद्रकाकारान्मूलकर्णांश्च योजयेत् । एकैकां रथिकां चान्यां विन्यसेत् पक्षयोर्द्वयोः ॥ १५० ॥ चतस्रो रथिकाश्चैवं कर्णे कर्णे निवेशयेत् । शेषो भद्रस्य विस्तारः स्वविस्तारार्धनिर्गतः ॥ १५१ ॥ भूषयेत् सिंहकर्णैश्च भद्रव्यासार्धमुन्नतैः । विन्यसेच्छिखरं तत्र भागैर्विस्तृतमष्टभिः ॥ १५२ ॥ चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् । स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् ॥ १५३ ॥
१ द. जंघा स्कंधश्च भद्रं वा......प्यस्य । २ द. पुनः स्वास्य । ३ द. रतिका° । ४ द. °शान् विस्तीर्णं शिखरं सप्त वोच्छ्रितम् । ५ द. °ना प्रपां चाम्य प्र° । ६ द. निर्हरेत् । ७ द. °प्रदो । ८ द. °कां मित्तिं गर्भे । ९ द °काः । १० द. या । ११ द. °की । १२ द. विन्यासात् । १३ द. स्तु । १४ द. समुच्छ्रित तद्दशाभिर्विधेयमतिसुन्दरम् । चतुर्गुणेन...।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३३३ ग्रीवार्धभागिकोत्सेधा (द्वि?) भागेनामलसारकः । पद्मशीर्षं तथाऽर्धेन¹ भागेन कलशः स्मृतः ॥ १५४ ॥ त्रिपादौ² रथिकास्तिस्र उच्चायेण प्रकीर्तिताः³ । सर्वतोभद्रकाकारो नन्दिशालः प्रकीर्तितः ॥ १५५ ॥ नन्दिशालः ॥ नँन्दिशालस्य संस्थाने तद्रूपे समवस्थिते । तस्य भद्राणि सर्वाणि भित्तिभिः परिवेष्टयेत् ॥ १५६ ॥ भद्रे भद्रे तस्यै तस्य वर्धमानं निवेशयेत् । अर्धषष्ठांस्तथा भागान् स्याद् भद्रशिखरोच्छ्रयः ॥ १५७ ॥ पीठोच्छ्रायं च जङ्घां च तथास्य शिखरोच्छ्रयम् । नन्दिशालसमाकारं सर्वमेव प्रकल्पयेत् ॥ १५८ ॥ कार्योऽयं सर्वदेवानां प्रासादो नन्दिवर्धनः । नन्दिवर्धनः ॥ नन्दिवर्धनसंस्थानं पूर्ववत् परिकल्पयेत् ॥ १५९ ॥ उभयोः कर्णयोर्मध्ये ये तत्र रथिके स्थिते¹¹ । तयोश्चोपरि कर्तव्यं शिखरं लक्षणान्वितम् ॥ १६० ॥ षडंशाविस्तृतं चैतत्¹² सार्धषट्कसमुच्छ्रितम् । चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ॥ १६१ ॥ ग्रीवा चामलसारं च कुम्भकस्याँश्रयो भवेत् । कार्यः स सर्वतोभद्रसंस्थान इति निश्चयः ॥ १६२ ॥ मन्दिरोऽयमिति ख्यातः¹⁴ प्रासादः क्षितिभूषणः । मन्दिरः ॥ नन्दिवर्धनसंस्थाने तद्रूपसमवस्थिते ॥ १६३ ॥ १ द. ऽर्धस्तदार्धेन । २ द. त्रिपदा रथिकास्तत्र । ३ द. तः । ४ द. अयं श्लोकः पुस्तके नास्ति । ५ द. ऽर्थे । ६ द. ष्टा । ७ द. यां । ८ द. ऽर्धं । ९ द. प्रतौ नास्ति । १० द. ने । ११ द. ता । १२ द. व सार्धं । १३ द. ऽर्कश्चास्य यो । १४ द. मिति प्रोक्तः प्रां ।
३३६ समराङ्गणसूत्रधारे दिक्सूत्रे कर्णसूत्रे च (कुम्भ ?)+ रथिकाष्टकम् । रथिका अपि चैताः स्युर्द्विभागायतविस्तृताः ॥ १६४ ॥ षड्भागविस्तृतिश्चास्य शेषं शिखरमाचरेत् । उच्छ्रयश्चास्य कर्तव्यो भागानां सार्धसप्तकम् ॥ १६५ ॥ षड्भागैः स्कन्धविस्तारो ग्रीवा चास्य द्विभागिका । रेखा चामलसारं च कलशश्चात्र यो भवेत् ॥ १६६ ॥ सर्वतोभद्रवत् स स्याच्छ्रीवृक्षोऽयमुदाहृतः । श्रीवृक्षः ॥ चतुरश्रीकृते क्षेत्रे चतुर्दशविभाजिते ॥ १६७ ॥ द्विभागविस्तृताः कर्णा रथिकास्तेषु कारयेत् । उदकान्तरविच्छिन्ना मूलकर्णेषु योजयेत् ॥ १६८ ॥ शेषं भद्रस्य विस्तारस्तदर्धमपि निर्गमः । सर्वतोभद्रमप्यस्य भद्रे भद्रे विभज्य च ॥ १६९ ॥ पूर्वैर्गुणैस्तु संयुक्ते चतुर्दिक्षु निवेशयेत् । तस्य गर्भस्तु कर्तव्यः (पदापैष्ठक ?) विस्तृतः ॥ १७० ॥ सार्धभागप्रमाणः स्याद् भित्तिर्गर्भस्य मध्यतः । बाह्यभित्तिस्तथैवास्य शेषं भ्रमणमाचरेत् ॥ १७१ ॥ जङ्घाषड्भागमुत्सेधात् पीठं तस्य तदर्धतः । वरण्डीना(म)न्तरं पत्रं भागेनैकेन कारयेत् ॥ १७२ ॥ रथिकाद्वादशविस्तारानुपर्युपरि योजितां(?) । तिस्रस्तिस्रो निवेशाः (श्याः) स्युः कर्णे कर्णेत(य)थाक्रमम् ॥ १७३ ॥ प्रथमा रथिकास्तस्यै कुर्याद् भागत्रयोच्छ्रिताः । कुर्यादु(पर्यू)पर्यन्याः पादपादविवर्जिताः ॥ १७४ ॥ १ द. कुर्वीत रथकाष्टकं । २ द. ग । ३ द. पुस्तके नास्ति । ४ द. मिति । ५ द. पदाष्टाष्टक वि°। ६ द. गे। ७ द. प्रतौ नास्ति। ८ द. थ। ९ द. उ। १० द. ताः। ११ द. शास्या कर्णे कर्णे यथा°। १२ द. त्र। १३ द. ज्झिताः।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३३७ अष्टभिर्विस्तृतं भागैः सार्धैर्नवभिरुच्छ्रितम् । सर्वतोभद्रकाकारं शिखरं तस्य कारयेत् ॥ १७५ ॥ प्रासादोऽयं विमानाख्यः प्रख्यातश्चामृतोद्भवः । विमानेः ॥ द्विसप्तायामविस्तारं हिमवन्तं विभाजयेत् ॥ १७६ ॥ चतुर्धा रथिकास्तत्र कर्णे कर्णे निवेशयेत् । द्विभागविस्तृताः सर्वा उपर्युपरि कारयेत् ॥ १७७ ॥ प्रथमा भूमिका तस्य स्याच्च भागत्रयोच्छ्रितां । पादपादविहीनास्तु क्रमणोपरिभूमयः ॥ १७८ ॥ नन्दिशालगुणैर्युक्तं शिखरं चात्र कारयेत् । सर्वतोभद्रवन्मध्ये भूमिकाश्च समाचरेत् ॥ १७९ ॥ द्विभागाँ रथिकास्तस्य सर्व(र्वा) भागत्रयोच्छ्रिताः । द्वितीयभूमि(कां ?)रथिका भूम्यंशं(च्छा)येण कारयेत् ॥ १८० ॥ शिखरस्योच्छ्रयः कार्यः सपादव्यासैसंमितः । अमृतोद्भववज्जङ्घा पीठं चात्र तथा भवेत् ॥ १८१ ॥ जातिशुद्धो भवत्येष हिमवान् भुवनोत्तमः । हिमवान् ॥ हिमाचलस्य संस्थाने तद्रूपे समवस्थिते ॥ १८२ ॥ तस्य भद्रेषु सर्वेषु वर्धमानं च योजयेत् । भागषट्कप्रविस्तारं तदर्धेन विनिर्गतम् ॥ १८३ ॥ भागैः सप्तभिरप्यस्य सार्धैः स्याच्छिखरोच्छ्रयः । शिखरस्याग्रतः स्तम्भः(म्भं)सिंहकर्णे वि(र्गैर्वि)भूषयेत् ॥१८४॥ १ द. प्रतौ नास्ति । २ द. चतस्रो रथिं । ३ द. इ । ४ द. म्यान्म । ५ द. ताः । ६ द. पदे पदे वि° । ७ द. ग । ८ द. प्रतौ नास्ति । ९ द. प्रतौ नास्ति । १० द. प्रतौ नास्ति । ११ द न्या । १२ द. भ । १३ द. स्तंभं हंसकर्णे विभू° । वा. ४३
३३८ समराङ्गणसूत्रधारे। दिक्सूत्रैरस्य सर्वेषु क्रियां प्राग्वत् प्रकल्पयेत् । जङ्घोच्छ्सेधश्च२ कर्णश्च शिखरं चास्य यद् भवेत् ॥ १८५ ॥ हिमवत्सदृशं सर्वं विधेयं तद् विजानता । हेमकूट इति ख्यातः प्रासादोऽयं जगत्त्रये ॥ १८६ ॥ एष त्रिमूर्तिनिलयः कार्यो नान्यस्य कस्यचित् । हेमकूटः ॥ ३हिमवत्तुल्यसंस्थानं४ प्रासादं५ परिकल्पयेत् ॥ १८७ ॥ तस्य६ मध्ये विधातव्यः सर्वतोभद्रसंज्ञितः । वर्जनीयं तु तन्मध्ये वर्धमानं७निवेशनम् ॥ १८८ ॥ ततः स्थानेषु सर्वेषु खण्डरेखां निवेशयेत् । व्यासोच्छ्रितैस्ततः सिंहकर्णैर्भद्रं विभूषयेत् ॥ १८९ ॥ ऊर्ध्वं च शिखरं तस्य वर्जनीयं विचक्षणैः । द्वे द्वे च रथिके कार्ये सपादांशकोच्छ्रिती८ ॥ १९० ॥ तयोश्चोपरि विस्ताराच्छिखरं चतुरश्रकम् । उच्छ्रयः पञ्चभिः सार्धैर्विधेयः शिखरस्य च ॥ १९१ ॥ दिक्सूत्रेषु ९च सर्वेषु क्रियामेवं प्रकल्पयेत् । बाह्यरेखा १०तु जङ्घा च हिमवत्सदृशी स्मृता ॥ १९२ ॥ कैलासोऽयमिति ख्यातः कर्तव्यः शूलपाणये । कैलासः ॥ एतस्यैव यदा भद्रमुच्छ्रितं११ सिंहकर्णकैः ॥ १९३ ॥ द्वे द्वे च रथिके तत्र दीर्ये(ये)ते १२सुमनोरमे । शेषैः१४ शिखरविस्तारः पञ्चभागसमुच्छ्रितः ॥ १९४ ॥ प्राग्ग्रीवकाश्च भद्रेषु भागै१६भागविनिर्गताः । विस्तारेण चतुर्भागा दिक्षु सर्वास्वयं विधिः ॥ १९५ ॥ १ द. दिक्सूत्रेष्वस्य सर्वेषु । २ द. ॰धस्य कर्णस्य । ३ द. हे । ४ द. ने । ५ द. ॰दे परि- कल्पिते । ६ द. तस्या । ७ द. नं । ८ द. खां । ९ द. ते । १० द. प्रतौ पाठः नास्ति । ११ द. च । १२ द. जितं शंख । १३ द. पुस्तके नास्ति । १४ द. स । १५ द. ष । १६ द. गं । १७ द. स्त ।
रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३३२ विमानसदृशी चास्य बाह्यलेखा विधीयते । गुणैरेभिस्तदा युक्तः प्रासादः पृथिवीजयः ॥ १९६ ॥ पृथिवीजयः ॥ भक्ते षोडशभिः क्षेत्रे चतुरश्रे समन्ततः । गर्भोऽष्टवर्गः स्यात् तस्य मध्ये भित्तिर्द्विभागिका ॥ १९७ ॥ भ्रमणं बाह्यभित्तिंश्च तत्समे एव कीर्तिते³ । कर्णेषु रथिका कार्या सलिलान्तरभूषिताँ ॥ १९८ ॥ तत्तुल्यायामविस्तारा रथिकाः स्युस्तथापराः । तद्भूत् तृतीयरथिका भद्रं चतुष्पदायतम् ॥ १९९ ॥ विस्तारार्धेन निष्क्रान्तं क्षोभयेद् वर्धमानतैः । ⁶वरण्ड्यन्तरपत्रे च सार्धे( र्ध )भागेन कारयेत् ॥ २०० ॥ उपर्युपरि भांगान् हि हीनाः स्युः क्रमशोभवः (?) । भद्रे रथिकयोर्मध्ये सिंहकर्णो⁹ विधीयते ॥ २०१ ॥ एतस्य चोच्छ्रयो भागैः पञ्चभिः परिकीर्तितः । पार्श्वस्थे सिंहकर्णस्थंरथिके ये निवेशिते ॥ २०२ ॥ तयोरुपरि षड्भागं विस्तृतं शिखरं भवेत् । विधेयमुच्छ्रयेणैतत् त्रिं¹¹भागान् सप्ताथ(प्रै¹⁴)वाधिकान् ॥ २०३ ॥ पक्षयोरुभयोस्तस्य रथिके (चैं¹³) तदूर्ध्वतः । सिंहं निवेशयेद् दिक्षु निखिलाखप्ययं विधिः ॥ २०४ ॥ मूलकर्णे ततश्चार्धं शिखरं दशविस्तृतम् । एकादशोच्छ्रितं कार्यं क्रमवृत्त्या मनोरमम् ॥ २०५ ॥ चतुर्गुणेन सूत्रेण वेणुकोशं ततो लिखेत् । पूर्वोक्ता सांतरंभागेरमुष्या(?) विभजेत् त्रिभिः ॥ २०६ ॥
१ द. पुस्तके पाठः नारित । २ द. तेस्तु । ३ द. के( की )र्च्यते । ४ द. ताः । ५ द. कः । ६ द. इतः पूर्वं-चतुरुष्वपि चाशासु विधातव्यो विधिर्बुधैः । अष्टभागोच्छ्रिता जंघा खुरकश्च तदर्द्धतः ॥ पुस्तकस्य अधिकः पाठः । ७ द. भागांह्रीहीँ । ८ द. भुवः । ९ द. र्णौ । १० द. ०र्णस्तु रथिको । ११ द. पुस्तके नास्ति । १२ द. पुस्तके नास्ति । १३ द. ०के ये तं । १४ द. श्चोर्द्धं । १५ द. ०ध्या । १६ द. ०क्तास्यांतरं भागैरमुष्य वि० ।
३४० समराङ्गणसूत्रधारे ग्रीवार्धभागमुत्सेधादण्डकं भागमुच्छ्रितम् । पद्मशीर्षं तथार्धेन कलशश्चांशकोदयः ॥ २०७ : देवानाम्यालयः स स्यादिन्द्रनीलोऽयमीरितः । इन्द्रनीलः ॥ एतस्यैव यदोर्ध्वस्थं शिखरं क्रियतेऽन्यथा ॥ २०८ ॥ चतुर्थी रथिका चास्य दीयतेऽतिमनोरमा । पूर्वोक्तेन विधानेन पादं वि³ + + वर्जिता ॥ २०९ ॥ शिखरस्याष्टंविस्तारो नव भागास्तथोच्छ्रयः । इन्द्रनीलस्य सदृशं शेषमन्यद् विधीयते ॥ २१० ॥ महानीलोऽयमाख्यातः प्रासादस्त्रिदशालयः । महानीलँः ॥ इन्द्रनीलस्य संस्थाने दिक्सूत्रेषु समन्ततः ॥ २११ ॥ सर्वतोभद्रशिखरं हित्वा (हो⁷+?)निवेशयेत् । विधिरेष समस्तासु ककुप्सु प्रविधीयते ॥ २१२ ॥ भद्रेषु वर्धमानस्य विन्यासं परिवर्जयेत् । व्यासोच्छ्रितैः सिंहकर्णैर्भद्रमस्य विभूषयेत् ॥ २१३ ॥ महानीलस्य सदृशं सर्वमस्य प्रकल्पयेत् । इन्द्रगोपनिभाकारः प्रासादो भूधरः स्मृतः ॥ २१४ ॥ सुरेश्वरस्य कर्तव्यो नान्येषां कथमप्यसौ । भूधरः ॥ भूधरस्य तु संस्थाने तद्रूपे समवस्थिते⁹ ॥ २१५ ॥ भद्रे¹¹ भद्रे पुनः प्राज्ञो वर्धमानं निवेशयेत् । चतुर्भागमितैर्व्यासं सार्धचतुःसमुच्छ्रितम् ॥ २१६ ॥
१ द. म्यणि । २ द. माः । ३ द. पादपादविवर्जिताः । ४ द. थ। ५ द. भागे तथो° । ६ द. प्रतौ नास्ति । ७ द. हित्वा सिंहो निवेश्यते । ८ द. मन्यत् । ९ द. ता । १० द. °तौ । ११ द. भद्रेषु न प्रा° । १२ द. ति न्यासं सार्ध ।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३४१ रत्नकूटः समाख्यातः प्रासादः श्रीपतेरयम् । रत्नकूटः ॥ चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते१ऽंशकैः ॥ २१७ ॥ कुर्याद् विभागविस्तारौ२ रथिकाः पञ्च कर्णगाः । पञ्चोपरि पुनः पञ्च दद्यादेकां तदूर्ध्वतः ॥ २१८ ॥ प्रथमा भूमिका चास्य कार्या भागत्रयोच्छ्रिता३। पादपादविहीनास्तु क्रमेणापरभूमयः ॥ २१९ ॥ भद्रकर्णान्तरस्थे४ द्वे रथिके ये तदूर्ध्वतः । शिखरं दशविस्तारं कुर्यात् सार्धदशोच्छ्रितम् ॥ २२० ॥ मूलकर्णानुसारेण शिखरं तत्र यद्५ भवेत् । तस्य द्वादशविस्तारं त्रयोदशसमुच्छ्रितम् ॥ २२१ ॥ भद्रं विभूषयेत् पत्रैः६ सिंहकर्णैर्मनोरमैः७। पञ्चव्यासेन सूत्रेण वेत्रकोशं समालिखेत् ॥ २२२ ॥ स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् । पद्मशीर्षं तथा ग्रीवां सार्धभागेन कारयेत् ॥ २२३ ॥ कुर्याद् भागेन भागेन कुम्भं चामलसारकम् । नवभागोच्छ्रितां जङ्घां तदधंस्वर९पिण्डकाम् ॥ २२४ ॥ वरण्ड्यन्तरपत्रं च कुर्याद् भागद्वयेन च । वैदूर्यो१०ऽयं समाख्यातः प्रासादो दानवद्विषः ॥ २२५ ॥ वैडूर्यः ॥ एतस्यैव८ यदा भद्रे भद्रे स्याद् वर्धमानकः । पद्मरागस्तथैवै११ स्याद् कार्योऽयं पद्मरागैः१२तः ॥ २२६ ॥ पद्मरागैः१३ ॥ पद्मरागस्य भद्रेषु वर्धमानं विवर्जयेत् । भद्रस्य पार्श्वद्वितये प्रदद्याद् रथिकाद्वयम् ॥ २२७ ॥ १ द. कं । २ द. रः । ३ द. ताः । ४ द. कर्णभद्रा० । ५ द. तत् स्याद्वा० । ६ द. ०द्रलैः । ७ द. हरैः । ८ द. एवं । ९ द. र्धखुरं० । १० द. डूं० । ११ द. ०दैष । १२ द. जन्मनाः । १३ द. पुस्तके नास्ति ।
३४२ समराङ्गणसूत्रधारे व्यासोच्छ्रायैश्च भद्राणि सिंहकर्णैर्विभूषयेत् । यदन्यदस्य तत् सर्वं पद्मरागसमं भवेत् ॥ २२८ ॥ वज्रकोऽयं समाख्यातो विधेयस्त्रिपुरद्विषः । वज्रकः ॥ वज्रकस्यैव भद्रेषु पूर्ववद् रथिकास्थितौ ॥ २२९ ॥ षड्भागविस्तृतं तत्र शिखरं विनिवेशयेत् । सप्तभागसमुत्सेधं दिक्षु सर्वास्र्वयं विधिः ॥ २३० ॥ मुकुटोज्ज्वल इत्युक्तः प्रासादोऽयं सुरालयः । मुकुटोज्ज्वलः ॥ अस्यैव तु यदा स्थाने भद्रे भद्रे चतुर्दिशम् ॥ २३१ ॥ सिंहकर्णं परित्यज्य वर्धमानो विधीयते । ऊर्ध्वाभवत्तृतीयायाः( ? ) सप्तोच्छ्रायैषडायताः ॥ २३२ ॥ ऐरावतोऽयं कर्तव्यः प्रासादस्त्रिदशेशसँतिः( शितुः ) । ऐरावतः ॥ ऐरावतस्य संस्थाने प्रासादे पूर्ववत् स्थिते ॥ २३३ ॥ वर्धमानं विहायोर्ध्वं यदा सिंहो निवेश्यते । शिखराणि च चत्वारि दिक्षु सर्वासु वर्जयेत् ॥ २३४ ॥ क्षेत्राया( ष्टामे ? )र्विस्तारं गर्भवेश्म निवेशयेत् । चतुर्भागायतं भद्रं निर्गमेण विभाजितम् ॥ २३५ ॥ भद्रत्रयं प्रयुञ्जीत भित्तिभागेन वेष्टितम् । द्वारोच्छ्रयं स(ख)विस्ताराद् व( द्वा )रार्धेन समुच्छ्रयः ॥ २३६ ॥ गवाक्षस्तत्र कर्तव्यो यथा द्वारं न लङ्घ्यते । मध्ये चतुष्किका कार्या द्विभागायामविस्तृता ॥ २३७ ॥ प्रासादो राजहंसोऽयं ब्रह्मादीनां प्रशस्यते । राजहंसः ॥ १ द. स्तु । २ द. ऊर्ध्व भवस्तृ˚ । ३ द. यः । ४ द. ˚शालयः । ५ द. माष्ट वि । ६ द. निक्रम् । ७ द. ˚च्छ्रायं सविस्तारा द्वा˚ । ८ द. ताः ।
रुचकादिचतुष्षष्टिप्रसादकः षट्पञ्चाशोऽध्यायः । ३४३ राजहंसस्य संस्थाने तृतीये'(य)रथिकोपरि ॥ २३८ ॥ यदोर(स्य)शिखरं सप्तसमुच्छ्रायं षडायसम् । स्यात् तदा गरुडो नाम गरुडध्वजवल्लभः ॥ २३९ ॥ प्रासादः सर्व† ³ + + + + + कारयितुस्तथा । गरुडः ॥ अस्यैव मूलशिखरं त्यक्त्वा भागद्वयोन्मितम् ॥ २४० ॥ क्रियन्ते रथिकाः पू⁴(क)र्णे तदूर्ध्वं मूलमञ्जरी । क्रियते द्वादशोच्छ्राये⁵(या) दशभागायता यदा ॥ २४१ ॥ तदा स्याद् वृषभो नाम वृषभध्वजवल्लभः । वृषभैः ॥ स(श)तार्धहस्तविस्तारं ज्येष्ठं मेरुं प्रकल्पयेत् ॥ २४२ ॥ मध्यमे हस्तसंख्या स्यात् (षट्त्र्यं द्विकालाधिकः?) । दशत्रिगुणितां (हस्ताभ्यां?)संख्या प्रोक्ता कनीयसि ॥ २४३ ॥ चतुरश्रीकृते क्षेत्रे भागविंशवि¹²(ति)भाजिते । विस्तारार्धं भवेद् गर्भगृहं¹³(र्भगृहं)भित्त्या समन्वितम् ॥ २४४ ॥ भागप्रमितविस्तारा गर्भभित्तिर्विधीयते । सार्धद्विभागान्या भित्तिस्तदूर्ध्वान्धकारिका( : ? ) ॥ २४५ ॥ द्विभागा रथिका कार्या कर्णे¹⁴ कर्णे विजानता । चतुर्भागा रथा भद्रेष्वेतदर्धेन (वि?)निर्गताँ¹⁵ ॥ २४६ ॥ भद्रकर्णान्तयोः कार्या¹⁶ यदाष्टांश(यं¹⁷ तदष्टांशं)जलान्तरम् । भद्राणां रथिकाः कार्याः पार्श्वयोरुभयोस्तथा ॥ २४७ ॥ १ द. पुस्तके पाठः नास्ति । २ द. यदोरः शि° । ३ द. कामाप्त्यै कर्तुः । ४ द. पुस्तके नास्ति । ५ द. पुस्तके 'ये' इति पाठः नास्ति । ६ द. प । ७ द. पुस्तके नास्ति । ८ द. पुस्तके नास्ति । ९ द. षट्त्रिंशद्विकलाधिका । १० द. गुणिता हस्ता । ११ धनूरेखान्तर्गत 'हस्त' इति स्यात् । १२ द. 'वि' इति पाठः नास्ति । १३ द. गर्भं गृह । १४ द. र्याः । १५ द. विस्तृताः । १६ द. कार्यं पादाष्टांशजं । १७ द. °का कार्या । † 'कामार्थः कर्तुः' इत्येवञ्जातीयं लुप्ताक्षरस्थाने निवेश्यम् ।
३४४ समराङ्गणसूत्रधारे रथिकानां च सर्वासां स्वभद्रं विस्तारार्धतः । शृङ्गं भद्रं यथैकैकं तथा सर्वाणि कारयेत् ॥ २४८ ॥ दिक्सूत्रेषु (चं¹) सर्वेषु वर्धमानं निवेशयेत् । अष्टभागोच्छ्रिता जङ्घा खुरपिण्डं² तदर्धतः ॥ २४९ ॥ ये³(मे)खलान्तरपत्रे च स्यातां भागद्वयोद्गते⁴ । प्रथमा रथिकास्तत्र (सपादांशात्स्तू⁵ ?) त्रयोच्छ्रिताः ॥ २५० ॥ पदपादविहीनाः स्युः क्रमेणोपरि भूमयः । दिक्सूत्रेषु सकर्णेषु क्रिया प्राग्वद् विधीयते ॥ २५१ ॥ शिखरं दशविस्तारं भागैर्दू⁶(गद्वा)दशकोच्छ्रितम् । चतुर्गुणेन सूत्रेण वेणुकोशं समालिखेत् ॥ २५२ ॥ स्कन्धकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् । ग्रीवा च पद्मशीर्षं च तावँद्⁷ भागार्धमुच्छ्रयात् ॥ २५३ ॥ र्भागमामा(गं चाम⁸)लसारं स्यात् कलशो भागमेव च । सां⁹(श)तशृङ्गावृत्तो मेरुरयं¹⁰ प्रासाद ईरितः ॥ २५४ ॥ प्रदक्षिणीकृते तँस्या¹¹ तत्पुण्यं कनकाद्रिणा(?) शैलेष्टकामये तन् स्यात् कृतेऽस्मिन्नधिकं ततः ॥ २५५ ॥ मेरुः ॥ नन्दिशालस्य संस्थाने तद्रूपे समवस्थिते । द्वितीयाँ¹² रथिका कार्या भागद्वयविनिर्गता¹³ ॥ २५६ ॥ शेषो भद्रस्य विस्तारः खविस्तीरोऽ(रा)र्धनिर्गतः¹⁴ । अष्टांशायामविस्तारः स्वै¹⁵विस्तारो(रा)र्धनिर्गतः ॥ २५७ ॥ अष्टांशायामविस्तारः(रा) शाला स्यात् पुरतः पुनः । तस्या मध्ये भवेद् गर्भो द्विभागायामविस्तरः¹⁶ ॥ २५८ ॥ १ द. पुस्तके नास्ति । २ द. ण्डस्तं । ३ द. प्रतौ नास्ति । ४ द ॰योन्विते । ५ द. सपादांशश्चं । ६ द. प्रतौ नास्ति । ७ द. भवेद् । ८ द. भागमामलसारस्य । ९ द. प्रतौ नास्ति । १० द. ॰ह्वयं । ११ द. नस्यायत्पुण्यं । १२ द. य । १३ द. ताः । १४ द. ॰स्तरोर्द्धं । १५ द. पुस्तके नास्ति । १६ द. स्तृतः ।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः ३४५ गर्भभित्तिर्भवेच्चास्य भागेनैकेन निर्गता। बाह्यभित्तिस्तथैव स्यात् तत्समा चान्धकारिका ॥ २६९ ॥ द्विभागौ रथिकास्तस्य सलिलान्तरभूषिताः । शेषो भद्रस्य विस्तारो भागेनैकेन निर्गमः ॥ २७० ॥ जङ्घोच्छेधं (चं) पीठं च विदध्यान्नन्दिसौर(शाल)वत् । रथिकास्तत्र कर्तव्याः कर्ण(र्णे) भागत्रयोच्छ्रिताः ॥ २७१ ॥ षडंशान् विस्तृतैः(तं) कुर्याच्छिखरं सप्तचो(र्मो)च्छ्रितम् । कार्या केसरिवच्चास्य रेखा सामलसारिका ॥ २७२ ॥ एभिर्गुणैर्युतं चैनं पार्श्वयोरपि योजयेत् । प्रासादोऽयं लताख्यः स्यात् कर्तव्यो दानवद्विषः ॥ २७३ ॥ लताख्यः ॥ अग्रेननं यदा पश्चान्न्यस्येतं सरिणं तथा । भवेत् त्रिपुष्कराख्योऽयं प्रासादस्त्रिदशालयः ॥ २७४ ॥ त्रिपुष्कराख्यः ॥ नन्दिशालस्य सर्वासु दिक्षुं(क्ष्व)यं केसरी यदा । स्यात् तदा पञ्चवक्त्रोऽसौ विधेयः पद्मजन्मनः ॥ २७५ ॥ पञ्चवक्त्रः ॥ यदा च पञ्चवक्त्रस्य मध्ये गर्भो(भौ) न दीयते । बाह्यलेखादिकं प्राग्वैद् दिक्षु सर्वासु कल्पते ॥ २७६ ॥ चतुःस्तम्भसमा कार्या मध्ये चास्य चतुष्किका । वितानं चोपरि न्यस्येन्मध्यनस्तस्य भूषणम् ॥ २७७ ॥ हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा । एते चतुर्मुखे स्थाप्या नापरेषां भवत्ययम् ॥ २७८ ॥ चतुर्मुखः ॥ १ द. ताः । २ द. काः । ३ द. ग । ४ द. पुस्तके 'च' इति पाठः अस्ति । ५ द. प्रतौ नास्ति । ६ द. नास्ति । ७ द. नास्ति । ८ द. नास्ति । ९ द. क्तं । १० द. नास्ति । ११ द. नास्ति । १२ द. नास्ति । १३ द. ग्वा । १४ द. ल्प्यते । १५ द. खाः । वा. ४४
३४६ समराङ्गणसूत्रधारे चतुःषष्टिकरे कुर्यात् क्षेत्रे$^१$ मानैकविंशतिः ( ?) । सप्तवर्गपदो गर्भो भित्त्या सह विधीयते ॥ २६९ ॥ स्याद्$^२$ गर्भभित्तिर्भागेन भागेनैवान्धकारिका । षड्भागं कर्णविस्तारं दशधा प्रविभाजयेत् ॥ २७० ॥ षड्भिर्भागैर्भवेदस्य$^३$ गर्भो भित्त्या समन्वितः । बाह्या भित्तिर्भवेद् भागाद् भागैश्चैवान्धकारिकाौ$^४$ ॥ २७१ ॥ द्विभागं कर्णवैपुल्यमुदकान्तरभूषितम् । शेषो भद्रस्य विस्तारश्चतुर्थांशविनिर्गतः ॥ २७२ ॥ क्षोभयेदर्धभागे$^५$ तु तदर्धेन जलान्तरम् । मत्तवारणकैर्विद्याँत्$^६$ स्तम्भैरुपरि शोभिताः$^८$ ॥ २७३ ॥ रथिकैका त्रिभागेन पुनः सार्धद्विभागिका$^९$ । तासां परस्परक्षेपो भागो भागो विधीयते ॥ २७४ ॥ शेषं शिखरविस्तारः$^१$$^०$ सार्धषट्कं तदुच्छ्रयैः$^१$$^१$ । पृथक्सूत्रैस्त्रिगुणितैर्वेणुकोशं समालिखेत् ॥ २७५ ॥ स्कन्धकोशान्तरं भागैश्चतुर्भिस्तस्य भाजयेत्$^१$$^२$ । ग्रीवार्धभागमुत्सेधो भागेनामलसारकम् ॥ २७६ ॥ पद्मशीर्षस्तै$^१$$^३$(र्षं त)था भागं कलशो भागसंमितः । अर्धभागसमो(मुै$^१$$^४$)त्सेधं कारयेद् बीजपूरकम् ॥ २७७ ॥ सर्वकर्णेषु कर्तव्याः$^१$$^५$ क्रियाश्चैवं विचक्षणैः । दिक्सूत्रबाह्यभागेषु वलभी$^१$$^६$ संनिवेशयेत् ॥ २७८ ॥ निर्गमे पञ्चभागः स्यात् तिर्यक् प्रैक्षिप्तभागिकाः ( ?) । अस्यां$^१$$^८$ द्विभागिको गर्भो मंध्ये$^१$$^९$ भागत्रयोच्छ्रितः ॥ २७९ ॥ १ द. क्षेत्रांशानेकविंशति । २ द. भा । ३ द. ष्ध । ४ द. गा । ५ द. काः । ६ द. गं । ७ द. ॰वैद्या । ८ द. नः (तः) । ९ द. काः । १० द. र । ११ द. या । १२ द. व । १३ द. प्रतौ नास्ति । १४ द. नास्ति । १५ द. ॰व्या क्रिया सैवं । १६ द. भां । १७ द. स्यात्सप्तभागिकः । १८ द. स्य । १९ द. मध्यभागत्रयायतः ।
रुचकादिचतुष्षष्टिप्रासादकः षट्पञ्चाशोऽध्यायः । ३४७ भागार्ध॑भागं भित्तिः स्यात् तत्समा चान्धकारिका । तस्याश्चाग्रे विधातव्यः(?) षड्दारुकसमन्वितम् ॥ २८० ॥ एकैकां रथिकां सार्धभागां कर्णेषु योजयेत् । शेषं भद्रस्य विस्तारो भागः स्यादस्यै निर्गमः ॥ २८१ ॥ एवं भद्रं विँ(द्वि)भागं स्यात् स्तम्भद्वयसमन्वितम् । वैलभावर्तयोर्मध्ये भागमेकं च विस्तृतम् ॥ २८२ ॥ तँत्रोदकान्तरं कुर्याद् गुणद्वारविभूषितम् । नवभागोच्छ्रिता जङ्घा पीठमस्य तदर्धतः ॥ २८३ ॥ मेखलान्तरपत्रे च कुर्याद् भागद्वयोन्मिते । रथिका स्याद् द्विभागा च ततः सार्धैकभागिका ॥ २८४ ॥ शेषं शिखरविस्तारः पञ्चांशं शिखरोच्छ्रयः । उपर्युपरि कर्तव्यं सर्वतोभद्रकद्वयम् ॥ २८५ ॥ द्वे द्वे च सर्वतोभद्रे कर्णे कर्णे निवेशयेत् । दिक्सूत्रेषु समस्तेषु क्रियामेवं प्रकल्पयेत् ॥ २८६ ॥ विस्तार शिखरस्याष्टौ भागांस्तस्यार्धसमुच्छ्रयः(?) । पञ्चव्यासेन सूत्रेण +++++++॥ २८७ ॥ वेणुकोशान्तरं चास्य त्रिभिर्भागैर्विभाजयेत् । ग्रीवां च पद्मशीर्षं च भागेन स्यादिदं द्वयम् ॥ २८८ ॥ प्रत्येकं भागिकौ कार्यों कलशामलसारकौ । तैँ(न)वात्मकोऽयं कथितः प्रासादस्त्रिदशालयः ॥ २८९ ॥ नवात्मकः ॥ १ द. °र्द्ध भागभित्तिः । २ द. ‘तस्याश्चाग्रं विधातव्यम्’ इति स्यात् । द. पुस्तके ‘तस्य वाग्रं विधातव्यः षद्दारक°’ । ३ द. र्द्ध । ४ द. पुस्तके नास्ति । ५ द. व्यललीकर्णयोर्मध्ये । ६ द. तं° । ७ द. ज्ज । ८ ‘विस्तारः शिखरस्याष्टौ भागः सार्धे समुच्छ्रयः’ इति स्यान् । ९ द. भागान् सार्धान् सं° । १० द. ‘वेणुकोशं समालिखेत्’ इति चतुर्थपादः स्यान् । द. वेणुकोशं समालिखेन् ॥ ११ द. स्कंध । १२ द. वां । १३ द. क । १४ द. पुस्तके नास्ति ।