भारतकोश
संग्रह पर लौटें

सात्वत संहिता (पाञ्चरात्र आगम - भगवान् सङ्कर्षण-नारद संवाद सान्वय सटीक)

Satvata Samhita of Pancharatra Agama with Commentary

भगवान् सङ्कर्षण / महर्षि नारद द्वारा

DevanagariHindipublished837 पृष्ठ

१०८ सात्वतसंहिता समास्ते सभ्यवपुषा पश्चिमास्यामनन्तरम्। गार्हपत्याख्यभेदेन ततस्तिष्ठति चोत्तरे ॥ १२८ ॥ ओदनम्पचनात्मा तु सर्वात्मत्वेन मध्यतः। आधाराधेयभावेन त्वास्ते संवलिताकृतिः ॥ १२९ ॥ अनेन होमेनाग्निर्लब्धसत्ताको भूत्वाऽन्तर्गतं भगवन्तं दृष्ट्वा तन्मयत्वं प्राप्य स्वयमेव याजककर्तृकयागाङ्गत्वमाश्रित्य चातुरात्म्याराधनार्थं स्वयमपि चतुर्धा आहव- नीयसभ्य-गार्हपत्यौदनं पचनात्मभेदैः प्रागादिषु स्वात्मत्वेन मध्ये चाधाराधेय- भावसंवलिताकृतिस्तिष्ठतीत्याह—तदेति सार्धैः पञ्चभिः ॥ १२४-१२९ ॥ इस प्रकार अधिकार प्राप्त कर अग्नि के अन्तर्गत भगवान् विष्णु को देखकर एवं तन्मयत्व प्राप्त कर उनकी इच्छा से स्वयमेव याजक कर्तृत्व यागाङ्गत्व का आश्रय लेकर, चातुरात्म्य की आराधना के लिये स्वयं अपने को कुण्ड के मध्य से अधिभूत स्वरूप से दिशाओं के क्रम से प्रभागों में विभक्त हो कर स्थित हो जाता है ॥ १२४-१२७ ॥ पूर्वदिशा में आहवनीय रूप से और दक्षिण दिशा में सभ्यरूप से, पश्चिम में गार्हपत्य रूप से, उत्तर में ओदनंपच नाम से, सर्वात्मत्वेन मध्य से, इस प्रकार आधाराधेयभाव से संवलिताकृति हो कर स्थित हो जाता है ॥ १२७-१२९ ॥ अङ्गाराण्यर्चिषश्चैव शक्तिर्या दहनात्मिका। त्रिलक्षणोऽयमाधार आधेयो हुतभुग् विभुः ॥ १३० ॥ आत्मयोनिस्तु विश्वेशो वासुदेवः सनातनः। एवं ज्ञात्वा पुरा सम्यक् सत्तां वैश्वानरीं पराम् ॥ १३१ ॥ ततः कर्मणि वर्तेत नैष्ठिकः कृतनिश्चयः। आधाराधेयविवरणमाह—अङ्गाराणीति सार्धेन। एवं सम्यग्ज्ञानेन सत्तापरिज्ञाना- नन्तरमेव कर्मणि प्रवृत्तिमाह—एवमिति। अस्मिन्नवसरेऽग्न्यर्चनमीश्वराद्युपबृंहितं ग्राह्यम् ॥ १३०-१३२ ॥ अङ्गार, अर्चि और दहनात्मिका शक्ति यह तीन लक्षण आधार के हैं। स्वयं विभु अग्निदेव के आधार हैं। इस प्रकार उस वैश्वानरी परा-सत्ता को आत्मयोनि, विश्वेश, वासुदेव, सनातन समझकर नैष्ठिक कृतनिश्चय हो कर कर्म में प्रवृत्त होते हैं ॥ १३०-१३२ ॥ कुर्यादुदकपूर्वं तु प्राग्वदावाहनं ततः ॥ १३२ ॥ व्यक्तेर्विगलितेनैव तत्त्वेनाप्यव्ययात्मना। अथाग्निमध्ये भगवदावाहनमाह—कुर्यादिति। व्यक्तेर्विगलितेनेत्यनेन बिम्बादि- ष्वर्चितस्यैवात्रावाहनमित्यवगम्यते। तत्त्वेन = मान्त्ररूपेणेत्यर्थः ॥ १३२-१३३ ॥

षष्ठः परिच्छेदः १०९ सर्वेश्वरस्य वै यस्माद् यद्यन्मन्त्रं महद्वपुः ॥ १३३ ॥ वाच्यवाचकरूपं तद् विज्ञेयममलेक्षण । तत्पुनः शुद्धसामान्यमुपचारविधौ स्थितम् ॥ १३४ ॥ यद्भोगदानमन्त्रैस्तु रहितं मान्त्रमैश्वरम् । मन्त्रशरीरस्यैव मुख्यत्वं तस्य वाच्यवाचकरूपेण द्वैविध्यं चाह—सर्वेश्वरस्येति द्वाभ्याम् । अत्रावाहनमित्यनेन भद्रपीठपरिकल्पनादित्वभोगार्चनान्तविधयोऽप्युप- लक्ष्यन्ते । तथैवोपरुंहितमीश्वरादिषु च ॥ १३३-१३५ ॥ सर्वप्रथम जल द्वारा उनका पहले की तरह आवाहन करे । अब अग्नि मध्य में भगवान् का आवाहन कहते हैं । बिम्बादि में अर्चित भगवान् की तरह अव्यात्मा तत्त्व रूप मन्त्र से उस सर्वेश्वर का आवाहन करे क्योंकि जितने मन्त्र है, वही उसके महान् शरीर हैं । हे अमलेक्षण ! इसलिये मन्त्र और परमेश्वर में वाच्य वाचक भाव सम्बन्ध होता है, ऐसा समझना चाहिये । फिर उपचार विधि में वे सभी सामान्य हो जाते हैं ॥ १३२-१३४ ॥ प्राक् चतुर्धा विभक्तो यस्तमादायेध्मसञ्चयम् ॥ १३५ ॥ आज्येनोभयतः सिक्तं ब्रह्मक्षीरद्रुमोद्भवम् । कुण्डस्य ब्रह्मभित्तिभ्यां मध्ये भागचतुष्टये ॥ १३६ ॥ निदध्यादुत्तराशान्तं प्राग्भागादितः क्रमात् । ईशानाग्नेयपादाभ्यां पतितं प्राक् चतुष्टयम् ॥ १३७ ॥ आग्नेयनैर्ऋताशाभ्यां विश्रान्तमपरं न्यसेत् । नैर्ऋतानिलसंस्पर्शि तृतीयं विनिवेश्य च ॥ १३८ ॥ वाय्वीशपदसंरुद्धं चतुर्थं तु चतुष्टयम् । एवं चतुर्विभक्तेन सामिधेन समासतः ॥ १३९ ॥ कुण्डमेकं चतुर्धा वै चतुर्णां संविभज्य च । अग्नीनामेकदेहानां चातुरात्म्यव्यपेक्षया ॥ १४० ॥ यदा य उपयोग्यः स्यात् यस्मिन् यस्मिन् हि वस्तुनि । स्वमूर्तेस्तर्पणार्थं च कर्मणि स्थापनादिके ॥ १४१ ॥ तदा तदा स आदेयः स्वकात् स्थानाच्च यत्नतः । ततः पूर्वं प्रणीतासंस्कारकाले चतुर्धा विभक्तस्य षोडशेध्मस्येदानीं कुण्डमध्ये आ(वाह? हव)नीयादिविभागार्थं प्रागादिषु ब्रह्मस्थानभित्त्योर्मध्ये तत्तत्कोणद्वयसंरोधेनेध्मप्रक्षेपमाह—प्राक् चतुर्धेत्यादिभिः स्वकात् स्थानाच्च यत्नत इत्यन्तैः ॥ १३५-१४२ ॥

११० सात्वतसंहिता प्रणीता संस्कार काल में आज्य से सिक्त पलाश तथा दूध वाले वृक्षों से उत्पन्न जो १६ समिधायें कही गई हैं, उसका चार भाग आवहनीयादि विभाग के लिये करे। फिर उसे कुण्ड के ब्रह्मभित्ति के मध्य में चार भागों में, पूर्व से लेकर उत्तर दिशा तक स्थापित करे। ईशान-आग्नेय में पहला चतुष्टय, आग्नेय-नैर्ऋत्य कोण में दूसरा चतुष्टय, नैर्ऋत्य-वायव्य कोण में तीसरा, फिर वायु और ईशान में चतुर्थ चतुष्टय स्थापित करे ॥ १३५-१३९ ॥ द्वितीयमिध्ममादाय त्वष्टकाष्ठमयो हि यः ॥ १४२ ॥ द्विधा कृत्वा पुराज्येन पूर्ववत् सेचयेच्च तम्। इध्मविभागादिकमाह—द्वितीयमिति। इध्माष्टकं पुरा द्विधा कृत्वा तदनन्तरं पूर्ववदुभयत आज्येन सेचनीयम्। यद्यपीश्वरपारमेश्वरयोः—'आज्येनोभयतः सिक्तं ब्रह्मक्षीरद्रुमोद्भवम्। समादाय द्विधा कृत्वा' (ई०सं० ५।१८६; पा०सं० ७।१४८) इति चोक्तत्वाद् इध्मानामाज्यसेकानन्तरं द्वेधा विभजनं प्रतीयते, तथापि मूलाविरोधेनार्थस्य वर्णनीयत्वात्, मूले च द्विधा कृत्वा पुराज्येन पूर्ववत् सेचयेच्च तमित्युक्तत्वात्, षोडशेध्मप्रकरणेऽपि चतुर्धा विभजनानन्तरमेवाज्यसेकस्योक्तत्वाच्च पाठक्रमादर्थक्रमस्य बलीयस्त्वेन तयोरपि द्वेधाकरणानन्तरमेवाज्यसेचनमित्यर्थो वर्णनीयः। अत एवास्मत्तातपादैरीश्वरानुसारिण्यपि सात्वतामृते मूलाविरोधेनार्थो वर्णितः। कस्मिंश्चित् पारमेश्वरप्रयोगे—'आज्येन सर्वतः संसिच्य द्विधा कृत्वा' इत्युक्तम्, तद्विरुद्धम् ॥ १४२-१४३ ॥ निधाय दक्षिणस्यां च मध्य आग्नेयदिग्गतम् ॥ १४३ ॥ विश्रान्तं नैर्ऋतपदे चोत्तरस्यां तथाऽपरम्। वाय्वीशपदसंरुद्धमाज्यमादाय वै ततः ॥ १४४ ॥ इध्मप्रक्षेपक्रमपाह—निधायेति सपादेन। अग्नौ दक्षिणस्यां मध्ये नैर्ऋताग्नेय- को(ण)संरुद्धमिध्मचतुष्टयं निधाय तथैवापरं चतुष्कमृत्तरस्यां मध्ये वायव्येशानकोण- संरुद्धं निदध्यादित्यर्थः। एवं नैर्ऋताग्नेयसंरुद्धत्वोक्त्या वायव्येशानसंरुद्धत्वोक्त्या चाग्नौ दक्षिणस्यामुत्तरस्यां च पूर्वपश्चिमयतने वेध्मप्रक्षेपः कार्य इत्यर्थः सिद्ध्यति। ननु पूर्वपश्चिमन्तामिध्मप्रक्षेपः स्वतः सिद्ध इति चेन्न, पूर्वं षोडशेध्मप्रक्षेप- प्रकरणे—'ईशानाग्नेयपादाभ्यां पतितं प्राक्चतुष्टयम्' (६।१३७) इति, 'नैर्ऋतानल- संस्पर्शि तृतीयं विनिवेश्य' (६।१३८) इति च दक्षिणोत्तरायतमपीध्मप्रक्षेपस्योक्त- त्वात्। इममर्थमविज्ञाय कस्मिंश्चित् पारमेश्वरप्रयोगे वृथा पाण्डित्यं कृतम्। तथाहि— इध्माष्टकपक्षे कुण्डादन्तः दक्षिणभित्तौ मध्यत ऊर्ध्वाग्रमेकमिध्मं मूलेन संयोज्य तथा कुण्डमध्यत आग्नेये नैर्ऋते चेध्मत्रितयं निधाय तथापरचतुष्कमृत्तरभित्तिकुण्ड- मध्यवाय्वीशानकोणेषु निदध्यादिति ॥ १४३-१४४ ॥ चतुःसंख्येन मन्त्रेण प्रणवालङ्कृतेन च। दक्षिणे स्रुक्चतुष्कं तु जुहुयादुत्तरे तथा ॥ १४५ ॥

षष्ठः परिच्छेदः १२१ सूर्यसोमात्मकं चाग्नेर्विद्धि तल्लोचनद्वयम् । ततोऽग्नौ दक्षिणे उत्तरे चेध्मप्रक्षेपस्थाने तत्संख्यानुगुणमाज्यहोमं तत्स्थानद्वयस्य सूर्यसोमात्मकाग्निलोचनत्वं चाह—चतुःसंख्येनेति सार्धेन । जयाख्ये तु—सूर्यसोमयो- स्तत्तन्मन्त्राभ्यामाहुतिद्वाराऽग्नौ दक्षिणोत्तरयोः संयोजनमुक्तम् । तदपि संगृहीतमीश्वर- पारमेश्वरयोः । किञ्च, एवमाज्यभागाभ्यां पूर्वमाघारहोमोऽपि संगृहीतस्तत्रैव— ............ आघाराज्यं ततः क्षिपेत् । इध्ममूलादथाक्रान्तमिध्मेधोपरि संस्थितम् ॥ स्रुवमाज्येन सम्पूर्य सूर्यबीजेन चिन्तयेत् । सहस्रांशुं च तन्मध्ये दद्यात् कुण्डस्य दक्षिणे ॥ अपरस्मिन् स्रुचि ध्यात्वा सोमाख्येनाक्षरेण तु । पूर्णं शशाङ्कबिम्बं च प्रदद्यात् तत उत्तरे ॥ इति ॥१४५-१४६॥ —(ई०सं० ५।१८८-१९०; पा०सं० ७।१५०-१५२) ॐ से संयुक्त चार संख्या वाले मन्त्र से दक्षिण में चार स्रुव से होम करे । इसी प्रकार उत्तर में भी होम करे । ये दोनों ही सूर्य सोमात्मक होने से अग्निदेव के नेत्र हैं ॥ १४५-१४६ ॥ एतयोरन्तरं यद् वै तदग्नेर्वदनं स्मृतम् ॥ १४६ ॥ तत्र वै जुहुयात् पूर्वं समिधां सप्तकं क्रमात् । घृतसिक्तां चतुःसंख्यामेकैकां हि सुपुष्कलाम् ॥ १४७ ॥ एतयोरन्तरालस्य वदनत्वं तत्र सप्तसमिधां होतव्यत्वं चाह—एतयोरिति । समिधां सप्तकं समित्-पुष्प-धूप-मधुपर्क-बीज-चरु-घृतानीत्यर्थः । समिध्यते दीप्यतेऽग्नि- रनयेति व्युत्पत्त्या समित्पुष्पादीनां सप्तानामपि समिदित्येव व्यवहारात् ॥ १४६-१४७ ॥ इनका मध्य भाग अग्नि का मुख है । तदनन्तर पुनः उसी में सात समिधाओं का होम करे । चार संख्या वाली समिधाओं में एक-एक को घी में सिक्त कर सर्वथा शुद्ध रूप में होम करे, जो आसादन काल में कुङ्कुमादि से लिप्त कर पहले स्थापित की गई थी ॥ १४६-१४७ ॥ प्राक् कुङ्कुमादिना लिप्तां काष्ठसंख्यां तु होमयेत् । स्रग्धूपं मधुपर्कं च बीजान्नाज्यं यथाक्रमम् ॥ १४८ ॥ तत्रान्नसमिधो दाने विशेषोऽयं विधीयते । साधितं संस्कृताऽग्नौ प्राक् तन्निधायाग्रतश्चरुम् ॥ १४९ ॥ समुद्घाट्यावलोक्यादौ सम्प्रोक्ष्यार्घ्याम्भसा ततः । दर्भकाण्डचतुष्केण साग्निना तदनुस्पृशेत् ॥ १५० ॥ तन्मध्ये स्रुवचतुष्कं तु मन्त्रैराज्यस्य निक्षिपेत् । अथादाय स्रुचं तत्र तद्वद् दद्याच्चतुष्टयम् ॥ १५१ ॥

चतुरङ्गुलमानेनाऽप्यन्नग्रासमथाहरेत् । तन्निधाय स्रुचा दर्भे तदूर्ध्वं पूर्ववत् घृतम् ॥ १५२ ॥ दद्यादग्नौ चतुष्कं तु क्षिपेदन्नाहुतिं ततः । भूयोऽग्नौ स्रुक्चतुष्कं तु चाज्यस्यापाद्य यत्नतः ॥ १५३ ॥ ततोऽन्न माज्यसंसिक्तं प्राग्वत् कृत्वहुतिं पुनः । दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम् ॥ १५४ ॥ हुत्वाऽप्यन्नाहुतीनां च ह्याख्यां जुहुयात् ततः । तासां होमक्रममाह—घृतसिक्तां चतुःसंख्यामित्यारभ्य आज्याख्यां जुहुयात् तत इत्यन्तम् । घृतसिक्तां घृतेनोभयतः सिक्तामित्यर्थः, ‘आज्येनोभयतः सिक्तम्’ (६। १३६) इति पूर्वोक्तेः । एकैकाम् पूर्वमिध्महोमप्रकरणे चतुश्रुतस्समिधां युगपत् प्रक्षेप- स्योक्तत्वादत्रापि तादृशत्वशङ्काया निवृत्यथमेकैकामित्युक्तम् सुपुष्कलामित्यनेन कृमि- भक्षितत्वादिदोषराहित्यमुच्यते । प्राग् आसादनकाल इत्यर्थः । कुङ्कुमादिना आदि- शब्देन कर्पूरकस्तूर्यौ गृह्येते, स्रग्धूपमधुपर्कं स्रक् पुष्पमित्यर्थः । ‘ततः पुष्पमयीं दद्यात्’ (४०।६८) इति लक्ष्मीतन्त्रोक्तेः । धूपः = गुग्गुल्वादि । मधुप(र्क? र्कः) संमिलित- पयोदधिमध्वाज्यम् । बीजानि = मुद्गादीनि । अन्नानि = पायसादीनि । आज्यं = गोघृतम् । आहत्य सप्त समिधो ज्ञेयाः । यथाक्रमम् = उत्त्क्रममनतिक्रम्येत्यर्थः । पूर्वं काष्ठसमिधम्, ततः पुष्पम्, ततो धूपम्, ततो मधुपर्कम्, ततो बीजानि, ततश्चरुम्, तत- स्त्वाज्यं क्रमेण जुहुयादिति यावत् । क्वचित् सात्वतपुस्तकेषु ईश्वर(५।१९४) पारमेश्वरपुस्तकेषु च ‘बीजान्याज्यं यथाक्रमम्’ इत्यशुद्धपाठो लिखितः । तदनुसारेण केषुचित् पारमेश्वरप्रयोगेषु बीजाहु- त्यनन्तरमाज्याहुतिस्तदनन्तरं चर्वादुहतिरिति लिखितम्, तदसंगतम्, यतः पूर्वं सामा- न्यतोऽन्नसमिद्दानोक्तिमन्तरा तत्रान्नसमिधो दाने विशेषोऽयं विधीयत इत्युक्तेरवतरणा- संभवात्, आज्याख्यां जुहुयात् तत इति चर्वादुहुत्यनन्तरमाज्याख्यसमिद्दानस्योक्त- त्वाच्च । प्राक् संस्कृताग्नौ साधितमित्यत्र चरुसाधनप्रकारस्तु दीक्षाप्रकरणे वक्ष्यमाणो ज्ञेयः । तन्मध्ये चरुमध्ये । आज्यस्य स्रुक्चतुष्कं निक्षिपेत्, स्रुचाज्येन चतुर्वारमभि- घार्येदित्यर्थः । अन्नग्रासं कुक्कुटाण्डप्रमाणमन्नकबलमित्यर्थः । ‘कुक्कुटाण्डप्रमाणं तु ग्रास इत्यभिधीयते’ (अ०सं० १२१-१२२) इति स्मृतेः । अथादाय स्रुचं तत्र तद्वद् दद्याच्चतुष्टयमित्यत्र, तदूर्ध्वं पूर्ववद् घृतमित्यत्र, दद्यादग्नौ चतुष्कं तु इत्यत्र च स्रुवेणेति ज्ञेयम् । ततोऽन्नमाज्यसंसिक्तं प्राग्वत् कृत्वा स्रुचाऽज्येन चरुं चतुर्वारमभिघार्येत्यर्थः । पूर्वप्रयोगेणेत्यनेन स्रुचि स्रुवेण चतुरभिघारः, तत्र चरुनिक्षेपः, तदुपरि पुनश्चतुरभि- घारस्स्रुवेणाज्याहुतिचतुष्टयम्, चर्वाहुत्यनन्तरं पुनः स्रुचाऽज्याहुतिचतुष्टयं च संगृह्यते । एवमन्नाहुतीनां चतुष्टयं हुत्वेत्यनेनान्नाहुतीनामपि चतुःसंख्याकत्वमेव ज्ञेयम् । एवं काष्ठसमिधोऽन्नसमिधश्च चतुःसंख्याकत्वोक्त्या पुष्पादीनां पञ्चसमिधामपि चतुः- संख्यया होमो ज्ञायते ।

षष्ठः परिच्छेदः ११३ पारमेश्वरव्याख्याने तत्प्रयोगे च षोडशसंख्ययाऽन्नाहुतयस्तत्संख्ययाऽऽज्याहुत- यश्च प्रतिपादिताः । तद् भ्रान्तिमूलकम्, दद्यात् पूर्वप्रयोगेण त्वेवमेव चतुष्टयम् । हुत्वाप्यन्नाहुतीनां त्वित्यन्नाहुतिचतुष्टयस्य कण्ठरवेणोक्तत्वात्, एकैकान्नाहुतेः पुरस्तात् परस्ताच्च चतुश्चतुः संख्यक्रियमाणा-ज्याहुतीनां द्वात्रिंशत्संख्याकत्वाच्च । वस्तुतस्तु बहुशः पारमेश्वरपुस्तकेष्वस्मिन् प्रकरणे च चतुष्कं तु मन्त्रैराज्यस्य निक्षिपेदित्यादि दद्यादग्नावित्यन्तग्रन्थपातादेवं व्याख्यातारः प्रयोगकाराश्च बभ्रमुरिति ज्ञेयम् । अत एव पारमेश्वरव्याख्याने—'तत्रान्नसमिधविशेषमाह—तत्रान्नसमिधो दान इति पञ्चभिः' इति लिखितम् । मध्ये पतितं श्लोकद्वयं न किञ्चिदपि तेषामाकांक्षापद- वीमधिरूढम् ॥ १४८-१५५ ॥ पहले काष्ठ समिधा का, फिर पुष्प का, फिर धूप का, फिर मधु का, फिर बीज का, फिर चरु का, फिर घी का इस प्रकार से क्रमशः हवन करे ॥ १४८ ॥ उसमें अन्न समिधा (चरु) के हवन में इस प्रकार की विशेषता है अग्नि में सिद्ध चरु को अपने आगे स्थापित करे । फिर उसे उद्घाटित कर अच्छी प्रकार से अवलोकन करे । फिर अर्घ्य के जल से प्रोक्षण कर अग्नि युक्त चार गाँठ वाले कुशाओं से उसका स्पर्श करे ॥ १४९-१५० ॥ फिर उसके मध्य में चार स्रुवा घी डाले । फिर स्रुवा लेकर चार स्रुवा चरु अग्नि में डाले । फिर उसमें से चार अङ्गुल अन्न का ग्रास लेकर फिर स्रुवा से उसे दर्भ में स्थापित कर पूर्ववत् उसमें घृत डाले । इस प्रकार चार बार अन्नाहुति प्रदान करे । इसी प्रकार चार स्रुवा घृत की आहुति पुनः प्रदान करे । तदनन्तर आज्य संसिक्त अन्न की आहुति देने के पश्चात् अन्न की तथा आज्य की आहुति मिश्रित रूप से देवे ॥ १५१-१५५ ॥ तदन्ते तोयनिर्मुक्तैः कुसुमैरर्घ्यमिश्रितैः ॥ १५५ ॥ पूजयेच्चतुरो वारान् मन्त्रैर्वा प्रणवैः प्रभुम् । ततोऽग्निस्यदेवानां पुष्पैश्चतुर्वारमर्चनमाह—तदन्त इति । अर्घ्यमिश्रितैराज्यार्घ्य- मिलितैरित्यर्थः, अन्यथा तोयनिर्मुक्तैरित्यनेन विरोधात् । अत एवाज्येनैवार्घ्यदानादिक- मुक्तं पाद्मे—'अर्घ्यपूर्वं निवेद्यान्तं सर्पिषा जुहुयात् सकृत्' इति । मन्त्रैः = वासुदेवादि- मन्त्रैरित्यर्थः । यद्वा प्रणवैः, बहुवचनेन चतुर्वारमुच्चरितैरित्यर्थः । मूर्तिमन्त्राः प्रति- व्यक्तिविभिन्नाः, प्रणवस्तु व्यापकत्वात् सर्वेषामेक एवेति भावः । अत्र प्रणवैरि- त्यनेनाष्टाक्षरादयश्चत्वारो मन्त्रा अप्युपलक्ष्यन्ते, तेषामपि प्रणवार्थविवरणरूपतया व्यापकत्वात्, तेषु प्रणवपदमन्त्रत्वेनोक्तत्वाच्च । तथा च लक्ष्मीतन्त्रे— पदमन्त्रपाञ्चाश्योऽस्य स्युर्विधाने पाञ्चरात्रिके ॥ विष्णवे नम इत्येवं नमो नारायणाय च । नमो भगवते पूर्वं वासुदेवाय चेत्यपि ॥ जितं ते पुण्डरीकाक्ष नमस्ते विश्वभावन ।

११४ सात्वतसंहिता नमस्तेऽस्तु हृषीकेश महापुरुष पूर्वज ॥ पदमन्त्रश्रुतर्थोऽयं प्रणवस्य पुरन्दर । ॐकारसहितानेतान् मन्त्रान् पूर्वविदो विदुः ॥ केवलस्तारकश्चैव चत्वारश्च तदादिकाः । पञ्चैते व्यापका मन्त्राः पञ्चरात्रे प्रकीर्तिताः ॥ इति ॥ —(२४।६७-७०, ७४) अत एव— सम्प्रोक्ष्यार्घ्याम्भसा चेध्मान् चतुर्था संविभज्य च । पूजयेदर्घ्यपुष्पाभ्यां द्वादशाक्षरविद्यया ॥ (६।१०६) इति वासुदेवाद्युद्देशेन चतुर्था विभक्तानामिध्मानां तन्मन्त्रैरर्चनीयत्वेऽपि द्वादशा- क्षरस्य व्यापकत्वाद् द्वादशाक्षरविद्ययेत्युक्तम् । एवं भद्रपीठशोधनप्रकरणेऽपि— 'प्रक्षाल्य द्वादशार्णेन प्रणवाद्यन्तकेन तु' (६।४) इत्युक्तम् । नन्वत्रोभयत्रापि व्यापकं वासुदेवद्वादशाक्षरमिति को वा नियमः, तस्य पूर्वमनु- क्तत्वात् । उक्तेष्वेव योऽसौ द्वादशाक्षरः, स तु ग्राह्यः । स चाप्यार्चनप्रकरणोक्त- श्रुत्यर्थमन्त्रः स्यादिति चेन्न, तस्याप्यव्यक्रमेणार्चनप्रकरण एवोपयुक्तत्वात्, एकव्यक्ति- मात्रनियततया चातुरात्म्यार्चनप्रकरणेऽनुपयुक्तत्वाच्च, अत्र केवलप्रणवेनाप्यर्चनोक्त्या उक्तेष्वेवान्यतमो ग्राह्य इति नियमाभावाच्च व्यापकं द्वादशाक्षरमेव ग्राह्यमिति सिद्धम् । एवं पुष्पार्चनान्तं नित्ययागो ज्ञेयः । तथा च लक्ष्मीतन्त्रे— पुष्पाञ्जलिमुपादाय वह्निस्थामर्चयेत् ततः । नित्ययागोऽमेतावानूर्ध्वं कामाहुतिं क्षिपेत् ॥ यदि कामयमानः स्यात् तत्तद्विध्यनुरूपिणीम् ।—(४०।७१-७२) इति ॥ १५५-१५६ ॥ इसके पश्चात् जल रहित आज्यार्घ्य सहित कुसुमों से चार बार समन्त्रक प्रभु की पूजा करे ॥ १५५-१५६ ॥ ततो मोक्षाप्तये होमं यथाशक्ति समाचरेत् ॥ १५६ ॥ शतपूर्वं सहस्रान्तं दद्यात् पूर्णाहुतिं ततः । एकं मन्त्रचतुष्केण चतुर्भिश्चतुरोऽथवा ॥ १५७ ॥ ततः शतादिसंख्यया यथाशक्ति मोक्षार्थं होमम्, तदन्ते वासुदेवमन्त्रचतुष्टयेन सकृदेव पूर्णाहुतिम्, यद्वा प्रतिमन्त्रं पूर्णाहुतिचतुष्टयं जुहुयादित्याह—तत इति सार्धेन । अत्रापेक्षिताः काम्याहुतिभेदा होमद्रव्यप्रमाणादीनि स्विष्टकृत्प्रायश्चित्तपूर्णाहुतिप्रकारा- दयो बहवो विशेषा ईश्वरादिषु प्रतिपादिता ग्राह्याः ॥ १५६-१५७ ॥ इसके बाद साधक मोक्षप्राप्ति के लिये यथा शक्ति सौ अथवा सहस्र संख्या पर्यन्त होम करे । फिर पूर्णाहुति करे । चार मन्त्रों से एक बार में पूर्णाहुति करे अथवा चार मन्त्रों से चार बार आहुति देकर पूर्णाहुति करे ॥ १५६-१५७ ॥

षष्ठः परिच्छेदः ११५ प्राग्वत् पूजां पुनः कुर्याद् दर्भैः संमार्ज्य च स्रुचम् । यथा भवति निःस्नेहमथ प्राक्स्थापितेन तु ॥ १५८ ॥ पुरतश्चाम्भसाऽऽपूर्य तां च पात्रेण तेन वा । प्रागादौ कुण्डबाह्ये तु प्रादक्षिण्‍येन सेचयेत् ॥ १५९ ॥ पवित्रकेणाथ ऊर्ध्वं विनिक्षिप्य करेण वा । शेषं स्वशिरसो दद्यात् स्वस्थानेऽथ त्वधोमुखे ॥ १६० ॥ उत्तरपूजापूर्वकं स्रुक्स्रुवसंमार्जनपरिषेचनादिकमाह—प्राग्वदिति सपादैस्त्रिभिः । प्राग् आसादनकाले पुरतः स्वाग्रतः स्थापितेनाम्भसा अर्घ्योदकेनेत्यर्थः, 'अर्घ्यपात्रात्तु चापूर्य कुण्डबाह्ये प्रदक्षिणम्' (ई०सं० ५।२७६; पा०सं० ७।२४५) इतीश्वरपार- मेश्वरोक्तेः । तां स्रुचमित्यर्थः । चकारेण तस्या अपि दर्भैः सम्मार्जनमर्घ्यपूरणं चोच्यते । पात्रेण तेन वा स्रुचा स्रुवेणेत्यर्थः । ऊर्ध्वं कुण्डोर्ध्व इत्यर्थः । स्वस्थाने पूर्वं यत्रासादितौ तत्रेत्यर्थः । होमभाण्डे स्रुक्स्रुवावित्यर्थः ॥ १५८-१६१ ॥ फिर कुशा से स्रुवा का संमार्जन कर उसे स्नेह रक्षित कर (सुखा कर) उसकी पूजा करे । फिर उस स्रुवा को जल से भर कर अथवा उसी जल पात्र से ही सर्वप्रथम पूर्व में, फिर कुण्ड के बाहर, फिर दाहिनी ओर सर्वत्र जल छिड़के ॥ १५८-१५९ ॥ फिर पवित्री से ऊर्ध्व में, अथवा हाथ से जल सर्वत्र छिड़के । शेष जल से अपने शिर पर, अपने स्थान पर, अथवा अपने नीचे जल छिड़के ॥ १६० ॥ निदध्याद्धोमभाण्डे ते भस्मना तदनन्तरम् । जलनिर्मथितेनैव ह्यूर्ध्वपुण्ड्रचतुष्टयम् ॥ १६१ ॥ हृद्यंसयोर्ललाटे च कुर्याद् दीपशिखाकृति । होमाङ्गं तिलकधारणमाह—भस्मेनेति । अत्र मन्त्राश्चोक्ताः पारमेश्वरे—'शिर- स्तनुत्रहन्मन्त्रैर्ललाटे चांसयोर्हृदि' (७।१४१) इति । एवं भस्मना तिलकधारणं वैष्णवानां विरुद्धमिति न शङ्कनीयम्, अग्निकार्याङ्ग- त्वात् । तथा च सच्चरित्ररक्षायामूर्ध्वपुण्ड्राधिकारे—'तत्र हि पूर्वमेव धृतोर्ध्वपुण्ड्रस्य समाराधितवासुदेवस्याग्निकार्यसमनन्तरमिदं विधीयमानं तत्रैवाग्निकार्यानुप्रविष्टं मन्त- व्यमायुष्मता' (पृ० ६९) इति ॥ १६१-१६२ ॥ फिर स्रुक् स्रुवा स्थापित करे । तदनन्तर भस्म का तिलक करे । फिर जल से भिगोकर चार स्थानों पर ऊर्ध्वपुण्ड्र लगाये ॥ १६१ ॥ यह ऊर्ध्वकुण्ड हृदय में दोनों कन्धों में तथा ललाट में, इन चारों स्थानों में दीपशिखा की आकृति के समान लगाना चाहिए ॥ १६२ ॥ एवं परिसमाप्ते तु अग्निकार्येऽर्पिते सति ॥ १६२ ॥ संविभागः पितॄणां च यथा कार्यस्तथोच्यते ।

१९६ सात्वतसंहिता एवं कृतस्य होमस्य भगवदर्पणानन्तरं पितृसंविभागः कार्य इत्याह-एवमिति । भगवते होमसमर्पणप्रकारस्त्वीश्वरादिषु प्रदर्शितो ग्राह्यः ॥ १६२-१६३ ॥ इस प्रकार यज्ञ कार्य के समाप्त हो जाने पर समस्त अग्निकार्य (याग) को विष्णु को समर्पित कर देने पर, जिस प्रकार पितरों को संविभाग प्रदान करना चाहिये । अब उसे कहा जा रहा है ॥ १६२-१६३ ॥ कुण्डस्य योनिनिकटे दक्षिणाग्रान् स्तरेत् कुशान् ॥ १६३ ॥ भद्रपीठसमीपे तु क्ष्मातले वा तदूर्ध्वतः । संविभागस्थानमाह-कुण्डस्येति ॥ १६३-१६४ ॥ कुण्ड के योनि के निकट दक्षिणाग्र कुशा बिछावें । किं वा भद्रपीठ के समीप, अथवा पृथ्वी के ऊपर दक्षिणाग्र कुशा बिछावें ॥ १६३-१६४ ॥ स्तरोपरि विकीर्याथ तिलान् सरजतोदकान् ॥ १६४ ॥ क्रमेण भावयेत् तत्र पितृनथ पितामहान् । तत्र दक्षिणाग्रकुशास्तरणोपरि तिलोदकविकिरणपूर्वकं पित्रादीनां भावनामाह— स्तरोपरीति । अत्र पितृपितामहशब्दाभ्यां प्रपितामहवृद्धप्रपितामहौ चोपलक्ष्येते, स्तरोर्ध्वे स्वस्वसंज्ञाभिरभ्रान्तं तु यथाक्रमम् । भावयेत् पुरुषादीनां सारूप्यं समुपागतान् ॥ पितॄन् पितामहांश्चैव तथैव प्रपितामहान् । तत्पितॄंश्चाथ शंसन्तः सन्तानं स्वविभागतः ॥-(७।२९४-२९५) इति पारमेश्वरोक्तेः ॥ १६४-१६५ ॥ इसके बाद उन कुशों पर तिल तथा चाँदी के पात्र का जल छिड़क देवे । तदनन्तर क्रमशः पिता, पितामह और प्रपितामह का क्रमशः उनकी तृप्ति के लिये ध्यान करे ॥ १६४-१६५ ॥ तृप्तये ह्याथ सर्वेषां देवाय विनिवेद्य च ॥ १६५ ॥ प्रोक्षितान्यन्नपात्राणि चत्वारि कबलानि वा । स्तरोर्ध्वे तु निधायाथ सम्पूज्यार्घ्यादिना ततः ॥ १६६ ॥ क्रमेण चातुरात्म्यैर्मन्त्रैरप्यययोगतः । ततस्तु नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकम् ॥ १६७ ॥ सर्वेषामर्घ्यकलशात् प्रदद्याच्च यथाक्रमम् । अथ तेषां पिण्डनिर्वापणमर्घ्याद्यर्चनं तिलोदकप्रदानं चाह—तृप्तय इति त्रिभिः । अत्र देवाय विनिवेद्येत्यत्र पाकपात्रावशिष्टान्नादिकमिति ज्ञेयम्, निवेदितस्य पुनर्निवेदना- योगात् । तथा च पारमेश्वरे— ये यजन्ति पितॄन् देवान् गुरून्पि तथैव च ।

षष्ठः परिच्छेदः ११७ स्थापितस्त्वनुयागार्थं प्रापणांशः पुरा तु यः । तस्मात् किञ्चित् समादाय संविभागं समाचरेत् । पितॄणां चैव बन्धूनामाश्रितानां तथैव च । संविभागावशिष्टेन स्वानुयागं समाचरेत् । यद्वा स्थाल्यवशिष्टं च किञ्चिदादाय पात्रगम् । प्राग्वन्निवेद्य देवाय तेन पित्र्यं समाचरेत् । ये वैश्वदेवनिरता विप्राद्या वैष्णवाश्च ते । यल्लब्धं भगवद्भुक्तं तस्मादादाय चांशकम् । तेन कृत्वा वैश्वदेवमवशिष्टांशकेन तु । कुर्युः प्राणादियात्रां तु विधानेन द्विजोत्तम ॥ इति ॥ सच्चरित्ररक्षायां (पृ० १२७-१२८) चोदाहृता इमे श्लोकाः । अन्नपात्राणी- त्यत्र पारमेश्वरे— तमालकदलीपूर्वदलेषु क्षालितेषु च ॥ संविभज्य चतुर्थात्रं निधाय प्रणवेन तु । —(७।२९९-३००) इत्युक्तं ज्ञेयम् । स्तरोर्ध्वे निधायेत्यत्र मन्त्रश्चोक्तः पारमेश्वरे— प्राग्वत् स्वधावसानाद्यैर्मन्त्रैरोङ्कारपूर्वकैः । हृन्मन्त्रालङ्कृतैर्विप्र तथा संज्ञापदान्वितैः ॥ पिण्डं प्रकल्पयामीति ततः पूर्ववदाचरेत् । —(७।३०३-३०४) इति पिण्डोपरि दर्भैराश्छादनं पूर्वमास्तरणोपरि भावितानां पितृपितामहादीनां तत्रा- वाहनं च प्रतिपादितं तत्रैव— प्रणवैर्दक्षिणाग्राणि सेचितानि तिलाम्बुना ॥ नाडीरूपाणि दर्भाणि पिण्डानामूर्ध्वतो न्यसेत् । प्रविष्टान् भावयेत् तेषु नाडीमार्गैरनुक्रमात् ॥ पितॄनावाहयामीति स्तरोर्ध्वं प्राक्स्थितांस्ततः । —(७।३०४-३०६) इति । अर्घ्यादिनेत्यत्रादिशब्देन गन्धादयो ग्राह्याः । अप्य(थ योऽत्र नाव? ययोगतः पितॄनावाह)यामीति स्तरोर्ध्वं गतः । चातुरात्मीयैमन्त्रैः ॐपुरुषाय नम इत्यादि- भिश्चतुर्भिः पूर्वोक्तैर्मन्त्रैरित्यर्थः । नाम्ना गोत्रेण मन्त्रपूर्वं तिलोदकं दद्यादिति । अत्रैवं प्रयोगः—ॐपुरुषाय नमः, मौञ्ज्यायनगोत्राय नृसिंहशर्मणे पुरुषरूपिणे पित्रे इदं तिलोदकं ददामीति । एवं पितामहादीनाप्यूह्यम् । अर्घ्यादिसमर्पणेऽप्येवमेव मन्त्रा ज्ञेयाः ॥ १६५-१६८ ॥ देवताओं के निवेदन से शेष बचे हुए अन्न पात्रादि परिस्तरण के ऊपर रखे । इसके बाद पुरुषाय नमः इत्यादि चतुरात्म्य मन्त्रों से क्रमशः पितरों की अर्घ्यादि द्वारा पूजा करे । फिर नाम गोत्र उच्चारण कर सभी को अर्घ्य कलश से तिलोदक निकाल कर क्रमानुसार प्रदान करे ॥ १६५-१६८ ॥

११८ सात्वतसंहिता तादर्थ्येनाथ चतुरो विनिवेश्यासनेषु च ॥ १६८ ॥ लब्धलक्षान् परे तत्त्वे ब्राह्मणान् पाञ्चरात्रिकान् । प्राङ्मुखं द्वितयं चैव द्वितयं चाप्युदङ्मुखम् ॥ १६९ ॥ सम्पत्त्यभावेऽप्येकं वा विनिवेश्योत्तरासनम् । अथ तेषां क्रमात् कुर्यादर्चनं चातुरात्म्यवत् ॥ १७० ॥ अर्घ्यानुलेपनाद्यैस्तु भोगैर्मात्रावसानिकैः । तत्तत्कालोचितैः सर्वैरनुपादेयवर्जितैः ॥ १७१ ॥ अथ पितॄनुद्दिश्य ब्राह्मणचतुष्टयमेकं ब्राह्मणं वा भोजयेदित्याह—तादात्म्ये- नेति । दत्तदृष्टीन्, ब्रह्मज्ञानिन इति यावत् । भोगैः = आभ्यवहारिकैरित्यर्थः । मात्रा- वसानिकैः = भोजनानन्तर्यतिलमात्रादानान्तैरित्यर्थः । अत्रापि पितॄ(प्ति?प्तये) पूर्वोक्त(T) एव मन्त्राः । अन्यत् सर्वं श्राद्धवज्ज्ञेयम् । अत्रापेक्षिता बहवो विशेषाः पारमेश्वरोक्ता ग्राह्याः ॥ १६८-१७१ ॥ अब इसके बाद पितरों के उद्देश्य से चार ब्राह्मण अथवा एक-एक ब्राह्मण भोजन करावे । इस बात को कहते हैं—पितरों के उद्देश्य से निमंत्रित वे ब्राह्मण पर तत्त्व लक्ष्य तक पहुँचे हुए हों, ब्रह्मतत्त्व के ज्ञाता हों, पाञ्चरात्रिक होना चाहिये । उन चार ब्राह्मणों में दो को पूर्वाभिमुख तथा दो को उत्तराभिमुख बैठावे । सम्पत्ति के अभाव में केवल एक-एक ही ब्राह्मण को उत्तराभिमुख बैठावे । फिर उनका चतुरात्म्यवत् अर्चन करे ॥ १६८-१७० ॥ उन्हें अर्घ्यप्रदान करे तथा चन्दनादि अनुलेपन देवे । उत्तमोत्तम भोजनादि उन्हें प्रदान करे तथा भोजन के अन्त में तिल मात्रादि प्रदान करे । इस प्रकार श्राद्ध- कालोचित समस्त उपादेय वस्तु प्रदान करे, अनुपादेय वस्तु वर्जित करे ॥ १७१ ॥ तैश्चापि मौननिष्ठैस्तु भवितव्यं सुयन्त्रितैः । वाग्यताः शुद्धलक्षाश्चाप्यन्नमूर्त्तौ जनार्दने ॥ १७२ ॥ येऽश्नन्ति पितरस्तेन तृप्तिमायान्ति शाश्वतीम् । श्राद्धभोक्तॄणां मौनं पितॄतृप्तिकरमित्याह—तैरिति सार्धेन ॥ १७२-१७३ ॥ वे ब्राह्मण भी श्राद्ध में भोजन के समय मौननिष्ठ हों, वाक् पाणिपाद चापल्य से वर्जित हों, सुयन्त्रित हों, मौन रूप से शुद्ध लक्ष्य वाले तथा अन्नमूर्ति जनार्दन में श्रद्धा रखने वाले हों । इस प्रकार के ब्राह्मण जिसके श्राद्ध में भोजन करते हैं उनके पितर शाश्वत लोक प्राप्त करते हैं ॥ १७२-१७३ ॥ अतः सव्यभिचारं तु मौनं वर्ज्यं क्रियापरैः ॥ १७३ ॥ शुभमव्यभिचारं यत् तत् कार्यं सर्ववस्तुषु । तत्रापि दुष्टस्य मौनस्य त्याज्यत्वमदुष्टस्य ग्राह्यत्वमाह—अत इति ॥ १७४ ॥

षष्ठः परिच्छेदः १९९ इसलिए विधिज्ञ क्रिया-पर ब्राह्मणों को सव्यभिचार (= संकेत युक्त) मौन वर्जित करना चाहिए। शुभ और व्यभिचाररहित जो मौन हो, उसे सभी कर्मों में धारण करना चाहिये ॥ १७३-१७४ ॥ यदङ्गसङ्केतमयैरव्यक्तैर्नासिकाक्षरैः ॥ १७४ ॥ कृतमोष्ठपुटैर्बद्धैर्मौनं तत्सिद्धिहानिकृत् । स्वयमेव सुबुद्ध्या यत् सर्ववस्तुषु वर्तते ॥ १७५ ॥ शब्दैरनुपदिष्टैस्तु तन्मौनं सर्वसिद्धिदम् । मौनस्य दोषगुणावाह—यदिति द्वाभ्याम् ॥ १७४-१७६ ॥ अङ्ग संकेतमय, अव्यक्त एवं नाक से उच्चारित अक्षर वाले ब्राह्मण का मौन अथवा ओष्ठ पुटों को बाँधकर किया गया मौन सिद्धि में हानि करने वाला है । यह मौन व्यभिचार युक्त है । अतः इसका त्याग करना चाहिये । जो स्वयमेव सुबुद्धि से सभी वस्तुओं में विद्यमान है, उपदिष्ट शब्द से रहित है, ऐसा मौन सब प्रकार की सिद्धि प्रदान करता है ॥ १७४-१७६ ॥ तस्माद्वै श्राद्धभोक्तॄणां दिव्ये वा पितृकर्मणि ॥ १७६ ॥ दद्यान्नैवेद्यवत् सर्वं मर्यादाभ्यन्तरेऽग्रतः । येनाचमनपर्यन्तं कालं तिष्ठन्ति वाग्यताः ॥ १७७ ॥ अथोत्तराचमनपर्यन्तमङ्गसंकेतादिदोषाभावसिद्ध्यर्थं तदपेक्षितसर्ववस्तून्यपि तत् पुरतो मर्यादान्तराले (त्यादी?स्थापनीयानी)त्याह—तस्मादिति । मर्यादाकल्पनाप्रकार- स्तूक्तः पारमेश्वरे—'अथास्त्रपरिजप्तेन भूतिना वाऽथ शङ्कुना । मसृणेनाश्मचूर्णेन परिघां स्वधयाऽथवा ॥ बहिस्तदासने कुर्यादग्रे दैर्घ्याच्छ्रमाधिकम् । वैपुल्याच्छममानं तु प्राग्वत् पावनतां नयेत् ॥ (७।३२७-३२८) इति ॥ १७६-१७७ ॥ इस कारण साधक श्राद्ध कर्म में भोजन करने वाले ब्राह्मणों को एवं दैव कर्म में, अथवा पितृकर्म में मर्यादा के भीतर ही रहकर नैवेद्य के समान अन्नादि प्रदान करे । जिससे आचमन पर्यन्त काल तक वे चुप-चाप मौन होकर भोजन करें ॥ १७६-१७७ ॥ विधिनानेन वै नित्यं यागयज्ञे तु वैष्णवे । संविभागः पितॄणां च कार्यः सद्रविणैर्नरैः ॥ १७८ ॥ एवंविधपितृसंविभागस्य धनिकविषयतामाह—विधिनेति ॥ १७८ ॥ धनी मनुष्य पितरों के कार्य में इसी प्रकार पितरों का संविभाग करके भोजन करावें ॥ १७८ ॥ कृत्वा तिलोदकान्तं वा फलमूलैः स्वशक्तितः । तदर्थं ग्रासमात्रं तु दद्याद् गोष्वथ भैक्षुके ॥ १७९ ॥

१२० सात्वतसंहिता तदन्यैस्तु तिलोदकं कृत्वा पितॄनुद्दिश्य यथाशक्ति फलमूलैर्ग्रासमात्रं गवे वा भिक्षवे वा देयमित्याह—कृत्वेति ॥ १७९ ॥ धनी से अतिरिक्त लोगों को तिल से लेकर उदकान्त तक अपनी शक्ति के अनुसार फलमूलों के द्वारा उनको ग्रास मात्र गाय अथवा भिक्षु को प्रदान कर देना चाहिये ॥ १७९ ॥ यस्माद् दिव्यैर्महामन्त्रैर्दत्तं यत्पूजितेऽच्युते । पित्रर्थमल्पं वा भूरि तत्तेषामक्षयं भवेत् ॥ १८० ॥ एवं पितॄनुद्दिश्य किञ्चिद् दत्तमपि मन्त्रमहिम्ना तदनन्तं भवतीत्याह—यस्मा- दिति । एवमेव पितृसंविभागस्त्रिकालेष्वनुष्ठीयमानेष्वपि प्राभातिकार्चनानन्तरं माध्या- ह्निकार्चनानन्तरं वा सकृदेव कार्य इति ज्ञेयम्, 'वह्निसन्तर्पणं षष्ठं पितृयागस्तु सप्तमम्' (जया० २२।७९) इति । पितृसंविभागस्य भगवदाराधनाङ्गत्वोक्त्या साङ्गानुष्ठान- सिद्ध्यर्थं प्रत्याराधनमनुष्ठेयमित्याशङ्का त्वीश्वरपारमेश्वरयोः परिहृता । तथाहि— यत्र द्वादशकालेज्या कर्तव्या भूतिविस्तरात् । तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम् ॥ अङ्गद्वयं तु पाश्चात्त्यं विना वा तां समाप्य च । पितॄणां संविभागं च अनुयागं यथोदितम् ॥ देशिकः स्वेच्छया कुर्यान्नित्यं माध्यन्दिनेऽर्चने । त्रिकालेष्वेकमष्टाङ्गं षडङ्गं चाचरेद् द्वयम् ॥ इति ॥ —(ई०सं० ६।७६-७८; पा० सं० ७।४३१-४३४) एतेन स्वार्थपरार्थार्चनद्वयेऽप्येकेनैवानुष्ठिते सत्यपि न प्रत्येकं पितृसंविभागः कार्य इति सिद्धम्, तस्यैकस्मिन्नहनि सकृदेव कर्तव्यत्वात् । नन्वभिगमनोपादानेज्यास्वाध्याययोगरूपपाञ्चकालिकधर्मानुष्ठानं भागवतस्य विहितम्, तत्र परार्थानधिकारिभिः स्वार्थेज्यया क्रियते, तदधिकारवतां युष्माकं परार्थ- संज्ञकश्रीयादवाद्रीयादिदिव्यस्थलाविर्भूतश्रीमन्नारायणाद्यर्चनेनैव कृतकृत्यत्वात् पनुः किं स्वार्थसंज्ञकस्वगृहार्चनेनेति चेत्, सत्यम्, 'परार्थः सूर्यसदृशः स्वार्थस्तु गृहदीपवत्' इतीश्वरोक्तेः, सूर्यप्रकाशेनैव कृतार्थत्वेऽपि स्वगृहेऽपि दीपारोपणवत् स्वार्थार्चन- स्याप्यपेक्षित्वात्, केशवार्चा गृहे यस्य न तिष्ठति महीपते । तस्यान्नं नैव भोक्तव्यमभक्ष्येण समं हि तत् ॥ इति स्वगृहेऽपि भगवद्विम्बार्चनस्यावश्यकत्वोक्तेः । 'स्वार्थस्यापि परार्थस्य पूजायामधिकारिणः' इत्युभयत्राप्यधिकाराच्चास्माकमपि स्वार्थं भगवदाराधनमाव- श्यकमिति बोध्यम् । ननु चाऽस्तु नाम भवतां स्वार्थपरार्थार्चनयोरधिकारः, स्वगृहे भगवदर्चनावश्य- कत्वमपि । स्वार्थपरार्थाधिकारिणो भवदीया बहवः सन्ति । न हि सर्वैरपि सर्वदा परार्थयजनं क्रियते । अतः परार्थाराधनं कुर्वतैव स्वार्थाराधनमपि कार्यम् । पितृ-

षष्ठः परिच्छेदः १२१ संविभागस्तु प्रत्येकं न कार्य इति को वा नियम इति चेत्, केनोक्तं तथा । जनान्तरा- विद्यमानत्वदशायामेकेनैव स्वार्थपरार्थार्चनद्वयमपि कृतं चेत्, तदा परार्थं भगवन्मन्दिरे स्वगृहे वाऽस्तु देवपितृसंविभागानुष्ठानम्, कर्तृभेदे तु प्रत्येकानुष्ठानमित्यस्माक- मप्याशयो ज्ञेयः । नन्वेवं सति परार्थभगवन्मन्दिरेऽपि प्राभातिकार्चनादिषु कर्तृभेदे सति प्रत्यर्चनं पितृसंविभागः स्यादिति चेन्न, तत्र कर्तृभेदस्यानुक्तत्वात्, एकं कर्तारमुद्दिश्यैव प्राभा- तिकार्चनादिद्वादशकालविभागोक्तेः, प्रत्यर्चनं पितृसंविभागस्य कर्तव्यत्वानुक्तेश्च । न च स्वार्थेऽपि होमः पितृसंविभागश्च नोक्त एव, अत्र तु 'कुण्डस्य योनिनिकटे दक्षिणाग्रां- स्तरॆत् कुशान्' (६।१६३) इति वह्निसमर्पणानन्तरं कुण्डसमीपे कर्तव्यत्वेनोक्तः पितृ- संविभागः परार्थार्चनविषय इति वाच्यम्, स्वार्थे चाराधनस्यैकरूप्येणानुष्ठेयत्वात् । ननु तर्हि भवदुक्तसम्प्रदायप्रदीपिकायां स्वार्थार्चने बहुशो वैरूप्यं दृश्यते । होमः पितृसंविभागश्च नोक्त इति चेत्, सत्यम् । तत्र स्वार्थमात्राधिकारिणां सुखबोधाय श्रीमद्भाष्यकारोक्तरीत्यनुसारेणाराधनक्रमः प्रदर्शितः । स्वार्थपरार्थोभयाधिकारिभिर- स्माभिस्तु स्वसिद्धान्तस्वसंहितोक्तक्रमेणैवोभयत्राप्याराधनप्रतिष्ठादेरनुष्ठेयत्वं बोध्यम् । ननु श्रीसात्वताद्युक्तप्रकारेणानुष्ठानं कुर्वद्भिरपि स्वार्थे वह्निसन्तर्पणं कुतो न क्रियत इति चेदुच्यते, मुख्यकल्पे तु होमान्तां नित्यनैमित्तिकात्मिकाम् ॥ पूजां क्रमेण वै कुर्यात् तत्तद्धोमावसानिकाम् । अनुकल्पे तु जप्यन्ताम् —(पा०सं० ९।९-१०) इति जपान्तानुष्ठानस्यापि पारमेश्वराद्युपबृंहितत्वाज्जपान्तमस्माभिरनुष्ठीयत इति बोध्यमायुष्मता । अत एव नित्ये जपान्तमाराधनमुक्तम् । नित्यानुसारिण्यपि क्रियादीपे होमान्तो मुख्यकल्प एव दर्शितः । ननु भवत्कृतेश्वरसंहिताव्याख्याने एवं पितृसंविभागः प्राभातिकार्चनमात्रानुष्ठाने होमानन्तरं कार्य इत्युक्तम्, तदसङ्गतम्, प्रातर्मध्यन्दिनं सायं त्रयः काला यथाक्रमम् । तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः ॥ अनुकल्पे तु कालः स्यादेको मध्यन्दिनोऽथवा । माध्यन्दिनश्च नैशश्च द्वौ कालौ शक्तितो द्विज ॥ —(पा०सं० ९।३६-३७) इति माध्यन्दिनार्चनमात्रस्य पारमेश्वराद्युक्तत्वात् प्राभातिकार्चनमात्रस्य कुत्राप्य- नुक्तत्वादिति चेत्, उच्यते—प्राभातिकार्चनमात्रस्याप्यनुष्ठानं द्वादश्यादिषु संभवतीति सन्तोष्टव्यमायुष्मता ॥ १८० ॥ इस ग्रास दान में कारण यह है कि दिव्य मन्त्रों द्वारा अच्युत की पूजा करने के पश्चात् पितरों के उद्देश्य से जो स्वल्प अथवा अधिक वस्तु दी जाती है, वह उनके लिये अक्षय हो जाती है ॥ १८० ॥ सा० सं० - 12

१२२ सात्वतसंहिता अनुयागविधिकथनम् पश्चाच्छरीरयात्रार्थमभ्यर्थ्य परमेश्वरम् । लब्धानुज्ञस्तु वै कुर्यादात्मयागं यथाविधि ॥ १८१ ॥ भोज्यं नैवेद्यपूर्वं तु सर्वमादाय पात्रगम् । विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा ॥ १८२ ॥ सत्यरूपा ह्यलक्ष्या चाप्यन्नदोषक्षयङ्करी । चेतसा चातुरात्मीया भावनीया च भावना ॥ १८३ ॥ रसात्माऽध्यक्षसंज्ञोऽन्ने स्वादुभावे व्यवस्थितः । प्रद्युम्नो भगवान् रूपे चैतद्वीर्ये तु लाङ्गलीन् ॥ १८४ ॥ भोक्ता महात्मा भगवान् वासुदेवः स्वयं ह्यजः । चतुःप्रणवसंजप्तं ततोऽम्भश्चुलुकं पिबेत् ॥ १८५ ॥ वक्त्रकुण्डेऽथ तेनैवाप्यन्नाहुतिचतुष्टयम् । हुत्वा चाभिमतैर्ग्रासैस्ततोऽश्नीयाद् यथारुचि ॥ १८६ ॥ अथानुयागविधिमाह—पश्चादिति षड्भिः । आत्मयागम् = अनुयागमित्यर्थः । अबात्मतत्त्वं विज्ञेयं विहितं तस्य सर्वदा । आत्मनैवात्मसिद्धयर्थं यागमन्त्रेन तेन च ॥ सह यज्ञावशिष्टेन साम्बुना च फलादिना । —(पौ०सं० ३९।१७१-१७२) इति पौष्करोक्तेः । पवित्रीकृत्य चाम्भसेत्यत्र सच्चरित्ररक्षायाम्—'अयोग्यजन- निरीक्षितत्वयातयामत्वादिदोषसंभावनायां तन्निवृत्त्यर्थं पवित्रीकरणोक्तिः' (पृ० १२५) इति व्याख्यातम् । विनिवेद्य च देवायैत्यत्राऽन्तरात्मनिवेदनं बोध्यम् । तथा च सच्चरित्ररक्षायाम्— हृदि ध्यायन् हरिं तस्मै निवेद्यान्नं समाहितः । मध्यमानामिकाङ्गुष्ठैर्गृहीत्वान्नं मितं पुनः ॥ प्राणाय चेत्यपानाय व्यानाय च ततः परम् । उदानाय समानाय स्वाहेति जुहुयात् क्रमात् ॥ —(पृ० ९७) इति कर्मकाण्डवचनमुदाहृतम् । पारमेश्वरव्याख्याने तु—'देवाय स्वगृहार्चा- भूताय विनिवेद्य' इति लिखितम्, तदप्रकृतम्, वाक्यस्यान्तरात्मनिवेदनपरत्वात् । तथा च सच्चरित्ररक्षायाम्—'ओदनपचने शुच्यन्नं श्रपयित्वा वेद्यां भगवते नयति । वेद्यां भगवन्तमिष्ट्वा तत्कारिभ्यः प्रयच्छति । कारिणोऽपि प्राप्तेनान्नेन वेद्यां भगवन्तमिष्ट्वा तद्धात्र उपनयन्ति । उपनीतेन धाता स्वयं च कुरुते शिष्टेन च भृत्यान् बिभर्ति' इत्यादिरहस्याम्नायवाक्यार्थविचारणप्रकरणे धात उपनयन्तीति वाक्यस्यान्तरात्म- परत्वमुक्त्वा तत्साधकत्वेन च—'विनिवेद्य च देवाय पवित्रीकृत्य चाम्भसा' (६।१८२) (पृ० १२२) इत्यादिसात्वतवचनमुदाहृतम् ।

षष्ठः परिच्छेदः १२३ ननु भवदुदाहृतरहस्याम्नायवाक्येष्वेव भगवन्निवेदितान्नस्य कारिभ्यः प्रदानम्, तेनैवान्नेन कारिभिः स्वार्थभगवद्यजनं कार्यमित्युक्तं खलु, तत्पुनः कथमप्रकृतमिति चेत्, अनभिप्रायज्ञोऽसि । तस्मिन्नर्थे को वा विवादः । तथा कारिप्राप्तान्नेन भगवद्यजनं सर्वसंमतम् । किन्तु विनिवेद्य च देवायेत्यत्र तादृशार्थो वर्णितुं न शक्यते । यत एतद्वाक्यं नहि कारिणां कर्मानुष्ठाननिरूपकम्, अपि तु भगवन्तमिष्टवतः कारिप्रदानं कृतवतोऽनुयागं कुर्वतस्तत्प्रकारनिरूपकमिति बोध्यम् । ननु परार्थमिष्टवता स्वार्थे भगवान् परित्याज्यः किमिति चेत्, ब्रूमः—परिग्राह्य एव पत्रादिभिः पूजनीयः, स्वेन साष्टाङ्गप्रणामादिना सेव्यश्च । किन्त्वस्यापि साष्टाङ्ग- यजनं कर्तुं स्वस्यानवकाश इति ज्ञेयम् । अत एव पारमेश्वरादिषु द्वादशकालार्चनं कुर्वतः कालत्रयेऽप्याह्निकमात्रस्यावकाश उक्तः, न तु स्वार्थाराधनस्य प्रत्येकं कालः प्रदर्शितः । न च द्वादशकालार्चनं कुर्वतः स्वार्थार्चनावकाशो माऽस्तु, त्रिकालाद्यार्चनं कुर्वतः स्वार्थार्चने को विरोध इति वाच्यम्, तदानीमपि स्वार्थार्चनकालस्यानुक्तत्वमेव विरोधः । ननु— प्रातर्मध्यन्दिनं सायं त्रयः कालाः प्रकीर्तिताः । तदानीमवशिष्टास्तु घटिकाः स्वस्य कर्मणः ॥ इति स्वार्थाविरोधेन परार्थाधिकृतस्य च । एकायनस्य विदुषः प्रोक्ताः कालाः क्रमेण तु ॥ तथैव दीक्षितस्यापि सिद्धान्तरतचेतसः । —(पा०सं० ९।३६, १५२-१५३) इति पारमेश्वरोक्तः किं न श्रुत इति चेत्, ब्रूमः—तत्र स्वस्य कर्मण इत्यनेन स्वा- र्थाविरोधेनेत्यत्र स्वार्थशब्देन च स्नानादिनित्यकर्माण्येवोच्यन्ते, न स्वार्थाराधनमपि । यतस्तत्परार्थयजनवद् बह्वीभिर्घटिकाभिः कर्तृन्तरेणैव साध्यम् । (नास्ति? अस्ति) च स्वार्थपरार्थयोरुभयोरप्येकेनैवाराधनं कार्यमिति पूर्वं भवदुक्तं खलु । तत्र किं नियामकमिति, अनुपपत्तिरेव नियामिका । ननु तदानीं बहुघटिकासाध्यं स्वार्थार्चनं कथं शीघ्रं साध्यत इति चेदुच्यते— उत्सवावधिकं श्रेष्ठमाराधनमुदाहृतम् । होमान्तं मध्यमं प्रोक्तं प्रापणान्तमथाधमम् । क्षुद्रं तु धूपदीपान्तमिदमाराधनं हरेः । इति पाद्मोक्तेः, संक्षेपविस्तरे कुर्याद् देशकालानुकूलतः ॥ नैव कुर्यादपच्छेदं यजेदञ्जलिनापि माम् ।—(४०।१०४-१०५) इति लक्ष्मीतन्त्रोक्तेश्च लघुपक्षः साध्यत इति बोध्यम् । तथा चोक्तं पाञ्चरात्र- रक्षायां तृतीयेऽधिकारे—‘ईषच्छक्तौ संकुचितपूजनम्, एकोपचारमारभ्य तत्तच्छक्त्या- द्यनुसारेण सहस्रोपचारान्तविधानात्’ (पृ० १६८) इति । ‘यत्पुनरुपचारलोपे प्रत्य- वायादिकमुक्तम्— गन्धहीने भयोक्तिश्च पुष्पहीने तु संकुलम् ।

१२४ सात्वतसंहिता नैवेद्यहीने दुर्भिक्षं मरणं मन्त्रहीनके ॥ अमन्त्रमविधिं चैवमकालं चैव पूजनम् । नित्यं राष्ट्रभयं कुर्यात् तत्तद्ग्रामं तु नश्यति ॥ इत्यादि, तदेतत्सर्वं राजराष्ट्रादिसमृद्ध्यर्थं काम्याराधनेष्वन्येष्वपि पूर्णानुष्ठान- शक्तस्य सम्पूर्णानुष्ठानद्रव्यस्य लोभादिभिस्तत्तद्धानौ मुख्यकल्पसमर्थस्यानुकल्पेन वृत्तौ च दोषमाह, न तु नित्ये कर्मणि निष्कामस्ययथाशक्तिकरणे’ (पृ० १७५-१७६) इति च स्पष्टमुक्तम् । रसात्माऽध्यक्षसंज्ञोऽत्र इत्यत्रान्नस्य वीर्यरूपरसेषु क्रमेण सङ्कर्षणादीनां केवलं बलवीर्यतेजोरूपेणावस्थानं भाव्यम्, बलादीनां भोज्यगुणत्वात् । भोक्ता वासुदेवस्तु ज्ञानैश्वर्यशक्तिरूपेण भाव्यः, ज्ञानादीनां भोक्तृगुणत्वात् । तथा च पारमेश्वरे महाहविःप्रकरणे— बलं वीर्यं च तेजश्च अर्घ्यपुष्पं समुत्क्षिपेत् । केवलेन च सास्त्रेण नेत्रमन्त्रेण भावयेत् ॥ ततः स्वदक्षिणे हस्ते विज्ञानैश्वर्यशक्तयः । स्मर्तव्याः स्वस्वमन्त्रेण भोजकाः करणात्मकाः ॥ स्पृष्ट्वा स्पृष्ट्वा यथाभोगं बद्ध्या ग्रासमुद्रया ॥ निवेदनीया वै विष्णोरन्तमूर्त्यन्तरस्थिताः । रसवीर्यादिभेदोत्थास्तेजोवीर्यबलात्मकाः ॥ —इति (१८।३७८-३८१) लक्ष्मीतन्त्रेऽपि— तारिकामुच्चरन् कुर्यान्नामन्त्रस्थां विभावयेत् ॥ सोमानन्दमयीं दिव्यां क्रमाद्यन्नाद्यतां गताम् । वीर्यरूपरसाकारां तेजोवीर्यबलात्मिकाम् ॥ ऐश्वर्यशक्तिविज्ञानरूपं भोक्तारमव्ययम् । आत्मानं पुण्डरीकाक्षं भावयेत् पुरुषोत्तमम् ॥ —(४०।९६-९८) इति अम्भश्चुलुकं पिबेदित्यत्र परिषेचनमपि कार्यम् । तथा च लक्ष्मीतन्त्रे— अस्त्रेण तारया प्रोक्ष्य तारया परिषिच्य च। उपस्तीर्य ततश्चापो दद्यात् प्राणाहुतिं ततः ॥ (४०।९५) इति। वक्त्रकुण्डेऽथ तेनैवेति प्रणवेनैव प्राणाहुतयः प्रतिपादिताः । अतः प्रसिद्ध- प्राणाहुतिमन्त्रपरित्यागान्न भेतव्यम् । यतः सच्चरित्ररक्षायाम्—‘येषां तु तत्र भगवद- साधारणमन्त्रैर्वक्त्रकुण्डे होमो विहितः, न तेषु वैदिकमर्यादाविरोधः शङ्कनीयः, कल्प- सूत्रप्रतिनियतधर्मान्तरवत् तदुपपत्तेः’ (पृ० १३०) इति प्रत्यपादि । एवं च प्रणवेनैव प्राणाहुतिरिति नियमोऽपि नास्ति । यतः सच्चरित्ररक्षायाम्— येन येन तु मन्त्रेण बहिराराधनक्रमे । वेद्यादिस्थस्य देवस्य प्रापणं विनिवेदितम् ॥ तेन तेन तु मन्त्रेण जुहुयुर्वक्त्रकुण्डके ।

षष्ठः परिच्छेदः १२५ चतुः पञ्चत्रिधा वापि प्राणपूर्व्वैर्द्विजोत्तम ॥ केवला भक्तिपूतास्तु त्रयीधर्मरता द्विजाः । प्राणापानादिभिर्मन्त्रैर्जुहुयुः पञ्चधा क्रमात् ॥ हृदयस्थाय देवाय विष्णवे सर्वजिष्णवे । —(पृ० १३०) इति । नन्वेवं प्राणापानादिमन्त्रान् विना साक्षात् तदन्तरात्मभगवदसाधारणमन्त्रैराहुति- पक्षे निवेदितशेषं विना पृथगनेनानुयाग उदितः । अन्यथा निवेदितनिवेदनाख्यदोषः संभवति । अत एवात्र भोज्यं नैवेद्यपूर्वं तु समादायाथ पात्रगमिति नैवेद्यशब्दः प्रयुक्तः, न निवेदितशब्दः । नैवेद्यम् अन्तरात्मनिवेदनाय कल्पितमित्यर्थः स्वरसः । तथा सति पवित्रीकृत्य चाम्भसेत्युक्तेरपि सार्थक्यं भवतीति चेति सच्चरित्ररक्षादिकं कदापि न श्रुतवानसि, यतस्तत्र सवन्दनाभिषेकन्यायेन निवेदितनिवेदनाख्यदोषः परिहृतः । निवे- दितार्थकनैवेद्यशब्दा अपि बहुशस्तत्र तत्रोदाहृताः ॥ १८१-१८६ ॥ इसके बाद शरीर यात्रा के लिये परमेश्वर की प्रार्थना कर आज्ञा प्राप्त करे । तदनन्तर यथाविधि आत्मयाग करे । सर्वप्रथम पात्र में रहने वाला सभी प्रकार का नैवेद्य देवता को निवेदन कर जल से प्रक्षालित कर भोजन करे । यतः अलक्ष्या एवं सत्यरूपा चतुरात्मीया भावना ही अन्नदोष का नाश करने वाली है अतः उसकी भावना करनी चाहिये ॥ १८१-१८३ ॥ यतः अन्न रसात्माध्यक्ष संज्ञक है, उसके भगवान् स्वादुभाव रूप में प्रद्युम्न व्यस्थित है, वीर्य में सङ्कर्षण स्थित हैं और स्वयं भगवान् वासुदेव स्वयं इसके भोक्ता हैं । इस प्रकार की भावनापूर्वक भोजन के अनन्तर चार बार प्रणव से अभिमन्त्रित एक चुल्लू जल पीवे ॥ १८४-१८५ ॥ इसके बाद पुनः वक्त्ररूप कुण्ड में उसी प्रणव से चार आहुति प्रदान करे । इसी प्रकार अभिमत वक्त्ररूप कुण्ड में अभिमत (यथेच्छ) ग्रास की आहुति देकर यथारुचि भोजन करे ॥ १८६ ॥ समाचम्य पुनर्यायात् प्रयतो भगवद्गृहम् । मनोबुद्ध्यभिमानेन सह न्यस्य धरातले ॥ १८७ ॥ कूर्मवच्चतुरः पादान् शिरस्तत्रैव पञ्चमम् । प्रदक्षिणसमेतेन त्वेवंरूपेण सर्वदा ॥ १८८ ॥ अष्टाङ्गेन नमस्कृत्य ह्युपविश्याग्रतः प्रभोः । आगमाध्ययनं कुर्यात् तद्वाक्यार्थविचारणम् ॥ १८९ ॥ अथैवमनुयागानन्तरं पुनराचमनपूर्वकं भगवद्गृहप्रवेशं तत्र कर्तव्याष्टाङ्गप्रणाम- प्रकारमागमाध्ययनरूपस्वाध्यायं चाह—समाचम्येति त्रिभिः । अत्राष्टाङ्गेनेत्येकवचनेन सकृत्प्रणामप्रतिपादकश्लोकद्वयमिदमेवेति सूच्यते । अत एव श्रीमद्भाष्यकारैरपि नित्यग्रन्थे—‘भगवन्तमष्टाङ्गप्रणामेन प्रणम्य’ (पृ० १८७) इत्येकवचनमेव प्रयुक्तम्, अष्टाङ्गप्रणामप्रतिपादकश्लोकद्वयमिदमेवोदाहृतं च (पृ० १८८) ।

१२६ सात्वतसंहिता नन्वत्र समयपरिच्छेदे— प्रासादं देवदेवीयमाचार्यं पाञ्चरात्रिकम् ॥ अश्वत्थं च वटं धेनुं सत्समूहं गुरोर्गृहम् । दूरात् प्रदक्षिणं कुर्यान्निकटात् प्रतिमां विभोः ॥ दण्डवत् प्रणिपातैस्तु नमस्कुर्याच्चतुर्दिशम् । (२१।११-१३) इति बहुवचनमपि वक्ष्यति । तस्य का गतिरिति चेत्, सत्यम् । तत्र चतुर्दिशमिति स्थानभेदोऽप्यस्तीति ज्ञेयम् । ननु च—'एकत्रिपञ्चसप्तादिगणनाविषमं हि यत्' (३७।५३) इति विषम- प्रणामनिषेधकपौष्करोक्तिः, तदनुसारिणी—'तत्र प्रदक्षिणानि प्रणामांश्च युग्मान् कुर्यात्' (पृ० ११४) इति पाञ्चरात्ररक्षोक्तिश्च भवता न श्रुता किमिति चेत्, उच्यते— पौष्करनिष्ठानामेव तदुक्तानुष्ठानम्, सात्वतनिष्ठानां तु सकृदेव प्रणामानुष्ठानं बोध्यम्, 'सकृत्ते नमः, द्विस्ते नमः' इत्यादिभिः पक्षद्वयस्यापि श्रुत्युक्तत्वात्, तथैव शिष्टाचारा- च्च । आगमाध्ययनं कुर्यात् तद्वाक्यार्थविचारणमित्यत्र पाञ्चरात्ररक्षायाम्—'तदिह भगवत्प्रीणनस्वचित्तरञ्जकेतिहासपुराणस्तोत्रनिगमान्तद्वयव्यापकमन्त्रादीनां श्रवणमनन- प्रवचनजपादयो वादसंवादादयश्च यौगिकज्ञानप्रदीपस्नेहायमानाः, पारुष्यमनृतं चैव पैशुन्यं चैव सर्वतः । अनिबद्धप्रलापश्च वाङ्मयं स्याच्चतुर्विधम् ॥ —(मनु० १२।६) इत्यादिदर्शितवाचिकपापोदयप्रतिबन्धिनश्च सर्वे व्यापारा यथासंभवं संभूय पृथग्भूय वा स्वाध्यायीभवन्ति' (पृ० १४९) । इति संगृहीतं द्रष्टव्यम् ॥ १८७-१८९ ॥ तदनन्तर आचमन कर संयमपूर्वक भगवान् के मन्दिर में पुनः जावे । फिर मन, बुद्धि, अभिमान के साथ कछुये के समान चारों हाथ, पैर और पाँचवाँ शिर पृथ्वी पर स्थापित कर साष्टाङ्ग सर्वदा प्रदक्षिणा करे ॥ १८७-१८८ ॥ इस प्रकार साष्टाङ्ग नमस्कार कर भगवान् के आगे बैठकर आगम (मन्त्र) शास्त्र का स्वाध्याय करे और उसके अर्थों पर विचार करे ॥ १८९ ॥ प्राप्ते तु सन्ध्यासमये स्नात्वा च जघनावधि । क्षालयित्वा ततः कुर्याद् वासःसम्परिवर्तनम् ॥ १९० ॥ अर्चयित्वार्घ्यपुष्पाद्यैर्देवमग्निं यजेत् ततः । यथाशक्ति जपं कुर्यादासाद्य शयनं ततः ॥ १९१ ॥ समाधाय बहिर्देवं निरालम्बपदे स्थितम् । अप्रयत्नेन वै तावदनिरुद्धेन तेजसा ॥ १९२ ॥ सह तेनैव वै निद्रा यावदभ्येति साम्प्रतम् । समुत्थायार्धरात्रेऽथ जितनिद्रो जितश्रमः ॥ १९३ ॥ अथ सायन्तनस्नानादिनिद्रान्तं कर्तव्यकर्मणां क्रमं संक्षेपेणाह—प्राप्त इति सार्धैस्त्रिभिः । अत्र स्नात्वेत्यादिना सन्ध्योपासनादिकमुपलक्ष्यते । देवमर्चयित्वेत्यत्रा-

षष्ठः परिच्छेदः १२७ र्चनप्रकारः, अग्निं यजेदित्यत्र होमप्रकारश्च पूर्वोक्त एव ग्राह्यः । एतेन स्वार्थ- परार्थयोरुभयत्रापि कालद्वयार्चनं मुख्यं भवति, अविशेषेणोक्तत्वात् । सति विभवे पारमेश्वराद्युक्तं द्वादशकालार्चनादिकं परार्थे कार्यम्, तदुद्दिश्यैवोक्तत्वात् । साय- माचमनं चानुयागान्तमिति ज्ञेयम्, सायंप्रातर्द्विजातीनामशनं श्रुतिचोदितम् । नान्तरा भोजनं कुर्यादग्निहोत्रसमो विधिः ॥ —(मनु० २।५२) इति रात्रिभोजनस्यापि शास्त्रीयत्वात् । नन्वत्रानुयागः कण्ठरवेण नोक्तः, लक्ष्मीतन्त्रेऽपि— सन्ध्यामुपास्य विधिवदभिगम्य मां धिया । योगं युञ्जीत विधिवच्छास्त्रशुद्धेन चेतसा॥ —(४०।१०२) इत्यत्रानुयागो नोक्तः, ईश्वरपारमेश्वरयोरपि— 'सायन्तनार्चनं कुर्यात् षडङ्गं बलि- पश्चिमम्' (ई०सं० ६।७८; पा०सं० ७।४३७) इति, 'त्रिकालेष्वेकसप्ताङ्गं षडङ्गं चाचरेद् द्वयम्' (ई०सं० ६।७८; पा०सं० ७।४३४) इति च वह्निसन्तर्पणान्त- मेवार्चनमुक्तम् । एवं वचनेषु जागरूकेषु कथं रात्रावनुयागः शास्त्रीयो भवतीति चेत्, सत्यम् । अत्र सर्वत्रापि रात्रिभोजनस्य नैयत्याभावात् तथोक्तमिति ज्ञेयम् । यतः पाद्मे— ततः पश्चिमसंध्यायां प्राप्तायां तत्र चोदितम् । जपहोमादिकं सर्वं कृत्वा परमपूरुषम् ॥ अर्चयित्वा यथान्यायं यथापूर्वमशेषतः । भुक्त्वा संविश्य शयने समुत्थाय महानिशि ॥ आचम्य प्रयतो भूत्वा ध्यात्वा परमपूरुषम् । इति रात्रिभोजनमप्युक्तम् । ननु रात्रिभोजनस्य नैयत्याभावेन तदप्रतिपादने समर्थित एकादश्याद्युपवासदिवसेषु दिवाभोजनस्यापि नैयत्याभावात् तत् कथं प्रतिपादितमिति चेत्, ब्रूमः—दिवोपवासस्य क्वाचित्कत्वाद् रात्र्युपवासस्य पञ्चपर्वादिषु बाहुल्याद् दिवारात्र्यनुयागयोः प्रतिपादनाप्रतिपादने बोध्ये । नित्यग्रन्थेषु दिवानुयागस्याप्यनुक्तिरेवमेव समर्थिता वेदान्ताचार्यैः पञ्चरात्र- रक्षायाम्—'तथाह्युपवासदिवसेष्वेकादश्यादिष्वनुयागस्य लोपो भवति । सप्ताङ्गमेव तदानीं यजनम् । अत एवानुयागस्यानियतत्वव्यञ्जनाय भाष्यकाराणां तदनुक्तिः । तदर्थकालश्च तस्मिन् दिवसे स्वाध्याययोगादिष्वन्यतमेन यथोचितं यापनीयः' (पृ० १६७) इति । अत्र सप्ताङ्गमित्यनेनैकादश्यादिष्वपि पितृसंविभागः कार्य इत्युक्तं भवति । स च तिलोदका(न्तरूपं ? न्न्रूपो) न ब्राह्मणभोजनरूप इति ज्ञेयम्, यतस्तत्रैव कदाचिद् द्वादश्यादिषु प्रभाते पारणं भवति । तदर्थं पूर्वं यजने कृतेऽपि स्वकालप्राप्तं मध्यन्दिनयजनं सप्ताङ्गमिति भोजनानन्तरमपि पितृसंविभाग उक्तो नान्नश्राद्धरूपः, अपि तु तिलोदका(न्त? न्न)रूप एव । ननु भवता द्वादश्यादिषु प्राभातिकार्चनानन्तरमपि पितृसंविभागः कथमुक्त इति चेत्, सत्यम् । तत् परार्थविषयम्, तत्र प्राभातिकार्चनस्याप्युक्तत्वात्, 'तत्र प्राभातिकीं कुर्यात् पूजामष्टाङ्गसंयुताम्' (ई०सं० ६।७६; पा०सं० ७।४३२) इति कण्ठो-