भारतकोश
संग्रह पर लौटें

समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)

Samarangana Sutradhara of Raja Bhoja

धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा

DevanagariHindipublished726 पृष्ठ

विमानादिचतुष्षष्टिप्रासादलक्षणं नामैकोनषष्टितमोऽध्यायः । ४९३ छाद्यरूपं च कुर्वीत चतुरश्रं चतुर्दिशम् । शुकनासं सुखातेन शोभितं परिकर्मणा ॥ २११ ॥ जङ्घामेखलयोश्च + सुरपिण्डस्य चोच्छ्रितिः । घण्टाग्रं चन्द्रशाला च च्छाद्यकं च यदृच्छया ॥ २१२ ॥ कुर्यात् प्रमाणमन्यच्च यथैव मनसः १प्रियम् । हर्षणः ॥ इदानीं विजयं ब्रूमः प्रासादं (सार्थ ?) शोभनम् ॥ २१३ ॥ लतिनो वर्धमानेन³ ++++ विभाजयेत् । शुकनासोदयं न्यस्येदंशोनशिखरोदयम् ॥ २१४ ॥ अग्रप्राग्ग्रीवकौ कार्यों रथकौ वामदक्षिणौ । (कर्तव्योर्ध्वलतश्चापं पूर्णः ?) सर्वतोदिशम् ॥ २१५ ॥ विजयो वर्धमानश्च प्रमाणेन समावुभौ । अलिन्दभेदान्नामास्य कृतं विजय इत्यदः ॥ २१६ ॥ महापद्मः ॥ ब्रूमोऽथ हर्म्यं प्रासादं ४तं कुर्यादेकभूमिकम् । दारुजं चतुरश्रं च (पट्टर्तुलांभित्तिभिः ?) ॥ २१७ ॥ दण्डच्छाद्यं च कुर्वीत समन्ताच चतुष्किकाम् । ऊर्ध्वतस्तुम्बिकाक्रान्तं पद्मखण्डै⁷र्विभूषितम् ॥ २१८ ॥ मुखैः(खे) पत्रैर्गवाक्षैश्च वेदिकास्तम्भतोरणैः । वलभीशालभञ्जीभिः सिंहकर्णैश्च भूषयेत् ॥ २१९ ॥ विस्तारमस्य हर्म्यस्य कुर्यादुच्छ्रयसंमितम् । हर्म्यः ॥ इदानीमुज्जयन्तस्य लक्षणं सम्प्रचक्ष्महे ॥ २२० ॥ कुर्याद् ⁸भूर्म्यमानेऽत्र द्वारि मण्डपभूषितम् । चतुर्द्वारं च कुर्वीत सर्वतो मण्डपान्वितम् ॥ २२१ ॥ १ द. ला । २ द. पू । ३ द. नेनं विदाजं । ४ इह 'विजयः' इति लेख्यं भाति । महापद्म इति लेखनेन च विजयानन्तरक्रमलक्षणीयानामुदकुम्भमोदकमहापद्मानां लक्षणश्लोका गलिता इत्यनुमीयते । ५ द. तत् । ६ द. त्यामिदिभिः । ७ द. ण्डे । ८ द. कुर्यास्तं हं ।

४५४ समराङ्गणसूत्रधारे प्रमाणमन्यदप्यस्य हर्म्यस्यैवाखिलं भवेत् । उज्ज्यन्तः^{२} ॥ इदानीमभिधास्यामो गन्धमादनलक्षणम् ॥ २२२ ॥ हर्म्यमानेन कर्तव्यः प्रासादो गन्धमादनः । अग्रतः पृष्ठदेशे च मण्डपं तस्य कारयेत् ॥ २२३ ॥ चतुष्कीजालपक्ष्माद्या वामदक्षिणभागयोः । प्रमाणमस्य कर्तव्यं यथा हर्म्यस्य कीर्तितम् ॥ २२४ ॥ गन्धमादनः ॥ ब्रूमोऽथ शतशृङ्गं स त्रिविष्टपंसमो भवेत् । विभजेद् भागविंशत्या पञ्चभौमं च कारयेत् ॥ २२५ ॥ +द्विभागानि कूटानि सैकमण्डशतं भवेत् । भूमौ भूमौ च शृङ्गाणि भूविस्तारदशांशतः ॥ २२६ ॥ प्रमाणमस्य यत्किञ्चित् तत् त्रिविष्टपवद् भवेत् । निरवद्यः^{६} ॥ विश्रान्तमथ वक्ष्यामः सर्वतोभद्रसन्निभम् ॥ २२७ ॥ सान्धारं तं प्रकुर्वीत सर्वतो मण्डपैर्युतम् । गवाक्षां वेदिजालाद्याः(?) कुर्याद् दिक्षु चतुष्किकाः ॥ २२८ ॥ विश्रान्तः ॥ मनोहरमथ ब्रूमः स भवेन्मण्डपो यथा । साच्छाद्यतोरणैर्दिक्षु चतुर्द्वारः समण्डपः ॥ २२९ ॥ वेदिर्षण्डाम्बुमार्गाद्यैः^७ प्रतोलीद्वारजालिकैः । सिंहपीठतलन्यासैः कलशैः परिपूरितः ॥ २३० ॥ वृत्तस्तम्भस्तुलाच्छेन्नो बहिश्चाद्येन भूषितः । सिंहव्यालगजैः पत्रैर्मुखे सस्तम्भतोरणैः ॥ २३१ ॥ १ द. स्यै । २ द. प्रतौ नास्ति । ३ द. ऽथ सततं शृंगं । ४ द. पस्य । ५ द. त । ६ इद 'शतशृङ्ग' इति लेख्यम् । निरवद्यस्य लक्षणमपि गलितम् । ७ द. क्षं । ८ द. ख । ९ द. यः । १० द. च्छेद्रो ।

विमानादिचतुष्षष्टिप्रसांदलक्षणं नामैकोनषष्टितमोऽध्यायः । ४५९ पुनः कार्यं प्रमाणं तु यथाशोभं विधीयते । मनोहरः ॥ वृत्तवृत्तायतौ ब्रूमस्तयोः कम्बुसमाकृतिः ॥ २३२ ॥ वृत्तस्तत्र तलन्यासचतुरस्रोऽशपञ्चकम् (?)। वृत्तायन्मूर्ध्वतो वृत्तं यथाशोभं समुत्थितम् ॥ २३३ ॥ कुर्यान्मुखायतं चान्यं सिंहकर्णान्वितं मुखे । वृत्तवृत्तायतौ ॥ चैत्यस्य लक्षणं ब्रूमः स स्याच्छा(थ)त्रयान्वितः ॥ २३४ ॥ अस्याकारः प्रमाणं च यथा वृत्ते तथा भवेत् । चैत्यः ॥ किङ्किणीकमथ ब्रूमः पञ्चाण्डं नवभूमिकम् ॥ २३५ ॥ वृत्तकूटाः शुभाः कार्याः सर्वेऽमी शुभलक्षणाः । किङ्किणीकः ॥ इदानीं लयनं ब्रूमः स शैलखननाद् भवेत् ॥ २३६ ॥ निःश्रेण्यारोहसोपाननिर्यूहकगवाक्षकान् । वेदीभ्रमविटङ्कांश्च प्रतोलीद्वारसंयुतान् ॥ २३७ ॥ ( उत्कीर्णान्नाचरे तैरप्राग्रीवन्मानं च ? ) । लयनम् ॥ इदानीं पट्टिसं ब्रूमः प्रासादं वस्त्रसम्भवम् (?) ॥ २३८ ॥ ( ⁴बोहातो ? ) जालपादैश्च वेदीषण्डैश्च मण्डितम् । कूर्मपृष्ठं प्रदातव्यमिच्छता शुभलक्षणम् ॥ २३९ ॥ पट्टिसः ॥ विभवः कथ्यते स स्यात्⁵ ( सुर्यामन्यसमाश्रयः ? ) । दारवे दारवो योज्यः शैलजे शैलसम्भवः ॥ २४० ॥ मृन्मये मृन्मयः कार्यश्चयने ⁶चयनोद्भवः । प्रत्यन्तग्रामखेटेषु दारुस्तम्भैर्विधीयते ॥ २४१ ॥ १ द. चित्रा । २ द. च्छि्र । ३ द. त्त । ४ द. बाह्यतो जाँ । ५ द. नं (नां) । ६ द. त्यु । ७ द. म । ८ द. न ।

४९६ समराङ्गणसूत्रधारे विभवस्यानुसारेण स कार्यों धार्मिकैस्त्रिभिः । विभवः ॥ तारागणमथ ब्रूमः स भवेन्मण्डपाकृतिः ॥ २४२ ॥ वस्त्रचीरतुलाशाण्डो (?) डोलाक्रीडाभ्रमैर्गृहैः । वस्त्रजैश्चित्ररूपाद्यैर्घण्टादर्पणतोरणैः ॥ २४३ ॥ ध्वजच्छत्रविमानाद्यैः किङ्किणीभिर्विराजितम् । यत्किञ्चित् सुन्दरं सर्वं तदत्र विनिवेशयेत् ॥ २४४ ॥ तारागणः ॥ अष्टाष्टकैर्द्वे च विशेषयोगात् प्रासादषष्टिश्चतुरन्वितेषा । विमानमुख्याः कथिता य एतान् (जोनायस्यैस ?) शिल्पिगणाग्रणीः स्यात् ॥ २४५ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे विमानादिचतुःषष्टिनामैकोनषष्टितमोऽध्यायः ॥ अथ श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । षड्त्रिं(द्त्रिं)शतमथ ब्रूमः प्रासादान् नागरक्रियान् । साधारणान् प्रथमैस्तेषु श्रीकूटः श्रीमुखस्ततः ॥ १ ॥ श्रीधरो बर्दरश्चैव तथाभ्यः(न्यः) प्रियदर्शनः । कुलनन्दोऽन्तरिक्षश्च पुष्पभासो विशालकः ॥ २ ॥ सङ्कीर्णोऽथ महानन्दो नन्द्यावर्तस्तथापरः । सौभाग्यश्च विभङ्गश्च विभवस्तदनन्तरम् ॥ ३ ॥ वीभत्सकोऽथ श्रीतुङ्गो मानतुङ्गस्तथापरः । (भेवतो र्भद्र ?) संज्ञश्च (भैवद्वाह्योदरस्तचः ?) ॥ ४ ॥ १ द. एषां । २ मु. पु. ‘जानात्यसौ’ इति स्यात् । ३ द. र्गणा । ४ द. मा । ५ मु. पुस्तकानुसारेण ‘वरद’ इति लक्षणे दृश्यते । ६ द. ष्पा । ७ द. र्णाय । ८ द. भाग । ९ मु. पु. ‘सर्वतोभद्र’ इति स्यात् । १० द. भ । ११ मु. पु. ‘भवेद् बाह्योदरस्ततः’ इति पाठः स्यात् ।; द. भवेद्वाह्योदरस्तवः ।

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४१७ निर्व्यूहोदर(संज्ञोऽन्य)स्ततो ज्ञेयः समोदरः । नन्दिभद्रो भद्रकोशश्चित्रकूटस्ततः परम् ॥ ५ ॥ विमलो हर्षणो भद्रसङ्कीर्णस्तदनन्तरम् । ततो भद्रविशालाख्यो भद्रविष्कम्भे एव च ॥ ६ ॥ उज्जयनताभिधानश्च सुखे(मे)रुरथ मन्दरः । कैलासः कुम्भकाक्ष(क्ष्य)श्च गृहराजश्च नामतः ॥ ७ ॥ एतेषां(षट्)त्रिंशादुद्दिष्टा लक्षणं कथ्यतेऽधुना । चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते ॥ ८ ॥ प्रासादं विभजेत् प्राज्ञः श्रीकू(टं) नाम शोभने(नम्) । ज्येष्ठः स्याद् विंशतिर्हस्ता मध्यमो दश पञ्च च ॥ ९ ॥ कनीयान् दश विज्ञेयः प्रमाणं हस्तसङ्ख्यया । भद्रं षड्भागिकायामं(मं) कर्णाः कार्या द्विभागिकाः ॥ १० ॥ तिलकं भागिकं कार्यं भागेनैकेन निर्गतम् । तस्माद् भागेन निष्क्रान्तं भद्रमस्य विधीयते ॥ ११ ॥ भागिकी बाह्यभित्तिः स्याद् द्विपदा चान्धकारिका । भागिकी गर्भभित्तिश्च गर्भः कार्यश्चतुष्पदः ॥ १२ ॥ अधश्छन्दः समुद्दिष्ट ऊर्ध्वच्छन्दोऽभिधीयते । विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ॥ १३ ॥ भागत्रयोच्छ्रितं शृङ्गं द्वितीयमपि तादृशम् । पूर्वशृङ्गस्य मध्ये तद् विधातव्यं विचक्षणैः ॥ १४ ॥ सार्धभागोदयः कार्यस्तिलकोऽन्यश्च तादृशः । द्वितीयतिलकस्योर्ध्वं सुश्लिष्ट(ष्टा) रूपसंयुता ॥ १५ ॥ स्यादुरोमञ्जरी सप्तभागोत्सेधा षडायता । स्याद् भागिकमूर्च्छा(ध्छ्र्छा)यं मञ्जर्या या तु विस्तृतिः ॥ १६ ॥ १ द. नामाभ्य । २ द. न्व । ३ द. मागतः । ४ द. ते । ५ द. या । ६ द. °दः बाध्र° । ७ द. य । ८ द. वस्था । वा. ५८

४. चित्र-कर्म, षडङ्ग व प्रतिमा लक्षण (अध्याय ५१-६५)

४९८ समराङ्गणसूत्रधारे दशधा प्रविभाज्यासौ शेषं श्रीवत्सवद् भवेत् । स्कन्धः षड्भागविस्तारो ग्रीवा भागार्धमुच्छ्रिता ॥ १७ ॥ अण्डकं भागिकं कार्यं कुमुदं चार्धभागिकम् । सार्धभागेन कलशो बीजपूरकसंयुतः ॥ १८ ॥ द्वितीयकर्णशृङ्गस्य स्यादूर्ध्वं मूलमञ्जरी । ++++++++ १अष्टभागंसमुच्छ्रिता ॥ १९ ॥ श्रीवत्सवद् विभागोऽस्याः स्कन्धग्रीवादिके भवेत् । एवं श्रीकूटसंक्षेपं (ज्ञोऽयं) प्रासादः परिकीर्तितः ॥ २० ॥ यं कृत्वा त्रिसहस्राणि दिव्यानि दिवि मोदते । श्रीकूटः ॥ अथ लक्ष्म २+++++++ स्याभिधीयते ॥ २१ ॥ तुल्यं प्रासादमानेन विदध्यादिह मण्डपम् । मुखायामेन तिर्यक् तु चतुरश्रं ३++++ ॥ २२ ॥ ४+++ भद्रविस्तारः कर्णाश्च तिलकास्तथा । मध्ये चतुष्किका कार्या भद्रविस्तारसम्मिता ॥ २३ ॥ नि५++++++ विधातव्यस्तु मण्डपे । जङ्घाप्रासादजङ्घायाः समोत्सेधा(?)विधीयते ॥ २४ ॥ मेखलं भागिकं ६++++++ च पूर्ववत् । स्तम्भं त्र्यंशोच्छ्रितं भागं वेदी घण्टा त्रिभागिका ॥ २५ ॥ क्रमाश्रयो यवाः पञ्च ७सिंहक +++++ । शोभिताः सिंहकर्णैश्च ८वृच्छाद्याङ्गातिभूषिताः (?) ॥ २६ ॥ मण्डपं कारयेदेवं श्रीकूटस्य विचक्षणः । श्रीकूटस्यं मण्डपः समाप्तः । अलिन्दे तु यदास्यैव क्रियते ११ भद्रवेदिका १२ (यदा ?) ॥ २७ ॥ १ द. इतः पूर्वं ‘प्रविस्तारा दशभाग स°’ इत्याधिकः पाठः । २ द. °मां तदीयस्य मंडपास्या° । ३ द. °सं समंततः । ४ द. तथैव । ५ द. निर्गमस्तेन मानेन वि° । ६ द. °कां कुर्यान्मन्वच्छाद्यं । ७ द. सिंहव्याघ्रविभूषिताः । ८ द. वृ । ९ द. य । १० द. श्रीकूटस्य विक्षणं भूषणं समण्डपः समाप्तः पाठः । ११ द. न्ते । १२ काः ।

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४५९ प्रासादः श्रीमुखं ++ तदानीं स्यात् सुखावहः । श्रीमुखः ॥ यदा कूर्परमस्यैव चतुरश्रमधो भवेत् ॥ २८ ॥ तदा स्याच्छ्रीधरो नाम प्रासादो देवताश्रयः । श्रीधरः ॥ अस्यैव तु यदालिन्दः क्रियते भद्रवर्जितः ॥ २९ ॥ (रुचेः ?) भवेत् तदानीं वरदः प्रासादः शुभदायकः । वरदः ॥ विधीयते यदास्यैव भद्रमेकं विनिर्गतम् ॥ ३० ॥ निर्व्यूहैश्च तदा स स्यात् प्रासादः प्रियदर्शनः । प्रियदर्शनः ॥ विधीयते यदास्यैव नन्द्यावर्तो विनिर्गमः ॥ ३१ ॥ कुलमन्दस्तदा ज्ञेयः प्रासादः सुखकारकः । कुलनन्दनः ॥ इति श्रीकूटादिषट्कम् । अन्तरिक्षमथ ब्रूमस्तस्य द्वादशभागिकाः(?) ॥ ३२ ॥ षड्विंशत्या करैर्ज्येष्ठं मानायां दशभिर्भवेत्(?) । मध्यमे (मो) मध्यमनेन हस्तसंख्येयमीरिता ॥ ३३ ॥ पञ्चभागायतं भद्रं कर्णाः कार्या द्विभागिकाः । विस्तारस्तिलकानां स्यादन्तरं भद्रकर्णयोः ॥ ३४ ॥ निर्गमः सार्धभागः स्याद् भद्रस्य तिलकस्य च । गर्भः षोडशभागः स्याद् भागिकी भित्तिविस्तृतिः ॥ ३५ ॥ प्रदक्षिणा तु भागौ द्वौ बाह्यभित्तिः पदं भवेत् । कथितोऽयमथश्छन्दो ब्रूमश्छन्दमथोर्ध्वतः ॥ ३६ ॥ १ द. खो नाम । २ द. रुचेत्तदानीं । ३ द. हा । ४ द. त । ५ मुद्रित प्रतौ 'स स्याद् द्वादशभागिकः' इति स्यात् ।; द. स्तस्या । ६ द. कः । ७ मुद्रित पु. 'ज्येष्ठः कनीयान्' इति स्यात् । ८ द. कार्याः । ९ द. का । १० द. नां तु स्याद् ।

४६० समराङ्गणसूत्रधारे जङ्घा षड्भागिकोत्सेधा भागोत्सेधा च मेखला । ²++ भागत्रयोत्सेधे शिखरं प्रथमं तथा ॥ ३७॥ द्वितीयं तत्समं चोर्ध्वं तिलकस्योपरि स्थितम् । अधस्ता³++++++ छाद्यं तु भागिकम् ॥ ३८॥ शिखरं गर्भविस्तारं कर्तव्यं षट्पदोच्छ्रितम् । अर्धेन गर्भविस्तारा⁴ +++++स्तथा ॥ ३९॥ द्वितीयँशिखरस्योर्ध्वं (प्रागुल्भ्यान् ?) मूलमञ्जरी । इत्येष कथितः सम्यगन्तरिक्ष⁶ ++++ ॥ ४०॥ अन्तरिक्षप्रिया देवाः सर्वे वैमानिका यतः । अन्तरिक्षः ॥ भागैरष्टभिरत्रैव क्रियतेऽलिन्द⁸ +++ ॥ ४१॥ पुष्पाभासस्तदा ज्ञेयः प्रासादश्चारुदर्शनः । पुष्पाभासः । अथास्य क्रियते भद्रमलिन्दा¹⁰ +++++ ॥ ४२ ॥ ¹¹+ विशालको नाम्नौप्रासादाज्जायते शुभः(?) । विशालकः ॥ अथास्य क्रियते भद्रयुक्तस्त्यै¹³ ++ वर्जितः ॥ ४३॥ तदा संकीर्णको नाम प्रासादः परिकीर्तितः । संकीर्णकः ॥ यदा संकीर्णकस्यैव नन्दिका स( म )भागिकी ॥ ४४ ॥ क्रियते निर्गमेणैव महानन्दस्तदा भवेत् । महानन्दः ॥ विस्तारेण समश्च स्यान्नन्दिकानिर्गमो यदा ॥ ४५ ॥ १ द. धः । २ द. कार्य । ३ द. ˚स्तात् शिखरात् कार्य मल्लछाद्यं तु भाषिकं । ४ द. तां । ५ द. ग्रीवाण्डकलस । ६ द. यं । ७ द. क्षः सुरालयः । ८ द. ˚क्षाः प्रिय । ९ द. को यथा । १० द. श्चाग्रतो यदा । ११ 'विशालको नाम तदा प्रासादो जायते शुभः' इति स्यात् । इति मुद्रित पुस्तके । द. तदा । १२ द. म । १३ द. श्व यदालिंदविवर्जितः । १४ द. न्द । १५ द. स्त ।

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४६१ नन्द्यावर्त इति ज्ञेयः प्रासादः स तदा बुधैः । नन्द्यावर्तः ॥ अन्तरिक्षषट्कम् । सौभाग्यमथ वक्ष्यामः स स्याद् द्वादशभिः पदैः ॥ ४६ ॥ उत्तमो विंशतिर्हस्तो मध्यमो दश पञ्च च । कनीयान्त्रिस(न् दश) मानेन सौभाग्यो मानतस्त्रिधा ॥ ४७ ॥ गर्भश्चतुर्भिर्भागैः स्याद् भद्रं तद्द्विस्तुतेः समम् । भद्रस्यार्धेन तिलकाः कर्णाः कार्या द्विभागिकाः ॥ ४८ ॥ द्वे द्वे पदे विधातव्यस्तथैकैकस्य निर्गमः । भद्राणां निर्गमं यद्वा विदध्यादेकभागिकम् ॥ ४९ ॥ भागिका¹ गर्भभित्तिस्तु² द्विपदा च प्रदक्षिणा³ । भागिकी बाह्यभित्तिः स्याज्जङ्घोच्छ्रायः पदानि षट् ॥ ५० ॥ भागिका⁴ मेखला प्रोक्ता (शृङ्गे⁵ ?) तन्मध्ये शिखरं भवेत् । मल्लच्छाद्यं च मध्ये स्याच्छृङ्गस्य शिखरस्य च ॥ ५१ ॥ एकभागोच्छ्रितं तच्च मञ्जर्यास्त्विह विस्तृतैः । ⁶गर्भभित्तिसमा कार्या सप्तभागा समुच्छ्रितिः ॥ ५२ ॥ ऊर्ध्वं द्वितीयशृङ्गस्य पूर्ववन्मूलमञ्जरी । अण्डकाद्यं यथोक्तं स्यात् सौभाग्योऽयं प्रकीर्तितः ॥ ५३ ॥ सौभाग्यः ॥ विधीयते यदास्यैव विना भद्रमलिन्दकः । तदा विभङ्गको नाम प्रासादः स्यात् सुशोभनः ॥ ५४ ॥ विभङ्गकः ॥ यदि भद्रस्य निष्कासः क्रियतेऽस्य तदा पुनः । प्रासादो विभवो नाम जायते परमोत्तमः ॥ ५५ ॥ विभवः⁷ ॥ १ द. कां । २ द. सु । ३ द. णः । ४ द. की । ५ द. शृं । ६ द. गर्भे । ७ द. प्रतौ नास्ति ।

भागद्वयविनिष्क्रान्ता नन्दिका क्रियते यदि । तदा वदन्ति बीभत्ससंज्ञं प्रासादमत्तुमम् ॥ ५६ ॥ बीभत्सः२ ॥ यदा निर्गमविस्तारैंसमा भवति नन्दिका । श्रीतुङ्ग इति विज्ञेयस्तदा प्रासादसत्तमः ॥ ५७ ॥ श्रीतुङ्गः ॥ यदा त्वलिन्दकोऽस्यैव क्रियते न विनिर्गतः । प्रासादो मानतुङ्गाख्यस्तदानीमुपजायते ॥ ५८ ॥ मौनतुङ्गः ॥ ब्रूमोऽथ सर्वतोभद्रं दशधा तं विभाजयेत् । षड्विधान्या (विंशत्या) भवेज्ज्येष्ठः कनीयान् दशभिः करैः ॥ ५९॥ हस्तैस्तथाष्टादशभिर्मध्यमः परिकीर्तितः । कर्णा द्विभागिकाः कार्या अलिन्दाः षट्पदोन्मिताः ॥ ६० ॥ चतुर्भागानि भद्राणि वि(द्वि) भागस्तद्विनिर्गमः । गर्भभित्तिर्बहिर्भित्तिरन्धारी च पदं पदम् ॥ ६१ ॥ गर्भस्तु षोडशपद इत्येवं छन्द ईरितः । विस्तारार्धेन जङ्घा स्यान्मेखला चैकभागिका ॥ ६२ ॥ प्रथमं कल्पयेच्छृङ्गं विस्तारात् सार्धमुच्छ्रितम् । द्वितीयशृङ्गं तन्नाल्पं पूर्वशृङ्गस्य मध्यग॑म् ॥ ६३ ॥ प्राच्छ्रिता षडायाम्या सुरःशिखमिष्यते (?) । कर्तव्यं मूलशिखरं तद्द्वचोपरिशृङ्गयोः ॥ ६४ ॥ मञ्जर्या विभजेद् भागं विस्तारं दशधा बुधः । स्कन्धः षड्भागविस्तारो धनुर्ग्रीवाण्डकादिकम् ॥ ६५ ॥ श्रीवत्सस्येव तत् कार्य मञ्जरी भागमानतः । क्रमार्धं वा पञ्चसिंह ++रूपैर्विभूषिता ॥ ६६ ॥

१ द. नंदिकी। २ द. त्सं। ३ द. रा। ४ इत उनरं 'सौभाग्यादिषट्कम्' इति पदमादर्शे लुप्तमिति पूर्वोत्तरप्रक्रमाद् विज्ञायते। ५ द. सिताः। ६ द. मं।

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४६३ इत्युक्तः सर्वतोभद्रः + + कल्याणकारकः । सर्वतोभद्रः १ ॥ अलिन्दशोभितं भद्रं यदास्यैव विधीयते ॥ ६७ ॥ तदा बाह्योदरो नाम प्रासादप्रवरो भवेत् । बाह्योदरः ॥ यद्यलिन्दो न भवति भद्रमेकं तु निर्गतम् ॥ ६८ ॥ स्यान्निर्यूहोदरो नाम प्रासादप्रवरस्तदा । निर्यूहोदरः ४ ॥ यदा न तत्र भद्रं स्यान्नन्दिकानिर्गमो भवेत् ॥ ६९ ॥ भद्रैकोशं तदा ६विद्यात् षष्ठं प्रासादमुत्तमम् । ७भद्रैकोशः ॥ सर्वतोभद्रषट्कम् । चित्रकूटमथ ब्रूमस्तं भजेदष्टभिः पदैः ॥ ७० ॥ कुर्यात् करेभ्योऽष्टाभ्यस्तं यावत् स्याद्धस्तविंशतिः । कर्णभागिकविस्ताराः शेषालिन्दतिं २विस्तृतिः (?) ॥ ७१ ॥ भद्रं चतुष्पदं १०विद्याद् भागेनैकेन निर्गतम् । भागेन निर्गतोऽलिन्दो भित्त्यन्धार्थः पदं पदम् ॥ ७२ ॥ द्विपदोऽस्य भवेद् गर्भ(स्तलच्छित्ति समै११श्शिख १२?)मिष्यते । अण्डकं भागिकं कार्यं क्रमाच्चै १३क्रमसंवृता ॥ ७३ ॥ ऊर्ध्वं द्वितीयशृङ्गस्य कर्तव्या मूलमञ्जरी । सप्तभागोदया प्राग्वद् भागषट्कं तथायत १४॥ ७४ ॥ प्रासादमीदृशं कुर्याच्चित्रकूटं प्रमाणतः । चित्रकूटः ॥ ( भद्राङ्गैवविनिष्क्रां १६? ) तस्यैव यदा भवेत् ॥ ७५ ॥

१ द. प्रतौ नास्ति । २ द. तिं । ३ द. गृह । ४ द. प्रतौ नास्ति । ५ द. द्रं । ६ द. विं । ७ समोदरनन्दिभद्रयोर्लक्षणं च्युतम् । ८ द. कः । ९ द. भ्योष्टभ्यस्तंभस्याद्धस्तविंशतिः । १० द. क । ११ द. विं । १२ द. मं । १३ द. ॰श्च क्रमसंयुताः । १४ द. तः । १५ द. म । १६ द. क्रां ।

४६४ समराङ्गणसूत्रधारे प्रासादो विमलो नाम तदानीमुपजायते । विमलः ॥ अलिन्दस्तु यदास्यैव भद्रहीनो विधीयते ॥ ७६ ॥ तदानीं हर्षणो नाम प्रासादः स विजायते । हर्षणः२ ॥ क्रियते तु यदास्यैव कूर्परं भागनिर्गमम्३ ॥ ७७ ॥ तदानीं भद्रसंकीर्णः प्रासादो जायते शुभः । ३भद्रसंकीर्णः ॥ अस्यैव तु यदा भद्रं भागेनैकेन निर्गतम् ॥ ७८ ॥ भवेत् तदानीं प्रासादो नाम्ना भद्रविशालकः । भद्रविशालकः । ४+++ भद्रैश्च विना यदा त्वेष विधीयते ॥ ७९ ॥ तदानीं भद्रविष्कम्भः प्रासादः स्यात् सुखप्रदः६ । भद्रविष्कम्भः ॥ चित्रकूटादिषट्कम् । चतुरश्रे समे क्षेत्रे विभक्तेऽष्टभिरष्टकैः ॥ ८० ॥ प्रासादं (चयेद्वा ?) उज्जयन्तं सुशोभनम् । पदमेकं भवेत् कर्णस्तिलकन्तावदेव च ॥ ८१ ॥ सभित्तिगर्भमानेन भद्रं कुर्याद् विचक्षणः । बाह्यभित्तिर्भवेद् भागं भागमेकं प्रदक्षिणा ॥ ८२ ॥ भागिका गर्भभित्तिश्च गर्भमध्ये९ चतुष्पदम् । पञ्चभागोन्मिता जङ्घा भागं तत्रैव मेखला ॥ ८३ ॥ कर्तव्यं भागिकं शृङ्गमण्डकं चार्धभागिकम् । द्वितीयं साण्डकं शृङ्गं तत्समं पदमध्यगम् ॥ ८४ ॥


१ द. प्रतौ नास्ति । २ द. र्मेमं । ३ द. प्रतौ नास्ति । ४ द. प्रतौ नास्ति । ५ द. भद्रैर- लिंदैश्च । ६ द. दाः । ७ मु. पु. 'रचयेद् विद्वान्' इति पाठो भाति । द. चयेद्वा तु । ८ द. स्ता । ९ द. ॰ध्ये । १० द. ङ्गं ।

श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः । ४६५ मल्लुच्छाद्यं विधातव्यमुत्सेधेनार्धभागिकम् । पदोत्सेधं च शिखरं गर्भभित्तिसमं भवेत् ॥ ८५ ॥ भागिकः कलशः कार्यो ध्वजशं१+स्य तत्समः । एतस्य मूलशिखरं कुर्यात् षड्भागविस्तृतम् ॥ ८६ ॥ भागाधिकसमुत्सेधं कार्यं कल्याणमिच्छता । ऊर्ध्वं तिलकश्शृङ्गस्य शिखरं स्यात् पदोच्छ्रितम् ॥ ८७ ॥ पञ्चाशाद्विस्तृतं (?) शेषं श्रीवत्सस्येव कारयेत् । इत्येष कथितः सम्यगुज्जयन्तोऽभिधानतः ॥ ८८ ॥ कार्योऽयं ४सर्वदेवस्य प्रासादः शुभलक्षणः । उज्जन्तः ॥ चित्रकूटा(दू) यथोत्पन्नाः प्रासादा विमलादयः ॥ ८९ ॥ उज्जन्तात् तथा पञ्च मेरुप्रभृतयो मताः । मेरुश्च मन्दरश्चैव कैलासः कुम्भ एव च ॥ ९० ॥ गृहराज इति प्रोक्ताः प्रासादास्ते सुलक्षणाः । अष्टोत्तरमिहोद्दिष्टं प्रासादानां शतं बुधैः ॥ ९१ ॥ ज्येष्ठमध्यकनिष्ठानां साधारणां तथैव च । तेष्वलिन्दैर्युताः केचिद् भद्रैः केचिच्च वेष्टिताः ॥ ९२ ॥ केचिद् वर्णसमाः कार्याः प्रासादाः सर्वशोभनाः । सर्वेऽप्येते विधातव्या (रिजं ? ) भागप्रतिष्ठिताः ॥ ९३ ॥ क्रोणा न विषमाः कार्या वर्गभेदश्च नेष्यते । एकहस्ता द्विहस्ता ++++ ये प्रकीर्तिताः ॥ ९४ ॥ यक्षनारगृह्यादीनां (?) रक्षसां च भवन्ति ते । भागेन (धूमः ऋतु ?) त्रेधा विनिर्दिशेत् ॥ ९५ ॥ ज्येष्ठं मध्यं कनीयश्च ज्ञेयं तच्चांशमानतः । ज्येष्ठं सार्धत्रिहस्तं स्यात् त्रिहस्तं मध्यमं विदुः ॥ ९६ ॥ १ द. ध्वजवंशश्च तं० । २ द. पदु । ३ मु. पुस्तके 'पञ्चाशविस्तृतम्' इति स्यात् । ४ द. सर्वदैव स्यात् प्रा० । ५ द. घु । ६ द. रिजुतामग्रं० । ७ क्ष । वा. ५९

सार्धहस्तद्वयमितं कनीयस्तद् विधीयते । त्रिहस्तं ज्येष्ठमपरं १मध्यं हस्तसमन्वितम् ॥ ९७ ॥ अर्धहस्तं कनीयश्च मानं भागस्य कीर्तितम् । ज्येष्ठो भागो द्विहस्तः स्यात् पादोनं मध्यमः करम् ॥ ९८ ॥ कनीयान् मध्यमार्थेन भागमानमिदं करैः । षडन्वितास्त्रिंशदमी विचित्राः श्रीकूटका( यातितिथा ग्रवात् ? ) । प्रासादमुख्या इह षट्कप्रभेदा भिन्ना +++ सह मण्डपैश्च ॥ ९९ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे श्रीकूटादिषट्त्रिंशत्प्रासादलक्षणं नाम षष्टितमोऽध्यायः ।!

अथ पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः ।

इदानीं द्राविडान् ब्रूमः प्रासादाञ् शुभलक्षणान् । एकभूम्यादयस्ते स्युर्यावद् द्वादशभूमिकाः ॥ १ ॥ पीठान्यपि च कथ्यन्ते तेषां पञ्चैव लक्षणैः । तलच्छन्दाश्च पञ्चैव तेषां ये शुभलक्षणाः ॥ २ ॥ पीठमाद्यं भवेत् तेषु पादबन्धनमुत्तमम् । स्त्री(श्री)बन्धाख्यं द्वितीयं च तृतीयं वेदिबन्धनम् ॥ ३ ॥ प्रतिक्रममिति प्रोक्तं चतुर्थं पीठमुत्तमम् । पञ्चमं पीठमुद्दिष्टं नाम्ना क्षुरकबन्धनम् ॥ ४ ॥ एतानि पञ्च पीठानि प्रोक्तानीह समासतः । उत्सेधं भागविंशत्या विभजेत् पादबन्धने ॥ ५ ॥ १ द. र्धं । २ द. मध्यमर्हं । ३ द. ˚क˚ । मुद्रित पुस्तके ‘याः कथिता यथावद्’ इति स्यात् । ४ द. ट्क । ५ द. पुस्तके ‘प्रासादलक्षणं’ इत्ययं पाठः नास्ति । ६ द. कः ।

पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । ४६७ खुरकः पञ्चभागः स्याद् (द्वौ१) भागौ पद्मपत्रिका । भागिकी कणिका कार्या त्रिभागं कुमुदं भवेत् ॥ ६॥ कण्ठस्तु भागेनैकेन कण + श्र द्विभागिकः । पट्टिका भागमेकं स्याद् भागिकी पद्मपट्टिका ॥ ७॥ त्रिभागिकं कपोतं च कुर्यान्नासिकया सह । भागमेकं भवेच्छेद(:)पादबन्धाख्यपीठके ॥ ८॥ पद्मपत्र्याः प्रवेशः स्यात् खुरकादङ्गुलद्वयम् । ग्रासः षडङ्गुलस्तस्योः कुमुदं सप्तनिर्गमम् ॥ ९॥ प्रवेशमानं तावत् स्याद् यावद्दि( द्वि२)च्छेदपट्टिका । षडङ्गुलप्रवेशं च छेदपट्टस्य कारयेत् ॥ १०॥ समस्तैत्रं (?) विधातव्यं छेदस्य कणिकस्य च । निर्गमेण पुनस्तस्माद् द्वयङ्गुला कण्ठपट्टिका ॥ ११॥ अङ्गुलत्रितयं तस्याः पद्मपत्रीविनिर्गमः । (कपोतस्य ++++ तस्या?) स्यादङ्गुलत्रयम् ॥ १२॥ पट्टिकानां (सर्मसूत्रच्छेदानां च ७संष्ठिथः ?) । पादबन्धोऽयमाख्यातः श्रीबन्धः कथ्यतेऽधुना ॥ १३॥ ८पीठच्छेदस्य मानं तु सप्तविंशतिधा भजेत् । (१०तीडवर्तिचतुर्भाग ?) द्विभागा पद्मपत्रिका ॥ १४॥ कणिकां भागिकां कुर्यात् त्रिभागं कुमुदं ततः । छेदमेकं पदं ११विद्याद् भागं (मेडथरार्थं ?) तथा ॥ १५॥ मकरं भागमेकं च भागं मकरपट्टिकाम् । छेदमेकं पदं विद्यात् कण्ठमेकं पदं तथा ॥ १६॥ पट्टिकां भागमेकं च वेदी१२ भागं ततः परा१३ । छेदमेकपढं कुर्यात् ततः कण्ठं द्विभागिकम् ॥ १७॥ १ द. द्वि । २ द. स्य । ३ द. सू°। ४ द. माः । ५ द. अंगुलकपोतस्य । ६ द. मं । ७ द. संमष्ठिथः । ८ द. पीठस्थ्यो यस्य मा° । ९ द. ता । १० द. पी । ११ द. र्वि । १२ द. दीं । १३ द. रं ।

४६८ समराङ्गणसूत्रधारे पट्टिका भागमेकं च +++ पद्मपत्रिका । कपोतं नालिकायुक्तं विदधीत पदत्रयम् ॥ १८ ॥ छेदं च भागिकं कुर्यात् पीठे^२ श्रीबन्धनामनि । श्रीबन्धोऽयं समाख्यातो वेदीबन्धोऽथ कथ्यते ॥ १९ ॥ भागैरेकान्नविंशत्या (^४पीठस्याच्छोतिं ?) भजेत् । नीडवर्तिश्चतुर्भागा ^५द्विभागा पद्मपत्रिका ॥ २० ॥ कणिकां पदिकां ^६विद्यात् कुमुदं त्रिपदं तथा । कुर्वीत पदिकं छेदं तदुन्मेणदँस्तरं (?) बुधः ॥ २१ ॥ भागेनैकेन मकरं तथा मकरपट्टिकाम् । छेदं पदं ^८++कण्ठं भागिका^९ पद्मपत्रिका^१० ॥ २२ ॥ (कर्तव्या ?) भागिकीं^११ कुर्यात् कुमुदं च त्रिभागिकम् । छेदमेकपदं ^१२विद्यात् ततः कण्ठं द्विभागिकम् ॥ २३ ॥ पट्टिकां भागिकीं कुर्याद् भागिकीं ^१३++पट्टिकाम् । द्विभागो रसनापट्टाइछादस्तु पट्टिको भवेत् (?) ॥ २४ ॥ इति प्रतिक्रमं पीठं खुरबन्धोऽथुनोच्यते । वि(भजेद्) भागविंशत्या पीठोच्छ्रायं विचक्षणः ॥ २५ । नीरवर्तिश्चतुर्भागा +++ पद्मपत्रिका । कणिका भागमेकं स्याद् द्विभागं कुमुदं ततः ॥ २६ ॥ (^१५भागं मेदथाक्षेपो ?) मकरो भागिकस्तथा । भागमेकं विधातव्या ततो मकरपट्टिका ॥ २७ ॥ (^१६छेदा मकरपदं ?) कुर्यात् कण्ठमेकं पदं ततः । पट्टिकां भागिकीं विद्याद् भागिकी पद्मपत्रिका ॥ २८ ॥ कपोतं त्रिपदं कुर्यात् ततो नासिकया सह । छेदश्च भागिकः कार्यः खुरबन्धोऽयमीरितः ॥ २९ ॥ १ द. पद्मपत्रं° । २ द. ठं । ३ द नु । ४ मुद्रित पुस्तके 'पीठकस्योच्छ्रितिम्' इति स्यात् ; द. पीठस्यास्योच्छ्रतं । ५ द. विभा° । ६ द. र्दि । ७ द. ण्ड । ८ द. पदं । ९ द. कीं । १० द. कां । ११ द. वां । १२ द. र्दि । १३ द. पद्म । १४ द. स्तु । १५ द. भागामडधरोक्षेपो । १६ मु. पु. 'छेदमेकं पदं' इति स्यात् ।

पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । ४६९ पीठंपञ्चकमित्युक्तं सूत्रितं पूर्वमेव यत् । पीठादूर्ध्वं तु विज्ञेया प्राज्ञैः खुरवरण्डिका ॥ ३० ॥ सन्ति चान्यानि पीठानि लक्ष्मभेद़ादनेकधा । तेषां मध्ये प्रकृष्टत्वादेतत् पञ्चकमीरितम् ॥ ३१ ॥ प्रासादानथ वक्ष्यामस्तलच्छन्दादनन्तरम् । तत्र पद्मो महापद्मो वर्धमानस्तथापरः ॥ ३२ ॥ स्वस्तिकः सर्वतोभद्रः प्रासादाः पञ्च कीर्तिताः । चतुरश्रीकृते क्षेत्रे कर्णसूत्रं प्रसारयेत् ॥ ३३ ॥ कर्णस्यार्धं ततः कृत्वा (गर्भाद्वह् ? ) बहिर्नयेत् । तदग्रयोः सूत्रपातात् स्यादन्यच्चतुरश्रकम् ॥ ३४ ॥ ⁴कूटं कुर्याद् द्विभागेन ( संमस्तत्राद् ? ) विचक्षणः । सूकराननसंस्थानं कुर्वीत सलिलान्तरम् ॥ ३५ ॥ एवं सर्वेषु कूटेसु सलिलान्तरमिष्यते । यदायतं भवेत् सूत्रं चतुर्भागविभाजिते ॥ ३६ ॥ गर्भो द्विभागिकस्तेन भागिका⁶ भित्तिरुच्यते । गर्भकर्णार्धमादाय कोणास्तं( न्तं )लाञ्छयेत् पुनः ॥ ३७ ॥ अष्टसु ++ मध्ये स्यादेवं ++++ बहिः । एवं पद्मतलच्छन्दो विधातव्यो विचक्षणैः ॥ ३८ ॥ महापद्मतलच्छन्दमधुना सम्प्रचक्ष्महे । पूर्वं यः कीर्तितश्छन्दः ( सम्पाता सूत्रयेत्कृताः ? ) ॥ ३९ ॥ ¹⁰तेषु संपादयेद् ++++ दिग्विदिगन्तरे । कर्णार्धं दापयेत् तत्र बाह्यभागविनिर्मिता( र्गतम् ) ॥ ४० ॥ ( ¹²ण्डीग्रेय्यो ? )दिशोर्मध्ये लाञ्छनं यद् व्यवस्थितम् । नैर्ऋतीयाम्ययोर्मध्ये तस्मात् तन्त्र¹³ प्रसारयेत् ॥ ४१ ॥

१ द. पीठ कंचपंचक° । २ द. चि । ३ द. श्य । ४ द. च । ५ द. कूटं कुर्याद्ध्यर्धेगेन सम- सूत्राद्धिं । ६ मुद्रित पुस्तके ‘समसूत्रादि’ति स्यात् । ७ द. त्रं । ८ द. की । ९ द. मध्यमे । १० द. तेषु संपातये द्वे खे द्वे द्वेग्विदिमं ( गं )तरे । ११ द. तां । १२ द. ऐंद्राम्रेयो दिशोमंध्ये; मुद्रित पुस्तके ‘ऐन्द्र्याग्नेय्यो’ इति पाठः स्यात् । १३ द. सूत्रं ।

४७० समराङ्गणसूत्रधारे नैरृतीयाम्ययोर्मध्याद् वाय्वम्बुपदिगन्तरौ (रे) । वाय्वम्बुपदिशोर्मध्यादीशसोमदिगन्तरे१ ॥ ४२ ॥ तृतीयां +++++ कूटस्य जलान्तरम् । कूटयोरुभयोर्मध्ये सूक२राननसन्निभम् ॥ ४३ ॥ महापद्मतलच्छन्दः प्रोक्तोऽयं राजपूजितः । इदानीं वर्धमानस्य तलच्छन्दोऽभिधीयते ॥ ४४ ॥ चतुरश्रं ५भजेत् पञ्चदशधा क्षेत्रमादितः । कूटं३ द्विभागिकं +++++ सलिलान्तरम् ॥ ४५ ॥ पञ्जरं सार्ध ६+++ भागिकं सलिलान्तरम् । चतुर्भागा७ भवेच्छाला (द्विविद्ध्या र्व पञ्जरे मः ?) ॥ ४६ ॥ अर्धभागं प्रवेशस्तु शालास(स्व)८त्रं जलाध(ध्व)नः । अष्टाङ्गुलविनिष्क्रान्ते बाह्यतः शुभदर्शने ॥ ४७ ॥ भागपादं प्रवेशः स्यात् पञ्जरान्तज(र्ज)लाध्वै११नः । अर्धभागं प्रवेशस्तु ++++++++ ॥ ४८ ॥ जलान्तरं तृतीयं च कर्तव्यं भागसम्मितम् । अनन्तरं प्रकुर्वीत पञ्जरं सार्धभागिकम् ॥ ४९ ॥ १२भागमेकं तलच्छन्दो यथौवदमभिधीयते१३ । चतुरश्रं समं क्षेत्रमष्टाविंशतिधा भजेत् ॥ ५० ॥ कुर्यात् कूटं चतुर्भागं +++ सलिलान्तरम् । त्रिभागं पञ्जरं तद्वद् द्विभागं सलिलान्तरम् ॥ ५१ ॥ शालां षड्भागिकीं कुर्याज्जलमार्गं द्विभागिकम् । त्रिभागं पञ्जरं भूयश्चन्द्रशालाविभूषितम् ॥ ५२ ॥ पुनर्द्विभागिकं कुर्याच्चतुर्थं सलिलान्तरम् । विदधीत चतुर्भागं रथकं १४चै सुशोभनम् ॥ ५३ ॥ १ द. इतःपरं 'ईशशो मध्यादिन्द्रवह्निदिगंतरे ।' इत्यधिक पाठः । २ द. को । ३ द. भां । ४ द. त्य । ५ द. क्षेत्रं । ६ द. भागं च । ७ द. गां । ८ द. श्व । ९ द. दे । १० द. न्न । ११ द. धनः । १२ वर्धमानतलच्छन्दलक्षणापरिसमाप्तावेव छन्दान्तरस्य लक्षणोपक्रमादादर्श ग्रन्थपातोऽनुमीयते । मुद्रित पुस्तके पाठः । १३ द. दा । १४ द. वस्तु ।

पीठपञ्चकलक्षणं नामैकषष्टितमोऽध्यायः । ४७१ एवं दिक्षु समस्तासु समैर्भागैः प्रकल्पयेत् । चतुर्भागे ततः क्षेत्रे गर्भं कुर्याद् द्विभागिकम् ॥ ५४ ॥ स्वस्तिके¹ वर्धमाने च भागिक्यो भित्तयः स्मृताः । स्वस्तिकोऽयं तलच्छन्दः कथितोऽतिमनोहरः ॥ ५५ ॥ इदानीं सर्वतोभद्रतलच्छन्दोऽभिधीयते । चतुरश्रीकृते क्षेत्रे गर्भं कुर्याद् द्विभागिकँम् ॥ ५६ ॥ कुर्यात् त्रिभागिकं कूटं जलमार्गं द्विभागिकम् । त्रिभागिकं ततः कूटं तोयमार्गं द्विभागिकम् ॥ ५७ ॥ शालाष्टभागिकी कुर्याज्जलव(र्त्म)द्विभागिकम् । भूयस्त्रिभागिकं कूटं द्विभागं सलिलान्तरम् ॥ ५८ ॥ त्रिभागिकी³ च रथिका⁴ भवेद् दिक्षु (चतुर्दश?) । चतुरश्रीकृते(तं)क्षेत्रे(त्रम्) अष्टाविंशतिधा भजेत्⁷ ॥ ५९ ॥ कुर्यात् त्रिभागिकं कूटं चतुर्धा प्रविभाजिते । भागिक्यो भित्तयः कार्यास्तथा गर्भो द्विभागिकः ॥ ६० ॥ इत्येष सर्वतोभद्रस्तलच्छन्दो विधीयते । एते प्रोक्ता निरन्धाराः सान्धारांस्तु प्रचक्ष्महे ॥ ६१ ॥ चतुरश्रीकृतं क्षेत्रं भजेद् द्वादशभिः पदैः । चतुर्भागो भवेद् गर्भो भागिक्यो भित्तयः स्मृताः ॥ ६२ ॥ भागिकान्धारिका तद्वद् द्विभागा बाह्यभित्तयः । एवमेते तलच्छन्दाः पञ्चार्याः परिकीर्तिताः ॥ ६३ ॥ पीठान्युक्तान्येवमेतानि पञ्च प्रासादानां नामभिर्लक्षणैश्च । पञ्च प्रोक्ता ये तलच्छन्दभेदा- स्तैर्विज्ञातैः पूज्यतामेति लोके ॥ ६४ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे पीठपञ्चकाध्यायो नामैकषष्टितमोऽध्यायः ॥ १ द. 'केर्वे°। २ द. मू। ३ द. कां। ४ द. कीं। ५ द. कां। ६ द. र्दिशं। ७ द. भवेत्। ८ द. रा। ९ द. क्ष्म्यहे। १० द. याः।

४७४ समराङ्गणसूत्रधारे

कूटं तदूर्ध्वं कुर्वीत विचित्रं नासिकान्वितम् । छेदान्तं पूर्वमानेन सर्वमेतद् विधीयते ॥ २४ ॥ तस्योपरि पुनर्जङ्घा सर्वाभरणभूषिता । ततो मालाथ (ल) शुनं तोरणं कलशस्ततः ॥ २५ ॥ वीरगण्डस्ततो (थो) च्छालं पत्रकं वीरगण्डकः । हीरकं पट्टिका तद्वद्वसन्तपट्टिका पुनः ॥ २६ ॥ कपोतच्छेदमेहाश्च (मँकरोऽस्य ?) च पट्टिका । छेदः करपट्टिका च (?) वेदीच्छेदोऽथ कण्ठकः ॥ २७ ॥ पट्टिका पद्मपूर्वा च कर्तव्या पट्टिका ++। ततश्छेदो विधातव्यः सर्वैराभरणैर्युतः ॥ २८ ॥ ततश्छित्त्वा तथा कार्यं यथा शोभा प्रजायते । पुनः कण्ठ्यं(?) प्रदातव्यः पट्टिका पद्मपट्टिका ॥ २९ ॥ ततः कण्ठं विधातव्यं चन्द्रमालाविभूषितम् (?)। प्रकुर्वीत ततःच्छेदमपरिष्टाद् विचक्षणः ॥ ३० ॥ कण्ठपट्टिकया युक्तं तदूर्ध्वं कण्ठपट्टिकाम् । सप्ताङ्गुलानि कर्तव्यस्ततो घण्टाविनिर्गमः ॥ ३१ ॥ भागार्धं विस्तृतैस्तस्या विस्तारार्धं समुच्छ्रितिः । एवं द्विभूमिकं प्राज्ञः प्रासादं परिकल्पयेत् ॥ ३२ ॥ द्विभूमिकः ॥ त्रिभूमिकस्तृतीयोऽथ प्रासादोऽस्माभिरुच्यते । तस्यैकादश विस्तारो हस्तः पञ्चदशोच्छ्रयः ॥ ३३ ॥ चतुर्दशाङ्गुलान्येषां भवेदस्याधिकापि(नि) च । +++भूमिकस्यैतत् कर्णमानमसंशयम् ॥ ३४ ॥ पीठं द्विहस्तं कुर्वीत तत्रादौ पूर्वसूचितम् । जङ्घां त्रिभागिकोत्सेधां कूटोच्छ्रायं तु भागिकम् ॥ ३५ ॥

१ द. भ । २ द. ंदं मेहांश्च । ३ मुद्रित पुस्तके 'मकराख्या' इति स्यात् । ४ द. भूमिकः । ५ द. रा । ६ द. च्छिृत्वाः ।