सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
२४६ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
सुवर्णम्
अग्निदाहे न मे दुःखं छेदे न निकषे न वा । यत्तदेव
महद्दुःखं गुञ्जया सह तोलनम् ॥ १८ ॥
नैवै ताडनात्तापनाद्वह्निमध्ये न वै विक्रयात्क्लिश्यमानोऽहमस्मि । सुवर्णस्य मे
मुख्यदुःखं तदेकं यतो मा जना गुञ्जया तोलयन्ति ॥ १९ ॥
मौक्तिकम्
अत्यच्छेनाविशुद्धेन सुवृत्तेनातिचारुणा । अन्तर्भिन्नेन
सप्तारं मौक्तिकेनेव निवन्धनम् ॥ २० ॥
हृदये कुरु सञ्चयं गुणानां यदि रे वाञ्छसि नासिके निवासम् । इति मौक्तिक ते वदामि
नूनं गुणहीनो नहि नासिके विभाति ॥ २१ ॥
रत्नाकर परित्यक्ता वसति किमन्यदङ्गीकृतं कठिनवेध्नदुःखम् । वक्षोजकुम्भ-
परिरम्भणलोलुपैन किं किं न तेन विहितं बत मौक्तिकेने ॥ २२ ॥
सुवर्णकारः
हे हेमकार परदुःखविचारमूढ किं मां मुहुः क्षिपसि
वाग्शतानि वह्नौ । मद्दीष्यते मयि सुवर्णगुणातिरेको लाभः
परं तव मुखे खलु भस्मपातः ॥ २३ ॥
हारः
मुक्ताङ्गारं गुणीभूय नोपसर्प समेखला । निर्भवे यस्य
काठिन्यं व्यर्थं तदुपमर्पणम् ॥ २४ ॥
गुणवतस्तव हार न युज्यते परकलत्रकुचेषु विलुष्ठनम् । स्पृशति शीतकरो
जघनस्थलीमुचितमस्ति तदैव कलङ्किनः ॥ २५ ॥
सद्वृत्तसद्गुणविचित्तमहार्हकान्ते कान्ताघनस्तनतटाञ्चितचारुमूर्ते ।
आ पामरीकठिनकण्ठविलम्नभङ्गो हा हार हारितमहो भवता
गुणित्वम् ॥ २६ ॥
दीर्णोऽसि चेत्कनकसूत्रनिवेशन्याय मुक्ताकलाप किमतो भवतो विषादः । यत्पद्मवाणजयमङ्गलहेमकुम्भ-
कुम्भस्तनीस्तनतटे भवितानुरूपः ॥ २७ ॥
अन्येऽपि सन्ति कति नो गुणिनो जगत्त्या हार त्वमेव गुणिनामुपरि स्थितोऽसि ।
एणीदृशामुरसि नित्यमवस्थितस्य मद्वृत्तता च शुचिता च न
खण्डिता यत् ॥ २८ ॥
येनाकारि महीभृतामविरलं कण्ठेषु लीलायितं येन प्रापि सरोजसुन्दरदृशां तुङ्गस्तनालिङ्गनम् ।
जात येन गजेन्द्रगण्डपुलिने माथारण गुञ्जया मुक्तादाम
तदेव पामरपुरे नावाप का वा दशाम् ॥ २९ ॥
कञ्चुकः
श्रीमत्ता कथय कञ्चुक पूर्वं कानि कानि सुकृतानि
कृतानि । जन्म यापयसि येन समस्तं हारगुह्यहृदये
हरिणाक्ष्या ॥ ३० ॥
कुण्डलम्
यत्पूर्व पवनाग्निशुष्कमलिश्रेणी तपो दुष्करं तस्यैतत्फल-
मीदृशं परिणतं यज्जातरूपं वपुः । मुग्धापाण्डुकपोलचुम्बनसुखं
सङ्गश्च रत्नोत्तमैः प्राप्तः कुण्डल वाञ्छसे किमपरं यन्मूढ
दोलायसे ॥ ३१ ॥
नासाभूषणम्
हारस्यातिदुर्गपमस्ति भुवने हे नासिकाभूषण त्व-
त्तो भाग्यमिति प्रतीहि वनितावक्रेन्दु कान्तिप्रद । यत्कान्तातनु-
सङ्गमाय सहते मोऽन्तर्विभेदव्यथा सा नासा पुटभेदनादपि
भवन्मज्ञं यतो वाञ्छति ॥ ३२ ॥
वलयः
गुणानामज्ञानादनुभवतु तावत्प्रतिपदं मुहुर्बाहुच्छेद-
व्यतिकरमसो स्वर्णवलयः । अपि ज्ञाते तत्त्वे तव गुणसमुद्रस्य
पुरतः समं गुञ्जापुञ्जैस्तुलनमभिलज्जाकरमिदम् ॥ ३३ ॥
रङ्गः
हे रङ्ग हेमतुलया तुलितोऽसि नित्यं मानं जहीहि किमु
पश्यसि नो विशेषम् । स्वर्णे सरत्नघटितं नृपशेखरेषु त्वं
पापं पामरवधूचरणेषु लीनः ॥ ३४ ॥
वीणादण्डः
यदेतत्कामिन्या सुरतविरतौ पल्लवरुचा करेणानीतस्त्वं
वमसि मह हारेण गुणिना । मुहुः कुर्वन्गीतं कुचकलश-
पीठोपरि लुठन्नये वीणादण्ड प्रकटय फलं कस्य तपसः ॥ ३५ ॥
मुरली
माववस्य सुरली सुखलया रागमावहत्तु किंतु वयसे ।
वशजाहमिति मास्तु सगर्वा या बिभर्षि बहुशो विवराणि ॥ ३६ ॥
परिपीड्य करद्वयेन गाढं परपुंसा परिचुम्बिताननापि । मुरली
महनीयवंशजाता मुहुराक्रन्दममन्दमातनोति ॥ ३७ ॥
कुविन्दः
भ्रात्राम्म्यकुविन्द कन्दलयता वस्त्रान्यमूनि त्वया गोणी-
विभ्रमभाजनानि सुबहुन्यात्मा किमायास्यते । किं त्वेकं
रुचिरं चिरादभिनवं वासस्तदासून्यता यन्नोज्झन्ति
कुचस्थत्राक्षणमपि क्षोणीभुजा वल्लभाः ॥ ३८ ॥
लाङ्गलिकः
रे लाङ्गलिक निष्द्याक्रोडे लोहं पुरा यदद्राक्षीः ।
स्वर्गस्पर्शविशेषात्तदखिलमजनिष्ट हेम नृपयोग्यम् ॥ ३९ ॥
कर्णधारः
दुर्गा नदी शिथिलबन्धविडम्बिनी नौरभ्युन्नता जलमुचो
विषमः समीरः । आरूढवान्निजकुटुम्बयुतोऽध्वनीनस्तत्कर्ण-
धार कुरु यत्सदृशं कुलस्य ॥ ४० ॥
जीर्णा तरिः सरिदेषा च गभीरनीरा नक्राकुला वहति वायुरतिप्रचण्डः । तार्याः स्त्रियश्च
शिशवश्च तथैव वृद्धास्तत्कर्णधारभुजयोर्बलमाश्रयामः ॥ ४१ ॥
तैलिकः
अमी तिलास्तैलिक नूनमेता स्नेहादवस्थां भवतो-
पनीताः । द्वेष्योऽभविष्यद्यदमीषु नूनं तदा न जाने
किमिवाकरिष्यः ॥ ४२ ॥
पञ्जरलावकः
भ्रातः पञ्जरलावक मा कुरु संतोपमन्यनिधनेन ।
प्रातस्तवेव धातुः स्वामित्वं किं न जानासि ॥ ४३ ॥
व्याधः
एको विश्वसता हैराम्यपघृणः प्राणानह प्राणिनामित्येवं
परिचिन्त्य मा स्वमनसि व्याधानुतापं कृथाः ।
पादटिप्पण्यः :
१ सूत्रवन्, पक्षे,-गुणयुक्तस्य
२ चन्द्र
३ कलङ्कयुक्तस्य
४ सोवर्णं च
१ गुणयुक्तेन
२ स्पर्शो मणिविशेष
३ निष्करुण
संकीर्णान्योक्तयः २४७
भूपाना भवनेषु किंच विमलक्षेत्रेषु गूढागया साधूनामभयो
वसन्ति कति नो त्वत्तुल्यकक्षा खलाः ॥ ४४ ॥
सर्वोद्वेगकर मृगादनममु सत्यज्य हा धिक्त्वया लोकस्या-
नपकारिणं गिरिनदीतीराटवीनिर्घृतम् । अश्रान्तं तृणमेण-
शावमदयं व्याध श्तामुं वृथा देवो दुर्बलघातकोऽयमिति
सा गाथा यथार्थीकृता ॥ ४५ ॥
विषमन्त्री
भेकेने॑ कणता सरोपपरुषं यत्कृष्णसर्पानने दातु
कर्णचपेटमुज्झितभिया हस्त समुल्लासित । यच्चाधोमुख-
मक्षिणी विदधता नागेन तूष्णी स्थित तत्मर्व विषमन्त्रिणो
भगवत कस्यापि लीलायितम् ॥ ४६ ॥
मालाकार.
तोयैरल्पैरपि करुणया भीमभानौ निदाघे मालाकार
व्यरचि भवता या तरोरस्य पुष्टि । सा कि शक्या
जनयितुमिह प्रावृषेण्येन वाग धारासारानपि विकिरता
विश्वतो वारिदेन ॥ ४७ ॥
कायस्थः
विप्रेभ्य. साधुदानं रिपुजनसुहृदा चोपकारानुकुरु त्व
मौजज्यं बन्धुवर्गे निजहितमुचितं स्वामिकार्यं यथार्थम् ।
श्रोत्रे ते तथ्यमेतत्कथयति मततं लेखनी भाग्यशालिन्रो
चेन्नष्टेऽधिकारे मम मुखसदृश तावकास्य भवेद्धि ॥ ४८ ॥
कवि.
कस्त्वं भो. कविरस्मि तत्किमु सखे क्षीणोऽस्यनाहागतो
धिग्देश गुणिनोऽपि दुर्मतिरिय देश न मामेव विक् ।
पाकार्थी क्षुधितो यदैव विदधे पाकाय बुद्धि तदा विन्ध्ये
नेन्धनमम्बुधौ न सलिलं नान्त्र धरित्रीतले ॥ ४९ ॥
वालाः
ये शिरसा निहिता अपि न भवन्ति सखे समान-
सुखदु.खाः । चिकुरा इव ते बाला एव जरापाण्डु-
भावेऽपि ॥ ५० ॥
शैलूष
वंश प्राशुरसौ घुणव्रणमयो जीर्णा वर्ग्त्रा इमा कीला
कुण्ठतया विशन्ति न महीमाहन्यमाना अपि । आगेह-
व्यवसायसाहसमिद शैलूष सत्यज्यता दूरं श्रीनिकटे
कृतान्तमहिषग्रैवेयघण्टारव ॥ ५१ ॥
कुशीलवाः
मौलि स्वर्णकिरीटकान्तिरुचिर केयूरमव्यौ भुजा
त्वद्गत्याः किल कञ्चकिप्रभृतयो देवेति विज्ञाप्यसे । इत्थ
कल्पनया कुशीलव नृपाहकारदार्था वृथा नृत्यान्ते भवतो
भविष्यति मसीमात्रावशेषं वपु ॥ ५२ ॥
वाला
स्रग्दाम मूर्धनि निवेहि गवेधुकाना गुञ्जामयीमुग्सि
धारय हारयष्टिम् । बाले कलावति चिर पतितासि पल्लो
तल्लौहमन्यदपि भूषणमेषणीयम् ॥ ५३ ॥
पल्लीपतिपुत्री
एतन्मन्दविपक्वतिन्दुकफलश्यामोदरापाण्डुरप्रान्तं हन्त
पुलिन्दसुन्दरकरस्पर्शक्षमं लक्ष्यते । नात्पल्लीपतिपुत्रि कुञ्जर-
कुरु कुम्भाभयाभ्यर्थनादीनं त्वामनुनाथते कुचयुग पत्रावृत
मा कृथा ॥ ५४ ॥
पान्थ
न यत्र गुणवत्पात्रमेकमप्यास्ति मन्त्रिणो । कस्तत्र भवतः
पान्थ कृपाम्बुग्रहणाग्रह ॥ ५५ ॥ वापी कापि कदापि न
श्रुतचरी को वेद कीदृक्सरो व्योमाम्भोजवनीत्र चात्र तटिनी
केर्नाम विज्ञायते । अहो पान्थ दुगन्तमाहमभग्नेऽत्रागत चेन्मन्गे
मण्डूकाकुलपङ्कसङ्करजलाद्वैन्वो. केवन्व पित्र ॥ ५६ ॥
कस्तूरिका
अयि त्यक्तामि कस्तूरि पामगै पङ्कगङ्कया । अल
खेदेन भूपाला कि न मन्ति महींतले ॥ ५७ ॥ यद्यपि
देवालब्ध्वा कस्तूरीभूमिग्य भूरितग्म् । नेया किममौं तदपि
हि शौचौथ जानता पुमा ॥ ५८ ॥ दुर्ललपल्लीपतिपुत्रहस्ते
कस्तूरि कस्त वढ दुर्विपाक । आग्म्य सोरम्यकथामु
मौन मालिन्यमात्र वचमोऽवकाश ॥ ५९ ॥ अयि चत
गुरुगर्व मा स्म कस्तूरि यासीरभिलपरिमलाना मालिना
मौरभेण । गिरिगहनगुहाया लीनमत्यन्तदीनं म्वजनक-
ममुनैव प्राणहीनं करोषि ॥ ६० ॥ जन्मस्थान न खलु
विमल वर्णनीयो न वर्णो दूरे पुमा वपुषि रचना पङ्कशङ्का
करोति । यद्यप्येव सकलगुम्रिद्रव्यगर्वापहारी को जानीते
परिमलगुण कोऽपि कस्तूरिकायाः ॥ ६१ ॥
दीप
रक्ष पात्रगतं स्नेहं प्रदीप प्रविर्वधनम् । प्रयास्यन्ति
विना तेन भमान्त यद्भवदृणा ॥ ६२ ॥ बहिरतिनिर्मलरूप
वहन्तन् दीप ढवना जगति । अवगतमचिगदान्तरमाज्ज्वल्य
कज्जलोद्गार ॥ ६३ ॥ न मणेरिनोऽधिक्या भा ना मृदुता
न प्रकाशममता वा । अचिरम्विनिर्गिति दीपो न हि
बहुमूल्योऽभवत्वाय ॥ ६४ ॥ या कान्ति वहसि पग
प्रदीप मद्र स्वीयायाविति हृदि मा स्म मन्यथास्त्वम्। सस्नेहे
त्वयि निशि भानुनाहितामौ नेव चेदहनि सति क्व वा
गता सा ॥ ६५ ॥ प्रदीप किमु कुप्यसि प्रलयमारुतप्रज्वल-
त्प्रभापटलपाटलप्रकटपावकव्यक्तये । त्वमङ्ग किमु कामिनी-
पादटिप्पण्यः (Footnotes):
(वामभागः)
१ मण्डूकेन २ निर्भयेन ३ काष्ठकीट ४ हस्तिकक्षस्य रज्जु, गजमध्यंवा वा
(दक्षिणभागः)
१ कूपात् २ जलम् ३ हस्तपादादिक्षालनाधम् ४ श्री शोभा
२४८ सुभाषितरत्नभाण्डागारम् [ ५ प्रकरणम्
कुचतटीपटीपल्लवप्रकम्पनपरिस्फुरत्स्वेदनलेशपारं गतः ॥ ६६ ॥
रे रे दीप तिरस्कृताखिलतमःस्तोमारिवर्गस्य ते रात्रौ
गूढनिजाङ्गपातिशलभाघातेन किं पौरुषम् । तत्कर्माचर येन
तावदयशो भूयात्प्रभाते पुनर्न स्नेहो न च सा दशा नहि परं
ज्योतिः परं स्वास्यति ॥ ६७ ॥
तुला
गुरुषु मिलितेषु शिरसा प्रणमसि लघुषून्नता समेषु समा ।
उचितज्ञासि तुले किं तुलयसि गुञ्जाफलैः कनकम् ॥ ६८ ॥
प्राप्य प्रमाणपदवीं को नामास्ते तुलेऽवलेपस्ते । नयसि
गरिष्ठमधस्तात्तदितरमुच्चैस्तरां कुरुषे ॥ ६९ ॥
कुम्भः
दृढतरगलकनिबन्धः कूपनिपातोऽपि कलश ते धन्यः ।
यज्जीवनदानैस्त्वं तृषामर्षं नृणां हरसि ॥ ७० ॥
श्लाघ्यं नीरसंकाष्ठताडनशतं श्लाघ्यं प्रचण्डातपक्लेशं श्लाघ्यतरं
सुपक्वनिचये श्लाघ्योऽतिदाहानलः । यत्कान्ताकुचपार्श्व-
बाहुलतिकाहिन्दोलीलीलासुखं लब्धं कुम्भवर्य त्वया नहि
सुखं दुःखैर्विना लभ्यते ॥ ७१ ॥
कलशः
भ्रातः काञ्चनलेपगोपितबहिस्ताम्राकृते सर्वतो मा भैषीः कलश. स्थिरो भव चिरं देवालयस्योपरि । ताम्रत्वं गतमेव काञ्चनमयी कीर्तिः स्थिरा तेऽधुना नान्तस्तत्त्वविचारण-प्रणयिनो लोका बहिर्बुद्धयः ॥ ७२ ॥
दुग्धम्
को हि तुलामधिरोहति शुचिना दुग्धेन सहजमधुरेण ।
तप्तं विकृतं मथितं तथापि यत्स्नेहमुद्धिरति ॥ ७३ ॥
बडिशदण्डः
यत्सङ्गुणोऽपि सरलोऽपि तटस्थितोऽपि वंशोद्भवोऽपि
विदधासि नृशंसकर्म । वक्रात्मनो बडिशदण्ड तदेव तस्य
जानामि संगतिफलं तव कण्टकस्य ॥ ७४ ॥
शरः
कोटिद्वयस्य लाभेऽपि नतं सदृशजं धनुः । असदृश्यः शर
स्तब्धो लक्षलाभाभिकाङ्क्षया ॥ ७५ ॥
लम्पाकः
प्रागल्भ्यं प्रथयन् यशो विशदयन्घाटीं मुखे योजयन्भूपानां
कलयन्कथा विरचयन्हस्ताङ्गुलीः स्फोटयन् । दानं
पल्लवयन्गुणं द्विगुणयन्नेत्राञ्चलं घूर्णयंर्लम्पाकः सविधं समेत्य
सुदृशा किं नाम नो भाषते ॥ ७६ ॥
खलः
किमहं वदामि खल दिव्यमतं गुणपक्षपातमभितो भवतः ।
गुणशालिनो निखिलसाधुजनान्यदहर्निशं न खलु विस्म-
रसि ॥ ७७ ॥
कण्टकः
सुमुखोऽपि सुवृत्तोऽपि सन्मार्गपतितोऽपि सन् । सतां
वै पादलग्नोऽपि व्यथयत्येव कण्टकः ॥ ७८ ॥
कालकूटम्
नन्वाश्रयस्थितिरियं तव कालकूट केनोत्तरोत्तरविशिष्टै-
र्पदोपदिष्टा । प्रागर्णवस्य हृदये वृषलक्ष्मणोऽथ कण्ठेऽधुना
वससि वाचि पुनः खलानाम् ॥ ७९ ॥
जिह्वा
द्वात्रिंशद्दशनश्रेणिमध्ये भ्रमसि नित्यशः । तदिदं शिक्षितं
केन जिह्वे संचारकौशलम् ॥ ८० ॥
नन्दनवनम्
स्वर्लोकस्य शिखामणिः सुरतरोर्धामस्य धामाद्भुतं पौलोमी-
पुरुहूतयोः परिणतिः पुण्यावलीनामसि । सत्यं नन्दन किन्त्विदं
सहृदयैर्नित्यं विधिः प्रार्थ्यते त्वत्तश्च खाण्डवरङ्गतण्डवनटो
दूरऽस्तु वैश्वानरः ॥ ८१ ॥
वसन्तः
धूमायिता दश दिशो दलितारविन्दा देहं दहन्ति दहना
इव गन्धवाहाः । त्वामन्तरेण मृदुताम्रदलाग्रमञ्जुगुञ्जन्मधुव्रत
मधो किल कोकिलस्य ॥ ८२ ॥
मुसलः
जगति विदितमेतत्काष्ठमेवासि नूनं तदपि च किल सत्यं
कानने वर्धितोऽसि । नवकुवलयनेत्रापाणिसङ्गोत्सवेऽस्मिन्मुसल
किसलयं ते तत्क्षणाद्यन्न जातम् ॥ ८३ ॥
संकीर्णाः
गतास्ते दिवसा यत्र ह्यवज्ञा कल्पशाखिनाम् ।
औदुम्बरफलेभ्योऽपि स्पृहयामोऽद्य जीवितुम् ॥ ८४ ॥
नौका वै भजते तावद्यावत्पारं न गच्छति । उत्तीर्णे तु
नदीपारे नौकायाः किं प्रयोजनम् ॥ ८५ ॥ एका
भूरुभयोरेक्यमुभयोर्दलकाण्डयोः । शालिश्यामाकयोर्भेदं
फलेन परिचीयते ॥ ८६ ॥ कौस्तुभमुरसि मुरारेः शिरसि
शशी द्योतते पुरजयिनः । ननु जन्मना नु जलधे-
र्जन्मतुरियतीं गतिं पश्य ॥ ८७ ॥ साधो कुण्डलघटना-
परिश्रमादलमतिद्विकर्णा पू । वसति दिगम्बरनगरे रजक-
श्चतुराऽपि किं कुरुते ॥ ८८ ॥ शतपदी सति पादशते
क्षमा यदि न गोष्पदमप्यतिवर्तितुम् । किमियता द्विपदस्य
हनुमतो जलनिधेः क्रमणे विवदामहे ॥ ८९ ॥ हे मल्लि
हे मालति हे लवङ्गि न तादृशी कापि भवादृशीनाम् ।
क्षणं समाधाय मधुव्रतं या विस्मारयेदम्बुजिनीवियोगम्
पादटिप्पण्यः :
१ काञ्चनलेपेन गोपिता बाह्या ताम्राकृतिर्यस्य २ लम्पटो धूर्तो वा
१ आश्रयो निवासस्तत्र स्थिति २ उत्कृष्टम् ३ स्थानम् ४ अभ्यन्तरे ५ सदाशिवस्य ६ दन्ता ७ अवमान ८ कल्पवृक्षाणाम्
संकीर्णान्योक्तयः २४९
॥ ९० ॥ यः कुन्तपानिरिह भूप इति प्रसिद्धो भूखण्ड-
मात्रविभवः परसेवकश्च । तस्यात्मज. सततमिच्छति राजशब्दं
क्रीडे जगज्जननि हन्त निराश्रयासि ॥ ९१ ॥ इन्द्रो
यमोऽसि वरुणोऽसि हुताशनोऽसि ब्रह्मा हरो हरिरसीत्य-
सकृद्यदुक्तिः । भूपालमौलिमणिरञ्जितपादपीठ तस्यानृतस्य
फलमिन्धनमुद्वहामि ॥ ९२ ॥ आः सर्वत. स्फुरतु कैरवमा-
पिबन्तु ज्योत्स्नाकरम्भमुदरंभरयश्चकोरा. । यातो यदेष
चरमाचलमूलचुम्बी पङ्केरुहप्रकरजागरणप्रदीप. ॥ ९३ ॥
खरनखरविमुक्ता रक्तरक्ताश्च मुक्ता परिणतबदराणा
विश्रमेणोपगृह्य । सपदि सरसि धौता. प्रत्यभिज्ञाय मुक्ता
इति किरति किराती हन्त कान्तार एव ॥ ९४ ॥ अब्धे-
रम्भ स्थगितभुवनाभोगपातालकुक्षे पोतोपाया इह हि
बहवो लङ्घनेऽपि क्षमन्ते । आहो रिक्त कथमपि भवेदेष
दैवात्तदानी को नाम स्याद्वटकुहरालोकनेऽप्यस्य कल्प.
॥ ९५ ॥ इयत्येतस्मिन्वा निरवधिचमत्कृत्यतिशये वराहो
वा राहुः प्रभवति चमत्कारविषयः । महीमेको मग्ना यद-
यमवहद्दन्तमुसलै. शिर.शेष शत्रुं निगिलति पर सत्यजति
च ॥ ९६ ॥ श्रुत्वा कुम्भसमुद्भवेन मुनिना किचित्तदा-
त्याहितं सिन्धावन्धुकुटुम्बदर्दुरकुल हर्षादिद ध्यायति ।
गाम्भीर्याद्यदि ते न बिभ्यति न वा त्रस्यन्ति भेकी-
शिशोरत्रागत्य सुखं वसन्तु तिमयो जातानुकम्पा वयम्
॥ ९७ ॥ वक्रा नैष तनूविवर्तनगति गृह्णाति साचिस्मित-
^१ कूपनिवासिभेकसमूह
स्मेरैर्गण्डवलैनैरैमुष्य न मनाक्चेतः परावर्तते । हस्ते त्व
मुनिदारकस्य पतिता कल्याणि तन्नीयता वेदीमार्जनबर्हिरर्पण-
वषट्कर्तव्यपाकैर्वय ॥ ९८ ॥ सन्त्यन्येऽपि बृहस्पति-
प्रभृतय. सभाविताः पञ्चषास्तान्प्रत्येष विशेषविक्रमरुची
राहुर्न वैरायते । द्वावेव ग्रसते दिनेश्वरनिशाप्राणेश्वरौ
भासुरौ भ्रात. पर्वनि पश्य दानवपति. शीर्षावशेषीकृत.
॥ ९९ ॥ वीणाप्येकगुणेन राजरमणीनीरन्ध्रपीनस्तनद्वन्द्वे
खेलति शुष्कदारुनिचया नि.सारतुम्बीफला । चञ्चत्या-
र्विंकशर्वरीपरिवृढप्रौढप्रथाभासुर मुक्ताजातमपीह निर्गुण-
तया योग्य न सभाव्यते ॥ १०० ॥ तृष्णालोलविलोचने
कलयति प्राची चकोरीगणे मोनं मुञ्चति कि च कैरवकुले
कामे धनुर्धुन्वति । माने मानवतीजनस्य सपदि प्रस्थातु-
कामेऽधुना धातः कि नु विधौ विधातुमुचितो धाराधरा-
डम्बर. ॥ १०१ ॥ कस्मै हन्त फलाय सज्जनगुणग्रामार्जने
सज्जसि स्वात्मोपस्करणाय चेन्मम वचः पथ्यं समाकर्णय । ये
भावा हृदयं हरन्ति नितग शोभाभरैः सम्भृतास्तैरेवास्य कलेः
कलेवरपुषो दैनदिनं वर्धनम् ॥ १०२ ॥ मर्यादानिलयो
महोदधिरयं रत्नाकरो निश्चितः सर्वाशापरिपूरकोऽनुगमितः
सपत्तिहेतोर्मया । शम्बूकोऽपि न लभ्यते किमपर रत्न महार्घ
पर दोषोऽयं न महोदधेः फलमिद जन्मान्तरीय मम ॥१०३॥
एक. कर्णमहीपति. प्रतिदिनं लक्षाधिका याचकाः कस्मै कि
वितरिष्यतीति मनसा चिन्ता वृथा मा कृथा. । आस्ते किं
प्रतियाचकं सुरतरुः प्रत्यम्बुजं कि रविश्चन्द्र कि प्रतिकैरवं
प्रतिलतागुल्म किमम्भोधरः ॥ १०४ ॥
इति श्रीसुभाषितरत्नभाण्डागारे पञ्चममन्योक्तिप्रकरणं समाप्तम् ।
३२ सु. र. भां
षष्ठं नवरसप्रकरणम्
शृङ्गाररसनिर्देशः
मनसिजप्रशंसा
अनङ्गेनावलासङ्गाज्जिता येन जगत्त्रयी । स चित्रचरित कामः सर्वकामप्रदोऽस्तु व ॥ १ ॥ एक वस्तु द्विधा कर्तु बहवः सन्ति धन्विन । धन्वी स मार एवैको द्वयोरैक्य करोति यः ॥ २ ॥ न कठोर न वा तीक्ष्णमायुधं पुष्प-धन्वनः । तथापि जितमेवासीदमुना भुवनत्रयम् ॥ ३ ॥ स एकस्त्रीणि जयति जगन्ति कुसुमायुधः । हरतापि तनुं यस्य शभुना न हृतं बलम् ॥ ४ ॥ कर्पूर इव दग्धोऽपि शक्तिमान्यो जने जने । नमोऽस्त्ववार्यवीर्याय तस्मै मकर-केतवे ॥ ५ ॥ बाणेष्वारोप्य गुणान्विधाय चापं वियोगि-नीनयने । स्वयमतनुर्जगदेतज्जयति सुमास्त्रो विचित्र-धामुष्कः ॥ ६ ॥ सपदमतरललम्भामनन्यसामान्यवहलदर्प-निधेः । पुष्णातु चित्तयोनेरघटितघटनापटीयसी विमुता ॥ ७ ॥ याभिरनङ्ग साङ्गीकृत. स्त्रियोऽस्त्रीकृताश्च ता येन । वामाचरणप्रवणौ प्रणमत तौ कामिनीकामौ ॥ ८ ॥ जयति मनसिज सुखैकहेतुर्मिथुनकुलस्य वियोगिना कठोरः । वपुषि यदिषुपतवारणार्थं वहति वधू शशिखण्डमण्डनोऽपि ॥ ९ ॥ चेतोभुवश्चापवति प्रसङ्गे का वा कथा मानुष-लोकभाजाम् । हर्तु. पुरामप्यलिकेक्षणस्य तथाविध पौरुष-मर्धमासीत् ॥ १० ॥ शिव शिव हि शिवेन पुष्पधन्वा ²प्रलयनटेन किमित्यै³कारि भस्म । स हि पुनरु⁴दितश्छ⁵लाय लोके स तु मणिमन्त्रमहौषधैरै⁶साध्य. ॥ ११ ॥ शभुस्वर्य-सुहरयो हॅ⁷रिणेक्षणानां येनाक्रियन्त सततं गृहकर्मदासाः । वाचामगोचरचरित्रविचित्रिताय तस्मै नमो भगवते कुसु-मायुधाय ॥ १२ ॥ वक्षःस्थलीवदनवामशरीरभागैः पुष्यन्ति यस्य विमुता पुरुषास्त्रयोऽपि । सोऽयं जगत्रितयजित्वर-चापधारी मारः परान्नप्रहरतीति न विस्मयाय ॥ १३॥ ⁹स्तो-कास्त्रमाधनवता भवता ¹¹मैनोज ¹²स्वैर जगज्जितमनङ्ग-तयापि सर्वम् । स्वाच्छेद्दान्वबहुशरः प्रतिलब्धगात्र. कुर्या-
१ 'शृङ्गारवीरकरुणाद्भुतहास्यभयानका । वीभत्सरौद्रशान्ताश्च नवधा कीर्तिता रसा ।।' २ प्रलयकालिको नर्तक शिव इति यावत् ३ कृत ४ उत्पन्न ५ छल कर्तुम् ६ अचिकित्स्य ७ स्त्रीणाम् ८ गृह-कर्मकरा दासा ९ मदनाय १० अल्पानि ११ मदन १२ स्वेच्छया
स्ततो यदपि कर्म कियन्न जाने ॥ १४ ॥ हारो जलाद्रं वसनं नलिनीदलानि प्रालेयशीकरमुचस्तुहिनांशुभासः । यस्येन्धनानि सरसानि च चन्दनानि निर्वाणमेष्यति कथं स मनोभवाग्नि. ॥ १५ ॥ कुलगुरुर्बलाना केलिदीक्षाप्रदाने परमसुहृदनङ्गो रोहिणीवल्लभस्य । अपि ¹कॅसुमपृष्टकैर्देव-देवस्य जेता जयति सुरतलीलानाटकौसूत्रधार ॥ १६ ॥ ²हृदयतृणकुटीरे दीप्यमाने खराग्नावुचितमनुचित वा वेत्ति कः पण्डितोऽपि । किमु कुवलयनेत्रा. सन्ति नो नाकनार्य-स्त्रि³दँशपतिरहल्या तापसी यन्निषेवे ॥ १७ ॥ न गम्यो मन्त्राणा न च भवति भेषज्यविषयो न चापि ⁵प्रैध्वस व्रजति विविधैः शान्तिकशतै. । भ्रमावेशादङ्गे किमपि विदधद्द्रङ्ग-मसमं ⁶खॅरापस्कारोऽय भ्रमयति दृश घूर्णयति च ॥ १८ ॥ कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्यूल्लसत्पीनोत्तुङ्गपयो-धरेति सुमुखावम्भोजेति सुभ्रूरिति । दृष्ट्वा माद्यति मोदते-ऽभिरमते प्रस्तौति विद्वानपि प्रत्यक्षाशुचिपूत्रिका स्त्रियमहो कामस्य दुश्चेष्टितम् ॥ १९ ॥ चन्द्रे शीतलयत्यलीकनयन शभो. सुधाशीकरैर्विश्वञ्चाप्यकुलयत्सु सयमधनान्कान्ता-दृगन्तेषु च । लीलायै परमेश्ववं धनुरिपून्बिभ्रत्प्रसूनात्मन. स्वच्छन्दं रतिवल्लभो विजयते त्रैलोक्यवीर. स्मर. ॥ २० ॥ इक्षुर्धन्व शराः प्रसूनविततिर्भृङ्गावली सिञ्जिनी यस्याज्ञा-वशवर्तिनः प्रमनसो निर्विष्टराष्टादय. । यद्वाणाभिहता विरञ्चिमुरजिन्मृत्युंजयेन्द्रादयो व्यासाशेषमखा इव त्रिभुवन पायादजेयः स्मर. ॥ २१ ॥ प्रासादीयति वैष्णवादिगहनं, दीपीयति द्वाक्तमः पर्यङ्कीयति भूतल दृषदपि श्लक्ष्णोपधा-नीयति । कस्तूरीयति कर्दम. किमपर यूनो रसाविष्टयोर्येना-लोकितयो. स वन्द्यमहिमा देवो नमस्य. स्मर. ॥ २२ ॥
स्त्रीप्रशंसा
दशा दग्धं ⁷मॅन्सिजं ⁸जीवयन्ति दृशैव या. । विरूपाक्षस्य जयिनीस्ताः स्तुवे वामलोचना. ॥ १ ॥ न हर्यैनै च मातङ्गेन रथेन च पत्तिभिः । स्त्रीणामपाङ्गदृष्ट्यैव जीयते जगता त्रयम् ॥ २ ॥ सोम. शौचं ददौ तासा गन्धर्वाश्च शुभा गिरम् ।
१ पुष्पबाण २ हृदयमेव तृणगृहम् ३ इन्द्र ४ औषधोपायमाध्य ५ नाशम् ६ रोगविशेष ७ कामम् ८ जीवन्त कुर्वन्ति ९ शिवस्य
स्त्रीप्रशंसा २५१
अग्निः सर्वाङ्गकान्तिस्त्वं तस्मान्निष्कसमाः स्त्रियः ॥ ३ ॥ स्त्रियः
पवित्रमतुलं नैता दुष्यन्ति कर्हिचित् । मासि मासि रजो
यासा दुष्कृतान्यपकर्षति ॥ ४ ॥ अमृतस्येव कुण्डानि
रत्नानामिव राशयः । रतेरिव निधानानि निर्मिताः केन
योषितः ॥ ५ ॥ प्राणाना च प्रियायाश्च मूढाः सादृश्य-
कारिणः । प्रिया कण्ठगता रत्यै प्राणा मरणहेतवः ॥ ६ ॥
अकृत्रिमप्रेमरसा विलासालसगामिनी । असारे दग्धसंसारे
सार सारङ्गलोचना ॥ ७ ॥ हरिणप्रेक्षणा यत्र गृहिणी न
विलोक्यते । सेवितं सर्वसंपद्भिरपि तद्भवन वनम् ॥ ८ ॥
यासामञ्चलवातेन दीपो निर्वाणता गतः । तासामालिङ्गने
पुसा नरके पतनं कुत ॥ ९ ॥ नामृत न विषं किचि-
देका मुक्त्वा नितम्बिनीम् । यस्या सङ्गेन जीव्येत म्रियेत
च वियोगत. ॥ १० ॥ यासा नाक्षापि कामः स्यात्सगम
दर्शनं विना । तासा दृक्सगमं प्राप्य यन्न द्रवति कौतुकम्
॥ ११ ॥ यावद्दृष्टिर्मृगाक्षीणा नो नरीनर्ति भङ्गुरा ।
तावज्ज्ञानवता चित्ते विवेक. कुरुते पदम् ॥ १२ ॥ समा-
श्लिष्टाः समाश्लेषैश्चुम्बिताश्चुम्बनैरपि । दष्टाश्च दशनैः कान्तं
दासीकुर्वन्ति योषित. ॥ १३ ॥ ज्योत्स्नेव नयनानन्द-
सैरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितम्बिनी
॥ १४ ॥ कार्पासकृतकूर्पासशतैरपि न शाम्यति । शीतं
शातोदरीपीनवक्षोजालिङ्गनं विना ॥ १५ ॥ सपन्न रमणी
शीलसपन्नरमणी विना । इत्युढवान्नरमणी रमणीं रुक्मिणी
हरिः ॥ १६ ॥ पादसंवाहने वै³ज्री केशसमार्जने फ⁴णी ।
अहो भाग्यं पुरन्ध्रीणा दधिसन्मन्थने र⁵वि ॥ १७ ॥ प्रम-
वति मनसि विवेको विदुषामपि शास्त्रसभवस्तावत् ।
निपतन्ति दृष्टिविशिखा यावन्नेन्दीवराक्षीणाम् ॥ १८ ॥ सन्तु
विलोकनभाषणविलासपरिहासकेलिपरिरम्भाः । स्मरणमपि
कामिनीनामलमहि मनसो विकाराय ॥ १९ ॥ ह्लादनता-
पनशक्ती सहजे स्तः सुभ्रुवा कटाक्षेषु । तत्राद्या प्रबला
स्यान्नेदीयस्त्वे परा दवीयस्त्वे ॥ २० ॥ अवलोकनमपि
सुखयति कुवलयदलचारुचपलनयनायाः । कि पुनरमृत-
समान सरभसमालिङ्गन तस्याः ॥ २१ ॥ व्रीडावेलारुद्ध
सागरसलिलमिव योषिता हृदयम् । रागेन्दुरुदयमानो भूयो
भूयस्तरङ्गयति ॥ २२ ॥ आदानपानलेपैः काश्चिद्रोगोप-
तापहारिण्य. । पुरत. स्थितेव सिद्धौषधिवल्ली कापि
जीवयति ॥ २३ ॥ उपनिषद. प६रं७पीता गीतापि च हन्त
मतिपथ नीता । तदपि न हा विधुवदना मानससदनाद्व-
हिर्याति ॥ २४ ॥ यस्य न सविधे दयिता दवदहनस्तुहिन-
दीधितिस्तस्य । यस्य च सविधे दयिता दवदहनस्तुहिनदीधि-
तिस्तस्य ॥ २५ ॥ यत्र पतत्यबलाना दृष्टिनिशिता पतन्ति
तत्र शराः । तच्चापरोपितशरो धावत्यासा पुर. स्मरो मन्ये
॥ २६ ॥ स्वपरप्रतारकोऽसौ निन्दति योऽलीकपण्डितो
युवतीः । यक्षात्तपसोऽपि फलं स्वर्ग स्वर्गेऽपि योषितोऽप्स-
रस ॥ २७ ॥ अ¹ङ्कुश कुचयो कृश व²लभे वितत
चक्षुषि विस्तृत नितम्बे । अरुणाधरमाविरस्तु चित्ते करुणा-
शालिक³पालिभागवेयम् ॥ २८ ॥ अधरे नववीटिका-
त्तुगगो नयने कजलम⁴ञ्ध्वलं दुकूलम् । इदमभरण नित-
म्बिनीनामितरद्भूषणमङ्गदूषणाय ॥ २९ ॥ रत्नानि विभूष-
यन्ति योषा भूष्यन्ते वनिता न रत्नकान्त्या । चेतो वनिता
हरन्त्यरत्ना नो रत्नानि विनाङ्गनाङ्गसङ्गात् ॥ ३० ॥ ताव-
देव विदुषा विवेकिनी बुद्धिरस्ति भवबन्धभेदिनी । यावदि-
न्दुवदना न कामिनी वीक्षिता रहसि हसगामिनी ॥ ३१ ॥
तरुणिमनि कृतावलोकना ललितविलासविहब्धविग्रहा ।
स्मरशरविसराचित्तान्तरा मृगनयना हरते मुनेर्मन. ॥ ३२ ॥
तावदेव कृतिना हृदि स्फुरत्येष निर्मलविवेकदीपक. ।
यावदेव न कुरङ्गचक्षुषा ताड्यते चपललोचनाञ्चलै. ॥३३॥
मेये धरित्र्या पुरजव सार पुरे गृहं सद्मनि चैकदेश. ।
तत्रापि शय्या शयने वरा स्त्री रत्नोज्ज्वला राज्यसुखस्य
सार.॥ ३४ ॥ आस्यं स⁵हास नयनं स⁶लासं सिन्दूरबिन्दूद्य-
शोभि भालम् । नवा च वेणी हरिणीदृशश्चेदन्यैरगण्यैरपि
भूषणैः किम् ॥ ३५ ॥ मात्सर्यमुत्सार्य विचार्य कार्यमार्या.
समर्यादमिदं वदन्तु । सेव्या नितम्बा. किमु भूधराणामुत
स्मरस्मेरविलासिनीनाम् ॥ ३६ ॥ स्मितेन भावेन च लज्जया
भिया पराङ्मुखैरर्धेकटाक्षवीक्षणै । वचोभिरीर्ष्याकलहेन
लीलया समस्तभावैः खलु बन्धनं स्त्रियः ॥ ३७ ॥ अवि-
श्वसन्धूर्तधुरंधरोऽपि नरः पुरन्ध्रीपुरतोऽन्ध एव । अशेष-
शिक्षाकुशलोऽपि काकः प्रतार्यते कि न पिका¹⁰ङ्गनाभिः
॥ ३८ ॥ उडुराजमुखी मृगराजकटिर्गजराजविराजितमन्द-
गतिः । यदि सा वनिता हृदये निहिता क जप. क तप.
क समाधिरतिः ॥ ३९ ॥ तदाखण्डलशा महीमण्डलाशा
तथा भोगिभोगानुरागं त्यजामः । मनःक्षोभदक्षात्कृपातः
कटाक्षान्कुरगेक्षणाश्चेत्क्षणं पातयन्ति ॥ ४० ॥ भ्रूचातुर्या-
त्कुञ्चिताक्षाः कटाक्षाः स्निग्धा वाचो लज्जिताश्चैव हासा. ।
लीलामन्दं प्रस्थितं च स्थितं च स्त्रीणामेतद्भूषणं चायुधं
पादटिप्पण्यः
१ सुवर्णमुद्गा २ मधमिव ३ पादस्थमलनिर्हरणार्थं कृतो भर्जितैष्टकाखण्डो वज्रीति लोके कथ्यते, पक्षे,-इन्द्र ४ दन्तपत्रिका, पक्षे,-शेष ५ मन्था, पक्षे,-सूर्य ६ ब्रह्मप्रतिपादकाश्रुतिशिरोभागा ७ अभ्यस्ता
१ स्थूलम् २ मध्ये ३ ह्रस्व ४ स्वच्छम् ५ मुखम् ६ हासयुक्तम् ७ भयेन ८ प्रणयकोपेन ९ वञ्च्यते १० कोकिलाभि
२५२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
च ॥ ४१ ॥ नूनं हि ते कविवरा विपरीतबोधा ये नित्य- माहुरबला इति कामिनीस्ताः । याभिर्विलोलतरतारकदृष्टि- पातैः शक्रादयोऽपि विजितास्त्वबला कथं ताः ॥ ४२ ॥ नान्दीपदानि रतिनाटकविभ्रमाणामाद्याक्षराणि परमाण्य- थवा स्मरस्य । दृष्टेऽधरे प्रणयिना विधुताग्रपाणेः सीत्कार- शुष्करुदितानि जयन्ति नार्याः ॥ ४३ ॥ अलमतिचपल- त्वात्स्वप्नमायोपमत्वात्परिणतिविरसत्वात्सङ्गमेनाङ्गनायाः । इति यदि शतकृत्वस्तत्त्वमालोचयामस्तदपि न हरिणाक्षीं विस्मरत्यन्तरात्मा ॥ ४४ ॥ द्रुतं यस्यालोकाद्विरहिजन- शोकापनयनं यदङ्के सानन्दं नयनमरविन्दं विह्रति । न यस्यापैति श्रीः कचनचयराहोरपि पुरः समे खेदं रामा- वदनहिमधामा शमयतु ॥ ४५ ॥ श्रुतं दृष्टं स्पृष्टं स्मृत- मपि नृणां ह्लादननं न रत्नं स्त्रीभ्योऽन्यत्क्वचिदपि कृतं लोकपतिना । तदर्थं धर्मार्थौ विभववरसौख्यानि च ततो गृहे लक्ष्म्यो मान्याः सततमबला मानविभवैः ॥ ४६ ॥ ललाटे कस्तूरीतिलकमबला. कजलरुचि दृशोः कर्णद्वन्द्वे विमलमणिताटङ्कयुगलम् । गले मुक्तामाला शुचि वसनमङ्गे च सततं वशीकर्तुं विश्वं दधति खलु बाह्योपकरणम् ॥ ४७ ॥ भवन्तो वेदान्तप्रणिहितधियामत्र गुरवो विद- ग्ध्वालापाना वयमपि कवीनामनुचराः । तथायेतद्रूमो न हि परहितात्पुण्यमधिकं न चास्मिन्संसारे कुवलयदृशो रम्यमपरम् ॥ ४८ ॥ विमुञ्चति बुधो जनः सुकृतचिन्तनं दूरतो जहाति च मुनिस्तपस्यजति धीरता शकरः । विधिर्भवति चञ्चलस्त्रिजगतीपतिः क्षुभ्यति क्षणं कुटिलदृष्टयो यदि पतन्ति वामभ्रुवः ॥ ४९ ॥ अमृतममृतं कः संदेहो मधुन्यपि नान्यथा मधुरमधिकं चूतस्यापि प्रसन्नरस फलम् । सकृदपि पुनर्मध्यस्थः सन्त्सान्तरविज्नो वदतु यदिहान्य- त्स्वादु स्यात्प्रियारदनच्छदात् ॥ ५० ॥ वचसि भवति सङ्गत्यागमुद्दिश्य वार्ता श्रुतिमुखरमुखाना केवल पण्डि- तानाम् । जघनमरुणारत्नग्रन्थिकाञ्चीकलापं कुवलयनयनाना को विहातुं समर्थः ॥ ५१ ॥ किमिह बहुभिरुक्तैर्युक्ति- शून्यैः प्रलापैर्द्वयमिह पुरुषाणा सर्वदा सेवनीयम् । अभि- नवमदलीलालालस सुन्दरीणा स्तनभरपरिखिन्न यौवनं वा वनं वा ॥ ५२ ॥ यासा सत्यपि सद्गुणानुसरणे दोषानुरागो भृशं याः प्राणान्यरमर्पयन्ति न पुनः सम्पूर्णदृष्टि प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासा निषेधात्मकस्तत्त- त्केलिषु दक्षिणा अपि सदा वामा जयन्त्येव ताः ॥ ५३ ॥ स्त्रीमुद्रा कुसुमायुधस्य परमा सर्वार्थसंपत्करीं ये मूढाः प्रवि- हाय यान्ति कुधियो मिथ्याफलान्वेषिणः । ते तेनैव
निहत्य निर्दयतर नग्नीकृता मुण्डिताः केचिद्रक्तपटीकृताश्च जटिलाः कापालिकाश्चापरे ॥ ५४ ॥ द्रष्टव्येषु किमुत्तमं मृगदृशः प्रेमप्रसन्नं सुखं घ्रातव्येष्वपि किं तदास्यपवनः श्राव्येषु कि तद्वचः । कि स्वाद्येषु तदोष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं कि नवयौवने सहृदयैः सर्वत्र तद्विभ्रमः ॥ ५५ ॥ यत्रैता लहरीचलाचलदृशो व्यापारयन्ति ध्रुव यत्त- त्रैव पतन्ति सततसमी मर्मस्पृशो मार्गणाः । तच्चक्रीकृत- चापमञ्चितशरप्रेङ्खत्करः क्रोधनो धावत्यग्रत एव शासनधरः सत्यं सदासा स्मर ॥ ५६ ॥ विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः । शाल्यन्न सघृतं पयोदधियुत ये भुञ्जते मानवास्ते- षामिन्द्रियनिग्रहो यदि भवेद्विन्ध्यस्तरेत्सागरे ॥ ५७ ॥ आलोलैरुपगम्यते मधुकरी केशेषु माल्यग्रहः कान्ति कापि कपोलयो प्रथयते ताम्बूलमन्तर्गतम् । अङ्गानामनुलेपनं परि- मलैरालेपनप्रक्रिया वेष कोऽपि सरोजसुन्दरदृशः सूते सुख चक्षुषो ॥ ५८ ॥ सद्ग्रलस्फारहारा भयवरदकरा स्रस्तध- म्मिद्धभारा मूलाधाराधिकारा निगमनिधिधरा काव्यकोटि- प्रचारा । ससारानल्पकारा सदनमयहरा चिद्दनैकावतारा तारा शृङ्गारधारा मनसि वसतु ते सर्वदा सर्वसारा ॥ ५९ ॥ ससारेऽस्मिन्सारे परिणतितरले द्वे गती पण्डिताना तत्त्वज्ञानामृताम्भःपुलकितमनसा यातु कालः कदाचित् । नो चेन्मुग्धाङ्गनाना स्तनजघनभराभोगसमोगिनीना स्थूलो- पस्थस्थलीषु स्थगितकरतलस्पर्शलोभोद्यतानाम् ॥ ६० ॥ ससारेऽस्मिन्सारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्गव्यस्त- वैर्यं कथममलधियो मानस सविदध्युः । यद्येताः प्रोद्यदि- न्दुद्युतिनिचयमृत्तो न स्युरम्भोजनेत्राः प्रेङ्खत्काञ्चीकलापा- स्तनभरविनमन्मध्यभागास्तरुणयः ॥ ६१ ॥
युववर्णनम्
अधारि पद्मेषु तदङ्घ्रिणा घृणा क्व तल्लक्ष्यच्छायालयवोऽपि पल्लवे । तदास्यदासेऽपि गतोऽधिकारिता न शारद पार्विकशर्वरीश्वरः ॥ १ ॥ किमस्य रोम्णा कपटेन कोटिभि- र्विधिर्न लेखाभिग्जीगणद्गुणान् । न रोमकूपौघमिषाज्जग- त्कृता कृताश्च कि दूषणशून्यबिन्दवः ॥ २ ॥ अमुष्य दोर्भ्यामरिदुर्गलुण्ठने ध्रुवं गृहीतार्गलदीर्घपीनता । उरःश्रिया तत्र च गोपुरस्फुरत्कपाटदुर्धर्षतिर प्रसारिता ॥ ३ ॥ स्वकेलिलेशक्षितनिन्दितेन्दुन्नो निजाशदृक्तर्जितपद्मसपदः । अतद्द्वयीजित्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चराचरे ॥ ४ ॥ सरोरुहं तस्य दृशैव तर्जितं जिताः क्षितेनैव विधोरपि श्रियः । कुत पर भव्यमहो महीयसी तदाननस्यो-
१ मुखचन्द्र
युववर्णनम्, बालावर्णनम् २५३
पमितौ दरिद्रता ॥ ५ ॥ खबालभारस्य तदुत्तमाङ्गजैः समं चमयैंव तुलाभिलाषतः । अनागसे शंसति बालचापलं पुनः पुनः पुच्छविलोलोनच्छलात् ॥ ६ ॥ निमीलनअ्रश- जुषा दृशा भृशं निपीय तं यन्निदशीभिरर्जितम् । अमृतम- भ्यासमर विवृण्वते निमेषैर्निःस्वैरधुनापि लोचनैः ॥ ७ ॥ विलोकयन्तीभिरजस्रभावमाबलादमु तत्र निमीलनेष्वपि । अलम्भि मर्त्याभिरमुष्य दर्शने न विग्नलेशोऽपि निमेष- निर्मितः ॥ ८ ॥ न का निशि खमगतं ददर्श तं जगाद गोत्रस्खलिते च का न तम् । तदात्मताध्यातथवा रते च का चकार वा न खमनोभवोद्भवम् ॥ ९ ॥
बालावर्णनम्
अभ्यासः कर्मणा सम्यगुत्पादयति कौशलम् । विधिना तावदभ्यस्त यावत्सृष्टा मृगेक्षणा ॥ १ ॥ न देवकन्यका नापि गन्धर्वकुलसम्भवा । तथाप्येषा तपोभङ्गं विधातुं वेधसोऽप्यलम् ॥ २ ॥ इयं व्याधायते बाला भ्रूरस्याः कार्मु- कायते । कटाक्षाश्च शरायन्ते मनो मे हरिणायते ॥ ३ ॥ मनोऽपि शङ्कमानाभिर्बालाभिरुपजीव्यते । अपडक्षीणषाड्गुण्य- मन्त्री मकरकेतनः ॥ ४ ॥ अतन्द्रचन्द्राभरणा समुद्दी- पितमन्मथा । तारकातरला श्यामा सानन्दं न करोति कम् ॥ ५ ॥ निर्माणकौशल धातुश्चन्द्रिका लोकचक्षुषाम् । क्रीडागृहमनङ्गस्य सेयमिन्दीवरेक्षणा ॥ ६ ॥ प्रेङ्खणप्रेक्ष- णालापान्कुर्वत्यः सस्मितत्रपम् । न वीणायाः प्रवीणायाः क्वङ्कनं स्वररञ्जनम् ॥ ७ ॥ दग्धो विधिर्विधत्ते न सर्व- गुणसुन्दरं जन कमपि । इत्यपवादभयादिव मुग्धाक्षी निर्मिता विधिना ॥ ८ ॥ मीनवती नयनाभ्यां चरणाभ्यामपि सुफुल्लकमलवत्ती । शैवालिनी च केशैः सुरसेयं सुन्दरी सरसी ॥ ९ ॥ अलिकुलमञ्जुलकेशी परिमलबहुला रसा- वहा तन्वी । किसलयपशेलपाणिः कोकिलकलभाषिणी प्रियतमा मे ॥ १० ॥ अमृत तदधरबिम्बे वचनेष्वमृतं विलोकनेऽप्यमृतम् । अमृतभृतौ कुचकुम्भौ सत्यं सा सृष्टि- रपरैव ॥ ११ ॥ स्तनकलशस्खलदम्बरसवरणव्यग्रपाणि- कमलायाः । निपतन्ति भाग्यभाजामुपरि कटाक्षाः सरो- जाक्ष्याः ॥ १२ ॥ कुङ्कुमपङ्केनाङ्कितदेहा गौरपयोधर- कम्पितहारा । नूपुरहंसरुतपदपद्मा कं न वशीकुरुते भुवि रामा ॥ १३ ॥ मन्दमन्दगमना करिणी कि वा विशाल- नयना हरिणी किम् । पूर्णचन्द्रवदना रजनी कि पश्य गच्छति सखे तरुणी किम् ॥ १४ ॥ उत्तुङ्गस्तनभरतान्त- तान्तमध्यं विश्लिष्यद्घनकचवान्तवान्तसूनम् । त्रान्ताजभ्रम- दलिभीतभीतनेत्रं मुग्धाक्षी मम धुरि मन्दमन्दमेति ॥ १५ ॥ उदयदुदयदीक्षणाय पत्युश्चपलदृशश्चपयानिरुध्यमानम् । मन इव कृपणस्य दानकाले कति न ततान गतागतानि चक्षुः ॥ १६ ॥ अदम्भा हि रम्भा विलक्षा च लक्ष्मी- घृताची हिया चीरसञ्छादिताक्षा । अहो जायते मन्द- वर्णाप्यपर्णा समाकर्ण्य तस्या गुणस्यैकदेशम् ॥ १७ ॥ एकान्तसुन्दरविधानजडः क वेधोः सर्वाङ्गकान्तिचतुरं क च रूपमस्याः । मन्ये महेश्वरभियान्मकरध्वजेन प्राणार्थिना युवतिरूपमिदं गृहीतम् ॥ १८ ॥ कि कौमुदीः शशिकलाः सकला विचूर्ण्य संयोज्य चामृतरसेन पुनः प्रयत्नात् । कामस्य घोरहरहुंकृतिदग्धमूर्तेः सजीवनौषधिरियं विहिता विधात्रा ॥ १९ ॥ नेदं मुखं मृगवियुक्तशशाङ्कबिम्ब नेमौ स्तनावमृतपूरितहेमकुम्भौ । नैवालकावलिरिय मदनास्त्र- शाला नैवेदमक्षियुगलं निगँडं हि यूनाम् ॥ २० ॥ चित्ते निवेश्य परिकल्पितसत्वयोगान रूपोच्चयेन विधिना विहिता कृशाङ्गी । स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्व- मनुचिन्त्य वपुश्च तस्याः ॥ २१ ॥ चन्द्रो जडः कदलि- काण्डमकाण्डशीतमन्दीवराणि च विमुद्रितविभ्रमाणि । येनाक्रियन्त सुतनोः स कथं विधाता किं चन्द्रिका क्वचि- दशारतुरुचिः प्रसूते ॥ २२ ॥ निर्मुक्तशैशवदशाशिशिरा नवीनसम्प्राप्तयौवनवसन्तमनोरमश्रीः । उन्मीलितस्तननवस्त- बका निकाममेणीदृशस्तनुलता तनुते मुदं नः ॥ २३ ॥ नीलोत्पलोल्लसितखञ्जनमञ्जुनेत्रा संपूर्णशारदसुधाकरकान्त- वक्त्रा । बाला जगत्त्रितयमोहनदिव्यमूर्तिर्मन्ये विभाति जगति सरवीरकीर्तिः ॥ २४ ॥ एता स्खलद्वलयसङ्कति- मेखलोत्थझङ्कारनूपुररवाहृतराजहंसाः । कुर्वन्ति कस्य न मनो विवशं तरुण्यो विश्वस्तमुग्धहरिणीसदृशः कटाक्षैः ॥ २५ ॥ एषा भविष्यति विनिद्रसरोरुहाक्षी कामस्य कापि दयिता तनुजाऽनुजा वा । यः पश्यति क्षणमिमां कथमन्यथासौ कामस्तमस्तकरुणस्तरुण हिनस्ति ॥ २६ ॥ अँपाङ्गतारले दृशौ तरलवक्रवर्णा गिरो विलोँसभरमन्थरा गतिरतीव कान्तं मुखम् । इति स्फुरितमङ्गके मृगदृशा खतो लीलया तदत्र न महोदयः कूँतपदोऽपि सलक्ष्यते ॥ २७ ॥ दृशः पृथुतरीकृता जितनिजाब्जपत्रत्विषश्चतुर्भिरपि साधु साध्विति मुखैः सम व्याहृतम् । शिरसि चलितानि विस्मयवशाद्ध्रुव वेधसो विधाय ललना जगत्त्रय ललामभूता- मिमाम् ॥ २८ ॥ क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरि- णतैः क्वचिद्गीतित्रस्तैः क्वचिदपि च लीलाविलसितैः ।
१ निर्निमेषै १ ब्रह्मा २ स्त्रीरूपम् ३ शृङ्खला ४ नेत्रप्रान्तचञ्चले. ५ विलासभरेण मन्थरा मन्दा गति ६ कृतस्थिति,
| २५४ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
नवोढानामेभिर्वदनकमलैर्नेत्रचलितैः स्फुरल्लीलालीनाः प्रचुरपरिपूर्णा इव दृशः ॥ २९ ॥ अमुष्या लावण्यं मृदुलमृदुलानप्यवयवान्मनोलौल्यं धातुः करकठिनतां मे विमृशति । पदं चित्ते धत्ते मतिरिव पुरा पङ्कजभुवा ध्रुवं कल्याणीयैः कलितसुकृतैरेव रचिता ॥ ३० ॥ समीचीना चीनांशुकपरिवृताङ्गी प्रविलसत्कुचापीना हीना जघनघनभागेऽब्जवदना । न दीना दीनान्तःकलितमदना सेयमधुना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३१ ॥ स्फुरन्नानारत्नारुणितवसना वृत्तमसृणस्तनापीना मत्ता तरलजघना हंसगमना । स्मराधीनासीना कविहृदि जिताशेषललना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३२ ॥ उदासीनालीनामपि वचसि लीना तनुत्वमत्रपाधीना दीनालपनपदवीनायकमधुता । कवीनामासीना हृदि कुमुदिनीनाथवदना नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३३ ॥ निलीना वेश्मान्तः कथमपि सखीनामभिहितैः कृताधीना हीनाकृतिरपि मतीनामविषया । कवीनामञ्चत्वं झषयति विपीना तनुतया नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३४ ॥ कुचाभ्यां माद्यन्ती विजितलकुचाभ्यां युवमनो हरन्ती बिब्बोकैः सरसि विहरन्ती मधुरगीः । तरुण्या लावण्यं किमपि विदधानाङ्गविधौ नवीना मीनाक्षी व्यथयति मुनीनामपि मनः ॥ ३५ ॥ अमलमृणालकाण्डकमनीयकपोलरुचेस्तरसलीनलिनलिनप्रतिफुल्लदृशः । विकसदशोकशोणकरकान्तिभृतः सुतनोर्मृदुललितानि हन्त ललितानि हरन्ति मनः ॥ ३६ ॥ किमिन्दुः किं पद्मं किमु मुकुरबिम्बं किमु मुखं किमब्जे किं मीनौ किमु मदनबाणौ किमु दृशौ । खगौ वा गुच्छौ वा कनककलशौ वा किमु कुचौ तडिद्वा तारा वा कनकलतिका वा किमबला ॥ ३७ ॥ तनुस्पर्शादस्या दरमुकुलिते हन्त नयने मुहुः पक्ष्मोत्तानं व्रजति जडतामङ्गमखिलम् । कपोलौ घर्माद्रौ ध्रुवमुपरताशेषविषयं मनः सान्द्रानन्दं स्पृशति झटिति ब्रह्म परमम् ॥ ३८ ॥ मधुरवचनैः सभ्रूभङ्गैः कृताङ्गुलितर्जनैरनलसविलितैरङ्गन्यासैर्महोत्सवबन्धुभिः । असकृदसकृत्स्फारस्फारैरपाङ्गविलोकितेस्त्रिभुवनजये सा पञ्चेषोः करोति सहायताम् ॥ ३९ ॥ कर्पूरेण स्थलविरचना कुङ्कुमेनालवालं माध्वीकानि प्रतिदिनपयः पञ्चबाणः कृपाणः^(२) । तत्रोत्पन्ना यदि किल भवेत्काञ्चनी कापि वल्ली सा चेदस्याः किमपि लभते सुभ्रुवः सौकुमार्यम् ॥ ४० ॥ लावण्यामृतदीर्घिका कुलगृहं सौन्दर्यसौभाग्ययोस्त्रैलोक्याभरत्नकन्दलिरियं जीव्यात्सहस्रं समाः । रूपालोकनकौतुकेन बहुना शिल्पश्रमेणादरान्मन्वे या विधिना विहाय विहितं सृष्टेरूर्ध्वजारोपणम् ॥ ४१ ॥
अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः शृङ्गारैकरसः स्वयं नु मदनो मासो नु पुष्पाकरः । वेदाभ्यासजडः कथं नु विषयव्यावृत्तकौतूहलो निर्मातुं प्रभवेन्मनोहरमिदं रूपं पुराणो मुनिः ॥ ४२ ॥ वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमं लोचने वर्णः स्वर्णमपाकरिष्णुरलिनीजिष्णुः कचानां चयः । वक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली वाचां हारि च मार्दवं युवतियु स्वा स्वाभाविकं मण्डनम् ॥ ४३ ॥ अस्याश्चेद्धृतिसौकुमार्यमधुना ह्रस्वस्य गर्वः गलत्सं^(६)लापो यदि धार्यतां परभृतैर्वाचंयमत्व^(७)व्रतम् । अङ्गानामकठोरता यदि दृषत्प्रायैव^(८) सा मालती कान्तिश्चेत्कमला^(९) किमत्र बहुना कौषाय^(१०)मालम्बताम् ॥ ४४ ॥ निर्मातुं^(११) सुदतीं मखजो^(१२) विरचिते वक्त्रे शशिभ्रान्तितः क्रोडीभूतनिजाम्बुजासन^(१३)मधिष्ठातुं न शक्तो विधिः । मध्यं विस्मृतवान्कुचौ च कठिनौ पीनौ नितम्बौ काञ्चनकान्तिमंतित्वान्मतिः स्फुरति हि स्वस्थे नृणां चेतसि ॥ ४५ ॥ सौन्दर्यस्य तरङ्गिणी तरुणिमोत्कर्षस्य हर्षोद्गमः कान्तेः कार्मुणकर्म नर्मरहसामुल्लासनावासभूः । विद्या वक्रगिरां विधेरनविप्रावीण्य^(१४)साक्षान्क्रिया बाणाः पञ्चशिलीमुखस्य ललनाचूडामणिः सा प्रिया ॥ ४६ ॥ दृष्टिः सालसतां बिभर्ति न शिशुक्रीडासु बद्धादरा श्रोत्रे प्रेषयति प्रवर्तितसखीसम्भोगवार्तास्वपि । पुंसामङ्गमपेतसङ्गमधुना नारोहति प्राग्यथा बाला नूतनयौवनव्यतिकरावष्टभ्यमाना शनैः ॥ ४७ ॥ आयाति श्रियमञ्जसा नयनयोरम्भोरुहप्रेयसी सनाहः स्तनयोरयं कलयते संभोगयोग्यां दशाम् । वैदग्ध्येन सहासिका वितनुते वाचामियं प्रक्रिया मुग्धायाः पुनरिन्दवी न सहते मुख्यामभिख्यां मुखम् ॥ ४८ ॥
वयःसंधिवर्णनम्
यथा यथा विगलत्यस्या हृदये हृदह्येश्वरः । तथा तथा बहिर्यातौ मन्ये संकोचतः कुचौ ॥ १ ॥
अन्तरङ्गमनङ्गस्य शृङ्गारकुलदैवतम् । अङ्गीकरोति तन्वङ्गी सा विलासमय वयः ॥ २ ॥
अन्येयं रूपसंपत्तिरन्या वैदग्ध्य^(१५)धोरणी । नैषा नलिनपत्राक्षी सृष्टिः साधारणी विधेः ॥ ३ ॥
अनायासकृशं मध्यमशङ्कतरले दृशौ । अभूषणमनोहारि वपुर्वयसि सुश्रुवः ॥ ४ ॥
दृश्यं दशा सहस्रैर्मनसामयुतैर्विभावनीयं^(१६) च । सुकृतशतकोटिभोग्यं किमपि वयः सुभ्रुवो जयति ॥ ५ ॥
१ उत्पत्तिविधाने २ जीर्णे ३ तुष्टं कुर्वन् ४ जयशील ५ मनोहरम् ६ मिथो भाषणम् ७ मौनव्रतम् ८ पाषाणरूपा ९ लक्ष्मी १० काषायवस्त्रम् ११ निर्मातुमिच्छु १२ ब्रह्मा १३ मुकुलीभूतस्वकीयकमलासनम् १४ चातुर्यम् १५ परिपाटी १६ ध्येयम्
अथ वयःसंधिवर्णनम्
२५५
न्यञ्चति वयसि प्रथमे समुद्भवति तरुणिमनि सुदृशः । दधति स्म मधुरिमाणं वाचो गतयश्च विभ्रमाश्च भृशम् ॥ ६ ॥
यदवधि विलासभवनं यौवनमुदियाय चन्द्रवदनायाः । दहनं विनैव तदवधि यूनां हृदयानि दह्यन्ते ॥ ७ ॥
अधर किसलयरागः कोमलविटपानुकारिणौ बाहू । कुसुममिव लोभनीयं यौवनमङ्गेषु संनद्धम् ॥ ८ ॥
मृदुलवलिललितमध्यं पृथुलकुचं चारु विपुलभूरुहधनम् । पुंनागस्पृहणीयं स्फुरति वनं यौवनं च नारीणाम् ॥ ९ ॥
सन्निभयोरमुष्या वयसोः पयसोरिवाङ्गेषु । अनयो रसद्विभेदं मानसजन्मा परं वेद ॥ १० ॥
स्तनतटमिदमुत्तुङ्गं निम्नो मध्यः समुन्नतं जघनम् । विषमे मृगशावाक्ष्या वपुषि नवे क इव न स्खलति ॥ ११ ॥
उद्यति तरुणिमतरणौ शैशवशशिनि प्रशान्तिमायाते । कुचचक्रवाकयुगलं तरुणीतन्व्या मिथो मिलति ॥ १२ ॥
अचलं चलदिव चक्षु प्रकृतमपीदं समुद्यदिव वक्षः । अतदिव तदपि शरीरं संप्रति वामभ्रुवो जयति ॥ १३ ॥
अयमङ्कुरभाव एव तावत्कुचयोः कर्षति लोकलोचनानि । इतरेतरपीडनीमवस्थां गतयोः श्रीरनयोः कथं भवित्री ॥ १४ ॥
परिहरति यथा यथा वयोऽस्याः स्फुरदुरु कन्दलशालिबालभावम् । द्रढयति धनुषस्तथा तथा ज्या स्पृशति शरानपि सज्जयन्यनोभू ॥ १५ ॥
निशितशरधियाऽर्पयत्यनङ्गो दृशि सुदृशः स्वबलं वयःसंराले । दिशि निपतति यत्र सा च तत्र व्यतिकरमेत्य समुन्मिषन्त्यवस्थाः ॥ १६ ॥
यथा यथाऽस्याः कुचयोः समुन्नतिस्तथा तथा लोचनमेति वक्रताम् । अहो सहन्ते बत नो परोदय निसर्गतोऽन्तर्मलिना ह्यसाधव ॥ १७ ॥
सम विलासोऽङ्कुरितः स्तनाभ्यां त्रपा विलासेन महावतीर्णा । अवर्ततान्यस्त्रपयैव साक कान्त प्रकारो वचसा कृशाङ्ग्या ॥ १८ ॥
उन्मीलितं तूलिकयेव चित्रं सूर्योशुभिर्भिन्नमिवारविन्दम् । बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन ॥ १९ ॥
असम्भृत मण्डनमङ्गयष्टेरनासवाख्य करण मदस्य । कामस्य पुष्पव्यतिरिक्तमस्त्रं बाल्यात्पर मांधु वयः प्रपेदे ॥ २० ॥
आवृणोति यदि सा मृगीदृशी स्वेऽञ्चलेन कुचकाञ्चनाचलम् । भूय एव बहिरेति गौरवादुन्नतो न सहते तिरस्क्रियाम् ॥ २१ ॥
अत्युन्नतस्तनमुरो नयने सुदीर्घे वक्रे भ्रुवावतितरा वचनं ततोऽपि । मध्योऽधिकं तनुरनूनगुरुनितम्बौ मन्दा गतिः किमपि चाङ्गुतलोचनाया ॥ २२ ॥
भ्रूपल्लवो धनुरपाङ्गतराङ्गतानि बाणा गुणाः श्रवणपालिरिति स्मरेण । तस्यामनङ्गजयजगमदेवतायामस्त्राणि निर्जितजगन्ति किमर्पितानि ॥ २३ ॥
दृशोः सीमावादः श्रवणयुगलेन प्रतिकल स्तनाभ्यां संरुद्धे हृदि मनसिजस्तिष्ठति बलात् । नितम्ब साक्रन्दं क्षिपति रशनादाम परतः प्रवेशस्तन्वङ्ग्या वपुषि तरुणिम्नो विजयते ॥ २४ ॥
अनाघ्रातं पुष्पं किमलयमैलूनं कररुहैरैनाविद्ध रत्नं मधु नवमनास्वादितरसम् । अखण्डं पुण्याना फलमिव च तद्रूपमनघं न जाने भोक्तार कमिह समुपस्थास्यति विधिः ॥ २५ ॥
भ्रुवो काचिल्लीला परिणतिरपूर्वा नयनयोः स्तनाभोगो व्यक्तस्तरुणिमसमारम्भसमये । इदानी बालाया किममृतमय कि विषमयं. किमानन्द साक्षाद्धनितमधुर पञ्चमरवः ॥ २६ ॥
अनाकूतैरेव प्रियसहचरीणा शिशुतया वचोभिः पाञ्चालीमिथुनमधुना संगमयितुम् । उपादत्ते नो वा विरमति न वा केवलमिय कपोलौ कल्याणी पुलकमुकुलैर्हन्तुरयति ॥ २७ ॥
प्रगल्भानामन्तःप्रविशति शृणोति प्रिय कथा स्वयं तत्तच्चेष्टाशतमभिनयैर्व्यञ्जयति च । स्पृहामन्त कान्ते वहति न समभ्येति निकट यथैवेयं बाला हरति हि तथा चित्तमधिकम् ॥ २८ ॥
स्मित किञ्चिद्वक्रे सरलतरलो दृष्टिविभव परिस्पन्दो वाचामभिनवविलासोक्तिसरसः । गतीनामारम्भ किसलयितलीलापरिकर स्पृशन्त्यास्तारुण्य किमिह न हि रम्य मृगदृशः ॥ २९ ॥
इमे तारुण्यश्रीनवपरिमला प्रौढसुरतप्रतापप्राग्भ्भाः स्मरविजयदानप्रतिभुवः । चिर चेतश्चौरा अभिनवविकारैकरुचयो विलासंव्यापाग किमपि विजयन्ते मृगदृश ॥ ३० ॥
अपक्रान्ते बाल्ये तरुणिमनि चागन्तुमनसि प्रयाते मुग्धत्वे चतुरिमणि चाश्लेषरसिके । न केनापि स्पृष्ट यद्दिह वयमा मर्म परम यदेतत्तच्छ्वोजयति वपुरिन्दीवरदृशः ॥ ३१ ॥
तदात्वप्रोन्मीलन्मदिमरमणीया कठिनता विचित्य प्रत्यङ्गादिव तरुणभावेन घटिता । स्तनौ सबिभ्राणा क्षणविनयवैयत्यमसृणस्मरोन्मेषा केषामुपरि न रसाना युवतय ॥ ३२ ॥
न शील दृग्भङ्गी कलयति कुरङ्गीनयनयो कुचश्रा कर्कन्धूफलमपि न बन्धूकृतवती । सुधौया मत्रीचा न च वचनवीर्या परिचिता तथापि श्रीरस्या युवजननमम्या विजयत ॥ ३३ ॥
उद्वद्धवक्षोजद्वयनटमग्क्षोमितकटे मुग्धादृग्भ्या मन्दीकृतविलमदिन्दीवरयुगम् ।
पाद-टिप्पणी (Footnotes)
१ गच्छति मति
२ उदय प्राप
३ स्पृहणीयम्
४ सुदृढा या लव लित्र्यशं, प्रकृता ललितो मध्यभागो यस्य तत्, पक्षे,-मृदुला या वलयो वलित्रितय तेन ललितो मध्यो यस्मिन्
५ पृथन स्थूला लकुचा यस्मिन्, पक्षे,-पृथुला कुचौ यस्मिन्
६ सुन्दरम्
७ पुंनागा ये भूजा वृक्षास्तैर्धनं निविडम्, पक्षे,-विपुल भूउपा ते पुंषु लभुव एतादृशा जघना यस्मिंस्तत् तद्रूपदगव्यापकप्रदनामन्व
८ पुंनाग केसरवृक्ष स्पृहणीयम्, पक्षे,-पुरुषश्रेष्ठ स्पृहणीयम्
९ कुटिल अर्थाद्यावनरूपे
१० स्वस्वरूप
१ मन्द्रवम्
२ देवरूपतन्
३ स्वस्वरूप
२५६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
समुद्भ्रूभङ्गं प्रविहितधनुर्भङ्गमनिशं वयस्तत्पद्माक्ष्याः कथ- मिव मनो न व्यथयतु ॥ ३४ ॥ मुखं विकसितस्मितं वेशितवक्रिमप्रेक्षितं समुच्छलितविभ्रमा गतिरपास्तसंस्था मतिः । उरो मुकुलितस्तनं जघनमसबन्धोर्द्धुरं बतेन्दु- वदनातनौ तरुणिमोद्गमो मोदते ॥ ३५ ॥ न दन्तुरमुरःस्थलं वचसि नाश्रिता चातुरी विकारि न विलोकितं भ्रुवि न वक्रिमोपक्रमः । तथापि हरिणीदृशो वपुषि कापि कान्ति- च्छटा पट्टावृतमहामणिद्युतिरिवात्र सलक्ष्यते ॥ ३६ ॥ इदं परमसुन्दरं तनूपुरं कुरङ्गीदृशा निवार्य खलु शैशवं स्वय- मनेन नीतं बलात् । तदागमनशङ्कया मकरकेतुना किं कृतं पयोधरधराधरो त्रिवलिवाहिनीदुस्तरो ॥ ३७ ॥ स्थिर- त्वमचिरद्युतौ तमसि कोऽपि बन्धग्रहो विधौ किमपि सौरभं मधुनि कापि वर्णालता । शिरीषनवदामनि स्फुरति कोऽपि शैलोदयो वयोऽभिनववेधसस्तदिह मन्महे कौशलम् ॥ ३८ ॥ क्षणं सरलवीक्षणं क्षणमपाङ्गसवीक्षणं क्षणं रजसि खेलनं क्षणमतीव भूषादरः । क्षणं द्रुततरा गतिः क्षणमतीव मन्दा गतिः क्षणक्षणविलक्षणं जयति चेष्टितं सुभ्रुवः ॥ ३९ ॥ क्षोभं धत्ते यदतिबहलं स्निग्धलावण्यपूरः प्रत्यङ्गं यत्तटम- नुसरन्मूर्च्छयो विश्रमाणाम् । उन्मग्नं यत्स्फुरति च मना- क्कुम्भयोर्द्वन्द्वमेतत्तन्मन्येऽस्याः स्मरगजयुवा गाहते हृत्तडा- गम् ॥ ४० ॥ मन्दं मन्दं श्रवणपुतकोपान्तगन्ता दृगन्तः किंचित्किंचिद्विरमति मनो धूलिकेलीरसेभ्यः । आविर्भावः स्तनमुकुलयोः कापि कान्तिः समन्तादद्य श्वो वा कुसुम- धनुषो यौवराज्याभिषेकः ॥ ४१ ॥ सन्नद्धोऽद्य नवतरु- णिमा काममास्कन्दुकामो नैवा मुञ्चत्यहह सहसा कौतुकी बालभावः । तद्वैराज्यं वरतरतनुस्वर्णभूमौ प्रवृत्तं प्रायस्त्व- क्षादनुदिनमयं क्षीयते मध्यदेशः ॥ ४२ ॥ श्रोणीबन्धस्त्य- जति तनुतां सेव्यते मध्यभागः पद्ध्या मुक्तास्तरलग तयः सश्रिता लोचनाभ्याम् । धत्ते वक्षः कुचसचिवतामद्वितीयं तु वक्त्रं तद्गात्राणां गुणविनिमयः कल्पितो यौवनेन ॥ ४३ ॥ सभ्रूभङ्गं करकिसलयावर्तनैरालपन्ती सा पश्यन्ती ललित- ललितं लोचनस्याञ्चलेन । विन्यस्यन्ती चरणकमले लीलया स्वैरयातैर्नि सङ्गीतं प्रथमवयसा नर्तिता पङ्कजाक्षी ॥ ४४ ॥ दोलायां जघनस्थलेन चलता लोलेक्षणा लज्जते साशङ्कं तनुकण्टकक्षतभिया क्रीडावने क्रीडति । धत्ते दिक्षु निरी- क्षणं स्मितमुखी पारावतानां रुतैः सज्जं मौग्ध्यविसर्जनाय सुतनोः शृङ्गारमित्रं वयः ॥ ४५ ॥ वक्षस्यावरणोदरस्तन- युगोद्भेदं विनाप्यङ्गुलीमुद्रासूचितहास्यमास्यमधिकं नो पुत्रिकादौ रसः । तिर्यग्लोचनवीक्षितानि वचसा छेकोक्ति- सक्रान्तयस्तस्याः सीदति शैशवे संभवत्कोऽप्येष नव्यः क्रमः ॥ ४६ ॥ लावण्य्यामृतनिर्झरेण सुदृशः सिक्ताखिलाङ्गस्थली जातस्तत्र नवीनयौवनकलालीलालतामण्डपः । तस्मिन्वेष- विशेषशीतलतरच्छायासु सुसोत्थितः कदर्पखिजगजज्योद्यम- परोऽप्यद्यापि निद्रालसः ॥ ४७ ॥ बाल्ये गेहपतौ निमी- लति वयःसंधिं विधाय स्मरश्चौरश्चारुतरं विवेश निभृतं बालाशरीरालयम् । चाञ्चल्यं चरणे पृथुलमुदरे निर्लज्जता चेतसि क्षामत्वं हृदये दृशोः सरलता सर्वस्वमस्या हरन् ॥ ४८ ॥ एतस्या रतिवल्लभक्षितिपतेः क्रीडासरस्याः शनैः सशोषं नयतीव शैशवजलं तारुण्यतिग्मद्युतिः । अन्तःस्था च यथा यथा विकसति प्रायः कुचोच्चस्थली स्थौल्यं हन्त तथा तथा वितनुते दृक्पीनमौनावती ॥ ४९ ॥ रेखा काचन कज्जलस्य नयनाम्भोजे मिथः कौशलादालीभिः सर- लीकृतापि कुटिलीभावं समालम्बते । लक्ष्या वक्षसि पाणि- पद्मविषमस्पर्शादयादुन्नतिर्जानीमो वयमेणशावनयने बाल्यं न पाल्यं तव ॥ ५० ॥ मध्यस्य प्रथमानमेति जघनं वक्षो- जयोर्मन्दता दूरं यात्युदरं च रोमलतिका नेत्राजवं धावति । कंदर्पं परिवीक्ष्य नूतनमनोराज्याभिषिक्तं क्षणादङ्गानीव परस्परं विदधते निर्लुण्ठनं सुभ्रुवः ॥ ५१ ॥ दृष्टिः शैशव- मण्डना प्रतिकलं लावण्यमभ्यस्यते पूर्वांकारमुरस्तथापि कुचयोः शोभा नवामीहते । सप्रासा गुरुता तथाप्युपचिता- भोगा नितम्बस्थली तन्व्याः स्वीकृतमन्मथं विजयते तन्नेत्र- पेयं वयः ॥ ५२ ॥ तत्तस्याः कमनीयकान्ति विजित- त्रैलोक्यनारीवपुः शृङ्गारस्य निकेतनं समभवत्संसारसार- चयः । यस्मिन्विस्तृतपक्ष्मपालिचलनाः कामास दृष्यो नो यूनां पुनरुत्पतन्ति पतिताः पाशे शकुन्ता इव ॥ ५३ ॥ केलीकौतुकमादराच्छ्रवणयोरालीभिराश्राव्यते बालाभिस्तु पुरः पुरेव रजसि क्रीडार्थमाहूयते । चेतो याति न वा तत- स्तदुभयोरेणीदृशः साप्रतं मध्ये चुम्बकयोरयःशकलवन्निः- पक्षपातं मनः ॥ ५४ ॥ उत्तालालकमञ्जनानि कबरीपाशेषु शिक्षारसो दन्तानां परिकर्म नीविर्नहनं भ्रूखास्तयोग्याग्रहः । तिर्यग्लोचनचेष्टितानि वचसा छेकोक्तिसक्रान्तयः स्त्रीणां म्लायति शैशवे प्रतिकलं कोऽप्येष केलिक्रमः ॥ ५५ ॥ मौत्रा नर्तनपण्डितञ्जु वदनं किंचित्प्रगल्भे दृशौ स्लोकोद्भेद- निवेशिनस्तनमुरो मध्यं दरिद्राति च । अस्या यज्जघनं घनं च कलया प्रत्यङ्गमेणीदृशः सत्यंकारमिव स्मरैकसुहृदा तद्यौवनेनार्पितम् ॥ ५६ ॥ लावण्यामृतमाहितं वरतनोरङ्गे
१ स्वायत्तीकृतम् २ गमृद्धतं ३ नियतैकविषयता ४ उन्नतम् ५ उत्कर्षभागभवति ६ जघनबन्धं ७ सूक्ष्मताम् ८ चञ्चलगमनानि ९ विपर्ययं
१ बन्धनम् २ परिमाणे
| वयःसंधिवर्णनम्, तरुणीपृथगवयववर्णनम् | २५७ |
|---|
स्थितं यत्पुरा तच्चारुण्यघनोदयेन बहुधा संवर्धितं पद्मभूः । वीक्ष्य सन्दनाशङ्कितः कुचयुगव्याजान्नितम्बस्थलाच्चक्रे सेतु- युगं न चेदिह कुतस्तदग्रसंस्थास्नुता ॥ ५७ ॥ विस्तारी स्तनभार एष गमितो न स्वोचितामुन्नतिं रेखोद्भासि कृतं वलि- त्रयमिदं न स्पष्टनिम्नोन्नतम् । मध्येऽस्या ऋजुरायतार्थकपिशा रोमावली निर्मिता रम्यं यौवनशैशवव्यतिकरोन्मिश्रं वयो वर्तते ॥ ५८ ॥ चाञ्चल्यं चरणौ विहाय नयनप्रान्तं प्रति- ष्ठासते वस्तु वाञ्छति वाचि काचिदमृतस्पर्धाकरी माधुरी । कान्तिः काचन वक्षसो विजयते तन्व्या दुकूलाञ्चलं तन्मन्ये दिवसैः कियद्भिरतनुर्जेता जगन्मण्डलम् ॥ ५९ ॥ आला- पान्ध्रुविलासौ विरलयति लसद्बाहुविक्षिप्ति यातं नीविग्रन्थि प्रथिम्ना प्रतनयति मनाञ्चाध्वनिग्नो नितम्बः । उत्पुष्यत्यार्श्व- मूर्च्छत्कुचशिखरमुरो नूनमन्तः खरेण स्पृष्टा कोदण्डकोट्या हरिणशिशुदृशो दृश्यते यौवनश्रीः ॥ ६० ॥
तरुणीपृथगवयववर्णनम्
केशपाशः
अस्या मनोहराकारकबरीभारनिर्जिताः । लज्जयेव वने वास चक्रुश्चमरबर्हिणः ॥ १ ॥ भाति विन्यस्तकहार सुकेश्याः केशसंचयम् । शोणितादैः शरैः पूर्णे तूणीरमिव मान्मथम् ॥ २ ॥ स्तनाभोगे पतन्भाति कपोलात्कुटिलोऽ- लकः । शशाङ्कबिम्बतो मेरौ लम्बमान इवोरगः ॥ ३ ॥ चलत्कामिमनोमीनमादातुं चित्तजन्मनः । गलयष्टिरिवाभाति बालावेणी गुणोज्ज्वला ॥ ४ ॥ एणीदृशो विजयते वेणी पृष्ठावलम्बिनी । केशैव पञ्चबाणस्य युवतर्जनहेतवे ॥ ५ ॥ तमस्तोम भृशं सोममण्डलोपरि राजसे । धूमपानेन कि नाम धाम गम्यमतः परम् ॥ ६ ॥ वेणी श्यामा भुजगीय नितम्बान्मस्तकं गता । वक्रचन्द्रसुधा लेढुं सान्द्रसिन्दूर- जिह्वया ॥ ७ ॥ तस्याः कचभरव्याजान्नयनस्नेहलालितः । आरूढः पार्वतीबुद्ध्या गृहबर्हीव मूर्धनि ॥ ८ ॥ श्यामा मिलिन्दमाला बालाया वदनपद्ममकरन्दम् । आस्वादितुमिव मिलिता ललिता वेणीमिषादेषा ॥ ९ ॥ मलिना अपि १संयमनात्कुटिला अपि २सुमनसा समागमतः । ३बौला अपि ४मुक्तानाममुषङ्गान्५निर्जरत्वमुपयान्ति ॥ १० ॥ स्नानादर्मुक्ते- ष्वनुधूपवासं विन्यस्तसायंतनमल्लिकेषु । कामो वसन्तात्यय- मन्दवीर्यः केशेषु लेभे बलमङ्गनानाम् ॥ ११ ॥ एणीदृशः पाणिपुटे निरुद्धा वेणी विरेजे शयनोत्थितायाः । ६सरोज-
१ बन्धनात्, पक्षे,-इन्द्रियनिग्रहात् २ पुष्पाणाम्, पक्षे,- साधूनाम् ३ बवयोरभेदात् केशा-, पक्षे,-अभ्रका ४ मौक्तिकानाम्, पक्षे,-जीवन्मुक्तानाम् ५ जरारहितत्वम्, पक्षे,-देवत्वम् ६ कमल- कञ्चलात्
कोशादिव निष्पतन्ती १श्रेणी घनीभूय २मधुव्रतानाम् ॥१२॥ इयं मुखाम्भोरुहसन्निधाने विलम्बिधम्मिल्लततिच्छलेन । समागता सादरमेव बाला द्विरेफमालामुत वा दधाति ॥ १३ ॥ अस्याः सपक्षकैविधोः कचौघः स्थाने मुखस्यो- परि वासमाप । पक्षस्यतावद्बहुचन्द्रकोऽपि कलापिना येन जितः कलापः ॥ १४ ॥ अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्वकारम् । स्फुटत्स्फुरद्भृङ्गिकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥ १५ ॥ अस्याः कचाना शिखिनश्च कि नु विधि कलापौ विमतेरगाताम् । तेनायमेभिः किमपूजि पुष्पैर्मंसिं दत्त्वा स किमर्धचन्द्रम् ॥ १६ ॥ आभाति शोभातिशयं प्रपन्नादेणीदृशोऽसा रमणीयशोभा । वेणी लसत्कुन्तलधोरणीना श्रेणीय कि चास हरिन्मणीनाम् ॥ १७ ॥ विधि किमस्या नितराममान्तमङ्गेषु शृङ्गाररस सुकेश्याः । स्निग्धोलसत्कुन्तलकैकतवेन निधाय मूर्ध्नि स्तबकी- चकार ॥ १८ ॥ चिकुरप्रकरा जयन्ति ते विदुषी मूर्धनि यान्बिभर्ति सा । पशुना४ऽधःपुरस्कृतेन तत्तुलनामिच्छति चामरेण कः ॥ १९ ॥ लसन्मौक्तिकश्रेणिगङ्गातरङ्गा स्वयं नन्दिनी भाखतो नीलवर्णी । ससीमन्तसिन्दूरसारखताभा त्रिवेणीमेणीदृशो मौलिवेणी ॥ २० ॥ एता नवाम्बुधर- कान्तिमुदीक्ष्य वेणीमेणीदृशो यदि वदन्ति वदन्तु नाम । ब्रूमो वय मुखसुधांशुसुधामिलाषादम्यागता भुजगिनी मणिमुद्व- हन्तीम् ॥ २१ ॥ खर्भानुराकलियितुं स समुद्यतोऽभूद्राका विनाननसुधाशुमहो यदस्याः । मन्ये तदस न च तिष्ठति पूर्णमाया भावो हि कितु परिपूर्णकले सुधाशौ ॥ २२ ॥ विकचचकचकलापः किचिदाकुञ्चितोऽयं कुचकलशनिवेशी शोभते श्यामलाक्ष्याः । मधुरसपरितोषात्किंचिदुत्फुल्लकोशे कमल इव निलीनाः पेटकाः षट्पदानाम् ॥ २३ ॥ न जीमूतच्छेदः स हि गगनचारी न च तमो न तस्सेन्दो- मैत्री न च मधुकरास्ते हि मुखराः । न पिच्छ तत्केकिन्यु- चितमसितोऽयं न च मणिर्मृदुत्वादाज्ञातं घनचिकुरपाशो मृगदृशः ॥ २४ ॥ धुनोतु ध्वान्तं नस्तुलितदलितेन्दीवर- वनं घनस्निग्धं श्लक्ष्णं चिकुरनिकुरम्बं तव शिवे । यदीयं सौरभ्यं सहजमुपलब्धुं सुमनसो वसन्त्यस्मिन्मन्ये बल- मथनवाटीविटपिनाम् ॥ २५ ॥ उन्मीलद्वदनेन्दु कान्तिवि- सरैर्दूरे समुत्सारितं भन्नं पीनकुचस्थलस्य च रुचा हस्त- प्रभाभिर्हतम् । एतस्याः कलविङ्ककण्ठकदलीकल्पं मिलत्कौतु- कादप्राप्ताङ्गसुख रुषेव सहसा केशेषु लभे तमः ॥ २६ ॥
अभ्यङ्गारम्भः
अस्याः पीठोपविशाया अभ्यङ्गं वितनोत्यसौ । लसच्छ्रोणि चलच्छ्रोणि नटद्रूपपयोधरम् ॥ २७ ॥ आवर्त्य कण्ठं सिञ्चयेन
१ पङ्क्ति २ भ्रमराणाम् ३ केशकलापा ४ पश्चात्कृतेन
| २५८ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
सम्यगावज्य वक्षोरुहकुम्भयुग्मम् । कासौ करालम्बिततैल- पात्रा मन्दं समासीदति सुन्दरी ताम् ॥ २८ ॥ वक्षोजौ निबिडं निरुध्य सिंचयेनाकुञ्च्य मध्यं शनैः कृत्वा चम्पक- तैलसेकमवला संपीड्य मन्दं शिरः । पाणिभ्या चलकङ्क- णोद्यतझणत्कारोच्चगम्या करोल्यभ्यङ्गं परिपश्यतः सकुंतुक दोरन्तर प्रेयस. ॥ २९ ॥
सीमन्तरचनम् स्नेहसंवर्धितान्वालानदृढं बध्नाति सुन्दरी । करुणा हरिणाक्षीणा कुत कठिनचेतसाम् ॥ ३० ॥ संप्राप्तचिकुर- भाव. कचयो वा युवा करे लग्न । स्त्रीभिर्दृढ निबध्यो न चेत्परकैलत्रमनुसरति ॥ ३१ ॥ यथा यथाऽयं वलते भुजोऽस्या उदश्चित सयमनै कचानाम् । तथा तथा वल्गति काममेक स एव वक्षोरुह उपलाक्ष्या ॥३२॥ जानुभ्यामुप- विश्य पाष्णिनिहितश्रोणीभग प्रोन्नमद्दोर्वल्ली नमदुन्नमत्कुचतटी दीयन्नखाङ्कावलि । पाणिभ्यामवधूय कङ्कणझणत्कारान्वतागे- त्तर बाला नॅघ्नति कि निजालकभर किंवा मदीयं मन ॥३३॥ अैश्रान्तं हृदयव्रणेन कुचयोरत्यक्तकाठिन्ययोरा बद्धस्फुटमण्ड- लोन्नतिमिलच्चोलं विमुच्योरस. । ^६नीवीविच्छुरितं विधाय तममुं वामस्तनालम्बिनी वेणीं पाणिनखाञ्चलै. शिथिलयत्या- क्रम्य पीठ पदा ॥ ३४ ॥ आधुम्नाङ्गुलिपल्लवौ कचभरे व्यापारयन्ती करौ बन्धोत्कर्षणिवद्धमानसत्या शून्या दधाना दृशम् । बाहूत्क्षेपसमुन्नते कुचतटे पर्यस्त- चोलांशुका हीसकोचितबाहुमूलसुभगा बध्नाति जूटीं वधू. ॥ ३५ ॥ जानुस्थापितदर्पणं परिणमद्ग्रीवं समुद्यद्भुजं न्यञ्चत्कर्परसुन्नमद्गलजलत्कक्षांन्तगेहत्कुचम् । पाणिभ्या प्रविभज्य केशनिचयं सीमन्तकर्मोद्यता चेत कस्य वशीकरोति न बलाद्वाला विलोलेक्षणा ॥ ३६ ॥ केशान्व्यामकरावलम्बित शिखान्भूयो रणत्कङ्कणं व्याधूयाथ कनिष्ठिकानखमुखेना- कुञ्चितान्याङ्गुलि । सीमन्तं विरचय्य तस्य करमेणोन्मृज्य पार्श्व- द्वय तान्यश्रांयुगपत्प्रणीय करयोर्युग्मेन बध्नात्यसौ ॥ ३७ ॥
सीमन्तसिन्दूरम् वहन्ती सिन्दूरं प्रबलकवरीभारतिमिरत्विषा वृन्दैर्बन्दीकृत मिव नवीनाकं भरणम् । तनोतु क्षेमं नस्तव वदनसौन्दर्यलहरी- परीवाहस्रोत सरणिरिव सीमन्तसरणि. ॥३८॥ अये मातर्दृष्ट्वा मुखममृतभानुभ्रमवशात्कचच्छद्मा राहुर्द्रमति किमु तृष्णानर- लित. । किमेवं कदर्पान्तकतरुणि सिन्दूरसरणिच्छलाद्रोक्तु भूयो वहिरिव रसज्ञां कलयति ॥ ३९ ॥
ललाटः केशान्धकारादथ दृश्यभालस्थलार्धचन्द्रा स्फुटमष्टमीयम् । एना यदासाद्य जगज्जयाय मनोभुवा सिद्धिरसाधि साधु ॥ ४० ॥
तिलकः बाले ललामलेखेय भाले भल्लीव राजते । भ्रूलताचापमा- कृष्य न विद्म कं हनिष्यति ॥४१॥ कस्तूरीतिलकं वाले भाले मा कुरु मा कुरु । अद्य साम्य भजामीति जृम्भते शशलाञ्छन. ॥ ४२ ॥ श्यामलैनाङ्कित भाले वाले केनापि लैक्ष्मणा । मुखं तवान्तरासुप्तभृङ्गफुल्लाम्बुजायते ॥ ४३ ॥ नासावश- विनिर्मुंक्तमुक्ताफलमनाभिना । भाति भालतलस्थेन बाला चन्दनविन्दुना ॥ ४४ ॥ लोचनफुल्लाम्भोजद्वयलोभान्दोलि- तैकम्नाः । कस्तूरीतिलकमिशादयमलिकेडलि. समुल्लसति ॥ ४५ ॥ अस्या ललाटे रचिता सखीभिर्विभाव्यते चन्दनपत्रलेखा । आपाण्डुरक्षामकपोलभित्तावन्नङ्गबाणव्रण- पट्टिकेव ॥ ४६ ॥ अस्खास्तनुस्सन्दनससितो वै स मीनकेतु- र्जगतीं विजेतुम् । मकुङ्कुमालेखमिषेण वीरो व्यमोचयच्चा- रुतरा पताकाम् ॥ ४७ ॥ विराजतेऽस्यास्तिलकोऽयमञ्चितो विकुञ्चितभ्रूलतिकाद्वयान्तरे । विजित्य लोकद्वितयं दिव प्रति स्मरेण बाणो धनुषीव योजित. ॥ ४८ ॥ अस्या सुगन्धिनव- कुङ्कुमपङ्कदत्तो मुग्धश्चकास्ति तिलको मदिरेक्षणाया. । आविष्टरागमभिराममुखारविन्दनिष्यन्दलक्ष्मैव मे हृदय द्वितीयम् ॥ ४९ ॥ अस्या. सयमवान्कचो मधुकैरैरभ्यर्थ्य- मानो मुहुर्भङ्गीगोपनजाभिशापमचिरादुन्मार्ष्टुकामो निजम् । सीमन्तेन करण कोमलरुचा सिन्दूरविन्दुच्छलादात्तस्तायस- पिण्डमण्डलससावादातुमाकाङ्क्षति ॥ ५० ॥ केयूर न करे पदे न कटक मौलौ न माला पुन कस्तूरीतिलक तथापि तनुते ससाग्मारश्रियम् । सर्वाधिक्यमलेखि भालफलके यत्स्रुश्रुवो वेधसा जानीम किमु तत्र मन्मथमहीपालेन मुद्रा कृता ॥ ५१ ॥
भ्रुवौ शृङ्खायुगल भाति तस्याश्चटुलचक्षुष । पत्रद्वयीव हरिता नामावशविनिर्गता ॥ ५२ ॥ असितात्मा समुन्नद्ध समा- विष्कृतचापल । भुजंगकुटिलस्तस्या भ्रूविक्षेप. खलायते ॥ ५३ ॥ स्मरकल्पद्रुमो बाले तव भाले द्विपत्रक । पत्रयोग्नयोश्छाया भ्रुवोर्व्याजादुदञ्चति ॥५४॥ किचित्सवि- भ्रमोदञ्चिद्भ्रूलता भाति भामिनी । बालकीडाप्रतिद्वन्द्वि तर्जे- यन्तीव यौवनम् ॥ ५५ ॥ कामकार्मुकतया कथयन्ति भ्रूलता मम पुनर्मतमन्यत् । लोचनाम्बुरुहयोरुपरिस्थ भृङ्गशावक- ततद्वयमेतत् ॥ ५६ ॥ तम्या शलाकाञ्जननिर्मितेव कान्ति-
तरुणीपृथगवयववर्णनम् २५९
भ्रुवोरायतलेखयोर्या । ता वीक्ष्य लीलाचतुरामनङ्ग-
श्चचापसौन्दर्यमदं मुमोच ॥ ५७ ॥ भ्रूभ्या प्रियाया भवता
मनोभूचापेन चापे घनसारभाव । निजा यदल्पोपपदशाम
पेक्ष्य सप्रत्यनेनाधिकवीर्यतार्जि ॥ ५८ ॥ स्मारं धनुर्यद्विधु
नोद्धितास्या यास्वेन भूतेन च लक्ष्मलेखा । एतद्भ्रुवौ जन्म
तदाप युग्मं लीलाचलत्त्वोचितबालभावम् ॥ ५९ ॥
नेत्रद्वयम्
नूनमाज्ञाकरस्तस्या सुभ्रुवो मकरध्वज । यतस्तन्नेत्रे-
सचारसूचितेषु प्रवर्तते ॥ ६० ॥ नि सीमशोभासौभाग्यं
नताङ्ग्या नयनद्वयम् । अन्योन्यालोकनानन्दविग्हादिव
चञ्चलम् ॥ ६१ ॥ आमा व्रतमतीवाक्ष्णोर्यत्पुर परि-
सर्पणम् । सह यात मनस्तत्र त्यक्त्वा भूयो निवर्तनम्
॥ ६२ ॥ अर्जुन कृष्णसयुक्त कर्ण यत्नान्धधावति ।
तन्नेत्रं तु कुरुक्षेत्रमिति मुग्धे मृशामहे ॥ ६३ ॥ एक-
मेत्राक्षि वामाक्षि रञ्जयाञ्जनलेखया । जायतामैन्दवे बिम्बे
खञ्जनाम्बुजसगम ॥ ६४ ॥ अमुष्य मुषिता लक्ष्मीश्च-
क्षुषेति न नूतनम् । न वेद्मि कथयत्यस्या. कर्णे लयं
किमुत्पलम् ॥ ६५ ॥ मृगसबन्धिनी दृष्टिरमौं यदि न
सुभ्रुव । धावति श्रमणोत्तम्लीलादूर्वाङ्कुरे कुत ॥ ६६ ॥
तस्या श्रवणमार्गं चलिते यदि लोचने । कुत प्रकाम-
धवने धत्त कृष्णानुरक्तताम् ॥ ६७ ॥ श्रूयता कौतुकं
सोऽपि खरः शृङ्गारिणा गुरु. । अमुष्या. शिष्यतामेति
श्रवणोन्मुखयोर्दृशो. ॥ ६८ ॥ भास्वत्कुण्डलमाणिक्य-
प्रभाप्रतिहतेरिव । नताङ्ग्याः श्रवणोत्सङ्गम्रारूढा नय-
नद्वयी ॥ ६९ ॥ नयनस्य तुला चक्रे नलिनेन नतभ्रुव ।
ऊनेन चलिते भृङ्गं मामरमाद्विधिर्दधौ (१) ॥ ७० ॥
अनङ्गमङ्गलभुवस्तदपाङ्गस्य भङ्गय । जनयन्ति मुहु-
र्यूनामन्त संतापमततिम् ॥ ७१ ॥ यदि स्यान्मण्डले सक्त-
मिन्दोरिन्दीवरद्वयम् । तदोपमीयते तस्या वदन चारु-
• लोचनम् ॥ ७२ ॥ श्रमयति शरीरमङ्गि भ्रमयति चेत
करोति संतापम् । मोह मुहुश्च कुरुते विषविषम वीक्षणं तस्या.
॥ ७३ ॥ अतिपूजिततारेय दृष्टि श्रुतिलङ्घनक्षमा सुतनु ।
जिनसिद्धान्तस्थितिरिव सवासना कं न मोहयति ॥ ७४ ॥
नयनच्छलेन सुतनोर्वदनजिते शशिनि कुलपतौ क्रोधात् ।
नासानालनिबद्धं स्फुटितमिवेन्दीवर द्वेधा ॥ ७५ ॥ आया-
मिनोस्तदक्ष्णोरञ्जनरेखाविधि वितन्वन्त्या । पाणि. प्रमा-
धिकाय. प्रापदपाङ्ग चिरेण विश्रम्य ॥ ७६ ॥ प्रवात-
नीलोत्पलनिर्विकेषमधीर्गविक्षेपितमायताक्ष्या । तया गृहीत नु
मृगाङ्गनाभ्यस्ततो गृहीत नु मृगाङ्गनाभि ॥ ७७ ॥ मुखा-
रविन्दोपरिभागसंस्थं नेत्रद्वयं खञ्जनमामनन्ति । प्रफुल्लवक्रा-
म्बुजपार्श्ववर्ति दलद्वय भृङ्गयुतं मतं मे ॥ ७८ ॥ इन्दीवर
लोचनयोस्तुलायै निर्माय यत्नेन विधि कदाचित् । अनु-
ल्यता वीक्ष्य ततो ऽजामि निक्षिप्य चिक्षेप स पङ्कमध्ये
॥ ७९ ॥ इषुरत्रयेणेव जगत्त्रयस्य विनिर्जयात्पुष्पमयाशुगेन ।
शेषा द्विबाणी सफलीकृतेय प्रियादृगम्भोजपदेऽभिषिच्य
॥ ८० ॥ सेय मृदु कौसुमचापयष्टिः स्रग्व्य मुष्टिग्रहणा-
हमध्या । तनोति न श्रीमदपाङ्गमुक्ता मोहाय या दृष्टि-
गणेघवृष्टिम् ॥ ८१ ॥ आघूर्णितं पक्ष्मलमक्षिपद्मं प्रान्तद्युति
श्चेत्यजितामृताशु । अस्या इवास्माञ्चलदिन्द्रीनीलगोलामल-
श्यामलताग्तारम् ॥ ८२ ॥ कर्णोत्पलेनापि मुखं सनाथ लभेत
नेत्रद्युतिनिर्जितेन । यथेतरेयेन तत कृतार्था स्वच्छेष्वपी कि
कुरुते कुदृष्टी ॥ ८३ ॥ त्वच समुत्तार्य दलानि रीत्या मोचा-
त्वच. पक्ष्मपाटनानाम् । सारैर्गृहीतैर्विधिरुत्पलौघादसाम-
मृदीक्षणरूपशिल्पी ॥ ८४ ॥ चकोरनेत्रेणदृगुत्पलाना निमेष-
यन्त्रण किमेष कृष्टः । सार सुधोद्गारमय प्रयत्नैर्विधातुमेत-
न्नयने विधातु ॥ ८५ ॥ ऋणीकृता कि हरिणीभिरासीदस्याः
सकाशाश्नयनद्वयश्री. । भूयोगुणेय सकला बलाद्यत्ताभ्योऽन-
यालम्भ्यत विभ्यतीभ्य ॥ ८६ ॥ दृशौ किमस्याश्चपल-
स्वभावे न दृग्माक्रम्य मिथो मिलेताम् । न चेत्कृत स्यादनयोः
प्रयाणे विघ्न श्रव कूपनिपातभीत्या ॥ ८७ ॥ केदारभाजा
शिशिरप्रवेगात्पुण्याय मन्ये मृतमुत्पलिन्या । जाता
यतस्तत्कुसुमेक्षणेय यतश्च तत्कोरकदृक्चकोर ॥ ८८ ॥
नतभ्रुवो लोचनखञ्जरीटौ विहाग्मानङ्गमहारभेते । कथ न
मानन्ददृढो युवानस्तारुण्यमन्तर्निर्विसुन्नयन्तु ॥ ८९ ॥
स्वदृग्गोजनयन्ति मान्वता खुरकण्डूयनकैतवान्मृगा ।
जितयोरुदयत्प्रमीलयोस्तदव्वेवेक्षणशोभया भयात् ॥ ९० ॥
नलिन मलिन विवृण्वती पृषतीमम्मृगती तदीक्षणे । अपि
खञ्जनमञ्जनाञ्चिते विदधाते रुचिगर्वदुविर्वम ॥ ९१ ॥ श्रुति-
लङ्घनमीहमानयोर्मलिनाभ्यन्तरगोष्ठीरग्यो । स्मृतिततापकर-
त्वमेतयोरुचित लोचनयोर्मृगीदृश ॥ ९२ ॥ लोचने हरिण-
गर्वमोचने मा विदप्य नताङ्गि कज्जले । मायक सपदि
जीवहारक कि पुनर्हि गँगलेन लेपित ॥ ९३ ॥ कामिनी
नयनकज्जलपङ्कादुत्थितो मदनमत्तवराह । कामिमानमवना-
न्तग्चारी मूलमुत्खनति मानलताया ॥ ९४ ॥ रामाविलोत-
नयने किमु मीनवालौ नीलोत्पले किमथवा किमु खञ्जरीटौ ।
कि वा जगत्त्रयजयाय कृतिर्न जाने कंदर्पभूपरचिता नव-
कार्मगव्य ॥ ९५ ॥ मुखविबुरपरिवृत्तोत्तानताटङ्कपाशाववि-
१ नेत्रकटाक्षपातेन सूचितेषु
१ विषेण
| २६० | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
चकितचकोरीकान्तिचौरं तदक्षि । त्रिभुवनयुवचेतोबन्ध- संकेतहेतोः सहचरमिव कर्तुं पाशमाशङ्क्य याति ॥ ९६ ॥
कटाक्षः
यान्ती गुरुजने सार्धं त्रायमानमुखाम्बुजा । तिर्यग्ग्रीवं यदद्राक्षीत्तन्निषेपत्राम्ररोजगत् ॥ ९७ ॥ क्वचित्कृष्णाऽर्जुनगुणा क्वचित्कर्णान्तगामिनी । अपाङ्गश्रीस्तवाभाति सुभ्रूभारत- गीरिव ॥ ९८ ॥ विशालाक्षीकटाक्षस्य साक्षी त्र्यक्षो महेश्वर । नाद्यापि प्रकृतिं याति येन विद्धो दिगम्बरः ॥ ९९ ॥ यासा कटाक्षविशिखैः खरचौरैण ताडिताः । हृतचैतन्यसर्वस्वा मोहन्ते मुग्धकामुका ॥ १०० ॥ रे रे घट्ट मा रोदी कं कं न भ्रामयन्त्यमू । कटाक्षवीक्षणादेव कगकृष्टस्य का कथा ॥ १०१ ॥ हत्वा लोचनविशिखै- र्गत्वा कतिचित्पदानि पद्माक्षी । जीवति युवा न वा कि भूयो भूयो विलोकयति ॥ १०२ ॥ अस्याः कररुहखण्डित- काण्डपटकटनिर्गता दृष्टि । पटविगलितनिःकलुषा स्वदते पीयूषधारेव ॥ १०३ ॥ वसन्तनीलोत्पलषट्पदाना गीता- मृतं श्रोतुमिवोत्तरङ्गो । नतध्रुवो लोचनकृष्णसारौ कर्णा- न्तिकं सततमाश्रयेते ॥ १०४ ॥ नयनाञ्चलचञ्चरीकपूरो वलतेऽयं यत एव पक्ष्मलाक्ष्याः । तत एव भवन्ति नील- पद्मप्रकराणा ननु वृष्टयो नवीना ॥ १०५ ॥ यत्र यत्र वलते शनैः शनैः सुध्रुवो नयनकोणविभ्रमः । तत्र तत्र शतपत्र- धोरणी तोरणीभवति पुष्पधन्वनः ॥ १०६ ॥ भवनभुवि सृजन्तस्तारहारावतारान्दिशि दिशि विकिरन्तः केतकाना कुटुम्बम् । वियति च रचयन्तश्चन्द्रिका दुग्धसुधा प्रति- नयननिपाताः सुभ्रुवो विभ्रमन्ति ॥ १०७ ॥ प्रणालीदीर्घस्य प्रतिपदमपाङ्गस्य सुहृदः कटाक्षव्याक्षेपाः शिशुशरफालप्रति- भुवः । सुवानाः सर्वस्वं कुसुमधनुषोऽस्मान्प्रति सखे नवं नेत्राद्वैतं कुवलयदृशः संनिदधति ॥ १०८ ॥ दिनान्ते म्लान्तीना कनककलशाकारकुचयोर्पर्यस्यन्तीना कमल- कलिकाकोमलकरौ । समुद्यत्कालिन्दीतरलतरकल्लोलकुटिलः कटाक्षः कान्ताना कमिह कमितार न कुरुते ॥ १०९ ॥ शिलासम्यग्धौतोज्ज्वलधवलधारापरिसरानिमानन्तश्यामानिव विषमबाणस्य विशिखान् । दृढप्रज्ञावर्माप्यपि हृदयमर्माणि रुजतः कटाक्षानेत्तस्या मुनिरपि न सोढुं प्रभवति ॥ ११० ॥ पिपासुरिव चञ्चलं विकटकर्णकूपाञ्जलं तत प्रतिचलन्मुहुः श्रवणपाशभीतोऽभित । तनोति तरलाकृतिस्तरकलोचने सततं गतागतकुतूहल मुहुुरपाङ्गरङ्गेस्त्व ॥ १११ ॥ सन्मार्गे तावदास्ते प्रभवति पुरुषस्तावदेवेन्द्रियाणा लज्जा तावद्विधत्ते विनयमपि समालम्बते तावदेव । भ्रूचापाकृष्ट- मुक्ताः श्रवणपथजुषो नीलपक्ष्म्राण एते यावल्लीलावतीना हृदि न धृतिमुषो दृष्ट्रिबाणा. पतन्ति ॥ ११२ ॥
अश्रूणि
अश्रुच्छलेन सुदृशो हुतपावकधूमकलुषाक्ष्याः । अप्राप्य मानभङ्गे विगलति लावण्यवारिपूर इव ॥ ११३ ॥
नासा
पुराणबाणत्यागाय नूतनास्त्रकुतूहलात् । तन्नासा भाति कामेन तूणीवाधोमुखीकृता ॥ ११४ ॥ दन्तालिदाडिमी- बीजमक्षणोत्कण्ठचेतस । मन्ये मारशुकस्येयं नासा चञ्चुर्विराजते ॥ ११५ ॥ नासादसीया तिलपुष्पपूर्णा जगत्त्रयन्यस्तशरत्रयस्य । श्वासानिलामोदभरानुमेया दधद्वि- बाणी कुसुमायुधस्य ॥ ११६ ॥ केचित्तिलस्य कुसुमं शुक- चञ्चुमन्ये नासा वदन्ति कथयाम्यहमन्यदेव । सरक्षितो निज- शरासनसन्निधाने कामेन केतकदलैककयो निषङ्गः ॥ ११७॥
नासाभूषणम्
नासामौक्तिकमबले किमधरबिम्बेन विद्रुमं कुरुषे । दृष्ट्वा गुञ्जाबीजं शिव शिव भूयस्तदेव हसितेन ॥ ११८ ॥ श्लेष्माद्वारे वसतिर्जातास्माकं तदत्र मा यात । आन्दो- लनच्छलादिह निवारयन्तीव मौक्तिकानि विटान् ॥ ११९ ॥ सुधामयोऽपि क्षयरोगशान्त्यै नासाग्रमुक्ताफलकच्छलेन । अनङ्गसञ्जीवनदृष्टशक्तिर्मुखासृतं ते पिबतीव चन्द्रः ॥ १२० ॥ आकाशात्पतितं पुनर्जलनिधौ मध्ये चिरं संस्थितं पश्चाद्दुःसहदेहरन्ध्रजनितक्लेशान्वितं मौक्ति- कम् । बाले बालकुरङ्गलोचनयुगे घोर तपः सञ्चर- न्नासाभूषणतामुपैति सखि ते बिम्बाधरापेक्षया ॥ १२१ ॥ अस्याः कामनिवासरण्यभवनं वक्रं विलोक्यादराञ्चिश्नोत्येव सुधाकरं प्रियतमं भूमीगतं शोभनम् । नासामौक्तिककैतवेन रुचिरा तारापि सा रोहिणी मन्ये तद्विरहासहिष्णुहृदया तत्संनिधिं सेवते ॥ १२२ ॥
कर्णौ
सौन्दर्यपात्रे वक्रेन्दौ कुरङ्गसङ्गभीतया । सूचितौ श्रोत्रपाशाभ्या पाशाविव मृगीदृशा ॥ १२३ ॥ कमनीयता- निवासः कर्णस्तस्या विचित्रमणिभूषः । सविधप्रसूतरत्नं शङ्कन्निधि दूरतरमकरोत् ॥ १२४ ॥ तालीदलं काञ्चन- कर्णपाशौ प्रसारयन्ती सुतनु कराभ्याम् । रराज कर्णान्त- निषण्णदृष्टिः शाणे दधानेव कटाक्षबाणान् ॥ १२५ ॥ वियोगबाष्पाञ्चितनेत्रपद्मच्छद्मान्वितोत्सर्गपयःप्रसूनौ । कर्णौ किमस्या रतितत्पतिभ्या निवेद्यपूणै विधिशिल्पमीदृक् ॥ १२६ ॥ इहाविशद्येन पथातिवक्र, शङ्खोधनिष्चन्दरसप्र- वाहः । सोऽस्याः श्रव.पन्नयुगे प्रणालीरेखेव धावत्यमिकर्ण- कूपम् ॥ १२७ ॥ अस्या यदशदश सविभज्य विध्मः
१ व्यथयामास सपत्रनिष्पत्रादतिव्यथने २ बाणै ३ मृगविशेश
१ धैर्यहारिण २ घ्राणे ३ आन्दोलननिपात ४ जारान्
तरुणीपृथगवयववर्णनम् | २६१
| वामस्तम्भः | दक्षिणस्तम्भः |
|---|---|
| श्रुतौ दध्रतुरर्धमर्धम् । कर्णान्तरुत्कीर्णगभीररेखः किं तस्य<br>सख्यैव न वा नवाङ्कः ॥ १२८ ॥ मन्येऽमुना कर्णलता-<br>मयेन पाशद्वयेन च्छिदुरेतरेण । एकाकिपाशं वरुण विजि-<br>ग्येऽनङ्गीकृतायामतती रतीशः ॥ १२९ ॥ आत्मैव तातस्य<br>चतुर्भुजस्य जातश्चतुर्दोरुचितः स्वगोऽपि । तच्चापयो कर्ण-<br>लते भ्रुवोर्ध्वं वशत्वगंणौ चिपिटे किमस्या ॥ १३० ॥<br>कर्णभूषणम्<br>मुक्ताताटङ्कयुगं प्रतिमुक्तं कर्णपार्श्वयोरस्या । मुखकमल-<br>मिव निषेवितुमागतममृतांशुबिम्बयुगम् ॥ १३१ ॥<br>ताटङ्कमस्यास्तग्लेक्षणाय मुक्ताफलैश्चारुरुचि विधत्ते ।<br>मुखश्रिया चन्द्रमिवाभिभूय बन्दीकृतं तारकचक्रवालम्<br>॥ १३२ ॥ शशी हर्तु लोभान्मुखकमलशोभा श्रुतिफलं<br>मिषेवै सातङ्कस्तव तरुणि ताटङ्ककपटात् । तदन्तःपीयूषं<br>निखिलमथ निक्षेपुमधरे मनोजन्मा मुष्णन्मुहुरहह तुच्छं<br>तमकरोत् ॥ १३३ ॥<br>कपोलौ<br>कपोलपालीं तव तन्वि मन्ये लावण्यधन्ये दिशमुत्तरा-<br>ख्याम् । विभाति यस्या ललितालकाया मनोहरा वैश्रवणस्य<br>लक्ष्मीः ॥ १३४ ॥ स्वर्णच्छवीनामसितेक्षणाना कर्णान्ततो<br>गण्डलतातलानि । भृङ्गाः सहेलं यदि नापतिष्यन्कोऽवे-<br>दयिष्यन्नवचम्पकानि ॥ १३५ ॥ आबध्नन्परिवेषमण्डलमलं<br>वक्रेन्दुबिम्बाद्वहिः कुर्वत्पङ्कजजृम्भमाणकलिकाकर्णावतस-<br>क्रियाम् । तन्वङ्ग्याः परिनृत्यतीव हसतीवोत्सर्पतीवोलबण<br>लावण्य ललतीव काञ्चनशिलाकान्ते कपोलस्थले ॥ १३६ ॥<br>अधरः<br>तवैष विद्रुमच्छाया मरुमार्ग इवाधरः । करोति कस्य<br>नो मुग्धे पिपासाकुलितं मनः ॥ १३७ ॥ अल्पेनापि<br>सुरक्तेन साधनेन प्रयोजनम् । ओष्ठद्वयसहायेन कान्तास्वेन<br>जगज्जितम् ॥ १३८ ॥ सर्वस्यैव हि रत्नस्य त्रैणेऽर्घः<br>परीहीयते । दयिताधररत्नं तु त्राणित यात्यनर्घताम्<br>॥ १३९ ॥ अधरोऽयमभीराक्ष्या बन्धुजीवप्रभाहरः । अन्य-<br>जीवप्रभा हन्त हरतीति किमद्भुतम् ॥ १४० ॥ मुखा-<br>रविन्ददत्तश्रीः सुतनोरोष्ठोऽधरः । कुरुते हारमाणिक्यप्रदी-<br>पान्याण्डुरत्विषः ॥ १४१ ॥ सततमुदयमध्येव वदनेन्दोर-<br>निन्दिता । तदोष्ठमुद्रा लावण्यसमुद्रस्येव विद्रुमः ॥ १४२ ॥<br>अधरोऽसौ कुरङ्गाक्ष्याः शोभते नासिकातले । सुवर्णनलिका-<br>मध्यान्माणिक्यमिव विच्युतम् ॥ १४३ ॥ अधर खलु | बिम्बनामकं फलमाभ्यामिति भव्यमन्वयम् । लभतेऽधर-<br>बिम्ब इत्यदः पदमस्या रदनच्छदे वदत् ॥ १४४ ॥ उत्थितो<br>निशि कलानिधिर्भवेदेतदीयमुखतुल्यतासये । प्रापितो<br>मलिनभावमेतया लज्जया नभसि यात्यदृश्यताम् ॥ १४५ ॥<br>अपि मृगाक्षि तवाधरपल्लवे दयितदन्तपदं न मवत्यद ।<br>भुवनमोहनमन्त्रपदाङ्कितं किमुत यन्ममिर्रं स्मरयन्त्रणः ॥१४६॥<br>अभिलषन्ति तवाधरमाधुरीं तदिह किं हरिणाक्षि सुधा<br>बुधा । सुरसुधामधरीकुरुते यतस्त्वदधरोऽधरतामगमत्ततः<br>॥ १४७ ॥ पुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा<br>स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्ताम्रोष्ठ-<br>पर्यस्तर्रुचः सितस्य ॥ १४८ ॥ बन्धूकबन्धूनवदेतदस्या<br>मुखेन्दुनानेन सहोजिहानम् । रागश्रिया शैशवयौवनीया<br>स्वमाह सद्योधरोष्ठलेखा ॥ १४९ ॥ अस्या मुखेन्दाव-<br>धरः सुधाभूर्बिम्बस्य युक्तः प्रतिबिम्ब एषः । तस्याथवा<br>श्रीद्रुममाजि देशे संभाव्यमानास्य तु विद्रुमेऽसौ ॥ १५० ॥<br>जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधेर-<br>त्वम् । द्वयोरिवैशेष्यावगमाक्षमाणा नाग्नि भ्रमोऽभूदनयोर्जना-<br>नाम् ॥१५१॥ प्रियामुखीभूय सुखी सुधांशुर्वसत्यसौ राहुभय-<br>व्ययेन । इमा दृशाराधरबिम्बलीला तस्यैव बालं करचक्र-<br>वालम् ॥ १५२ ॥ अधरममृतं कः सदेहो मधुन्यपि नान्यथा<br>मधुरमधिक द्राक्षायाश्च प्रसन्नरस फलम् । सकृदपि पुनर्म-<br>ध्यस्थः सन्रसान्तरविज्जनो वदतु यदिहान्यत्स्वादु स्यात्प्रिया-<br>दशनच्छदात् ॥ १५३ ॥ त्वं पीयूष दिवोऽपि भूषणमसि द्राक्षे<br>परीक्षेत को माधुर्य तव विश्वतोऽपि विदित माध्वीक<br>माध्वीकता । एतत्कि तु मनागेर्तुदमिव ब्रूमो न चेत्कुप्यसि<br>यः कान्ताधरपल्लवे मधुरिमा नान्यत्र कुत्रापि सः ॥ १५४ ॥<br>दन्ताः<br>द्विधा विधाय शीतांशुं कपोलौ कृतवान्विधिः ।<br>तन्भ्यास्तद्रसनिष्यन्दबिन्दवो रदनावलिः ॥ १५५ ॥<br>चन्द्राधिकैतन्मुखचन्द्रिकाणा दरायतं तत्किरणाद्धनानाम् ।<br>पुरःपरिखस्तत्पृष्ठितीयं रदावलीद्वन्द्वति बिन्दुवृन्दम् ॥१५६॥<br>राज्ञौ द्विजानामहि राजदन्ताः सबिभ्रति श्रोत्रियविभ्रमं यत् ।<br>उद्वेगरागादिमृजावदातश्चत्वार एते तदवैमि मुक्ताः॥१५७॥<br>यावद्यावत्कुवलयदशा मृज्यते दन्तपालिस्तावत्तावद्विगुणम-<br>धरच्छायया शोणशोचिः । काचित्सस्याः परिमलकलाहूत-<br>मात्रालिकान्त्या वक्राश्वासे प्रसरति मुहुः श्यामिकाप्याविरा-<br>सीत् ॥ १५८ ॥<br>चिबुकः<br>विलोकितास्या मुखमुन्नमय्य किं वेधसेय सुष मासमासौ ।<br>धृत्युद्भवा यच्चिबुके चकास्ति निम्ने मनागङ्गुलि-<br>यन्त्रणेव ॥ १५९ ॥ |
पादटिप्पण्यः (Footnotes)
वामभागः: १ अलका केशाः, पक्षे,-कुबेरनागरी २ वैश्रवणस्य कुबेरस्य पक्षे,-वै इति पदच्छेदः श्रवणस्य कर्णस्य ३ प्रवालकान्ति, पक्षे,-विगता द्रुमच्छाया यस्मात् ४ मरुदेशस्थमार्ग ५ छिद्रे जाते सतीत्यध्याहार्यम् ६ मूल्यम् ७ सजातव्रणम् ८ अमूल्यताम् ९ बन्धूकपुष्पम्, पक्षे,-बन्धुभूता जीवा
दक्षिणभागः: १ लौहित्यात् २ निकृष्टत्वम् ३ तारतम्यम् ४ मर्मस्पृक्
| २६२ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
मुखम्
जितेन्दुपद्मलावण्यं क्व कान्तावदनं जयेत् । मुक्त्वा
तदेव सुरतश्रमजिन्नितलोचनम् ॥ १६० ॥ चलद्भृङ्गमिवा-
म्भोजमधीगनयनं मुखम् । तदीयं यदि दृश्येत काम-
क्रुद्धोऽस्तु किं ततः ॥ १६१ ॥ विलसत्याननं तस्या
नासाग्रस्थितमौक्तिकम् । आलक्षितबुधाश्लेषं राकेन्दोरिव
मण्डलम् ॥ १६२ ॥ मुखं वहति बन्धूकबन्धुरेणाधरेण सा ।
पूर्णेन्दुमिव सौन्दर्यादङ्कलालितकौस्तुभम् ॥ १६३ ॥ विधा-
यापूर्वपूर्णेन्दुमस्या मुखमभूद्भवम् । धाता निजासनाम्भोज-
विनिमीलनदुःखितः ॥ १६४ ॥ शरत्कालसमुल्लासिपूर्णिमा-
शर्वरीप्रियम् । करोति ते मुखं तन्वि चपेटापातनाति-
थिम् ॥ १६५ ॥ राकायामकलङ्कं चेदमृताशोर्भवेद्वपुः ।
तस्या मुखं तदा साम्यपराभवमवाप्नुयात् ॥ १६६ ॥
आननं मृगशावाक्ष्या वीक्ष्य लोलालकावृतम् । भ्रमद्भ्रमर-
सङ्कीर्णं स्मरामि सरसीरुहम् ॥१६७॥ इयं सुनयना दासी-
कृतामरसप्रिया । आननेनाकलङ्केन जयतीन्दुं कलङ्कि-
नम् ॥ १६८ ॥ लावण्यमृभुभिः पूर्णिमास्यमस्या विक-
स्वरम् । लोकलोचनरोलम्बकदम्बैः कैर्न पीयते ॥ १६९ ॥
ननु नीलाञ्चलस्रुतमाननमाभाति हरिनयननायाः । प्रति-
बिम्बित इव यमुनागभीरनीरान्तरेणाङ्कः ॥ १७०॥ अम्बुज-
मम्बुनि मग्नं नासादाकाशमाश्रितश्चन्द्रः । संप्रति क्व
परिपन्थी यं प्रति कोपारुणं वदनम् ॥ १७१ ॥ आसायं
सलिलभरे सवितारमुपास्य सादरं तपसा । अधुनाब्जेन
मनाक्तव मानिनि तुलना मुखस्याप्ता ॥ १७२ ॥ सुवि-
रलमौक्तिक्तारे धवलांशुकचन्द्रिकाचमत्कारे । वदनपरिपूर्ण-
चन्द्रे सुन्दरि राकास्ति नात्र संदेहः ॥ १७३ ॥ पुंसां
दर्शय सुन्दरि मुखेन्दुमीषत्त्रपामपाकृत्य । जायाजित इति
रूढा जनश्रुतिर्मे यशो भवतु ॥ १७४ ॥ अबले सलिले
व्यवस्यता ते मुखभावो गमितो न पङ्कजेन । कथमादिमवर्ण-
तोऽन्त्यजस्य द्विजराजेन कृतोरुनिग्रहस्य ॥ १७५ ॥
सुषमाविषये परीक्षणे निखिलं पद्ममभाजि तन्मुखात् ।
अधुनापि न मङ्गलक्षणं सलिलोन्मज्जनमुज्झति स्फुटम्
॥ १७६ ॥ यः ससर्ज कमलं रमागृहं विश्वलोचनमहो-
त्सवं विधिः । एष तादृगमृजन्मगीदृशो मीनकेतननिकेतनं
मुखम् ॥ १७७ ॥ माधुं चन्द्रमपि पुष्करैः कृतं मीलितं
यदभिरामताधिके । उद्यता जयिनि कामिनीमुखे तेन साहस-
मनुष्ठितं पुनः ॥ १७८ ॥ तस्या मुखस्यातिमनोहरस्य
कर्तुं न शक्तः सदृशं प्रियायाः । अद्यापि शीतद्युतिरात्म-
बिम्बं निर्माय निर्माय पुनर्बिनत्ति ॥ १७९ ॥ अनेन रम्भोरु
तवाननेन पीयूषभानोस्तुलया धृतस्य । ऊनस्य नूनं परिपूर-
णाय ताराः स्फुरन्ति प्रतिमानखण्डाः ॥ १८० ॥ अस्या
मुखस्यास्तु न पूर्णिमास्य पूर्णस्य जित्वा महिमा हिमांशुम् ।
भ्रूलग्नखण्डं दधदर्थमिन्दुर्मलस्तृतीयः खलु यस्य भागः
॥ १८१ ॥ व्यधत्त धाता मुखपद्ममस्याः सम्राजमम्भोज-
कुलेऽखिलेऽपि । सरोजराजौ मृजतोऽदसीया नेत्राभिधेयावत
एव सेवाम् ॥ १८२ ॥ दीवारजन्यो रविसोमभीते चन्द्रा-
म्बुजे निक्षिपतः स्वलक्ष्मीम् । अस्या यदान्ये न तदा
तयोः श्रीरेकत्रियेत तु कदा न कान्तम् ॥ १८३ ॥ अस्या
मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रात् ।
अभ्यर्थ्य धत्त खलु पद्मचन्द्रौ विभूषणं याचितकं कदाचित्
॥ १८४ ॥ अस्या मुखेनैव विजित्य नित्यस्पर्धी मिलत्कुङ्कुम-
रोषभासा । प्रसद्य चन्द्रः खलु नह्यमानः स्यादेव तिष्ठ-
न्परिवेषपाशः ॥ १८५ ॥ विधोर्विधिर्बिम्बशतानि लोपं लोपं
कुहूरात्रिषु मासि मासि । अभूद्भूरिश्रीकममुं किमस्या मुखे-
न्दुमुत्थापयदेकमेवम् ॥ १८६ ॥ कपोलपत्रान्मकरात्सकेतु-
र्भ्रूभ्यां जिगीषुधनुषा जगन्ति । इहावलम्ब्यास्ति रतिं
मनोभूः रज्यद्वयस्यो मधुनाधरेण ॥ १८७ ॥ धिक्तस्य
मन्दमनसः कुकवेः कवित्वं यः स्त्रीमुखं च शशिनं च समं
करोति । भ्रूभङ्गविभ्रमकटाक्षनिरीक्षितानि कोपप्रसादहसि-
तानि कुतः शशाङ्के ॥ १८८ ॥ चन्द्रं कलङ्करहितं शफर-
द्वयं च निस्तोयमन्धतमसं च सुगन्धि तन्व्याः । वक्र-
च्छलेन भुवि सृष्टवतो विधातुर्वर्ण्येत केन करकौशलमद्भुतं तत्
॥ १८९ ॥ अस्यामपूर्वं इव कोऽपि कलङ्करिक्तश्चन्द्रोऽपरः
किमुत तन्मकरध्वजेन । रोमावलीगुणमिलत्कुचमन्दरेण
निर्मथ्य नाभिजलधौ श्रवमुद्धृतः स्यात् ॥ १९० ॥ लोके
कलङ्कमपहातुमयं शशाङ्को जातो यतस्तव मुखं तरलाय-
ताक्षि । तत्रापि कल्पयसि तन्वि कलङ्कलेखां नार्थं समा-
श्रितजनं हि कलङ्कयन्ति ॥ १९१ ॥ यन्मञ्जुसिञ्जित-
मितो रसनामणीनां यच्छाग्रसौरभवलादलयो वदन्ति ।
यद्गीतयः स्व्वलदंकृतयश्च लीला दोलाविलासतरलस्तदयं
मुखेन्दुः ॥ १९२ ॥ प्रविश झटिति गेहं मा बहिस्तिष्ठ
कान्ते ग्रहणमयवेला वर्तते शीतग्श्मेः । तव मुखमकलङ्कं
वीक्ष्य नूनं स राहुर्भ्रमति तव मुखेन्दुं पूर्णचन्द्रं विहाय
॥ १९३ ॥ यदम्रगर्तैः सिन्धोरन्तः कथंचिदुपार्जितं सकल-
१ मायकाल्पपर्यन्तम्
२ मुग्गत्वन् सुग्ममाम्यमित्यन
३ आदौ मवर्णो यस्य तस्य भावस्तत्ता पकारादे पङ्कजस्य मकारान्तस्य कथमित्यर्थं, पक्षे,-ब्राह्मणत्वम्
४ अन्ते जकारो यस्येतादृशस्य पङ्कनस्य, पक्षे,-अतिशूद्रम्य
५ चन्द्रेण, पक्षे,-ब्राह्मणश्रेष्ठेन
६ कृत उर्म्बेहाचि महो दण्डो यस्य
१ तुल्यम्
तरुणीपृथगवयववर्णनम् २६३
| मपि तद्गात्रा कान्तामुखे विनिवेशितम् । सुरसुमनस-<br>श्वासामोदे शशी च कपोलयोग्मृतमधरे तिर्यग्भूते विषं<br>च विलोचने ॥१९४॥ असावन्तश्चञ्चद्विकचनवलीलाब्ज-<br>युगलस्तलस्फूर्जत्कम्बुर्विलसदलिसंघात उपरि । विना दोषा-<br>सङ्गं सततपरिपूर्णाखिलकलः कुतः प्राप्तश्चन्द्रो विगलित-<br>कलङ्कः सुमुखि ते ॥ १९५ ॥ जगन्नेत्रानन्दं वदनमतुलं<br>पक्ष्मलदृशः कथंकारं पङ्केरुहमनुविधातु प्रभवति । अयं<br>छेदाकाङ्क्षी सहृ मदनकोदण्डलयता वराको राकेन्दु-<br>कुवलययुगं कि न वहति ॥ १९६ ॥ अनाकाशे चन्द्रः<br>सरसिजदलद्वन्द्वसहितो गृहीतः पश्चार्धे कुटिलकुटिलैः<br>सोऽपि तिमिरैः । सुधा मुञ्चत्युच्चैरशनिमथ संमोहनजनीं<br>किमुत्यातालीयं वदत जगतः कर्तुरुदिता ॥ १९७ ॥ सुधा-<br>बद्ब्यासैरुपवनचकोरैरनुसुता किरं¹श्चोत्स्नामच्छां नवलेवलि²-<br>पाकप्र³णयिनीम् । उपप्राकाराय प्रै⁴हिणु नयने तर्कय मै⁵नाग-<br>नाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥ १९८ ॥ विना<br>सायं कोऽयं समुदयति सौरभ्यसुभगः किरञ्ज्योत्स्नाधारा-<br>मधिधरणि तारापरिवृढः । धनुर्धत्ते स्मारं तिरयति विहारं<br>न तमसा निरातः पङ्केरुहयुगलमङ्गे नटयति ॥ १९९ ॥<br>अनुच्छिष्टो देवैरपरिदलितो राहुदशनैः कलङ्केनास्पृष्टो न<br>खलु परिभूतो दिनकृता । कुहूभिर्नो लुप्तो न च युवति-<br>वक्रेण विजितः कलानाथः कोऽय कनकनलिकायामुदयते<br>॥ २०० ॥ सितज्योत्स्नागङ्गा तपनतनया श्यामलरुचिः<br>सरस्वत्योष्ठाभारुणकिरणसौन्दर्यजयिनी । इमास्तिस्रस्तीर्था-<br>धिप इव मुखे सुभ्रु मिलितास्तवैदं सेवन्को न लभत इहा-<br>नन्दलहरीम् ॥ २०१ ॥ कोषः स्फीततरः स्थितानि परितः<br>पत्राणि दुर्गे जलं मैत्रं मण्डलमूज्ज्वलं चिरमयो नीता-<br>स्तथा कण्टकाः । इत्याकृष्टशिलीमुखेन रचना कृत्वा तद-<br>प्युद्धतं यत्पद्मेन जिगीषुणापि न जितं मुग्धे त्वदीयं मुखम्<br>॥ २०२ ॥ आरब्धे दयितामुखप्रतिसमे निर्मातुमस्मिन्नपि<br>व्यक्तं जन्मसमानमेव मिलितामंशुच्छटा वर्षति । आत्म-<br>द्रोहिणि रोहिणीपरिवृढे पर्यङ्कपङ्केरुहः संकोचादथ दु स्थितस्य<br>न विधेस्तच्छीलमुन्मीलितम् ॥ २०३ ॥ तानि प्राग्वि<br>दिनानि यत्र रजनी सेहे तमिस्रापदं सा सृष्टिर्विरराम यत्र<br>भवति ज्योत्स्नामयो नातपः । अद्यान्यः समयस्तथा हि तिथ-<br>योऽप्यस्या मुखस्योदये हस्ताहस्तिकया हरन्ति परितो<br>राकावराकीयशः ॥ २०४ ॥ अज्ञातेंदुपराभवं परिलस-<br>द्बालेलनेत्राञ्जनं भ्रान्तभ्रूलतमैनाभितिलकं श्रीखण्डपत्राल्-<br>कम् । बन्धूकाधरसुन्दरं सुरमुनिन्यामोहि वाक्यामृतं<br>त्रैलोक्याद्भुतपङ्कजं वरतनोरास्यं न कस्य प्रियम् ॥ २०५ ॥ | चातुर्यैरेकचिह फलममलगिरा मूलमुत्तापशान्तेः पद्माद्याः<br>सप्रसादं स्थलमपि च रुचा कोशभूतं फलानाम् । शृङ्गार-<br>ख्यातिमानं शरदमृतकरस्पर्धि सौभाग्यसिन्धोरास्यं तस्याः<br>सहासं मनसि न मृदुले कस्य लास्र तनोति ॥ २०६ ॥<br>स्मितम्<br>कामबाणप्रहारेण मूर्च्छितानि पदे पदे । जीवन्ति<br>युवचेतांसि युवतीनां स्मितामृतैः ॥ २०७॥ स्मयमान-<br>मायताक्ष्या किंचिदमिव्यक्तदशनशोभि मुखम् । अममग्र-<br>लक्ष्यकेसरमुच्छ्रसदिव पङ्कजं दृष्टम् ॥ २०८ ॥ धवलीकरोति<br>हरितो मलिनीकुरुते मन सपत्नीनाम् । अस्या हास्यविकासी<br>मम तु मनो रक्तमाचरति ॥ २०९ ॥ यदि प्रसादीकुरुते<br>सुधाशोरेषा सहस्राशमपि स्मितस्य । तत्कौमुदीना कुरुते<br>तमेव निमित्त्यै¹ देव सफलं स्वजन्म ॥ २१० ॥<br>कण्ठः<br>कण्ठस्य विदधे कान्ति मुक्ताभरणता यश्च । नास्या<br>स्वभावरम्यस्य मुक्ताभरणता तथा ॥ २११ ॥ असा-<br>वुद्वेल्ललावण्यरकावरसमुद्भव । जगद्विजयमाङ्गल्यशङ्क<br>कुसुमधन्वन ॥ २१२ ॥ श्रोत्रपीयूषगण्डूषै काकलीकल-<br>गीतिभि । कण्ठ कुण्ठितचातुर्यो विपञ्चीपञ्चमध्वनेः<br>॥ २१३ ॥ अयं त्रयाणा ग्रामाणा विधानं मधुरध्वनिः ।<br>रेखात्रयमितीवाख्या सूत्रितं कण्ठकन्दले ॥ २१४ ॥<br>कण्ठस्य तस्या स्तनबन्धुरस्य मुक्ताकलापस्य च निस्त-<br>लस्य । अन्योन्यशोभाजननादभूव साधारणो भूषणभूष्य-<br>भावः ॥ २१५ ॥ कवित्वगानप्रियवादसत्यान्यस्या विधाता<br>न्यधिताधिकण्ठम् । रेखात्रयन्यासमिषादमीषा वासाय सोऽयं<br>विबभाज सीमाः ॥ २१६ ॥ मुत्कोत्कर सकटशुक्तिमध्या-<br>द्विनिर्गतः सारसलोचनाया । जानीमहेऽस्या कमनीय-<br>कम्बुग्रीवाधिवासाद्गुणवत्त्वमाप ॥ २१७ ॥<br>वाणी<br>अमृतद्रवमाधुरीधुरीणा गिरमाकर्ण्य कुरङ्कलोचनायाः ।<br>मुहुरभ्यसन कषायकण्ठी कलकण्ठी कुरुते कुहूरुतेन<br>॥ २१८ ॥ स्वरेण तस्याममृतसुतेव प्रजल्पितायामभिजात-<br>वाचि । अप्यन्यपुष्टा प्रतिकूलशब्दा श्रोतुर्वितन्त्रीरिव<br>ताड्यमाना ॥२१९॥ शिरीषकोषादपि कोमलाया वेधा विधा-<br>याङ्गमशेषमस्याः । प्राप्तप्रकर्षः सुकुमारसर्गे समापयद्वाचि मृदु-<br>त्वमुद्राम् ॥२२०॥ प्रसूनबाणाङ्गयवादिनी सा कापि द्विजे-<br>नोपनिषत्तिकेन । अस्याः किमास्यद्विजराजतो वा नाधीयते<br>मैक्षभुजा तरुण्य ॥२२१॥ पद्माङ्कसङ्गानमवेक्ष्य लक्ष्मीमेकस्य<br>विष्णो श्रयणात्सपत्नीम् । आसेन्दुमस्र्या भजते जिताब्जं<br>सरस्वती तद्विजिगीषया किम् ॥२२२॥ कण्ठे वसन्ती चतुरा |
१ प्रसारयन् २ लताविशेष ३ सदृशीम् ४ प्रेरय ५ ईषत्
१ प्रक्षिप्य
२६४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
यद्वक्षाः सरखती वाद्यते विपञ्चीम् । तदेव वाग्भूय मुखे मृगाक्ष्याः श्रोतुः श्रुतौ याति सुधारसत्वम् ॥ २२३ ॥ बाहू दयिताबाहुपाशस्य कुतोऽयमपरो विधिः । जीवयत्यर्पितः कण्ठे मारयत्यपवर्जितः ॥ २२४ ॥ शब्दवद्भिरलङ्कारैरु- पेतमतिकोमलम् । सुवृत्तं काव्यबद्रेजे तद्द्वाहुलतिकाद्वयम् ॥ २२५ ॥ सरले एव दोर्लेखे यदि चञ्चलचक्षुषः । अमुग्धाभ्यो मृणालीभ्यः कथमाजहुतुः श्रियम् ॥ २२६ ॥ बाहू तस्याः कुचाभोगनिरुद्धान्योन्यदर्शनौ । मञ्चितं कथ- मेताभ्या मृणालीकीर्तिलुण्ठनम् ॥ २२७ ॥ बाहू प्रियाया जयता मृणालं द्वन्द्वे जयो नाम न विस्मयोऽस्मिन् । उच्चैस्तु तच्चित्रममुष्य मध्यमालोक्यते निर्व्यथनं यदन्तः ॥ २२८ ॥ अजीयतावर्त्तशुभंयु नाभ्या दोर्भ्यां मृणालं किमु कोमला- भ्याम् । निःसूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमग्नम् ॥ २२९ ॥ करौ कुसुमायुधकोदण्डे हस्तौ विस्तीर्णचक्षुष । अशोकपल्ल- वास्त्राणा प्रतिहस्तत्वमागतौ ॥ २३० ॥ नाह धार्यमधीराक्षि मुखेन्दो समुखं त्वया । इतीव लीलापद्मेन करेऽस्याः कान्तिरर्पिता ॥ २३१ ॥ स्पृष्टस्त्वयैव दयिते स्मरपूजा- व्यापृतेन हस्तेन । उद्भिन्नापरमृदुतरकिसलय इव लक्ष्यते- ऽशोकः ॥ २३२ ॥ अस्याः करस्पर्शनगर्धनैर्निर्मलत्व- मापत्वलु पल्लवो यः । भूयोऽपि नामाधरसाम्यगर्वं कुर्वन्कथं वास्तु न स प्रवालः ॥ २३३ ॥ अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः । इत्याह धाता हरिणेक्षणाया कि हस्तलेखीकृतया तया स्वाम् ॥२३४॥ मुग्धे प्रतारयसि कि कुसुमानि हर्तुमेतान्यशोकविटपस्य कुतूहलेन । अस्यैव तन्वि नवपल्लवडम्बरेषु त्वं हारयिष्यसि ननु स्वयमेव पाणी २३५ कङ्कणम् गौराङ्ग्या भुजलावण्यमीलितं हेमकङ्कणम् । कण्ठाश्लेषे वयस्याभिः काठिन्यादन्वमीयत ॥ २३६ ॥ प्रकोष्ठबन्धे बिम्बोष्ठ्यास्तस्याः काञ्चनकङ्कणम् । नालं वलयितं हस्ते हेमाब्जसेव राजते ॥ २३७ ॥ सौवर्णकङ्कणश्रेण्या भाति तद्बाहुकन्दली । तूणचम्पकमौर्व्येव पुष्पचापेन वेष्टिता ॥ २३८ ॥ सहेमकटकं धत्ते सा कर पद्मत्सकरम् । पद्मिनीवल्लभस्येव मूले वेष्टितमंशुना ॥ २३९ ॥ हस्ते चकास्ति बालायास्तस्याः कङ्कणमालिका । मन कुरङ्गबन्धाय पाशालीय मनोभुवः ॥ २४० ॥ कृशाङ्ग्याः कुचभारेण दूरमुत्सारितौ भुजौ । वहतः कलहायेव वाचाला वलया- वलिम् ॥ २४१ ॥ न्यस्तानि दन्तवलयानि करे कदा- चित्तानीन्दुकण्डघटितानि ममैष तर्कः । अस्या निसर्गमृदु- पाणिसरोजमेषामामोचने झटिति यन्मुकुलीबभूव ॥ २४२ ॥ हस्तरेखा आयुरेखां चकारास्याः करे द्राघीयसी विधिः । शौण्डीर्य- गर्वैर्निर्वाहप्रत्याशा च मनोभुवः ॥ २४३ ॥ अङ्गुल्यः सुदीर्घा रागशालिन्यो बहुपर्वमनोहराः । तस्या विरेजुर- ङ्गुल्यः कामिना सकथा इव ॥ २४४ ॥ रज्यन्नखसाङ्गुलि- पञ्चकस्य मिषादसौ हैङ्गुलपद्मारातृणे । हैमैकपुङ्खास्ति विशुद्धपर्वा प्रियाकरे पञ्चशरी खरस्य ॥ २४५ ॥ मुद्रिका अङ्गुलीषु कुरङ्गाक्ष्याः शोभते मुद्रिकावलिः । प्रोतेव बाणैः पुष्पेषोः सूक्ष्मलक्ष्यपरम्परा ॥ २४६ ॥ स्तनौ मृद्वङ्गि कठिनौ तन्वि पीनौ सुमुखि दुर्मुखौ । अत एव बहिर्यातौ हृदयात्ते पयोधरौ ॥ २४७॥ तन्वङ्ग्या स्तन- युग्मेन मुख न प्रकटीकृतम् । हाराय गुणिने स्थानं न दत्तमिति लज्जया ॥ २४८ ॥ यन्न माति तदङ्गेषु लावण्य- मतिसम्भृतम् । पिण्डीकृतमुरोदेशे तत्पयोधरता गतम् ॥२४९॥ स्वयंभूः शभुरम्भोजलोचने त्वत्पयोधरः । नखेन कस्य धन्यस्य चन्द्रचूड़ो भविष्यति ॥ २५० ॥ अविवेकि कुचद्वन्द्व हन्तु नाम जगत्त्रयम् । श्रुतिप्रणयिनोरक्षणोर्युक्तं जनमार- णम् ॥ २५१ ॥ प्रायश्चित्तं न गृहीतस्तन्वङ्ग्याः पतितौ स्तनौ । अत एव तयो स्पर्श लोकोऽयं शिथिलादरः ॥ २५२॥ पयोधरघनीभावस्तावदम्बरमध्यगः । आश्लेषोपगमस्तत्र याव- न्नैव प्रवर्तते ॥ २५३ ॥ माति निर्विवरे तस्याश्चित्रं कुच- युगान्तरे । क्रीडाकुण्डलितोचण्डकोदण्डः कुसुमायुधः ॥ २५४ ॥ कुचद्वये चकोराक्षी चिम्बुकप्रान्तचुम्बिनी । मर्मोक्तिषु न शक्नोति स्थातु लज्जानतानना ॥ २५५ ॥ शङ्के तच्चित्तमक्लेशसाध्यं कुसुमधन्वनः । काठिन्यं बहिरेवास्याः स्तनाभ्या येन धारितम् ॥ २५६ ॥ सा स्तनाञ्जलिबन्धेन मन्मथं प्रथमागतम् । करोतीवोन्मुखं बाला बान्धवं यौवन- श्रियः ॥ २५७ ॥ अस्त्यप्रतिसमाधेयं स्तनद्वन्द्वस्य दूषणम् । स्फुटता कञ्चुकाना यन्नायातयावरणीयताम् ॥ २५८ ॥ कुम्भौ सद्दम्भौ करिणा कलशौ मन्दकौशलौ । चक्रवाकौ वराकौ च तदीयकुचयोः परः ॥ २५९ ॥ मुखेन्दुचन्द्रिकापूरप्लाव्य- मानौ पुन. पुन. । शीतभीताविवान्योन्यं तस्याः पीड्यत. स्तनौ ॥ २६० ॥ तत्कुचौ चरतः किंचिन्नूने मनसिजव्रतम् । नित्योन्मुखौ यदासाते मौलीरत्नस भास्वतः ॥ २६१ ॥ सा धारयत्यधीराक्षी दुर्वह स्तनमण्डलम् । गर्वपर्वतमारूढ- श्रित्रं कुसुमकार्मुकः ॥ २६२ ॥ तस्यास्तुङ्गस्तनच्छाया
१ व्यक्त १ विशेषदर्शनरहितम्, पक्षे,-विंशषशून्यम् परस्पर सश्लिष्टत्वात् २ वेद, पक्षे,-कर्णे ३ पापनिकृतिम्, पक्षे,-प्रायो बाहुल्येन चित्त स्वान्तम् ४ पातकिनौ, पक्षे,-गलितौ ५ पयोवराणा मेघाना घनीभाव प्राचुर्यम् ६ आकाशमध्यवती च ७ आश्लेषानक्षत्रस्योदय ; पक्षे,-सुगमस्
तरुणीपृथगवयववर्णनम् — २६५
चकास्ति त्रिवलीतटे । लीना तिमिरलेखेव वदनेन्दोरगोचरे ॥ २६३ ॥
स्वकीयं हृदय भित्त्वा निर्गतौ यौ पयोधरौ । हृदयस्यान्यदीयस्य भेदने का कृपा तयोः ॥ २६४ ॥
अल्पनिर्मितमाकाशमनालोच्यैव वेधसा । इदमेवंविधं भावि भवत्याः स्तनमण्डलम् ॥ २६५ ॥
उच्छ्वसन्मण्डलप्रान्तरेख- माबद्धकुङ्कलम् । अपर्याससुरो वृद्धेः शंसत्यस्याः स्तनद्वयम् ॥ २६६ ॥
मध्येन तनुमध्या मे मध्यं जितवतीत्ययम् । इभकुम्भौ भिनत्त्यस्याः कुचकुम्भनिभौ हरिः ॥ २६७ ॥
पटविघटितमपि कुचतटमकपटमनसः कुरङ्गनयनायाः । मणिभवमयूखपटलीपटीलीनतया न सम्यगालोचि ॥ २६८ ॥
प्रतिपक्षो यदि वक्षोरुहपरिणाहः कुरङ्गनयनायाः । आकाशवासतपसः श्रीफल विफलस्तवायामः ॥ २६९ ॥
चञ्चत्काञ्चन-शैलावस्या वक्षोरुहौ तन्व्याः । नो चेत्तावधिरूढा कथमनिमिषता भजेत मे दृष्टिः ॥ २७० ॥
करतलयुगपरिणद्धे कुचकलशे कुङ्कुमारुणे तस्याः । सिन्दूरिते करिपतेः कुम्भे नक्षत्रमालेव ॥ २७१ ॥
काठिन्यमङ्गै रखिलैर्निरस्तं कुचौ युवत्याः शरण जगाम । अधः पतिष्याव इतीव भीत्या न शङ्कतस्तावपि हातुमेतत् ॥ २७२ ॥
दिवानिशं वारिणि कण्ठदध्ने दिवौकरा रा-धनमाचरन्ती । वक्षोजताश्ये किमु पक्ष्मलाक्ष्यास्तपश्चरत्यम्बुज-पङ्किरेषा ॥ २७३ ॥
अन्योन्यमुत्पीडयदुत्पलाक्ष्याः स्तन- द्वयं पाण्डु तथा प्रवृद्धम् । मध्ये यथा श्याममुखस्य तस्य मृणालसूत्रान्तरमप्यलभ्यम् ॥ २७४ ॥
किं नर्मदाया मम सेयमस्या दृश्यामतो बाहुल तामृणाली । कुचौ किमुत्तस्थतु-रन्तरीपे खारोश्मशुष्कोत्तरवाल्यवारः ॥ २७५ ॥
ताल प्रभु स्यादनुकर्तुमेतावुत्थानसुस्थौ पतितं न तावत् । परं च नाश्रित्य तरु महान्तं कुचौ कृशाङ्ग्याः स्वत एव तुङ्गौ ॥ २७६ ॥
एतत्कुचस्यार्धेतया घटस्य स्यातस्य शास्त्रेषु निदर्शनत्वम् । तस्माच्च शिल्पान्मशिकादिकारी प्रसिद्धनामा-जनि कुम्भकारः ॥ २७७ ॥
निःशङ्क सङ्कोचितपङ्कजोऽय-मस्यामुदीतो मुखमिन्दुबिम्बः । चित्रं तथापि स्तनकोक-युग्मं न स्तोकमप्यञ्चति विप्रयोगम् ॥ २७८ ॥
आभ्यां कुचाभ्यामिभकुम्भयोः श्रीरादीयतेऽसावनयोः क ताभ्याम् । मयेन गोपायितमौक्तिकौ तौ प्रव्यक्तमुक्ताभरणाविमौ यत् ॥ २७९ ॥
कराग्रजाग्रत्क्षतकोटितीर्थी ययोरिमौ तौ तुल-येत्कुचौ चेत् । सर्वे तदा श्रीफलमुन्मदिष्ण जातां वैटीम्-प्यधुना न लुब्धम् ॥ २८० ॥
मध्यं तनूकृत्य यदीदमीयं वेधा न दध्यात्कमनीयमंशम् । केन स्तनौ संप्रति यौव-नेऽस्याः सृजेदनन्यप्रतिमाङ्कयष्टेः ॥ २८१ ॥
तवोप कण्ठ-स्थिततारदारस्फुरदाम्रशैवलिनीजलेषु । लीनो मनोजद्विप एव तस्य व्यक्तौ न गण्डौ किमु रोजपिण्डौ ॥ २८२ ॥
सता समालोकयता विवेकान्हवीषि हुत्वा स्मरवाणवह्रौ । धत्ते स्तन श्यामशिरोमिषेण तनूदरी त्र्यायुष भस्मबिन्दुम् ॥ २८३ ॥
नयननीरज किं भवता कृत मुखशशी यदय रिपुराश्रितः । इति वचो वितरीतुमिवोन्मुख वरतनो स्तन-चक्रयुगं बभौ ॥ २८४ ॥
बदरामलकाम्रादिदाडिमानामपहृत्य श्रियमुन्नतौ क्रमेण । अधुना हरणे कुचौ यतेते दयिते ते करिशावककुम्बलक्ष्म्याः ॥ २८५ ॥
कनकक्रमुकयित पुर-स्तादथ पङ्केरुहकोरकायमानम् । क्रमशः कलशायमान-मास्ते सुदृशो वक्षसि कस्य भागधेयम् ॥ २८६ ॥
अपि तद्वपुषि प्रसर्पतांगोर्मिणा कान्तिझरेरगाधताम् । स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ॥ २८७ ॥
कलशे निजहेतुदण्डजं किमु चक्रभ्रमिकारिता गुणः । स तदुच्च-कुचौ भवन्प्रभाझरचक्रभ्रमिमातनोति यत् ॥ २८८ ॥
जम्बीरश्रियमतिलङ्घय लीलयैव व्यानश्रीकृतकमनीयहे-मकुम्भौ । नीलाम्भोरुहनयनेऽधुना कुचौ ते स्पर्धेते किल कनकाचलेन सार्धम् ॥ २८९ ॥
शुकीचञ्चूत्वात्तच्छवि फलयुगं यौवनतरोरयः शङ्कुक्षुण्ण मदनकरिणः कुम्भयुगलम् । समुद्रं भोगायामृतकलशयुग्मं सुकृतिनः कुचद्वन्द्वं तन्व्या नवनखपदाङ्कं विजयते ॥ २९० ॥
कुचावस्या काम-द्विपकलभकुम्भाविति परे वदन्त्यन्ये वक्षःसरसि कमले काञ्चनघटौ । ममायं सिद्धान्तः स्फुरति मदनेन त्रि-जगत विनिर्जित्य न्युब्जीकृतमिव निजं दुन्दुभियुगम् ॥ २९१ ॥
जम्बीरं वा कमलमुकुलं हेमगुच्छं यथेच्छं माङ्गल्यं वा कलयतु जनो भूपतेर्मन्मथस्य । एतद्द्वन्द्वं कलयति मतिर्मामकीना नवीना केनाप्यस्या हृदि विनि-हित मन्मथानन्दकन्दम् ॥ २९२ ॥
पुष्पेषोरभिषेकहेमक-लशौ हारप्रभावाहिनीचक्राह्वौ मदनोन्मद्द्विपपतेः कुम्भौ रतेः कन्दुकौ । कन्दौ बाहुमृणालिकायुगलयोर्लीलालतास-त्फले नव्यौ रत्नसमुद्गकौ वहति सा लावण्यपूर्णौ स्तनौ ॥ २९३ ॥
यूना मोहमहाफलप्रसविनीं नाभ्यालवालो-त्थिता सेक्तुं रोमलतो मुखामृतनिर्धर्लावण्यानामृतम् । नेष्यन्सारणिका विभज्य कृतवान्कूटद्वयं पार्श्वयो पक्षेषु-स्तदिदं पयोधरयुगं लोका. समाचक्षते ॥ २९४ ॥
उद्भिन्नां किमिदं मनोभवनृपकीडारविन्दद्वयं सूते तत्कथ-मेकत किल लसद्रोमावलीनालत । चक्रद्वन्द्वमिदं क्षमं तदपि न स्थातुं मुखेन्दो पुरो लावण्याम्बुनि
१ कण्ठप्रमाणे २ सूर्याराधनम् ३ लावण्यलेश कपर्दिका च
३४ सु. र. भा.
१ चक्रवाकौ २ संपुटौ ३ पर्वतशिखरम्