समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
५०४ समराङ्गणसूत्रधारे वेदी चतुष्पदोत्सेधा जङ्घा भागाष्टकोच्छ्रिता । षट्पदा भूमिका + + + +¹ पञ्चपदायता ॥ ४३ ॥ स्यात् सम्पदे चतुर्भागा तृतीयान्या पदोच्छ्रिता । (सांद्रिवांसवघंटा ?) स्यात् पूर्ववत् कलशादिकाः ॥ ४४ ॥ नन्द्यावर्तोऽयमाख्यातः प्रासादः सर्वकामदः । अथातः सम्प्रवक्ष्यामः प्रासादं नन्दिवर्धनम् ॥ ४५ ॥ चतुरश्रीकृते क्षेत्रे पदाष्टदशकाङ्किते² । कोणस्त्रिपदविस्तारः प्रत्यङ्गं स्यात् पदद्वयम् ॥ ४६ ॥ शाला चतुष्पदा प्रोक्ता चित्रकर्मोपशोभिनौ । पादोनभागमानेन निर्गमः स्यात् परस्परम् ॥ ४७ ॥ कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा । भागेन विस्तृतं कार्यं सर्वत्र सलिलान्तरम् ॥ ४८ ॥ गर्भः स्याद् दशभिर्भागैर्भित्तिर्भागचतुष्टयात् । ऊर्ध्वमानमथ ब्रूमो द्विगुणं तत् प्रकीर्तितम् ॥ ४९ ॥ वेदीबन्धोऽशकाः पञ्च जङ्घा स्यादष्टभागिका । प्रथमा भूमिका कार्या कपोतालीसमन्विताँ ॥ ५० ॥ सपादैः पञ्चभिर्भागैर्द्वितीया तद्वदेव हि । तृतीया तु भवत्यस्य भूमिका पञ्चभागिका ॥ ५१ ॥ चतुर्थी भूमिका ज्ञेया सार्धभागचतुष्टया । घण्टा तस्योर्ध्वतः कार्या पदत्रयसमुच्छ्रिता ॥ ५२ ॥ शुकाद्या य(शू)रसेनश्च स्तम्भिकाकूटभक्तयः । कलशस्योदयस्तस्य विधेयाश्चास्य पूर्ववत् ॥ ५३ ॥ अमुं यः¹¹ कारयेदन्यः प्रासादं नन्दिवर्धनम् । स नन्दिगणसामान्यो जायते नात्र संशयः ॥ ५४ ॥ १ द. द्वि पंचदायता । २ द. ॰ष्ठिता । ३ द. यं । ४ द. तौ । ५ द. तं । ६ द. भागैश्च° । ७ द. तः । ८ द. यं । ९ द. न्न । १० द. द्विद्विधेय । ११
दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ५०५ अतः परमथ ब्रूमो विमानं शुभलक्षणम् । चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥ ५५ ॥ को(णाः) पञ्चपदाः कार्या मध्ये च सलिलान्तरम् । कर्णिका सार्धभागेन भागार्धमुदकान्तरम् ॥ ५६ ॥ (१सालोपचद ?) विस्तीर्णा सार्धभागेन निर्गता । कोणस्य चार्धभागेन कर्णिकानिर्गमः स्मृतः ॥ ५७ ॥ गर्भश्चास्य विधातव्यो द्वादशांशकविस्तृतः । भित्तिश्चतुष्पदा कार्या दिक्षु सर्वासुव्यवस्थितां ॥ ५८ ॥ ऊर्ध्वमानमथैतस्य ब्रूमस्तद् द्विगुणं भवेत् । वेदीबन्धोऽशकाः पञ्च जङ्घा नवपदोच्छ्रिता ॥ ५९ ॥ प्रथमा भूमिका कार्या भागैः षड्भिः समुच्छ्रिता । शतपत्रां कपोतालीं मध्ये चास्याः प्रकल्पयेत् ॥ ६० ॥ द्वितीया भूमिका चास्य विधेया पञ्चभिः पदैः । अर्धेऽस्याः स्तम्भकोच्छात्रं कूटं चार्धव्यवस्थितम् ॥ ६१ ॥ (४परस्परपार्धेन हर्मा ?)स्तिस्रोऽन्यभूमिकाः । स्तम्भिकाकूटभरणशूरसेनाः सघण्टकाः ॥ ६२ ॥ कलशस्योदयश्चात्र प्राग्वत् कार्या विपश्चिता । य इमं कारयेद् भक्त्या विमानाख्यं नृपुङ्गवः ॥ ६३ ॥ इह भोगान् स लभते तथा (सत्कायदंविधे?) । अथ पद्माप्रियप्रीतिजननः पद्म उच्यते ॥ ६४ ॥ चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः । कोणाश्चतुष्पदाः कार्याः सलिलान्तरभूषिताः ॥ ६५ ॥ द्विपदः पञ्जरो ज्ञेयो गर्भे कोणाश्चतुष्पदाः । (८भागःस्यात् ?) षोडशांशेन तदन्ते सलिलान्तरम् ॥ ६६ ॥ १ मु. पु. 'शाला षट्पद' इति स्यान्; द. स। २ द. ताः । ३ द. तां । ४ मु. पुस्तके 'परस्परं पदार्धेन हीना' इति स्यात् । ५ द. ता । ६ द. नो । ७ द. त्रि । ८ द. भागस्य; मुद्रित पुस्तकेऽपि 'भागस्य' इत्येव पाठभेदः स्वीकृतः । वा. ६४
५०६ समराङ्गणसूत्रधारं गर्भः स्यान्नवभिर्भागैर्भित्तिः सार्धपदत्रयम् । ऊर्ध्वमानमथ ब्रूमस्तथा(द)स्य द्विगुणं भवेत् ॥ ६७ ॥ द्वितीया भूमिका ज्ञेया भागैः पञ्चभिरुच्छ्रिता । अन्योन्यं तु पदार्धेन हीनं स्याद् भूमिकाद्वयम् ॥ ६८ ॥ स्तम्भिकाकूटभरणशुकाय्रै(ग्रा)शूरसेनकाः । घण्टा(कोरस ?)विस्तार भवन्त्येतस्य पूर्ववत् ॥ ६९ ॥ पद्मप्रासादमेनं यः कारयेद् भक्तिसंयुतः । स श्रीपतिरिव श्रीशो भवत्यवनिमण्डनः ॥ ७० ॥ महाभद्रमथ ब्रूमः प्रासादमतिसुन्दरम् । चतुरश्रीकृते क्षेत्रे विंशत्या सैकयाङ्किते ॥ ७१ ॥ कोणाश्चतुष्पदाः सार्धद्वयंशाः प्रत्यङ्गकाः स्मृताः । शाला पञ्चपदा कार्या दिक्षु सर्वासुव्यवस्थिता ॥ ७२ ॥ पादोनभागविस्तारं कर्तव्यं सलिलान्तरम् । गर्भस्त्रयोदशपदो भित्तयश्च चतुष्पदाः ॥ ७३ ॥ ऊर्ध्वमानमथैतस्य ब्रूमस्तद् द्विगुणं भवेत् । वेदी चतुष्पदोत्सेधा जङ्घा स्यादष्टभागिका ॥ ७४ ॥ सप्तभागसमुत्सेधा विधेया चादिभूमिका । मध्ये सान्तरपत्रास्याः कपोताली पदत्रयम् ॥ ७५ ॥ द्वितीयभूमिका चास्य सार्धैः षड्भिः पदैः स्मृता । भागभागविहीनास्तु तिस्रोऽन्या भूमिकास्ततः ॥ ७६ ॥ घण्टा भागत्रयोत्सेधा पद्मपत्रिकया सह । स्तम्भिकाकूटभरणशुकाग्राशूरसेनकाः ॥ ७७ ॥ कलशः (कुम्भं नथाः ?) प्राग्वत् तस्य भवन्त्यमी । महाभद्रमिमं योऽत्र कारयेद् भक्तिमान् नरः ॥ ७८ ॥ १ द. ग्र। २ द. कालस; मुद्रित प्रतौ 'कलश' इति स्यात् । ३ द. रिवाश्चेसाङ्क° । ४ द. दाः । ५ द. ताः । ६ द. धो । ७ द. स्तंभकाः कूटभरणा । ८ द. कलशः कुंभनाथाः । ९ द. मां ।
दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ६०७ स स्वर्गे सुरनारीभिः सेव्यते मदनाज्ञया । अथ श्रीवर्धनमानस्य लक्ष्म साम्प्रतमुच्यते ॥ ७९ ॥ चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते । कोणाः षड्भागिकाः कार्याः शालाः स्युर्नवभागिकाः ॥ ८० ॥ सार्धं पदद्वयं कार्यः १ शालानामत्र निर्गमः । कुर्याज्जलान्तरं तत्र मध्यतः कोणशालयोः ॥ ८१ ॥ विस्तृतं सार्धभागेन प्रविष्टमपि भागतः । (कोणे मध्यं ? ) विधातव्यं भागेनैवोदकान्तरम् ॥ ८२ ॥ नवांशकृ(क्लृ)प्तशालायाः प्रत्यङ्गौ द्वावुदाहृतौ । भागं ३ द्वितयविस्तारौ भागेनैकेन निर्गतौ ॥ ८३ ॥ चतुर्दशपदो गर्भो ४ भित्तिः पञ्चपदा स्मृता । ऊर्ध्वमानमथ ब्रूमस्तदस्य द्विगुणं भवेत् ॥ ८४ ॥ वेदिका षट्पदोत्सेधा जङ्घैकादशभिः पदैः । प्रथमा भूमिका चास्य कार्या सप्तांशकोच्छ्रिता ॥ ८५ ॥ पादोनैः सप्तभिर्भागैर्द्वितीया भूमिकेष्यते । तृतीया भूमिका षड्भिः सपादैर्जायते पदैः ॥ ८६ ॥ (पादेन षट्कौ ? ) भागेन चतुर्थी भूमिका स्मृता । भागं भागं विधातव्यः प्रवेशः प्रतिभूमिकम् ॥ ८७ ॥ सपादैः पञ्चभिर्भागैः कार्यों घण्टासमुच्छ्रयः । भागत्रयसमुत्सेधस्तदूर्ध्वं कलशो भवेत् ७ ॥ ८८ ॥ सुकाघ्रासूरसेनश्च स्तम्भिकाकूटभक्तयः । कार्या पूर्वोक्तमार्गेण विचित्रकर्मोपशोभिताः ॥ ८९ ॥ १ द. र्य । २ मु. पु. 'कोणमध्ये' इति स्यात् । ३ द. भागं द्वि° । ४ द. र्भो । ५ द. पा । ६ मु. प्रतौ 'पादेन षट्क' इति स्यात् । ७ द. दूर्ध्व । ८ मुद्रित पुस्तकानुसारेण इत ऊर्ध्वं मातृकायां पत्रमेकं (२३३ तमं) लुप्तम् परन्तु 'द.' पुस्तकानुसारतः 'सुकाघ्रा......अष्टाविंशति पदाङ्किते' इत्यन्तं अधिकः श्लोकपाठ उपलभ्यते ।
५०८ समराङ्गणसूत्रधारे श्रीवर्द्धमानं य इमं प्रासादं कारयेन्नृपः । यशः श्रीश्रेयसांगस्य वृद्धि स्यादुत्तरोत्तरा ॥ ९० ॥ पद्मयोनिपृथः सद्मश्चथ कीर्त्यते । चतुरस्त्रीकृते क्षेत्रे विंशत्येकोनयान्तिके ॥ ९१ ॥ कोणाश्चतुष्पदाः कार्या प्रत्यङ्गा अपि तत्समाः । परिवर्तनकर्त्तव्या परस्परममी शुभाः ॥ ९२ ॥ शाला नवांशविस्तीर्णा स्यात् पदत्रयनिर्गमा । शालालस्ताश्च कर्त्तव्या द्विभागा बालमञ्जरी ॥ ९३ ॥ कर्णप्रत्यङ्गयोर्मध्ये बालप्रत्यङ्गयोस्तथा । जलन्तराणि कार्याणि तत्प्रमाणस्य मध्यतः ॥ ९४ ॥ गर्भः सप्तदशांसः (शः) स्याद्भित्तयः षड्भिरंशकैः । ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥ ९५ ॥ वेदी षड्भागिकोत्सेधा जङ्घाभागास्त्रयोदश । सप्तभागसमुत्सेधा कर्त्तव्या चादिभूमिका ॥ ९६ ॥ षड्भिः सार्धैः द्वितीया स्याद्भागभागोज्झिते परे । पञ्चमी स्याच्चतुर्भागा भागार्द्धेन परेत्पृथक् ॥ ९७ ॥ प्रवेशः कूटदम्भैण भूमीनां स्यात् परस्परम् । भूमिकार्द्धं विधातव्यं स्तम्भिकाभरणान्वितम् ॥ ९८ ॥ अपरं कूटशोभातिरर्द्धमस्याविभूषयेत् । घण्टापञ्चपदोत्सेधा विस्तृता गर्भमानतः ॥ ९९ ॥ सुकाद्याद्य परं यत्तु पूर्ववत्तत् प्रकल्पयेत् । महापद्माभिधयोत्र प्रासादं कारयेत् सुधीः ॥ १०० ॥ इहामुत्र च निर्द्वन्द्वः स परं सुखमश्नुते । लक्ष्याथ पञ्चशाला प्रासादस्याभिधीयते ॥ १०१ ॥ चतुरस्त्रीकृते क्षेत्रे अष्टाविंशतिपदान्तिके । तस्यार्जनफलाः काराः कोणा पञ्चपदाः स्मृताः ॥ १०२ ॥ प्रत्यङ्गास्त्रिपदाः कार्या भागद्वितयनिर्गता । शाशा (ला) ष्टपदविस्तारा पदत्रितयनिर्गमा ॥ १०३ ॥
दिम्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ५०९ कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा । भागेन विस्तृतं कार्यं प्रविष्टं च जलान्तरम् ॥ १०४ ॥ गर्भः षोडशभिर्भागैः भित्तयोऽपि च षट्पदाः । ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥ १०५ ॥ विधेयो वेदिकाबन्धः सार्धपञ्चपदोच्छ्रयम् । जङ्घा चास्य भवेत् कार्या तत्रैकादशभागिका ॥ १०६ ॥ सार्द्धसप्तपदोत्सेधा विधातव्या च भूमिका । कपोतपाली कार्यास्य मध्ये भागत्रयोच्छ्रिता ॥ १०७॥ अयं भूमिप्रमाणेण स्याद्वितीयाऽपि भूमिका । तृतीया सप्तभिर्भागैश्चतुर्थी सार्धषट्पदा ॥ १०८ ॥ पञ्चमी षट्पदा कार्या घण्टा पञ्चपदोच्छ्रिता । शालास्थानेषु सर्वेषु कर्त्तव्यं पञ्चघण्टकम् ॥ १०९ ॥ कुमारैः पञ्चभिर्युक्तं पञ्चशालयमुच्यते । शुकाघ्रासूरसेनादि यच्चान्यत् कलशादिकम् ॥ ११० ॥ तदस्य पूर्ववत् कार्यं पञ्चशालस्य धीमता । पञ्चशालमिमं यस्तु प्रासाद(दं)का(र)येद्भुवि ॥ १११ ॥ तस्य धन(न्य)स्य सन्तानेऽप्यतुला(लं) जायते सुखं । अथातः संप्रवक्ष्यामः प्रासादं पृथिवीजयम् ॥ ११२ ॥ चतुरस्त्रीकृते क्षेत्रेऽष्टाविंशतिपदाङ्किते । ¹+++++++++++ पदाः स्मृताः । भागद्वितयविस्ताराः कर्तव्या बालपञ्जराः ॥ ११३ ॥ शाला² षड्भागविस्तीर्णा भागत्रि³(तयमुच्छ्रिता) । (को)णप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा ॥ ११४ ॥ कक्षान्तरे विधातव्यं भागिकं सलिलान्तरम् । गर्भः ⁴स्याद् ५दशभिर्भागैर्भित्तिः कार्यास्य षट्पदा⁶ ॥ ११५ ॥ १ द. कोणाः कार्यश्चतुर्भागा प्रत्यङ्गास्त्रिपदाः स्मृताः । २ द. लाः । ३ द. त्रितयनिर्गताः । ४ द. बा । ५ द. षोड । ६ द. दाः ।
५१० समराङ्गणसूत्रधारे षट्पदा स्यात् तृतीयात्रे¹ ++ भागोच्छ्रिताः पराः । कैर्ण² ++++ स्तिस्रो घण्टा चाष्टपदोच्छ्रिता ॥ ११६ ॥ कूटैरलङ्कृता कार्या शुकाद्यादि च पूर्ववत् । सै⁴ +++ पि चैतेषां प्रासादार्धेन कारयेत् ॥ ११७ ॥ घण्टां तु संहतां श्लक्ष्णां बन्धनैरुपशोभिताम् । यादृशी कर्म⁵ ++ ने कूटेष््वेषां विधीयते ॥ ११८ ॥ भद्रेषु तादृशी कार्या कृत्स्नप्रासादसिद्धये । य इमं कारयेद् राजा प्रासादं पृथिवीजयम् ॥ भुनक्ति निखिलां पृथ्वीं स सप्ताम्भोधिमालिनीम् ॥ ११९ ॥ इतीरिता द्वादश( स्यगर्तै ? ) प्रासादमुख्याः शुभलक्ष्मयुक्ताः । वावाटसंज्ञांस्तदमून् विदित्वा ( लभेत् पूज्यस्यैर्यंते नृ ? )पेभ्यः ॥ १२० ॥ इति महाराजाधिराजपरमेश्वरश्रीमद्भोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे ¹¹( वटोक ?)प्रासादो नाम चतुःषष्टितमोऽध्यायः ॥
अथ भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । भूमिजानां विमानानां ब्रूमो लक्ष्म क्रमागतम् । चतुरश्रीकृतानां च वृत्तानां (¹²वृंत पूर्वशः ?) ॥ १ ॥ केषाञ्चिन्निर्गमस्तत्र जायते भागसंश्रया । केषाञ्चित् पुनरेष स्याद् वृत्तमध्यमधिष्ठितः ॥ २ ॥ चतुरश्रीकृते क्षेत्रे दशभागवि¹³भाजिते । चतुर्भूमियुतस्याथ लक्ष्म ¹⁴त्संशस्य ( च्छन्दस्य ) कथ्यते ॥ ३ ॥ १ द. भागं । २ द. ष्टि । ३ द. कर्तव्या भूमिका । ४ द. सर्वेषामपि । ५ द. कर्मरचना । ६ द. ज । ७ द. नां । ८ द. ज्ञा । ९ मु. 'लभेत् पूजां स्थपतिर्नृ' इति स्यात् । १० द. प । ११ द. वटोकप्रासादोऽध्यायो नाम चतुःषष्टितमः ॥ छ ॥ १२ द. च वृत्तपूर्वशः । मु. पाठस्तु 'अनुपूर्वशः' इति स्यात् । १३ द. रा । १४ द. त्र्यंशस्य ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५११ चत्वारश्चतुरश्राः स्युर्निषधो मलयाचलः । माल्यवान् नवमाली च निषधस्तेषु कथ्यते ॥ ४ ॥ (कोणां शंभोतरो द्व्यंशं १भार्दशंभोर्धभागिकः ?) । विस्तारायामतः प्रोक्तो भद्रं पञ्चांशविस्तृतम् ॥ ५ ॥ कार्या(ः) पादोनभागेन भद्रस्यैतस्य निर्गमौ३ः । कार्या पल्लम्बि(वि)का तस्य पादभागेन विस्तृता ॥ ६ ॥ भागेन कर्णिका कार्या विस्तृत्या निर्गमेण च । प्रतिभद्रं च ४भागार्धनिर्गतं तत्र कल्पयेत् ॥ ७ ॥ पादोनभागद्वितयं प्रतिभद्रस्य विस्तृतिः । षड्भिर्भागैर्भवेद् गर्भो भित्तिरस्य द्विभागिका ॥ ८ ॥ तलच्छन्दस्य लक्ष्मोक्तमूर्ध्वमानमथोच्यते । विस्तृतेर्द्विगुणं तच्च चतुर्भा६गौधिकं भवेत् ॥ ५९ ॥ वेदीबन्धो भवेदस्य सार्धभागद्वयोच्छ्रितः । त्तत्तु भागद्वयं सार्धं विभजेदर्धपञ्चमैः ॥ १० ॥ भागद्वयेन कुम्भः स्यात् कलशो भागिकः स्मृतः । भागार्धेनान्तरं पत्रं कपोतली तु ७भागिकी ॥ ११ ॥ (८उ)क्तोऽयं वेदिकाबन्धो भागैरित्यर्धपञ्चमैः । अर्धपञ्चमभागैः९ स्याज्जङ्घोच्छालकसंयुता ॥ १२ ॥ त्रिभिं ++++++ भूत्सेधः सवरण्डिकः । द्वितीयास्य भवेद् भूमिरर्धपञ्चमभागिका ॥ १३ ॥ कुम्भः सोच्छालकां१० +++++ यापि तावता । तृतीया स्या(द्) भूर्विधेया(११स्यासादा ?) चतुरङ्गिका ॥ १४ ॥ चतुर्थी चतुरो (भागाश्चः समु१२ +++++) । (१३कु)म्भः सोच्छालकः कूटस्योच्छ्रायोऽपि च पूर्ववत् ॥ १५ ॥ १ द. णः । २ द. शार्थं । ३ द. मः । ४ द. त्रि । ५ द. गो । ६ द. प्रो । ७ द. गः । ८ द. तां । ९ द. रसैर्भवेद्यद्य । १० द. ऽकोर्द्धेन कूटोच्छ्रायोऽपि तावता । ११ द. स्य सा पादा । १२ द. च्छ्रायतो भवेत् । १३ द. स्तं ।
५१२ समराङ्गणसूत्रधारे वेदी स्यात् सांशका सार्धपञ्चांशा स्कन्धविस्तृतिः । (१+++++खेत्सार्धं ?) चतुर्गुणितविस्तरात् ॥ १६ ॥ तले या कथिता शाला भागपञ्चकविस्तृता । स्कन्धस्थानं ++++ भागद्वितयविस्तृता(:) ॥ १७॥ रेखावशेन कर्तव्याः ३ प्रवेशाँश्च क्रमात्तु(माद् भु)वाम् । मूलतः स्कन्धपर्यन्तं घण्टायाः पु+++ ५ याः ॥ १८ ॥ भवेत् प्रासादविस्तारः (६पञ्चमणेव ?) सुन्दरः । (वैदंकोऽर्धेतरं ?) यत् स्याच्छालायास्तत्प्रमाणतः ॥ १९ ॥ ८++ ये विस्तरः प्रोक्तस्तं + षड्भिर्विभाजयेत् । भागेनैकेन कण्ठस्य प्रवेशः परितो भवेत् ॥ २० ॥ कण्ठवृत्तं चतुर्भागविस्तृतं परिकल्पयेत् । घण्टोत्सेधं त्रिभिर्भागैर्विभजेत् तत्र भागिकां(त्) ॥ २१ ॥ घण्टोत्सेधार्द्धतः कार्यं पद्मं(द्म)शीर्षं विपश्चिता । उत्सेधात् कलशो द्व्यंशः सार्धभागेन विस्तृतः ॥ २२ ॥ शिखरात् त्र्यंशहीना स्यात् सर्वत्र (११द्युताशिका ?) । इति त्र्यंशश्चतुर्भूमिः प्रासादो निषैधो मतः ॥ २३ ॥ सर्वासामेव कर्तव्यो देवतानां विभूषयेत्(तये) । निषधप्रासादः ॥ मलयाद्रेरिदानीं तु लक्षणं सम्प्रचक्ष्महे ॥ २४ ॥ चतुरश्रीकृते क्षेत्रे द्वादशांशविभाजिते । कर्णा द्विभागिकाः कार्याः समं सलिलवर्त्मभिः ॥ २५ ॥ शाला स्यात् पञ्चभिर्भागैः सार्धांशस्तु प्रतीरथः । स शालाकर्णयोर्मध्ये कर्तव्यः सोदकान्तरः ॥ २६ ॥ प्रतीरैथस्य +++ श्चौर्घभागं विनिर्गमः । भवेत् (पथविकान्यः स विभागोऽन्य + ?) पूर्ववत् ॥ २७॥ १ द. वेणुका संलि० । २ द. स्थानेषु सा कार्या । ३ द. व्यः । ४ द. श । ५ द. ०नरुच्छ्रयः । ६ द. पंचमं णेव सुन्दरः । ७ द. दि । ८ द. घण्टयोर्विस्तरः प्रोक्तस्तं ष । ९ द. कं । १० द. ०र्ध । ११ द. शुनाशिका । मुद्रित पुस्तके 'शुकनासिका' इति स्यात् । १२ द. षे । १३ द. ति । १४ द. पश्चा० ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१३ ते च(?) द्वादशभागा ये दशभिस्तान् विभाजयेत् । गर्भभित्तिं तथोत्सेधं जङ्घायाः प्रथमक्षितेः १॥ २८ ॥ वेदीबन्धस्य चोत्सेधं पूर्वमानेन कारयेत् । मध्यं पल्लविकान्तं तु शालयोर्दशभिर्भजेत् ॥ २९ ॥ क्षितेरारभ्य पूर्वस्याः स्कन्धं यावत् समुच्छ्रिता(तिः) । कार्या द्वादशभिर्भागैरनन्तरनिरूपितैः ॥ ३० ॥ सार्धैकोनविंशत्या भाजयेद् भूय एव ताम् । द्वितीयभूमिकोत्सेधस्तैर्भवत्यथ भागिकौ३(?) ॥ ३१ ॥ त्रिस्रोऽन्याः पदपादेन हीनाः कार्या यथाक्रमम् । भागेन वेदिकोत्सेधः शाला कार्या च नागरः (?) ॥ ३२ ॥ ऊर्ध्वमाद्यं(च)क्षितेः कार्या मालायाः४ शूरसेनकाः । कोणप्रतिरथा ये तु पञ्चभागसमुच्छ्रिताः ॥ ३३ ॥ स्तम्भोच्छालकमध्येन तेषु कूटोच्छ्रिता(ति)स्तथा । अर्धेन प्रविधातव्या भूष्वन्यास्वप्ययं विधिः ॥ ३४ ॥ स्कन्धविस्ताररेखा भूप्रवेश(शो) घण्टया सह । कलशः शुकनासस्य चोच्छ्रितिः पूर्ववद् भवेत् ॥ ३५ ॥ मलयाद्रिरयं प्रोक्तः प्रासादः शुभलक्षणः । य एनं कारयेत् तस्य तुष्यन्ति सकलाः सुराः ॥ ३६ ॥ वर्षकोटिसहस्राणि स्वर्गलोके महीयते । मलयाद्रिप्रासादः ॥ अथ माल्यवतो लक्ष्म यथावदभिधीयते ॥ ३७ ॥ भजेदर्धयुतैः पञ्चदशभिश्चतुर६++। कर्णौ द्विभागिकाः कार्याः शाला पञ्चांशविस्तृता ॥ ३८ ॥ कर्णाभ्यर्णैऽशयुगलं पादोनाः(नं) स्युः प्रतीरथाः । शालायाः पार्श्वयोः कार्यों पण्डा(ञ्ज)रौ सार्धभागिकौ ॥ ३९ ॥ १ द. ते । २ द. पूर्वस्यात्स्कंधया च । ३ द. कः । ४ द. यां । ५ द. ति । ६ द. स्रकं । वा. ६५
५१४ समराङ्गणसूत्रधारे पृथक्पञ्जरशालाया¹ ++++ र्धभागिका । शालायाः पल्लवी या च (स्या) निर्गमश्चार्धभागिका(कः) ॥ ४० ॥ सार्धपञ्चदशोक्ता ये भागास्ता² +++++ । गर्भोऽथ भित्तिविस्तारस्तथा खुरवरण्डिका ॥ ४१ ॥ ³जङ्घाधः क्षितिराचा च रेखोच्छ्रायश्च पूर्ववत् । ⁴++++++ भाव्यं पादहीनाष्टयुक्तया ॥ ४२ ॥ पञ्चभागसमुत्सेधा द्वितीया भूमिका भवेत् । ⁵पादपादविही(नाःस्युस्तिस्रोऽन्याभू)मयः (क्रमात्) ॥ ४३ ॥ सार्धांशो वेदिकोच्छ्रायः कर्तव्यो वास्तुवेदिभिः । स्कन्धस्य विस्तुती⁶ रेखा घण्टा च कलश(स्तथा) ॥ ४४ ॥ (⁷++ यांस्तरासमाश्च ?) स्तम्भकूटादिकल्पना । शुकनासोच्छ्रति(श्चेति इति एतानि ?) पूर्ववत् ॥ ४५ ॥ ⁸इत्येवं माल्य(वान् नाम) प्रासादः परिकीर्तितः । य एनं कारयेत् तस्य जा⁹यन्ते सर्वसिद्धयः ॥ ४६ ॥ शिवलोके निवासोऽस्य भवेत् कं¹⁰ल्पायुरप्ययम् । माल्यवान्¹¹ ॥ नवमालिकसंज्ञै¹²स्य लक्षणं कथ्यतेऽधुना ॥ ४७ ॥ चतुरश्रीकृते क्षेत्रे भक्तेऽष्टादशभिः पदैः । कर्णा द्विभागिकाः कार्याः समं सलिलवर्त्मभिः ॥ ४८ ॥ शाला स्यात् पञ्चभिर्भागैः पार्श्वयोर्बालपञ्जरौ । सपादभागिकौ तौ च कार्यौ (स)सलिलान्तरौ ॥ ४९ ॥ कर्णाभ्यर्णे प्रतिरथौ (पौ¹³दौ नालद्वयोन्मिनौ ?) । तौ सोदकान्तरौ कार्यौ पै¹⁴ञ्जरौ सार्धभागि¹⁵कौ । ५० ॥
१ द. ˚नां निर्गमाश्चार्धभागिकाः । २ द. ˚स्तां दशभिर्भजेत् । ३ द. जंघोन्सेधः क्षित्तिश्चाया रे° । ४ द. विंशत्या शिखरं । ५ द. पदपादविहीनं स्युरपराः पंचभूमयः । ६ द. ता । ७ द. शालायां सूरसेनस्थ स्त° । मुद्रित पुस्तके तु ‘शालायां शूरसेनाश्च’ इति स्यात् । ८ द. इत्येष माल्यवन्नाम । ९ द. ज । १० द. ल्पाश्रुतत्रयं । ११ द. माल्यवंतः । १२ द. ख्य । १३ मु. पु. ‘पादोनांशद्वयो-न्मितौ’ इति स्यात् । १४ द. पि । १५ द. गौ द्वौ ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१३ (द्वौ ?) बालपंजरकस्यैतौ मध्ये प्रतिरथस्य च । प्रतीरथः पञ्जरो वा (बा)लपञ्जरकस्तथा ॥ ५१ ॥ शालापल्लविकां यावदेतानि तु पृथक् पृथक् । भागार्धनिर्गमानि स्युर्भागा येऽष्टादशोदिताः ॥ ५२ ॥ विभजयेत् तान् दशभिर्विभागैर्वास्तुतत्त्ववित् । गर्भो भित्तिः समुच्छ्रायो वेदिकाजङ्घयोरपि ॥ ५३ ॥ आद्यभूम्युच्छ्रितिस्तद्वदुच्छ्रायः शिखरस्य च । प्रासादेऽस्मिन्निदं सर्वं पूर्व(वत्) कथितं बुधैः ॥ ५४ ॥ तत् पञ्चत्रिंशता भागैः पादोनैः शिखरं भवेत् । द्वितीया भूमिका कार्या ततः पञ्चपदोच्छ्रिता ॥ ५५ ॥ पदपादविहीनास्तु शेषाः स्युः (सप्त ?) भूमयः । पादोनभागद्वितयं वेदिकायाः समुच्छ्रितिः ॥ ५६ ॥ स्कन्धस्य विस्तृती रेखा घण्टाथ कलशस्तथा । शालायां शूरसेनाश्च स्तम्भकूटादिकल्पना ॥ ५७ ॥ शुकनासोच्छ्रितिर्भूमिप्रवेशश्चेह पूर्ववत् । य इमं कारयेद् भक्त्या प्रासादं नवमालिकम् ॥ ५८ ॥ तुष्यन्ति देवतास्तस्य भवन्ति च समृद्धयः । नवमालिकः ॥ इदानीमभिधीयन्ते प्रासादा वृक्षजातयः ॥ ५९ ॥ वल्लभाः सर्वदेवानां भूमिजाः पुरभूषणम् । आश्रयः श्रेयसामेको यशसामपि राशयः ॥ ६० ॥ भुक्तिमुक्तिप्रदातारः (समागते कृता ?) नृणाम् । तत्राद्यः कुमुदो नाम कमलः कमलोद्भवः ॥ ६१ ॥ (कि)रणः शतशृङ्गश्च निरवद्यस्तथापरः । सर्वाङ्गसुन्दरश्चेति प्रासादा वृत्त(क्ष)जातयः ॥ ६२ ॥ न विस्तरान् संक्षेपालक्ष्मैषामथ कीर्त्यते । तत्राद्यः कुमुदो नाम सर्वानन्दकृदुच्यते ॥ ६३ ॥ १ द. पि । २ द. ॰पल्लिकां । ३ द. य । ४ द. र्वा । ५ द. ती । ६ द. त्त ।
५१६ समराङ्गणसूत्रधारे चतुरश्रीकृते क्षेत्रे विस्तारायामतः समे । विभक्ते दशभिर्भागैर्भवेद् गर्भस्त्रिषट्पदः ॥ ६४ ॥ तत्र॑ शेषेण कुर्वीतं ++++ चतुष्टयम् ।
- ततः कर्णसूत्रेण तत्र वृत्तं समालिखेत् ॥ ६५ ॥ दिग्विद्दिक्ष्वष्ट कर्णाः स्युः सलिलान्त(रभूषिताः) । समन्त(२?)भूमिपर्यन्तं दशभिः स्यादयं पदैः ॥ ६६ ॥ वेदीबन्धो विधातव्यः सार्धों³शस्य पदद्वयम् । ⁴++++++ सार्धचतुर्भिर्विभजेत् पदैः ॥ ६७ ॥ कुम्भकं द्वि ⁵+++++++++++। (भागा)र्धेनान्तरं पत्रं कपोताली च भागिका ॥ ६८ ॥ वेदीबन्धोऽयमित्युक्तो जङ्घोत्सेध ++++। (⁷स्यादर्ध) पञ्चमैर्भागैः सोच्छालै⁸स्तलकुम्भकः ॥ ६९ ॥ आद्यभूमौ भवेत् कूटं भागत्रितयलक्षितम् ९। प्रासां¹⁰दे पञ्चदशभिर्विभजेत समुच्छ्रयम् ॥ ७० ॥ द्वितीया भूमिका तत्र कार्या पञ्चांशकोच्छ्रितां¹¹ः । अर्धेनोच्छालकस्तम्भैः कूटोच्छायास्तै¹²थोर्ध्वतः ॥ ७१ ॥ पादोनैः पञ्चभिर्भूमिं तृतीयां परिकल्पयेत् । चतुर्थी रचयेद् भागैर्भूमिकामर्धपञ्चमैः ॥ ७२ ॥ द्वितीय॑¹³भूमिकावत् स्यात् कूटस्तम्भादिकल्पना । वेदिका(दी)भागोच्छ्रिता कार्या षट्पदां स्कन्धविस्तृतिः ॥ ७३ ॥ षड्गुणेन च सूत्रेण वेणुकोशं समालिखेत् । प्रासादपञ्चमांशेन कार्या घण्टासमुच्छ्रितिः ॥ ७४ ॥ घण्टोत्सेधं ततस्तस्य त्रिभिर्भागैर्विभाजयेत् । कण्ठग्रीवाण्डकान्यस्य भागे¹⁴न न(नैकेन) कारयेत् ॥ ७५ ॥ १ द. तः । २ द. तस्य भित्ति । ३ द. र्ध । ४ द. वेदीबंधमिमं सार्ध । ५ द. पदं कुर्या- द्भागेन च मसूरक । ६ द. तस्वस्तु कथ्यते । ७ द. स्यात्सार्ध । ८ द. 'स्त' स्थाने त । ९ द. इतः परं प्रासादवृत्त मध्यं यत्तद्ब्रूद्देशभिः पदैः । अंशांसमीन भूम्यर्थे स्कंधा तद्वयथदोच्छ्रयः । इत्यधिकं पाठः । १० द. सप्रादाः । ११ द. ताः । १२ द. स्तथार्थतः । १३ द. या । १४ द. भाग भागेन ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१७ षड्भागभक्तघण्टायाः समन्ताद् भागविच्युतेः । भागैश्चतुर्भिः कर्तव्ये घण्टे¹ कण्ठस्य विस्तरम्² ॥ ७६ ॥ घण्टोत्सेधार्धतः कुर्याद् घण्टार्धे पद्मशीर्षकम् । घण्टोत्सेधसमा कुम्भे बीजपूरैर्वितो(समु)च्छ्रितिः³ ॥ ७७ ॥ ( चतुरश्रांजितोच्छ्रायो विस्तारः ⁴कलशः स्मृताः ?) । य इमं कारयेत् प्रीत्या ⁵प्रासादं कुमुदाभिधम् ॥ ७८ ॥ स मोदते जगद्भर्तुः शिवस्य भवने शुभे । कुमुदप्रासादः ॥ अथातः सम्प्रवक्ष्यामः प्रासादं कमलाभिधम् ॥ ७९ ॥ चतुरश्रीकृते क्षेत्रे दशभागविभाजिते । ततः कर्णार्धसूत्रेण वृत्तं ⁶तत्र समालिखेत् ॥ ८० ॥ विस्तीर्णं पञ्चभिर्भागैः कुर्याद् (भद्र) चतुष्टयम् । ( ⁷सुरेन्द्रसमर्त्तायस ? )कुवेराशाखनुक्रमात् ॥ ८१ ॥ भवेत् पल्लविका(या)स्तु विस्तारो भागपादिकः । भागेन (कां⁹?) कार्या (भद्रा)णां निर्गमा वृत्तबाह्यतः¹⁰ ॥ ८२ ॥ शालायाः प्रतिभद्रं स्यात् कर्णिकार्धेन निर्गता(तम्) । पादोनभागत्रितयात् कार्या वि(वृ¹¹)त्तस्य विस्तृतिः ॥ ८३ ॥ द्विभागविस्तरायामौ¹² ( ¹³रंशुकं द्वयमतोध्यगौ ? ) । परिवर्त नया कार्यों द्वौ कोणौ सोदकान्तरौ ॥ ८४ ॥ पूर्वप्रासादवद् गर्भो विधेयो भित्तयोऽपि च । वेदीबन्धादिकुम्भान्तं सर्वमेतस्य पूर्ववत् ॥ ८५ ॥ द्वितीयभूमिपर्यन्तमूर्ध्वं प्रथमभूमितः । शूरसेनं विधातव्यं शालासु वि(श्लि)ष्टमुत्तमम् ॥ ८६ ॥ कूटस्तम्भादिकन्यासाः¹⁴ कोणप्रतिरथादिषु । ( शाला स्याग्नोंगरास्तले¹⁵ ? ) पञ्चांशा द्वयंशकोपरि ॥ ८७ ॥ १ द. ण्टो । २ द. रः । ३ द. पूजविनो । ४ द. कलशो स्मृतः । ५ द. कीर्त्या । ६ द. च । ७ मुद्रित पुस्तके 'सुरेन्द्रयमतोषेश' इति स्यात् । ८ द. तोयेश । ९ द. सु । १० द. कर्णिका । ११ द. द्वृ । १२ द. मो । १३ मु. पु. रथकद्वयमध्यगौ इति स्यात् । १४ द. सः । १५ द. न्ना ।
५१८ समराङ्गणसूत्रधारे शिखरस्य त्रिभागोना शुकाग्रायाः समुच्छ्रितिः । यं¹ एनं कमलं नाम प्रासादं कारयेन्नृपः ॥ ८८ ॥ त्रैलोक्ये² कमलाधीशविजये( यी ) स भवेन्नृपः । कमलप्रासादः ॥ अथातः कथ्यते सम्यक् प्रासादः कमलोद्भवः ॥ ८९ ॥ सदा लक्ष्मीपतिर्यत्र देवो विश्राम्यति स्वयम् । चतुरश्रीकृते क्षेत्रे चतुर्दशभि( रंशितै³ ) ॥ ९० ॥ ⁴++++++स्तारो भद्रं पञ्चपदं भवेत् । वि( द्वि )भागायामविस्तारौ( राः ) कार्याः प्रतिरथास्तथा ॥ ९१ ॥ कोण⁵ ++++++++++++++। कार्या( र्यः ) पल्लविकायाश्च नि( र्गमो ) वृत्तमध्यतः ॥ ९२ ॥ शालाविभक्तिश्चैतस्य कर्त ६++++++। ⁷++++++++ न्तरेषु स्याज्जलान्तरम् ॥ ९३ ॥ द्व्यङ्गुलं ( त्र्यङ्गुलं ) वापि तद् विधेयं विपश्चिता । भागा ⁸+++++++++++ ल्पयेत् ॥ ९४ ॥ प्रासादस्यास्य⁹ +++ भाजयेद् दशभिः पदैः । गर्भश्च पूर्ववत् कार्यः¹⁰ पूर्ववद् भित्तयोऽपि च ॥ ९५ ॥ प्राग्वत् खुरवरण्डी स्याज्जङ्घाकूटाद्यभूमिका( ः ) । शिखरस्योच्छ्रितिः प्राग्वत् तां सार्धैकानु( न्न )विंशतिम् ॥ ९६ ॥ भागान् कुर्यात् ततः कार्या भूर्द्वितीयांशपञ्चकर्मै¹¹ । कार्यास्तिस्रो भुवः शेषाः पादपादपरिच्युताः¹² ॥ ९७ ॥ भागं वेदी भूप्रवेशः कार्यों रेखावशादितैः¹³। पूर्ववच्चार्थ( र्थ ) विस्तारः स्याद् घण्टाकलशादि वा ॥ ९८ ॥ १ द. य एवं तं क ं । २ द. क्य । ३ द. क । ४ द. द्विपदः कर्ण त्रि ं । ५ द. कोणसून्ना- परानृत्तेरष्टौ वृत्तस्य मध्यतः । ६ द. व्या पूर्ववच्छुभाः । ७ द. कोणशाला प्रतिरथा ं । मु. पु. ‘शालाकोण- प्रतिरथा ’ इति पूरणीयं भाति । ८ द. श्रतुर्दशैते ये पूर्वं क्षेत्रं प्रक ं । ९ द. ˚स्यास्य व्यर्थं ता भजेद् ं । १० द. र्या । ११ द. कात् । १२ द. ते । १३ द. ह ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५१९ कूटस्तम्भादिकं प्राग्वच्छुक्कनासोच्छ्रयोऽपि च । य इमं कारयेत्¹ कान्तं प्रासादं कमलोद्भवम् ॥ ९९ ॥ स समस्तं²जगन्नाथः प्रतिजन्म प्रजायते । कमलोद्भवप्रासादः ॥ लक्षणं किरणस्याथ ब्रूमः सम्यक् क्रमागतम् ॥ १०० ॥ चतुरश्रीकृते क्षेत्रे भक्ते ++++++ । ++ पञ्चदशांशा ये तान् भजेद् दशभिः पुनः ॥ १०१ ॥ गर्भोऽत्र पूर्ववत् कार्यः पूर्ववद् भित्तयोऽपि च । प्राग्वत् खुरवरण्डी स्याज्जङ्घाकूटोच्छ्रितिस्तथा ॥ १०२ ॥ पूर्ववच्छिखरोत्सेधस्तं भजेत् पादहीनया । चतुरुत्तरविंशत्या भागानां तत्र भूमिका ॥ १०३ ॥ द्वितीया पञ्चभिर्भागैश्चतस्रस्त्वपराः पुनः । पादोनपद³हीनाः स्युः क्रमशश्चास्य भूमिकाः ॥ १०४ ॥ वेदिका चास्य कर्तव्या सपादांशसमुच्छ्रिता । शुकनासोच्छ्रितिः शालास्तम्भकूटविभक्तयः ॥ १०५ ॥ रेखा⁴ स्तम्भस्य विस्तारो घण्टाकुम्भादि पूर्ववत् । कूटा द्राविड(काः) कार्याः प्रतिभूम्यथ (भौमज?) ॥ १०६ ॥ हरो हिरण्यगर्भश्च हरिर्दिनकरस्तथा । एषामेव विधेयोऽसौ नान्येषां तु कदाचन ॥ १०७ ॥ अमुं यः कारयेद् राजा प्रासादं किरणा⁶भिधम् । स दुःसहप्रतापः स्यात् सहस्रकरवद् भुवि ॥ १०८ ॥ किरणप्रासादः ॥ कथ्यते⁷ शतशृङ्गोऽथ प्रासादः (शुभलक्षणः) । वल्लभः सर्वदेवानां (शिं)वस्य (तु) विशेषनः ॥ १०९ ॥ १ द. क्षात्रं । २ द. स्तं । ३ द. पा । ४ द. स्कंधस्य । ५ द. श्च द्राविडा । ६ द. ॰णादिवं । ७ द. प्रतौ कथ्यते......(शुभलक्षणः) । इत्ययं पाठः नास्ति । ८ द. धा ।
चतुरश्रीकृते क्षेत्रे विंशत्यैकोन(१यान्तिभे ?)। कर्णाद्वि(२र्ध)सूत्रेण ततो वृत्तमत्र प्रकल्पयेत् ॥ ११०॥ कर्णा द्विभागिकाः कार्याः शाला स्यात् पञ्चभागिका। शालोपपल्लविका चास्य (निर्गता) वृत्तमध्यतः ॥ १११ ॥ द्वौ द्वौ प्रतिरथौ कार्यौ द्विभागायामविस्तृतौ। परं३ वर्तनतो वृत्तमध्यतोँ(तः) कोणशालयोः ॥ ११२॥ शालाकोणप्रतिरथान्तरेषु स्याज्जलान्तरम्। एकोनविंशतिं५ भागांस्तान् भजेद् दशभिः पुनः ॥ ११३॥ गर्भः प्राग्वत् तथा भित्तिः प्राग्वत् खुरवरण्डिका। जङ्घोत्सेधो(ऽथ) भूत्सेधः६ पूर्ववच्छिखरोच्छ्रितिः ॥ ११४ ॥ (अथाभिर्भूते ?)मेरारभ्य पट्ट्यन्तं शिखरोच्छ्रितिः(तिम्) । भागानामष्टविंशत्या(?) विभजेत् पादहीनया ॥ ११५ ॥ द्वितीयभूमिका तस्य कार्या पञ्चपदोच्छ्रिता। रेखास्तु पञ्च कर्तव्याः पदपादोच्छ्रिता भुवः ॥ ११६॥ सार्धभागोच्छ्रिता वेदी प्रविधेयास्य तद्विदो। (शैलास्यैस्तम्भक्तैर्यदिविभक्तयदि विभक्तिः?) शुकनासिका ११७ (रेखाद्यं चकं१४र्मस्य ?) प्राग्वत् स्यात् सर्वमप्यदः। शतशृङ्गममं कुर्याद् यः प्रासादं मनोरमम् ॥ ११८॥ तस्यैकविंशतिकुला ++++++++। कर्ता कारयिता चेति द्वावेतौ जगतां प्रभोः ॥ ११९ ॥ त्रिपुरद्वेषिणः स्यातां नियतं गणनायकौ । \hfill शतशृङ्गप्रासादः ॥ १६++++++ यामो निरवद्यस्य लक्षणम् ॥ १२० ॥ १ मु. 'याशिते' इति स्यात्। द. प्रतौ तु 'यान्तिके' इत्येव पाठः । २ द. ल । ३ द. रि । ४ द. तौ । ५ द. तिः । ६ द. धो । ७ द. स्त । मुद्रित पुस्तके 'अथादिभू' इति स्यात् । ८ द. द्यन्तं । ९ द. ष्ट्रि । १० द. धा । ११ मुद्रित पुस्तके 'शालास्य स्तम्भ कूटादिभक्तयः' इति पाठः । १२ द. श्व । १३ द. कूट। । १४ द. कुं । १५ द. 'तिः कुर्या लात्मसर्वैर्मुखं । १६ द. इदानीमभिधा- स्यामो नि' । मुद्रित पाठभेदस्तु 'प्रासादस्याथ वक्ष्यामो' इति स्यात् ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । ५२१ स स्याज्ज्येष्ठोऽथ मध्यश्च कनीयानिति च त्रिधा । चत्वारिंशत्करो ज्येष्ठोऽपि (मध्यः) त्रिंशत्करो भवेत् ॥ १२१ ॥ विंशत्या च करैरेष कनीयान् समुदाहृतः । चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥ १२२ ॥ ततः कर्णद्विसूत्रेण( ? ) वृत्तमत्र प्रकल्पयेत् । कार्या तैः पञ्चभिः शालाँपल्लवी वृत्त( म )ध्यतः ॥ १२३ ॥ शालाविभक्तिः प्राग्वत् स्याच्छालयोरेतयोः पुनः । कोणे कोणे च षट्कर्णा + भागायामविस्तृताः ॥ १२४ ॥ परिवर्तनया कार्या वृत्तान्तः सोदकान्तराः । ( ५ता तागा त्रिभागै ? )र्विभजेद् दशभिस्ततः ॥ १२५ ॥ विमुच्य भूमिकाभागाञ्छेष्ं गर्भगृहादि यत् । तत् पूर्ववद् विधातव्यं तद्वच्च शिखरोच्छ्रितिः ॥ १२६ ॥ तामेकत्रिंशता भागैः सार्धैश्च विभजेत् पुनः । द्वितीयभूमिका कार्या पदैः पञ्चभिरुच्छ्रिता ॥ १२७ ॥ पदपादेन हीनाः स्युः शेषा ( ७षड्भास ? ) भूमिकर्काः । वेदी ( पंश्चयं ? ) कार्या पादोनमिह शिल्पिना ॥ १२८ ॥ स्तम्भकूटादि शालानां विन्यासः शूरसेनकाः । शुकनासोच्छ्रितिर्घण्टा कलशादि चं पूर्ववत् ॥ १२९ ॥ य इमं निरवद्याख्यं प्रासादं कारयेत् सुधीः । स प्राप्नोति परं स्थानं ब्रह्मादीनां सुदुर्लभम् ॥ १३० ॥ निरवद्यप्रासादः ॥ सर्वाङ्गसुन्दरं ब्रूमः प्रासादमथ सुन्दरम् । भुक्तिमुक्तिप्रदातारं ( वरवालय ? ) मण्डनंम् ॥ १३१ ॥ १ द. कर्णार्थं०; मुद्रित पुस्तकेऽपि 'कर्णार्थसूत्रेण' इति पाठ्यं भाति । २ द. कार्य । ३ द. ल । ४ द. रेते । ५ द. तान् भागान् बिशति भागै र्वि० । ६ द. ०कान् । ७ मुद्रित पुस्तके 'षट् चास्य' इति स्यात् । ८ द. कः । ९ द. पदद्वयं । मुद्रित पुस्तके 'पदत्रयम्' इति स्यात् । १० द. व. । ११ द. ल । वा. ६६
चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते । कर्णा द्विभागविस्ताराः शाला स्यात् पञ्चभागिका ॥ १३२ ॥ वृत्तान्तः पल्लवी कार्या शेषाः शालासु¹ पूर्ववत् । त्रयस्त्रयः प्रतिरथा मध्ये स्युः² कर्णशालयोः ॥ १३३ ॥ परिवृत्यैं( त्या ) वृत्तमध्ये द्विभागायामविस्तृताः । शालाकर्णप्रतिरथप्रान्तेषु स्याद्बलान्तरे( रम् ) ॥ १३४ ॥ ⁵त्रिचतुर्विंशतिर्भागा विभाज्यौः शिल्पिभिः पुनः । विधेयं गर्भभित्त्यादि प्राग्वत् स्याच्च वरण्डिका ॥ १३५ ॥ जङ्घादिभूमिकोच्छ्रायः प्राग्वद्धू(द्वा ) शिखरोच्छ्रितिः । (तं) पञ्चत्रिंशता⁶ भागैर्विभजेच्छिखरोच्छ्रयम् ॥ १३६ ॥ द्वितीया भूमिका चास्य कार्या पञ्चपदोच्छ्रिता । पदपादविहीनाः स्युः शेषाः सप्तास्य भूमिकाः ॥ १३७ ॥ द्विभागो वेदिकोच्छ्रायो भूमिकानां प्रवेशनम् । रेखावशेन कर्तव्यं शेषमेतस्य यत् पुनः ॥ १३८ ॥ तत् पूर्ववद् विधातव्यं स्तम्भकूटादि तद्विदा । सर्वाङ्गसुन्दरं योऽत्र प्रासादं कारयेदमुम् ॥ १३९ ॥ स स्वर्गसुन्दरीभोगानाप्नोति विपुलान् दिवि⁷ । सर्वाङ्गसुन्दरः प्रासादः ॥ अथाष्टशालान् वक्ष्यामो + + + भूमिजातिषु ॥ १४० ॥ तेष्वाद्यः स्वस्तिकोऽन्यश्च वज्रस्वस्तिकसंज्ञितः । तृतीयो हर्म्यतलकश्चतुर्थ उदयाचलः ॥ १४१ ॥ गन्धमादनसंज्ञश्च पञ्चमः परिकीर्तितः । अथामिधीयते तेषु + + + ⁸स्वलक्षणः ॥ १४२ ॥ चतुरश्रीकृते क्षेत्रे विस्तारायामतः⁹ समे । कर्णार्धसूत्रपातेन वृत्तमस्य समं लिखेत् ॥ १४३ ॥
पादटिप्पण्यः (Footnotes):
१ द. स्तु । २ द. स्यात् कं° । ३ द. त्या । ४ द. ते । ५ द. ज्य । ६ द. त । ७ द. धिः । ८ द. मुद्रित पुस्तके ‘स्वस्तिकः शुभलक्षणः' इति स्यात्; द. स्वस्तिकास्य लक्षणः । ९ द. °तो समे ।
भूमिजप्रासादलक्षणं नाम पञ्चषष्टितमोऽध्यायः । १२३ वर्तुलं भाजयेत् क्षेत्रं षड्गुणैरष्टभिः पदैः । अष्टौ शाला विधातव्या विस्तारेण चतुष्पदाः ॥ १४४॥ पल्लवी वृत्तसूत्रेण १++++++++। +++ कर्णिका ज्ञेया मानमूर्ध्वमथोच्यते ॥ १४५॥ वेदिबन्धो विधातव्यो भागद्वितयमुच्छ्रितः । तं भजेत् पञ्चभिर्भागैः +++ तत्र कुम्भकः ॥ १४६ ॥ पादयुक्तेन भागेन कर्तव्यस्तु मसूरकः । अर्धांशेनोत्त(नान्त)रं पत्रं कपोताली ततो भवेत् ॥ १४७॥ सपादेनास्य भागेन जङ्घां(ङ्गा) भागचतुष्टयात् । तलकुम्भोच्छालकाभ्यां संयुक्ता शुभलक्षणा ॥ १४८ ॥ भागद्वितै२यमाया भूः कर्तव्या सवरण्डिका । व्यासं दशपदं कृत्वा तैर्द्वादशभिरुच्छ्रितिः ॥ १४९ ॥ स्कन्धश्च षट्पदस्तत्र विधातव्यो विजानता । षड्गुणेनैव सूत्रेण वेणुकोशं समालिखेत् ॥ १५० ॥ द्वादशांशो य उत्सेधो भागानां सम +++। ५तं कृत्वा पञ्चभिर्भागैस्ते द्वि(स्तैर्द्वि)तीया भवेन्मही ॥ १५१ ॥ पदपादोच्छ्रिताः कार्यास्ततस्तिस्रोऽपरा भुवः । (गर्भा गर्भं ?) विधातव्यं भूमिकानां प्रवेशकम् ॥ १५२ ॥ वेदिका च ततः कार्या सार्धभागसमुच्छ्रिता । पादोनद्विपदा घण्टा विभजेत् तां त्रिभिः पदैः ॥ १५३ ॥ पदं८ स्यात् कण्ठकोत्सेधो ग्रीवा भागसमुच्छ्रिता । अण्डकं भागिकं तस्यां कर्तव्यं सुमनोरमम् ॥ १५४॥ कर्परं सार्धभागेन कुर्यात् सामलसारकम् । (१०सीस्तन चाभागायाः ?) सार्धभागचतुष्टयात् ॥ १५५ ॥ १ मुद्रित पुस्तके 'बाह्यतो भद्रकर्णिके' इत्ययं पूरणीयांशः प्रकरणान्तरादुपलभ्यते । २ द. त । ३ द. ती । ४ द. ते । ५ द. ष्टि । ६ द. द्व । ७ द. दैः । ८ द. स्याः । ९ द. रि । १० द. सीम्न- स्तुनवा ।