सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
२१३
मेघान्योक्तयः
| चातकेन । आः कष्टमिष्टफलदानविधानहेतोरम्भोदराक्षतति
सम्प्रति वज्रवह्नि ॥ ४९ ॥ दैवदहनजटालज्वालजालाहताना
परिगलितलताना म्लायता भूरुहाणाम् । अयि जलधर
शैलश्रेणिशृङ्गेषु तोय वितरसि बहु कोऽयं श्रीमदस्तात्र-
कीन. ॥ ५० ॥ नमसि निरवलम्बे सीदता दीर्घकाल त्वद-
भिमुखनिषण्णोत्तामचञ्चूपुटेन। जलधर जलधारा दूरतस्ताव-
दास्ता ध्वनिपि मधुरस्ते न श्रुतश्चातकेन ॥ ५१ ॥ अये
हेलावेलालुलितकुलशैलै जलनिधौ कुतो वारामोघं बत जलद
मोघ वितरसि । समन्तादुत्तालज्वलदनलकीलावकलनह्र मोपे-
तानतानुपकुरु पयोभिर्विटपिन ॥ ५२ ॥ अमु कालक्षेप त्यज
अद गम्भीरैर्मधुरै विमेभिनिर्घोषैः सृज झटिति झाङ्कारि
वलिलम् । अये पश्चावश्यामकरुणममीरव्यतिकरज्ज्वलद्दाव-
ज्वालावलीजटितमूर्तेर्विटपिन ॥ ५३ ॥ अकृपागद्धारि
पचुरतरमादाय जलद म दानाध्यक्षोऽपि प्रकिरति जलं
नाद्भूतमिदम् । स मेघो धन्यो यत्परिकिरति मुक्ताफलतया
यदीयासौ कीर्तिर्नटति नृपनारीकुचतटे ॥ ५४ ॥ तवैव
प्रावीण जलद जगदानन्दकरणं यदम्भपालीराहरमि खल-
सत्त्वाजलनिधे । निसर्गात्क्षारास्ता नयसि च कथञ्चिन्मधु-
रतामथासारैस्तासा युगपदुपकर्तासि जगत ॥ ५५ ॥ विल-
पति तथा सारङ्गोऽय भवानयमुन्नतो जलमपि च ते सद्यो-
गोऽयं कथचिदुपस्थित । उपकुरु कुरु प्रह्वं चेतो न वेत्सि
यदग्रतो जलधर पुनः क्व त्व काय क ते जलबिन्दव.
॥ ५६ ॥ नीर दूर तदपि विरस जगमा नो लताद्यास्त-
स्छिन्दार्यपि जलनिधौ को लभेताम्बुबिन्दुम् । दानाध्यक्षे
त्वयि जलधर कापि कुत्रापि शैला. शालावन्तोऽमृतनिभजलै-
स्तर्पिता. सर्व एते ॥ ५७ ॥ तृप्त्या नद्य. कमलसरसी
राजहंसावतंसा पुण्याश्चेतो हिमगिरिसुवस्त्वत्कृते येन
मुक्ताः । सप्तासेऽस्मिञ्जलद दहनोचण्डदाहे निदाघे पर्जन्य
स्वीकुरु तमधुना चातक पातकं वा ॥ ५८ ॥ शैलेयेशु
शिलातलेषु च गिरेः शृङ्गेषु गर्तैषु च श्रीखण्डेषु बिभीतकेषु
च तथा पूर्णेपु रिक्तेषु च । स्निग्धेन ध्वनिनाखिलेऽपि
जगतीचक्रे सम वर्षतो वन्दे वारिद सार्वभौम भवतो विश्वो-
पकारि व्रतम् ॥ ५९ ॥ नीहाराकरसारसागरसरित्कासार-
नीरश्रियं त्यक्त्वा तोयद चातकेन महती सेवा समाल-
म्बिता । तस्यैतत्फलितं समुज्झसि शिलासंताडन मस्तके
गाढ गर्जसि वज्रमुज्झसि तडिल्लेखाभिरातर्जसि ॥ ६० ॥
आरामाभरणस्य पल्लवचयैरापीततिग्मत्विष. पाथोद प्रशाम | नयागुरुतगोरेतस्य दावज्जरम् । ब्रूमस्त्वामुपकारकातर गत-
प्राया' पय सपदो दग्धोऽप्येष तरुर्दिशः परिमलैरापूर्य निर्वा-
सति ॥ ६१ ॥ यावत्तिष्ठति चातकोऽयमसुभिः कण्ठस्थल-
स्थायिभिस्तावद्देहि पय पयोद फलतु त्वद्द्वारि कल्पद्रुम. ।
नो चेदस्य तृषार्तपीडिततनो प्राणे प्रयाणे कृते कस्मै
दास्यसि को ग्रहीष्यति पुनस्तापस्तु ते स्थास्यति ॥ ६२ ॥
कूपे पानमधोमुख भवति मे नद्यो वराकय स्त्रियः सामान्य
बकटिट्टिभै सह सरस्येव समालोकयन् । शुष्यत्तालु-
गलोऽपि कम्पिततनु श्रुत्वा गभीरध्वनि धैर्यादुद्धतकन्धरो
जलधर त्वा याचते चातक ॥ ६३ ॥ मार्गे भूरि जलं
मरुस्थलभुवि स्वप्नेऽपि नो लभ्यते तीव्रो वाति समीरण
क्वचिदपि च्छायाभृतो न द्रुमा । अङ्गारप्रकरानिकारिनिव
गर्वैग्रीष्मे तपत्यम्बरे तद्भो पान्थहिताय पूरय धरा पाथोद
पाथोमर्म ॥ ६४ ॥ मैके कोटरशायिभिर्मृतमिव क्ष्मान्तर्गत
कच्छपै पाठीनै पृथुपङ्कपीठलुटिनैर्यत्सिन्धुवन्मूर्च्छितम् ।
तस्मिञ्छुष्कसरस्यकालजलदेनागत्य तच्चेष्टितं यत्राकुम्भनि-
मग्नवन्यकरिणा यूथै पय. पीयते ॥ ६५ ॥ कालातिक्रमण
कुरुष्व तडिता विस्फूर्जितेत्रासय स्फारैर्भीषणगर्जितैग्तितरा
काश्यं मुखे दर्शय । अस्थानन्यगतेः पयोद मनसो जिज्ञा-
सया चातकस्यावेहि त्वमिहाखिलं तदपि न त्वत्तः पर
याचते ॥ ६६ ॥ भूयो गर्जितमम्बुद प्रकटिता विद्युल्लक्ष्मा-
पूरित दूरादग्रह तिष्ठ तिष्ठ तदल वृष्ट्या तवातः परम् ।
निर्दग्धाखिलशालिहालिकवधूसन्नद्धनेत्रै पर नैराश्यादिह
वर्षितव्यमधुना केदारपूर पय ॥ ६७ ॥ गर्जन्नम्बु ददाति
तच्च कणिकारूपेण यत्र क्वचिदर्घाकालमपेक्ष्य दानसमये
कौक्ष्यं विधत्ते मुखे । पश्चाल्लाण्डरतामुपैति लघुतामप्येति
भूयस्तत श्रीमद्राम नृपालशेखर विभो दाता कियान्वारिदः
॥ ६८ ॥ आसक्ता. प्रतिकोटैर विषधरा भानोः करा मूर्धनि
ज्वालाजालकरालदावदहन प्रत्यङ्गमलिङ्गित। सर्वानन्दन-
चारुचन्दनतरोरेतस्य जीवातवे रे जीमूत विमुञ्च वारि बहु-
शो युष्मद्यशो जृम्भताम् ॥ ६९ ॥ ते ते चातकपोतका
वितृषिता दावाग्निमग्न वनं सनिर्वापितमुष्णतापतमही निर्वा-
पिता सर्वत. । कौसाराः परिशूरिता पृथुपयोधाराभिरम्भो-
धर त्वय्येवायमहो महोजितमहादानावदानक्रमः ॥ ७० ॥
तापं लुम्पसि सर्वतो वितरसे मुक्ताफल शुक्तिषु क्षेत्रं सिञ्चसि
कि च पल्लवयसि श्रीखण्डमुरुस्यान्दमान् । क्षार क्षार-
मिदु जल जलनिधेरादाय जीमूत हे विश्व जीवयसि ब्रवीतु
जगति प्रौढोऽपि कस्ते गुणान् ॥ ७१ ॥ सतां जगत्तो |
पादटिप्पण्यः :
स्तम्भ १ :
१ दावाग्नि
२ ग्लानि प्राप्नुवताम्
३ व्योमोत्थितैर्मेघगर्जने
४ शीघ्रम्
५ व्याप्तदेहस्य
६ वृक्षस्य
७ उद्यानभूषणस्य
स्तम्भ २ :
१ कृप्पनाम्
२ प्रतिबिम्बम्
३ नराशना
२१४ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
विलुम्पसि धरा धाराभिगतिंक्षिपसि क्षेपाण्युङ्कुरयत्यमुन्मुकुल-
यत्यह्नाय नीपद्रुमान् । सारङ्गस्य नभोनिवेशितदृशश्चञ्चुपुटी-
पूरणे वैमुख्यं वहसि त्वमम्बुद यदि प्रत्येतु को नाम त-
न् ॥ ७२ ॥ कूपाम्भासि पिबन्तु कूपरसिका वापीषु वापीजुपो
नादेयाश्च पत्रत्रिणोऽपि मुदिता आस्वादयन्तामपः । मार-
ङ्गस्य नभोनिवेशितदृशः किं तेन यावन्महीमम्भोभिः क्षप-
यन्नसावुदयते न प्रावृषेण्यो घनः ॥ ७३ ॥ कर्तव्यो हृदि
वर्तते यदि तरोरस्योपकारस्तदा मा कालं गमयाम्बुवाह समये
सिञ्चैनमम्भोभरैः । शीर्णे पुष्पफले दले विगलिते मूले गते
शुष्कतां कन्थै किं हितमाचरिष्यति परीतापस्तु ते स्थास्यति
॥ ७४ ॥ नो चिन्तामणिभिर्न कल्पतरुभिर्नो कामधेन्वादिभिर्नो
देवैश्च परोपकारनिरतैः स्थूलैर्न सूक्ष्मैरपि । अम्भोदेह निर-
न्तरं जलभरैस्तामुनेरा सिञ्चता वार्येण धुरं त्वयाद्य वहता
मन्ये जगज्जीवितम् ॥ ७५ ॥ हे पाथोड यथोन्नतेन भनता
दिग्व्यावृता सर्वतो मन्ये वीर तथा करिष्यसि खलु क्षीराब्धि-
तुल्यं मरू । किं त्वेष क्षमते नहि क्षणमपि ग्रीष्मोष्मणा व्या-
कुलः पाटीनादिगणम्वदेकशरणम्तदर्प तावत्क्रियन् ॥ ७६ ॥
नाम्भो स्कंन्ध्नति. सर सु न मनो वापीपु नापीहितं कर्णे-
ऽप्यर्णवसंरूथा न च कृता नाद्यापि नद्या मनः । साङ्गेण
समुत्तरङ्गरसनादण्डेन चण्डातपक्लान्तेनापि निरन्तरं जलद
हे त्वय्येव दत्तं मनः ॥ ७७ ॥ नि.पद्मं शिशिरेण धीवरगणै-
र्निर्मत्स्यनिःकूर्भकं व्याधैर्निर्विरहगं निरम्बु रविणा निर्नालकं
दन्तिभिः । निःशालूकम्कारि शूकरगणैर्नामैकमात्रं सरो हे
जीमूत परोपकारक पयोदानेन मा पूरय ॥ ७८ ॥ कामा-
रेषु मरिन्सु सिन्धुषु तथा नीचेषु नीरग्ग्रहं विक्तत्रापि शिगे-
नतिः किमपरं हेयं भवेन्मानिनाम् । इत्यालोच्य विमुच्य चात-
कयुवा तेषु स्पृहामादरादुद्ग्रीवस्तव वारिवाह कुरुते धाग-
धरालोकनम् ॥ ७९ ॥ रे धाराधर धीर नीरनिकरैरेषा रसा
नीरमा शेषा पूपकरोत्करैस्तित्खैरैरापूरि भूरि त्वया । एकान्तेन
भवन्तमन्तरगतं स्वान्तेन सञ्चिन्तयन्नाश्चर्य परिपीडितोऽभि
रमते यच्चातकस्तृष्णया ॥ ८० ॥ आरामाधिपतिर्विवेकविकलो
नूनं रसा नीरसा वात्याभिः परुषीकृता दश दिशश्चण्डात्तपो
दुःसहः । एव धन्वनि चम्पकस्य सकले संहारहेतावपि
त्वं सिञ्चन्नमृतेन तोयद कुतोऽप्याविष्कृतो वेधसा ॥ ८१ ॥
ग्रीष्मे भीष्मतरेः करैर्दनकृता दग्धोऽपि यच्चातकस्त्वा
ध्यायन्घन वासरान्कथमपि द्राघीयसो नीतवान् । दैवाल्लो-
चनगोचरेण भवता तस्मिन्निदानीं यदि स्वीचक्रे करका-
निपातनकृपा तत्कं प्रति ब्रूमहे ॥ ८२ ॥ स क्षारे जलवि-
मगसि वितरन्यर्थ्यागतेभ्यो मितं गृह्णन्ते सरितः श्रमेण
परितोऽप्याधारबन्धं बलात् । प्राप्य कूपकतः कथञ्चन
क्रिमप्यारोप्य कण्ठे पदं तत्त्वा त्यागिनमेकमेव भगवन्वर्ज-
न्य मन्यामहे ॥ ८३ ॥ हर्षं वर्षन्विवधत्से चिरगमयतृषाशु-
प्यतां चातकानां भूमेस्तापोपशान्तिं वितरति तरसा लोक-
शोकं धुनोषि । अम्भोदैतत्त्वकैकं परममनुचितं यत्त्पिधत्से सुधांशुं
वाचामीशं कविं वा बुधमपि वहसि प्रेम खद्योतवर्गे ॥ ८४ ॥
वाय्वन्योक्त्यः
वायुगेव महाभूतं वदन्तु निखिला जनाः । आयुरेवैष
भूतानामिति मन्यामहे वयम् ॥ १ ॥ अलिपटलैरनुयातां
स्मृहद्यहृदयञ्चरं विलुम्पन्तीम् । मृगमदपरिमललहरीं
समीर किं पामरेषु रे किरसि ॥ २ ॥ परमो मरुत्सखामे-
स्तेजोवृद्धिं तनोतु तं जेतुम् । दीपं हरति तदस्य ज्ञानं प्रति-
पत्तिनिर्वहणम् ॥ ३ ॥ प्राथमिकी वनवृष्टिः प्रामा निक्खिनो
निदाघतप्रम्य । आकस्मिकेन मा पुनरुपनीता कापि पवनेन
॥ ४ ॥ वरतरुविघटनपटवः कटवश्चञ्चन्ति वायवो बहवः ।
तत्कुसुमबहुलपरिमलगुणविन्यासे कृती त्वेकः ॥ ५ ॥
गन्धवाह गहनानि गाहसे गन्वजातमिह सचिनोषि
च । नैपुणच्युतिरियं तु तावकी यत्र तत्र मदसद्विवेचनम्
॥ ६ ॥ अहह चण्डसमीरण दारुणं किमिदमाचरितं
चरितं त्वया । यदिह चातकचञ्चुपुटोदरे पतति वारि तदेव
निवारितम् ॥ ७ ॥ अनिल निखिलविश्वं प्राणिति त्वत्प्रयुक्तं
मपदि च विनिमीलत्याकुलं त्वद्वियोगात् । वपुरसि परमेश-
स्योचितं नोचितं ते सुरभिमसुरभिं वा यत्समं स्वीकरोषि
॥ ८ ॥ राजीवनीविपिनसोरभसारगन्धियैऽभूद्धमन्तदिवसेषु
जनैकबन्धुः । रय्याग्जासि विकिर्णन्वरुजन्नगेन्द्रानुन्मत्तव-
द्धमति पश्यत सोऽद्य वायुः ॥ ९ ॥ ये जात्या लघवः
मदैव गणनां याता न ये कुत्रचित्पञ्चामेव विमर्दिता-
प्रतिदिनं भूमौ विलीनाशिरम् । उत्क्षिप्तश्चपलाशयेन मरुता
पश्यान्तरिक्षे सखे तुङ्गानामुपरि स्थितिं क्षितिभृतां कुर्व-
न्त्यमी पांसवः ॥ १० ॥ हंहो दग्धसमीर सर्पति भवत्यस्मि-
न्वने शाखिनां शाखाधर्षणजः स कोऽपि सुचिरं ज्ज्वल
दावानलः । येनादाहि पलायमानहरिणं भस्मीभवद्वरूहं शुष्य-
न्त्रिंशंग्सुत्पतत्त्वगकुलं चेष्टद्भुजंगं वनम् ॥ ११ ॥ हंहो धीर
समीर हन्त जननं ते चन्दनक्ष्माभृतो दाक्षिण्यं जगदुत्तरं परि-
चयो गोदावरीवारिभिः । प्रत्यङ्गं दहतीह मे त्वमपि चेदु-
१ महाभूतमिति जना वदन्त्वित्यन्वयः २ वायुरित्यत्र वाग्गब्दस्यैकांगत्वादेप भूतानामायुरेवेति भावः ३ जीवति ४ मलयाचलात्
| वाय्वन्योक्तयः, पर्वतान्योक्तयः, समुद्रान्योक्तयः | २१५ |

द्दामदावाग्निवन्मत्तोऽयं मलिनात्मको वनचर. कि वक्ष्यते कोकिल ॥ १२ ॥ कोऽयं भ्रान्तिप्रकारस्तव पवन घनावस्करस्थानजात तेजस्त्रिखातसेव्ये नभसि नयसि यत्यासुपूरं प्रतिष्ठाम् । अस्मिन्नुत्थाप्यमाने जननयनपथोपरवस्तावदास्ता केनोपायेन सह्यो वपुषि कलुषतादोष एषस्तवैव ॥ १३ ॥
पर्वतान्योक्तयः
नाधन्याना निवास विदधति गिरय शेखरीभूतचन्द्रा शृङ्गैर्र्योत्स्नाप्रवाहं द्रुतमिव तुहिन दिक्मुखेषु क्षिपन्तः । येषामुच्चैस्तरूणामविहतगतिना वायुना कम्पितानामाकाशे विप्रकीर्ण कुसुमचय इवाभाति ताराग्रहौघ ॥ १ ॥
हिमाचलः
तरुकुलसुषमापहरा जनयन्ती जगति जीवजातातम्ि । केन गुणेन भवानीतात हिमानीमिमा वहसि ॥ २ ॥ विन्ध्यमन्दरसुमेरुभूभृता यत्पतिस्तुहिनपर्वतोऽभवत् । ईश्वरश्वशुरताप्रभावतस्तद्भव जगति जृम्भते यश. ॥ ३ ॥ क्षोणी यस्य हिरण्मयी मणिमय. प्राकारशिल्पोच्चय कुञ्जा कल्पलतामया सुरधुनीधारामयो निर्झरः । कि चेन्द्रादिसमस्तदिक्पतिपुरीमय्यन्ति यत्पल्लवा. शैल. सोऽपि गिरिवयं च गिरयस्त्वय्येव मे का मतिः ॥ ४ ॥
मेरुः
ये सतोषसुखप्रबुद्धमनसस्तेषामभिन्नो मृदो येऽप्यन्ये धनलोभसकुलधियस्तेषा तु दूरे नृणाम् । इत्थ कस्य कृते कृत. स विधिना तादृक्पद सम्पदा खात्मन्येव समाप्तहेममहिमा मेरुर्न मे रोचते ॥ ५ ॥
विन्ध्य.
आचक्ष्महे तव किमद्यतनीमवस्था तस्याद्य विन्ध्यशिखरस्य मनोहरस्य । यत्रैव सप्त मुनयस्तपसा निषेदु सोऽयं विलास-वसति. पिशिताशनानाम् ॥ ६ ॥
मलय.
कि तेन हेमगिरिणा रँजताद्रिणा वा यत्राश्रिता हि तरवस्तरवस्त एव । मन्यामहे मलयमेव यदाश्रयेण शाखोटनिम्बकुटजा अपि चन्दनानि ॥ ७ ॥ विद्योतन्ते कति नु गिरयस्तेषु कि नोद्यन्ते शाखावन्तः खदिरवदरीशालशाखोटकाया । धन्यस्तावन्मलयशिखरी यत्र जातास्त एव स्वैरामोदैस्त्रिभुवनमथ प्रीणयन्त स्फुरन्ति ॥ ८ ॥
मन्दर.
मुरारातिर्लक्ष्मी त्रिपुरविजयी शीतकिरणं करीन्द्रं पौलोमीपतिरपि च लेभे जलनिधे । त्वया कि वा लब्ध कथय मथितो मन्दरगिरे शरण्य शैलाना यदयमदय रत्ननिलय ॥ ९ ॥
मैनाक.
शक्रादरक्षि यदि पक्षयुग तथापि मैनाक सन्ति तव नेह गतागतानि । निःसत्त्वता च निरपत्रपता च किंतु पाथोनिधौ निवसता भवताजितात्र ॥ १० ॥ वर पक्षच्छेदः समदमघवन्मुक्तकुलिशप्रहारैर्रुच्छद्दलदहनोद्गारगुरुभिः । तुषाराद्रे. सूनोरहह पितरि क्लेशविवशे न चासौ सपातः पयसि पयसा पत्युरुचित ॥ ११ ॥
लोकालोकः
एकस्यायमुदेति मूर्धनि गिरेरन्यस्य चैव क्रमादस्त याति म्लानिविस्तुभयोरस्त प्रशस्तोऽञ्चल. । को नामोदयिनं करोति न शिरोमाणिक्यमस्त पुनर्यांत य कुरुते भवानिव स दु प्रापोऽस्ति पृथ्वतीतले ॥ १२ ॥
रोहणः
गेहणाचल शैलेषु कस्तुला तुलयेत्तव । यस पाषाणखण्डानि मण्डनानि महीभृताम् ॥ १३ ॥ रत्नाना न किमालयो जलनिधि कि न स्थिरा मेदिनी कि न व्योम महत्पदं सुकृतिना के नाम नैवोन्नतम् । हहो रोहण कि न याचकचमूनि शङ्कटङ्काहितक्षान्तिस्वीकरणेन गोत्रतिलकस्त्रैलोक्यवन्द्यो भवान् ॥ १४ ॥ यामस्ते शिवमस्तु रोहणगिरे मत्त. स्थितिप्रच्युता वर्तिष्यन्त इमे कथ कथमिति स्वप्रेऽपि मैवं कृथा । भ्रातस्ते मणयो वयं यदि भवन्नामप्रसिद्धास्तत· कि शृङ्गारपरायणा. क्षितिमुजो नाङ्गीकरिष्यन्ति न. ॥ १५ ॥
पर्वतदरी
यस्या स केसरियुवा पदमाबवन्ध गन्धद्विपेन्द्ररुधिरारुणिताङ्गनायाम् । तामद्य पर्वतदरी धुतबुद्गलोमा गोमायुरेष वपुषा मलिनीकरोति ॥ १६ ॥
गिरिनिर्झर.
कल्लोलमचलदगाधजलैर्ललोलै कल्लोलिनीपरिवृढै· किमपेयतोयै । जीयात्स जर्जरतनुर्गिरिनिर्झरोऽयं यद्विप्रुषापि तृषिता वितृषीभवन्ति ॥ १७ ॥
समुद्रान्योक्तयः
नैवज्ञा नाप्यवैदग्ध्यमुदधेर्महिमैव स । यत्तीरपङ्कमग्नानि महारत्नानि शेरते ॥ १ ॥ यद्यपि स्वच्छभावेन दर्शयत्युदधिर्मणीन् । तथापि जानुदघ्नोऽयमिति चेतसि मा कृथा ॥ २ ॥ रत्नेरापूरितमपि मदलेशोऽस्ति नाम्बुधे । मुक्ता कतिपया. प्राप्य मातङ्गा मदविह्वला ॥ ३ ॥ अध-करोषि रत्नानि मूर्ध्ना धारयसे तृणम् । दोषस्त्वेष जलधे रत्न रत्न तृण तृणम् ॥ ४ ॥ वातोल्लासितकल्लोल धिक्ते सागर गर्जितम् । यस्य तीरे तृषाक्रान्त पान्थ. पृच्छति वापिकाम् ॥ ५ ॥ अय रत्नाकराऽम्भोविरित्यसेवि धना-शया । धन दूरेऽस्तु वदनमपूरि क्षारवारिभिः ॥ ६ ॥ यद्यपि बद्ध. शैलैर्र्यद्यपि गिरिमंथनमुषितसर्वस्व. । तदपि
१ राक्षसानाम् २ मेरुणा ३ कूलासेन ४ निर्बलत्वम् ५ निर्लज्जत्वम्
१ जवमान २ अचुतुरत्वम् ३ जानुप्रमाण ४ वायुनोल्लासिना उत्पादिता कल्लोला महोर्मियो यस्य ५ गिरिनथनेन हृत सर्वस्व चतुर्दशरत्नात्मक वन यस्य
२१६ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
परमीतभूधररक्षया दीक्षितो जलधिः ॥ ७ ॥ कि खलु रत्नैरेतैः कि पुनरप्यायितेन वपुषा ते । सलिलमपि यन्न तावक- मर्णव वदनं प्रयाति तृषितानाम् ॥ ८ ॥ मा कुरु गुरुता- गर्व लघुरन्यो नास्ति सागर त्वत्तः । जलसंग्रहमन्य- स्मात्त्वयि सति कुर्वन्ति पोतंथा ॥ ९ ॥ किमधिकमस्य ब्रूमो महिमानं वाग्विधेरहरिर्यत्र । अज्ञात एव शेते कुक्षौ निक्षिप्य भुवनानि ॥ १० ॥ लघुरयमाह न लोकः कामं गर्जन्तमपि पतिं पयसाम् । सर्वमलञ्जाकरमिह यत्कुर्वन्तीह परिपूणां ॥ ११ ॥ तृषा धराया शमयत्यशेषा यः सोऽम्बुदो गर्जति गर्जतूच्चै । यस्त्वेषा कस्यापि न हन्ति तृष्णा स किं वृथा गर्जति निष्कृपोऽब्धिः ॥ १२ ॥ त्वमद्य सिन्धो जगदेकबन्धो रत्नानि दातुं विमुखोऽसि कस्मात् । कि वा सुतः कल्पमहीरुहस्ते दानं कृतार्थी- कुरुते जगन्ति ॥ १३ ॥ अयि रोषमुरीकरोषि नो चेत्किमपि त्वा प्रति वारिधे वदामः । जलदेन तवार्थिना विमुक्तान्यपि तोयानि महान्न हा जहासि ॥ १४ ॥ तोयानामधिपतिराकरो मणीना शैलानामभयपदं महान्महद्ध्य । अग्राह्यो भवसि यदि त्वमेव तावत्को नु स्याज्जगति तदा जनावलम्ब ॥ १५ ॥ स्वस्त्यस्तु विद्रुमवनाय नमो मणिभ्यः कल्याणिनी भवतु मौक्तिकशुक्तिमाला । प्राप्तं मया सकलमेव फलं पयोघे यद्दारुणैर्जलचरैर्न विदारितोऽस्मि ॥ १६ ॥ आदाय वारि परितः सरिता मुखेभ्य कि तावदर्जितमनेन दुरर्णवेन । क्षारीकृतं च वडवादहने हुत च पातालकुक्षिकुहरे विनिवेशितं च ॥ १७ ॥ निःपीतपीन- तिमिराणि मनोहराणि रत्नानि सन्ति न कियन्ति तवा- न्तिकेषु । एतस्य कौस्तुभमणेर्व्रजतः परतु पाथोनिधे स्मरणमान्तरमावहेथाः ॥ १८ ॥ कल्लोलवेल्लितदृषत्सुप्रप्रहारै रत्नान्यमूनि मकरालय माऽवमंस्थाः । किं कौस्तुभेन विहितो भवतो न नाम याच्ञाप्रसारितकरः पुरुषोत्तमोऽपि ॥ १९ ॥ लज्जामहे वयमहो वचनेऽपि हन्त सार्थ्यात्रिका सलिल- राशिममी विशन्ति । असाधिरोपिततदीयतटोपकण्ठ- कौपेयकाम्बुदतयो यदुदीर्णतृष्णाः ॥ २० ॥ चपलतरतरंगै- दूरमुत्सारितोऽपि प्रथयति तव कीर्तिं दक्षिणावर्तशङ्खः । परिगणय पयोधे पद्मनाभार्ध्ययोग्यस्तव निकटनिषण्ण शूँल्लकैः श्लाघ्यता का ॥ २१ ॥ यद्वीचीभिः स्पृशसि गगनं यच्च पातालमूल रत्नैरुद्दीपयसि पयसा यत्पिधत्से धरि- त्रीम् । धिक् सर्वं तत्तव जलनिधे यद्विमुच्याश्वधारास्तीरे नीरग्रहणरसिकैरुध्वंगैरूज्झितोऽसि ॥ २२ ॥ अयं वारामेको निलय इति रत्नाकर इति श्रितोऽस्माभिस्तृष्णातरलितमनो- भिर्जलनिधिः । क एवं जानीते निजकरपुटीकोटरगतं क्षणादेनं ताम्यत्तिमिमकरमापास्यति मुनि ॥ २३ ॥ अये वारांगश कुलिशकरकोपप्रतिभयादयं पक्षप्रेम्णा गिरिवर- सुतस्त्वामुपगतः । त्वदन्तर्वास्तव्यो यदि पुनरय वाडवशिखी प्रदीप्त प्रत्यङ्गं ग्लपयति ततः कोऽस्य शरणम् ॥ २४ ॥ इत. स्वपिति केशव कुलमितस्तदीयद्विषामितश्च शरणार्थिनः शिखरिपत्रिण शेरते। इतोऽपि वडवानलः सह सँमस्त- संवर्तकैरहो विततमूर्जितं भरसह च सिन्धोर्वपुः ॥ २५ ॥ ग्रावाणो मणयो हरिजंलचरो लक्ष्मीः पयोमानुषी मुक्तांघाः सिकताः प्रवाललतिकाः शैवालमम्भ सुधा । तीरे कल्पमहीरुहाः किमपर नाम्नापि रत्नाकरो दूरे कर्णमरायनं निकटतस्तृष्णापि नो शाम्यति ॥ २६ ॥ एतस्मादमृत सुरैः शतमुखेनोच्चैःश्रवाः सङ्गुणः कृष्णेनाद्भुतविभ्रमैक- वसतीर्लक्ष्मीः समासादिता । इत्यादि प्रचुग पुरातनकथाः सर्वम्य एव श्रुता अस्माभिर्न च दृष्टमत्र जलधौ मृष्ट पयोऽपि क्वचित् ॥ २७ ॥ सख्येया न भवन्ति ते युगशतै- र्गाम्भीर्यमुख्या गुणाः सत्य वारिनिधे तथापि तदिद चिन्ते विधत्ते व्यथाम् । स्वच्छन्देन तिमिगिलान्द्विजकुलग्रास सुहृ- कुर्वतो यत्ते वारयितु निजेऽपि विषये न स्वामिता विद्यते ॥ २८ ॥ कल्लोलै स्थगयन्मुखानि ककुभामन्नलिहेरम्भसा क्षारेणापि दिवानिशं जलनिधे गर्जन्न विश्राम्यसि । एतत्ते यदि घोरनक्रनिलय स्वादु व्यधास्यद्विधि कि कर्तासि तदा न वेद्मि तरलै. खैरव दुश्चेष्टितैः ॥ २९ ॥ धामारोहति वाञ्छति स्थग- यितु तेजोऽपि तेजस्विनामुच्चैर्गर्जति पूरयन्नपि महीमम्भोभिर- म्भोधरः । काश्चिद्रागुपजीव्य तोयचुलुकान्सिन्धौ भवत्सन्निधौ पानीयप्रचयेषु सत्स्वपि न ते जातो विकारः क्वचित् ॥ ३०॥ किं वाच्यो महिमा तवात्र जलधे यस्येन्द्रवज्राहतित्रस्तक्ष्माभृ- दमजदम्वुनिचये मज्जत्कलङ्कीकृतिः । मैनाकोऽपि गभीरनीर- विलसत्पाठीनपृष्ठोल्लसच्छैवालाङ्कुरकोटिकोटरकुटीकुड्यान्तरे निर्वृतः ॥ ३१ ॥ आस्ता तावदहो समुद्रमहिमा दूरेऽपि कर्णप्रियत्सीर यस्य पिपासयैव मरणं प्राप्नोति शीघ्रं जन । तस्मादम्बुनिधेर्वरं लँघुरसरः कूपोऽथवा वापिका यत्र स्वीय- करद्वयेन सलिलं पेपीयते स्वेच्छया ॥ ३२ ॥ देवैर्द्यद्यपि तक्रवद्विमथित. केदारवद्वानरैर्बद्धः सिद्धवदञ्जनाविजुनुषा
१ नौकास्थिताः, नाविका इत्यथ २ नौकया व्यापार कुर्वाणा ३ दक्षिणभागे आवर्तो यस्यैतादृश शङ्ख ४ जानीहि ५ विष्णुपूजायोग्य ६ क्षुद्रशङ्खै
१ जलानाम् २ स्थानम् ३ पिपासा, पक्षे, -अर्थाभिलाष ४ अगस्त्य ५ शिखरिण पर्वतास्त एव पत्रिण पक्षिण ६ सवर्तकसंज्ञकैर्मेधै ७ ह्रस्वजलाशय
समुद्रान्योक्तयः २१७
कुल्यावदुल्लङ्घितः । किं चासीच्चुलुकेऽम्बुबिन्दुवदयं द्राक्कु-
म्भयोनेर्मुनेर्नातारोऽयमिति प्रथा जलनिधेरासीत्तथापि श्लथा
॥ ३३ ॥ पीयूषेण सुराः श्रिया मुररिपुर्मर्यादया मेदिनी
शक्रः कल्पद्रुहा शशाङ्ककलया श्रीशङ्करस्तोषितः । मैनाका-
हिनगा निजोदरगता सस्थानतः स्थापितास्त्वच्चूलीकरणे
घटोद्भवमुनिः केनापि नो वारितः ॥ ३४ ॥ हे हेलाजित-
बोधिसत्त्व वचसा किं विस्तरैस्तोयधे नास्ति त्वत्सदृश-
परः परहिताधाने गृहीतव्रतः । तृष्यत्पान्थजनोपकारघट-
नावैमुख्याल्लब्धायशोभारप्रोहने करोषि कृपया साहायकं
यन्मरोः ॥ ३५ ॥ पीयूषेण कृतार्थिता दिविषदो लक्ष्म्या
हरिः प्रीणितश्चन्द्रार्धेन विभूषितः पशुपतिः कल्पद्रुमैर्वासवः ।
आत्मानं परिपन्थिनोप्युदधिना किं किं न तेषा कृतं
तस्यागस्त्यमुनिप्रपीतपयसो नोच्चैः कृतैकाङ्गुलिः ॥ ३६ ॥
लक्ष्म्या श्रीपुरुषोत्तमो हिमरुचा गौरीप्रियोऽलंकृतो देवेन्द्रो-
ऽपि विमानवारणहयस्त्रीरत्नकल्पद्रुमैः । पीयूषैरमितैस्त्वया
दिविषदश्चान्ये कृतार्थीकृता श्रीमन्वारिनिधे त्वदीय महिमा
नूनं न वाग्गोचरः ॥ ३७ ॥ हहो वारिनिधे विधे समुचितं
येनासि रत्नाकरो रत्नाश्चेदवमन्यसे वद विभो नैतत्पदं
विन्दसि । पश्यालंकरणं पुरंदरपुरे चिन्तामणिः कौस्तुभो
विष्णोर्वक्षसि मीनकेतनरिपोः शीर्षे कलाना निधिः ॥ ३८ ॥
पीत्वा गर्जन्त्यपस्ते दिशि दिशि जलदास्तव शरण्यो गिरीणां
सुत्रामत्रासभाजां त्रिदशविटपिना जन्मभूमिस्त्वमेव ।
गाम्भीर्यं तच्च तादृक्त्वयि सलिलनिधे किंतु विज्ञाप्यमेतत्सं-
वॉपायेन मैत्रावरुणिमुनिकृपादृष्टयः काङ्क्षणीयाः ॥ ३९ ॥
क्षीरसागरः
दिशि दिशि गिरिग्रावाणः स्वा वमन्तु सरस्वतीं तुलयतु
मिथस्तामापातस्फुरद्धनिडम्बरान् । स परमपरः क्षीरोदन्वान्
यदीयमुदीर्यते मथितुरमृत खैदैच्छेदि प्रभोरनुमोदनम्
॥ ४० ॥ साकं ग्रावगणैर्लुठन्ति मणयो बालार्कबिम्बोपमा
नीरे नीरचरैः समं स भगवान्निद्राति नारायणः । एव वीक्ष्य
तवाविवेकम् च प्रौढि परासुम्नते किम निन्दाम्यथवा
स्तवीमि कथय क्षीरार्णव त्वामहम् ॥ ४१ ॥
अगस्त्यः
मुनिर्जयति योगीन्द्रो महात्मा कुम्भसंभवः । येनैक-
चुलुके दत्तौ दिव्यौ तौ मत्स्यकच्छपौ ॥ ४२ ॥ अखर्व-
पर्वगर्तैषु विच्छिन्नो यस वारिधिः । हा स एव मुनेः
घाणिरधस्ताद्द्गिन्यभूभृतः ॥ ४३ ॥ अहपीयसैव पयसा
यत्कुम्भः पूर्पते प्रसिद्ध तत् । ब्राह्मं तेजः पश्यत कुम्भो-
द्भूतः पपौ वारिधिम् ॥ ४४ ॥ गतोऽस्मि तीर जलधेः पिपा-
सया स चापि शुष्कश्चुलुकीकृतो मया । न लक्ष्यते दोष-
लवोऽपि तोयवेर्ममैव तत्कर्मफलं विजृम्भते ॥ ४५ ॥
कम्पन्ते गिरयः पुरंदरभिया मैनाकमुख्याः पुनः क्रन्दन्त्यम्बु-
धराः स्फुरन्ति वडवावक्रोद्गता वह्नयः । भो कुम्भोद्भव
मुच्यता जलनिधिः स्वस्त्यस्तु ते सांप्रत निद्रालुश्लथबाहुवल्लि-
कमलाश्लेषो हरिः सीदति ॥ ४६ ॥
रत्नानि
मणिलुंठति पादेषु काचः शिरसि धार्यते । यथै-
वास्ते तथैवास्तां काच काचो मणिर्मणिः ॥ ४७ ॥
अप्याकरसमुत्पन्ना मणिजातिरसंस्कृता । जातरूपेण कल्याणि
नहि संयोगमर्हति ॥ ४८ ॥ अनस्तमितसारस्य तेजसस्त-
द्विजृम्भितम् । येन पात्राणखण्डस्य मूल्यमल्पं वसुंधरा
॥ ४९ ॥ धन्योऽयं मणिरकरिच्छन्नो भिन्नश्च चक्रनिघृष्टः ।
युक्तस्तेजोनिचयैर्धन्यो दुःखेऽपि योऽधिकाभास ॥ ५० ॥
अष्ट नृपतिकिरीटाङ्गमौ पतितं तिरोहितं रजमा । विधि-
विलसितेन रव जनचरणविडम्बना सहते ॥ ५१ ॥ वपुः-
परीणाहगुणेन तेभ्यो यशस्विनः किं मणयो भवन्ति ।
तथापि चूडासु महीपतीना त एव खेलन्ति न गण्डशैलाः
॥ ५२ ॥ सिन्धुस्तरङ्गैरुपकल्प्य फेनान्तर्र्तानि पङ्केर्मलिनी-
करोति । तथापि तान्येव महीपतीना किरीटकोटीषु पदं
लभन्ते ॥ ५३ ॥ विरम रत्न सुधा तरलायसे तव न कश्चि-
दिहास्ति परीक्षकः । विविधशेन परिच्युतमाकरात्त्वमपि काच-
मणीकृतमीश्वरैः ॥ ५४ ॥ अनिभालित एव केवल खनि-
गर्भे निधिरेष जीर्यतु । न तु सीदतु मूल्यहानितो वणिजा-
लोकनगोचरीकृतः ॥ ५५ ॥ समुद्रेणान्तःस्थस्तटमुवि तरङ्गै-
रकरुणैः समुत्क्षिप्तोऽसीति त्वमिह परिताप त्यज मणे ।
अवश्यं कापि त्वद्गुणपरिचयाकृष्टहृदयो नरेन्द्रस्त्वा कुर्या-
न्निजमुकुटकोटिप्रणयिनम् ॥ ५६ ॥ पयोधेः सर्वस्व शिरसि
धृतवान् य नृपगण पणो यस्य क्षोणी चतुरुदधिसीमावधि-
रभूत् । स एवायं दैवाच्छबरवनितापार्णिपतितो मणिर्र्भव-
ग्रीवाद्धिगुणगुणबद्धो विहरति ॥ ५७ ॥ आघ्रात पैरलीढ-
मुग्रनखरै क्षुण्ण च यच्चर्वितं क्षिप्त यद्भूत नीरसत्त्वकुपिते-
नेति व्यथा मा कृथा । हे सद्रत्न तवैतदेव कुशलं यद्वा-
नरेणायहादन्तःसारविचारणव्यसनिना चूर्णीकृतं नाँश्मना
॥ ५८ ॥ उत्तसेषु न नर्तितः क्षितिभुजां न प्रेक्षकैर्लङ्घित
साकाङ्क्ष लुठितो न च स्तनतटे लीलावतीना क्वचित् ।
कष्ट भोशिरमन्तरेण जलधेर्देवाङ्गिर्शीर्णोऽभवत्खेल्बव्याल-
कुलाङ्घर्षेणपरीक्षणप्रमाणो मणिः ॥ ५९ ॥ ये गृह्णन्ति
हठात्तृणानि मणयो ये चाप्ययःखण्डकं ते दृष्टाः प्रतिधाम
१ भ्रमदरि २ पाषाणसमूहे ३ ब्राह्ममनेज प्रभाव ४ समुद्रम् | १ इन्द्रभयेन २ छादितम् ३ दैवदुविर्पाकेन ४ विशालता ५ आस्वादितम् ६ तत्परेण. ७ पाषाणेन ८ तेजोरहित.. | ५ आस्वादितम् ६ तत्परेण. ७ पाषाणेन ८ तेजोरहित.
२८ सु. र. भा.
| २१८ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

दग्धमण्ययो विच्छिन्नसख्याश्रियम् । नो जाने किमभावतः किमथवा दैवादहो श्रूयते नामाप्यत्र न तादृशस्य हि मणे रत्नानि गृह्णाति यः ॥ ६० ॥ यन्मुक्तामणयोऽम्बुधेरुदरतः क्षिप्ता महावीचिभिः पर्यन्तेषु लुठन्ति निर्मलरुचः स्पष्टाट्टहासा इव । तत्तस्यैव परिक्षयो जलनिधेर्दोपान्तरालम्बिनो रत्नानां तु परिग्रहव्यसनिनः सन्त्येव सौयात्रिकाः ॥ ६१ ॥ यत्रानुल्लिखितास्यमेव निखिलं निर्माणमेतद्विधेरुत्कर्षप्रतियोगिकल्पनमपि न्यक्कारकोटिः परा । याताः प्राणभृतां मनोरथगतीरुल्लङ्घ्य यत्सत्पदस्तस्याभासमणीकृतावसमसु मणेरश्मत्वमेवोचितम् ॥ ६२ ॥ काचाः काञ्चनभूषिताः कति न वा मुष्णन्ति रत्नश्रियं मौलौ वा कति नोद्वहन्त्युपधियस्तानेव रत्नभ्रमात् । अक्ष्णा ये पुनरुन्मृजन्ति तिमिरं यैर्नाम रत्नाकरः सिन्धुस्ते पृथगेव हन्त मणयस्तेभ्यस्त्वभिज्ञाः पृथक् ॥ ६३ ॥
वज्रमणिः यस्य वज्रमणेर्भेदे भिद्यन्ते लोहसूचयः । करोति तत्र किं नाम नारीनखविलेखनम् ॥ ६४ ॥
कौस्तुभमणिः न श्वेताशुवदन्धकारदलनादुद्द्योतिते रोदसी नाप्यैरावतवन्निरस्तदितिजत्रासः कृतो वासवः । नो चिन्तामणिरत्नवत्त्रिभुवने छिन्ना विपदर्थिनां भूत्वा तस्य हरेरुरःप्रणयिना किं कौस्तुभेनाजितम् ॥ ६५ ॥
चन्द्रकान्त-सूर्यकान्तौ सोमकान्तो मणिः स्वच्छः सूर्यकान्तस्तथा न किम् । उद्गारे तु विशेषोऽस्ति तयोरमृतवह्नयोः ॥ ६६ ॥
चन्द्रकान्तः सुधाकरकरस्पर्शाद्वहिर्द्रवति सर्वतः । चन्द्रकान्तमणेस्तेन मृदुत्वं लोकविश्रुतम् ॥ ६७ ॥
स्फटिकः स्फटिकस्य गुणे योऽसौ स एवायाति दोषताम् । धत्ते स्वच्छतया छायां यस्तां मलवतामपि ॥ ६८ ॥
मरकतः त्यज निजगुणाभिमानं मरकत पतितोऽसि पामरे वणिजि । काचमणेरपि मौल्यं लभसे यत्तदपि ते श्रेयः ॥ ६९ ॥ केनासीनः सुखमकरुणेनाकरादुद्धृतस्त्वं विक्रेतुं वा समभिलषितः केन वाऽस्मिन्कुदेशे । यस्मिन्वित्तव्ययभरसहो ग्राहकस्तावदास्तां नास्ति भ्रातर्मरकतमणे त्वत्परीक्षाक्षमोऽपि ॥ ७० ॥ आसीत्पूर्वं विमलजलधौ मण्डनं भूपतीनां नारीणां च प्रबलमुकुटे काञ्चनेन प्रसङ्गात् । तन्नीबद्धः कथमिदमहो काचखण्डेन सार्धं मिलीकण्ठे मरकतमणे कामवस्थां गतोऽसि ॥ ७१ ॥
माणिक्यम् पौरस्त्यैर्दाक्षिणात्यैः स्फुरदुरुमतिभिर्मित्र पाश्चात्यसङ्घैरौदीच्यैर्यत्परीक्ष्य क्षितिपतिमुकुटे न्यासि माणिक्यमेकम् । यद्येतत्किन्कथंचित्कथयति कृपणः कोऽपि मालिन्यमन्ये प्रेक्षावन्तस्तदा तं निरवधिजडतामन्दिरं संगिरन्ते ॥ ७२ ॥
काचः अज्ञतया प्रेम्णा वा चूडामणिमाकलय्य काचमणिम् । नृपतिर्वहते शिरसा तेनासौ न ह्यनर्घ्यमणिः ॥ ७३ ॥
शङ्खः अन्तःकुटिलता बिभ्रच्छङ्खः स खलु निष्ठुरः । हुंकरोति यदा ध्मातस्तदैव बहु गण्यते ॥ ७४ ॥ उच्चैरुच्चरति चिरं झिल्ली वर्त्मनि तरुं समारुह्य । दिग्द्यापिनि शब्दगुणे शङ्खः समावनाभूमिः ॥ ७५ ॥ कीटगृहं कुटिलोऽन्तःकठिनः क्षाराम्बुसंभवः शून्यः । शङ्खः श्रीपतिनिकटे केन गुणेन स्थितिं लेभे ॥ ७६ ॥ जलनिधौ जननं धवलं वपुसुररिपोरपि पाणितले स्थितिः । इति समस्तगुणान्वित शङ्ख भो कुटिलता हृदये न निवारिता ॥ ७७ ॥ ध्वनिरतिमधुरः शुचित्वमुच्चैर्जनिरपि शङ्ख नदीनतस्तवाभूत् । अवगतमखिलं बहिरस्त्वेदं कुटिलतरं पुनरन्तरं न विज्ञम् ॥ ७८ ॥ क्व वाऽम्भोथौ जन्म क्व च वपुरिदं कुन्दधवलं क्व चावासस्थानं कृतमहह विष्णोः करतलम् । क्व नीचानामास्ये परिणतिरियं चुम्बनविधावितीवायं शङ्खः करुणकरुणं रोदिति मुहुः ॥ ७९ ॥ तातः क्षीरनिधिः स्वसा जलधिजा भ्राता सुरेशद्रुमः सौजन्यं सह कौस्तुभेन शुचिता यस्य द्विजेशादपि । धिक्कर्माणि स एव कम्बुरधुना पाखण्डकान्तारे विश्रान्तः प्रतिवासरं प्रतिगृहं भैक्ष्येण कुक्षिभरिः ॥ ८० ॥
पाञ्चजन्यः सर्वाशापरिपूरिहुंकृतिमदो जन्मापि दुग्धोदधेर्गोविन्दाननचुम्बि सुन्दरतरं पूर्णेन्दुबिम्बाद्वपुः । श्रीरेशा सहजा गुणाः किमपरं मन्यन्त एते हि यत्कौटिल्यं हृदि पाञ्चजन्य भवतस्तेनातिलज्जामहे ॥ ८१ ॥ शङ्खाः सन्ति सहस्रशो जलनिधेर्वीचिच्छटाघट्टिताः पर्यन्तेषु लुठन्ति ये दलशतैः कल्माषितक्ष्मातलाः । एकः कोऽपि स पाञ्चजन्य उदभूदाश्चर्यधामा सतां यः सर्वर्तुभरक्षमैरधुरिपोः श्वासानिलैः पूर्यते ॥ ८२ ॥
नद्यन्योक्तयः
तटिनि चिराय विचार्य विन्ध्यभुवस्तव पवित्रायाः । शुष्यन्त्या अपि युक्तं किं खलु रथ्योदकादानम् ॥ १ ॥
कतिपयदि वसस्थायी पूरो दूरोन्नतोऽपि भविता ते । तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ २ ॥
यास्यति जलधरसमयस्तव च समृद्धिर्लघीयँसी भविता । तटिनि तटद्रुमपातनपातकमेकं चिरस्थायि ॥ ३ ॥
कुरु गम्भीराशयता
पादटिप्पण्यः (Footnotes):
१ नौकाव्यापारिणः २ हीरकमणे ३ नीचे ४ भूषणम् ५ काचमणिना ६ सह
१ अमूल्यं २ कौटिल्यम् ३ नदीनः सरित्पतिस्तस्मात् ४ कुन्दपुष्पवच्छुभ्रम् ५ भगिनी ६ लक्ष्मीः ७ अल्पतरा.
नद्यन्योक्तयः, तडागान्योक्तयः २१९
कल्लोलैर्जनय लोकविश्रान्तिम् । वीतपयोधरलक्ष्मीः कस्य न चरणैर्विलङ्घ्यासि ॥ ४ ॥ मलयस्य गिरेरपत्यमादौ तदनु आत्तवती पटीरवृक्षैः । किमु चित्रमपाम्निधेः कलत्रं तटिनी कांचन मौक्तिकानि सूते ॥ ५ ॥ नावतों न च तरलास्तरंगमाला नेदानीं जलरयजा रवाः करालाः । सैव त्वं तटिनि तटद्रुमान्विपात्य प्रौढानामपयशसामिवासि पात्रम् ॥ ६ ॥ छायां प्रकुर्वन्ति नमन्ति पुष्पैः फलानि यच्छन्ति तटद्रुमा ये । उन्मूल्य तानेव नदी प्रयाति तरंगिणा कः प्रतिपन्नमस्ति ॥ ७ ॥ न वारयामो भवतीं विशन्तीं वर्षानदि स्रोतसि जाहुजायाः । न युक्तमेतत् पुरो यदस्यास्तरंगभङ्गानप्रकटीकरोषि ॥ ८ ॥
गङ्गा
यद्यपि दिशि दिशि सरितः परितः परिपूरिताम्भसः सन्ति । तदपि पुरंदरतरुणीसंगतिसुखदायिनी गङ्गा ॥ ९ ॥ स किमु सहेत सुधांशुः खरहरभालानलज्वाला । शिशिरैः शीकरनिवहैः सिञ्चति सुरनिम्नगा नो चेत् ॥ १० ॥
शोणः
आजन्मस्थितयो महीरुह इमे कूले समुन्मूलिताः कल्लोलाः क्षणभङ्गुरा पुनरमी नीताः परामुन्नतिम् । अन्तर्गृहपरिग्रहो बहिरपि भ्राम्यन्ति गन्धद्विपा भ्रातः शोण न सोऽस्ति यो न हसति त्वत्संपदां विप्लवान् ॥ ११ ॥
तडागान्योक्तयः
आगच्छतामपूर्णानां पूर्णानामपि गच्छताम् । यद्ध्वनिर्न सघट्टा घटानां किं सरोवरम् ॥ १ ॥ अयमवसरः सरस्ते सलिलैरुपकर्तुमर्थिनामनिशम् । इदमतिसुलभं चाम्भो भवति पुरा जलधराभ्युदये ॥ २ ॥ कस्य तृषं न क्षपयति पिबति न कस्तव पयः प्रविख्यान्तं । यदि सन्मार्गसरोवर नक्रो न क्रोडमधिवसति ॥ ३ ॥ तानि तानि कमलानि तज्जलं तानि षट्पदकुलानि ते खगाः । सर्वमेकपद् एव विच्युतं पङ्कशेषमचिरादभूत्सरः ॥ ४ ॥ विहगैर्गतं मधुकैरैश्चलितं प्रकरैः प्रयातर्गाप पद्मदृशाम् । विभवे गते सकलमेव गतं ध्रुवमेकमन्वति यशः सरसः ॥ ५ ॥ आपेदिरेऽम्बरपथं परितः पतङ्गा भृङ्गा रसालमुकुलानि समाश्रयन्ति । सङ्कोचमृर्छति सरस्त्वयि दीनदीनो मीनो नु हन्त कतमां गतिमभ्युपैतु ॥ ६ ॥ इयत्या संपत्तावति च सलितानां त्वमधुना न तृष्णमार्तानां हरसि यदि काँसार सहसा । निदाघे चैण्डांशौ किरति परितोऽङ्गारनिकरं कृशीभूतः केषामहह परिहृतासि खलु ताम् ॥ ७ ॥ क्रोञ्चः क्रीडतु कूंर्दता च कुर्गः कङ्कः परिश्चव्यता मँदुमीद्यतु सारसश्च रमतु प्रोड्डीयता टिट्टिभः । भेकाः सन्तु बका वसन्तु चरतु स्वच्छन्दमाटिस्तटे हंसः पद्मस्रः कुतः कतिपयैह॒मैर्विना श्रीस्तव ॥ ८ ॥ एतस्मिन्रमण्डले परिचलत्कल्लोलकोलाहलक्रीडत्कङ्कमपङ्कमङ्कविलसञ्चि शङ्कमत्स्यव्रजम् । केनेदं विकमत्कुशेशयकुटीकोणक्वणत्पदपदं ख्रैणश्रीणितपान्थमुज्ज्वलजलं चक्रे विगाले सरः ॥ ९ ॥ स्लोकाम्मःपरिवर्तिताङ्गशफरीग्रासार्थिनः सर्वतो लप्स्यन्ते बकटिट्टिभप्रभृतयः खल्पेषु साधु स्थितिम् । सद्यः शोषमुपागतेञ्च सरसि श्रीमद्यपद्माकरे तस्मिन्यङ्कजिनीविलासहरुचयो हंसाः क्व यास्यन्त्यमी ॥ १० ॥ माद्यद्दिग्गजदानलिप्तकटप्रक्षालनक्षोभिता व्योम्नः सीम्नि विचैरुग्ग्रतिहता यस्योर्मयो निर्मलाः । कष्टं भाग्यविपर्ययेण सरसः कल्पान्तरस्थायिनस्तस्याप्येकबकप्रचारकलुषं कालेन जातं जलम् ॥ ११ ॥ रे पद्माकर यावदस्ति भवतो मध्ये पयः पूरितं तावच्चकचकोरकङ्ककुररश्रेणीं समुल्लासय । पश्चाच्च समटद्वकोटचटुलत्रोटीपुटव्याहतिश्रुत्यर्कर्कटकपरव्यतिकरैर्निन्दास्पदं यास्यसि ॥ १२ ॥ याते मय्यचिरान्निदाघमिहिरैर्ज्यालाशर्तैः शुष्कतां गैन्ता कं प्रति पान्थसततिरसो संतापमालाकुला । एव यस्य निरन्तरौधिपटलैर्नित्यं वपुः क्षीयते धन्यं जीवनमस्य मार्गसरसो धिग्द्वारिधीनां जडुः ॥ १३ ॥ सोपानानि तिरोहितानि पदवी छन्ना तृणैर्नूतनैः कालुष्यं पयसा विलोक्य शनकैरूड्डीय हंसा गताः । माधुर्यं न मधुर्रतोदितगिरां पद्मानि मम्रानि के मेकानामिह गर्जितं पग्महो बुद्ध्वैव नष्टं सरः ॥ १४ ॥ आपूयेंत पुनः स्फुरच्छफरिकासारोंर्मिभिर्वारिभिर्भूयोऽपि प्रविजृम्भमाणनलिनं पश्येम तोयाशयम् । इत्याशाशततन्तुबद्धहृदयो नक्तंदिवं दीनधीः शुष्यत्तातपशोषितस्य सरसस्तीरे जरत्सारसः ॥ १५ ॥ उद्दानाम्बुदवर्धमानशिखिनीकेकातिरेकाकुले संप्राप्यं सलिलं स्थलेष्वपि सदा निस्तर्षवर्षार्गमे । भीष्मग्रीष्मभटे परस्परभयादालोच्यमानं सुहृद्दीनं मीनकुलं न पालयसि चेत्कासार का सारता ॥ १६ ॥ सौवर्णः कमलाकरः शशिशिलासोपानबन्धक्रमो वारि क्षीरसहोदरं तटतरुश्रेणीसुखाः क्षोणयः । सर्वं ते रुचिरं सरोवर परं निन्द्यः कुतोऽयं विधिः कूटग्राहमयात्मयान्ति विमुखाः पान्था निदाघेऽप्यमी ॥ १७ ॥ उड्डीतं विहगैर्मृतं जलचरैः क्ष्मान्तर्गतं कच्छपैः पाठीनैः पृथुपङ्कपीठलुठनाथक्सिर्मुहुर्मूच्छितम् । तस्मिन्नेव
पादटिप्पण्यः (Footnotes)
वामभागः (Left Column): १ पुष्पैः सह फलानि ददतीत्यर्थः २ तरंगवच्चपलत्वभावानाम् ३ अङ्गीकृतम् ४ इन्द्रस्त्रीणां रम्भोर्वश्यादीनां समागमसुखदात्री ५ आकाशमार्गम् ६ प्राप्नुवति सति ७ हे सर ८ ग्रीष्मे ९ सूर्ये
दक्षिणभागः (Right Column): १ खेलतु २ जलकाकः ३ सूर्यः ४ गमिष्यति ५ मनोव्यथापरम्पराभिः ६ मार्गे यत्सरोवरं तस्य
| २२० | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

सरस्यकालजलदेनागत्य तच्चेष्टितं येनाकुम्भनिमग्नमग्न्यकरिणा यूथैः पय पीयते ॥ १८ ॥ हंसैर्लब्धप्रशंमस्तरलिकतमलसस्तरङ्गैरस्तरगैर्नीरैरन्तर्गभीरैश्चपलवककुलत्रासलीनैश्च मीनै । पालीस्रुद्धमालीतलसुखशयितस्त्रीप्रणीतैश्च गीतैर्भाति प्रक्रीडदातिस्तवलसिलचलच्चक्रवाकस्तडागः ॥ १९ ॥
मानसम्
नो वा कियन्त. परित स्फुरन्ति जलाशया निर्मलभूरितोया । सदावदात परमेकमेव हंसस विश्रामपदं वदन्ति ॥ २० ॥
कूपान्योक्तयः
हे कूप त्वं चिर जीव स्वल्पतोये बहुव्यय । गुणवद्रिक्तपात्राणि प्राप्नुवन्ति हि पूर्णताम् ॥ १ ॥ रे कूप जीवनागार यदि दातृत्वमिच्छसि । तदा त्व गुणवत्पात्रमेक वा सनिधौ कुरु ॥ २ ॥ अमुना मरुकूपेन के के नाम न वञ्चिता । रुदत्पथिकनेत्राम्बुपिच्छिलप्रान्तभूमिना ॥ ३ ॥ संगुणे सेवितोपान्तो विनते प्राप्तदर्शन । नीचोऽपि कूप. सत्पात्रैर्जीवैनार्थ समाश्रित ॥ ४ ॥ यद्यपि बहुगुणगम्य जीवनमेतस्य कूपमुख्यस्य । जयति तथापि विवेको दान पात्रानुमानेन ॥ ५ ॥ नितरां नीचोऽस्मीति त्व खेदं कूप मा कदापि कृथाः । अत्यन्तसरसहृदयो यत. परेषा गुणग्रहीतासि ॥ ६ ॥ चित्र न तद्यदयमम्बुधिरम्बुधौघसिन्धुप्रवाहपरिपूरणया महीयान् । त्व त्वर्थिनामुपकरोषि यदल्पकूप निष्पीड्य कुक्षिकुहर हि महत्त्वमेतत् ॥ ७ ॥ दिनमवसित विश्रान्ता. म्व त्वया मरुकूप हे परमुपकृतं शेष वक्तुं वयं न पुन: क्षमा. । भवति सुकृतैरध्वन्यानामशेषजलो भवानियमपि घनच्छाया भूयात्तवोपतटं शमी ॥ ८ ॥ भीर्मश्यामप्रतनुवदन कूपपातालकुक्षिक्रोडप्रान्तोपहितविभवत्साथ कि ते ब्रवीमि । येन् त्वत्त समभिलषितं वाञ्छनः क्षुद्र कूप क्राम्यन्मूर्तेर्भवति सहसा कस्य नाधोमुखत्वम् ॥ ९ ॥
मरुस्थलान्योक्तयः
मरौ नास्त्येव सलिलं कृच्छ्राद्यद्यपि लभ्यते । तत्कटु स्तोकमुष्णं च न करोति वितृष्णताम् ॥ १ ॥ सत्पादपान्विपुलपल्लवपुष्पभारसत्पत्रीतवपुष. फलभारनम्रान् । यो मञ्जुसिञ्जितशकुन्तशताश्रितो रुशाखान्मरौ मृगयते न ततोऽस्ति मुग्धः ॥ २ ॥ पायं पाय पिब पिब पय. सिञ्च सिञ्चाङ्गमङ्गं भूयो भूयः कुरु कुरु सखे मज्जनोन्मज्जनानि । एषोऽशेष-
श्रमशमपटुर्दु खिताध्वन्यबन्धु. सिन्धुर्दुरीभवतु भवतो मारवः पान्थ पन्था. ॥ ३ ॥ कल्याण नः किमधिकमितो जीवनार्थ यतस्त्वं छित्त्वा वृक्षानहह दहसि भ्रातरङ्गारकार । नन्वेतस्मिन्नशनिपिशुनैरातपैराकुलानामध्वन्यानामशरण मरुप्रान्त रे कोऽभ्युपायः ॥ ४ ॥ किमसि विमतिः किं चोन्मादी क्षणादमिलक्ष्यसे पुनरपि सखे प्रेक्षापूर्वा न काचन ते क्रिया । स्वयमजलदा जानानोऽपि प्रविश्य मरुस्थली शिशिरमधुर वारि प्रातुं यदध्वग वाञ्छसि ॥ ५ ॥ भो भोः किं किमर्कोऽण्ड एव पतितस्त्वं पान्थ कान्व्या गतिस्तत्तादृक्तृषितस्य मे खलमतिः सोऽयं जल गृह्णते । अस्थानोपगतामकालसुलभा तृष्णा प्रति क्रुध्य हे त्रैलोक्यप्रथितप्रभावमहिमा मार्गोऽस्त्यसौ मारव. ॥ ६ ॥
दावानलान्योक्तयः
हे दावानल शैलाग्रवासिन साधुशाखिन. । मुग्ध व्यर्थे त्वया दग्धा प्रेरितेन प्रेमञ्जनैः ॥ १ ॥ यस्या महत्त्वभाजो भवन्ति गुणिनोऽमिता धनुर्दण्डा । दहतस्ता वंशांलि को वनवह्ने विवेकस्ते ॥ २ ॥ दवदहनादुत्पन्नो धूमो घनतामवाप्य वर्षस्तम् । यच्छमयति तद्युक्तं सोऽपि च दवमेव निर्दहति ॥ ३ ॥ अभ्युन्नतेऽपि जलदे जगदेकसारसाधारणप्रणयहारिणि हा यदेते । उल्लासलास्यललितं तरवो न यान्ति हे दावपावक स तावक एव दोषः ॥ ४ ॥ छाया फलानि मुकुलानि च यस्य विश्वमाह्लादयन्ति सहकारमहीरुहस्य । आमृष्य तस्स शिखया नवपल्लवानि मक्ष्नासि रे दवहुताश हताश कथम् ॥ ५ ॥ दुर्दैवप्रभवप्रभञ्जनभयादुद्भूत भूमीरुहानेतान्सत्त्वगुणाश्रयानकरुणः शुष्यन्किमुन्माद्यसि । ब्रूमस्त्वा वैनहव्यवाह यदमी दग्धार्धदग्धा अपि द्रष्टव्यास्तव तत्क्षणाद्द्विलयिनो नामापि न ज्ञायते ॥ ६ ॥ विध्वस्ता मृगपक्षिणो विधुरता नीता. स्थलीदेवता धूमैरन्तरिताः स्वभावमलिनैराशा मही तापिता । मसीकृत्य सपुष्पपल्लवफलैर्नाम्नान्महान्पादपान्दुष्टेन दवानलेन विपिनं वल्मीकशेषं कृतम् ॥ ७ ॥ दिक्कचक्र तृणभक्षना कवलितं मूलान्यपि क्ष्मारुहा निर्दग्धानि न चार्मकोऽपि हरिणीयूथस्य शेषीकृतः । आ. कष्टं विपिनौकसोऽपि मुनयः पुष्टाः कृतान्तक्रिया कृत्वेत्थं वनवह्निना किमथुना शान्तेन दीसेन वा ॥ ८ ॥
वडवानलः
तेजांसि यस्य प्रथमं प्रयान्ति वारा प्रवाहेण स वह्निरन्यः । अयं पुनर्वादवनामधेयः समुद्रमापीय बिभर्ति तेजः ॥ ९ ॥
पादटिप्पण्यः (Left Column): १ रज्जुसहितं, पक्षे,-गुणयुक्तै २ उदकार्थम् ३ अत्यन्तम् ४ निम्न ५ रमयुक्तं हृदयं यस्य ६ भीम भयकर श्यामं अन्धकारयुक्तत्वान् प्रतनु सकुचित मुख यस्य
पादटिप्पण्यः (Right Column): १ अनचित्त्याने २ वायुभि ३ असख्या ४ वेणु पङ्किम् ५ वनानले
व्योमचरान्योक्तयः २२१
व्योमचरान्योक्तयः
गरुडः
दामोदरमुदराहितभुवनं यो वहति लीलया गरुडः ।
कस्य तरोरुपरिष्टात्खिन्नोऽसौ श्रान्तिमपनयतु ॥ १ ॥ अहि-
रहिरिति संभ्रमपदमितरजनः किमपि कातरो भवतु ।
विहँगपतेराहारे स तु सरलमृणालदलरुचिर ॥ २ ॥
हंसः
कंमारिचरणोद्गतसिन्धुकलोललालितम् । मन्ये हंस
मनो नीर कुल्याना रमते न ते ॥ ३ ॥ अस्ति यद्यपि
सर्वत्र नीर नीरजमण्डितम् । रमते न मरालस्य मानसं
मानसं विना ॥ ४ ॥ एकेन राजहंसेन या शोभा सरसो
भवेत् । न सा बकसहस्रेण परितस्तीरवासिना ॥ ५ ॥
हंस श्वेतो बक श्वेत को भेदो बकहंसयोः । नीरक्षीर-
विभागे तु हंसो हंसो बको बकः ॥ ६ ॥ बककोयष्टिभिर्जुष्टे
पल्वले मानस कुत । मोदते हि मरालस्य सन्मानसविहा-
रिण ॥ ७ ॥ अपसरणमेव शरणं मौन वा तत्र गज-
हसस्य । कटु रटति निकटवर्ती वाचाटट्टिट्टिभो यत्र ॥ ८ ॥
यदि नाम दैवगत्या जगदसरोज कदाचिदपि जातम् ।
अँचकरनिकर विकिरति तत्किं कृकवाकुरिव हंसः ॥ ९ ॥
नीरक्षीरविवेके हंसालस्यं त्वमेव तनुषे चेत् । विश्वस्मिन्न-
धुनान्य कुलव्रतं पालयिष्यति क ॥ १० ॥ सैव सैव
सरसी रमणीया यत्र यत्र वलते तव राग । राजहंस
रसिक स्मरणीया श्रीमत्तो तदपि मानसकेलिः ॥ ११ ॥
गाङ्गमम्बु सितमम्बु यामुनं कज्जलाभमुभयत्र मज्जत ।
राजहंस तव सैव शुभ्रता चीयते न च न चापचीयते ॥ १२ ॥
कचिदेव समय समागतं त्वा न विस्मरति शश्वदम्बुजम् ।
मानसे विहर हस मानसे मा विमुञ्च पुनरस्म मौढ्यम्
॥ १३ ॥ यत्रापि कुत्रापि भवन्ति हंसा हंसा महीमण्डल-
मण्डनानि । हानिस्तु तेषा हि सरोवराणां येषां मरालै सह
विप्रयोग ॥ १४ ॥ अम्भोजिनीवनविलासमनमेव हन्त
हंसस्य हन्तु नितरां कुपितो विधाता । न त्वस्य दुग्धजल-
भेदविधिप्रसिद्धा वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः ॥ १५ ॥
भृङ्गाङ्गनाजनमनोहरहारिगीत राजीवरेणुकणकीर्णपिशङ्गस्तो-
याम् । रम्या हिमाचलसदीं प्रविहाय हंस हे हे हताश वद
का दिशमुत्सुकोऽसि ॥ १६ ॥ स्थित्वा क्षण विततपक्षति-
नान्तरिक्षे मातङ्गसङ्गकलुषा नलिनी विलोक्य । उत्पन्नमन्यु-
परिघर्घरनिःस्वनेन हंसेन साक्ष परिवृत्य गतं नलिन्याः
॥ १७ ॥ रे राजहंस किमिति त्वमिहागतोऽसि योऽसौ बक.
स इह हंस इति प्रतीतः । तद्गम्यतामनुपदेन पुनः स्वभूमी
यावद्वदन्ति न बक खलु मूढलोकः ॥ १८ ॥ ये वर्धिताः
कनकपङ्कजरेणुमध्ये मन्दाकिनीविमलनीरत गङ्गे । ते
सांप्रतं विधिवशात्खलु राजहंसा शेवालजालजटिल जल-
माश्रयन्ते ॥ १९ ॥ हा हन्त मानससर मलिनावतंस रे
राजहंस पयसो प्रविवेचनाय । चेच्छक्तिमान्खलु भवान्न
तदा किमु स्यात्किवा करोतु उन या कृतवेडूयोत ॥ २० ॥
नेद सर मग्स्वति न वारिज वा नैतन्मधूनि मधुपो मह-
न्नामिनो वा । हेमाविंदुवन्दन गिल्लाममजो र हंस मान-
सजुषम्भव मानसेऽपि ॥ २१ ॥ हंस प्रयाति शनकैर्यदि
यातु तस्य नैसर्गिकी गतिरिय नहि तत्र चित्रम् । गत्या
तया जिगमिषुर्बक एव मूढश्चेतो दुनोति सकलस्य जनस्य
नूनम् ॥ २२ ॥ मुक्ता मृणालपटली भवत। निपीतान्य-
म्बूनेि यत्र नलिनानि निषेवितानि । रे गजहस वद तस्य
सरोवरस्य कृत्येन केन भवितासि कृतोपकार ॥ २३ ॥ तरौ
तीरोद्भूते कचिदपि कलच्छादिततनु पतद्भागसार। गमय
विषमा प्रावृषमिमाम । निवृत्याया तस्या मनि मरसोत्फु-
ल्लनलिने स एव त्व हंस पुनरपि मिलामास्त इह ते
॥ २४ ॥ गतं तद्गाम्भीर्य नटमपि चिन जालिकशनैः सखे
हंसोत्तिष्ठ त्वारेतममुतो गच्छ सग्स ! न यावत्पङ्कान्त कलु-
षिततनुर्भूरिवेलमद्दूकोऽसौ वाचालश्चरणयुगलं मूर्ध्नि कुरुते
॥ २५ ॥ पुग सरसि मानसे विकचमारसालिखलत्पराग-
सुरमीकृते पयसि यस्य यातं वय । स पल्वलजलेऽधुना
मिलदनेकमैकाकुले मरालकुलनायक कथय रे कथ वर्ते-
ताम ॥ २६ ॥ वातान्दोलितपङ्कजम्थितरजःपुञ्जाङ्गरागो-
ज्ज्वलो यः शृण्वन्कलकूजितं मधुलिहा सजातहर्षः पुरा ।
कान्ताचञ्चुपुटापवर्जितबिसग्रासग्रहेऽप्यक्षम सोऽयं संप्रति
हसको मरुगत काँप पयो याचते ॥ २७ ॥ यो दिव्या-
म्बुजलोलमत्तमधुपप्रोद्गीतरम्य सरस्त्यक्त्वा मानससल्पवा-
रिणि रति बध्नाति कैदारिके । तस्यालीकखुखाशया परिभव-
क्रोडीकृतस्साधुना हससोपरि टिट्टिभो यदि पदं धत्तेऽत्र
को विस्मयः ॥ २८ ॥ अन्या सा सरसी मराल मुनिभिर्य-
त्सीरसोपानिकाविन्यस्तास्तिततण्डुलानकवलयन्नेष्टोऽसि हृष्टै-
र्मुखैः । एषा पक्वणवापिका कमलिनीखण्डेन गुप्तात्म-
भिर्व्याधैस्त्वाद्विधमुग्धबन्धनविधौ कं नाम नो सूच्यते
॥ २९ ॥ कस्त्व लोहितलोचनाखचरणो हंसः कुतो
मानसात्किं तत्रास्ति सुवर्णपङ्कजवनन्वान्यम्भ. सुधासंनि-
भम् । रत्नाना निचया प्रवालमणयो वैडूर्यरोगहाः कचिव्छै-
म्बूका अपि सन्ति नेति च बकैराकर्ण्य हीहीकृतम् ॥ ३० ॥
य संतापमपाकरोति जगता यश्चोपकारक्षम. सर्वेषाममृता-
पादटिप्पण्यः (Footnotes)
| वामभागः | दक्षिणभागः |

| १ उदरे आहित स्थापित भुवन ब्रह्माण्ड येन | १ अल्पलाशयजले |
| २ श्रान्त | २ दर्दुरवासे |
| ३ गरुडस्य | ३ रक्तम् |
| ४ विष्णु | ४ जलशुक्तय |
| ५ कृत्रिमसरिताम् | |
| ६ मानससरोवरम् | |
| ७ सुकरसचयम् | |
| ८ ताम्रचूड | |
| ९ चातुर्यम् |
२२२ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
लसन्न ... या प्रीणाति नेत्राणि यः । तस्याप्यप्रतिमम्बुदस महतॊ... त्वमेतावता वर्णेनैव परं मगल धवल कृष्ण- श्रॆश्चैरभि ॥ ३१ ॥ आकारः कमनीयता कुलगृहं लीला ल... सा गति संपर्कः कमलालये कलतया लोकोत्तरं कूजितम् । सर्वं गुणस्पदमस्ति महती तस्यातिमध्यस्य ते सर्वद्रवत्वमसह्यमङ्गकलहे नाहं सहे हंस हे ॥ ३२ ॥ नद्यो ... विगता दुग्धपयसः कूपाः पयोराशय क्षारा दुष्टवकोट- सङ्कटनटोदेशास्तडागादयः । इत्थं भूतल आकर्लय्य मक- लाह्नन्म्योनिवेशानिति त्वा भो मानस सङ्गमपुन्नरसो हंसं. समभ्यागत. ॥ ३३ ॥ हंसी वेत्ति परागपिञ्जरतनुः कुत्रापि पद्मावरे प्रेयान्मे विसकन्दलीकिसलयं भुङ्क्ते ह्ययं निर्वृतः । नो जानति तपस्विनी यदनिशं जम्बालमालोडयञ्शैवाला- ङ्कुर...यसों न हन्ते हंसो विशीर्णच्छदः ॥ ३४ ॥ म्लाना नलिनी जलानि किरणैः सूर्यस्य शोषं ययुर्नाशं प्राप विहंगमावलिरियं तृष्णाविशीर्णेक्षणा । एते तीरुमहीरुहा अपि पतत्यश्रुश्चिरोऽद्यापि रे कोऽय राजमराल शुष्कसरसी- तीरे रतिप्रक्रम ॥ ३५ ॥ एषा पुष्करिणी म्रराल मलिनै श्छन्ना कुवीथीजलैर्य्यामञ्जतया विवेरकृपया चेद्द्रस्तुमाका- ङ्क्षसे । विश्रम्भो वकमण्डलेषु विनयो भेकेषु सबन्धिता रात्र्यन्वेषु विधीयता कृपणता कोयष्टिकश्रेणिषु ॥ ३६ ॥ पीत येन पुरा पुरंदरपुरे रम्भीरुकेलिखलन्मन्दारद्रुमकर्ण- पूरसुरभि स्वर्गापगाया पयः । सोऽय मारववारि पामरवधू- पादार्पणप्रोच्छलत्पङ्काङ्कितभेकभिन्नमघृणो हंसः समाशंसते ॥ ३७ ॥ काके काष्ण्येमलौकिक धवलिमा हंसे निसर्ग- स्थितौ गाम्भीर्ये महदन्तर वचसि यो भेदः स किं कथ्यते । एतावत्सु विशेषणेष्वपि सखे यन्नेदमालोक्यते के काकाः खलु के च हंसशिशवो देशाय तस्मै नमः ॥ ३८ ॥ क्रुङ्खो- लूकनखप्रपातविगलत्पक्षा अपि श्वाश्रय ये नोञ्झन्ति पुरीष- पुष्टवपुषस्ते केचिदन्ये द्विजाः । ये तु स्वर्गतरङ्गिणीबिसलता- लेशेन संवर्धिता गाङ्गं नीरमपि त्यजन्ति कलुषं ते राजहंसा वयम् ॥ ३९ ॥ भो हंसास्तावदम्भोरुहकुहररजोरञ्जिताङ्गाः सहेलं हंसीभिः पद्मखण्डे मधुरमधुकरारावरम्ये रमध्वम् । यावन्नाय दुरन्तो हरगलगरलव्यालयजालालिनीलोन्मील- न्मेघमालामलिनसकलदिङ्मण्डलोऽभ्येति कालः ॥ ४० ॥
मधुकरः
सैरजस्का पाण्डुवर्णा कण्टकप्रैंकराङ्किताम् । केतकीं सेवसे हन्त कथं रोलैम्ब निर्ह्वप ॥ ४१ ॥ फलाना च दलाना च सन्तु ते ते विवेकिनः । मकरन्दविशेषज्ञो मिलिन्दमपहाय कः ॥ ४२ ॥ पलाशकुसुमभ्रान्त्या शुकतुण्डे पतत्यैलि । सोऽपि जम्बूफलभ्रान्त्या तमलिं धर्तुमिच्छति ॥ ४३ ॥ कचित्कचिदियं यातु स्थातुं प्रेमवशंवदः । न विस्मरति तत्रापि गजीवं भ्रमरो हृदि ॥ ४४ ॥ भ्रम भ्रमर यूथीषु मालतीषु चिरं मिल । मा पुन पङ्कजारण्यस्नेह- शून्य मन कृथा ॥ ४५ ॥ मधुपे मालतीपुष्प सतृष्णं यातुमुद्यते । हन्त दैवादुपागम्योपात्तमारण्यकेन तत् ॥ ४६ ॥ मधुकर तव करनिकरैः कि कि क्रान्तं वनं न कुसुमानाम् । तद्वद् सरसिजकमले लब्धं किंचिद्यदन्यतस्तत्किम् ॥ ४७ ॥ गौरी चम्पककलिकामपहाय भ्रान्तदुर्बुद्धे । शाल्मलिकुसुम- दलेषु स्वैर गुञ्जन् लज्जसे मधुप ॥ ४८ ॥ मैदनमवलोक्य निष्फलमनित्यता बन्धुजीवकुसुमानाम् । वनमुपगम्य भ्रमरः सप्रति जातो जपासक्त ॥ ४९ ॥ अपसर मधुकर दूरं परि- मलबहुलेऽपि केतकीकुसुमे । इह न हि मधुलवलाभो भवति पर धूलिधूमर वदनम् ॥ ५० ॥ कृत्वापि कोशपानं भ्रमरयुवा पुरत एव कमलिन्याः । अभिलषति बकुल- कलिका मधुलिहि मलिने कुतः सत्यम् ॥ ५१ ॥ येनामन्द- मरन्दे दलदरविन्दे दिनान्यनायिषत । कुटजे खलु तेनेहे तेने हा मधुकुरेण कथम् ॥ ५२ ॥ अमरतरुकुसुमसारैर्मे- सेवनसम्पूर्णकामस्य । पुष्पान्तरसेवेयं भ्रमरस्य विडम्बना महती ॥ ५३ ॥ इह रूपमात्रसारे चित्रगते कनककह्लारे । न रसो नापि च गन्धो मधुकर बन्धो मुधा भ्रमसि ॥५४॥ अपनीतपरिमलान्तरकत्थे पद न्यस्य देवरुकुसुमे । पुष्पा- न्तरेऽपि गन्तु वाञ्छसि चेद्भ्रमर धन्योऽसि ॥ ५५ ॥ मलि- नेऽपि रागपूर्णा विकसितवदनाममल्पजल्पेऽपि । त्वयि चपलेऽपि च सरसा भ्रमर कथ वा सरोजिनीं त्यजसि ॥ ५६ ॥ नन्दनजन्मा मधुपः सुरतरुकुसुमेषु पीतमकरन्द । दैवादवनिमुपेतः कुटजे कुटजे समीहते वृत्तिम् ॥ ५७ ॥ दूरतया स्थूलतया नीलतया दानलोलुपैर्मधुपैः । भ्रमित- मिभराजधिया हन्ताभूद्दन्ततो महिषः ॥ ५८ ॥ नष्टे वारिज- विपिने कष्टे नष्टेऽथ मालतीनिकरे । तत्कि जीवति लोके मूलकमकरन्दविन्दुना यदलिः ॥ ५९ ॥ पवनापनीतसौरभ- दूरोदकपूरपद्मिनीलुब्धः । अपरिक्षतस्वपक्षो गन्ता हन्ता- पदं मधुपः ॥ ६० ॥ कति कति न लताः कलिताः सच- रता चञ्चरीकरसिकेन । नलिनी भवन्मधु मधुर यत्पीत त्तत्तदेव परिपीतम् ॥ ६१ ॥ मधुकर मा कुरु शोकं विचर करीरद्रुमस्य कुसुमेषु । घनतुहिनपातदलिता कथं नु सा मालती मिलती ॥ ६२ ॥ यस्तोषं न गतः कमलेषु मली-
१ पीतवर्णम् २ मदनबाणाख्य पुष्पम् ३ जपापुष्पे सक्त , पक्षे,-जपे जपन आसक्त ४ दूर गच्छ ५ प्रचुरपुष्परसे ६ विकसितकमले ७ नीतानि ८ इच्छा ९ विस्तारिता कृतेति यावत् १० कल्पवृक्ष ११ सौगन्ध्यम्
व्योमचरान्योक्तयः २२३
चम्पकबकुलकुलेषु । तस्यालेर्यदि निम्बे वासः कथय कथं न भवत्युपहासः ॥ ६३ ॥ आलिङ्गसे चारुलता लवङ्गीमा-चुम्बसे चाम्बुजिनी क्रमेण । तां चूतवल्लीं मधुप प्रकामं सताडयस्येव पदैः किमेतत् ॥ ६४ ॥ वेत्रत्वचा तुल्यरुचा वधूनां कर्णाग्रतो गण्डतलागतानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवेदयिष्यन्नवचम्पकानि ॥ ६५ ॥ किं न पश्यसि महेन्द्रदिक्सुखे शीतदीधितिरसावुदञ्चति । मीलितैव नलिनीह मा वृथास्तन्मधुव्रत मुधा गता-गतम् ॥ ६६ ॥ चञ्चरीक चतुरोऽसि चन्द्रि-कावैभवे कुमुदिनीं निषेवसे । भास्करे जयिनि पुष्करे नवे प्रोन्मिषन्नवदलेऽनुरज्यसि ॥ ६७ ॥ नीरजान्याप निषेव्य निर्भरं नीरसानि कुटजानि वाञ्छसि । चञ्चलत्वमिह चञ्चरीक ते साहसं कथमिदं विमोक्ष्यसि । ॥ ६८ ॥ पीतमत्र मधु यापिताः क्षपा भृङ्ग सर्वमचिरेण विस्मृतम् । हीनमानसुषमा हिमागमे पद्मिनी यदिह नाव-लोकसे ॥ ६९ ॥ कुन्दकुञ्जलमुपासता त्वया यत्र शीत-समयोऽतिवाहितः । चञ्चरीक परीहीनसौरभा रोचते न भवते सरोजिनी ॥ ७० ॥ भ्रमर भ्रमता दिगन्तराणि क्वचि-दासादितमीक्षितं श्रुतं वा । वद सत्यमपास्य पक्षपातं यदि जातीकुसुमानुकारि पुष्पम् ॥ ७१ ॥ अभिनवनलिनी-विनोदलुब्धो मुकुलितकैरविणीवियोगभीरुः । भ्रमति मधु-करोऽयमन्तराले श्रयति न पङ्कजिनीं कुमुद्वतीं वा ॥ ७२ ॥ अलिरयं नलिनीदलमध्यगः कमलिनीमकरन्दमदालसः । विधिवशात्परदेशमुपागतः कुटजपुष्परसं बहु मन्यते ॥ ७३ ॥ अपि दलन्मुकुले बकुले यया पदमधायि कदापि न हेलया । अहह सा सहसा विधुरे विधौ मधुकरी बदरीमनुसेवते ॥ ७४ ॥ यदपि मेऋगणेन निषेवितं प्रकटकण्टककोटिसम-न्वितम् । तदपि पङ्कजमेति मधुव्रतः सुरससौरभसुन्दरता-श्रयम् ॥ ७५ ॥ आनम्राः स्तबकभरेण पल्लविन्यः शोभन्ते कति न लताः परागपूर्णाः । आमोदे मधुनि च मार्दवे च तासां यो भेदः स खलु मधुव्रतैकवेद्यः ॥ ७६ ॥ निःशङ्कं गजपतिगण्डदानधारामाराध्य भ्रमर दिनान्यमून्यनैषीः । यावन्न स्फुरति करालकर्णतालस्तावत्त्वं नय नलिनीवनी-मुपेत्य ॥ ७७ ॥ रात्रिर्गमिष्यति भविष्यति सुप्रभातं भास्वानु-देष्यति हसिष्यति पङ्कजश्रीः । इत्थं विचिन्तयति कोशगते द्विरेफे हा हन्त हन्त नलिनीं गज उज्जहार ॥ ७८ ॥ अन्यासु तावदुपमर्दसहासु भृङ्ग १लोलं विनोदय मनः सुम-नोलतासु । मुग्धामजातरजसं३ कलिकामकाले४ बालां ५कदर्थयसि
किं नवमालिकायाः ॥ ७९ ॥ फुल्लेषु यः कमलिनीकमलोदरेषु चूतेषु यो विलसितः कलिकान्तरस्थः । पश्याद्य तस्य मधु-पस्य शरद्वपाये कृच्छ्रेण वेणुविवरे दिवसाः प्रयान्ति ॥ ८० ॥ ये वर्धिताः करिकपोलमदेन भृङ्गाः प्रोत्फुल्लपङ्कज-रजः सुरभीकृताङ्गाः । ते साप्रतं प्रतिदिनं क्षपयन्ति कालं निम्बेषु चार्ककुसुमेषु च दैवयोगात् ॥ ८१ ॥ एणीदृशः श्रवणसीम्रि यदानयन्ति तेनैव तस्य महिमा नवचम्पकस्य । त्वं तत्र नो विहरसे यदि भृङ्ग तेन नैतस्य किंचिदपि तत्त तवैव हानिः ॥ ८२ ॥ मानन्दमेष मकरन्दमिहारविन्दे विन्देत षट्पदयुवेति जनैरतर्कि । दैवादकाण्डपरिसुद्रितपुण्ड-रीककोषादभूदहह निःसरणं पुमर्थः ॥ ८३ ॥ आजन्म-कल्पतरुकाननकामचारी यत्कौतुकादुपगतः कुटजं मिलिन्दः । तत्कर्मणः सुसदृशं फलमेतदेव यत्प्राप्य साम्यमधुना मधु-मक्षिकामिः ॥ ८४ ॥ मा गा विषादमलिपोतक केतकीना-मन्तर्निगूढमनवाप्य मधूप्रकर्षम् । लाभः स एव परमो ननु कण्टकानां श्रेणीभिरक्षतशरीरतया प्रयासि ॥ ८५ ॥ नालि-ङ्गिता नवलवङ्गलतान वापि संभाविता विटपिनः कल-गुञ्जितेन । आसादिता सपदि काचन रीतिरन्या माकन्द-कोरकमुदीक्ष्य मधुव्रतेन ॥ ८६ ॥ मन्दारमेदुरमरन्दरसाल-साङ्गः खर्नारीनयननन्दन एष भृङ्गः । दैवादुपेत्य जगती-मगतिर्विशीर्णच्छाखोटकोटरकुटीषु निलीय शेते ॥ ८७ ॥ किं केतकीपरिमलोत्थितगन्धलुब्धो गुञ्जन्भ्रमनभ्रमर वाञ्छसि रन्तुमेताम् । तत्कण्टकैः परिवृतामतुलामगम्यां सत्यज्यतां व्रज निकुञ्जलतां सपुष्पाम् ॥ ८८ ॥ इह सरसि सहर्ष मङ्गु१ गुञ्जाभिरामं मधुकर कुरु केलिं सार्धमम्भोजि-नीभिः । अनुपममकरन्दामोददत्तप्रमोदा त्यजति बत न निद्रा मालती यावदेषा ॥ ८९ ॥ भ्रमर मरणभीतिं मुञ्च चाम्पेयपुष्पे विहर हर तदीयं सौरभं सौहृदेन । मधुकर सुकरं चेद्वस्तु हस्तेन लब्धुं भवतु तदुपभोगोऽनिष्टमिष्टं फलं वा ॥ ९० ॥ गन्धैराख्या जगति विदिता केतकी स्वर्णवर्णा पद्मार्भ्रान्त्या क्षुधितमधुपः पुष्पमध्ये पपात । अन्धीभूतस्तदनु रजसा कण्टकैश्छिन्नपक्षः स्थातुं गन्तुं क्षणमपि सखे नैव शक्तो द्विरेफः ॥ ९१ ॥ दृष्ट्वा स्फीतोऽभवद्दलिरसौ लेख्य-पद्मं विशालं चित्रं चित्रं किमिति किमिति व्याहरन्निष्पपात । नास्मिन्गन्धो न च मधुकणा नास्ति तत्सौकुमार्यं घूर्णन्मूर्धा बत नतशिरा व्रीडया निर्जगाम ॥ ९२ ॥ सद्दम्भोजाम्भोजं परुषजति संभोगरहितो गतोऽडमन्दे कुन्दे वहति मकरन्दं न हिं मनः । ततो मन्येऽरण्ये क्वचिदधिकपुण्येऽपि ललितां लवङ्गीमासङ्गी भजति नवभृङ्गीपरिवृढः ॥ ९३ ॥ निरानन्दः
पादटिप्पण्यः (वामभागः):
१ उपमर्दं सहन्ते ताः २ सतृष्णम्, लुब्धमिति यावत ३ अनु-त्पन्नपरागान् ४ अयोग्ये काले ५ दूषयसि
पादटिप्पण्यः (दक्षिणभागः):
१ मधुरम् २ रवं कुरु ३ महदाकार
| २२४ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

कौन्दे मधुनि विधुरो बालवकुले न साले सालम्बो लवमपि लवङ्गे न रमते । प्रियङ्गो नासङ्गं रचयति न चूतेऽपि रमते स्मरँल्लक्ष्मीलीलाकमलमधुपान मधुकरः ॥ ९४ ॥ श्रियो वासाम्भोजे त्रिदिवसरिदम्भोजकुहरे हरेर्नाभीपद्मे मधु मधुकरो यः किल पपौ । स दैवादुन्मीलत्तपनकरतापव्यतिकरव्यथाकम्पः सप्रत्यनतरुमरुभूतौ विचरति ॥ ९५ ॥ लतास्तास्तास्तादृङ्मधुरमवर्ता पङ्कजवनीः समालिङ्गञ्चुम्बन्नयमगमद्यद्भूरिसमयम् । इदानीं चेन्नीचे विचरति रुचिरेष लकुचे कुचेष्टेय धातुर्भवति नहि वाच्यो मधुकरः ॥ ९६ ॥ मधूके माध्वीक पिवसि शतपत्रेऽभिरमसे मधूली मिश्राश्नन्मधुप सहकारेऽपि रमसे । वसन्ते वासन्तीभृषु मधुरमक्षामि बहुशो दुरावेशोऽय ते तदपि कुटजे यद्विचरसि ॥ ९७ ॥ भ्रमंस्त्वैर भ्रातर्भ्रमर नवयूथेषु बहुशो मवूली मन्विष्यन्कुमुदवनवीथीषु विचर । वसन्तरारम्भस्फुरितमधुसभारसुभगो न ते विस्मर्तव्य कचन्न सहकारव्यतिकरः ॥ ९८ ॥ अये मधुप मा कृथा बत वृथा मनोदीनता तुषारसमये लताशतनिषेवणव्याकुलः । इय पुरत एव ते सरसपुष्पमामोदये रसालनवमञ्जरी मधुझरी जगीजृम्भते ॥ ९९ ॥ नो मल्लीमयमीहते न मजते मत्तम्भकुम्भस्थली वासन्ती सहते न चन्दनवनीमालम्बते न क्वचित् । जातीमेव हृदीश्वरीमिव महानन्दैककन्दाङ्कुरा ध्यायन्निवृत्तिमेति षट्पद्युवा योगीव वीतश्रमः ॥ १०० ॥ किं कापि ग्रन्त्यानलैर्विटपिनो निर्दह्य भस्मीकृताः किम्श्वेद्द्वगजेन पङ्कजवनं निष्कन्दमुन्मूलितम् । क्रिया हन्त कृतान्तकेसरिभयाद्यच्चको मदः कुञ्जरैर्यन्नासन्वित्से करीरकुसुमे हा भृङ्ग विश्राम्यसि ॥ १०१ ॥ यस्याः सगमवाञ्छया न गणिता वाप्यो विनिद्रोत्पला यामालिङ्ग्य समुत्सुकेन मनसा यातः परा निर्वृतिम् । भन्ना तामवलोक्य चन्दनलता भृङ्गेण यज्जीव्यते धैर्य नाम तदस्तु तस्य न पुन. स्नेहानुरूपं कृतम् ॥ १०२ ॥ दग्धा सा बकुलावली कवलितास्ते ते रसालद्रुमाः पृष्टास्तेऽपि विनिद्रपुष्पपटलीपीतातपाः पादपाः । भ्रातर्भृङ्ग दवाग्निना वनमिद वल्मीकशेष कृत कि त्वं सम्प्रति काननान्तरपरिसन्दाय मन्दायसे ॥ १०३ ॥ दूरादुज्झति चम्पक न च मजत्यम्भोजराजीरजो नो जिघ्रत्यपि पाटलापरिमल यत्ते न चूते रतिम् । मन्दार्ये यदनादरो विचिकिलोपान्ते न सतृप्यते तन्मन्ये क्वचिदङ्ग भृङ्गतरुणेनास्वादिता मालती ॥ १०४ ॥ येनामोदिनि केसरस्य मुकुले पीत मधु स्वेच्छया नीता येन निशा शशाङ्कधवला पद्मोदरे शारदी । श्रान्तं येन मदप्रवाहमालिने गण्डस्थले दन्तिना सोऽयं भृङ्गयुवा करीरविटपे बध्नाति तुष्टि कुतः ॥ १०५ ॥ भ्रातर्भ्राम्य लवङ्गवल्लीषु पिव स्वैर नवाम्भोरुहं माध्वीमाधविकामधूनि मधुराण्याकण्ठमास्वादय । कस्मादापतितोऽसि केतकमिद यस्मिन्नुदीर्णे रजो दृष्टि लुम्पति सूचय प्रविचिताः कृन्तन्ति मर्मण्यपि ॥ १०६ ॥ आस्वाद्यात्र मधूनि षट्पद मद् मा गा कषायाङ्कुरैर्माकन्दस्य पिकान्नप्रतारितवतो मूर्धानमध्यासित । प्रत्यासन्नतम पिकेडपि भवते येनार्पिता तादृशी माध्वी तस्य विवेकविच्युतिरिय साधुव्यमेतन्न ते ॥ १०७ ॥ नीतं जन्म नवीननीरजवने पीत मधु स्वेच्छया मालत्याः कुसुमेषु येन सतत केली कृता हेलया । तेनेय मधुपन्धलुब्धमनसा गुञ्जा लता सेव्यते हा धिग्दैवकृतं स एव मधुपः का का दशा नागत ॥ १०८ ॥ प्रारम्भे कुसुमाकरस्य परितो यस्योल्लसन्मञ्जरीपुञ्जे मञ्जुलगुञ्जितानि रचयँस्तानातनोरुत्सवान् । तस्मिन्नद्य रसालशाखिनि दशा दैवात्कृशामभ्वति त्वं चेन्मुञ्चसि चञ्चरीक विनयं नीचस्त्वदन्योऽस्ति कः ॥ १०९ ॥ सोऽपूर्वो रसनाविपर्ययविधिस्तर्कर्णयोश्चापलं दृष्टि मा मैदविस्मृतसर्वपरदिक्कि भूयसोक्तन वा । मर्व विस्मृतवानसि भ्रमर हे यँद्धारणोऽडप्याप्सार्वैन्न शून्यकँरे निषेव्यत इति भ्रात क एष ग्रह ॥ ११० ॥ केतक्य कण्टकण्टकाः कुमुदिनी दोषोदयानमोदते जायन्ते विकला कलावति पुन पङ्केरुहा पङ्क्तयः । अन्यानि प्रसवानि षट्पदपदन्यासैरवाञ्चि क्वचिद्भुङ्गो भ्राम्यति कल्पवृक्ष विपदामन्तर्भवन्तं विना ॥ १११ ॥ यद्यप्याग्रतरोरमुष्य वनिताकर्णावतंसोचितामाजिघ्रन्धवमञ्जरी मधुप हे जातोऽसि पूर्णोत्सवः । विक्षर्तुं भवतस्तथाप्यनुचितं तद्वन्धमिन्दीवर यस्याखाद्य मधूलि चानतशिरो मधु त्वयोत्सृजितम् ॥ ११२ ॥ माकन्दे मधुपानमम्बु बकुले क्रीडा कदम्बद्रुमे दोलाखेलनकौतुकं कुवलये कः को न वा विभ्रम । येनाकारि मधुव्रतेन सहसा सोऽयं मधूके मधौ माध्वीक परिपीय पीवरतनुर्जीवत्यहो जीवनम् ॥ ११३॥ पीत पङ्कजकानने मधु मया नीपैऽपनीत वयो बन्धूके वरबन्धुता विगचिता रक्त रसालद्रुमे । कि चाकारि कुमुद्वतीपरिकरे क्रीडाकलाकौशल कस्तद्वेत्तु विधीयतेऽद्य बदरीवृन्दस्य यद्वन्दनम् ॥ ११४ ॥
१ इच्छा करोति २ माधवीलताम् ३ गतश्रम ४ कृतान्त काल स एव केमरी मिह ५ विचकिल पुष्पभेद ६ शरत्सम्बन्धिनी
१ अक्षिपातात्कारिणा जिह्वापरिवृत्ति , पक्षे,-पूर्वविपरीताभिधानम् २ कर्णचापल प्रसिद्धम्, पक्षे,-पिशुनप्रतार्थत्व च ३ मद प्रसिद्ध , पक्षे,-गव ४ स्वरपयोर्दिग्भागं, पक्षे,-आज्ञानासविभाग ५ गज , पक्षे,-दारक ६ मरन्दं० , पक्षे,-वसरहित ७ शुण्डा, पक्षे,-हस्त ०
स्तोत्ररत्नाकरः | १२५
कोकिल.
समुद्गिरसि किं वाचः पुस्कोकिल सुकोमला. । धत्रेऽस्मिञ्जडपाषाणगुरुनिर्घोषभैरवे ॥ ११५ ॥
नैवैतद्वाचि माधुर्यं जाने कोकिल कृत्रिमम् । प्रपोषितो येस्तानेव जानपक्षो जंहासि यत् ॥ ११६ ॥
रसालशिखरासीना शतं मन्तु पतत्रिण । तन्मञ्जरीरसामोदं विदुदेव कुहूमुखा ॥ ११७ ॥
भद्रं मद्रं कृत मौनं कोकिलैर्जलदागमे । वक्तारो दर्ददुरा यत्र तत्र मौन हि शोभते ॥ ११८ ॥
शृगालशगशार्दूलदूषितं दण्डकावनम् । पञ्चमं गायतानेन कोकिलेन प्रतिष्ठितम् ॥ ११९ ॥
काक कृष्ण. पिक. कृष्ण. को भेद पिककाकयो । वसन्तममये प्राप्ते काक. काकः पिक. पिक. ॥ १२० ॥
तावन्मौनेन नीयन्ते कोकिलैश्चैव वासरा. । यावत्सर्वजनानन्ददायिनी वाक्प्रवर्तते ॥ १२१ ॥
कोकिलोऽह भवान काक. समान कालिमावयो. । अन्तर कथयिष्यन्ति काकलीकोविदा. पुन ॥ १२२ ॥
सहकारे चिर स्थित्वा सलीलं बालकोकििल । तं हित्वाऽन्यान्यवृक्षेषु विचरन्न विलज्जसे ॥ १२३ ॥
कलकण्ठ यथा शोभा सँहकारे भवद्भिर । खदिरे वा पलाशै वा कि तथा स्याद्विचारय ॥ १२४ ॥
कोकिल कलमालपैरलमलमालोकसे रसालं किम् । शरनिकरभरितशरधि. शबर. संरतीह परिसरे सधनुः ॥ १२५ ॥
तत्किं स्मरसि न मुक्त यत्पिकं रे काकमन्दिरे पूर्वम् । सहकारकुसुमकाले हठेन कुरुषेऽधुना रावम् ॥ १२६ ॥
तावत्कोकिल विरसान्यापय दिवसान्वनान्तरे निवसन् । यावन्मिलदलिमाल. कोऽपि रसाल. समुल्लसति ॥ १२७ ॥
एकस्त्वं गहनेऽस्मिन्कोकिल न कलं कदाचिदपि कुर्या । सजात्यशङ्कयामी न त्वा निघ्नन्तु निर्दयाः काकाः ॥ १२८ ॥
अथ कोकिल कुरु मौन जलधरसमयेऽपि पिच्छिला भूमिः । विकसति कुटजकदम्बे वक्तरि भेके कुनस्तवावसरः ॥ १२९ ॥
मलिनात्मना विरागं प्रकटीकृत एव कोकिलकलेन । जीवनदानामुन्नतिसमये वाचंयमीभवता ॥ १३० ॥
रे रे कोकिल मा भज मौनं किंचिदुद्द्घृष्य पञ्चमरागम् । नो चेत्त्वामिह को जानीते काककदम्बकपिहिते चूते ॥ १३१ ॥
अस्या सखे बधिरलोकनिवासभूमौ किं कूजितेन खलु कोकिल कोमलेन । एते हि दैवहतकास्त्वदभिन्नवर्णं त्वा काकमेव कलयन्ति कलानभिज्ञा. ॥ १३२ ॥
रे बालकोकिल करीरमरुस्थलीषु किं दुर्विदग्धमधुरध्वनिमातनोषि । अन्य. स कोऽपि संहँकारतरुप्रदेशो राजन्ति यत्र तव विश्रमभाषितानि ॥ १३३ ॥
किं कोमलै कलरवैः पिक तिष्ठ तूष्णीमेते तु पामरनरा. खरमाकळय्य । को वा रटत्ययमये निकटे कटनि रे वन्यत्तामिति वदन्ति गृहीतदण्डः । १३४ ॥
तावच्चकोरचरणायुधचक्रवाकपागवनादिविहगा कूजन्त्वप्सन्तु । यावद्वसन्तरजनीघटिकावसानमामाद्य कोकिलयुवा न कुहूकगेति ॥ १३५ ॥
योषित रुचिरपल्लवमञ्जरीषु श्रीखण्डमण्डलरसालवने सदैव । दैवात्स कोकिलयुवा निपपात निम्बे तत्रापि रुष्टवलिपुष्टकुलैर्विवादु ॥ १३६ ॥
हे कोकिलाखिललतासु फलानि सन्ति सत्यज्य तानि ननु चूतलता सपुष्पाम् । कि काङ्क्षसीह रमितुं फलभोक्तुकामो न ज्ञायसे नृपतिसेवकभीषणीयाम् ॥ १३७ ॥
परभृतशिशो मौन तावद्विधेहि नभस्तलोन्यननविवये पक्षौ स्वाना न यावदिमौ क्षमौ । ध्रुवमपरथा द्रष्टव्योऽसि स्वजातिविलक्षणध्वनितकुपितध्वाङ्क्षत्रोटीपुटातिर्जजर. ॥ १३८ ॥
अहंसुवगवर्णनीयजनमदायतोदन्नतस्फुरचतुरपञ्चमस्वरजितान्यपक्षिव्रज. । रसालतरुणा कृतामसममुल्यतामात्मनो विहन्तुमिह कोकिल फलिनमन्यमुद्वीक्षते ॥ १३९ ॥
क्वचिच्छिखीनाद क्वचित्तुलकौकोलकललह क्वचिकद्वागवः क्वचिदपि कपीना कलकल. । क्वचिद्रोरफेरुध्वनिरयमहौ दैवघटनात्कथकार तॉर रसति चकिन कोकिलयुवा ॥ १४० ॥
मूकीभूय तमेव कोकिल मधु बन्धुं प्रतीक्षस्व हे हेलोल्लासितमल्लिकापरिमलामोदानुकूलानिलम् । यत्रैतास्तव सूक्तय. मफलतामायान्त्यमी तूलमन्पाशूत्समूसो निदाघदिवसा सतापमदायिन. ॥ १४१ ॥
येनानन्दमये वसन्तसमये मौरम्येहेलामिल्लट्टङ्कालीमुखरे रसालशिखरे नीताः पुरा वासग । आ कालस्य वशेन कोकिलयुवा सोऽप्यद्य मवां दिश खेलद्व्रायमचक्षुघातावदलन्मूर्धा मुहुर्धावति ॥ १४२ ॥
दौत्यूहा मरस रसन्तु सुभगं गायन्तु केकाभृत कलिम्बाः कैकमालपन्तु मधुर कूजन्तु कोर्यष्टयः । दैवाद्यावदसौ रसालविटपिच्छायामनासादयन्निर्वैण्ण. कुटजेषु कोकिलयुवा सजातमौनव्रत' ॥ १४३ ॥
भ्रातः कोकिल कूजितेन किमलं नाद्याप्यनर्थ्यो गुणस्तूष्णीं तिष्ठ विशीर्णपर्णपटलच्छन्न. क्वचित्कोटरे । प्रोद्दामद्रुमसंकटे कटुरटत्काकावलीसंकुल. कालोऽय शिशिरस्स संप्रति सखे नायं वसन्तोत्सव. ॥ १४४ ॥
अंम्भोजप्रकगोऽथ केतककुलं कुन्दोत्करः कैरवात्तो मळ्ळिगण्डोऽथ चम्पकचयो जातीसमूहोऽथवा । नो चेदादरमातनोति पिक ते खेदं वृथा मा कृथा यस्मात्कापि कदापि कोऽपि भविता यस्त्वद्गुणाञ्ज्ञास्यति ॥ १४५ ॥
आसाद्याम्रवनीमिमा प्रति नवामास्वाद्य
पादटिप्पण्यः:
| वामभागः | दक्षिणभागः |

| १ त्यजसि | १ द्रोणकाक |
| २ वर्षाकाले | २ जम्बुकध्वनि |
| ३ भेका | ३ अत्युच्चं यथा तथा |
| ४ आम्रे | ४ कूजते |
| ५ सचरति | ५ कालकण्ठक , जलकाक इति प्रसिद्ध |
| ६ आसमन्ताद्भागे | ६ मयूरा |
| ७ कोकिल | ७ कलहसा |
| ८ अतिवाहय | ८ अव्यक्तमधुरम् |
| ९ समानजातौ यत्त्वशङ्कया | ९ टिट्टिभा |
| १० काकसमानवर्णम् | १० मल्लसमूह |
| ११ आम्र | |
| २९ सु. र भा. |
२२६ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
तन्मञ्जरीं मैवं पञ्चममश्व नन्दनवनभ्रान्त्या तया कोकिल ।
एषा वायसमण्डली घनशिरःशूलाहतिव्याकुला कुध्वानै-
र्बधिरीकरिष्यति वृथा श्रोत्राणि सत्पन्थिनाम् ॥ १४६ ॥ उल्कू-
जन्तु वटे वटे वत बकाः काका बराका अपि क्राङ्कुर्वन्तु
सदा निनादपटवस्ते पिप्पले पिप्पले । सोऽन्यः कोऽपि रसाल-
पल्लवलवग्रासोल्लसत्पाटवत्क्रीडत्कोकिलकण्ठकूजनकलालीला-
विलासप्रगः ॥ १४७ ॥
चातकः
एक एव खगो मानी वने वसति चातकः । पिपा-
सितो वा म्रियते याचते वा पुरंदरम् ॥ १४८ ॥ पिपासा-
क्षामकण्ठेन याचितं चाम्बु पक्षिणा । नवमेघोज्झिता
चास्य धारा निपतिता मुखे ॥ १४९ ॥ शक्यते येन
केनापि जीवनेनैव जीवितुम् । किंतु कौलव्रतोद्गङ्गाप्रसङ्ग-
पङ्गुःसह ॥ १५० ॥ अवश्यकारणेः प्राणान्धारयत्येव
चातकः । प्रार्थनाभङ्गभीतोऽपि शक्रादपि न याचते ॥१५१॥
चातक धूमसमूहं दृष्ट्वा मा धाव वारिधरबुद्ध्या । इह हि
भविष्यति भवतो नयनयुगांदैव वारिणा पूरः ॥ १५२ ॥
यद्यपि चातकपक्षी क्षपयति जलधरमकालवेलायाम् । तदपि
न कुप्यति जलदो गतिरिह नान्या यतस्तस्य ॥ १५३ ॥
दीनोन्नतचलपक्षतया बह्वपि लब्धमवस्तु । चातक सत्समा-
वनया किमपि यदस्ति तदस्तु ॥ १५४ ॥ विश्वोपजीव्ये न
पिबत्यपोऽयं पद्माकरे यद्यपि चातकश्वेत् । स्वार्थक्षतिस्तस्य तृषा-
तुरस्य लघुत्वमेवास्ति न किंचिदस्य ॥ १५५॥ ऊर्धीकृतग्रीव-
महो मुधैव किं याचसे चातकोत मेघम् । अत्यूर्जितं
गर्जितमात्रमस्मिन्नम्भोघरे बिन्दुलवस्तु दूरे ॥ १५६॥ वृथा गत
नृत्यसि चातक त्वं न नीलमेघोऽथ गजो मदान्धः । स त्वाह-
शेभ्यो न ददाति नूनं मातङ्गदानं मधुपेभ्य एव ॥ १५७ ॥
आत्मानमम्भोनिधिरेतु शोष ब्रह्माण्डमासिञ्चतु वा तरङ्गैः ।
नास्ति क्षतिर्नोपचितिः कदापि पयोदवृत्तेः खलु चातकस्य
॥ १५८ ॥ रक्ताब्जपुञ्जरजसारुणितान्निसुच्य स्वच्छान्सुधा-
समरसानपि वारिराशीन् । यच्चातकः पिबति वारिधरोद-
बिन्दून् मन्ये तद्दानतिभयाच्छिरसोऽभिमानी ॥ १५९ ॥
अन्येऽपि सन्ति बत तामरसावतंसा हसावलीवलयिनो
जलसंनिवेशाः । कोऽप्याग्रहो गुरुरयं बत चातकस्य पौरंदरीं
यद्भिवाञ्छति वारिधाराम् ॥ १६० ॥ धिग्वारिदं पैरि-
हृतान्यजलाशयस्य यच्चातकस्य कुरुते न तृषाप्रशान्तिम् ।
धिक्चातक तमपि योऽर्थितयार्त्तीलज्जसं तादृशं च यदपैति
पिपासितोऽपि ॥ १६१ ॥ अये वापीहसा निजवसतिसकोच-
पिशुनं कुरुध्वं मा चेतो वियति वहतो वीक्ष्य विहगान् ।
अमी सारङ्गास्ते भुवनमहनीयव्रतभृतो निरीहाणा येषा तृण-
मिव मवन्त्यम्बुनिधयः ॥ १६२ ॥ बीजैरङ्कुरितं लताभि-
रुदितं वल्लीभिरुज्जृम्भितं कन्दैः कन्दलितं जनैः प्रमुदितं
धाराधरे वर्षति । भ्रातश्चातक पातकं किमपि ते सम्यङ् न
जानीमहे येनास्मिन्न पतन्ति चञ्चुपुटके द्वित्राः पयोबिन्दवः
॥ १६३ ॥ अन्ये ते जलदायिनो जलधरास्तृष्णा विनि-
घ्नन्ति ये भ्रातश्चातक कि वृथा विरुदितैः खिन्नोऽसि विश्र-
म्यताम् । मेघः शारद एष काशधवल पानीयरिक्तोदरो
गर्जत्येव हि केवल भृशतर नो बिन्दुमप्युज्झति ॥ १६४ ॥
यः कृष्णं कुरुते सुखं जनयति त्रासं तडिद्विस्तु यो यश्च
प्रार्थयते परं दलयति श्रोत्रं निजैर्गर्जितैः । सत्यं चातक तं
तथाविधमपि भ्रातस्त्वया याचता जीमूतं कृतमेव तुल्य-
मनयोरर्थित्वतिर्यक्त्वयोः ॥ १६५ ॥ रे रे चातक सावधान-
मनसा मित्र क्षणं श्रूयतामम्भोदा बहवो वसन्ति गगने
सर्वेऽपि नैतादृशाः । केचिद्वृष्टिभिरार्द्रयन्ति धरणीं गर्जन्ति
केचिद्वृथा यं यं पश्यसि तस्य तस्य पुरतो मा ब्रूहि दीनं
वच ॥ १६६ ॥ वापी स्वल्पजलाशयो विषमयो नीचाव-
गाहो हृद क्षुद्रात्क्षुद्रतरो महाजलनिधिर्गण्डूषमेकं मुनेः ।
गङ्गाद्याः सरितः पयोनिधिगताः सत्यज्य तस्मादिमान्समानी
खलु चातको जलैर्मुचामुञ्चै पयो वाञ्छति ॥ १६७ ॥
अन्ये ते विहगाः पयोद परितो धावन्ति तृष्णातुरा वापी-
कूपतडागसागरजले मजन्ति दत्तादराः । मामद्यापि न
वेत्सि चातकशिशुं यच्छुष्ककण्ठोऽपि सन्नान्य वाञ्छति
नोपसर्पति न च प्रस्तौति न ध्यायति ॥ १६८ ॥
मयूरः
अहमस्मि नीलकण्ठस्तव खलु तुष्यामि शब्दमात्रेण ।
नाह जलधर भवतश्चातक इव जीवनं याचे ॥ १६९ ॥
यत्पादपि क पश्यति शिखिनामोहारनिर्गमस्थानम् । यदि
जलदानिनदमुदितास्त एव मूढा न नृत्येयु ॥ १७० ॥
वेगज्वलद्विटपिपुञ्जमहारयोऽयं गर्जिनं तीव्रतरहेतिरियं न
शैम्या । दावाग्निधूममन्वहोऽयमये न मेघः कि नृत्यसि
द्रुतमितो व्रज तत्कलापिन् ॥ १७१ ॥ असान्विचित्रवपुष-
स्तव पृष्ठभान्कसाद्विमुञ्चति भवान् यदि वा विमुञ्च । रे
नीलकण्ठ गुरुहानिरियं तवैव मौलौ पुनः क्षितिभृतो
भवति स्थितिर्नः ॥ १७२ ॥ अये नीलग्रीव क्व न खलु
सखे तेऽद्य सुनयः पर तोष येषा तव रवविलासो
वितनुते । अमी दूरात्क्रूरा कणितमिदमाकर्ण्य सहसा त्वर-
न्ते हन्तुं त्वामहह शबरा पुङ्खितशराः ॥ १७३ ॥ सम-
न्तादाक्रान्ता दवदहनसङ्घैः शिखरिणः किरातैराकीर्णाः कर-
पादटिप्पण्यः (Footnotes):
१ नमनभयात्
२ ऐन्द्रीम्, मेघोत्पन्नामित्यर्थे
३ परिहृतस्त्यक्ता अन्ये जलाशया समुद्रादयो येन
४ गतलब्जं, निर्लज्ज इत्यर्थे
१ काशपुष्पवत्पाण्डुर
२ मेघानाम्
३ गुदस्थानम्
४ मेघनादेन सजातानन्दा
५ विद्युत्
व्योमचरान्योक्तयः २२७
कलिकताण्डैर्वनभुवः । बिडालैरालीढाः सपदि सरसीनां
परिसराः शिखण्डी पाण्डित्यं निजमहह कुत्र प्रकटयेत्
॥ १७४ ॥ एतस्मिन्मलयाचले बहुविधं. किं तैरकिंचित्करै-
काकोलूककपोतकोकिलकुलैरैकोऽपि पार्श्वस्थित । ^१केकी
कूजति चेत्तदा विघटितव्यालावलीबन्धन. सेव्य सादिह
सर्वलोकमनसामानन्दनश्चन्दन ॥ १७५ ॥ हारीता. सगस
रसन्तु मधुरं कूजन्तु पुस्कोकिला सानन्दं गिरसुद्गिरन्तु
च शुका. किं तै. शिरःस्थैरपि । एकेनापि तलस्थितेन नदता
श्रीखण्ड निस्तर्जनाद्यालानां च शिखण्डिना न तु महत्-
पाण्डित्यमुद्दण्डितम् ॥ १७६ ॥ किं दूरेण पयोधरा उपरि किं
नान्ये रटन्त. श्रुता निन्द्या. पापतया स्वपक्षेषु गता. किं नाम
पक्षा. क्षयम् । रम्य वा गगने न किं विहरणं किं
तूम्रकाकावलीपर्यायप्रतिपत्तिलाघवभयाद्भूभौ स्थिता बर्हिण
॥ १७७ ॥ केका कर्णामृतं ते सकुसुमकबरीकान्तिहारा.
कलापा कण्ठच्छाया पुरारेर्गरलरुचिरुचिरा सौहृदं मेघसङ्गे ।
विश्वद्रोपिद्विजिह्वस्फुरदुरुपिशितैर्नित्यमाहारवृत्ति. कै पुण्यै
प्राप्तमेतत्त्सलकमपि सखे चित्रवृत्तं मयूर ॥ १७८ ॥
चक्रवाकः
त्यज चक्रवाकि शोकं बधान धैर्य सहस्व समयममुम् ।
अयमेव वासरमणिर्हरिष्यते शापमूर्च्छा ते ॥ १७९ ॥
अस्तंगतोऽयमर्विन्दवनैकबन्धुर्मास्मान्न लङ्घयति कोऽपि
विधिप्रणीतम् । हे चक्र धैर्यमवलम्ब्य विमुञ्च शोकं
धीरास्तरन्ति विपदं न तु दीनचित्ता. ॥ १८० ॥
शुकः
अखिलेषु विहगेषु हन्त स्वच्छन्दचारिषु । शुक पञ्जर-
बन्धस्ते मधुराणां गिरां फलम् ॥ १८१ ॥ किंशुकै^३ शुक
मा तिष्ठ चिर भाविफलेच्छया । बाह्यरङ्गप्रसङ्गेन के के
नानेन वञ्चिताः ॥ १८२ ॥ काकाः किं किं न कुर्वन्ति
केङ्कार यत्र यत्र वा । शुक एव परं वक्ति नृपहस्तोप-
लालित ॥ १८३ ॥ शुक तव पठनं व्यसनं न गुण. स
गुणाभासः^४ । समजनि येनोन्मरणं^५ शरणं पञ्जरावासः
॥ १८४ ॥ कीर नीरसंकरीरपादपे किं स्थितोऽसि कथयामि
धीरतः । मामकीनसहकारपादपा दु.समीरलहरीभिराहताः
॥ १८५ ॥ सुभाषितस्वाध्ययनेऽनुषक्त शुक वराका. प्रह-
सन्ति काका. । तमेव ससत्सु गिरं किरन्तं दृष्ट्वा भवन्ति
त्रपयाऽऽनताक्षाः ॥ १८६ ॥ द्राक्षा प्रदेहि मधु वा वदने
निधेहि देहे विधेहि किमु वा करलालनानि । जातिस्वभाव-
चपल. पुनरेष कीरस्तत्रैव यास्यति कृशोदरि मुक्तबन्धः
॥ १८७ ॥ हे कीर कैरवसुगीरिति सकलस्य मा मात्र
सरससि सज्जनरञ्जनाय । बालोऽपि यत्र कलकण्ठसुकण्ठ-
पीठ. सलेढि कोमलकुहूकृतपूर्णकर्ण. ॥ १८८ ॥ इदमपटु
कपाटं जर्जरं पञ्जरोऽयं विरमति न गृहेऽस्मिन्क्रूरमार्जार-
यात्रा । शुक मुकुलितजिह्व स्थीयता किं वचोभिस्तव
वचनविनोदे नादर. पामराणाम् ॥ १८९ ॥ अमृतवचन-
लीलाविभ्रमैरन्नपानं रचय चतुर कीर भ्रान्तचित्तेषु तेषु ।
अकलितपरसेवातापपाप पिकोऽसौ भजतु विपिनवाटीमेष
पीयूषकण्ठः ॥ १९० ॥ अमुष्मिन्नुद्याने विहगखल एष
प्रतिकलं विलोल कोकोल^१ कणति खलु यावत्कटुतरम् ।
सखे तावत्कीर द्रढय हृदि वाचैंयमकला^२ न मौनेन न्यूनो
भवति गुणभाजा गुणगणः ॥ १९१ ॥ इयं पली मिल्लीरनु-
चितसमारम्भरसिकै समन्तादाक्रान्ता विषविषमबाणप्रण-
यिभिः । तरोरस्य स्कन्धे गमय समयं कीर निभृतं न
वाणी कल्याणी तदिह मुखमुद्रैव शरणम् ॥ १९२ ॥ अनु-
द्भिन्नांरामे तरुभिरभिरामे विटपिन स्फुटं नृत्यद्भङ्गीविविध-
नवसंगीतकलनात् । परानन्दै. पूर्णाः क इव तव
वर्णावलिपदक्रमश्रोता वेत्ता द्विजवर शुक श्राम्यसि कुतः
॥ १९३ ॥ अये कीरश्रेणीपरिवृढ वृथा वासरशतं किमर्थं
स्वं व्यर्थं क्षपयसि पलाशै रभसत् । यदा पुष्पारम्भे
मुखमलिनिम किंशुकतरोस्तदैवेदं ज्ञातं फलपरिचयो दुर्लभ-
तर. ॥ १९४ ॥ अपार. पाथोधिः पुलिनपदवी योजन-
शतं निरालम्बो मार्गो वियति किल शून्या दश दिश. ।
इतीवाय कीर. कतिपयपदान्येव गगने मुहुर्भ्राम्यन्भ्राम्य-
न्यतति गैणवृक्षे^३ पुनरपि ॥ १९५ ॥ द्विजकुलपते मेघासिन्यो
सुभाषितकोविद त्वयि गृहमुपायाते जातं बहुपकृष्ट मम ।
यदिह नियत बाला वृद्धाः स्त्रियः परिचारकाः शुक भग-
वतो नाम प्रीता गृणन्ति मुहुर्मुहुः ॥ १९६ ॥ वासः
काञ्चनपञ्जरे नृपकराम्भोजैस्तनूमार्जनं भक्ष्यं स्वादुरसाल-
दाडिमफलं पेयं सुधाम् पंयः । पाठः संसदि रामनाम सततं
धीरस्य कीरस्य मे हा हा हन्त तथापि जन्मविटपिक्रोडं
मनो धावति ॥ १९७ ॥ सत्साम्गत्यमवाप्य य पुरवने नाना-
रसास्वादवत्कीरः शास्त्रविचारचारुवचनैरानन्दकारी जने ।
दैवेनास्फुटवाक्प्रपञ्चपिहितश्रोत्रस्य तस्याटवी प्रासस्यात्म-
सभाप्रगल्भकपिषु स्यान्मौनमेवोचितम् ॥ १९८ ॥ आतः
कीर कठोरचञ्चुकषणक्रोधाद्यितैः कूजितै कि माधुर्यनि-
षिक्तसूक्तिविशदः कण्ठावदु शोष्यते । सेय दैववशाद्दशा
परिणता राजन्यपात्रस्य ते म्लैच्छैश्छिद्रितभित्तिमुद्रितघटः
प्राप्तो यतः पञ्जर. ॥ १९९ ॥ माणिक्यद्रवलिसमौक्तिकतुला
बिभ्रन्ति नो दाडिमीबीजान्येष निरीक्षते न रमते हैमेऽप्यहो
पञ्जरे । तत्तादृग्वनवाससमदमहामोदैकमेदस्त्विनी वृत्तिर्मे
^१ मयूर ^२ विघटित व्यालावलीना बन्धन यस्य ^३ पलाशवृक्षे ^४ दोष ^५ मरणपर्यन्तम्
^१ द्रोणकाक ^२ वाचयमो मौनी ^३ पोतमध्यस्थिते कूपके
२२८ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
गलितानया हतगिरेत्येव शुक. शोचति ॥ २०० ॥
याते यातमध स्थिते स्थितमुपर्यालोकिते लोकितं यद्यु-
द्यानशुकोऽयमाकलयते शुद्धास्तहस्तस्थित । तत्सर्व मणि-
भित्तिमेत्य भवता छायाशुकाङ्गीकृतं तस्मिन्कर्णसुधा
वितन्वति गिर तूष्णी किमु स्थीयते ॥ २०१ ॥ स्वस्व-
व्यापृतिमन्यमानमतया मत्तो निवृत्ते जने चञ्चूकोटिविघट्टिता-
ररपुटो यासाम्यहप झरात् । इत्थं कीरवरे मनोरथमयं पीयूष-
माखादयत्यन्त. सप्रविवेश वारणकराकार फणिग्रामणीः
॥ २०२ ॥ दृष्ट्वा शाखावकीर्ण फलभरनमित भूमिभागानवद्ग
त्यक्त्व्रा शालप्रकाण्ड पनसमुपगतश्चिन्तयित्वेति कीर. ।
हत्वा चञ्चु प्रहर्षोद्विगलितपयसा सम्भृताशेषपक्षो भिन्नश्रोड्डीय
गन्तुं गगनपरिचिता या गतिः सापि नष्टा ॥ २०३ ॥
काकः
वयं काका वय काका जल्पन्तीति प्रगे द्विकाः ।
तिमिरारिस्तमो हन्यादिति शङ्कितमानसाः ॥ २०४ ॥
तुल्यवर्णच्छद कृष्ण कोकिलै. सह सगत. । केन विज्ञा-
यते काक स्वयं यदि न भाषते ॥ २०५ ॥ अहो
मोहो वराकस्य काकस्य यदमा मुहु । सरीसर्ति नरी-
नर्ति पुरत. शिखिवंसयो ॥ २०६ ॥ आमरणदपि विरुतं
कुर्वाणा. स्पर्धया सह मयूरै. । कि जानन्ति वराकाः
काका. केकारवं कर्तुम् ॥ २०७ ॥ तत्काक त्वयि युक्ता.
कटुवाग्वैवर्ण्यधूर्तताशुचिताः । यदि विष्ठाकृमिपुष्टे तत्र न
दोषा हि तच्चित्रम् ॥ २०८ ॥ विधिरेव विशेषर्गेहणीयः
कैरट त्वं रैट कस्तवापराध । सहकारतरौ चकार यस्ते
सह वास सरलेन कोकिलेन ॥ २०९ ॥ काकस गात्रं
यदि काञ्चनस्य मणिक्यरत्नं यदि चञ्चुदेशे । एकैकपक्षे
ग्रैथितं मणीना तथापि काको न तु राजहंस. ॥ २१० ॥
त्रोटीपुंटं करट कुञ्चालयाद्य तात यावत्प्रतिव्रजति नाक-
मयं मराल. । नो चेदमङ्गलकठोररवा विहंगा. सर्वे भुवी-
ति निजसद्मदि शंसिता न. ॥ २११ ॥ प्रत्यङ्गर्णं प्रतिनरुं
प्रतिवारिनीर काकाश्ररन्ति चलचञ्चुपुटा रटन्त. । नो
यान्ति तृप्तिमय मण्डितपुण्डरीकखण्डे वसन्नृहह तृप्यति
राजहंस. ॥ २१२ ॥ कृष्णं वपुर्वहतु चुम्बतु सत्फलानि
राग्येषु सचरतु चूतवनान्तरेषु । पुस्कोकिलस्य चरितानि
करोतु नाम काक. किल ध्वनिविधौ ननु काक एव
॥ २१३ ॥ पथि निपतिता शून्ये दृष्ट्वा निरावरणाानना दवि-
भृतघटी गर्वोन्नद्धं समुद्धतकंधर. । निजसमुचितास्ता-
स्ताश्चेष्टा विकारशताकुला यदि न कुरुते काण काकः
कदा नु करिष्यति ॥ २१४ ॥ गात्र ते मलिन तथा
श्रवणयोरुद्वेगकृत्केकूत भक्ष्यं सर्वमपि स्वभावचपलं दुश्चे-
ष्टित ते सदा । एतैर्वायस सगतोऽप्यविनयैर्दोषैरमीभिः
पर यत्सर्वत्र कुटुम्बवत्सलमतिस्तेनैव धन्यो भवान् ॥२१५॥
रूक्षस्यामधुरस्य चातिमलिनच्छायास्य वृक्षस्य च क्षुद्रस्य
क्षतकारिणोऽतिचपलस्याह्लादविच्छेदिन । येय निम्बफलेषु
काक भवतस्तिक्तेषु नैसर्गिकी प्रीतिस्तत्सदृशं विधेर्विल-
सित निष्पन्नमेतच्चिरात् ॥ २१६ ॥ कर्णारुंतुदमन्तरेण
रैणित गाहस्व काक स्वयं र्माकन्दं मकरन्दशालिनमिह
त्वा मन्महे कोकिलम् । धन्यानि स्थलवैभवेन कतिचि-
द्वस्तूनि कस्तूरिका नेपालक्षितिपालफालपतिते पङ्के न
शङ्केत क. ॥ २१७ ॥ काक त्वं फलनग्रमात्रविपिन
दैवात्समासाद्यन् कि कर्णौ बधिरीकरोषि पुरुषकेङ्कार-
कोलाहलै । मौनं चेदवलम्बसे रतमरप्रक्रान्तपुंस्कोकिलश्रा-
न्त्यापि त्वयि सचरन्ति न कथं मुग्धाकटाक्षच्छटा ॥२१८॥
नो चारू चरणौ न चापि चतुरा चञ्चूनं वाच्य वचो नो
लीलाचतुरा गतिर्न च शुचिः पक्षप्रहोऽयं तव । क्रूर-
केङ्कृतिनिर्भरा गिरमिह स्याने वृथैवोद्विरन्मूर्ख ध्वाङ्क्ष न लज्ज-
सेऽप्यसदृशं पाण्डित्यमुन्नाटयन् ॥ २१९ ॥ यस्याकर्ण्य
वचः सुधाकवलितं वोचर्यमानापि व्यग्राणि व्यथयन्ति
मन्मथकथाश्चेतांसि चैत्रोत्सवे । रे रे काक वराक साँक-
ममुना पुस्कोकिलेनाधुना स्पर्धाबन्धमुपेयुषस्तव तु किं
लज्जापि नोजागरा ॥ २२०॥ आलाप कलकण्ठिका न
कुरुते कीरा न धीरध्वनिं व्याहार कलयन्ति कोमलगिरः
कूजन्ति नो बर्हिणः । नीरग्डम्बरदुर्दिनाम्बरतले दूरे द्विरेफ-
ध्वनिः काका. केवलमेव कङ्कतरवैः कुर्वन्ति कर्णज्वरम्
॥ २२१ ॥ बन्धं लब्धवतः परस्य वदन भिक्षाशया
पश्यतः खावासच्युतिवेदना विदधतः कान्ता विना
सीदतः । भ्राम्यन्त. सह भार्यया प्रतिदिशं प्रत्यापणं प्रत्यगं
कीरस्याध्ययनं हसन्ति विविधक्रीडालसा वायसाः ॥२२२॥
कि केकीय शिखण्डमण्डिततनुः किं कीरवत्पाठकः किं
वा हंस इवाङ्गनागतिगुरुः शारीव किं सुख्वरः । किं वा
हन्त शकुन्तबालपिकवत्कर्णामृतं स्यन्दते काकः केन
गुणेन काञ्चनमये व्यापारितः पञ्जरे ॥ २२३ ॥ अत्रस्थ.
सखि लक्षयोजनगतस्यापि प्रियस्र्यागमं वेत्त्याख्याति च
धिक्शुकादय इमे सर्वे पठन्तः स्थिता. । मत्कारन्तस वियोग-
तापदहनज्वालावलीवारिद काकरतैेन गुणेन काञ्चन-
मये व्यापारित. पञ्जरे ॥ २२४ ॥ अक्षिन्नाम्भोदवृन्द-
ध्वनिजनितरुषि प्रेक्षमाणेऽन्तरिक्षं मा काक व्याकुलो
१ राजमहिषीकारामस्थित २ प्रात काले ३ द्वौ ककारौ नास्ति विधेने येषा ते ४ निन्द्य ५ काक ६ शब्द कुरु ७ ग्रथनम् ८ चञ्चुपुटम्
१ पीडाजनकम् २ विना ३ शब्दितम् ४ आम्रवृक्षम् ५ मौनिनाम् ६ सह ७ पक्षिविशेष
व्योमचरान्योक्तयः, स्थलचरान्योक्तयः २२९
भूस्तरुशिखरशवक्रव्यलेशानशान। धत्ते मत्तेभकुम्भव्यतिकरकरजग्रामवज्राग्रजाग्रद्भासव्यासक्तमुक्ताधवलितकवलो न स्पृहामत्र सिंह. ॥ २२५ ॥
वकः एष बक¹ महसैव विपन्न शाठ्यमहो क्व नु तद्गतमस्य । साधु कृतान्तक कश्चिदपि त्वा वञ्चयितु न कुतोऽपि समर्थ ॥२२६॥ न कोकिलानाभिव मञ्जु कूजित न लब्धलास्यानि गतानि हसवत् । न बर्हिणानामिव चित्रपक्षता गुणस्तथाप्यस्ति बके वकव्रतम् ॥ २२७ ॥ बकोट ब्रूमस्त्वा लघुनि सरसि क्वापि शफरैस्तव न्याय्या वृत्तिर्न पुनरवगाढुं समुचित । इतश्चेतश्चाञ्चलिहलहरिहेलातरलितक्षितिभ्रग्ग्रासैकम्रहिततिमिपोत पतिरपाम् ॥ २२८ ॥ नैर्मल्यं वपुषस्तवास्ति वमतिः पद्माकरे जायते मन्द याहि मनोरमा वद गिर मौन च सपादय । धन्यस्त्वं वक राजहमपदवी प्राप्तोऽसि कि तैर्गुणैर्नीरक्षीरविभागकर्मनिपुणा शक्ति. कथं लभ्यते ॥२२९॥ जा¹तिस्तस्य न मानसे न शु²चिभिर्वृत्तिर्मृणालाङ्कुरैर्न ब्रह्योद्वहनेन⁴ निर्मलयश प्राप्त न वाच कला । जीवन्³स्त्ववधेन बाह्यधवलो भ्राम्यन्सगर्व पुनर्मिध्येवोन्नतकंधरः शठबको हसै. सह स्पर्धते ॥ २३० ॥ रे रे शिष्टबकोट नाकनटिनीतीरे तपस्विव्रतं ध्यानेनानिमिषोपभोगमनसा युक्तं करोषीदृशम् । एव यत्किल मानसस्य पदवी काङ्क्षस्युक्तं हि तन्नीक्षीरविवेकनिर्मलधियो हंसस्य नान्यस्य सा ॥२३१॥ न भ्रूणा स्फुरणं न चक्षुचलन नो चूलिकाकम्पन न ग्रीवाचलन मनागपि न यत्पक्षद्वयोत्क्षेपणम् । नासाग्रेक्षणमेकपादनमनं कष्टैकनिष्ठं पर यावत्तिष्ठति हीनमीनवदनस्तावद्वकस्तापसः ॥ २३२ ॥
घूकः यद्यपि तरणे. किरणैः सकलमिदं विश्वमुज्ज्वल विदधे । तदपि न पश्यति घूकः पुराकृतं भुज्यते कर्म ॥ २३३ ॥
खद्योतः जर्जरतृणाग्रमदहन्सर्पपकणमप्रकाशयन्नूनम् । कीटत्वमात्मनस्तत्त्वद्योतः ख्यापयन्नटति ॥ २३४ ॥ घनसतसममलीमस दशदिशि निशि यद्विराजसि तदन्यत् । कीटमणे दिनमधुना तरणिकरान्तरितसितकिरणम् ॥ २३५ ॥ क्वापि गत. पतिरह्ना जलदान्तरित. शशी सनक्षत्रः । शून्ये तमसि भवानपि खद्योत द्योतता नाम ॥ २३६ ॥ इन्दुः प्रयास्यति विनङ्क्ष्यति तारकश्री. स्थास्यन्ति लीढतिमिरा न मणिप्रदीपा। अन्धं समग्रमपि कीटमणे भविष्यत्युन्मेषमेष्यति भवानपि दूरमेतत् ॥ २३७ ॥ आजिष्णवो नभसि मेघकृतान्तराले स्वल्पप्रभा अपि परैरनिरस्तभास. । खद्योतकाः प्रकटितोरुतरप्रभावास्तावन्न सं⁵स्रतुरग. समुदेति यावत् ॥ २३८ ॥
अदृष्टव्यापारं¹ गतवति दिनानामधिपतौ यश² शेषीभूते शशिनि गतधाम्नि³ ग्रहगणे । तथा ध्वान्तं जातं जगदुपहते मेघसमये यथामी गण्यन्ते तमसि पटव. कीटमणय ॥२३९॥
स्थलचरान्योक्तयः सिंहः एकोऽहमसहायोऽह कृशोऽहमंपरिच्छद⁴ । स्वप्नेऽप्येवविधा चिन्ता मृगेन्द्रस्य न जायते ॥ १ ॥ मृगेन्द्र वा मृगारि वा सुख व्याह्रता जन. । तस्योभयमपि व्रीडा क्रीडालितदन्तिन. ॥२॥ मृगेभ्यो रक्ष्यते क्षेत्रं नरैस्तृणमयैरपि । सिहाक्रान्तं पुनर्मूढ न हयैर्न च दन्तिभि. ॥३॥ मृगेन्द्रै शशैलैर्नीनं वराहैश्चलित स्थलात् । हयाना हेषितं श्रुत्वा सिंहै पूर्ववदामितम् ॥४॥ खनन्नाखुबिलं सिंह. पाषाणशकलाकुलम् । प्राप्नोति नखमङ्ग वा फल वा मूषको भवेत ॥ ५ ॥ जीर्णोऽपि क्रमहीनोऽपि⁵ कृशोऽपि यदि केसरी । तथापि यूथनाथस्य शङ्कातङ्काय कल्पते ॥६॥ नाभिषेको न सस्कार' सिहस्य क्रियते वने । विक्रमार्जितसत्त्वस्य स्वयमेव मृगेन्द्रता ॥ ७ ॥ वैरण्डगण्डकण्डूतिपाण्डित्यपरिपन्थिना⁶ । हरिणा⁷ हरिणालीषु⁸ कथ्यता कः पराक्रम. ॥ ८ ॥ उत्तुङ्गमत्तमातङ्गमस्तक्यस्तलोचनः । आसन्नेऽपि च सौरङ्गे⁹ न वाञ्छा कुरुते हरि.¹⁰ ॥ ९ ॥ जात स्तन्यं न जग्राह कण्ठीरवकिशोरकः¹¹ । चक्षुर्व्यापारयामास कुञ्जे कुञ्जरशालिनि ॥ १० ॥ वरमुन्नर्त¹²लोल्लासैस्¹³धूननभीषणात् । सिहात्पादप्रहारेऽपि न शृगालाधिरोहणम् ॥ ११ ॥ शूरोऽसि कृतविद्योऽसि दर्शनीयोऽसि पुत्रक । कुले तस्मिन्प्रजातोऽसि गजो यत्र न हन्यते ॥१२॥ यस्मिञ्जीवति सिंहे वनमिदमासीदुरासदं द्विरदैः । घटयन्ते कटिसूत्रं तस्य सटाभिः शबरशिशवः ॥ १३ ॥ एकाकिनि वनवासिन्यै¹⁴राजलक्ष्मण्यनीतिशास्त्रज्ञे । संत्त्वोच्छ्रिते¹⁵ युगपतौ राजेति गिरः परिणमन्ति ॥ १४ ॥ अनिशं मातङ्गानां बृंहितैर्¹⁶भीकर्ण्यते यथा विपिने । मन्ये तथा न जीवति ¹⁷गजेन्द्रकटकपल्कवलनः सिंहः ॥ १५ ॥ यद्यपि च दैवयोगात्सिह. पतितोऽतिदुस्तरे कूपे । तदपि च वाञ्छति सततं करिकुम्भवविदारणं मनसि ॥ १६ ॥ यद्यपि रटति सरोषं मृगपतिपुरतोऽपि मत्तगोमायुः । तदपि न कुप्यति सिंहोऽप्यसदृशपुरुषेषु क. कोप. ॥ १७ ॥ जठरज्वलनज्वलता-
१ जन्म
२ शुभ्रै
३ जीवनम्
४ ब्रह्मण उद्वहनेन वाहनतया पृष्ठे धारणेन
५ सूर्ये
१ दर्शनव्यापाररहित यथा स्यात्तथा
२ यशोमात्रावशिष्टे
३ गततेजसि
४ परिवारहीन
५ आक्रमणबलरहित
६ मत्तगजानाम्
७ वैरिणा
८ मृगपङ्क्तिषु
९ मृगे
१० सिंह
११ सिंहशावक
१२ पुच्छम्
१३ कम्पनम्
१४ राजचिह्नहरिहिते
१५ बलोन्नते
१६ गर्जितम्
१७ हस्तिगण्डस्थलमासग्रासकर
२३० सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
प्यपगतशङ्कं समागतापि पुर । करिणामरिणा हरिणा
हरिणाली हन्यता नु कथम् ॥ १८ ॥ हेलाविदलितकरि-
कुल कण्ठीरव कीदृशः प्रकोपोऽयम् । लोले बालशृगाले
केवलकोलाहलाधारे ॥ १९ ॥ गर्जितमाकर्ण्य मनागङ्के
मातुर्निगार्धजातोऽपि । हरिणिशिशुरुत्पतितुं द्रागङ्गान्याकुञ्च्य
लीयते निभृतम् ॥ २० ॥ वयोभिमानादपमानता चेद्द्वि-
धीयते फेरुजरत्तरेण । हेलाहतानेककरीन्द्रसूनो हरीन्द्र-
सूनोर्नहि कापि हानि ॥ २१ ॥ भिनत्ति भीमं करिराज-
कुम्भं बिभर्ति वेगं पवनादतीव । करोति वास गिरिगह्वरेषु
तथापि सिंहः पशुरेव नान्य ॥ २२ ॥ गम्यते यदि मृगे-
न्द्रमन्दिरे लभ्यते करिकपोलमौक्तिकम् । जम्बुकाल्लयगतेन
लभ्यते वत्सपुच्छखुरचर्मखण्डनम् ॥ २३ ॥ येन भिन्न
करिकुम्भविखलन्मौक्तिकावलिभिरञ्चिता मही । अद्य
तेन हरिणान्तिके कथ कथ्यता नु हरिणा पराक्रम
॥ २४ ॥ हरिरलसविलोचन. सहेलं बैलमवलोक्य
पुनर्जगाम निद्राम् । अधिगतपतिविक्रमास्तभीतिर्न तु वनि-
तास्य विलोकयाचकार ॥ २५ ॥ उत्तुङ्गशैलशिखरस्थित-
पादपस्य काकोऽपि पक्वफललभते सपक्षः । सिंहो बली
गजविदारणदारुणोऽपि सीदत्यहो तरुतले खलु हीनपक्ष.
॥ २६ ॥ अन्तर्बलान्यहममुष्य मृगाधिपस्य वाचा निवेद्य
कथमद्य लघूकरोमि । जानन्ति कि तु करजक्षतकुम्भि-
कुम्भनिर्मुक्तमौक्तिकमयानि वनान्तराणि ॥ २७ ॥ आबद्ध-
कृत्रिमसटाजटिलासमित्तिरारोपितो मृगपते. पदवी यदि
श्वा । मत्तेभकुम्भतपाटनलम्पटस्य नादं करिष्यति कथ
हरिणाधिपस्य ॥ २८ ॥ भिन्ना महागिरिशिला. करजाग्र-
जाम्रुद्दामशौर्यनिकरैः कैरटिभ्रमेण । दैवे पराञ्चि करिणाम-
रिणा तथापि कुत्रापि नापि खलु हा पिशितस्य लेश ॥२९॥
पारीन्द्रशावक न तावकरीतिरेषा वेशान्तरैर्विहरसि श्व-
शृगालशावै । कुम्भीन्द्रकुम्भदलनोत्पतनाक्रमेच्छा वंशोचिता
न खलु रीतिमुरींकरोषि ॥ ३० ॥ उत्पुल्य यः शिखरिणं
मदकुम्भिकुम्भमुद्भिद्य सानुशतमायतमुल्ललङ्घे । पञ्चाननो
नियत्या जरयाभिभूतः सोऽय करौ लिहति वृहितलोहि-
ताक्षः ॥ ३१ ॥ दिगन्ते श्रूयन्ते मदमलिनगण्डा कैरटिन.
करिण्यः कारुण्यास्पदमसमशीला. खलु मृगा । इदानी
लोकेऽस्मिन्नुपमशिखाना पुनरयं नम्बाना पाण्डित्यं प्रकट-
यतु कश्चिन्मृगपतिः ॥ ३२ ॥ न यत्र स्थेर्मानं दधुरति-
भयभ्रान्तनयना गलद्दानोद्रेकभ्रमदलिकदम्बाः करटिन ।
लुठन्मुक्ताभारे भवति परलोकं गतवतो हॅरेरद्य द्वारे
शिव शिव शिर्वीना कलकल ॥ ३३ ॥ कुरङ्गीणा यूथं
निभृतमिदमङ्गीकृतमय निरासङ्को यन्निर्दयहृदयभावोऽर्दयतु
तत् । निवेद्यो वा कश्चिन्नयमविनय केसरियुवा हठान्म-
द्येमाना युवतिषु विधत्ते नखपदम् ॥ ३४ ॥ स्थिति नो रे
दध्या क्षणमपि मदान्धवेक्षण सखे गजश्रेणीनाथ त्वमिह
जटिलाया वनभुवि । अमौ कुम्भिक्यान्त्या खरनखरनिर्दारित-
महागुरुग्रावग्राग स्वपिति मिरिगर्भ हरिपतिः ॥ ३५ ॥
पिव स्तन्य पोत त्वमिह मददन्तावउधिया दृगन्तानाधत्से
किमिति हॅरिदन्तेषु परुषान् । नयाणा लोकानामपि हृदय-
नाग परिहरन्ननं धीरं धीरं ध्वनति नवनीलो जलधर ॥३६॥
क्षुद्रा मन्ति सहस्रशोऽपि विपिने गौण्डैर्यरैर्योद्वतास्तत्सै-
फस्य पुन स्तीमहि मह सिहस्य विश्वोत्तरम् । केलि
कोलकुलैर्मदो मदकलै कोलाहलो नोहलै सहर्षो महिषैश्च
यस्य मुमुचे साहंकृते हुंकृते ॥ ३७ ॥ कोल केलिमलंकरीतु
करिण क्रीडन्तु कान्तामखा कासारे वनकासराः सग्भस
मजन्त्विह स्वेच्छया । अम्मयस्खन्त्रिमयोषितश्च हरिणा
भूयोऽनुरूपा गति कान्तान्तरसचरिष्णुरधुना पञ्चाननो
वर्तते ॥ ३८ ॥ नास्योच्छ्रायवती तनुर्न दशनौ नो दीर्घ-
दीर्घ कैर सत्यं वारण नैष केसरिशिशुस्त्वाडम्बरै स्पर्धते ।
तेजोवीजमसह्यमस्य हृदये न्यस्तं पुनर्वेधसा तादृक्त्वादृशमेव
येन सुतरा भोज्यं पशुं मन्यते ॥ ३९ ॥ क्षुत्क्षामोऽपि
जराकृशोऽपि शिथिलप्राणोऽपि कष्टा दशामपन्नोऽपि विपन्न-
धीधृतिरपि प्राणेषु नश्यत्स्वपि । मत्तेभेन्द्रविभिन्नकुम्भ-
पिशितग्रासैकबद्धस्पृहः किं जीर्ण तृणमत्ति मानमहतामग्रेसर.
केसरी ॥ ४० ॥ येनानर्गलकालकेलिकलितप्रत्यग्रकादम्बिनी-
धाराधोरणिधौतधातुषु पुरा शैलेषु लीलायितम् । सोऽयं
शुङ्खनिपातभग्नचरण. स्फारस्फुरत्फेरेवीफूत्कारै कुपितोऽद्य
खादति मुहु. पाणी मृगग्रामणीः ॥ ४१ ॥ ग्रामाणामुप-
शल्यसीमानि मदोद्रेकस्फुरत्सौष्ठया. फेत्कारध्वनिमुद्गिरन्ति
बहव. सम्भूय गोमायवः । सोऽन्य. कोऽपि घनाघन-
ध्वनिघन पारीन्द्रगुञ्जारव शुष्यद्दण्डमलोलशुण्डमचलत्कर्ण
गर्जैर्य. श्रुत. ॥ ४२ ॥ एणः क्रीडति शूकरश्च खनति
द्वीपी च गर्व्वायते क्रोष्टा क्रन्दति वल्गते च शशको
वेगाद्दुरूर्धावति । निःशङ्कः करिपोतकस्तरुलतामुन्मोटते
लीलया हंसो सिंह विना त्वयाद्य विपिने कीदृग्दशा वर्तते
॥ ४३ ॥ हे मातङ्ग मदाम्बुडम्बरतया रोलम्बरोलं वह-
न्त्यानामवलम्बनं वनमिदं भङ्क्तुं यदुत्कण्ठसे । दृष्टस्त-
१ वृद्धजम्बूकेन २ मृगयार्थमागता सेनाम् ३ गजभ्रमेण ४ हे सिंहशिशो ५ गजा ६ स्थितिम् - ७ सिंहस्य
१ कोष्ट्रीणाम् २ दिगन्तेषु ३ अहंकारकारवत्त्वम् ४ नीचा ५ 'नाहलो म्लेच्छजाल्यन्तरे' इति हैम ६ शुण्डादण्ड ७ क्षुधया खिन्न ८ नूतनमेघमाला ९ जम्बुकी
| स्थलचरान्योक्तयः | २३१ |

| [सिंहः] | गजः |

| दिक्रमहो महोन्नतधराधौरैयधात्रीधरप्रस्थप्रस्थितमेघयूथमथनोत्कण्ठी न कण्ठीरवः ॥४४॥ यस्यावन्ध्यरुषः१ प्रतापवसतेर्नादेन धैर्यद्रुहः शुष्यन्ति स्म मदप्रवाहसरितो गण्डोऽपि दिग्दन्तिनाम् । दैवात्कष्टदशावशं गतवतः सिंहस्य तस्याधुना कर्षन्त्येव करेण केसरसटाभारं जरत्कुञ्जराः२ ॥ ४५ ॥ यः शौर्यावधिरेव यस्य सहसा दिग्दन्तिनोऽप्यन्तिकं नायाताः किल येन विन्ध्यवसुधा गम्या न कस्याप्यभूत् । तस्मिन्कौतुकिना त्वया करिपतौ लुप्ते कपोलस्थलीभृङ्गे केसरिवीर संप्रति पुनः कुत्रैष विश्राम्यतु ॥ ४६ ॥ यूना येन विभिन्नवारणघटाकुम्भोच्छलन्मौक्तिकश्रेणीभिः परिपूरितास्तटभुवो भूमीभृतां कोटिशः । तस्यैवाद्य निवाससीम्नि कलभाः क्रीडन्ति निःसाध्वसं पारीन्द्रस्य३ जरातुरस्य तदहो जीर्णा जिगीषारमः ॥ ४७ ॥ कः कं कुत्र न घुर्घुरारवनिधुरीघोरो घुरेच्छूकरः कः कं कं कमलाकरं विमलं कर्तुं करी नोद्यतः । के के कानि वनान्यरण्यमहिषा नोन्मूलयेयुर्यतः सिंहीस्नेहविलास बद्धवसतिः पञ्चाननो वर्तते ॥ ४८ ॥ मातङ्गाः किमु वल्गितैः किमफलैराडम्बरैर्जम्बुकाः सारङ्गा महिषामदं व्रजत किं शून्येपु शूरा न के । कोपाटोपसमुद्भटोत्कटसटाकोटीरभारैः पुनः सिन्धुध्वानिनि हुंकृते स्फुरति यत्तद्गर्जितं गर्जितम् ॥ ४९ ॥ काकः पक्षबलेन भूपतिगृहे वास यदि प्राप्तवान्किं वा तस्य महत्त्वमस्य लघुता पञ्चाननस्यागता । येनाक्रम्य करीन्द्रगण्डयुगलं निर्भिद्य हेलालवाल्लब्ध्वा त्रासवरं वराटकधिया४ मुक्तागणस्त्यज्यते ॥ ५० ॥ निद्रामीलितलोचनो मृगपतिर्यावद्गुहां सेवते तावत्स्वैरममी चरन्तु हरिणाः स्वच्छन्दसञ्चारिणः । उत्निद्रस्य विधूतकेसरसटाभारस्य निर्गच्छतो नादे श्रोत्रपथं गते गतधियः सन्त्वेव दीर्घायुषः ॥ ५१ ॥ खैराः सन्तु सभासदः करिचमूदपर्ज्वरोत्सारिणो हर्यक्षेण समं च जम्बुकयुवा युद्धाय बद्धादरः । तत्रापि प्रथयन्ति तुल्यबलतामेके तयोरुच्चकैरन्ये संशयशंसिनस्तदपरे बाढं विपर्यासिनः ॥ ५२ ॥ हे हर्यक्ष सहस्व संप्रति लघुर्गोमायुरग्रे सतां मत्पुंसाधारणवन्यजन्तुमनसा गुङ्कारवं सव्यधात् । नीचानां प्रकृतिर्भ्रमो मुखरता चातः कथं खिद्यसे शार्दूले द्विरदे मृगे शशकुले कस्ते विपक्षग्रहः ॥ ५३ ॥ दिग्नागाः प्रतिपेदिरे प्रथमतौ जात्यैव जेत्तव्यतां सामान्यः स्फुटविक्रमोऽथ वृषभो गौरेव गौरीपतेः । विक्रान्तेर्निकषं करोतु कतमं नाम त्रिलोकीतले कैण्ठेकालकुटुम्बिनी५करुणया सिक्तः स कण्ठीरवः ॥ ५४ ॥ | गजस्य पङ्कमग्नस्य त्रपाकरमिदं महत् । पादमुद्धृत्य यद्वच्छन्हरिणोऽपि हसत्यसौ ॥ ५५ ॥ मलोत्सर्गं गजेन्द्रस्य मूर्ध्नि काकः करोति चेत् । कुलानुरूपं तत्तस्य यो गजो गज एव सः ॥ ५६ ॥ आसाद्गलितसिक्थस्य किं गतं करिणो भवेत् । पिपीलिकस्तु तेनैव सकुटुम्बोऽपि जीवति ॥ ५७ ॥ बन्धनस्थो हि मातङ्गः सहस्रभरणक्षमः । अपि स्वच्छन्दचारी श्वा स्वोदरेणापि दुःखितः ॥ ५८ ॥ अन्तर्वमति मार्जारी शुनी वा राजवेश्मनि । बहिर्बद्धोऽपि मातङ्गतस्ततः किं लघुतां गतः ॥ ५९ ॥ गर्वितमो गजः पद्गास्तद्भावाधितुं ध्रुवम् । मरो विशति न खातुं गजज्ञानं हि निष्फलम् ॥ ६० ॥ कौपे पयसि लघीयसि तापेन करः प्रसारितः करिणा । सोऽपि न पयसा लिप्तो लाघवमात्मा परं नीतः ॥ ६१ ॥ यदि मत्तोऽसि मतङ्गज किममीभिरपारसरलतरुदलनैः । हरिमनुसर१ स्वरनखरैर्ध्यपनेष्यति ते स करटकण्डूतिम् ॥ ६२ ॥ कलभ तवान्तिकमागतमलिमेनं मा कदाप्यवज्ञासीः । अपि दानसुन्दराणां द्विपधुर्याणामयं शिरोधार्यः ॥ ६३ ॥ लीलासुकुलितनयनं किं सुखशयने समातनुषे । परिणामविषमहरिणा करिनायक वर्धते वैरम् ॥ ६४ ॥ आपातालगभीरे मज्जति नीरे निदाघसन्तप्तः । न स्पृशति पल्बलाम्भः पङ्ककशेषोऽपि कुञ्जरः क्वापि ॥ ६५ ॥ सूते सूकरगृहिणी सुतशतमतिदुर्भगं झटिति । करिणि चिराय सूते कमपि महीपाललालितं कलभम् ॥ ६६ ॥ गिरिगरिट्टेषु गुरुगर्वगुम्फितो गजराजपोत न कदापि संचर । यदि बुध्यते हरिशिशुः स्तनंधयो भविता करेणुपरिशोषिता मही ॥ ६७ ॥ केलिं२ कुरुष्व परिभुङ्क्ष्व सरोरुहाणि गौहस्व३ शैलतटनिर्झरिणीपयांसि । भावानुरक्तकरिणीकरलालिताङ्ग मातङ्ग मुञ्च मृगराजरणामिलाषम् ॥ ६८ ॥ भो भोः करीन्द्र दिवसानि कियन्ति तावदस्मिन्मरौ४ समतिवाहय५ कुत्रचित्त्वम् । रेवाजलेर्निजकरेणकरप्रयुक्तैर्भूयः शमं गमयितासि निदाघकाले ॥ ६९ ॥ दानार्थिनो६ मधुकरा यदि कर्णतालैर्दूरेकृताः करिवरेण मदान्धबुद्ध्या । तस्यैव गण्डयुगमण्डनहानिरेषा भृङ्गाः पुनर्विर्कचपद्मवने७ चरन्ति ॥ ७० ॥ लँङ्गूलचालनमधश्चरणावपातं भूमौ निपत्य वदनोदरदर्शनं च । श्वा पिण्डदस्य कुरुते गंजपुंगवस्तु९ धीरं विलोकयति चाटुशतैश्च भुङ्क्ते ॥ ७१ ॥ गण्डस्थले हि मदवारिजलौघलुब्धमत्तभ्रमद्भ्रमरपादतलाहतोऽपि । कोपं न गच्छति नितान्तबलोऽपि नागस्तुल्ये बले हि बलवान्परिकोपमेति ॥ ७२ ॥ |
पादटिप्पण्यः (Footnotes)
[वामभागः]
१ सफलकोपस्य
२ वृद्धगजाः
३ सिंहस्य
४ कपर्दकबुद्ध्या
५ कण्ठेकालः शिवस्तत्कुटुम्बिनी पार्वती
[दक्षिणभागः]
१ सिंहम्
२ क्रीडाम्
३ मज्जनं कुरु
४ मरुदेशे
५ यापय
६ दानोत्कथिनः
७ प्रफुल्लकमलवने
८ पुच्छविशेषणम्
९ गजश्रेष्ठः
| २३२ | सुभाषितरत्नभाण्डागारम् | [ ५ प्रकरणम् |

| न स्वां करेणुमपि नापि निजान्किशोरान्नात्मानमेष परिशोचति वारेणेन्द्रः । दावाग्निमग्नतनुगत्र यथोपमन्दान्दानार्थिनो मधुकरानधिरूढभावान् ॥ ७३ ॥ दन्तं दलत्यपि जलैः सहसाधिरूढे को वर्धमानगतिरांसितुमुत्सहेत । यद्दन्तिनः कटकटाहतटानिर्मोङ्गोर्मिपाति परितः पटलैरलीनाम् ॥ ७४ ॥ न गृह्णाति ग्रासं नवकमलकिञ्जल्किनि जले न पङ्केराह्लादं व्रजति विसभङ्गावशकले । ललन्तीं प्रेमार्द्रामपि विषहते नान्यकरिणीं सरन्दावभ्रष्टां हृदयदयितां वारणपतिः ॥ ७५ ॥ गले पाशस्तीव्रश्चरणयुगले गाढनिगडो दृढः स्कन्धे बन्धः शिरसि संनिपातः खरतरः । नरस्कन्धारूढो बत मरणयोग्येऽपि विषये न जानीमोऽल्पार्थे द्विरद वद कस्मात्तव मदः ॥ ७६ ॥ निषेवन्तामेते वृषमहिषमेषाश्च हरिणा गृहाः क्षुद्राणानि कतिपयतृणैरेव सुखिनः । गजानामास्थानं मदमलिलजम्बालितमुवा तदेकं विन्ध्याद्रेर्विपिनमथवा भूपसदनम् ॥ ७७ ॥ न कुर्याः प्राखर्यं किमपि करिपोत प्रतिभिया हरीणां हेलेयं यदिह बहुवेलं विहरसि । अकस्मादेतेषां कुटिलदृशि रोषस्पृशि मनाङ्निरर्था भाविन्यो मदकरिदरिद्रा वनभुवः ॥ ७८ ॥ जहीहि गुरुगर्जितं विजहि शुण्डया सीत्कृतं परिश्रमं शनैर्वनं किमु गजेन्द्र गर्वायसे । यथा न किल केसरी गिरिदरीषु निद्रां त्यजन्विमूर्च्छयति जृम्भया सुभग तावकीनं मनः ॥ ७९ ॥ रे चाञ्चल्यजुषो मृगाः श्रितनगाः कल्लोलमालाकुलामेतामम्बुधिगामिनीं व्यवसिताः सङ्गाहितुं वा कथम् । अत्रैवोच्छलदम्बुनिर्भरमहावर्तः समावर्तितो यद्भावेव रसातलम् पुनरसौ यातो गजग्रामणीः ॥ ८० ॥ नीवारप्रसवाग्रमुष्टिकवलैर्यो वर्धितः शैशवे पीतं येन सरोजपत्रपुटके होमावशेषं पयः । तं दृष्ट्वा मदमन्थरालिबलयव्यालुप्तगण्डं गजं सोत्कण्ठं सभयं च पश्यति मुहुर्दूरे स्थितस्तापसः ॥ ८१ ॥ कर्णे चामरचारुकम्बुकलिकाः कण्ठे मणीनां गणाः सिन्दूरप्रकरः शिरःपरिसरे पार्श्वान्तिकेषु किङ्किणी । लब्धश्चैन्नृपवाहनेन करिणा बद्धेन भूषाविधिस्तार्क्तं भूधरधूलिधूसरतनुर्मान्यो न वन्यः करी ॥ ८२ ॥ पीतं यत्र हिमं पयः कवलिता यस्मिन्मृणालाङ्कुरास्तापार्तेन निमज्ज्य यत्र सरसो मध्ये विमुक्तः श्रमः । धिक्तस्यैव जलानि पङ्किलयतः पाथोजिनीं मग्नतो मूलान्युत्खनतः करीन्द्र भवतो लज्जापि नो | जायते ॥ ८३ ॥ तापो नापगतस्तृषा न च कृशा धौता न धूली तनोनं स्वच्छन्दमकारि कन्दकवलः का नाम केलीकथा । दूरोत्क्षिप्तकरेण हन्त करिणा स्पृष्टा न वा पद्मिनी प्रारब्धो मधुपैरकारणमहो झङ्कारकोलाहलः ॥ ८४ ॥ नाभून्भुवि यस्य कुत्रचिदपि स्वर्वीकराः कुञ्जराः सिंहेनापि न लङ्घिता किमपरं यस्योद्धता पद्धतिः । कथं सोऽपि कँद्यते करिवरः स्फारारवैः फेरवैरापाताल गभीरपङ्कपटलीमग्नोऽद्य भँगोद्यमः ॥ ८५ ॥ पादाघातविधूर्णिता वसुमती त्रासाकुलाः पक्षिणः पङ्काङ्कानि सरांसि गण्डकषणक्षोदक्षताः शाखिनः । प्राप्येदं करिपोतकैर्विधिबशाच्छार्दूलशून्यं वनं तत्तन्नाम कृतं विशृङ्खलतया वक्तुं न यत्पार्यते ॥ ८६ ॥ आगमोऽयमनर्गलेन बलिना भग्नः समग्रो मयेत्यन्तः सभृतहर्षवर्वितमदोऽद्य किमुन्माद्यसि । मातङ्ग प्रतिवर्षमेव भवतो भावी निदाघज्वरस्तत्रापि प्रतिकारमहंमि सखे सम्यक्समालोचितुम् ॥ ८७ ॥ कौपं वारि विलोक्य वारणपते किं विस्मितेनास्यते प्रायो मँज्जनमस्य संप्रति भवास्तत्पीयतामादरात् । उन्मज्जच्छफरीपुलिन्दललनापीनस्तनास्फालनस्फारीभूतमहोर्मिनिर्मलजला दूरेऽधुना नर्मदा ॥ ८८ ॥ नो मन्ये दृढबन्धनात्क्षतमिदं नैवाङ्कुशाघातनं स्कन्धारोहणताडनात्परिमवं नैवान्यदेशागमम् । चिन्ता मे जनयन्ति चेतसि यथा स्मृत्वा स्वयूथ्यान्वने सिंहत्रासितभीतभीरुकलभा यास्यन्ति कस्याश्रयम् ॥ ८९ ॥ पत्युर्यत्पतितावशेषकवलांशेन वृत्तिः कृता पीतं यच्च करावगाहकलुषं तत्पीतशेषं पयः । प्राणान्पूर्वतरं विहाय तदिदं प्राप्तं करिण्या फलं यद्वन्धव्रणकातरस्य करिणः क्लिष्टं न दृष्टं सुखम् ॥ ९० ॥ क्रीडाकारि तडागवारिणि गतातङ्कं न पङ्केरुहैर्बह्ली काचन शल्लकीतरुगता नाकर्षिता हर्षतः । नाश्लिष्टा करिणी करेण करुणां कामातुरेणामुना दंष्ट्राभिर्विकटाननः शिव शिव व्यालोकि पञ्चाननः ॥ ९१ ॥ सान्द्रामोदवतीः स्वकीयवसतीः पङ्केरुहाणां ततीस्त्यक्त्वार्थं भ्रमरः करीन्द्र भवतामभ्याशमभ्यागतः । एतच्चेतसि संप्रधार्य जगतीविख्यातदानैस्तथा युष्माभिः क्रियतां यथोपरमते हास्याय नास्यागमः ॥ ९२ ॥ त्यक्तो विन्ध्यगिरिः पिता भगवती माता च रेवोज्झिता त्यक्ताः स्नेहनिबद्धबन्धुरधियस्तुल्योदया दन्तिनः । त्वल्लोभाज्जतु हस्तिनि प्रतिदिनं बन्धाय दत्तं वपुस्त्वं दूरीक्रियसे लुठन्ति च शिरःपीठे कठोराङ्कुशाः ॥ ९३ ॥ स्पर्धन्तां मुखमेव कुञ्जरतया दिक्कुञ्जरैः कुञ्जरा ग्राम्या वा वनवासिनो मदजलप्र- |
पादटिप्पण्यः (Footnotes):
| वामपादटिप्पण्यः | दक्षिणपादटिप्पण्यः |

| १ वितरणम्, पक्षे,-मदजलम्
२ उदकैः, पक्षे,-डलयोरभेदात् जडैः
३ आक्रान्ते
४ सगक्तिकः, पक्षे,-बुद्धिमान्
५ स्थातुम्
६ शक्नुयात्
७ गण्डः
८ मज्जनं कर्तुमिच्छोः
९ शीघ्रम्
१० अङ्कुशपानम्
११ तृणधान्यानि | १ धिक्क्रियते
२ हतप्रयत्नः
३ पात्रम्
४ शबरस्त्री
५ करिशावकाः |