समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
८ समराङ्गणसूत्रधारे भजन्ते योगमन्योन्यं कानि द्रव्याणि कैः सह । कानि योगं न गच्छन्ति कैर्वा कः क्व वसेत् पुमान् ॥ ३३ ॥ इष्टकाकर्म किं चेष्टं कीर्तिता कतिधा च भूः । परिकर्मक्रमस्तासां वह्नयम्बुपवनैश्च कः ॥ ३४ ॥ गुरुवर्णिध्वजोर्वीशत्तद्गलप्रतिमा पुराम् । वृक्षाः के के प्रशस्ताः स्युर्गृहार्थे के च गर्हिताः ॥ ३५ ॥ तच्छेदस्रावसंभूतं शब्ददिक्पातगर्भजम् । विज्ञायते कथं कर्तृकारकादिशुभाशुभम् ॥ ३६ ॥ प्रमाणं तक्षणच्छेदैः १शोधितानां कथं भवेत् । आहृत्य स्थापनं पूर्वं दारूणां स्थानके क्व च ॥ ३७ ॥ सामान्यतोऽखिलानां काः काश्च जातेर्विशेषतः । प्रशस्तैर्लक्ष्मभिर्युक्ता भूमयः परिकीर्तिताः ॥ ३८ ॥ शल्योद्धारविधिः कीदृक् कीदृशं भूमिकर्म च । २दिग्ग्रहः सूत्रणं चाधिवासनं च कथं भवेत् ॥ ३९ ॥ प्रमाणं मूलपादस्य शिलान्यासे च को विधिः । विभज्यते कथं वेश्म शालालिन्दविभाजनैः ॥ ४० ॥ मानानि कानि भित्तीनां पीठानामुच्छ्रयाश्च के । कथं तानि विकल्प्यानि वर्णानां मेखलादिभिः ॥ ४१ ॥ समस्तकानां स्तम्भानां द्वारस्तम्भासनैः सह । नागवीथ्युपधानानां समं कण्ठविनिर्गमैः ॥ ४२ ॥ जयन्तीसङ्ग्रहतुलाकार्याणां वास्तुनोऽपि च । कीदृशं फलकानां च प्रमाणं परिकीर्तितम् ॥ ४३ ॥ स्वमानात् सर्ववर्णानां तलोच्छ्रायास्तु कीदृशाः । का गवाक्षकपोतालिवेदिकाजालकक्रियाः ॥ ४४ ॥ १ द. ख. ग. साधितानां । २ द. दिग्वहसू० ।
प्रश्नस्तृतीयोऽध्यायः । ९ स्थूणा ^१निस्सृष्टिकोत्सूका मृगा(ल्यो ? ल्यु)पतुलास्तथा । सान्तःप्राणिशिरोवंशाः किंप्रमाणाः प्रकीर्तिताः ॥ ४५ ॥ छाद्योदयाः कियन्तः स्युर्वृत्तच्छाद्यक्रमश्च कः । त्र्यश्राणां खण्डवृत्तानां लुपानां च क्रियाः कथम् ॥ ४६ ॥ सीमालिन्दशिरस्तासां कीदृशी ^३चावलम्बना । कतिप्रकाराः प्रासादशिरसां च विकल्पनाः ॥ ४७ ॥ यच्चान्यदेवमादि स्यात् प्रासादभवनादिषु । द्रव्यकाष्ठकलासङ्गि प्रमाणं तस्य कीदृशम् ॥ ४८ ॥ शालालिन्दप्रमाणानि चतुःशालेषु धामसु । ज्यायोमध्ययवीयस्सु मूषाभिः काष्ठकल्पना ॥ ४९ ॥ एकद्वित्रिचतुःशालान्येषां संयोगतोऽपि च । कथं कति च वेश्मानि ^४कल्प्यन्ते प्रविभागशः ॥ ५० ॥ कथं च षोडशचतुःषष्ट्येकाशीतयः शतम् । संविभागाः पदानां स्युः कथमत्रामरस्थितिः ॥ ५१ ॥ आद्यो नवपदो वास्तुरन्त्यः साहस्रिकः कथम् । अङ्गप्रत्यङ्गभागेषु केषु केषु क्व तस्थुषः ॥ ५२ ॥ कथमेते सुराः सर्वे वास्तोरस्य व्यवस्थिताः । एतद्वंशशिरश्श्रोत्रुःकुक्षिहृन्मूर्धमर्मसु ॥ ५३ ॥ जायेत पीडा द्रव्येषु सन्निविष्टेषु कस्य का । वास्त्वारम्भप्रवेशेषु यात्रायां स्थापनेषु च ॥ ५४ ॥ दूतस्वप्ननिमित्ताद्यैः कथं ज्ञेयं शुभाशुभम् । दारुक्रियासु चित्रेषु तथा लेप्यक्रियासु च ॥ ५५ ॥ ^६योज्यं किं किमयोग्यं च किं भूपभवनादिषु । हस्तस्य लक्षणं मानसंज्ञा वै ज्ञायते कथम् ॥ ५६ ॥ १ द. णिमृष्टिकोत्सूकामृगाल्योपतुलास्तथा । २ द. लुमानां । ३ द. भावलम्बना । ४ द. कल्पन्ते । ५ द. शिरोकक्ष । ६ द. अंगप्रत्यंगयोज्यं किं किमयोग्यं च । वा. २
१० समराङ्गणसूत्रधारे किं हव्येष्वग्निलक्ष्म स्यात् किं च निर्युक्तलक्षणम् । अनुक्रमेण वर्णानां बलिकर्म च कीदृशम् ॥ ५७॥ विधेयं विधिना केन भवने च प्रवेशनम् । पतिते स्फुटिते जीर्णे प्लुष्टे वज्राशनिक्षते ॥ ५८ ॥ निमग्नभग्ननिर्भिन्नप्रशीर्णेषु च वास्तुषु । मधुवल्मीकसंभूतौ प्रविरूढे च दारुणि ॥ ५९ ॥ जायते किं फलं कुत्र प्रायश्चित्तेन को विधिः । इत्येवमादिकमनेकविधं विधानं वेश्मोपगं च पृथगाश्रयसंभृतं च । अस्मास्वनल्पकरुणार्द्रितचित्तवृत्तिर्व्याख्यातुमर्हसि समस्तमनु- क्रमेण ॥ ६० ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे प्रश्नाध्यायस्तृतीयः ॥ अथ महदादिसर्गश्चतुर्थोऽध्यायः । जयस्येति समाकर्ण्य विश्वकर्मा च तद् वचः । जगाद गर्जदम्भोदध्वनिगम्भीरया गिरा ॥ १॥ साधु वत्स ! त्वया सम्यक् प्रज्ञयातिविशुद्धया । प्रश्नोऽयमीरितो वास्तुविद्याब्जवनभास्करः ॥ २ ॥ स त्वं निधाय प्रश्नानां समुदायममुं हृदि । वदतो मेऽवधानेन शृणु यद् ब्रह्मणोदितम् ॥ ३ ॥ इदमासीद् युगान्ताग्निप्लुष्टं संवर्तकादिभिः । समुत्सृजद्भिरम्भांसि विश्वमेकार्णवीकृतम् ॥ ४ ॥ तमोभूते ततस्तस्मिन् भोगिपर्यङ्कमाश्रितः । हरिः सुष्याप सलिले कृत्वोदरगतं जगत् ॥ ५ ॥ अथास्य नाभावम्भोजमभूत् तस्मिन्नजायत । सर्वज्ञानाश्रयः श्रीमांश्चतुर्वक्त्रः सुरेश्वरः ॥ ६॥ स कदाचिद् दधच्चेतः प्रजासृष्टिं प्रति प्रभुः । महान्तमसृजत् तत्र पूर्वं विश्वस्य हेतवे ॥ ७ ॥
महदादिसर्गश्चतुर्थोऽध्यायः । ११ त्रिधाहङ्कृतमेतस्मान्मनोऽभूत् सात्त्विकादतः । राजसादपि चाक्षाणि तन्मात्राणि च तामसात् ॥ ८ ॥ तेभ्यः पञ्च महाभूतान्याविरासन्ननुक्रमात् । व्योमादीनि धरान्तानि स्वैः स्वैर्युक्तानि तैर्गुणैः ॥ ९ ॥ अधरोत्तरभावश्च सम्यगेषामथोच्यते । आदौ पृथ्वी ततोऽधस्तादापस्तासां च पावकः ॥ १० ॥ तस्याप्यधस्तात् पवनस्ततः खमवकाशदम् । भूतादिस्थं वियत् सोऽपि महता परिवारितः ॥ ११ ॥ महांश्च विशति व्यक्तं व्यक्तमव्यक्तकं पुनः । ग्राह्यग्राहकभावेन व्यक्तो भूतसमुद्भवः ॥ १२ ॥ आधाराधार्यभावश्च यथार्थौ च स्थितिव्ययौ । महाभूतानि सगुणान्येवं सृष्ट्वा ततः प्रभुः ॥ १३ ॥ मनः पुनरसौ सर्गे भौतिके सम्यगादधौ¹ । सुरासुरान् सगन्धर्वान् यक्षरक्षांसि पन्नगान्² ॥ १४ ॥ ³नागान् मुनीनप्सरसो मनसा समजीजनत् । अर्केन्दू चक्षु (षी ? षो) जातौ गगनभ्रमणक्षमौ ॥ १५ ॥ गात्रेभ्योऽपि च नक्षत्रचक्रमस्मादजायत । इन्द्रियेभ्यश्च पञ्चभ्योऽभूत् ताराग्रहपञ्चकम् ॥ १६ ॥ ग्रहत्वं पुनरेतेषामिन्द्रियग्रहणाद् विदुः । सुरेन्द्रचापचिह्नानां विद्युद्वलयशालिनाम् ॥ १७ ॥ भीमाशनिभृतां चासीत् केशेभ्योऽम्बुमुचां भवः । विश्वमापूरयन् कृत्स्नमाविरासीत् तदिच्छया ॥ १८ ॥ त्रिलोकीपावनस्तिर्यग्गामी चण्डः समीरणः । ततश्चण्डानिलोद्भूतमुपर्यर्कांशुतापितम् ॥ १९ ॥ १ द. आदधे । २ द. राक्षसान् । ३ ख. ग. द. सावित्री पुनरप्सरसो ।
१२ समराङ्गणसूत्रधारे वायुभिः शोषमानीतं जगाम घनतां पयः । तस्योपरिष्टादम्भोधेरधः कुण्डलितं वपुः ॥ २० ॥ विष्णोः १सज्या( ? शय्या )त्वमभ्येत्य धत्तेऽनन्तोऽखिलां भुवम् । न तप्तं येषु येष्वम्भः प्रदेशेष्वर्करश्मिभिः ॥ २१ ॥ नीतं न वानिलैः शोषं तत्र तत्राब्धयोऽभवन् । महाम्भोवीचिसङ्घाता विक्षिप्ताश्चण्डमारुतैः ॥ २२ ॥ यत्र यत्रापुरैक्यं ते तत्र तत्राद्रयोऽभवन् । निश्चलत्वार्थमवनिंश्चर्मवद् वितताथ तैः ॥ २३ ॥ शैलैः कीलैरिव स्थानेष्वाचिता तेषु तेष्वियम् । वृद्धिं गताद्रिनिःष्यन्दैर्भूभृतां प्रविभाजगा ॥ २४ ॥ निम्नगाभूत् ततोऽम्भोधेः कान्ता निम्नानुसारिणी । मेदिन्यन्तेषु २जलधिपर्यन्तेषु विनिर्ययुः ॥ २५ ॥ अम्भांसि यत्र यत्रासंस्ते द्वीपाश्चित्ररूपिणः । सनिम्नगाम्बुधिद्वीपा विभक्ताखिलभूधरा३ ॥ २६ ॥ व्यक्ता बभूव कृत्स्नैवं भूमिर्भूतानि बिभ्रती । स चक्रे रौरवादीनां निरयाणामधः क्षितेः ॥ २७ ॥ स्वकर्मफलभुक्त्यर्थं स्थानं दुष्कृतकर्मणाम् । जरायुजाण्डजोद्भिज्जस्वेदजैः सह स प्रभुः ॥ २८ ॥ चतुर्धैत्यसृजल्लोके भूतग्रामं चराचरम् । द्वेधा जरायुजास्तत्र मनुष्याः पशवस्तथा ॥ २९ ॥ ग्राम्याः सप्ताभवंस्तेषु सप्तारण्यकृतालयाः । पुमान् गौस्तुरगच्छागौ मेषो वेगसरः खरः ॥ ३० ॥ ग्रामवासैकनिरताः सप्तैते परिकीर्तिताः । सिंहद्विपोष्ट्रमहिषाः शरभो गवयः कपिः ॥ ३१ ॥ १ द. सज्यात्व ( ? शय्यात्व ); ग. सच्याल । २ द. जलधेः । ३ द. भूधराः ।
भुवनकोशः पञ्चमोऽध्यायः । १३ अरण्यगोचरा जीवाः सप्तैते वत्स ! निर्मिताः । धर्माधर्मविवेक्तिंत्वाच्छ्रेयान् ग्राम्येषु पूरुषः ॥ ३२ ॥ अरण्यचारिषु श्रेष्ठः सिंहः शौर्यबलादिभिः । सुपर्णा भुजगाः कीटा येऽपि च स्युः पिपीलिकाः ॥ ३३ ॥ चतुर्धैत्यण्डजन्मानो जन्मनस्ते प्रकीर्त्तिताः । २क्लेद (केप ? केश) समुद्भूताः कृमियूकादिजन्तवः ॥ ३४ ॥ सर्वेऽपि स्वेदजन्मानस्ते प्रजापतिना कृताः । उद्भिज्जाः पञ्चधा भूत्वा निर्दिष्टाः स्थावराश्च ते३ ॥ ३५ ॥ द्रुमा वल्ल्यश्च गुल्माश्च वंशाः सतृणजातयः । छन्नान्तःकरणत्वं च स्वस्थानात्यागितापि च ॥ ३६ ॥ छिन्नप्ररोहिता चैषां वैशेषिकगुणत्रयम् । गायत्री भूतसंज्ञे(षां ? षा) चतुर्विंशतिपर्विका ॥ ३७ ॥ ज्ञात्वैनां पुरुषः पुण्यां भवति स्वर्गभाजनम् । भुवन'भूजलवह्निमरुद्वियत्प्रमुख एष भवस्तव कीर्त्तितः । वसुमतीपरिमाणविनिश्चयं कथयतः शृणु सम्प्रति वत्स ! मे ॥३८॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे महदादिस(ङ्गा ? र्गा )ध्यायश्चतुर्थः ॥ अथ भुवनकोशः पञ्चमोऽध्यायः । अथो यथाक्रमं भूमेः कृत्स्नायाः कथयामि ते । विष्कम्भपरिधी वत्स ! बाहुल्यमपि च स्फुटम् ॥ १ ॥ विष्कम्भोऽस्याः समुद्दिष्टो दशयोजनकोटयः । लक्षाण्यपि च मेदिन्यास्तद्वदेकोनविंशतिः । विष्कम्भत्रिगुणो यावद् विष्कम्भांशश्च पञ्चमः ॥ २ ॥ १ द. विवेक्तित्वा । २ द. केशकोषेषु (?) । ३ ख. ग. द. ये ।
१४ समराङ्गणसूत्रधारे मेदिन्याः परिधिस्तावद्योजनैः परिकीर्त्तितः । द्वात्रिंशत्कोटयः षष्टिलक्षाणि परिधिः क्षितेः ॥ ३ ॥ अशीतिश्च सहस्राणि योजनानां प्रकीर्त्तितः । योजनानां सहस्राणि विंशतिर्लक्षयोर्द्वयम् ॥ ४ ॥ इति बाहुल्यमेतस्याः क्षितेर्वत्स ! तवोदितम् । चतुर्णां सलिलादीनां भूतादेर्महतोऽपि च ॥ ५ ॥ उत्तरोत्तरमुर्वीतो मानं शतगुणं विदुः । तोयादिषु स्थितेयं भूश्चक्रवद् वृत्तशालिनी ॥ ६ ॥ पात्रस्थापरपात्रश्रीहारीण्यन्यान्यपि क्रमात् । प्रमाणमिदमेतेषां क्षित्यादीनां तवोदितम् ॥ ७ ॥ द्वीपादीनां तु पाथोघिनिवेशः पुनरुच्यते । द्वीपानामम्बुधीनां च सप्तानामपि मध्यगः ॥ ८ ॥ जम्बूद्वीपो भवेद् वृत्त:^३ सहस्रशतविस्तृतः । हिमाद्रिर्हेमकूटाख्यो निषधो नीलसंज्ञितः ॥ ९ ॥ श्वेतः शृङ्गी च षडमी भवन्त्यस्मिन् कुलाचलाः । एतस्मादुत्तरेणाद्रेस्तुषाराङ्कितमेखलात् ॥ १० ॥ पूर्वापरायताः सर्वेऽप्यद्रयो यावदम्बुधि । अन्तरा नीलनिषधौ जम्बूद्वीपस्य नाभिगः ॥ ११ ॥ वृत्तः पुण्यजनाकीर्णः श्रीमान् मेरुर्महाचलः । उदग्याम्यायते मेरोः प्राग्भागे माल्यवान् गिरिः ॥ १२ ॥ सेवितः सिद्धनारीभिरानीलनिषधायतः । सुमेरोः पश्चिमेनाद्रिर्गन्धर्वकुलसङ्कुलः ॥ १३ ॥ माल्यवत्सदृशायामो महीभृद् गन्धमादनः । पर्वतावुभयान्तस्थौ हिमवान् शृङ्गवांस्तथा ॥ १४ ॥ १ द. पात्रस्थापर; शास्त्रिभिः 'वर' पाठः टिप्पण्यां दत्तः । २ द. ख. ग. दीपावनीषु पाथोघेः । ३ क. सम ।
भुवनकोशः पञ्चमोऽध्यायः १९ योजनानां सहस्रे द्वे १सार्धे स्यादुच्छ्रयस्तयोः । श्वेतश्च हेमकूटश्चैत्यन्तयोः पृथिवीधरौ ॥ १५ ॥ योजनानां सहस्रार्धमेकैकस्योच्छ्रयस्तयोः । निषधाचलनीलाद्रिमाल्यवद्गन्धमादनाः ॥ १६ ॥ सहस्रयोजनोच्छायाश्चत्वारोऽमी पृथक्पृथक् । एतेऽष्टावपि शैलेन्द्राः सहस्रद्वयविस्तृताः ॥ १७ ॥ उच्छ्रयार्धमधश्चापि विलग्नाः सह मेरुणा । मेरोः समुच्छ्रयोऽशीतिः सहस्राणि चतुर्युता२ ॥ १८ ॥ षोडशाधः सहस्राणि द्वात्रिंशन्मूर्ध्नि विस्तृतिः३ । जम्बूतरुर्महान् मध्ये सुमेरोर्निषधस्य च ॥ १९ ॥ द्वीपस्यामुष्य यद्योगाज्जम्बूद्वीप इति श्रुतिः । शृङ्गैर्हिमशिलानद्धैः सर्वतो हिमवानयम् ॥ २० ॥ महान्तो निवसन्त्यत्र पिशाचा यक्षराक्षसाः । कूटैर्हेममयैर्हेमकूट इत्यवनीधरः ॥ २१ ॥ यं सर्वतो निषेवन्ते सदा चारणगुह्यकाः । तरुणार्कप्रभाजालप्रतिमो निषधाचलः ॥ २२ ॥ निवसन्ति सुखं तत्र शेषवासुकितक्षकाः । हेमाब्जकर्णिकाकारः सुमेरुर्मणिकन्दरः ॥ २३ ॥ अत्रामराः साप्सरसस्त्रयस्त्रिंशद् वसन्ति ते । वैदूर्यनद्धैः शिखरैर्नीलो नीलमहीधरः ॥ २४ ॥ कलयन्ति तपोनित्या यत्र ब्रह्मर्षयः स्थितिम् । श्वेतः स काञ्चनैः शृङ्गैर्गगनोल्लेखिभिर्वृतः ॥ २५ ॥ दोर्दर्पशालिनां यत्र निवासस्त्रिदशद्विषाम् । महानीलमयो बर्हिपिच्छच्छायो बहिर्महान् ॥ २६ ॥ १ द. ख. ग द्वेद्वे सार्धे उच्छ्रं । २ द. चतुर्युताः । ३ द. विस्तृतः ।
१६ समराङ्गणसूत्रधारे। पितॄणामालयः शृङ्गैरूच्छ्रितैः शृङ्गवान् गिरिः। हिमाचलस्य याम्येन क्षारान्धिवृतमैन्यतः ॥ २७ ॥ वर्षं स्याद् भारतं नाम प्रथमं कार्मुकाकृति। तुषारनिलयस्याद्रेर्हेमकूटाचलस्य च ॥ २८ ॥ मध्ये किंपुरुषं नाम द्वितीयं वर्षमीरितम्। अन्तरे हेमकूटस्य निषधस्य च भूभृतः ॥ २९ ॥ हरिवर्षमिति प्रोक्तं तृतीयं वर्षमुत्तमम्। निषधाचलनीलाद्रिमाल्यवद्गन्धभूभृताम् ॥ ३० ॥ चतुर्णां मध्यगं वर्षं तुर्यमस्मिन्निलावृतम्। उत्तरे नीलशैलस्य याम्ये च श्वेतभूभृतः ॥ ३१ ॥ पञ्चमं वर्षमत्यर्थरम्यं रम्यकसंज्ञितम्। श्वेतशृङ्गवतोः शैलराजयोरनयोरिह ॥ ३२ ॥ मध्ये षष्ठं हिरण्यांशुरम्यं हैरण्यकाह्वयम्। अस्योत्तरे शृङ्गवतो याम्ये च क्षारवारिधेः ॥ ३३ ॥ कुरुवर्षाभिधं वर्षमुत्तरेण प्रचक्षते। अन्तरा नीलनिषधौ प्राग्भागे माल्यवद्गिरेः ॥ ३४ ॥ भद्राश्वमष्टमं वर्षं प्राक्समुद्रान्तमीरितम्। गन्धमादनशैलस्य प्रत्यक् प्राक् चापाम्बुधेः ॥ ३५ ॥ नवमं वर्षमाचार्याः केतुमालं प्रचक्षते। इति प्रोक्तानि वर्षाणि नवामूनि मया तव ॥ ३६ ॥ साम्प्रतं पुनरेतेषां प्रमाणमवधारय। प्रमाणेन सहस्राणि चतुस्त्रिंशच्चतुर्दिशम् ॥ ३७ ॥ योजनानामिहेच्छन्ति चतुरश्रमिलावृतम्। प्राक्प्रत्यग्भागगे वर्षे तस्योदग्याम्यतः समे ॥ ३८ ॥ १. द. ख. ग. मध्यतः।
भुवनकोशः पञ्चमोऽध्यायः । १७ एकत्रिशत्सहस्राणि किञ्चित् प्राक्प्रत्यगायते । यान्युक्तानि षडन्यानि वर्षाण्येभ्योऽवराणि ते ॥ ३९ ॥ तेषां नवसहस्राणि प्रत्येकं विस्तृतिर्मता । वर्षे किम्पुरुषे नार्यो नराश्च प्लक्षभोजनाः ॥ ४० ॥ जीवन्त्ययुतमब्दानां जात्यजाम्बूनदत्विषः । हरिवर्षे नरा नार्यो वसन्तीक्षुरसाशिनः ॥ ४१ ॥ १सायुतं च सहस्रं ते जीवन्ति रजतत्विषः । इलावृते नराः पद्मरागभासोद्गतास्तथा ॥ ४२ ॥ जम्बूफलरसाहाराः सपादायुतजीविनः । नास्मिन् मेरुतटच्छन्ने तारकार्केन्दुरश्मयः ॥ ४३ ॥ स्वाङ्गप्रभाभिः किन्त्वत्र कृतोद्योता वसन्त्यमी । कैरवोदरसच्छाया भद्राश्वे साङ्गना नराः ॥ ४४ ॥ नीलाभ्रकफलाहारा भवन्त्यत्रायुतायुषः । दलत्कुवलयश्यामाः केतुमाले शरीरिणः ॥ ४५ ॥ शरदमयुतं तेषामायुः पनसभोजिनाम् । श्वेताभो रम्यके रम्ये न्यग्रोधफलभुग् जनः ॥ ४६ ॥ हरिवर्ष इव प्रोक्तमेतस्मिन् मानमायुषः । श्यामत्विषः स्त्रियो वर्षे पुमांसश्च हिरण्मये ॥ ४७ ॥ जीवन्त्ययुतमब्दानां सर्वेऽपि लकुचाशिनः । कुरुष्वभीष्टदैर्वृक्षैर्जीवन्ति स्त्रीयुता नराः ॥ ४८ ॥ सपादमयुतं देवगर्भाभा गौरकान्तयः । पुण्यकर्मा वसत्येषु वर्षेषु निखिलो जनः ॥ ४९ ॥ शोकव्याधिजरातङ्कशङ्कोन्मुक्तः सदा सुखी । वनैः कीर्णानि सर्वाणि कुसुमस्तबकानतैः ॥ ५० ॥ उद्भिन्नाद्रिनदीभिश्च तैस्तैस्तुङ्गैश्च पादपैः । उदश्वद्वीचिमालेन लावणेनाम्बुधिना बहिः ॥ ५१ ॥ १ द. अयुतं सहस्रान्ते । वा. ३
परिक्षिप्तोऽयमुक्तस्ते जम्बूद्वीपो मयाखिलः । द्वादशाम्बुनिधावत्र पृथग् भूमिभृतः स्थिताः ॥ ५२ ॥ त्रयस्त्रयो दिशि दिशि स्फारोर्मिस्थगितोपलाः । मैनाकश्च बलाहश्च चक्रनामा च दक्षिणे ॥ ५३ ॥ नारदाख्यो वराहाख्यः सौमकाख्यश्च पश्चिमे । उदग्भागेऽपि च द्रोणकङ्कचन्द्रा इति त्रयः ॥ ५४ ॥ धूम्रको दुन्दुभिश्चैव सार्द्रकश्चेति पूर्वतः । सहस्रं योजनानां ते दीर्घास्तस्यार्धमुच्छ्रिताः ॥ ५५ ॥ मग्नास्तदर्धमम्भोद्यौ विस्तुताश्च धराधराः । जुष्टाः सर्वै सुरैः शृङ्गौढिलीढविहायसः ॥ ५६ ॥ ज्वलितौषधयः कान्तविचित्रद्रुमवीरुधः । द्वीपाः शाककुशक्रौञ्चशाल्मल्य इति च क्रमात् ॥ ५७ ॥ गोमेदः पुष्कराख्यश्च षडमी बाह्यतः स्थिताः । क्षीराज्यदधिमद्येक्षुरसस्वाद्वम्भसोऽर्णवाः ॥ ५८ ॥ द्वीपान् शाकादिकानेते परिवार्य स्थिताः क्रमात् । खद्वीपतुल्याः सर्वे ते प्रमाणेन यथाक्रमम् ॥ ५९ ॥ अमी शाकादयो द्वीपा जम्बूद्वीपप्रमाणतः । यथाक्रमं स्युर्द्विगुणास्तथाम्भोनिधयोऽपिच ॥ ६० ॥ शाके सप्ताद्रयस्तेषूदद्यो जलधरस्तथा । नारको रैवतः श्यामो राजतोऽर्थाम्बिकेयकः ॥ ६१ ॥ चतुःसाहस्रिकस्तेषां विष्कम्भोऽर्धं समुच्छ्रयः । तदर्धं भूप्रदेशश्च सेवितानां सुरर्षिभिः ॥ ६२ ॥ वृत्तानां द्वीपवत् तेषां बाह्यतोऽमूननुक्रमात् । वर्षाणि सन्निविष्टानि सप्त तानि ब्रवीमि ते ॥ ६३ ॥ जलदाख्यं कुमारं च सुकुमारं मणीचकम् । कुसुमोत्तरमोदाकीमहाद्रुमवनानि च ॥ ६४ ॥
१ द. यांबिको जयः । ख. जांबिको॑ । जयः ग. पाठः ।
भुवनकोशः पञ्चमोऽध्यायः । १९ कुशे विद्रुमहेमारुणौ द्युतिमानथ पुष्पवान् । कुशेशयो हरिक्ष्माभृन्मन्दरश्च कुलाचलाः ॥ ६५ ॥ विष्कम्भोऽष्टसहस्राणि तेषां प्रत्येकमीरितः । तदर्धमुच्छ्रयस्तद्वदुच्छ्रयार्धमधोगमः ॥ ६६ ॥ उद्भिदं वेणुवत्संज्ञं सरालम्प्रथ लम्बनम् । वर्षं श्रीमत् प्रभाकृच्च कपिलं १पन्नगाभिधम् ॥ ६७ ॥ क्रौञ्चे क्रौञ्चोऽन्धकारश्च देवो गोविन्दवामनौ । द्विविदः पुण्डरीकश्चेत्यस्मिन् सप्त २कुलाद्रयः ॥ ६८ ॥ विष्कम्भोऽयुतमेतेषां विष्कम्भार्धं समुच्छ्रयः । अधोगतिस्तदर्धं च वर्षाण्येषां तु बाह्यतः ॥ ६९ ॥ ३कुसलाख्याष्टवर्षाख्ये ४परापतमनोनुगे । मुनिवर्षान्धकाराख्ये सप्तमं दुन्दुभीति च ॥ ७० ॥ गिरयः शाल्मलिद्वीपे रक्तः पीतः सितस्तथा । वैपुल्यमेषां द्वात्रिंशत्सहस्राणि प्रचक्षते ॥ ७१ ॥ वैपुल्यार्धं समुच्छ्रायस्तदर्धमवनौ गतिः । वर्षे शान्तभयं वीतभयं चेत्यत्र संस्थिते ॥ ७२ ॥ गोमेदे तु सुरश्चेति कुमुदश्चेति भूधरौ । योजनानां चतुःषष्टिसौ सहस्राणि विस्तृतौ ॥ ७३ ॥ उच्छ्रायो विस्तरस्यार्धं तदर्धं चाप्यधोगतिः । धातकीखण्डनामास्य मध्ये वर्षमुदीरितम् ॥ ७४ ॥ अस्त्यद्रिः पुष्करद्वीपे मानसोत्तरसंज्ञितः । बाह्यतो वर्षमेतस्य महावीतमिति स्मृतम् ॥ ७५ ॥ विस्तृतोऽष्टौ सहस्राणि शैलोऽयं द्वे तथायुते । सहस्रशतमन्यच्च सुरसिद्धर्षिसेवितः ॥ ७६ ॥ व्यासार्धेनोच्छ्रयस्तस्य तदर्धेनाप्यधोगमः । सुरेशानां नगर्योऽस्मिन् मया वत्स ! निवेशिताः ॥ ७७ ॥ १ द. न्यूनगाभिधम् । २ द. ख. ग. कुलाचलाः । ३ द. कुशला° । ४ द. पारापत° ।
ऐन्द्री १वस्वोकसारा प्राग् याम्या संयमनी ततः । प्राचेतसी सुखा पश्चात् तथा सौम्योत्तरे विभा ॥ ७८ ॥ धर्मरक्षार्थमेतासु चत्वारश्चतसृष्वपि । तथा लोकव्यवस्थार्थं पृथग् लोकभृतः स्थिताः ॥ ७९ ॥ लोकालोकाचलः स्वादुसलिलाद् द्विगुणो बहिः । स्वादूदधिप्रमाणात् स विस्ताराद् द्विगुणोऽपि च ॥ ८० ॥ समुच्छ्रितोऽसौ नियुतं नियुतार्धमधो गतः । पञ्च क्रोशाः प्रतिदिशं नियुतानि तथा नव ॥ ८१ ॥ तदूध्वं नियुतस्यार्धं मेरुमध्यात् तदन्तरम् । समुद्रासितदेहार्धस्तिग्मांशोः किरणैरयम् ॥ ८२ ॥ तत्समेन च भूम्यर्धेनावृतः परतः पुनः । भौतान्यावरणाण्युर्व्या यस्यैतानि स्थितान्यधः ॥ ८३ ॥ बाह्यतोऽपि च भूम्यूर्ध्वं निविष्टानि तथानघ ! । इति वत्स ! २तव प्रोक्तः सन्निवेशोऽखिलः क्षितेः ॥ ८४ ॥ स्थितिं गतिं च कथयाम्यर्कादीनामतःपरम् । सूर्येन्दुधिष्ण्यज्ञसितभौमार्किंत्रिदशार्चिताः ॥ ८५ ॥ सप्तर्षयो ध्रुवश्चेति भूमेरूर्ध्वं क्रमात् स्थिताः । चत्वारि द्वे तथा भूमेरूर्ध्वमा सूर्यनन्दनात् ॥ ८६ ॥ षडेवमन्तराणि स्युः सहस्राणां शतं शतम् । ३ग्रहान्तराणि यान्यन्यान्यवशिष्टान्यनुक्रमात् ॥ ८७ ॥ तानि चत्वार्यपि द्वे द्वे लक्षे प्रोक्तानि मानतः । धरित्रीध्रुवयोर्मध्ये योजनानां चतुर्दश ॥ ८८ ॥ नियुतानि समुत्सेधस्त्रैलोक्यस्य प्रकीर्तितः । एकाथ द्वे चतस्रोऽष्टावन्तरं कोटयः क्रमात् ॥ ८९ ॥ महोजनस्तपःसत्यलोकानामुपरि ध्रुवात् । ये स्थिताः सत्यलोकोर्ध्वमधस्तादण्डकर्परात् ॥ ९० ॥
१ द. वस्वौकसारा । २ द. यथोक्त...खिलक्षितेः । ३ द. सूक्ष्मांतराणि ।
भुवनकोशः पञ्चमोऽध्यायः । २१ एका कोटिर्भवेत् तेषां पञ्चाशन्नियुतान्विता । अथावरणयोगोऽस्य विहितः (स ? प )ङ्कजन्मना ॥ ९१ ॥ यथैवाधस्तथा तिर्यक् तथैवोर्ध्वमपि क्रमात् । वहेऽब्दाः प्रवहे सूर्यः स्थितः शीतांशुुरुद्वहे ॥ ९२ ॥ संवहस्थानि नक्षत्राण्यावहस्थाः पुनर्गहाः । सप्तर्षयः परिवहे ध्रुवश्चापि परावहे ॥ ९३ ॥ प्रदक्षिणममी सप्त मरुतो भ्रमयन्त्यमून । मेधीभूतः स्थितो मध्ये सुमेरुक्ष्माभृति ध्रुवः ॥ ९४ ॥ समस्तमपि तद्बद्धं ज्योतिश्चक्रं भ्रमत्यदः । सप्ताश्वेनैकचक्रेण रथेन रथिनां वरः ॥ ९५ ॥ १तेजोमयेन २सततं भ्राम्यति ज्योतिषां पतिः । केतुमाले (रजन्यर्धं ? व्रजन्नूर्ध्वं) करोत्यस्तं कुरुष्वपि ॥ ९६ ॥ मध्यन्दिनं च भद्राश्वे (दृष्ट् ? स्तंग)च्छन् भारते रविः । रसाब्धिपक्षसङ्ख्यानि योजनानि निमेषतः ॥ ९७ ॥ सप्तविंशतिकां चाष्टौ भागान् सर्पत्यहर्पतिः । ३योजनान्य(धिवनन्दनुं ? च्धिनन्दतुं) गुणसङ्ख्यानि काष्ठया ॥ ९८ ॥ नवांशकचतुष्कं च क्रामत्यहिमदीधितिः । वह्न्यग्निवसुखेन्द्रक्ष्मासङ्ख्यातान्यब्जिनीपतिः ॥ ९९ ॥ योजनस्य त्रिभागं च प्रयाति कलयाैकया । वियत्खव्योमभूताश्विगुणपावकसङ्ख्यया ॥ १०० ॥ योजनान्युष्णकिरणो मुहूर्तेन प्रसर्पति । रात्र्यहेण सहस्राणि पञ्चाशन्नवकोटयः ॥ १०१ ॥ लक्षाणि सप्तनवतिर्गतिः स्यात् तिग्मरोचिषः । मध्येन पुष्करद्वीपस्यार्को गत्यानया व्रजन् ॥ १०२ ॥ नभस्तलेन पुनरप्युदयादुदयं श्रयेत् । इत्थं गतिरियं सम्यक् तिग्मभानोर्निरूपिता ॥ १०३ ॥ १ एतदादिश्लोकद्वयं ख. ग. मातृकयोर्नास्ति । २ दृ. पतितं । ३ योजनान्यं नाश्विनंदत्तु (?)
२२ समराङ्गणसूत्रधारे गतिं चन्द्रग्रहर्क्षाणां भोगं चार्काद् विभावयेत् । प्रोक्तं तवेत्यहोरात्रप्रमाणमधुनानघ ! । पक्षमासर्तुवर्षादीन् व्यवहाराय कल्पयेत् ॥ १०४ ॥ इति निगदित एष द्वीपशैलाम्बुधीना- मवनिवलयवर्त्ती कात्स्न्यर्तः सन्निवेशः । गतिरपि दिनभर्त्तुः कीर्त्तिता विश्वमानं पुनरिह युगधर्मं कीर्त्त्यमानं निबोध ॥ १०५ ॥ ²इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे भुवनकोशाध्यायः पञ्चमः ॥ अथ सहदेवाधिकारः षष्ठोऽध्यायः । अथ प्राक्थितादस्माद् भूतसर्गादनन्तरम् । प्रजासीदमरैः सार्धमियं पूर्णजनाकुला ॥ १ ॥ शोकव्याधिजरातङ्कविमुक्तास्त्रिदशा इव । पुराभवन् कृतयुगे पुमांसः स्थिरयौवनाः ॥ २ ॥ ते निकुञ्जेषु शैलानां नदीषु च सरस्सु च । वनेषु च विचित्रेषु चिक्रीडुर्दैवतैः सह ॥ ३ ॥ हेलया ते समुत्पत्य कदाचिदमरैः सह । निरर्गलाः समासाद्य खर्विचेरुः सुरा इव ॥ ४ ॥ चित्राम्बरावृताः सर्वे नानाभरणशालिनः । विमानाकृतयस्तेषामासन् कल्पद्रुमा द्रुमाः ॥ ५ ॥ मनोज्ञाभिः सह स्त्रीभिर्विचित्राभर(णास्त्रि ? णश्रि)यः । कल्पद्रुमेष्वकार्षुस्ते वासं क्रीडां च तेष्वथ ॥ ६ ॥ क्षुत्तृड्दुःखोज्झिताः सर्वे बभूवुरयुतायुषः । रक्तावदातदेहास्ते कदाचिद् भूरसाशिनः ॥ ७ ॥ रतिप्रायास्तदासन्स्ते स्वेच्छाहारविहारिणः । स्वीकारविग्रहच्छेदविशदीकृतचेतसः ॥ ८ ॥
१ द. ममुनानघ । २ द. इतः परं ६/२९ पर्यन्तं त्रुटितं ।
सहदेवाधिकारः षष्ठोऽध्यायः । २३ नास्मिन्नर्कस्तपत्युग्रं न वाति प्रबलोऽनिलः । नीहारच्छेदसुन्दर्यो निशाः पूर्णेन्दुभूषणाः ॥ ९ ॥ भिन्नस्निग्धाञ्जनश्यामाः सतडिन्मन्द्रनिस्वनाः । अचण्डाशनयश्चासन् कबरीकान्तयो घनाः ॥ १० ॥ माद्यत्पिकवधूदष्टमाकन्दमुकुराङ्कुराः । आसन् सदापुष्पफलाभोगा येषां वनालयाः ॥ ११ ॥ एकोऽग्रजन्मा वर्णोऽस्मिन् वेदोऽभूदेक एव च । ऋतुर्वसन्त एवैकः कुसुमायुधबान्धवः ॥ १२ ॥ रूपश्रुतसुखैश्वर्यभाजस्ते निखिला अपि । समत्वान्नाभवत् तेषामुत्तमाधममध्यता ॥ १३ ॥ न खेटनगरग्रामपुरक्षेत्रखलादिकम् । न दंशमशकक्रव्याद्वयं वा न ग्रहादि च ॥ १४ ॥ कल्पद्रुमाप्तभोगानां न चैषां प्रभुरप्यभूत् । पुरास्मिन् भारते वर्षे तेषां निवसत़ामिति ॥ १५ ॥ जगाम सुबहुः कालः सुरैः सार्ध सुर(स्त्रि ? श्रि)याम् । अज्ञाततत्प्रभावानां सहसंवाससंभवा ॥ १६ ॥ अथैषामभवद् दैवादवज्ञा त्रिदशान् प्रति । अपूज्यमानास्ते पूज्याः सर्वेऽप्यखिलवेदिनः ॥ १७ ॥ आदाय तत्कल्पतरुं निपेतुर्द्यां दिवौकसः । दिवंगमनशक्तिश्च दिव्यो भावश्च तद्गतः ॥ १८ ॥ सरसः परमो भूमौ भूरसश्च न्यवर्तत । स्मृत्वा कल्पद्रुमांस्तांस्तान् क्रीडास्ताश्च सुरैः सह ॥ १९ ॥ व्यलपन् बहुधात्यर्थमनैर्थकृतचेतसः । ततो विलपतां भूरि स्वैरमाहारहेतवे ॥ २० ॥ प्राणत्राणार्थमेतेषामभूत् पर्पटको भुवि । भूरसेनेव तेनैते कुर्वाणाः प्राणरक्षणम् ॥ २१ ॥ १ 'नर्थीकृ' ख. पाठः ।
२४ समराङ्गणसूत्रधारे विना कल्पद्रुमैर्वासमन्यवृक्षेषु चक्रिरे । अथैषां पश्यतामेव कदाचिद् भाग्यसंक्षयात् ॥ २२ ॥ विपर्ययाच्च कालस्य भूमेः पर्पटकोऽप्यगात् । ततः पर्पटके नष्टे तुषशूककणोज्झिताः ॥ २३ ॥ अकृष्टपच्या मेदिन्यामभवञ् शालितण्डुलाः । शाल्योदनेन तेनाथ स्वादुव्यञ्जनेन ते ॥ २४ ॥ परमां तृप्तिमासेदुः परितोषात्तचेतसः । तन्नाशशङ्कया शालितण्डुलानां द्रुमेष्वधः ॥ २५ ॥ ते व्यधुर्महतो राशींस्तंत्क्षेत्राणि च चक्रिरे । अजायत ततो लोभो मात्सर्यैर्ष्यापुरस्सरः ॥ २६ ॥ तत्र तत्र शनैश्चक्रे पदन्यासं च मन्मथः । द्वन्द्वप्राप्त्या ततस्तेषां बिभ्रतामुत्तमां गतिम् ॥ २७ ॥ धैर्यध्वंसादभूत् स्त्रीषु भृशं रागतुरङ्गमः । दारक्षेत्रनिमित्तानि भूयांस्येषामनन्तरम् ॥ २८ ॥ परिक्लेशैकमूलानि द्वन्द्वान्यसन् पृथक्पृथक् । ततः स्वक्लृप्तमर्यादोच्छेदिष्वेष्वजितात्मसु ॥ २९ ॥ अविनीतेष्वभाग्येषु स शालिस्तुषतामगात् । प्रवृद्धरजसां तेषां सा पुण्यश्लोकता गता ॥ ३० ॥ मलप्रवृत्तिरभवत् तुषधान्योपसेवया । तुषधान्ये ततो नष्टे परिभुक्ते च सञ्चये ॥ ३१ ॥ चीरवल्कलवस्त्राणां कन्दमूलफलाशिनाम् । ऋतवः कालपर्यासात् षड् वसन्तादयोऽभवन् ॥ ३२ ॥ ततस्तेषामभूद् दोषरोगशोकाकुलं वपुः । मनश्च कामक्रोधेष्र्यादैन्यास्रूयादिदूषितम् ॥ ३३ ॥ आधिदैवकमुष्णाम्बुशीतादिजनितं महत् । आधिभौतिकमप्यासीद् दुःखं व्यालमृगादिजम् ॥ ३४ ॥ १ 'स्ततः क्षेत्राणि चक्रि' ख. ग. पाठः । २ 'र्यादास्वनिष्ठेष्व' क. पाठः ।
वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । २५ इत्थं दुःखलयार्त्तास्ते व्यवायाद्यभिगुप्तये । हिमनीहारशीताम्बुवाताद्यापच्छिदेऽपि च ॥ ३५ ॥ अजातप्रीतयो वृक्षैः कुट्टिमानि गृहाणि (ते ? च) । व्यधुश्छित्त्वाश्मभिर्वृक्षानन्यान् दुःखार्तचेतसः ॥ ३६ ॥ स्मृत्वा कल्पद्रुमाकारास्तद्रूपाणि गृहाणि ते । एकद्वित्रिचतुःसप्तदशशालानि चक्रिरे ॥ ३७ ॥ श(ब्दा ? ष्प)प्राकारपरिखेष्वाच्छन्नेषु तृणादिभिः । हृष्टास्तेष्वनयन् 'कालमाप्तेषु गृहमेधिनः ॥ ३८ ॥ इत्यमीषु गृहिणो गृहेषु ते शीतवातजलतापनाशिषु । हर्षसंवलितमानसाश्चिरं सन्निरस्तविपदोऽवसन् सुखम् ॥ ३९ ॥ इति महाराजाधिराजश्रीभोजदेवविरचिते समराङ्गणसूत्रधारापरनाम्नि वास्तुशास्त्रे सहदेवाधिकारो नाम षष्ठोऽध्यायः ॥
अथ वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । अथामरगणैः सार्धमाजगाम पितामहः । दुःखच्छेदाय मर्त्यानामादाय नृपतिं पृथुम् ॥ १ ॥ स तानूचे प्रभुर्वोऽसौ मरुतामिव वासवः । दण्डधारी च दुष्टानां प्रभावे लोकपालवत् ॥ २ ॥ प्रतापतापितारांतिसिंहः सिंहपराक्रमः । युष्माकमाधिपत्येऽसावभिषिक्तो मया पृथुः ॥ ३ ॥ रक्षाकृत् सर्वशिष्टानामुच्छेत्ता दुष्टचेतसाम् । ³वृत्तितो भीतिहृत् च भविष्यत्येष वो नृपः ॥ ४ ॥ भवद्भिरेतदायत्तैर्भवितव्यं ममाज्ञया । करिष्यत्येष वो ⁴नीत्या चातुर्वर्ण्याश्रमस्थितीः ॥ ५ ॥ १ द. क्रामास्तेषु; ख. ग. कामाप्तास्ते । २ क. ॰रातिः शश्वन् सिंह॰ । ३ द. वृत्तिदो । ४ द. नित्याचारवर्णाश्रमस्थितीः । वा. ४
उक्त्वेति ब्रह्मणि गते नाथमासाद्य तेऽथ तम् । अवोचन् दुःखिता दुःखादस्मात् त्रायस्व नः प्रभो ! ॥ ६॥ कल्पद्रुमामर्त्यक्तान् द्वन्द्वार्तिक्रान्तचेतसः । व्यसनार्णवनिर्मग्नान् पाहि नः पृथिवीपते ! ॥ ७॥ अथो पृथुरुवाचैतान् मा भैष्ट सुखमास्यताम् । दुःखान्यपहरिष्यामि करिष्ये च सुखानि वः ॥ ८ ॥ ततः स चतुरो वर्णानाश्रमांश्च व्यभाजयत् । तेषु ये वेदणिरताः स्वाचाराः संयतेन्द्रियाः ॥ ९ ॥ ¹सूरयश्चावदाताश्च ब्राह्मणास्तेऽभवंस्तदा । यजनाध्ययने दानं याजनाध्यापनार्थिताः ॥ १० ॥ धर्मास्तेषां विमुच्यान्यांस्त्रींस्तुल्याः क्षत्रवैश्ययोः । ये तु शूरा महोत्साहाः शरण्या रक्षणक्षमाः ॥ ११ ॥ दृढव्यायतदेहाश्च क्षत्रियास्त इहाभवन् । विक्रमो लोकसंरक्षाविभागो व्यवसायिता ॥ १२ ॥ एतेषामयमप्युक्तो धर्मः शुभफलोदयः । निसर्गनैपुणं येषां रतिर्वित्त call: र्जनं प्रति ॥ १३ ॥ श्रद्धादाक्ष्य²दयावन्तो वैश्यांस्तानकरोदसौ । चिकित्सा कृषिवाणिज्ये स्थापत्यं पशुपोषणम् ॥ १४ ॥ वैश्यस्य कथितो धर्मस्तद्वत् कर्म च तैजसम् । नातिमानभृतो नातिशुचयः पिशुनाश्च ये ॥ १५ ॥ ते शूद्रजातयो जाता नातिधर्मरताश्च ये । कलारम्भोपजीवित्वं शिल्पिता पशुपोषणम् ॥ १६ ॥ वर्णत्रितयशुश्रूषा धर्मस्तेषामुदाहृतः । ब्रह्मचारी गृहस्थो वा वानप्रस्थस्तथा यतिः ॥ १७ ॥ इत्याश्रमाः ³पृथक् तेन चत्वारः प्रविभाजिताः । गुरुशुश्रूषणं भैक्षं व्रतचर्याग्निकर्म च ॥ १८ ॥ १ द. ख. ग. शुचयश्चां । २ द. ˚दयावन्तो । ३ द. पृथक्त्वेन ।
वर्णाश्रमप्रविभागः सप्तमोऽध्यायः । २७ स्वाध्यायश्चाभिषेकश्च धर्मोऽयं ब्रह्मचारिणः । पूजाग्न्यतिथिदेवानां स्ववृत्त्या जीवनं दमः ॥ १९ ॥ असमानर्षिगोत्रेषु विवाह ऋतुगामिता । $^१$परस्थ स्त्रीषु वैमुख्यं परानुग्रहशीलता ॥ २० ॥ विनिवृत्तिकरार्य्येभ्यो धर्मोऽयं गृहिणां कृतः । देवतातिथिसत्कारो ब्रह्मचर्यं वने स्थितिः ॥ २१ ॥ वल्काजिनजटाचीरधारणं शयनं भुवि । उपोषणैर्व्रतैर्देहकर्शनं नियमैस्तथा ॥ २२ ॥ आहारोऽकृष्टपच्यैश्च धर्मोऽयं वनवासिषु । वैराग्यमिन्द्रियजयश्चिन्त्यात्यागः प्रशान्तता ॥ २३ ॥ आकिञ्चन्यमनारम्भो यतिधर्मः सदा स्मृतः । क्षमत्वं गुर्वधीनत्वं शौचं स्वाध्यायनित्यता ॥ २४ ॥ विशुद्धिर्व्यवहारेषु शिष्यधर्मोऽयमीरितः । शुचित्वं वाङ्मनःकायैः पतिशुश्रूषणं क्षमा ॥ २५ ॥ पूजनं पतिपूज्यानां स्त्रीधर्मः शौचमेव च । एवं वर्णाश्रमान् सम्यक् कृत्वा वर्णांस्तदुद्भवान् ॥ २६ ॥ विभज्य तेषां बैन्येन ते ते धर्माः प्रकीर्तिताः । वृत्तिं कर्माणि चैतेषां पृथगुद्दिश्य सोऽभ्यधात् ॥ २७ ॥ स्वधर्मावस्थितानां वो भावि लोकद्वये सुखम् । य एतां स्थितिमुल्लङ्घ्य मोहादन्यद् विधास्यति ॥ २८ ॥ तस्याहं यमवत् क्रुद्धः करिष्याम्यनुशासनम् । युक्तानां कर्मसु स्वेषु $^२$वृत्त्यर्थं भवनामहम् ॥ २९ ॥ खेटकग्रामवेश्मानि विधास्यामि पुराणि च । इत्युक्त्वा तानथो कोट्या कार्मुकस्य पृथुर्नृपः ॥ ३० ॥ विषमां साधयामास पृथिवीं पृथुविक्रमः । तत्सङ्क्लेशेन गौर्भूत्वा नश्यन्ती तेन मेदिनी ॥ ३१ ॥ १ द. परस्वं । २ द. ख. ग. भूत्यर्थं ।