सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
२६६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
मध्यौवनगजस्यावैमि कुम्भद्वयम् ॥ २९५ ॥ उद्भेदं प्रतिपद्य पक्वबदरीभावं समेत्य क्रमात्पुंनागाकृतिमाप्य रत्पदवीमारुह्य बिल्वश्रियम। लब्ध्वा तालफलोपमा च ललितामासाद्य भूयोऽधुना चञ्चत्काञ्चनकुम्भजृम्भणमि- भावस्या स्तनौ बिभ्रत ॥ २९६ ॥ रँत्याप्तप्रियलाञ्छने कठिनतावासे रँसालिङ्गिते प्रँह्लादैकरसे क्रमादुपचिते भूभृ- द्गुरुत्वापहे । कोर्कस्पर्धिनि भोगभाजि र्जनितानङ्गे र्खेली- नोन्मुखे भाति श्रीर्गमणावतारदशकं बाले भवत्या. स्तने ॥ २९७ ॥ मध्येऽय बलिसद्म दृष्टिरधिक पृथ्वौ सुपर्वा- लयो बाहुस्तत्क्रमलेक्षणा त्रिजगतीमेकैव संरक्षति । इत्येव स्तनयोर्मिषेण कनकक्षोणीभृता सधृतौ यस्यामात्मकिकोरकौ पविभयव्यग्रेण जम्भद्विष ॥ २९८ ॥
कञ्चुकी
उपरि पीनपयोधरपातिता पटकुटीव मनोभवभूपतेः । विजयिनस्त्रिपुरारिजिगीषया तव विराजति भामिनि कञ्चुकी ॥ २९९ ॥
हारः
घटीयन्त्रायते हारो नाभिकूपे मृगीदृश. । ससेक्तुमिव लावण्यपयसा यौवनद्रुमम् ॥ ३०० ॥ हार कुरङ्गशावाक्ष्या राजति स्थूलमौक्तिक । नाभिलावण्यपानीयघटीयन्त्रगुणोपमः ॥ ३०१ ॥ माँतङ्गकुम्भसंसर्गजातपातकशङ्कया । ज्ञातीव मुक्ताहारेणेऽस्या. स्फुरत्कान्तिजले गले ॥ ३०२ ॥ प्राणेश्वरपरिश्वङ्गविभ्रमप्रतिपत्तिभि । मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥ ३०३ ॥ हारोऽयं हरिणाक्षीणा लुठति स्तनमण्डले । मुक्तानामप्यवस्थेयं के वयं स्मरकिंकरा ॥ ३०४ ॥ मणिहारलता विभाति तन्व्या स्तनसिंहासनसन्निधौ तथित्वासम् । अभिषेक्तुमनङ्गजदेवगज गलशङ्खाद्वलितेव दुग्धधारा ॥ ३०५ ॥ ग्रीवाद्धृतैवाव- दुशोभितापि प्रभावता माणवकेन सेयम् । आलिङ्ग्यता- मध्यवलम्बमाना सुरूपताभागखिलोर्ध्वकाया ॥ ३०६ ॥ स्तनातटे चन्दनपङ्किलेऽस्या जातस्य यावद्युवमानसानाम् । हारावलीरत्नमयूखधाराकाराः स्फुरन्ति स्खलनस्य रेखाः ॥ ३०७ ॥ निबिडानुषक्तकुचकोकदम्वती सुखतारकापरि- वृढेन शासितुम् । अवतारितेव निजतारकावली हरिणीदृशः स्फुरति हारवल्लरी ॥ ३०८ ॥ एकावलीकलितमौक्तिककैत- वेन तन्व्याः समुन्नकपयोधरयुग्मसेवाम् । चक्रुमनासि यमिना- मतिनिर्मलानि कंदर्पमुक्तशरपातकृतान्तराणि ॥ ३०९ ॥ सारङ्गाक्ष्याः कुचकलशयोरन्तराकाशदेशः प्राप्तच्छेदः क्वचि- दपि चलन्प्रस्खलन्नि.पपात । नाभीकूपः समजनि नतस्तस देहच्युतासौ नक्षत्राणा ततिरिव समालम्बते हारशोभाम् ॥ ३१० ॥ मुक्तावली खरविदाहविपाण्डुमूले नद्धा चकास्ति सितकम्बुनि कण्ठकाण्डे । निश्विन्वती मृगदृशो वदनं मृगाङ्कं नक्षत्रपङ्क्तिरिव संपतिता नभस्त. ॥ ३११ ॥
मध्यदेशः
युक्तं मध्ये कृशा तन्वी कार्मुकीकरणाय यत् । अत्रैव कुसुमास्त्रेण पीड्यते श्लिष्टमुष्टिना ॥ ३१२ ॥ स्तनौ भारपणव्यग्रौ काञ्ची कलकलोन्मुखी । कस्या दिशि न मध्यस्य तस्याः कार्थ्यं सहेतुकम् ॥ ३१३ ॥ मध्यं तव सरोजाक्षि पयोधरभरादितम् । अस्ति नास्तीति सदेह. कस्य चित्ते न भापते ॥ ३१४ ॥ स्मरमानसिक्समस्याः स्यात्स्त- निमा निरवधिर्मध्य. । श्रीरेव पूरयति या न गिरा देवी न चापि गुरुरस्या. ॥ ३१५ ॥ अक्षि-प्रकृतिमन्नोज्ञे लघ्ना प्रायेण मान्मथी दृष्टि. । सुन्दरि यतो भवत्या. प्रतिक्षणं क्षीयते मध्य ॥ ३१६ ॥ वयःप्रकर्षादुपचीयमानस्तनद्वय- स्योद्वहनश्रमेण । अत्यन्तकार्थ्यं वनजायतार्थ्या मध्यो जगामेति ममैष तर्कः ॥ ३१७ ॥ बद्धा हियोमा त्रिवली गुणेन गृह्णाति रोमावलिनेत्रवल्लीम् । इतीव चिन्ताकुलभङ्गु- रोऽयं मध्यो मृगाक्ष्याः कृशतामुपैति ॥ ३१८ ॥ काञ्चीगुणै- र्विरचिता जघनेषु लक्ष्मीर्लग्न्या स्थितिः स्तनतटेषु च रत्न- हारै. । नो भूषिता वयमितीव नितम्ब्विनीना कार्थ्यं निरर्ग- लमधार्यत मध्यभागे ॥ ३१९ ॥ स्फुटमसदवलग्नं तन्वि निश्चिन्वते ते तदनुपलभमानास्तर्कयन्तोऽपि लोकाः । कुचगिरिवरयुग्मं यद्विनाधारमास्ते तदिह मकरकेतोरिन्द्र- जाल प्रतीमः ॥ ३२० ॥ तुङ्गाभोगे स्तनगिरियुगे प्रौढबिम्बे नितम्बे सीमादेशं हरति नृपतो यौवने जृम्भमाणे । मध्यो भीरु. क्वचिदपि ययौ पद्मपत्रेक्षणाया. शून्य मध्यस्थलमिति तत क्विदन्दती वदन्ति ॥ ३२१ ॥ देह हेमद्युति परिहृता- म्भोजवृष्टि च दृष्टि राशीभूतभ्रमरपटलीचारुवेषं च केशम् ।
१ रतावास प्रियस्य लाञ्छन चिह्न नखक्षताङ्गरोगादिक येन तथा भूते, पक्षे,-रत्या आप्त प्रिय कामस्तस्य लाञ्छन मन्मथस्तद्रूपे २ कठिनताया आवासे स्थानभूते, पक्षे,-कठिनताया आवासे कूर्मे ३ रसेनालिङ्गिते, पक्षे,-रमया पृथिव्या स्वोदरणकाले आलिङ्गिते वराहे ४ प्रकृष्टाह्लाद एकरसे तत्परे, पक्षे,-प्रह्लादे एको रस प्रीतिर्यस्य तस्मिन्नृसिंहे ५ क्रमाद्बदरामलकादिपरिमाणलाभेनोपचिते प्रवृद्धे, पक्षे,-क्रम पादविक्षेपस्तदनुसारेणोपचिते प्रवृद्धे वामने ६ भृभ्रता पर्वताना गुरुत्वमपत्ति नाशयति तादृशे ततोऽपि महत्त्वात्, पक्षे,-भूभृता राज्ञा गारवनाशे मार्गवे ७ चक्रवाकस्पर्धी-शीले तत्सदृशत्वात्त, पक्ष,-नीतावियांगानुरतया चक्रवाकशापद रामे ८ भोग सुख शगार तद्भाजि, पक्षे,-भोग फणा तद्भाजि शेषावतारे बलमद्र ९ जनितनमदने, पक्षे,-जनितमनङ्गमङ्गस्य शरीरस्य विरुद्ध मौनभोगत्यागसमाधिप्रभृति येन तस्मिन्बुद्धे १० खेलिविन्द्रियेषु लीना अमक्ता उन्मुखा याँस्सिंस्तादृशे, पक्षे,-खलीनमश्वस्य वल्गा तदुन्मुखे ककिन्ीति ११ विष्णो १२ अन्यज, पक्षे,-गज १ पुष्यमाण २ मध्यम्
तरुणीपृथगवयववर्णनम् २६७
दृष्ट्वा सद्यो विपुलहृदयानन्दमूढेन धात्रा सारङ्गाक्ष्या किमु रचयितुं विस्मृतो मध्यदेशः ॥ ३२२ ॥ आक्रमन्ते शैशवेऽस्मिन्नभिनववयसा शासनान्मीनकेतोर्बालाया नेत्रयुग्मं श्रुतियुगमविशद्भूयुगेनापि सार्धम् । वक्षोजद्वन्द्वमुच्चैर्बहिरिह निरगाच्छ्रोणिबिम्बेन साकं मध्यः सङ्गृह्य बद्धस्त्रिवलिरुचिभितः कार्श्यमङ्गीकरोति ॥ ३२३ ॥
नाभिः
मन्ये समाप्तलावण्ये सारसर्गे मृगीदृशः । अपूरयित्वेव गतो नाभिरन्ध्रं चतुर्मुखः ॥ ३२४ ॥ कुचकुम्भौ समालम्ब्य तरन्ती कान्तिनिम्नगाम् । अगादितस्ततो दृष्ट्वा दृष्टिर्नाभौ निमज्जति ॥ ३२५ ॥ स्तनौ तुङ्गौ समासाद्य चापण्यस्तम्भरे खरे । कोदण्डातनिमुद्रेव जाता नाभी नतभ्रुवः ॥ ३२६ ॥ उरोजवञ्चक्रमनोजरूपा केशावलीव भ्रमराजिता वा । संगीतवत्सत्पुटभेदहृद्या विधेय नाभीसरसी मृगाक्ष्याः ॥ ३२७ ॥
वलित्रयम्
एकमेव वलिं बद्ध्वा जगाम हरिरुन्नतिम् । तन्व्यास्त्रिवलिबन्धेऽपि सैव मध्यस्य नम्रता ॥ ३२८ ॥ स्तनभागस्य मध्येन त्रिवलिव्याजत कृता । तस्याः शङ्कितभङ्गेन भ्रूभङ्गानामिवार्वालः ॥ ३२९ ॥ तदीयत्रिवलीमार्गसोपानारोहणश्रमम् । अनङ्गलवादनङ्गस्य जातो रत्येकगोचरः ॥ ३३० ॥ परिहृत्य दुगरोहं तस्याः स्तनतटं कृता । कन्दर्परथसंचारमार्गालीव वलित्रयी ॥ ३३१ ॥ दरिद्रमुदरं दृष्ट्वा चक्रे लावण्यपूर्णयोः । पन्थानं स्तनयोस्तस्यास्त्रिवलीविषमं विधिः ॥ ३३२ ॥ राजति त्रिवली तस्याः स्तनभारोन्नतिक्रमात् । उपर्य्युपरि जातेव हारमुद्रापरम्परा ॥ ३३३ ॥ मध्यत्रिवलीत्रिपथे पीवरकुचचत्वरे च चपलदृशाम् । छलयति मदनपिशाचः पुरुषं हि मनागपि स्खलितम् ॥ ३३४ ॥ मध्येन सा वेदactive/वेदिविलग्नमध्या वलित्रयं चारु बभार बाला । आरोहणार्थं नवयौवनेन कामस्य सोपानमिव प्रयुक्तम् ॥ ३३५ ॥ अनन्यसाधारणकान्तिकान्ततनोरमुष्याः किमु मध्यदेशः । जगत्त्रयीजन्मभृता निषण्णा चित्तावतीयं त्रिवलीमिषेण ॥ ३३६ ॥ मध्यात्समानीय सुसारभागं वक्षोजमुत्पादयिता विधाता । अतिप्रयत्नात्रिवलीमिषेण सोपानवर्त्मत्रितयं चकार ॥ ३३७ ॥ मत्वा चापं शशिमुखि निजं मुष्टिना पुष्पधन्वा तन्वीमेना तव तनुलता मध्यदेशे बभार । यस्यादत्र त्रिभुवनवशीकारमुद्रानुकारास्तिस्रो भान्ति त्रिवलिकपटादङ्गुलीसन्धिरंखाः ॥ ३३८ ॥
रोमावली
नाभिरन्ध्र प्रविष्टास्या श्यामला रोमवल्लरी । त्रस्ता तिमिरलेखेव मेघलामणिकान्तितः ॥ ३३९ ॥ भाति रोमावली तस्याः पयोधरमगोन्नतो । जाता रखशलाकेव श्रोणीवैदूर्यभूषितः ॥ ३४० ॥ नाभिसङ्गेन गौर्यङ्ग्याः शोभते रोममञ्जरी । कंदर्पहेमकटकाल्लाक्षाधारेव निर्गता ॥ ३४१ ॥ नाभीवलयसंबद्धा रोमाली भाति सुभ्रुवः । सहिता निगडेनेव शृङ्खला खरदन्तिनः ॥ ३४२ ॥ रोमावली विलासिन्याः प्रविष्टा नाभिमण्डलम् । कियदाम्भीर्यमत्रेति तात्पर्यमिव बिभ्रती ॥ ३४३ ॥ लिखन्त्या कामसाम्राज्यशासनं यौवनश्रियः । गलितेव मषीधारा रोमाली नाभिगोलकात् ॥ ३४४ ॥ जाने रात्रिषु तन्मध्ये ददाति शनकैः पदम् । गम्भीरनाभिकुहप्रवेशाशङ्कया स्मरः ॥ ३४५ ॥ कुचदुर्गराजधान्योर्मध्येमार्गं मृगीदृशो मदनः । किमकृत नाभीवापीमपि रोमालीतमालवनरेखाम् ॥ ३४६ ॥ वयसी शिशुतातदुत्तरे सुदृशि स्वामिविधिं विधित्सुनी । विधिनापि न रोमरेखया कृतसीम्नि प्रविभज्य रज्यत ॥ ३४७ ॥ तस्याः प्रविष्टा नतनाभिरन्ध्रं ग्गज तन्वी नवरोमराजिः । नीवीमतिक्रम्य सितेतरस्य तन्मेखलामध्यमणेरिवार्चिः ॥ ३४८ ॥ गौरीव पत्या सुभगा कदाचित्क्रींयमप्यर्धतनूममस्याम् । इतीव मध्ये विदधे विधाता रोमावलीमेचकसूत्रमस्याः ॥ ३४९ ॥ रोमावलीरज्जुमुरोजकुम्भौ गम्भीरमासाद्य च नाभिकूपम् । मदृष्टितृष्णा विरमेद्यदि स्यान्नेषा वतैषा सिचयेन गुप्तिः ॥ ३५० ॥ उन्मूलितालानविलाभनाभिशिखेन्नस्वलच्छृङ्खलरोमदामा । मत्तस्य सेय मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥ ३५१ ॥ रोमावलिभ्रुकुसुमैः स्वमौर्वीचापेषुभिर्मध्यललाटमूर्तिः । व्यस्तैरपि स्यात्सुभिरेतदीयैर्जैत्रः स चित्रं रतिजानिवीरः ॥ ३५२ ॥ गभीरनाभीहदसन्निधाने रराज तन्वी नवरोमराजिः । मुखेन्दुभीतस्तनचक्रवाकद्वन्द्वोज्झिता शैवलमञ्जरीव ॥ ३५३ ॥ स्वर्णावदातद्युतिकायकाण्डे संपूर्णपीयूषमयूखमुख्य । एणीदृश पृष्ठविलम्बिवेणीबिम्बः पुरो राजति रोमराजी ॥ ३५४ ॥ पयोधरस्तावदयं समुन्नतो रसस्य वृष्टि सविधे भविष्यति । अतः समुद्गच्छति नाभिरन्ध्रतो विसारि रोमालिपिपीलिकावलिः ॥ ३५५ ॥ गभीरनाभीहदपार्श्ववर्तिनी विराजते रोमतती मृगीदृशः । मुखारविन्दस्य रसामिलाषिणी द्विरेफपङ्क्तिश्ललितेव नीरवा ॥ ३५६ ॥ समुदितकुचकुम्भमङ्गनाया हृदयमनङ्गमत्तङ्गजोऽधिशेते । तदखिलपदबन्धनाय रोमावलिरिह शृङ्खलिका विलोक्यते यत् ॥ ३५७ ॥ दत्तं मया पदमिदं नवयौवनाय त्वं सत्वर क्वचन शैशव साधयेति । कामस्य हस्तलिखिताक्षरमालिकेव रोमावली विजयते जलजेक्षणाया ॥ ३५८ ॥ नाभीविलान्तरविनिर्गतपन्नगीय सप्रस्थिता नयनखञ्जनभक्षणाय । नासासुदीक्ष्य गरुडभ्रम-
१ वह्निनामान्यम्, पक्षे,-वलिम्
२ रोमावलिरेव पिपीलिकापङ्क्ति
| २६८ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
मुद्वहन्ती गुप्तेव पीनकुचपर्वतयोरधस्तात् ॥ ३५९ ॥ अतिबहुलतरलज्जाशृङ्खलाबद्धपादो मदननृपतिवाहो यौवनोन्मत्तहस्ती । प्रकटितकुचकुम्भो लोमराजीकरेण पिबति सरसि नाभीमण्डलाख्ये पयांसि ॥ ३६० ॥ रचयति युवनेत्रक्षेत्रपीयूषवृष्टिं नवजलधररेखा रोमराजिच्छलेन । यदुदयति कलापिप्रक्रियेयं तदुच्चैः स्तनघनसमयोऽस्यामाविरस्तीति विद्मः ॥ ३६१ ॥ अमुर्भिर्लावण्यामृतसरसि नूनं मृगदृशः स्मरः शर्वप्लुष्टः पृथुजघनभागे निपतित । यदङ्गाङ्गाराणां प्रथमपिशुना नाभिकुहरे शिखा धूमस्येयं परिणमति रोमावलिमिषात् ॥ ३६२ ॥ इयं सृष्टा चञ्चत्कनकलतिका पङ्कजभुवा निषिक्ता लावण्यामृतसरसभरेणानुदिवसम् । अकस्माद्रोमालीमधुपपटलीह स्फुरति यत्तत शङ्के पुष्पोद्गमममयमायातमधुना ॥ ३६३ ॥ हरक्रोधज्वालाव लिभिरवलीढेन वपुषा गभीरे ते नाभीसरसि कृतझम्पो मनसिज । समुत्तस्थौ तस्मादचलतनये धूमलतिका जनस्ता जानीते तव जननि रोमावलिरिति ॥ ३६४ ॥ निर्णेतव्यो मनसिजकलातन्त्रसिद्धान्तसारो जेतव्या च त्रिदशसुदृशामङ्गलावण्यलक्ष्मीः । रोमश्रेणीलिखनसुभगं पत्रमादर्शयन्ती पत्रावलम्बं जगति कुरुते सुभ्रुवो यौवनश्रीः ॥ ३६५ ॥ उत्तुङ्गस्तनपर्वतादवतरद्गङ्गेव हारावली रोमाली नवनीलनीरजरुचिः सेयं केलिन्दात्मजा । जातं तीर्थमिदं सुपुण्यजनकं यत्रानयोः सङ्गमश्चन्द्रो मज्जति लाञ्छनापहृतये नून नैखाङ्कच्छलात् ॥ ३६६ ॥ उत्तुङ्गस्तनभार एष तरले नेत्रे चले भ्रूलते रागान्वेषु तदोष्ठपल्लवमिदं कुर्वन्तु नाम व्यथाम् । सौभाग्याक्षरपङ्क्तिरेव लिखिता पुष्पायुधेन स्वयं मध्यस्थापि करोति तापमधिकं रोमावली केन सा ॥ ३६७ ॥ यूना धैर्यतृणाङ्कुरं कवलयन् व्रीडाम्बुपूर पिबन् शृङ्गारगे हरिणस्तव स्तनगिरेः सीमानमारोहति । नामे. काचन तस्य निःसृतवती कस्तूरिकामलिका रोमश्रेणिमहोत्सव वितनुते कल्याणि जानीमहे ॥ ३६८ ॥ सौन्दर्यस्य मनोभवेन गणनारेखा किमेषा कृता लावण्यस्य विलोकितुं त्रिजगतामेषा किमुद्रीविका । आनन्दद्रुमकन्दली नयनयोः कि वा समुज्जृम्भते सुन्दर्याः किमु वा स्वभावसुभगा रोमालिरुन्मीलति ॥ ३६९ ॥
पृष्ठभागः
अस्याः खलु ग्रन्थिनिबद्धकेशमल्लीकदम्बप्रतिबिम्बवेशात् । स्मरप्रशस्ती रजताक्षरेय पृष्ठस्थलीहाटकपट्टिकायाम् ॥ ३७० ॥
नितम्बः
तन्नितम्बस्य निन्दन्ति वृद्धि परिजनारङ्गनाः । काञ्चीनवनवग्रन्थिग्रथनेन कदर्थिताः ॥ ३७१ ॥ नितम्बबिम्बं बिम्बोष्ठी चन्द्रकान्तशिलाघनम् । धत्ते कंदर्पदोःस्तम्भ-प्रशस्तिफलकोपमम् ॥ ३७२ ॥ विस्तारिणा मुहुस्तस्याः श्रोणीबिम्बेन पीडिता । त्रुटिता त्रुटितास्मीति फूत्करोतीव मेखला ॥ ३७३ ॥ अपर्याप्तसुजायायः सखेदोऽस्याः सखीजन । श्रोण्या कथंचित्कुरुते रशनादामबन्धनम् ॥ ३७४ ॥ नितम्बगौरवेणासौ गौराङ्गी खिद्यते दृढम् । हारयत्यपरिस्यन्दा कन्दुकं क्रीडितेषु यत् ॥ ३७५ ॥ स कथं न स्पृहणीयो विषयस्तैस्तन्नितम्बविन्यासः । शान्तात्मनापि विहितं विश्वसृजा गौरवं यत्र ॥ ३७६ ॥ पृथुवर्तुलतन्नितम्बकृन्मिहिरस्यन्दनगिल्पशिक्षया । विधिरेककचक्रचारिण किमु निर्मल्सति मान्मथं रथम् ॥ ३७७ ॥ चक्रेण विश्वं युवि मत्स्यकेतुः पितुर्जिनं वीक्ष्य सुदर्शनेन । जगज्जिगीषत्यमुना नितम्बद्वयेन किं दुर्लभदर्शनेन ॥ ३७८ ॥ रोमावलीदण्डनितम्बचक्रे गुणं च लावण्यजलं च बाला । तारुण्यमूर्ते कुचकुम्भकर्तुर्बिभर्ति शङ्के सहकारिचक्रम् ॥ ३७९ ॥
काञ्ची
बद्धा मणिमयकाञ्ची तस्या परिणाहशालिनि नितम्बे । पङ्किरिव सारसाना सुरसरित. पुलिनमण्डलाभाेंगे ॥ ३८० ॥ स्रस्ता नितम्बादवरोपयन्ती पुनः पुनः केसरपुष्पकाञ्चीम् । न्यासीकृता स्थानविदा स्मरेण द्वितीयमौर्वीमिव कार्मुकस्य ॥ ३८१ ॥
जघनम्
तस्याः पद्मपलाशाक्ष्यास्तन्व्यास्तज्जघनं घनम् । दृष्टं सखीभिर्यास्मिताः पुम्भावं मनसा ययुः ॥ ३८२ ॥ अनङ्गरङ्गपीढोऽस्याः शृङ्गारखर्णविष्टर. । लावण्यसारसघात. सा घना जघनस्थली ॥ ३८३ ॥ तदीयजघनाभोगगरिमा विस्मयास्पदम् । दूरपाती पृषत्कोऽभूद्येनानङ्गस्य साङ्गना ॥ ३८४ ॥ वपुरनुपमं नामेरूर्ध्वं विधाय मृगीदृशो लॅलितललितैरङ्गन्यासैः पुरा रभसादिव । तदनु सहसा खिन्नेनेव प्रजापतिना भृशं पृथुलपृथुला स्थूलस्थूला कृता जघनस्थली ॥ ३८५ ॥
मदनमन्दिरम्
अङ्गेन केनापि विजेतुमस्मा गवेष्यते कि चलपत्रपत्रम् । न चेद्विशेषादितरच्छदेभ्यस्तस्यास्तु कम्पस्तु कुतो भयेन ॥ ३८६ ॥ गौरमुग्धवनितावराज्के रेजुरुत्थिततनूरुहाङ्कुराः । तर्पणाय मदनस्य वेधसा स्वर्णशुक्तिनिहितास्तिला इव ॥ ३८७ ॥
ऊरू
मन्ये तदूरू संभाव्य हस्तसर्वस्वहारिणौ । वहन्त्यस्पृश्यताहेतोर्मातङ्गत्वं मतङ्गजा. ॥ ३८८ ॥ लम्भिातः कदलिस्तम्भास्तदूरुभ्या पराभवम् । अत्यन्तमृदुमिर्लभ्यो जडै. क जयडिण्डिम. ॥ ३८९ ॥ ऊरूः कुरङ्गकदशश्चश्च-
१ कृतोन्मज्जन २ यमुना ३ नखव्रणच्छलेन
१ प्रशान्तमनसा २ ब्रह्मणा ३ अत्यन्तसुन्दरै ४ श्रान्तेनेव
तरुणीपृथगवयववर्णनम्
लचेलाञ्चलो भाति । सपताकः कनकमयो विजय-
स्तम्भ स्मरस्येव ॥ ३९० ॥ तरुमुरुयुगेन सुन्दरी किमु
रम्भा परिणाहिना परम् । तरुणीमपि जिष्णुरेव ता धनदा-
पत्यतपःफलस्तनीम् ॥ ३९१ ॥ रम्भापि किं चिह्नयति
प्रकाण्डं न चात्मनः खेन न चैतदूरू । खस्यैव येनो-
परि सा ददाना पत्राणि जागर्त्यनयोर्भ्रमेण ॥ ३९२ ॥
विधाय मूर्धानमधश्चरेन्मुञ्चेत्तपोभिः स्वमसारभावम् ।
जाड्यं च नाल्वेकदली बलीयस्तदा यदि स्यादिदमूरुचारु
॥ ३९३ ॥ ऊरुप्रकाण्डद्वितयेन तस्याः करः पराजीयत
वारणीयः । युक्तं ह्रिया कुण्डलनच्छलेन गोपायति स्वं
मुखपुष्करं सः ॥ ३९४ ॥ अस्या मुनीनामपि मोदमूहे भृगु-
र्महान् यत्कुचशैलशैली । नानारदाह्लादि मुखं श्रितोरूर्व्यासो
महाभारतसर्गयोग्यः ॥ ३९५ ॥ पश्यन्हतो मन्मथबाणपातैः
शक्तो विधातुं न निमील्य चक्षुः । ऊरू विधात्रा हि कथं
कृतौ तौ विन्यासवत्या सुमतेर्वितर्के ॥३९६॥ नागेन्द्रहस्त-
स्त्वचि कर्कशत्वादेकान्तशैत्यात्कदलीविशेषाः । लब्ध्वापि लोके
परिणाहि रूपं जातास्तदूरूपममानबाह्याः ॥ ३९७ ॥ कदली
कदली करभः करभः करिराजकरः करिराजकरः । भुवन-
त्रितयेऽपि बिभर्ति तुलामिदमूरुयुगं न चमूरुदृशः ॥ ३९८ ॥
जङ्घे
जङ्घे तदीये सतापं यज्जनस्यानुरागिणः । जनयाञ्चक्रतु-
स्तीव्रं तत्र हेतुर्विलोमता ॥ ३९९ ॥ हेममञ्जीरमालाभ्यां
भाति जङ्घालताद्वयम् । लावण्याय कृतास्नानं कुङ्कुमेनेव
सुभ्रुवः ॥ ४०० ॥ वृत्तानुपूर्वे च न चातिदीर्घे जङ्घे शुभे
सुष्ठवतस्तदीये । शेषाङ्गनिर्माणविधौ विधातुर्लावण्य उत्पाद्य
इवास यत्नः ॥ ४०१ ॥ क्रमोद्गता पीवरताधिजङ्घं वृक्षाधि-
रूढं विदुषी किमस्याः । अपि भ्रमीभङ्गिभिरावृताङ्गं वासो
लतावेष्टितकप्रवीणम् ॥ ४०२ ॥
चरणौ
अमूल्यस्य मम स्वर्णतुलाकोटिद्वयं कियत् । इति
कोपादिवाताम्रं पादयुग्मं मृगीदृशः ॥ ४०३ ॥ जाग्रतः
कमलालक्ष्मीं यज्जग्राह तदद्भुतम् । पादद्वन्द्वस्य मत्तेम-
गतिस्तेये तु का स्तुतिः ॥ ४०४ ॥ स्तनभारोऽत्र वक्त्रेन्दु-
चन्द्रिकावरणं मम । इति तत्पादयोर्लग्ना वेन्नि प्राङ्गणपद्मिनी
॥ ४०५ ॥ अल्पपूर्वस्य रागस्य पूर्वपक्षाय पल्लवाः ।
पद्मानि पादयुग्मस्य प्रत्युदाहरणानि च ॥ ४०६ ॥ दृश्यन्ते
मानसोत्तंसा राजहंसाः क्वचिद्यदि । गतौ चरणयोस्तस्याः
प्रक्ष्यते यावदन्तरम् ॥ ४०७ ॥ नितम्बपीड्यमानेन पाद-
युग्मेन सुभ्रुवः । कृता भृकुटिभङ्गीव नीलनूपुरमालया
॥ ४०८ ॥ चरणकमले तदीये लाक्षाबालातपेन सवलितम् ।
अध्यास्त भृङ्गमालावेलिभिर्मणिलचितनूपुरव्याजान् ॥४०९॥
अनुरणन्मणिमेखलमविरलसिञ्जानमञ्जुमञ्जीरम् । परिसरण-
मरुणचरणे रणरणकमकारणं कुरुते ॥ ४१० ॥ दशकैरवबा-
न्धवान्दधानौ जडसंसर्गविमुक्तिसावधानौ । चरणौ नलिनेन
तोलयन्तः कथमस्या कवयो न यान्ति लज्जाम् ॥ ४११ ॥
अभ्युद्यताङ्गुष्ठनखप्रभाभिर्निक्षेपणाद्रागमिवोद्विरन्तौ । आज-
ह्रतुस्तच्चरणौ पृथिव्यां स्थलारविन्दश्रियम्व्यवस्थाम् ॥४१२॥
अस्याः पदौ चारुतया महान्तावपेक्ष्य सौक्ष्म्याल्लवभावभाजः ।
जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशन्द-
लब्धिः ॥ ४१३ ॥ जगद्वधूमूर्धसु रूपदर्पायदेतयाधायि
पदारविन्दम् । तत्सान्द्रसिन्दूरपरागरागैर्द्वयं प्रवालप्रबलारुणं
तत् ॥ ४१४ ॥ यानेन तन्व्या जितदन्तिनाथौ पदाम्बु-
राजौ परिशुद्धपार्ष्णी । जाने न शुश्रूषयितुं स्वमिच्छू नतेन
मूर्ध्ना कतरस्य राज्ञः ॥ ४१५ ॥ प्रियासखीभूतवतो मुदेदं
व्यधाद्विधिः साधुदशत्वमिन्दोः । एतत्पदच्छद्मसरागप-
द्मसौभाग्यभाग्यं कथमन्यथा स्यात् ॥ ४१६ ॥
गुल्फौ
अरुन्धतीकामपुरंध्रिलक्ष्मीजम्भद्विषद्दारनवाम्बिकानाम् ।
चतुर्दशीयं तदिहोचितैव गुल्फद्वयासा यददृश्यसिद्धिः ॥४१७॥
पादाङ्गुल्यः
एष्यन्ति यावद्गुणनादिगन्तान्नृपाः स्मरार्ताः शरणं प्रवेष्टुम् । इमे
पदाम्जे विधिनापि सृष्टास्तावत्य एवाङ्गुलयोऽत्र रेखाः ॥४१८॥
नखाः
तस्याः पादनखश्रेणी शोभते किल सुभ्रुवः । रत्नावलीव
लावण्यरत्नाकरसमुद्गता ॥ ४१९ ॥ तत्पादनखरखानां
यदवलक्तकमार्जनम् । इदं श्रीखण्डलेपेन पाण्डुरीकरणं विधोः
॥ ४२० ॥ तद्वक्त्रं नेत्रपद्मं प्रकटितममकृत्सार्पितं यन्मथैत-
ज्जातं तस्मात्कृशाश्वं ग्रहणमपि ततो जायमानः कलङ्कः ।
तत्सर्वं क्षम्यतां मे पुनरपि न करोम्येवमुक्त्वा तु तस्या गाढं
लग्नः शशाङ्कश्चरणनखमणिच्छद्मना पादयुग्मम् ॥ ४२१ ॥
गमनम्
सलीलमिममायान्ती कामिनी गजगामिनी । उन्नतं
हि नखज्योतिः पुष्पैर्भुवमिवार्चति ॥ ४२२ ॥ मारयन्त्या
जनं सर्वं निरागसमिवाज्ञया । मातङ्गानां गतिर्याहक्ता-
दृगासीदस्यायम् ॥ ४२३ ॥ सा राजहंसैरिव सन्नताङ्गी
गतेषु लीलाञ्चितविक्रमेषु । व्यनीयत प्रत्युपदेशलुब्धैरादि-
त्सुभिर्नूपुरसिञ्जितानि ॥ ४२४ ॥ गुरुतरकलनूपुरानुनादं
सललितनर्तितवामपादपद्मा । इतरदनतिलोलमादधाना
पदमथ मन्मथमन्थरं जगाम ॥ ४२५ ॥
जृम्भा
चक्रीकृतभुजगतिकं वक्रीकृतवक्त्रमुन्नमद्ग्रीवम् । नो
हरति कस्य हृदयं हरिणदृशो जृम्भणारम्भः ॥ ४२६ ॥
¹ शुण्डा ² नियमेन ³ सुवर्णस्य विंशतिपलात्मकस्य तुला-कोटिद्वयम्, पक्षे,-पादाङ्गदद्वयम्
२७० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
आस्येन्दोः परिवेषवद्रतिपतेश्चाम्पेयकोदण्डवद्धम्मिल्लाम्बुमुचः
क्षणद्युतिवदासज्जौ क्षिपन्ती भुजौ । विश्लिष्यद्गलि लक्ष्य-
नाभि विगलन्नीव्युन्नमन्मध्यमं किंचित्किंचिदुदञ्चदञ्चलमहॊ
कुम्भस्तनी जृम्भते ॥ ४२७ ॥
निद्रा
सार्थकानर्थकपदं ब्रुवती मन्थराक्षरम् । निद्रार्धमी-
लिताक्षी सा लिखितेवास्ति मे हृदि ॥ ४२८ ॥
उत्तानामुपधाय बाहुलतिकामेकामपाङ्गश्रितामन्यामप्यलसा निधाय
विपुलाभोगॊ नितम्बस्थले । नीवीं किंचिदिव श्लथा
विदधती निःश्वासलोलालका तल्पोत्पीडनतिर्यगुन्नतकुचं
निद्राति शातोदरी ॥ ४२९ ॥
आमीलन्रवनीलनीरजतुलमातम्बते लोचनं शैथिल्यं नवमल्लिकामहचरैरङ्गैर्पि
स्वीकृतम् । आलापाद्धर स्फुरत्कलयति प्रेङ्खत्ववालोपमामा-
नन्दप्रभवाश्च बाष्पकणिका मुक्ताश्रियं बिभ्रति ॥ ४३० ॥
कान्तिः
सुन्दरी मा भवत्येष विवेकः केन जायते । प्रभामान्रे
हि तरलं दृश्यते नान्र नाश्रयः ॥ ४३१ ॥
अवयवेषु परस्परविभ्वितेष्वतुलक्रान्तिषु राजति यत्तनौ । अयमयं प्रवि-
भाग इति स्फुटं जगति निश्चिनुते चतुरोऽपि कः ॥ ४३२ ॥
समग्रस्त्रीस्वरूपवर्णनम्
सा दृष्टा यैनै वा दृष्टा मुषिताः सममेव ते । हृदयं
हृतमेकेषामन्येषा चक्षुषोः फलम् ॥ १ ॥
सुखेन चन्द्रकान्तेव महानीलैः शिरोरुहै । पादाभ्या पद्मरागाभ्या
रेजे रत्नमयीव सा ॥ २ ॥
गुरुणा स्तनभारेण सुखचन्द्रेण भास्वता । शनैश्चराभ्या पादाभ्या रेजे ग्रहमयीव सा
॥ ३ ॥
फलायते कुचद्वन्द्वमियं हेमलतायते । अङ्गानि
कुसुमायन्ते मनो मे अमरायते ॥ ४ ॥
वक्रे गुरुत्वं यदि ते छन्दःशास्त्रविदो विदु । कठिने कुचयुग्मेऽस्या वदता
किं नु हीयते ॥ ५ ॥
विकसन्नेत्रनीलाब्जे तथा तन्व्याः स्तनद्वयी । तव दत्ता सदा मोद लसत्तरलहारिणी ॥ ६ ॥
दन्तप्रभापुष्पचिता पाणिपल्लवशोभिनी । केशपाशालिवृन्देन
सुवेषा हरिणेक्षणा ॥ ७ ॥
अकृशं नितम्बभागे क्षामं मध्ये समुन्नतं कुचयोः । अत्यायत नयनयोर्मम जीवितमेतदायाति
॥ ८ ॥
अव्याजसुन्दरीं ता विज्ञानेनाद्भुतेन योजयता ।
उपकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ ९ ॥
आलोक्य चिकुरनिकरं सततं सुमनोधिकासयोग्यं ते ।
कामो निज निष्षङ्गं परित्यत्य पराचकर्ष साशङ्कः ॥ १० ॥
आलपति पिकवधूरिव पश्यति हरिणीव चलति हंसीव ।
स्फुरति तडिल्लतिकेव स्वदते तुहिनशुंशुरेखेव ॥ ११ ॥
वेणीबन्धमहीनं कृष्णं नेत्रान्तमचलहूपं तम् । कुचमस्याः
स्वीकुर्वन्नपुरुपो लीला वहत्यहो शंभोः ॥ १२ ॥
अङ्गं भूषणनिकरो भूषयतीत्येष लौकिको वादः । अङ्गानि
भूषणाना कामपि सुषमामजीजनंस्तस्याः ॥ १३ ॥
सौरभमम्भोरुहवन्मुखस्य कुम्भाविव स्तनौ पीनौ । हृदयं मदयति
वदनं तव शरदिन्दुर्थया बाले ॥ १४ ॥
मधुरः सुधावदधरः पल्लवतुल्योऽतिपेलवः पाणिः । चकितमृगलोचनाभ्या सदृशी
चपले च लोचने तस्या ॥ १५ ॥
कलयति कुवलयमाला-ललितं कुटिलः कटाक्षविक्षेपः । अधरः किसलयलीलामानन-
मस्याः कलानिधिविलासम् ॥ १६ ॥
तरुणिमनि कलयति कलामनुमदनधनुर्ध्रुवोः पठत्यग्रे । अधिवसति सकलललना-
मौलिमिमं चकितहरिणचलनयना¹ ॥ १७ ॥
नयनयुगासेचनकं मानसवृत्त्यापि दुष्प्रापम् । रूपमिद मदिराक्ष्या
मदयति हृदयं दुनोत्यपि च ॥ १८ ॥
संन्यस्तभूषापि नैवैव नित्यं विनापि हार हसतीव कान्त्या । मदं विनापि
स्खलतीव भावैर्वाच विना व्याहरतीव दृष्ट्या ॥ १९ ॥
भ्रयुग्मरुचैर्धनु रुज्ज्वितजय बाणाः कटाक्षाः कुटिला निता-
न्तम् । तथापि यूना हृदयं भिनत्ति कोऽयं विलासो वनिता-
जनस्य ॥ २० ॥
अलीकरूपो यदि मध्यभागः पयोधरा-
कारभृतश्च केशाः । उत्सङ्गशोभापि सरोरुहाक्ष्याः करस्य
शोभा कलयेन्न कस्मात् ॥ २१ ॥
सर्वोपमाद्रव्यसमुच्चयेन यथाप्रदेशं विनिवेशितेन । सा निर्मिता विश्वसृजा प्रयत्ना-
देकस्थसौन्दर्यदिदृक्षयेव ॥ २२ ॥
प्रत्यङ्गमस्यामभिकेन रक्षां कर्तु मघोनेव निजास्रमस्ति । वज्रं च भूषामणि-
मूर्तिधारि नियोजितं तद्द्युतिकार्युकं च ॥ २३ ॥
भ्रूश्चित्ररेखा च तिलोत्तमास्या नासा च रम्भा च यदूरुसृष्टिः ।
दृष्टा ततः पूरयतीयमेकानेकाप्सर प्रेक्षणकौतुकानि ॥ २४ ॥
कर्णाक्षिदन्तच्छदबाहुपाणिपदादिनः खाखिलतुल्यहेतुः ।
उद्वेगभागद्वयताभिमानादिहैव वेधा व्यधित द्वितीयम्
॥ २५ ॥
यशः पदाङ्गुष्ठनखौ मुखं च बिभर्ति पूर्णेन्दुचतु-
ष्टयं या । कलाचतुःषष्टिरुपैति वास तस्या कथ सुभ्रुणि
नाम नास्याम् ॥ २६ ॥
कात्र्स्न्येन निर्वर्णयितुं च रूप-
मिच्छन्ति तत्पूर्वसमागतानाम् । न तु प्रियेष्वायतलोचनाना
समग्रपातीनि विलोचनानि ॥ २७॥
यतो यतोऽङ्गादपयाति कञ्चुकस्ततस्ततः स्वर्णमरीचिवीचयः । यतो यतोऽस्या
निपतन्ति दृष्टयस्ततस्ततः श्यामसरोजवृष्टयः ॥ २८ ॥
तदा तदङ्गस्य बिभर्ति विश्रमं विलेपनामोदसुचः स्फुरद्रुचः ।
दरस्फुरत्काञ्चनकेतकीदलात्सुवर्णमभ्यस्यति सौरभं यदि
॥ २९ ॥
अधरे मधुग सरस्वतीयं ननु कर्णे मणिकर्णिकाप्र-
वाह । शिरसि प्रतिभाति चारुवेणी कथमेणीनयना न
¹ हरिणनयना
समग्रस्त्रीस्वरूपवर्णनम् २७१
तीर्थराजः ॥ ३० ॥ वेणी विडम्बयति मत्तमधुव्रतालीम- ङ्गीकरोति गुणमैन्दवमाक्षमस्सा । बाहू मृणाललतिकाश्रिय- माश्रयेते पुङ्खानुपुङ्खयति कामशरान्कटाक्षः ॥३१॥ बन्धूक- बन्धुरधर सितकेतकाभ चक्षुर्मधूककलिकाप्रचुरः कपोलः । दन्नावली विजितडाडिमबीजजिगम्ये पुनर्विकचपङ्कज- दत्तदास्यम् ॥ ३२ ॥ येनोत्पलानि च शशी च मृणालि- काश्च रम्भालताश्च कमलानि च निर्मितानि । नूनं स एव मृगशावदृशोऽपि वेधा सृष्टिकमो यदयमेकतया चकास्ति ॥ ३३ ॥ मा रामणीयकनिधेरधिदेवता वा सौन्द- र्यमारसमुदाय निकेतनं वा । तस्या सखे नियतमिन्दुसुधा- मृणालज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ ३४ ॥ राजीव जीवसि सुधा न सुधाकर त्वमस्याः समः पदनखस्य कुतो मुखस्य । अग्रे दृशोर्मृगदृश कतमः कुरङ्गस्तत्खञ्जन- त्वमपि कि जनरञ्जनाय ॥ ३५ ॥ सा दुग्धमुग्धमधुरच्छवि- रञ्जयष्टिस्ते लोचने तरुणकेतकपत्रदीर्घे । कम्बुविडम्बन- कण्ठश्च स एव कण्ठ सेवेयमिन्दुवदना मदनायुधं वा ॥ ३६ ॥ ऊरुद्वय मृगदृशः कदलीश्च काण्डौ मध्यं च वेदिर्- तुल स्तनयुग्ममस्या । लावण्यवारिपरिपूरितशातकुम्भकुम्भौ मनोजनृपतेरभिषेचनाय ॥ ३७ ॥ तन्वी शरन्त्रिपथगा- पुलिने कपोलौ लोले दृशौ रुचिरचञ्चलखञ्जरीटौ । तद्धन्ध- नाय सुचिरात्पितृसुश्रूचापचाण्डालपाशयुगलाविव शून्यकर्णौ ॥ ३८ ॥ व्याकोशकोकनदशोककरः करोऽयं खेल- ञ्चकोरमयचोरमिदं च चक्षुः । उद्भिन्नविद्रुमरहसहरोऽ- धरोऽयं तत्सादृश्यमपि वश्यमवश्यमस्याः ॥ ३९ ॥ मुख यदि किमिन्दुना यदि चलाञ्चले लोचने किमु- त्पलकदम्बकैर्यदि तरङ्गभङ्गी भ्रुवौ । किमात्मभवधन्वना यदि सुसायताः कुन्तलाः किमम्बुरुहडम्बरैयदि तनूरियं कि श्रिया ॥ ४० ॥ इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः •सुधाधाराधारश्चिरपरिणतं विम्बमधरः । इमे नेत्रे रात्रिदिव- मधिकशोभे कुवलये तनुर्लावण्याना जलधिरवगाहे सुखतरः ॥ ४१ ॥ विनैवाम्भोवाह बहलरुचिदीप्ताम्बरलतात्तडिल्लेखा हेमद्युतिविततिरम्या विलसति। विनैव स्वर्गङ्गा नभसि रमस- व्यग्रशफरीपरीवर्ते सार्थ स्फुरति विकचेन्दीवरवनम् ॥४२॥ तमःस्तोमः पूर्वं तदनु सकलः शीतकिरणस्ततः कोकद्वन्द्वं तदनु च न किञ्चित्पुनरभूत् । अधस्तस्यावर्तस्तदनु कदली- काण्डयुगल ततोऽवाञ्चौ पद्मौ शिवशिव विधेः शिल्परचना ॥ ४३ ॥ पदाभ्यामुन्निद्रामधयति शोणाम्बुजरुचि कराभ्या- मादत्ते नवकिसलयानामरुणताम् । प्रवालस्य च्छाया दशन- वसनाग्रेण पिबति सितज्योत्स्नापूरैरुपहसति कान्ति हिमरुचेः ॥ ४४ ॥ बह्वल्यस्या दृष्टिविकचनवनीलोत्पलतुलामखण्ड- स्यामिस्या वदनमिदमिन्दोः कलयति । कुचौ किञ्चिन्मी- लत्कमलतुलना कन्दलयतस्तम शोभा चित्रा चिकुरनिकुरम्ब हि कुरुते ॥ ४५ ॥ कर वेणीमेणीमदगणयना स्नानविग्नौ ददाना हर्म्याग्रे हरनयनतेजोहुतमाप । अथ मुग्धा दुग्धा- म्बुविवहलकलोलमदृशा दृशा वारंवार मनसिजतरु पल्लवयति ॥ ४६ ॥ दायादस्त्व मनसिजधनुर्धवलामस्य वंत्त योग- क्षेमौ वहति नयनद्वन्द्वमिन्दीवगणाम् । तद्गात्राणा पुनरिह जगज्जैत्रलावण्यभाजामामालंग्यं मरुवदखिल म्लानवर्णं सुवर्णम् ॥ ४७ ॥ नीलाञ्जाना नयनयुगलद्राघिमा दत्तपत्रः कुम्भावेमौ कुचपरिकर पूर्वपक्षीचकार । भ्रूविश्रान्तिर्मदन- धनुषो विश्रमानन्ववादीद्वक्रज्योत्स्ना शशधररुच दूषयामाम तन्या ॥ ४८ ॥ तन्वी श्यामा शिखरदशना पक्वबिम्बाध- रोष्ठी मध्ये क्षामा चकितहरिणीप्रेक्षणा निम्ननाभिः। श्रोणीभारादलसगमना स्तोकनम्रा स्तनाभ्या या तत्र स्याद्युवतिविषये सृष्टिराद्येव धातु ॥ ४९ ॥ वापी कापि स्फुरति गगने तत्पर सूक्ष्मपँद्या सोपोनालीमधिगतवती काञ्चनीमैन्द्रनीली । अग्रे शैलौ सुंकृतिसुगमौ चन्दनच्छन्न- देशौ तत्रत्याना सुलभममृतं सनिधानात्सुधाशोः ॥ ५० ॥ तद्वक्त्रं यदि मुद्रिता शशिकथा तच्चेत्स्मितं का सुधा तच्चक्षु- र्यदि हारित कुवलयैस्ताश्चेद्गिरो धिग्धधु । धिकन्दर्पधनु- र्भ्रुवौ यदि च ते कि वा बहु ब्रूमहे यत्सत्य पुनरुक्तवस्तु- विरसः सर्गक्रमो वेधसः ॥ ५१ ॥ सौरभ्यं मृगलाञ्छने यदि भवेदिन्दीवरे वक्रता माधुर्यं यदि विद्रुमे तरलता कन्दर्पचापे यदि । रम्भाया यदि विप्रतीपगमनं प्राप्तोपमानं तदा तद्वक्त्रं च तदीक्षणं तदधरस्तद्भूरूरुयुग्मं ॥ ५२ ॥ वेणीवेल्लनमङ्गगं किसु वलन्नेणीदृशो मध्य मं सव्यानं किमिदं विवृत्तिविषमाद्भासः स्तनात्त्रसते । नृत्यन्तीव किमन्तिके वलितयो स्निग्धा दृशोः कान्तयः साक्रतसितगर्भितं किसु मुखं वक्तुं सखी वाञ्छति ॥ ५३ ॥ बाहू द्वौ च मृणाल- मास्यकमल लावण्यलीलाजलं श्रोणीतीर्थशिला च नेत्रशफरी- धम्मिल्लशैवालकम् । कान्ताया स्तनचक्रवाकयुगल कन्दर्पबाणानलौर्दुग्धानाभवगाहनाय विधिना रम्यं सरो निर्मितम् ॥ ५४ ॥ जिघ्रत्याननमिन्दुकान्तिरधर बिम्बप्रभा चुम्बति स्पृष्टुं वाञ्छति चारुपद्ममकुलच्छायाविशेष. स्तनौ । लक्ष्मीः कोकनदस्य खेलति करावालम्ब्य कि चादरा-
१ तद्गम्भीरा नाभि २ सूक्ष्मंतया तदङ्गलक्ष्ये मध्ये ३ सरणि-स्तच्छायारोमावली ४ सोपानपङ्क्ति तत्सदृशी त्रिवलीम् ५ कुचौ. ६ पुण्यकृता सुगम्यौ, पक्षे,-सुलभगमनौ ७ चन्दनतरुभि, पक्षे,-चन्दनपङ्केन ८ बिसम् ९ मत्स्यी
| २७२ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
देतस्याः सुदृशः करोति पदयोः सेवां प्रवालद्युतिः ॥ ५५ ॥
कर्णारुतमुदमेव कोकिलरुतं तस्या श्रुते भाषिते चन्द्रे लोक-
रुचिस्तदाननरुचेः प्रागेव संदर्शनात् । चक्षुर्मीलनमेव तन्न-
यनयोर्ये मृगोणा वरं हैमी वल्लवपि तावदेव ललिता
यावन्न सा लक्ष्यते ॥ ५६ ॥ चक्षुर्मंचकमम्बुजं विजयते
वक्त्रस्य मित्रं शशी श्रूस्तूत्रस्य र्नाभि मन्मथधनुर्लावण्य-
पण्यं वपुः । लेखा कापि रहन्छदे च सुतनोर्गाने च तत्का
मिनीमैना वर्णयिता खरो यदि भवेद्द्रुग्धम्धमभ्यस्यति
॥ ५७ ॥ स्निग्धस्मेरविलोलोमुग्धमधुग यन्नयनोर्विश्रभा
यद्यामृतविलासपत्रलतिका घर्मोद्गमाद्गण्डयोः । यच्च ग्राढ-
कदम्बकुङ्गलसखी काप्यङ्गे विक्रिया तत्तस्या रिमपि
स्फुटं रतिपतेः कोदण्डविस्फूर्जितम् ॥ ५८ ॥ स्निग्वेंन्दी
वलसुन्दरं कक्षमरो वक्रं सगोत्रं विवोर्वक्षोजौ मणिकुम्भ
डम्बरसुषौ मध्योऽस्ति वा नास्ति वा । श्रोणीमण्डलपूरुदुर्यह
महो शोणाब्जतुल्ये पदे मन्ये मञ्जिगिरे मैरालमहिला-
ध्येयो गतेर्विभ्रमः ॥ ५९ ॥ नेत्रोपान्तवसत्सिते श्रुतिपुटे
नीलोत्पलं निष्फलं हार्माश्रीपरिकर्मिते स्तनतटे हारो-
ऽन्यहारः कथम् । पिण्डालक्तकपातनं चरणयोः पीडाफलं
ताम्रयोर्वामाक्ष्या वपुषि स्वभावसुरभौ व्यर्थानुलेपव्यथा
॥ ६० ॥ एतस्याः स्तनपद्मकोरकयुगं यस्याननेन्दोः सित-
ज्योत्स्नाभिर्न भजत्यदो मृगदृशः शङ्के विकासं पुनः ।
तस्मिँल्लोचनपङ्कजं विकसितं भ्रूभङ्गसंसवित् स्वान्ते संशय-
मातनोति सुतरामेतन्ममैवाद्भुतम् ॥ ६१ ॥ पानायाधर-
तोऽमृतं वसतयेऽप्यस्याः स्तनक्ष्माधरोऽधस्तात्सज्जघनान्त-
कन्दरघरः सस्याय चक्षुर्मृगः । जप्यो मन्त्रवरो मनोहरकथा
ध्यानाय वक्राम्बुजं चेत्थं देहतपःस्थले सति कथं सन्तो
वनान्तं गताः ॥ ६२ ॥ कर्णान्तसङ्गविसर्पिणी नयनयोः
कान्तिर्वतसोत्पलं लाक्षासंभ्रमनिरपेक्षम्धर लावण्यमेवा-
ञ्चति । हारोऽस्याः स्मितचन्द्रिकैव कुचयोरङ्गेप्रभाकञ्चुकी
तन्व्याः केवलमङ्गभारमधुना मन्ये परं भूषणम् ॥ ६३ ॥
अस्त्राश्रदलकावली कृतमलि श्रेणीभिरेणीदृशः सौन्दर्य यदि
चक्षुषोस्तरलयोः किं मन्मथस्यायुधैः । का प्रीतिः कनकार-
विन्दमुकुले पीनौ स्तनौ चेदतो मन्ये काचिदियं मनोभव-
कृता माया जगन्मोहिनी ॥ ६४ ॥ ऊर्ध्वं नीरदवृन्द-
मैन्दवमिदं बिम्बं त्वधो निर्मितं व्योम्नः पल्वमचितं तस्य
निहितौ शैलावुपुर्युन्नतौ । किं चाधः पुलिनोच्चयस्य कदली-
काण्डान्ववारोपितौ तन्मन्ये चतुरस्य पुष्पधनुषः सर्गोऽय-
मन्यादृशः ॥ ६५ ॥ भृङ्गालीसुदरे क्षिपन्ति शतशः पद्मानि | शस्त्रीमिव प्रत्यागच्छत्। लङ्घनाथममकृद्द्योमाङ्गणं चन्द्रमाः ।
वक्त्रेणापहृते कुरङ्गसुदृशं खेलाक्यरूपोच्चये प्रत्यावर्तनवाञ्छयेव
कति न क्लेश समातन्वते ॥ ६६ ॥ वक्रं निर्मलमुद्गता
कुचतटी मध्यप्रदेशः कृश श्रोणीमण्डल मङ्गनाकुलगुरोर्देवस्य
सिंहासनम् । कृत्वा चारुतगश्चतुष्टयमिदं तुष्टाव मन्ये
विधिर्हर्षाद्भुद्गद्गद्यपद्यरचनागर्भैश्चतुर्भिर्मुखै ॥ ६७ ॥ मध्य
विष्णुपदं कुचौ शिवपदं वक्रं विधातु पदं धम्मिल्ह. सुमन -
पद प्रविलसत्काञ्ची नितम्बस्थली । वाणी चेन्मधुराधरोऽ
रुणवर, श्रीरङ्गभूमिवपुस्तस्या. कि कथयामि पुण्यचरित
मान्या सदा निर्जरैः ॥ ६८ ॥ यत्तीर्याम्बु मुखाम्बुजामवरसो
नेत्रे नवेन्दीवरे दन्तश्रेणिरखण्डिताक्षतचयो दूर्वा च
रोमावली । उत्तुङ्ग च कुचद्वय फलयुगं पात्रं कराम्मोरुह
तन्मन्ये मदनाचनाहितमति. स्वाङ्गोपहारैरियम् ॥ ६९ ॥
दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतांसयोः सङ्क्षिप्तं
निविडोन्नतस्तनमुर. पार्श्वे प्रमृष्टे इव । मध्यः पाणिमितो
नितम्बि जघन पादावुदङ्गुली छन्दो नर्तयितुर्यथैव
मनस सृष्ट तथास्या वपुः ॥ ७० ॥ नेत्रे खञ्जनगञ्जने सर-
सिजप्रत्यर्थि पाणिद्वय वक्षोजौ करिकुम्भविभ्रमकरीमत्युन्नतिं
गच्छतः । कान्ति काञ्चनचम्पकप्रतिनिधिर्वाणी सुधास्पर्धिनी
खेरेन्दीवरदामसोदरवपुस्तस्याः कटाक्षच्छटा. ॥ ७१ ॥ दृष्टिः
कापि सुरा सुधा स्मितमिदं वक्त्र कलाना निधिवैक्षः कुम्भि
झषौ दृशौ विजयते धन्वन्तरि. सकृपा । कान्तिः श्रीस्त्रि-
वलीतरङ्गलहरी नाभी गतावर्त्ततामेतस्यामचिरेण भाविकलने
लावण्यवारानिधौ ॥ ७२ ॥ कि तारुण्यतरोरियं रसभरो-
द्भिना नवा वल्लरी वेलाप्रोञ्छलितस्य कि ल्हरिका लावण्य-
वारानिधे. । उद्गाढोत्कलिकावता स्वसमयोन्यासविश्व-
म्भिणः कि साक्षादुपदेशयष्टिरथवा देवस्य शृङ्गारिणः ॥७३॥
जानीमो वदनं सरोरुहदशो निर्माय पश्यन्मुहुहृष्यन्काम-
कठोरपावकशिखासन्तापित. पद्मभूः । रम्मामूरुतटी स्तनं
रसघटी पीयूषवीची वचो बाहू बालबिस कर किसलयं
नाभी सरो निर्ममे ॥ ७४ ॥ जानीमो वयमासनस्य कमले
तस्या मुखेन्दोस्त्विषा सकोच समुपगते स भगवान्दु.स्थ.
सराजासन । मुञ्च भ्रूलतिकायुग विहितवान्वक्रे दृगौ
सृष्टवान् मध्य विस्मृतवान्कचाश्च कुटिलानावञ्च सृष्टवान्
•॥ ७५ ॥ मुक्ता विद्रुममेन्तरा मधुरमः पुष्पं परं द्यौर्वहं
प्रौलेयद्युतिमण्डले खलु तथोरकांसिका नार्णवे । तच्चोद्गच्छति
शङ्खसूर्ध्नि न पुन. पूर्वाचलाभ्यन्तरे तानीमानि विकल्पयन्ति
त इमे येषा न सा हकपथे ॥ ७६ ॥ इन्दुर्लिप्त इवाञ्जनेन
१ नीलम् २ अश्लेषायाः ३ मोदरम् ४ हसो ५ सज्जवन, पक्षे,-सत् जघन
१ मध्ये २ कवयम् ३ बारवाहकम्, न तु मयूररसयुक्तम् ४ चन्द्रमण्डले ५ एकसिक्तामितार्वास्तति एकाधिकरणमित्यर्थ .
| समग्रस्त्रीस्वरूपवर्णनम्, परस्परदर्शनम्, नायकदर्शनम्, नायिकादर्शनम् | २७३ |
|---|
| जडिता दृष्टिर्मृगीणामिव प्रम्लानाऽरुणिमेव विद्रुमदल श्यामेव<br>हेमप्रभा । कार्कश्यं कलयो च कोकिलवधूकण्ठेष्विव प्रस्तुत<br>सुन्दर्याः पुरतश्च हन्त शिखिना बर्हाः सगर्हा इव ॥ ७७ ॥<br><br>### परस्परदर्शनम्<br>स्मरतोरभिलाषकल्पितान्बहुशः स्वप्नभुवः समागमान् ।<br>अपि दृष्टिपथं प्रपन्नयोर्निविविश्वास चिर मनस्तयोः ॥ १ ॥<br>आघ्रातं कमल प्रियेण सुदृशा स्वित्वापनीतं सुखं दत्तं<br>विश्रमकन्दुके नखपदं सीत्कृत्य गूढौ स्तनौ । दत्ता चम्पक-<br>मालिकोरसि भुजानिर्भिद्यरोमाञ्चया मीललोचनया स्थितं<br>प्रणयिनोर्दूरेऽपि पूर्णो रसः ॥ २ ॥<br><br>### नायकदर्शनम्<br>न जाने समुखायाते प्रियाणि वदति प्रिये । सर्वाण्य-<br>ङ्गानि कि यान्ति नेत्रतामुत कर्णताम् ॥ १ ॥ या या प्रिय.<br>प्रैक्षत कातराक्षी सा सा हिया नम्रमुखी बभूव । निःशङ्क-<br>मन्याः सममाहितेर्ष्यास्तन्त्रान्तरे जह्रुरमुं कटाक्षैः ॥ २ ॥<br>काचिन्निवारितबहिर्गमना जनन्या द्रष्टु प्रियं भवनजालकमा-<br>ससाद । तस्या विलोचनमदृश्यत दीशदत्तयन्त्रोपरुद्दर्शफरोप-<br>मित क्षणेन ॥ ३ ॥ कृच्छ्रेण कापि गुरुणैव जनेन रोध-<br>मुल्लङ्घ्य नायकसमीपभुवं प्रतस्थे । हा हन्त शीघ्रगमन-<br>प्रतिरोधहेतुस्तस्याः पुनः स्तनभरोऽपि गुरुर्बभूव ॥ ४ ॥<br>नान्तःप्रवेशमरुणद्विमुखी न चासीदाचष्ट दोषपरुषाणि न<br>चाक्षराणि । सा केवलं सरलपक्ष्मभिरक्षिपातैः कान्तं<br>विलोकतवती जननिर्विशेषम् ॥ ५ ॥ किञ्चित्कुञ्चितहारयष्टि<br>सरलभ्रूवल्लि साचिक्षित प्रान्तभ्रान्तविलोचनद्युति भुजापर्य-<br>स्तकणौत्पलम् । अङ्गुल्या स्फुरदङ्गुलीयककचा कर्णस्य कण्डू-<br>यनं कुर्वाणा नृपकन्यका सुकृतिनं सव्याजमालोकते ॥ ६ ॥<br><br>### नायिकादर्शनम्<br>प्रियादर्शनमेवास्तु किमन्यैर्दर्शनान्तरैः । प्राप्यते येन<br>निर्वाण सरागेणापि चेतसा ॥१॥ क्षीरसागरकल्लोललोललोच-<br>नयानया । असारोऽपि हि संसारः सारवानिव लक्ष्यते ॥२॥<br>सेयं सीधुमयी वा सुधामयी वा हलाहलमयी वा । दृग्भ्या<br>निपीतमात्रा मदयति मोदयति मूर्च्छयति ॥ ३ ॥ गच्छति<br>न तृप्तिमेतत्स्तुललितमक्षा समापिबद्रूपम् । नयनयुगं मम<br>नूनं संप्रति समुपैति सफलता चैवम् ॥ ४ ॥ जानीमहे-<br>ऽस्याः खलु सारसाक्ष्या विराजतेऽन्त. प्रियवक्रचन्द्रः । तत्का-<br>न्तिजालैः प्रसूतैस्तदङ्गेष्वापाण्डुता कुञ्चलताऽक्षिपद्मे ॥ ५ ॥ | सेयं ममाङ्गेषु सुधारसच्छटा सुपूरकपूरशलाकिका दृशोः ।<br>मनोरथश्रीमैनस. शरीरिणी प्राणेश्वरी लोचनगोचर गता<br>॥६॥ तामनङ्गजयमङ्गलश्रिय किचिदुच्चभुजमूललोकिताम् ।<br>नेत्रयो. कृतवतोऽस्य गोचरे कोऽप्यजायत रसो निरन्तर<br>॥ ७ ॥ इदमसौ तरलायतलोचना गुरुसमुन्नत्तपीन-<br>पयोधरा । पृथुनितम्बभरालसगामिनी प्रियतमा मम जीवित-<br>हारिणी ॥ ८ ॥ इय सुस्तनी मस्तकन्यस्तकुम्भा<br>कुसुम्भारण चारु वामो वमाना । समस्तस्य लोकस्य<br>चेतःप्रवृत्ति गृहीत्वा घटे न्यस्य यातीव भाति ॥ ९ ॥<br>कर्पूरधूलिधवलद्युतिपूरधौतदिङ्मण्डले शिशिररोचिषि तस्य<br>यूनः । लीलागिरोशुकनिवेशविशेषकक्ष्यिव्यक्तस्तनोन्नतिरभू-<br>न्नयनाव नौ सा ॥ १० ॥ अर्धस्मितेन विनिमन्द्य दैर्शाधं-<br>बाणमर्धे विधूय वसनाञ्चलमर्धमार्गे । अर्धेन नेत्रविशिखेन<br>निवृत्य सार्धमर्धीर्घमेव तरुणी तरुण चकार ॥ ११ ॥<br>आधाय कोमलकराम्बुजकेलिनालीमालीसमाजमधिकृत्य<br>समालपन्ती । मन्दस्मितेन मयि साचिविलोकितेन चेतश्चकोर-<br>नयना चुलुकीचकार ॥ १२ ॥ मदनमपि गुणैर्विशेषयन्ती<br>रतिख्व मूर्तिमती विभाति येयम् । मम हृदयमनङ्गवह्नि-<br>तप्तं भृशमिव चन्दनशीतल करोति ॥ १३ ॥ पुर. स्थित्वा<br>किञ्चिद्दलितमुखमालोकय सखे सखेदा. स्थास्यन्ति ध्रुव-<br>मिदमदृष्ट्वा तव दृश । इतश्चञ्चत्काञ्चीरणितमुखरात्सौध-<br>शिखरादराकाया कोऽय कवलयति चान्द्रेण महसा ॥ १४ ॥<br>अये केय लीलधवलगृहवातायनतले तुँलाकोटिक्काणै.<br>कुसुमधनुषं जागरयति । अहो नेत्रद्वन्द्व विलसति विलङ्घ्य<br>श्रुतिमहो कथं न त्रैलोक्यं जयति मदनः खैरवदन. ॥ १५ ॥<br>तडिल्लेखा नेय विलसति पर सौधशिखरे वसन्त्या. कस्या-<br>श्चित्कनकरुचिरा गात्रलतिका । अपीदं नोन्मज्जत्कुवलयवनं<br>मीनतरलं पर तस्या एव स्फुरति नयनालोककलितम् ॥१६॥<br>सखे सायं स्नात्वा कनकरुचिकौसुम्भवसनं वसानायास्तिर्थ-<br>ग्वलितचिकुरस्यन्दिसलिलम् । दिशन्त्या दृष्टेयं कुसुमशरको-<br>दण्डलताकाम कसाद्वाकं मृगशिशुदृगो दर्शनमभूत् ॥१७॥<br>अमृतममृत चन्द्रश्चन्द्रस्तथाम्बुजमम्बुजं रतिरपि रति काम.<br>कामो मधूनि मधून्यपि । इति न भजते वस्तु प्रायः पर-<br>स्परसकरं तदियमबला धत्ते लक्ष्मी कुत. सकलात्मिकाम्<br>॥ १८ ॥ केय श्यामोपलविरचितोल्लेखहेमैकरत्नैर्मङ्गेः<br>कनककदलीकन्दलीगर्भगौरै । हारिद्राम्बुद्रवससहचर कान्ति-<br>पूर वहद्भिः कामक्रीडाभवनवलभीदीपिकेवाविरस्ति ॥ १९ ॥<br>अर्कच्छाय तिर्य्यति सुधालिप्तविचुन्मतल्ली चक्रप्रख्यं महति |
| १ धीवर २ मीन<br>३५ सु. १. भा. | १ वक्त्रम् २ मनोवृत्तिम् ३ मदनम् ४ नूपुरध्वनिभि ५ प्रशस्ता- |
| २७४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
[वामभागः]
सुषमामण्डले दूरमभ्रम् । रक्तादर्शप्रतिफलमिव श्रीसदङ्गं वहन्ती दृष्टा काचित्तरलनयना देवतेव स्मरस्य ॥ २० ॥ नेयं विद्युद्भवमधिगता काञ्चनी नापि वल्ली मन्दं मन्दं प्रचलति यतो नापि वा पन्नगस्य । चूडारत्नस्फुरदुरुशिखा कापि धत्ते सरोजं का वा तर्हि प्रकृतिसुभगा तत्सखे न प्रतीमः ॥ २१ ॥ वक्त्रोपान्तं नयनयुगलं सर्वतो निक्षिपन्ती श्रोणीभाराच्छिथिलशिथिलन्यस्तपादारविन्दा । आरादालीकरकिसलये दत्तहस्तावलम्बा काचित्कान्त्या विकसितमहीचक्रमय्याति तन्वी ॥ २२ ॥ इय भुजंगिनीश्रिता लसदनेकपुष्पान्विता द्विरेफततिसेविता प्रमदवञ्जनालंकृता । फलद्वयभरानता विलसिता नवै पल्लवैर्र्विलोचनपथं गता भवति कापि हैमी लता ॥ २३ ॥ पातालाद्भवनावलोकनपरा किं नागकन्योत्थिता मिथ्या तत्खलु दृष्टमेव हि मया तस्मिन्कुतोऽस्तीदृशी । मूर्ता स्यादिह कौमुदी न घटते तस्या दिवा दर्शनं केयं हस्ततलस्थितेन कमलेनालोक्यते श्रीरिव ॥ २४ ॥ अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशा याताया विगलत्पयोधरभगद्रष्टव्यता कामपि । अस्याश्चन्द्रमसस्तनोरिव करस्पर्शास्पदत्वं गता नैते यन्मुकुलीभवन्ति सहसा पद्मास्तदेवाद्भुतम् ॥ २५ ॥ श्रोणीभारमरालसा दैरगलन्माल्याप्रवृत्तिच्छलाल्लीलोत्क्षिप्तभुजोपदर्शितकुचोन्मीलन्नखाङ्कावलिः । नीलेन्दीवरदामदीर्घतरया दृष्ट्या धयन्ती मनो दूरान्दोलनलोलकङ्कणझणत्कारोत्तरं सर्पति ॥ २६ ॥ लग्न पादतले नखेषु विलुठत्सक्तमूर्वोर्युगे विश्रान्तं जघनस्थले निपतित नाभीसरोमण्डले । शून्यं मध्यमवेक्ष्य रोमलतिकामलम्बमान कदादारूढ स्तनयो. प्लुतं नयनयोर्लीन मनः केशिके ॥ २७ ॥ अस्या धाम सरोवरे भुजबिसे वक्त्रारविन्दे भ्रमन्नेत्रभ्रूभ्रमरे सुयौवनजले कस्तूरिकापङ्किले । वक्षोजप्रतिकुम्भिकुम्भदलनक्रोधादुपैत्य द्रुतं मन्नश्चित्तमतंगजः कथमसावुत्थाय निर्यास्यति ॥ २८ ॥ स्वैर सस्मितमीक्षते क्षणमलं व्याज़म्भते वेपते रोमाञ्चं तनुते मुहुः स्तनतटे व्यालम्बते नाम्बरम् । आलिङ्गत्यपरा तनोति चिकुर प्रत्युत्तर याचते केयं कामकलाविलासवतसित्रैलोक्यलक्षणा भाविनी ॥ २९ ॥ खेलत्खञ्जननेत्रया परिलसत्स्वर्णारविन्दास्यया पीनोत्तुङ्गनिरन्तरस्तनभरव्यालोलसन्मध्यया । स्फीतस्फीतनितम्बया क्षणमपि व्यालोकितश्चानया किं न स्याद्भशिना वरं खरहर सार शङ्गेर्जगत् ॥ ३० ॥ सायं चन्द्रकलामृतोदयगिरिस्पर्धी दधान. स्तनस्पर्शोत्तुङ्गतरो नखाङ्कुरचिर. शोणाम्बराम्यन्तर । अस्या. क न विलोकनोत्तमकरोत्तीक्ष्ण कटाक्ष क्षण भृङ्गाकृष्टगरिष्ठकेतकदलभ्रान्ति वहन्नप्ययम्
१ निमग्नगमणाया २ प्रत्यक्षस्वरूपवती ३ ईषद
[दक्षिणभागः]
॥ ३१ ॥ उत्तुङ्गस्तनशैलदुस्तरमुरो निम्नातिनाभिस्थली भीम देहवनं स्फुरद्भुजलतां रोमालिजालाकुलम् । व्याधः पञ्चशरः किरत्यतितरास्तीक्ष्णान्टाक्षाशुगास्तन्मे ब्रूहि मनःकुरङ्ग शरणं कं साप्रतं यास्यसि ॥ ३२ ॥ वक्रश्रीजितजर्जरेन्दुमलिनं कृत्वा करे कन्दुक क्रीडाकौतुकमिश्रभावमनया ताम्रं वहन्त्याननम् । भृङ्गाग्रग्रहकृष्णकेतकदलस्पर्धावतीना दृशा दीर्घापाङ्गतराङ्गितैकसुहृदामेषोऽस्मि पात्रीकृतः ॥ ३३ ॥ स्कन्धे विन्यस्य सव्य भुजमपरकरस्यार्धचन्द्रेण मध्यं बिभ्राणा धूयमानस्तनतटवसना गन्धवाहेन मन्दम् । पन्थानं दृग्विलासैरिव नलिनदलैः कोमलैरास्तृणन्ती सौभाग्ये कस्य साक्षात्परिणमति तप. सिद्धिरैषा सुवेषा ॥ ३४ ॥
विरहः
समानकुलशीलयोः सुवयसोः परायत्तयोः परस्परविलो- कनाकुलितचेतसोः प्रेयसो. । तनुत्वमनुविन्दतोर्बहुविधा व्यथा विन्दतोरशक्यविनिवेदना विरहवेदना वर्धते ॥ १ ॥
वियोगिनोऽवस्थावर्णनम्
प्रियाविरहितस्यास्य हृदि चिन्ता समागता । इति मत्वा गता निद्रा के कृतघ्नमुपासते ॥ १ ॥ अत्राशित शयितमत्र निपीतमत्र तोयं तया सह मया विधिवञ्चितेन । इत्यादि हन्त परिचिन्तयता वनान्ते हा तस्य लोचनपयोभिरभूत्पयोधिः ॥ २ ॥ मन्द मरुद्वहति गर्जति वारिवाहो विद्युल्लता चलति नृत्यति नीलकण्ठः । एतावति व्यतिकरे तरुणस्य तस्य मूर्च्छव केवलमभूद्वलम्बनाय ॥ ३ ॥ गमनमलस शून्या दृष्टि. शरीरमसौष्ठवं श्वसितमधिकं किं न्वेतत्स्यात्किमन्य- दितोऽथवा । भ्रमति भुवने कंदर्पाज्ञा विकारि च यौवन ललितमधुरास्ते ते भावा. क्षिपन्ति च धीरताम् ॥ ४ ॥ धत्ते चक्षुर्मुकुलिनि रणत्कोकिले बालचूते मार्गे गात्रं क्षिपति बकुलामोदगर्भस्य वायोः । दाहप्रेम्णा सरस- बिसिनीपत्रमात्रान्तरायस्ताम्यन्मूर्तिः श्रयति बहुशो मृत्यवे चन्द्रपादान् ॥ ५ ॥ रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते शय्योपान्तविवर्तनैर्गमयत्युन्निद्र एव क्षपा । दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा गोत्रेषु स्खलितस्तदा भवति च व्रीडावनम्राशिरम् ॥ ६ ॥ प्रत्यादिष्ट- विशेषमण्डनविधिर्वामप्रकोष्ठे श्लथं बिभ्रत्काञ्चनमेकमेव वलयं श्वासपरक्ताधरः । चिन्ताजागरणप्रताम्रनयनस्तेजो- गुणैरात्मनः सस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नाल- क्ष्यते ॥ ७ ॥ चन्द्रश्चैण्डकरायते मृदुगतिर्वातोऽपि वज्रा-
१ सूर्यवदाचरति. २ बज्रवदाचरति
वियोगिनोऽवस्थावर्णनम्, वियोगिन्या अवस्थावर्णनम् २७५
| यते माल्यं सूचिकुलायते मलयजालेपः स्फुलिङ्गायते ।<br>रात्रिः कल्पशतायते विधिवशात्प्राणोऽपि भारायते हा हन्त<br>प्रमदावियोगसमयः सहारकालायते ॥ ८ ॥ माकन्दाक्षिप<br>मा मरन्दनिकरं मूको भव त्वं शुक स्फार कोकिल कोमलं<br>कलरवं भ्रातः क्षणं संहर । सौगन्ध्यं वह गन्धवाह न<br>मनाक्सर्वैः क्षणं क्षम्यता जानीध्व तरुणास्य तस्य यदयं<br>कालः कराळो महान् ॥ ९ ॥<br><br>वियोगिन्या अवस्थावर्णनम्<br><br>दह्यमानेऽपि हृदये मृगाक्ष्या मन्मथाग्निना । स्नेहस्तथैव<br>यत्तस्थौ तदाश्चर्यमिवाभवत् ॥ १ ॥ जीवेन तुलितं प्रेम<br>सखि मूढेन वेधसा । लघुर्जीवो ययौ कण्ठं गुरुप्रेम हृदि<br>स्थितम् ॥ २ ॥ कपोलफलकावस्याः कष्टं भूत्वा तथाविधौ ।<br>अपश्यन्ताविवान्योन्यमीक्षां क्षामतां गतौ ॥ ३ ॥ वल्लभो-<br>त्सङ्गसङ्गेन विना हरिणचक्षुषः । राकाविभावरीजानिर्विष-<br>ज्वालाकुलोऽभवत् ॥ ४॥ अस्तमितविषयसङ्गा मुकुलितनय-<br>नोत्पला मुहुः श्वसिता । ध्यायति किमप्यलक्ष्यं बाला योगा-<br>भियुक्तेव ॥ ५ ॥ लिखति न गणयति रेखा निर्झरबाष्पाम्बु-<br>धौतगण्डतला । अवधिदिवसावसानं मा भूदिति शङ्किता<br>बाला ॥ ६ ॥ अपसारय घनसारं कुरु हार दूर एव किं<br>कमलैः । अलमलमालि मृणालैरिति वदति दिवानिशं बाला<br>॥ ७ ॥ पातयति हृदयदेशे प्रियजनगर्भे पुनः पुनर्मुग्धा ।<br>वर्णितमदनातङ्का बाष्पवती भावमन्वरा दृष्टिम् ॥ ८ ॥<br>श्लिष्यति पश्यति चुम्बति पुनः पुनः पुलकमुकुलितैरङ्गैः ।<br>प्रियसङ्गस्य स्फुरिता वियोगिनी वामबाहुलताम् ॥ ९ ॥<br>कमले निधाय कमल कलयन्ती कमलवासिनं कमले ।<br>कमलयुगादुद्भूतं कमलं कमलेन वारयति ॥ १० ॥ नय-<br>नोत्पलचलधारा दृष्ट्वा वारानिधिभ्रान्त्या । वडवानल<br>* इव भगवान्वसति तनौ कृशतनोस्तापः ॥ ११ ॥ लीना-<br>नसन्त्सरोरुहहृद्वरणेष्विमेष कुसुमेषुः । भ्रमति द्राग्वपुरन्तः<br>सतापं दीपमादाय ॥ १२ ॥ कुसुमितलताभिरहताप्यद्यत्त<br>रुजमलिकुलैरदथापि । परिवर्तते स्म नलिनी लहरीमिल्लोलि-<br>ताप्यघूर्णत सा ॥ १३ ॥ शशभृन्नवपल्लवे शशाङ्के मकरन्द-<br>स्रुतिवारिणी सरोजे । अपि चास्य मरुद्गणान्नसूते तिल-<br>कुसुमं स्फुटचम्पकौघदामि ॥ १४ ॥ अधिदेहलि हन्त हेम-<br>वल्ली शरदिन्दुः सरसीरुहे शयानः । उपखञ्जनचक्षु मौक्ति-<br>काली फलितं कस्य सुजन्मनस्तपोभिः ॥ १५ ॥ विश्रम्य<br>विश्रम्य वनद्रुमाणां छायासु तन्वी विचचार काचित् । | तनूत्तरीयेण करोद्धृतेन निवारयन्ती शशिनो मयूखान् ॥१६॥<br>अपि मरणमुपैति सा मृगाङ्के विलसति कैव कथा रसान्त-<br>रस्य । अपि कथमधुना दधातु शान्ति विषमशरज्वरतीव्र-<br>देहदाहः ॥ १७ ॥ निवेशिते यदि शूकशिखा पदे सृजति<br>सा कियतीमिव न व्यथाम् । मृदुतनौर्वितनोतु कथं न<br>तामवनिभृत्तु निविश्य हृदि स्थित ॥ १८ ॥ सा तोरणा-<br>न्तिकमुपेत्य दिशोऽवलोक्य नि श्वस्य दीर्घमुपधाय करं<br>कपोले । मत्वा च तं पुरत एव ससम्भ्रमात्वज्ञात्वाऽऽसने मोह-<br>लिखितेव न कि किमासीत् ॥ १९ ॥ अख्यास्तनौ विरहता-<br>ण्डवरङ्गभूमौ स्वेदोदबिन्दुकुसुमाञ्जलिमाविकीर्य । नान्दीं<br>पपाठ पृथुवेपथुवेपमानकाञ्चीलताकलरवैः स्मरसूत्रधारः<br>॥ २० ॥ मदनदहनशुष्यत्कान्तकान्ताकुचान्तर्घनमलयजपङ्के<br>गाढबद्धाखिलाङ्घ्रिः । उपरि विततपक्षो लक्ष्यतेऽलर्निमग्नः<br>शर इव कुसुमेषोरेष पुङ्खावशेषः ॥ २१ ॥ नवकिसलयतल्पं<br>कल्पितं तापशान्त्ये सरसरसिजसङ्गात्केवलं म्लापयन्त्याः ।<br>कुसुमशरकृशानुत्रापिताङ्गारतायाः शिव शिव परिताप को<br>वदेत्कोमलाङ्ग्याः ॥ २२ ॥ दरललितहरिद्राम्रन्थिगौरे शरीरे<br>स्फुरति विरहजन्मा कोऽप्ययं पाण्डुभावः । वलति सति<br>हि यस्मिन्सार्धमावर्त्य हेम्ना रजतमिव मृगाक्ष्याः कल्पिता-<br>न्यङ्गकानि ॥ २३ ॥ किसलयमिव मुग्धं बन्धनाद्विप्रलूनं<br>हृदयकुसुमशोषी दारुणो दीर्घशोकः । ग्लपयति परिपाण्डुक्षाम-<br>मस्याः शरीरं शरदिरज इव घर्मः केतकीगर्भपत्रम् ॥ २४ ॥<br>परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थ-<br>नाभिः क्रियासु । कलयति च हिमाशोर्निष्कळङ्कस्य लक्ष्मी-<br>मभिनवकरिदन्तच्छेदकान्त कपोलः ॥ २५ ॥ स्थगयति<br>नयनास्र छद्मना धूमधूम्रं प्रथयति च नितान्तं कार्श्यमङ्ग-<br>प्रकृत्या । अहह विरहबाधा छादयत्यम्बुजाक्षी तदपि वदति<br>साक्षी पाण्डुरो गण्डदेशः ॥ २६ ॥ परिम्लानं पीनस्तनज-<br>घनसमार्द्रेभयतस्तैनोर्मध्यस्यान्तः परिमिलनप्राप्य हरितम् ।<br>इदं व्यस्तन्यास श्लथभुजलताक्षेपवलनैः कृशाङ्ग्याः सतापं<br>वदति बिसिनीपत्रशयनम् ॥ २७ ॥ प्रयातेऽस्तं भानौ श्रित-<br>शकुनिनीडेषु तरुषु स्फुरत्सन्ध्यारागे शशिनि शनकैरुलमति<br>च । प्रियप्रत्याख्यानद्विगुणविरहोत्कण्ठितदृशा तदारब्धं<br>तन्व्या मरणमपि यत्रोत्सवपदम् ॥ २८ ॥ लतामूले लीनो<br>हरिणपरिहीनो हिमकर स्खलन्मुक्ताकारा गलति जलधारा<br>कुवलयात् । धुनीते बन्धूकं तिलकुसुमजन्मा हि पवनो<br>गृहद्वारे पुण्यं परिणमति कस्यापि कृतिनः ॥ २९ ॥ मराल- |
| १ चन्दनलेप २ अग्निकण इवाचरति ३ सहस्रकल्पमितेवाचरति | १ आसेति क्रियापदम् २ प्राप्तमर्दा ३ सखीजन ४ ऊर्ध्वाधोभागयो ५ कृशस्य ६ सघर्षम् ७ दरिद्रणीम् ८ अनुमापयति ९ शरः |
२७६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
श्रेणीर्भिन्वन्नुपनीतं सफलता गतिस्पर्धावैरे मृदुकलरवै-
रम्बुजदृग् । यदेतान्दृष्ट्वैत्या प्रियविरहवत्याः कृशतनो-
रगादस्याः स्तम्भाद्दहह गतिसंभावनमपि ॥ ३० ॥ अ-
गारेऽस्मिन्कान्ते गिरिशमनिशानाथसकलं भुजगानुत्तुङ्गा-
न्सकलमपि वातायनपथे । निकुञ्जेषु श्येनानविगृहशिरो-
गङ्गुवलयं लिखन्त्या नीयन्ते शिव शिव तया हन्त दिवसाः
॥ ३१ ॥ स्तनन्यस्तोशीरं प्रशिथिलमृणालैकवलयं प्रियायाः
साबाधं तदपि कमनीयं वपुरिदम् । समस्तापः कामं
मनसिजनिदाघप्रसरयोर्न तु ग्रीष्मस्यैव सुभगमपराद्धं युव-
तिषु ॥ ३२ ॥ कपोले पाण्डुत्वं किमपि जलधारा नयन-
योस्तनौ कार्श्यं दैन्यं वचसि हृदि दावानलशिखाम् ।
अवज्ञां प्राणेषु प्रकृतिषु विपर्यासमधुना किमन्यद्वैराग्यं सकल-
विषयेष्वाकलयते ॥ ३३ ॥ निकामं क्षामाङ्गी सरसकदली-
गर्भसुभगा कल्येशा मूर्तिः शशिन इव नेत्रोत्सवकरी ।
अवस्थामापन्ना मदनदहनोदाहविधुरारियं न. कल्याणी
रमयति मन. कम्पयति च ॥ ३४ ॥ घनोऽयं चेदञ्चेदुपपरि
विकिरंश्चन्दनरसानुदागन्नैहारी सरिदुरसि हारीभवति वा ।
समन्तात्प्राणालीं चिग्मुपवनाली मिलति वा तदप्यस्यास्तापः
प्रियविरहजः किं विरमति ॥ ३५ ॥ इनो विद्युद्वल्लीविलसित-
मितः केतकग्जः स्फुरद्बन्धः प्रोद्यज्जलदनिनदस्फूर्जितमितः ।
इतः केकिक्रीडाकलकलभग. पक्ष्मलदृशा कथं यास्यन्त्येते
विरहदिवसाः सश्रमरसा ॥ ३६ ॥ न नीतमुपनासिकं परि-
मलव्ययाशङ्कया न हन्त विनिवेशितं विरहवह्निकुसुण्डे हृदि ।
दृशोर्बहिरिति श्रुतौ न निहितं प्रियप्रेषितं करे कमलमर्पितं
मृगदृशा दृशा पीयते ॥ ३७ ॥ वीणामङ्के कथमपि सखी-
प्रार्थनाभिर्विधाय स्वैरं रत्या सरसिजदृशा गातुमारब्धमेव ।
तन्त्रीबुद्ध्या किमपि विरहक्षीणदीनाङ्गवल्लीमेनामेव स्पृशति
बहुशो मूर्च्छना चित्रमेतत् ॥ ३८ ॥ अन्तस्तारं तरलतरलाः
स्तोकमुत्पीडभाजः पक्ष्माग्रेषु ग्रथितपृथवः कीर्णधाराः क्रमेण ।
चित्तात्तङ्गं निजगरिमतः सम्यगासूचयन्तो निर्यान्त्यस्याः
कुवलयदृशो बाष्पधाराप्रवाहाः ॥ ३९ ॥ मुक्त्वा नङ्गः
कुसुमविशिखान्वञ्च कुण्ठीकृतायान्मन्ये मुग्धां प्रहरति हठा-
त्पत्रिणा वारुणेन । वारां पूरः कथमपरथा स्फारनेत्रप्रणाली-
वक्रोद्वान्तस्त्रिवलिविपिने सारणीसाम्यमेति ॥ ४० ॥
खिन्नौ गण्डौ स्फुरितमधरं स्पन्दितं चूर्त्तकाय मन्नौ बाहू
मसृणमुकुले लोचने भ्रूश्चलैव । अङ्गादङ्गादजनि पुलक-
श्रेणिरूरू सकम्पौ किं च श्वासात्तरलितदुकूलाञ्चलाश्चञ्च-
लाक्ष्याः ॥ ४१ ॥ पीनोत्तुङ्गस्तनकलशयोस्तारहारं न धत्ते
हस्तेनापि स्पृशति सहसा नैव कर्पूरवीटीम् । मञ्चं नापि
श्रयति शयितुं हंसतूलाब्सराढ्यं तादृक्तन्वी गुरुजनभया-
द्धोतुकामा स्वतापम् ॥ ४२ ॥ गण्डे पाण्डौ कलयति
पुनश्चान्दनान्यत्रभङ्गांन्निद्रालाभे स्वयमरुणदृक्पृच्छति त्वा
निदानम् । प्रत्यासन्ने मधुरलपिते गृह्यैके कीरशावे कण्ठे
धत्ते कमलनयना चारु वैदूर्यहारम् ॥ ४३ ॥ नीवीबन्धो-
च्छ्रसनमधरस्पन्दनं दोर्विषादः स्वेदश्रुर्मृसृणमधुराकेकर-
स्निग्धमुग्धम् । गात्रस्तम्भः स्तनमुकुलयोरुत्प्लवन्धः प्रकम्पो
गण्डाभोगे पुलकपटल मूर्च्छना चेतना च ॥ ४४ ॥ सद्यो
कोषं नत उपगता हन्त रात्रि कृपाणीं चन्द्रं चक्रं विरह-
विधुरा तारकापङ्किमुग्राय् । तूणीरन्तर्गतशरमति प्रज्वल-
च्छुङ्गभागा सनद्धाखं कलयति पुनर्मन्मथं राक्षसेन्द्रम्
॥ ४५ ॥ लीलावल्लीभवनकुहरे पृत्ररन्धाचकोरीचञ्चूसक्तं
शशिकरकणं वीक्ष्य मूर्च्छामुपैति । लीलारामात्पिकमुख-
रितात्का कथा सा बिभेति स्वालापेभ्यश्चकितनयना यत्कुहू-
कोमलेभ्यः ॥ ४६ ॥ व्यजनमरुतः श्वासश्रेणीमिमामुप-
चिन्वते मलयजरसो धारावाष्पं प्रपञ्चयितुं प्रभुः । कुसुम-
शयनं कामास्त्राणां करोति सहायतां द्विगुणगरिमा कामो-
न्मादः कथं नु विरस्यति ॥ ४७ ॥ विषयविधुरा दृष्टिः
श्वासानिलाः गल्पिताधरास्तनुरपि भृशं म्लाना लूनेव पल्लव-
मञ्जरी । अपि च लवळीपाकोल्लेदामिरामवदावदः स्फुरति
कुचयोर्मूले गण्डे च कश्चन पाण्डिमा ॥ ४८ ॥ कथ-
मपि कृतप्रत्यावृत्तौ प्रिये स्खलितोत्तरे विरहकृशया कृत्वा
व्याजं प्रकल्पितमश्रुतम् । असहनसखीश्रोत्रप्राप्तिप्रमाद-
ससम्भ्रमं प्रचलितदृशा शून्ये गेहे समुच्छ्वसितं पुनः
॥ ४९ ॥ तन्वङ्ग्या गुरुसन्निधौ नयनजं यद्वारि सस्त-
म्भितं तेनान्तर्गलितेन मन्मथशिखी सिक्तो वियोगोद्भवः ।
मन्ये तस्य निरस्यमानकिरणस्यैषा मुखेनोद्गता श्वासायास-
समागतानलसरणिव्याजेन धूमावली ॥ ५० ॥ मुग्धा खम-
समागते प्रियतमे तत्पाणिसंस्पर्शनं रोमाञ्चाञ्चितया शरीर-
लतया संभाव्य कोपात्किल । मा वा वल्लभ संस्पृशेति
सहसा शून्यं वदन्ती मुहुः सख्या नो हसिता सचिन्तमसकृ-
त्तस्शोचिता प्रत्युत ॥ ५१ ॥ शीघ्रं भूमिगृहे गृहाण वसतिं
प्राणैः किमु क्रीडसि प्राप्ता पश्यसि कि न दैवहतिका ज्योत्स्ना
गवाक्षोदरे । इत्थं मन्मथतीव्रसज्वरजुषो गेहेषु वामभ्रुवा-
मुद्गच्छन्ति कुरङ्गलाञ्छनभयाद्दीनाः सखीनां गिरः ॥ ५२ ॥
शय्या पुष्पमयी परागमयतामङ्गापंणादक्षुते ताम्यन्त्यन्तिक-
तालवृन्तनलिनीपत्राणि दाहोष्मणा । न्यस्तं च स्तन-
मण्डले मलयजं शीर्णान्तरं दृश्यते काथादाशु भवन्ति फेनि-
लमुखा भूषामृणालाङ्कुराः ॥ ५३ ॥ आदातुं सकृदीक्षिते-
ऽपि कुसुमे हस्ताग्रमालोहितं लाक्षारञ्जनवार्तयापि सहसा
रक्तं तलं पादयोः । अङ्गानामनुलेपनस्मरणमप्यत्यन्तखेदा-
वियोगिन्या अवस्थावर्णनम्, वियोगिनो विप्रलापाः २७७
वहं हन्ताक्षीवरदृशः किमन्यदलकामोदोऽपि भारायते ॥ ५४ ॥ अङ्गासङ्गिमृणालकाण्डमयते भृङ्गावलीना रुचिं नासामौक्तिकमिन्द्रनीलसरणि श्वासानिलाद्गाहते । क्षिप्ता सा हिमवालुकापि कुचयोर्धत्ते क्षण दीर्पता तप्ताय पतिताम्बुवत्करतले धागम्बु सलीयते ॥ ५५ ॥ कैने कोमलमालिकामपि चिर या बिभ्रती खिद्यते या गात्रेषु घनं विलेपनमपि न्यस्त न वोढु क्षमा । दीपस्यापि शिखा न चापि भवने स्वेभेऽपि या वीक्षितु तार्प सा विरहानलस्य महत. सोढु कथ शक्यते ॥ ५६ ॥ उडूयेत तनूलतेति बिसिनीपश्रेण नो वीज्यते स्फोट स्यादिति नाङ्गक मलयजक्षोदाम्भसा सिच्यते । स्यादस्यातिमरात्परावर भव इति त्रासान्न वा पल्लवारोपो वक्षसि तत्कथ वरतनोरावि समाधीयताम् ॥ ५७ ॥ नि श्वासानलविद्रदन्तवसना नेत्राम्बुसिक्तस्तनी हस्तन्यस्तकपोलदीनवदना हारैकभूषावती । बिभ्राणासपदेन तुङ्गजघना विश्रंसिनी वेणिकामास्ते स्थण्डिल एव पाण्डुमधुरक्षामालसैरङ्गकै. ॥ ५८ ॥ क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं मध्य क्लान्ततर प्रकामविनतावसौ छविः पाण्डुरा । शोच्या च प्रियदर्शना च मदनग्लानेयमालक्ष्यते पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥ ५९ ॥ कर्पूराम्बुनिषेकभाजि सरसैरम्भोजिनीना दलैरास्तीर्णेऽपि विवर्तमानवपुषः स्रस्तस्रजि स्रस्तरे । मन्दोन्मेषदशा किमन्यदभवत्सा काप्यवस्था तदा यस्याश्चन्दनचन्द्रचम्पकदलश्रेण्यादि वह्नीयते ॥ ६० ॥ आलीचालितपद्मिनीदलचलत्सवीज्मङ्गीकृतस्वाङ्गालिङ्गनमर्मरीकृतनवाम्भोजालिशय्या चिरात् । चैतन्य कथमप्युपेत्य शनकैरून्मील्य नेत्राञ्चलं बाला केवलमेव शून्यहृदया शून्य जगत्पश्यति ॥ ६१ ॥ न क्रीडासु कुतूहलं वितनुते नालङ्कृतौ सादरा नाहारेऽपि च मस्पृहा न गणयत्यालापलोला सखीम् । बाला केवलमङ्गकैरनुकलक्षामैर्विविक्तस्थले ध्यायन्ती किल किंचिदन्तरधुना नि स्पन्दमास्ते सदा ॥ ६२ ॥ सोन्मेषो न सखीजन प्रागल्भ्यभूमिर्न वा वात्सल्यादविभावितस्फुटवयोवस्थाविशेषो गुरु. । आयाता नवमल्लिकापरिमलकूरा शरदवासरा. कस्याख्यातु नितम्बिनी पितृगृहावस्थानदु ग्थ जनु ॥ ६३ ॥ दुःख दीर्घतर वहत्यपि सखीवर्गाय नो भाषते शैवालै. शयनं सृजत्यपि पुन शेते न वा लज्जया । कण्ठे गद्गदवाचमञ्चति दशा धत्ते न बाष्पोदक सताप सहते यदम्बुजमुखी तद्वेद चेतोभवः ॥ ६४ ॥ कण्ठे मौक्तिकमालिका. स्तनतटे कर्पूरमच्छं रज मान्द्रं चन्दनमङ्गके वलयिता. पाणौ मृणालीलता. । तन्वी नक्तमियं चकास्ति तनुनी चीनांशुके बिभ्रती शीताशोरधिदेवतेव गलिता व्योमाग्रमारोहत. ॥ ६५ ॥
वियोगिनो विप्रलापाः
यदि प्रियावियोगेऽपि रुँद्यते दीनदीनकम् । तदिदं दग्धमरणमुपयोग क्व यास्यति ॥ १ ॥ दिव्यंचक्षुरहं जात. सरागेणापि चक्षुषा । इहस्थो येन पश्यामि देशान्तरगता प्रियाम् ॥ २ ॥ नपुसकमिति ज्ञात्वा ता प्रति प्रहितं मन. । तत्तु तत्रैव रमते हँता. पाणिनिन। वयम् ॥ ३ ॥ न मे दु.ख प्रिया दूरे न मे दु.खं हृतेति सा । एतदेवानुशोचामि वयोऽस्या ह्यतिवर्तते ॥ ४ ॥ यदि स्मरामि तन्वङ्गीं जीविताशा कुतो मम । अथ विस्मृत्य जीवामि जीवितव्यसनेन किम् ॥ ५ ॥ मुखं तस्याः स्मि॑ितस्मेर किंचिदञ्चलसंवृतम् । मदालोकनलोलाक्षं स्मृत्वा मन्ये मुंधा मुंधा ॥ ६ ॥ तद्वियोगसमुत्थेन तच्चिन्ताविपुलाचिंषा । रात्रिदिव शरीर मे दह्यते मदनाग्निना ॥ ७ ॥ विशालाक्ष्या. कटाक्षेण विकृष्टं रश्मिनेव मे । हृदयं कि करिष्यामि न पुनर्बिनिवर्तते ॥ ८ ॥ सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुधु । विना मे मृगशावाक्ष्या तमोभूतमिदं जगत् ॥ ९ ॥ दत्त्वा कटाक्षमेणाक्षी जग्राह हृदयं मम । मया तु हृदयं दत्त्वा गृहीतो मदनज्वर ॥ १० ॥ अपूर्वो दृश्यते वह्नि. कामिन्या. स्तनमण्डले । दूरतो दहते गात्रं हृदि लग्नस्तु शीतल ॥ ११ ॥ भ्रूचापवल्ली सुमुखी यावन्नयति वक्रताम् । तावत्कटाक्षविशिखैर्भिद्यते हृदय मम ॥ १२ ॥ मन. प्रकृत्यैव चलं दुर्लक्ष्यं च तथापि मे । कामैनैतत्कथ विद्ध समं सँवै शिलीमुखैः ॥ १३ ॥ या जयश्रीमर्नोजस्य यया जगदलंकृतम् । यामेणाक्षीं विना प्राणा विफला मे कुतोऽद्य सा ॥ १४ ॥ अरविन्दमिदं वीक्ष्य खेलत्खञ्जनमञ्जुलम् । स्मरामि वदनं तस्याश्चारु चञ्चललोचनम् ॥ १५ ॥ स्पर्श स्तनतटस्पर्शो वीक्षणं वक्रवीक्षणम् । तस्याः केलिकथालापसमय. समय. सखे ॥ १६ ॥ कुतः प्रेमल्नोऽप्यस्ति खले मे हृदये खलु । सुन्दरीं तामनालोक्य यदहं प्राणिमि प्रिय ॥ १७ ॥ नूनमयं मे पापः कान्ताविरहो रँसायनीभूतः । वर्षसहस्राम्यधिकान्न्यामि कथमन्थथा दिवसान् ॥ १८ ॥ सगमविरहवितर्के वरमिह
१ रोदन क्रियते २ अतीन्द्रियज्ञानवान् ३ वञ्चिता ४ स्मितेन हास्येन सेर प्रमन्नम् ५ वस्त्राञ्चलेनावगुण्ठितम् ६ अमृतम् ७ व्यर्थम् ८ जीवनसाधकरसायनरूपो नात
२७८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
विरहो न संगमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥ १९ ॥
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयना तामधिकृत्य प्रहरतीति ॥ २० ॥
दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥ २१ ॥
स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा । कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम् ॥ २२ ॥
आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ २३ ॥
तस्या सुतनुसरस्या चेतो नयनं च निष्पतितम् । चेतो गुरु तु निमग्नं लघु नयनं सर्वतो भ्रमति ॥ २४ ॥
निष्कासयन्त्यनेके सागरसरिदम्बुपूरपरिपतितम् । हृदयह्रदे निमग्नामिन्दुमुखीं मा बहिः कुरुताम् ॥ २५ ॥
दर्शनपथमुपयाता यदवधि मदिरायतेक्षणा सहसा । तदवधि हृदयेनाहं मदनेषुभयादिवोन्मुक्तः ॥ २६ ॥
अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा । प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपाया ॥ २७ ॥
पुनरपि मिलनं यदाकदाचित्प्रियतमया कृपया भवेद्विधातुः । हरिरिव करवै हृदि प्रतिष्ठामिह रमणीं तनवै मनोऽनभिन्नाम् ॥ २८ ॥
स्खलदंशुकमव्यवस्थतारस्मितकान्ति स्नपिताधरप्रवालम् । असमासनकारमासशोभं हरिणाङ्कं हरिणीदृशः स्मरामः ॥ २९ ॥
अधृतपरिपतन्निचोलबन्धं सुषितनकारमवक्रदृष्टिपातम् । प्रकटहसितमुन्नतास्यबिम्बं पुरसुदृशः स्मरचेष्टितं स्मरामि ॥ ३० ॥
नयनेन निरीक्षिता नताङ्गी हृदये हन्त पतत्रिणः पतन्ति । विषमा विषमायुधव्यथासौ परिभूयेत परः परापरार्थैः ॥ ३१ ॥
यत्राकृतिस्तत्र गुणा वसन्ति नैतद्धि सम्यक्कविभिः प्रणीतम् । येनातिचार्वङ्ग्यपि मे हृदिस्था दुनोति गात्रं विरहे प्रियासौ ॥ ३२ ॥
पञ्चसायकमहेन्द्रजालिना पाणिपद्मसमुद्भिता स्वयम् । मोहनाय मनसः प्रगल्भते पिच्छिकेव मम चञ्चलेक्षणा ॥ ३३ ॥
दूरमस्तु दरघूर्णिततारं शारदेन्दुमुखवीक्षणमक्ष्णोः । एतदेव मम पुण्यमगण्यं यत्कृशोदरि दृशोरतिथिस्त्वम् ॥ ३४ ॥
असति कोऽपि विमोहविधुंतुदो हृदयचन्द्रमस मम दारुणः । तदपि हन्त तदन्तरशायिनी लगति चिह्नमृगीव मृगेक्षणा ॥ ३५ ॥
असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् । अभिमुखीष्विव वाञ्छितसिद्धिषु¹ व्रजति निर्वृतिमेकपदे² मनः ॥ ३६ ॥
तप्ते महाविरहवह्निशिखावलीभिरापाण्डुरस्तनतटे हृदये प्रियायाः । मन्मार्गवीक्षणनिवेशितदीनदृष्टेर्नूनं छमच्छदमिति बाष्पकणाः पतन्ति ॥ ३७ ॥
कान्तामुखं सुरतकेलिविमर्दखेदसञ्जातघर्मकणविच्छुरितं रतान्ते । आपाण्डुरं विलसदर्धनिमीलिताक्षं सस्मृत्य हे हृदय किं शतधा न यासि ॥ ३८ ॥
तत्प्रचलकुण्डलमृष्टगण्डं वक्त्रं स्मरामि विपरीतरताभियोगे । आन्दोलनश्रमजलस्फुटसान्द्रबिन्दुमुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ ३९ ॥
निद्रार्धमीलितदृशो मदमन्थराणि¹ नाप्यर्थवन्ति न च नाम निरर्थकानि । अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ ४० ॥
अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दनयनां तनुरोमराजिम् । सुप्तोत्थितां मदनविह्वललालसाङ्गीं विद्यां प्रमादगलितामिव चिन्तयामि ॥ ४१ ॥
अद्यापि सा मनसि संप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्रमनालपन्त्या ॥ ४२ ॥
आसन्नमार्गमपिलङ्घ्य नतेन मूर्ध्ना पश्चात्ससङ्ग्वलितेन मुखेन यान्त्या । आरोपिताः कतिपये मयि पङ्कजाक्ष्या साकूतहासमनतिप्रकटाः कटाक्षाः ॥ ४३ ॥
राजल्ललाटफलका कमनीयकूजत्काञ्चीगुणप्रणयिनी धृतकेशपक्षा । हा किं करोमि मम सा हृदयं प्रविष्टा नाराचयष्टिरिव पुष्पशिलीमुखस्य ॥ ४४ ॥
यत्र क्षिपामि दृशमन्यदिदृक्षयाहं तत्रागतः स्फुरति केवलमेतदेव । तद्वक्त्रबिम्बमरुणाधरलोभनीयं ते लोचने तदलसालसमीक्षिते च ॥ ४५ ॥
मन्दस्मितेन मधुराधरपल्लवेन कुम्भोन्नमत्कुचभरेण कृशोदरेण । विद्युन्निभाङ्गलतया च विचिन्त्यमाना चेतो धुनोति च धिनोति च चञ्चलाक्षी ॥ ४६ ॥
तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य चेतः कथं कथमपि व्यपवर्तते मे । लज्जां विजित्य विनयं विनिवार्य धैर्यमुन्मथ्य मन्थरविवेककाण्ड एव ॥ ४७ ॥
यद्विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवाभूत् । तत्सन्निधौ तदधुना हृदयं मदीयमहङ्गारचुम्बितमिव व्यथमानमास्ते ॥ ४८ ॥
पश्यामि तामित इतः पुरतश्च पश्चादन्तर्बहिः परित एव विवर्तमाननाम् । उद्बुद्धमुग्धकनकाब्जजिह्मं वहन्तीमासक्ततिर्यगपवर्तितदृष्टि वक्त्रम् ॥ ४९ ॥
लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन । व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ॥ ५० ॥
यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्घोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ ५१ ॥
ता हेमचम्पकरुचिं
पादटिप्पणी:
- १ इष्टसिद्धिषु
- २ सतोषम्
- १ मन्दानि
वियोगिनो विप्रलापाः २७९
मृगशावकाक्षीं पार्श्वे स्थिता च पुरतः परिवर्तमानाम् । पश्चात्तथा दशदिशासु परिस्फुरन्तीं पश्यामि तन्मयमहो भुवनं किमेतत् ॥ ५२ ॥ अद्यापि तिष्ठति दृगोरिदमुत्तरीयं धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ता । वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ ५३ ॥ राकासुधाकरमुखी तरलायताक्षी संखेरयौवनतरङ्गितविभ्र- मास्या । तत्किं करोमि कथमत्र तनोमि मैत्रीं तत्स्वीकृति- व्यतिकरे क इहाभ्युपायः ॥ ५४ ॥ यान्त्याः सरः सलिल- केलिकुतूहलाय व्याजादुपैत्य मयि वर्त्मनि वर्तमाने । अन्तःस्थितद्युतिमत्कृतिकुद्वक्त्ररङ्गैरीकृतं किमपि वामदृशः स्मरामि ॥ ५५ ॥ मन्दादरः कुसुमपत्रिषु पेलवेषु नूनं बिभर्ति मदनः पवनास्त्रमद्य । हारप्रकाण्डसरलाः कथमम्य- थामी श्वासाः प्रनर्तितदुकूलदशाः सरन्ति ॥ ५६ ॥ पीतो यतः- प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमप्यपूर्वम् ॥ ५७ ॥ अलसविलसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारितानाम् । प्रतिनयननिपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ५८ ॥ अलसवलितमुग्धस्निग्धनिस्पन्दमन्दैरधिकविक- सदन्तर्विस्मयस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च ॥ ५९ ॥ क्रमशरू- लितकण्ठप्रक्रमोल्लासितोरस्तर लितवलिलेखासूत्रसर्वस्वमस्याः । स्थितमतिचिरमुच्चैरग्रपादाङ्गुलीभिः करकलितसखीकं मा दिवक्षोः स्मरामि ॥ ६० ॥ व्रीडायोगान्नतवदनया सन्नि- धाने गुरूणां बद्धोत्कम्पस्तनकलशया मैन्युमन्तर्निगृह्य । तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्त- श्चकितहरिणीहारिनेत्रत्रिभागः ॥ ६१ ॥ बारवारं तिरयति दृशोरुद्गमं बाष्पपूरस्तसंकल्पोपहितजडिम स्तम्भमभ्येति •गात्रम् । सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणि- र्लेखाविधिषु नितरा वर्तते किं करोमि ॥ ६२ ॥ हा हा देवि स्फुटति हृदयं संस्रते देहबन्धः शून्यं मन्ये जगद- विरतज्वालमन्तर्ज्वलामि । सीदन्नन्चेतमसि विधुरो मज्ज- तीवान्तरात्मा विष्वग्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ ६३ ॥ ऊरू रम्भा दृगपि कमलं शेवलं केशपाशो वक्त्रं चन्द्रो लपितममृतं मध्यदेशो मृणालम् । नाभिः कूपो वलि- रपि सरित्पल्लवः किं च पाणिर्यस्याः सा चेदुरसि न कथं हन्त तापस्य शान्तिः ॥ ६४ ॥ प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ ६५ ॥ कुन्दं दन्तैर्मधु निगदितैः षट्पदं दृग्विलासैरेभि- र्हासैरमृतलहरीं कुन्तलैरम्बुवाहम् । इन्दोर्बिम्बं वदनश- शिना पङ्कजं च स्तनाभ्यां त्वं जित्वा तान्वससि हृदये तेन मा विद्विषन्ति ॥ ६६ ॥ स्वप्ने दृष्ट्वा किमपि पिशुनाशङ्कया नैव पृष्टा स्पृष्टा नीवी न खलु भवतः किङ्कि- णीनिक्वणानाम् । आश्लेषाय स्पृहयति मयि द्राग्व्यरसीदसीमा निद्रामुद्रा शिव शिव दृशोरदृशो दुर्विपाकः ॥ ६७ ॥ दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ६८ ॥ जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृ- तिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदिदं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ ६९ ॥ मयि सकपटं किंचित्क्वापि प्रणी- तविलोचने किमपि नयनं प्रासे तिर्यग्विज़म्भिततारकम् । स्थितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदशः स्मेरं स्मेरं स्मरामि तदाननम् ॥ ७० ॥ हृदयमिषुभिः काम- स्यान्तः सशल्यमिदं सदा कथमपुलभे निद्रां स्वप्ने समागम- कारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां मम नयनयोरुद्वाष्पत्वं सखे न भविष्यति ॥ ७१ ॥ कुसुम- शयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीण न वा मणियष्टयः । मनसिजरुजं सा वा दिव्या ममालम- मोहितुं रहसि लघयेदारब्धा वा तदाश्रयिणी कथा ॥ ७२ ॥ ईंदमेशिशिरैरन्तस्तापाद्द्विवर्णमणीकृतं निशि निशि भुजन्य- स्तापाङ्गप्रवर्तिभिरश्रुभिः । अनतिलुलितैरूज्याघाताङ्कं मुहुर्मणि- बन्धनात्कनैकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ ७३ ॥ कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः श्यामायाः कुचयुगमहं वक्षसि वहन् । अये स्निग्धे मुग्धे चपलनयने चन्द्रवदने प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ७४ ॥ तया गाढं मुक्तो भुवि धनुषि सधाय निशितः कटाक्षेषुर्नान्यैः सह पठनयोग्यः शरगणैः । पतन्गात्रे गात्रे परममृतमाक्षौदिव तदा दवीयानद्यायं दलयति पुनर्न व्रण- यति ॥ ७५ ॥ तदा मुग्धं वक्त्रं किसलयसखः सोऽधरमणि- र्विशाले ते नेत्रे स्तनभरनता सा तनुलता । सलीलं तद्यातं
पाद-टिप्पणियाँ (Footnotes)
[वाम पृष्ठ] १ लज्जा २ नम्रमुखत्वेन ३ क्रोधम् ४ रुद्धा
[दक्षिण पृष्ठ] १ कनकवलयमित्यर्थ २ उष्णै, अश्रुभिरित्यनेन संबन्ध ३ अभ्य- न्तरे विरहजन्यतापाह्वेतो ४ विवर्णा हीनवर्णा मणयो यस्मिन्नेवविध कृतम् ५ नेत्रप्रान्त ६ मौर्वीघर्षणजन्य किण ७ सुवर्णकङ्कणम् ८ वारंवार गलितम्
| २८० | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
जननयनसजीवनसुधा प्रिया सा सा सेत्यजनि हृदयं तन्मयमहो ॥ ७६ ॥ कटाक्षेणापीषद्वक्षणमपि निरीक्षेत यदि सा तदानन्द. सान्द्रः स्फुरति निहताशेषविषय. । सरोमाञ्चोद्गच्छत्कुचकलशनिर्भिन्नावसन. परीरम्भारम्भः क इव भविताम्भोरुहदृश. ॥ ७७ ॥ पुरस्ताद्गच्छन्ती सह सहचरीभिः प्रियतमा ममालापं श्रुत्वा सचकितपरावृत्तवदना । किमग्रे व्यासङ्गादहमहह यामीति विनयप्रणालीमालीना यदकृत तदन्तर्व्यथयति ॥ ७८ ॥ समुत्तीर्णे तन्व्या निशितनयनान्तेन मृदिते स्तनद्वन्द्वस्यन्दैः सितलवसुधाम्भि. मृतमति । मदन्तःकेदारं मदनकृषिकारेण जनिता चिरादाशावल्ली किमिति न फलं हन्त लभते ॥ ७९ ॥ विलीयेन्दुः साक्षादमृतरसवापी यदि भवेत्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् । तत. स्नानक्रीडाजनितजडभावैरवयवै. कदाचिन्सुख्येयं मदनशिखिपीडाव्यतिकरम् ॥ ८० ॥ परागैः कर्पूरैस्तुहिनसलिलैश्चान्दनरसैः सुधाम्भिज्र्योत्स्नाभिः स्नपितमिव य प्रागकृत माम् । स एवासौ मारः शिव शिव वियोगे मृगदृशः करालं काकोल किरति मयि कालानलमपि ॥ ८१ ॥ न दूतीसंचारो न सरसपरोक्षोक्तिकल्पना न सामुद्र्ये हासः क्वचिदपि न वाचा व्यतिकरः । अहो चित्र चेतः क्षणपरिचितालोकनवशन्मुहुर्धावंधावं व्रजति सुदृश नो विरमति ॥ ८२ ॥ शरीर क्षामं स्यादसति दयितालिङ्गनसुखे भवेत्सास्त्रं चक्षुः क्षणमपि न सा दृश्यत इति । तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहित प्रसक्ते निर्वाणे हृदयमरिताप वहसि किम् ॥ ८३ ॥ दृगन्तव्यापारप्रबलनिगडेन स्फुरदुरस्तटीकारागारे तव समुचितं बन्धनमिदम् । अरे चेतस्त्यक्त्वा यदिह जनमाजन्मसुहृदं क्षणप्राप्तामेतामधरमधुलामेन भजसे ॥ ८४ ॥ विपत्तिन्धुं बन्धु विगलितजलं नेत्रयुगल सशोकं भूलोकं भुवनवलय खेलनिलयम् । अनङ्गं नीरङ्ग विघटितधनं कोशभवनं विधातु कि धातस्तव हृदि न लज्जा प्रभवति ॥ ८५ ॥ न वक्षोजाश्लेषप्रभृतिकुतुकानामवगमो न पीयूषस्वादस्मितवलितवाचामनुभव. । न चासीन्मे तादृग्दृढपरिचयः पङ्कजदृशः कुतो हेतोस्तन्वी क्षणमपि न निर्याति मनस. ॥ ८६ ॥ आः पात्री स्यामकृतकघनप्रेमविस्फारिताना सत्रीडाना सकलकरणानन्दनाडिधमानान् । तेषा तेषा हृदयनिहिताकूत निष्पन्दिनेत्रव्यापाराणा पुनरपि तथा सुध्रुवो विभ्रमाणाम् ॥ ८७ ॥ तदङ्गमपि नाम तत्सहजकान्तिपूराप्लुत सुवर्णकदलीदलोद्वलितगर्भगौर पुन. । कठोरमदनव्यथापिशुनपाण्डिमाधिष्ठितप्रथीयकुचमण्डल परिरमेय वीक्ष्य वा ॥ ८८ ॥ जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा सस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः । नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रिया भ्रातस्तावदह शठेन विधिना निद्रादरिद्रीकृतः ॥ ८९ ॥ याता किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मन्कृते नो कार्या नितरा कृशासि कथयत्येवं सबाष्पे मयि । लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मा हसितेन भाविमरणोत्साहस्तया सूचितः ॥ ९० ॥ श्वासा एव मृगीदृशो न गणिता. के नाम झञ्झानिलास्तीर्णा बाष्पपरम्परैव सरिता वृन्देषु कः सभ्रम. । सोढा कातरदृष्टिरेव कियती वज्राभिघातव्यथा प्रेमैवायमुपेक्षितो यदि तदा प्राणेषु कोऽनुग्रह ॥ ९१ ॥ सा बाला वयम्प्रगल्भमनस. सा स्त्री वय कातरा. सा पीनोन्नतिमत्पयोधरयुग धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वय दोपैरव्यञ्जनश्चयैरपटवो जाता. स्म इत्यद्भुतम् ॥ ९२ ॥ प्रेमार्द्रा प्रणयस्पृश परिचयादुद्गाढरागोदयास्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्त.करणस्य बाह्यकरणव्यापारारोधी क्षणादागसापरिकल्पितास्त्वपि भवत्यानन्दसान्द्रो लय. ॥ ९३ ॥ धन्या सा गृहदेहली स्पृशति या तत्पादपद्मप्रभा जाता सा सरसी रसाद्विशति सा यस्या विहारेच्छया । वन्द्यः कोऽपि स एव यः खलु तया नेत्रेण सम्भाव्यते धिग्धिग्वैधममेषु मा यदनयन्नैकं कथंचित्कथम् ॥ ९४ ॥ कि मे सद्गुरुसेवनै प्रतिदिन कि व्योमकेशार्चनै. कि स्यादध्ययनेन वा सुरपुरप्राप्त्याथवा कि फलम् । एतस्या. कुचकुम्भनिर्भरपरीरम्भप्रभावोद्भवत्खेदाम्भोभिरनङ्गवह्निविरहुना निर्वापितो नो यदि ॥ ९५ ॥ तन्वी सा यदि गायति श्रुतिकटुर्वीणाध्वनिर्जायते यद्याविष्कुरूते सितानि मलिनैर्बालक्ष्यते चन्द्रिका । आस्ते म्लानमिवोत्पल नवमपि स्याच्चेत्पुरो नेत्रयोस्तस्या. श्रीरवलोक्यते यदि तदिद्धल्ली विवर्णैव सा ॥ ९६ ॥ तानि स्पर्शसुखानि ते च तरलस्निग्धा दृशोर्विभ्रमास्तद्वक्राम्बुजसौरभं स च सुधास्यन्दी गिरा वक्रिमा ! मा बिम्बाधरमाधुरीति विषयासङ्गेऽपि मन्मानस तस्या लग्नसमाधि हन्त विरहव्याधि. कथं वर्तते ॥ ९७ ॥ तस्मिन्पञ्चशरे खरे भगवता भर्गेण भस्मीकृते जानाम्यक्षयसायक कमलमू कामान्तर निर्ममे । यस्यामीभिरितस्ततश्च विशिखैरापुङ्खममात्मनिर्जीते मे विदलत्कदम्बसुकुलस्पष्टोपमानं वपुः ॥ ९८ ॥ ज्योत्स्नी श्यामलिमानमानयत भो. सान्द्रैर्मषीकूर्चकैर्मन्त्रं तन्ममथ प्रयुज्य हरत श्वेतोत्पलाना सितम् । चन्द्र चूर्णयत क्षणाच्च कणश. कृत्वा शिलापट्टेके येन द्रष्टुमह क्षमे दश दिशस्तद्वक्रमुद्राङ्किताः
१ विकसितम् २ शैल्यम् ३ वह्नि
वियोगिनो विप्रलापाः २८१
॥ ९९ ॥ किं तिष्ठामि किमु व्रजामि किमहमं जागर्मि निद्रामि किं किं जानामि किमु भ्रमामि किमु वा सुख्यीम्य- दुःख्यामि वा। किं नास्म्यस्मि किमित्यनल्पकलिते न क्वापि पक्षे स्थित. प्राप्यानिवर्चनीयमेव कमपि क्रूर विकारं सखे ॥ १०० ॥ आसीनः शयितः स्थित. प्रचलितः क्षमायितो जागृतः पश्यन्मीलितलोचनो व्यवहरन्मौनं प्रपन्नोऽथवा । तां प्रेमाकुलवीक्षितां सितमुखीं सब्रीडमन्दागमां श्लिष्यन्तीं प्रणयार्दमुग्धलपितां पश्यामि नक्तंदिवम् ॥ १०१ ॥ नीले- न्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे पाणौ पद्मधिया मधू- ककुसुमभ्रान्त्या तथा गण्डयो । लीयन्ते कबरीषु बान्धव- जनव्यामोहजातस्पृहा दुर्वारा मधुप्रा. कियन्ति तरुण स्थानानि रक्षिष्यसि ॥ १०२ ॥ सा मे यद्यपि सुन्दरी भग- वतो मामेव चेतोसुवो न स्वप्ने न च जागरे नयनयो. पन्थान- मासादिता । तामाकर्ण्य तथापि तादृशदशावैधुर्यमासेदुषी- मानन्दाद्भुतशोककौतुकभयव्रीडाकुलं मे मन ॥ १०३ ॥ मा सञ्चारचमत्कृतिर्नयनयोः स भ्रूलताविभ्रमस्तद्विम्बाधरपाट- लक्षितयुतस्हासस्य सा वैखरी । सेयं चङ्क्रमचातुरी चरणयो- सोऽप्यङ्गहारक्रमो दिष्ट्या तन्मम नेत्रपात्रमखिल जायेत जीवामि च ॥ १०४ ॥ लीनेव प्रतिबिम्बितेव लिखिते- वोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि- श्चिन्तासंततितन्तुजालनिबिड्स्यूतेव लग्ना प्रिया ॥ १०५ ॥ सा विद्याधरकन्यका किमु भुवं पुण्यैः प्रपन्ना नृणा लावण्या- मृतसागराद्विमथिता लक्ष्मीः किमन्योत्थिता । आ ज्ञात घनसारचन्दनसुधाज्योत्स्नाप्रणालादिभि प्रारब्धा हृदयं मम भ्रमयितुं पौष्पेषवी शाम्बरी ॥ १०६ ॥ हृत्वा पद्मनद्युति प्रियतमेवेयं दिनश्रीर्गता रागोऽस्मिन्मम चेतसीव सवितु- र्बिम्बेऽधिकं लक्ष्यते । चक्राह्नोऽहमिव स्थित सहचरी ध्यायन्नलिन्यास्तटे सज्ञाताः सहसा ममैव भुवनस्याप्यन्ध- कारा दिशः ॥ १०७ ॥ नेत्रे खञ्जनगञ्जने नवसुधाधारानु- कारा गिरः पाणि. पद्मसहॊदर. कचरुचि. शैवालजालोपमा । वक्त्रं कार्तिकपौर्णिमापतिसमं हारिद्रहृद्यं वपुस्त्वं यस्मै वलसे विलासिनी हृदा तेनैव तप्त तपः ॥ १०८ ॥ आस्ता दूर- तया तदीयवदनाम्भोजामृतास्वादन नोदेत्येव मनोरथोऽपि हृदये तत्सङ्गमाशा प्रति । उत्कण्ठाशिथिलीकृताङ्गलतिक वीक्षेत मामेकदा सस्नेहं यदि सा सरोजवदना धन्योऽस्म्यहं तावता ॥ १०९ ॥ निद्रे लोचनमुद्रणं विरचय स्वप्नं त्वम- प्याचर प्राणाभिन्नतमा चिरात्प्रियतमा मच्चेतसो गोचरम् । भ्रातर्बोध दृढानुरोध न तथा कुर्या यथा प्रेयसीप्रौढाश्लेष- विघटनेन भवतः क्रीडन्ति दुष्कीर्तयः ॥ ११० ॥ लज्जै- वोद्घटिता किमत्र कुलिशोद्भिन्ना कपाटावली मर्यादैव विल- ङ्घिता मखि पुनः केयं कलिन्दारमजा । आक्षिप्ता खलु दृष्टि- रेव किमिय व्यालावली वा पुन. प्राणा एव समर्पिता. सखि पुनस्तस्मै किमेषा तनुः ॥ १११ ॥ सव्याज तिलकालका- न्विरलयँलोलाङ्गुलि. सस्पृशन्वारवारमुदञ्चयन्कुचयुगप्रमोदद्वि- नीलाञ्चलम् । यद्रूभङ्गतरङ्गिताक्षितवदृशा मावज्ञमालोकित तद्व्रीडावदधीरितोऽस्मि न पुन: कान्ते कृतार्थीकृत ॥ ११२ ॥ काकार्यं शशंलक्ष्मण. क च कुले भूयोऽपि दृश्येत सा दोषाणा प्रशमाय न श्रुतमहो कोपेऽपि कान्तं मुखम् । कि वक्ष्यन्त्यपकल्मषा कृतधिय स्वप्नेऽपि सा दुर्लभा चेत. स्वास्थ्यमुपेहि क खलु युवा धन्योऽधर पास्यति ॥ ११३ ॥ हा धिक् सा किल तामसी शशर्मुखी दृष्टा मया यत्र सा तद्विच्छेददुरुजान्धकारितमिदं दग्ध दिनं कल्पि- तम् । कि कुर्म. कुशले सदैव विधुरो वाता न चेत्तत्कथ तादृग्शामवतीमयो भवति मे नो जायलोकोऽधुना ॥ ११४ ॥ स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गगजस्व- सुर्धूनै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च । इत्य- न्तःपुरसुन्दरी प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्ति- मूढमनसा द्वित्राः स्थितं नाडिकाः ॥ ११५ ॥ सा सौन्दर्य- निधिर्विलासभवनं मीनध्वजस्यापि वा कान्तीनामधिदेवता- धिकरण माधुर्यसारस्स वा । तामूद्धीक्ष्य सखे तदादि गत- वान्भवेन्द्रियाणामहं सार्थ तद्गतमानसेन गलितोत्साह किलानीशताम् ॥ ११६ ॥ तस्या. कि मुखपङ्कजं स्मितरुचा चन्द्रद्युतेनिंन्दक कि वा नेत्रयुग कटाक्षचतुर कि भ्रूलता- विभ्रमम् । कि वा स्निग्धमवेक्षित मयि पुनर्यान्र्त्या सखीना पुर. कि कि सप्रति चिन्तयामि हृदये कामेन लक्ष्यीकृते ॥ ११७ ॥ शीतांशुर्विषसोदर. फणभृता लीलास्पद चन्दन हार. क्षारपयोभव. प्रियसृहत्केहृहं भास्वत. । इत्येषा किमिवास्तु वस्तु मदनज्वालाविघाताय यद्ग्राह्याकारपरि- ग्रहेण तु वयं तत्तत्त्वजो वञ्चिता ॥ ११८ ॥ जाने स्वप्न- विधौ ममाद्य चुलुकोत्सेक्यं पुरस्तादभूत्प्रत्युषे परिवेषमण्डल- मिव ज्योत्स्नास्पल महः । तस्यान्तर्नखनिस्रुषीकृतशर- चन्द्रप्रभैरङ्गकैर्दृष्टा काव्यवला बलात्कृतवती मा मन्मथ मन्मथम् ॥ ११९ ॥ सौमित्रे ननु सेव्यता तरुतलं चण्डा- शुरुज्जृम्भते चण्डाशोर्निशि का कथा रघुपते चन्द्रोऽयमु- न्मीलति । वत्सैतद्विदितं कथं तु भवता धत्ते कुरङ्ग यत- क्कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥ १२० ॥ पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेश लिखन्ती भूयो-
३६ सु र भा.
१ कोमलपल्लवकान्तिना २ सव्याजम्
२८२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
भूयः क्षिपन्ती मयि सितशबले लोचने लोलेतारे १। वक्रं ह्रीनेम्रीभवत् २ स्फुरदधरपुटं वाक्यगर्भं दधाना यन्मा नोवाच किञ्चित्स्थितमपि पुरतो मानसं तद्धुनोति ३ ॥ १२१ ॥ चक्षुःप्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमानेऽभ्युपाये याते रागे विवृद्धिं प्रविसरति गिरा विस्तरे दूतिकायाः । आस्तां दूरे स तावत्सरमसदथितालिङ्गनानन्दलाभस्तद्गेहोपान्तरथ्याभ्रमणमपि परा निर्वृतिं सन्तनोति ॥ १२२ ॥
मदनं प्रत्युक्तयः
स्वयमप्राप्तदुःखो यः स दुनोति न विस्मयः । त्वं स्मर प्राप्तदाहोऽपि दहसीति किमुच्यते ॥ १२३ ॥ भवनेत्रभवो वह्निग्द्यापि त्वयि मन्मथ । ज्वलतीवान्यथा किं ते विशिखास्तत्कणा इव ॥ १२४ ॥ अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वलत्येर्व ४ इवाम्बुराशौ ५ । त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥ १२५ ॥ वृथैव सकल्पशतैरजस्रमनङ्ग नीतोऽसि मयातिवृद्धिम् । आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः ॥ १२६ ॥ क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् । मृदुतीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥ १२७ ॥ अनुममार न मार कथं नु सा रतिरतिक्षथितापि पतिव्रता । अयमनाथवधूबधपातकी दयितयापि तयासि किमुज्झितः ॥ १२८ ॥ भुवनमोहनजेन किमेनसा तव परेत बभूव पिशाचता । यदधुना विरहाधिमलीमसमभिभवन्श्रमसि स्मर मद्विधाम् ॥ १२९ ॥ स्मर नृशंसतमस्त्वमतो विधिः सुमनसं कृतवान्भवदायुधम् । यदि दृढं धनूरायसमाशुगं तव सृजेत्त्रिजगत्प्रलयं व्रजेत् ॥ १३० ॥ विधिरनशमभेद्यमवेक्ष्य ते जनमनः खलु लक्ष्यमकल्पयत् । अपि स वज्रमदास्रत चेत्तदा त्वदिषुभिर्व्यदलिष्यदसावपि ॥ १३१ ॥ अपि विधिः कुसुमानि तवांशुगान्स्मर विधाय स निर्वृतिमाप्तवान् । अदित पञ्च हि ते स नियम्य तांस्तदपि तैरैत जर्जरितं जगत् ॥ १३२ ॥ सह तया स्मर भस्म झटित्यभूः पशुपतिं प्रति यामिषुमाग्रहीः । ध्रुवमभूदधुना वितनोः शरस्तव कटुस्वर एव स पञ्चमः ॥ १३३ ॥ त्वमुचितं नयनार्चिषि शम्भुना भुवनशान्तिकहोमहुविः कृतः । तव वयस्यमपास्य मधुं मँधु ६ हतवता हरिणा बत किं कृतम् ॥ १३४ ॥ बाणाग्निभस्तकरुणो विकिरन्ममाङ्गे प्रायो न वेत्सि विषमास्त्रवर खपीडाम् । संताप एव भवता किमु नान्बभावि चण्डीपतेरलिकलोचनगोचरेण ॥ १३५ ॥ तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं ७ दृश्यते मद्विधेषु । विसृजति हिमगर्भरश्मिभिन्दुर्मयूखैस्त्वमपि कुसुमबाणान्वैज्रसारीकरोषि १ ॥ १३६ ॥ हृदि बिसलताहारो नायं भुजंगमनायकः २ कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः । मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ १३७ ॥ पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्च्छितजनाघातेन किं पौरुषम् । तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षानलश्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥ १३८ ॥ रे रे निर्दयं ३ दुर्निवार मदन प्रोत्फुल्लपङ्केरुहं ४ बाणं संवृणु संवृणु ५ त्यज धनुः किं पौरुषं मा प्रति । कान्तासङ्गवियोगदुःखदहनज्वालावलीढं वपुः शूराणां मृतमारणे न हि परो धर्मः प्रयुक्तो बुधैः ॥ १३९ ॥ आपुङ्खाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुरिदं तैरेव सार्थं मम । तत्कंदर्प निरायुधोऽसि भवता जेतुं न शक्तः परो दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ॥ १४० ॥ बाणाः पञ्च मनोभवस्य नियतास्तेषामसख्यो जनः प्रायोऽस्मद्विध एव लक्ष्य इति यल्लोके प्रसिद्धिं गतम् । दृष्टं तत्त्वयि विप्रतीपमधुना ६ यस्मादसख्यैरयं विद्धः कामिजनः शरैरशरणो नीतस्त्वया पञ्चताम् ॥ १४१ ॥ तद्विच्छेदकृशस्य कण्ठलुटितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शरैरतिशितैर्भिन्दन्मनो निर्भरम् । शम्भोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानलज्वालाजालकरालितः पुनरसावास्ता समस्तात्मना ॥ १४२ ॥ बाणान्संहर मुञ्च कार्मुकलतां लक्ष्यं तव त्र्यम्बकः के नामात्र वयं शिरीषकलिकार्कल्पं यदीयं मनः । तत्तारुण्यपरिग्रहात्कुरु दयामस्मिन्विधेये जने स्वामिन्मन्मथ तादृशं पुनरपि स्वमाद्भुतं दर्शय ॥ १४३ ॥
चन्द्रं प्रत्युक्तयः
चण्डीशचूडाभरण चन्द्र लोकतमोपह । विरहिप्राणहरण कदर्धय न मा वृथा ॥ १४४ ॥ तारापते कुमुदिनीमनुकूलकान्ता पादेन पीडयसि कम्पयसि द्विर्जातीन् ७ । विद्वेषमाचरसि किं च वियोगिलोके नैक्तचरस्य ८ भवतः करुणा कुतः स्यात् ॥ १४५ ॥ किं रे विधो मृगदृशा सुखमद्वितीयं राजीव दृप्यसि दृगम्बुजमन्यदेव । झङ्कारमावहसि भङ्गतनुर्न तादृक्कर्मणि धिङ् न पुनरीदृशमीक्षणीयम् ॥ १४६ ॥ अभिलषसि यदिन्दो वक्त्रलक्ष्मीं मृगाक्ष्याः पुनरपि सकृदब्धौ मज्ज संक्षालयोङ्कम् ९ । सुविमलमथ बिम्बं पारिजातस्य गन्धैः सुरभय वद नो चेत्तवं क्व तस्या मुखं क्व ॥ १४७ ॥ सूतिर्दुग्धसमुद्रतो १० भगवतः श्रीकौस्तुभौ
१ लोला चञ्चला तारा कनीनिका ययो २ लज्जया नम्रम्. ३ संतापयति ४ वडवाग्नि ५ समुद्रे ६ दैत्यविशेषम् ७ असत्यम् १ वज्रवत्कठिनान्करोषि २ वासुकि ३ निष्करुण ४ विकसितम् ५ उपसंहर ६ विरुद्धस्वभावम् ७ पक्षिण , पक्षे,-ब्राह्मणान् ८ रात्रिचरस्य, पक्षे,-राक्षसस्य ९ लाञ्छनमित्यर्थ १० उत्पत्ति
वियोगिनो विप्रलापाः, वियोगिन्या विप्रलापाः २८३
सोदरौ सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः। स्पर्धा
ते वदनाम्बुजैर्मृगदृशां . तत्स्थाणुचूडामणे हंहो चन्द्र कथं नु
सिञ्चसि मयि ज्वालामुचो रोचिषः ॥ १४८ ॥
पवनं प्रत्युक्तयः
उन्मीलन्मुकुलकरालकुन्दकोशप्रच्योतद्धनमकरन्दगन्ध-
बन्धो । तामीषत्चलविलोचनां नताङ्गीमालिङ्ग्य पवन मम
स्पृशाङ्गमङ्गम् ॥ १४९ ॥ व्याधूय यद्वसनमम्बुजलोचनाया
वक्षोजयोः कनककुम्भविलासभाजोः । आलिङ्गसि प्रसभ-
मङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह ॥ १५० ॥
मेघं प्रत्युक्तयः
भो मेघ गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे ।
संस्पर्शरोमाञ्चितजातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥१५१॥
भ्रमय जलदानम्भोगर्भान्प्रमोहय चातकान्कलय शिखिनः
केकोत्कण्ठान्कठोरय केतकान् । विरहिणि जने मूर्च्छां लब्ध्वा
विनोदयति व्यथामकरुण पुनः संज्ञाव्याधिं विधाय किमीहसे
॥ १५२ ॥ मलयमरुतां वाता याता विकासितमल्लिका
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटयितुं
निःस्नेहं तं य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स
एव धनंजयः ॥ १५३ ॥
अशोकं प्रत्युक्तिः
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वा-
मायान्ति शिलीमुखाः खरधनुर्मुक्तास्तथा मामपि । कान्तापाद-
तलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वे तुल्यमशोक
केवलमहं धात्रा सशोकः कृतः ॥ १५४॥ रक्ताशोक कृशोदरी
क्व नु गता त्यक्तानुरक्तं जनं नो दृष्टेति मृषैव चालयसि किं
वातावधूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छद-
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥ १५५ ॥
तमालं प्रत्युक्तिः
धन्यस्त्वमसि तमाल स्पृष्टस्तन्व्या लतावदनया यत् ।
अद्य स्थावरजन्मा जातस्त्वं जङ्गमादधिकः ॥ १५६ ॥
मृणालहारं प्रत्युक्तिः
परिच्युतस्तत्कुचकुम्भमध्यात्किं शोषमायासि मृणालहार ।
न सूक्ष्मतन्तोरपि तावकस्य तत्रावकाशो भवतः किमु स्यात्
॥ १५७ ॥
मधुकरं प्रत्युक्तयः
वदनमिदं न सरोजं नयने नेन्दीवरे ह्येते । इह सविधे
मुग्धदृशो मधुकर न सुधा परिभ्राम्य ॥ १५८ ॥ भ्रात-
र्द्विरेफ भवता भ्रमता समन्तात्प्राणाधिका प्रियतमा मम
वीक्षिता किम् । ब्रूषे किमोमिति सखे कथयाशु तन्मे किं
किं व्यवस्यति कुतोऽस्ति च कीदृशीयम् ॥ १५९ ॥
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव
स्वनसि मृदु कर्णान्तिकचरः । करौ व्याधुन्वत्याः पिबसि
रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु
कृती ॥ १६० ॥ उन्मीलयन्नयनान्तकान्तिलहरीनिपीतयोः
केवलादामोदादवधारणीयवपुषोः कान्तासखे न क्षणम् ।
यत्कर्णोत्पलयोः स्थितेन भवता किंचित्समुद्घूजितं भ्रातस्तिष्ठति
कुत्र तत्कथय मे कान्तं प्रियाया मुखम् ॥ १६१ ॥
हंसं प्रत्युक्तिः
हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता । विभा-
वितैकदेशेन देयं यदभियुज्यते ॥ १६२ ॥
चकोरं प्रत्युक्तिः
चुलुकयसि चन्द्रदीधितिमविरलममंस्थासि नूनमङ्गारान् ।
अधिकरणमुष्णमनयोः किमिह चकोरावधारयसि ॥ १६३ ॥
कृष्णसारं प्रत्युक्तिः
स्नेहं स्वीकुरु कृष्णसार कथय क्वागान्मम प्रेयसी नो
जानासि यदावयोः समजने व्यापारतो मित्रता । स्फीते
यत्किल मण्डले हिमरुचेर्जातं त्वया लाञ्छनं सव्ये भास्कर-
मण्डले तदधुना दत्तः कलङ्को मया ॥ १६४ ॥
सारङ्गं प्रत्युक्तिः
रे सारङ्गा वनवसत्यस्तत्त्वमाख्यात यूयं कुत्राधीतं
त्रिभुवनमनोहारि चाञ्चल्यमक्ष्णोः । आं जानीमो गमनसमये
हन्त कान्तारसीमन्त्येकाकिन्याः कुवलयदृशो लुण्ठिता
यौवनश्रीः ॥ १६५ ॥
मयूरविषयकोक्तिः
मृदुपवनविभिन्नो मत्प्रियाया विनाशाद्धनरुचिरकलापो
निःसपत्नोऽद्य जातः । रतिविगलितबन्धे केशपाशे सुकेश्याः
सति कुसुममनाथे किं हरेदेष बर्हः ॥ १६६ ॥
मुक्ताकलापं प्रत्युक्तिः
सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप लुठसि
स्तनयोः प्रियायाः । बाणैः खरस्य शतशो विनिकृत्तमर्मा
स्वप्नेऽपि तां कथमहं न विलोकयामि ॥ १६७ ॥
वियोगिन्या विप्रलापाः
हारो नारोपितः कण्ठे मया ^१विश्लेषभीरुणा । इदानी-
मन्तरे जाताः पर्वताः सरितो द्रुमाः ॥ १ ॥ बिभेमि सखि
संवीक्ष्य भ्रमरीभृतकीटकम् । यद्य्वानादागते पुंस्त्वे तेन
सार्थं रतिः कथम् ॥ २ ॥ याः पश्यन्ति प्रियं स्वप्ने
धन्यास्ताः सखि योषितः । अस्माकं तु गते कान्ते गता निद्रापि
वैरिणी ॥ ३ ॥ यदीयबलमालोक्य गतः प्रेयानवियुज्यते ।
^१ रक्तवर्णः; पक्षे,-अनुरक्तः. ^२ भ्रमराः; पक्षे,-बाणाः. ^३ कान्तापादघातः 'पादाहतः प्रमदया विकसत्यशोकः'
^१ सीतावियोगदूयमानमानसस्य सूर्यवंशमुक्तामणेः श्रीरामस्योक्तिरियम्. ^२ वियोगः.
२८४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
| वाम-भागः | दक्षिण-भागः |
|---|---|
| आलोकये कथं सख्यस्तस्य चन्द्रमसो मुखम् ॥ ४ ॥<br>विर॑मत विरमत सख्यो नलिनीदलतालवृन्तपवनेन । हृदयगतोऽयं वह्निर्नटिति कदाचिज्ज्वलत्येव ॥ ५ ॥<br>अनलस्तम्भनविद्या सुभग भवाञ्च्छितमेव जानाति । मन्मथशराग्नितप्ते हृदि मे कथमन्वथा वससि ॥ ६ ॥<br>अजनि प्रतिदिनमेषा कर्दमशेषा मदङ्गसङ्गेन । प्रतिनिशमपूरि पम्पा दक्षिणसपातिभि. सलिलैः ॥ ७ ॥<br>मदकलकृतान्तकासरखुरपुटनिधू॑तधूलिसकाशम् । केतकरजो निवार्य सखि यदि कार्ये मम प्राणैः ॥ ८ ॥<br>आलि बालिशतया बलिरस्मै दीयता बलिभुजे न कदापि । केवलं हि कलकण्ठशिशूनामेष एव कुशलेषु निदानम् ॥ ९ ॥<br>गरलद्रुमकन्दमिन्दुबिम्बं करुणावारिजवारणो वसन्त. । रजनी खरभूपतेः कृपाणी करणीयं किमत. परं विधातः ॥ १० ॥<br>हन्तालि संतापन्निवृत्तयेऽस्या किं तालवृन्तं तरलीकरोषि । उत्ताप एषोऽन्तरदाहहेतुर्नतन्वो नँ व्यजनापनोद्य ॥ ११ ॥<br>वरमसौ दिवसो न पुनर्निंशा ननु निशैव वर न पुनर्दिनम् । उभयमेतदुपैत्वथवा क्षयं प्रियजनेन न यत्र समागमः ॥ १२ ॥<br>अहमिह स्थितवत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः । न तनुसगम एव सुसगमो हृदयसगम एव सुसगम. ॥१३॥<br>बकुलमालिकयापि मया न ता तनुरभूषि तदन्तरभीरुणा । तद्धुना विधिना कृतमावयोरिगिरिदरीनगरीशतमन्तरम् ॥ १४ ॥<br>दहनजा न पृथुर्दवधुर्व्यथा विरहजैव यथा यदि नेदृशम् । दहनमाशु विशन्ति कथं स्त्रियः प्रियमपामुसुपासितुमुद्दुरा. ॥ १५ ॥<br>कति न सन्ति जना जगतीतले तदपि तद्विरहाकुलितं मनः । कति न सन्ति निशाकरतारका. कमलिनी मलिनी रविणा विना ॥ १६ ॥<br>अरतिरियमुपैति नापि निद्रा गणयति तस्य गुणानन्मनो न दोषान् । विगलति रजनी न सगमाशा व्रजति तनुस्तनुता न चानुरागः ॥ १७॥<br>प्रियसखि न तथा पटीरपङ्को न च नलिनीदलमारुतोऽपि शीतः । शमयति मम देहदाहमन्तः सपदि कथा हि यथा नरेन्द्रसूनोः ॥ १८ ॥<br>एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति गतागतानि । एते च तीरतरव प्रथयन्ति तापमालम्बितोज्झिततरुग्लपितैः प्रवालै. ॥ १९ ॥<br>अन्तर्गता मदनवह्निशिखावली या सा बाधते किमपि चन्दनचर्चितेन । य. कुम्भकारभवनोपरि पङ्कलेपस्तापाय केवलमसौ न च तापशान्त्यै ॥ २० ॥<br>बत सखि कियदेतप्स्य वैरं खरस्य प्रियविरहकृशेऽस्मिन्रागिलोके तथा हि । उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोद्दैङ्कितं काल- | कूटम् ॥ २१ ॥<br>कलयति मम चेतस्तल्पमङ्गारकल्पं ज्वलयति मम गात्रं चन्दन चन्द्रकश्च । तिरयति मम नेत्रे मोहजन्मान्धकारो विकृतबहुविकार मन्मथो मा दुनोति ॥ २२ ॥<br>रिपुरिव सखीसवासोऽय शिखीव हिमानिलो विषमिव सुधारश्मियस्मिन्दुुनोति मनोगते । हृदयमदये तस्मिन्नेदं पुनर्वलते बलात्कुवलयदृशा वाम कामो निकामनिरङ्कुश ॥ २३ ॥<br>ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवाय जनो न च जीवितम् ॥ २४॥<br>इदानीं तीव्रामिर्दहन इव भाभि. परिवृतो ममाश्रर्यं सूर्य किमु सखि रजन्यामुदयति । अथ सुग्धं चन्द्रः किमिति मयि तापं प्रकटयत्यनाथाना बाले किमिव विपरीतं न भवति ॥ २५ ॥<br>पिकाली वाचालीभवति बहुधाऽलीकवचने मृणाली व्यालीव व्यथयतितरामङ्गमनिश्म् । विषज्वालाजालं सखि किरति पीयूषकिरणो जगत्प्राणः प्राणानपहरति केय परिणति ॥ २६ ॥<br>मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूम ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्ग ज्वर इव गरीयानित इतो न मा त्रातुं तात. प्रभवति न चाम्बा न भवती ॥ २७ ॥<br>आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शंभोर्निटिलमहसा बद्धमैत्रीनिरूढ. । प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राँसमेतत् ॥ २८ ॥<br>भस्मीभूत कुसुमविशिख. शंभुनेत्राग्निभाभूज्ज्वालादायी तदनु मनसि प्रासजन्मा बभूव । भूयस्तस्मिन्विरहदहनैर्दाहितोऽसौ मयैवं कुत्रोत्पन्नो व्यथयति पुनर्मामहो तन्न वेद्मि ॥ २९ ॥<br>पञ्चत्व तनुरेति भूतानवहः स्वैरैर्मिलन्तु ध्रुव धातार प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् । तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गनव्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः ॥ ३० ॥<br>यास्यामीति समुद्यतस्य गदित विश्रब्धमाकणितं गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि । तच्छून्ये पुनरागतास्मि भवने प्राणास्त एते दृढाः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादह रोदिमि ॥३१॥<br>यात्रामङ्गलसविधानरचनाव्यग्रे सखीना जने बाष्पाम्भ.पिहितेक्षणे गुरुजने तद्वत्सुहृन्मण्डले । प्राणेशस्य महीक्षर्णापिर्तदृश. कृच्छ्रादपि क्रामतः किं व्रीडाहतया मया भुजलतापाशो न कण्ठेऽर्पित ॥ ३२ ॥<br>दाक्षिण्यं मलयाानलस्य विदित शैल्यं सुधादीधितेर्वाचामेव न गोचरे मलयजस्यापि स्फुटं सौष्ठवम् । विश्लेषे तव केन मे परिचिताः |
पादटिप्पणी (Footnotes)
वाम-भागस्य:
१ विरामं कुरुत
२ एतन्नामक सर इयमपि रामोक्ति
३ नव्यो नवीनो जनस्तरुण , पक्षे,-व्यजनं तालवृन्तम्
४ दत्तम्
दक्षिण-भागस्य:
१ ललाटनेत्राग्निना
२ प्रसिद्ध
३ ग्रहणकाले सपत्कातिशयादन्तरङ्गता प्रापित इत्यर्थ
४ न्यायप्राप्तमित्यर्थ .
वियोगिन्या विप्रलापाः, नायिकां प्रति सखीवचनम् | २८५
प्राणेश तत्तत्कथाविष्कारे पुनरप्रमाणयति मामव्याहतेयं तनुः ॥ ३३ ॥ दुर्वार्यः खरमार्गणाः प्रियमतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणा कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्काल कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरह सोढव्य इत्थ मया ॥ ३४ ॥ शंवत्त्वग्विबोधवत्कुसुमवत्पीयूषवन्मित्रवद्ध्यानासन् भजति प्रिये मृगदृशोऽथ प्रस्थिते तत्क्षणात् । गेह तन्मुकुर तदेव वलयं तच्चन्दनं सा निशा कारावत्करवालवत्ककचवत्काकोलवत्कालवत् ॥ ३५ ॥ रोलम्बो मधुपः पिकस्तु परभृद्रन्धानुसारी मरुद्भूमा केवलञ्चपातनिरताश्चन्द्रोऽपि दोषाकर । चेतो नैति शुकस्त्विहैकरतितास्त्यायौ पयोदो जडः क वाहं प्रहिणोमि हन्त कठिनस्वान्ताय कान्ताय मे ॥ ३६ ॥ आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रह प्रार्थये । व्याधः कोकिलबन्धने हिमकरध्वंसे च राहुग्रहः कंदर्पे हरनेत्रदीधितिरह प्राणेश्वरे मन्मथ ॥ ३७ ॥ रात्रिर्मे दिवसाायते हिमदुरुचिश्चण्डांशुलायते तारापङ्क्तिरपि प्रदीप्तवडवावह्निस्फुलिङ्गायते । धीरो दक्षिणमारुतोऽपि दहनज्वालावलीदायते हा हा चन्दनबिन्दुरद्य जलवत्सञ्चारिरङ्गायते ॥ ३८ ॥ गुञ्जन्ति प्रतिगुञ्जमम्बुजदलद्रोणीषु भृङ्गाङ्गनाः फुल्लपुष्परसालवीथिशिखरे कूजन्ति माध्वयिकाः । काम काममयं करोति विशिखैर्हन्तु सुहृद्दुर्दिनं का सा तन्मल्यानिलस सखि मे भीतिस्तयोद्भाव्यते ॥ ३९ ॥ रोलम्बाः परिपूरयन्तु हरितो झङ्कारकोलाहलैर्मन्द मन्दमुपैतु चन्दनवनीजातो नभस्वानपि । माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी ॥ ४० ॥ वार्यन्ता मन्दमन्दं मधुकरनिकरप्रौढझङ्कारधारा क्षिप्यन्ता यत्र कुत्र प्रतिदिशमधुना भूरिभाराश्च हाराः । दह्यन्ता सर्व एते कमलदल्युताः किं च हा पुष्पभारस्तारा द्वाराद्यधारा विकिरति हृदये मन्मथोऽयं हताशः ॥ ४१ ॥ श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्ताद्दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । तस्मिन्नागल्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे भग्ना मानस चिन्ता भवति मम पुनर्वज्रमय्याः कदा नु ॥ ४२ ॥
मदनं प्रत्युक्तयः
हृदयमाश्रयसे यदि मामकं ज्वलयसीत्थमसङ्ग तदेति कम् । स्वयमपि क्षणदग्धनिजेन्धनः क्व भवितासि हताश हुताशवत् ॥ ४३ ॥ जटा नेयं वेणीकृतकचकलापो न गैरलं गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम् । इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर किं मा व्यथयसि ॥ ४४ ॥ पञ्चत्वं यान्तु बाणाः समयपरिणतस्ते विदीर्णोऽस्तु चाप क्रूरः क्रूराहियन्त्रं विशतु तव रथो मा भव त्व शरीरी । किं ते शापेन मादृग्युवतिवधमहापातकन्मीनकेतो शय्यः पाथोजयोनिः स खलु रचितवान्पापिनो दीर्घमायुः ॥ ४५ ॥
चन्द्रं प्रत्युक्तयः
संतापय चिर चन्द्र न तत्र प्रतिषिध्यसे । निवारय करस्पर्शं गमस्राहु परिग्रह ॥ ४६ ॥ मुग्धस्य ते वद विधुंतुद किं वदामि किं त्यक्तवानसि मुखे पतित शशाङ्कम् । अस्यार्द्रविम्बगलितेन सुधारसेन सधानमेति तव किं न जरत्कबन्धः ॥ ४७ ॥ प्रियविरहमहोष्माधर्मरामङ्गलखामपि हतक हिमांशो मा स्पृश क्रीडयापि । इह हि तव लुठन्तः श्लोषपीडा भजन्ते दरजरठमृणालीकाण्डमुग्धा मयूखाः ॥४८॥
रोहिणी प्रत्युक्तिः
भो रोहिणि त्वमसि रात्रिचरस्य भार्याऽथैनं निवारय पति सखि दुर्निवारम् । जालान्तरेण मम सद्मनि सनिविष्टः श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ ४९ ॥
नायिकां प्रति सखीवचनम्
वियोगवहिकुण्डेऽस्मिन्हृदये ते वियोगिनि । प्रियसङ्गसुखायैव मुक्ताहारस्तपस्यति ॥ १ ॥ पाण्डु क्षाम वदनं हृदयं सरस तवालस च वपुः । आवेदयति नितान्त क्षेत्रियरोगं सखि हृदन्त ॥ २ ॥ सखि पतिविरहहुताश किमिति प्रशम न याति नैनोदैः । शृणु कारण नितम्बिनि मुञ्चसि नयनोदक तु सस्नेहम् ॥ ३ ॥ सहसा हृदये निधाय चेतो नयनादिन्द्रियमुद्रणा विधाय । अयि कण्टकिताङ्गयष्टि सत्य कथय ध्यायसि कि रहो निष्षणा ॥ ४ ॥ सहचरि शपथाः शतं मदीया वद विरहगलपिताः निजामवस्थाम् । सहचरि परिपृच्छ भानुकन्यानवदलिनीनलिनीनिकुञ्जशय्या ॥ ५ ॥ नलिनीदलतालवीजन सखि तन्व्या विनिवारित मया । तनुवलिविभूतिशङ्कया विनिवार्य श्वसितानिलः कथम् ॥ ६ ॥ अयं विपाको वद कस्य यूनां कल्याणि कल्याणपरम्पराणाम् । यदक्षिकोग्नस्रवदच्छधाराहारावतारो गुणमन्तरेण ॥ ७ ॥ वासस्तदेव वपुषो वलयं तदेव हस्तस्य मैव जघनस्य च रत्नकाञ्ची । वाचालभृङ्गसुभगे सुरभौ समस्तमथ्याधिक भवति ते सखि कि निदा-
१ मधप २ विषम्
१ भस २ पाण्डुरता ३ शिवभ्रान्त्या ४ मुक्तस्त्यक्त आहारो येन, पक्षे,-मुक्ताना मौक्तिकाना हार ५ पत्युर्विरहो वियोग एव हुताशोऽग्नि ६ नेत्रोदकै अश्रुभिरिति यावत्